अष्टाङ्गसंग्रहः निदानस्थानम् अध्याय ६-१०

विकिस्रोतः तः

अष्टाङ्गसंग्रहः

अथ षष्ठोऽध्यायः।

अस6.1
अथातो मदात्ययनिदानं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस6.2
तीक्ष्णोक्ष्णरूक्षसूक्ष्माम्लं व्यवाय्याशुकरं लघु।
विकाशि विशदं मद्यमोजसोऽस्माद्विपर्ययः॥

अस6.3
तीक्ष्णादयो विषेऽप्युक्ताश्चित्तोपप्लाविनो गुणाः।
जीवितान्ताय जायन्ते विषे तूत्कर्षवृत्तितः॥

अस6.4
तीक्ष्णादिभिर्गुणैर्मद्यं मन्दादीनोजसो गुणान्।
दशभिर्दश सङ्क्षोभ्य चेतो नयति विक्रियाम्॥

अस6.5
आद्ये मदे द्वितीये तु प्रमादायतने स्थितः।
दुर्विकल्पहतो मूढः सुखमित्यवबुध्यते॥

अस6.6
मध्यमोत्तमयोः सन्धिं प्राप्य राजसतामसः।
निरङ्कुश इव व्यालो न किञ्चिन्नाचरेज्जडः॥

अस6.7
इयं भूमिरवद्यानां दौश्शील्यस्येदमास्पदम्।
एकोऽयं बहुमार्गाया दुर्गतेर्देशिकः परम्॥

अस6.8
निश्चेष्टः शववच्छेते तृतीये तु मदे स्थितः।
मरणादपि पापात्मा गतः पापतरां दशाम्॥

अस6.9
धर्माधर्मं सुखं दुःखमर्थानर्थ हिताहितम्।
यदासक्तो न जानाति कथं तच्छीलयेद्बुधः॥

अस6.10
मद्ये मोहो भयं शोकः क्रोधो मृत्युश्च संश्रिताः।
सोन्मादमदमूर्च्छायाः सापस्मारापतानकाः॥

अस6.11
यत्रैकः स्मृतिविभ्रंशस्तत्र सर्वमसाधु यत्।
अयुक्तियुक्तमन्नं हि व्याधये मरणाय वा।
मद्यं त्रिवर्गधीधैर्यलज्जादेरपि नाशनम्॥

अस6.12
नातिमाद्यन्ति बलिनः कृताहारा महाशनाः।
स्निग्धाः सत्ववयोयुक्ता मद्यनित्यास्तदन्वयाः।
मेदःकफाधिका मन्दवातपित्ता दृढाग्नयः॥

अस6.13
विपर्ययेऽतिमाद्यन्ति विस्रब्धाः कुपिताश्च ये।
मद्येन चाम्लरूक्षेण साजीर्णे बहुनाति च॥

अस6.14
वातात् पित्तात् कफात् सर्वैश्चत्वारः स्युर्मदात्ययाः।
सर्वेऽपि सर्वैर्जायन्ते व्यपदेशस्तु भूयसा॥

अस6.15
सामान्यं लक्षणं तेषां प्रमोहो हृदयव्यथा।
विड्भेदः सततं तृष्णा सौम्याग्नेयो ज्वरोऽरुचिः॥

अस6.16
शिरःपार्श्वास्थिरुक्कम्पो मर्मभेदस्त्रिकग्रहः।
उरोविबन्धस्तिमिरं कासश्वासप्रजागराः॥

अस6.17
स्वेदोऽतिमात्रं विष्टम्भः श्वयथुश्चित्तविभ्रमः।
प्रलापश्छर्दिरुत्क्लेशो भ्रमो दुःस्वप्नदर्शनम्॥

अस6.18
विशेषाज्जागरश्वासकम्पमूर्धरुजोऽनिलात्।
स्वप्ने भ्रमत्युत्पतति प्रेतैश्च सह भाषते॥

अस6.19
पित्ताद्दाहज्वरस्वेदमोहातीसारतृड्भ्रमाः।
देहो हरितहारिद्रो रक्तनेत्रकपोलता।
श्लेष्मणा छर्दिहृल्लासनिद्रोदर्दाङ्गगौरवम्॥

अस6.20
सर्वजे सर्वलिङ्गत्वम् मुक्त्वा मद्यं पिबेत्तु यः।
सहसानुचितं चान्यत्तस्य ध्वंसकविक्षयौ॥

अस6.21
भवेतां मारुतात् कष्टौ दुर्बलस्य विशेषतः।
ध्वंसके श्लेष्मनिष्ठीवः कण्ठशोषोऽतिनिद्रता॥

अस6.22
शब्दासहत्वं तन्द्रा च विक्षयेऽङ्गशिरोऽतिरुक्।
हृत्कण्ठरोधः सम्मोहः कासस्तृष्णा वमिर्ज्वरः॥

अस6.23
निवृत्तो यस्तु मद्येभ्यो जितात्मा बुद्धिपूर्वकृत्।
विकारैः स्पूश्यते जातु न स शारीरमानसैः॥

अस6.24
रजोमोहाहिताहारपरस्य स्युस्त्रयो गदाः।
रसासृक्चेतनावाहिस्रोतोरोधसमुद्भवाः।
मदमूर्च्छायसन्यासा यथोत्तरबलोत्तराः॥

अस6.25
मदोऽत्र दोषैः सर्वैश्च रक्तमद्यविषैरपि।
सक्तानल्पद्रुताभाषश्चलस्खलितचेष्टितः॥

अस6.26
रूक्षश्यावारुणतनुर्मदे वातोद्भवे भवेत्।
पित्तेन क्रोधनो रक्तपीताभः कलहप्रियः॥

अस6.27
स्वल्पसम्बद्धवाक् पाण्डुः कफाद् ध्यानपरोऽलसः।
सर्वात्मा सन्निपातेन रक्तात् स्तब्धाङ्गदृष्टिता॥

अस6.28
पित्तलिङ्गं च मद्येन विकृतेहास्वराङ्गता।
विषात्कम्पोऽतिनिद्रा च सर्वेभ्योऽभ्यधिकश्च सः।
लक्षयेल्लक्षणोत्कर्षाद्वातादीन् शोणितादिषु॥

अस6.29
अरुणं नीलकृष्णं वा खं पश्यन् प्रविशेत्तमः।
शीघ्रं च प्रतिबुध्येत हृत्पीडा वेपथुर्भ्रमः॥

अस6.30
कार्श्यं श्यावारुणा छाया मूर्च्छाये मारुतात्मके।
पित्तेन रक्तं पीतं वा नभः पश्यन् विशेत्तमः॥

अस6.31
विबुध्येत च सस्वेदो दाहतृट्तापपीडितः।
भिन्नविण्नीलपीताभो रक्तपीताकुलेक्षणः॥

अस6.32
कफेन मेघसङ्क्शाशं पश्यन्नाकाशमाविशेत्।
तमश्चिराच्च बुध्येत सहृल्लासप्रसेकवान्॥

अस6.33
गुरुभिः स्तमितैरङ्गैरार्द्रचर्मावनद्धवत्।
सर्वाकृतिस्त्रिभिर्दोषैरपस्मार इवापरः॥
पातयत्याशु निश्चेष्टं विना बीभत्सचेष्टितैः॥

अस6.34
दोषेषु मदमूर्च्छायाः कृतवेगेषु देहिनाम्।
स्वयमेवोपशाम्यन्ति सन्न्यासो नौषधैर्विना॥

अस6.35
वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः।
सन्न्यासं सन्निपतिताः प्राणायतनसंश्रयाः॥

अस6.36
कुर्वन्ति तेन पुरुषः काष्ठभूतो मृतोपमः।
म्रियेत शीघ्रं शीघ्रं चेच्चिकित्सा न प्रयुज्यते॥

अस6.37
अगाधे ग्राहबहुले सलिलौघ इवातटे।
सन्न्यासे विनिमज्जन्तं नरमाशु निवर्तयेत्॥

अस6.38
मदमानरोषतोषप्रभृतिभिररिभिर्निजैः परिष्वङ्गः।
युक्तायुक्तं च समं युक्तिवियुक्तेन मद्येन॥

अस6.39
बलकालदेशसात्म्यप्रकृतिसहायामयवयांसि।
प्रविभज्य तदनुरूपं यदि पिबति ततः पिबत्यमृतम्॥
इति षष्ठोऽध्यायः॥

अथ सप्तमोऽध्यायः।

अस7.1
अथातोऽर्शसां निदानं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस7.2
अरिवद्विशसन्तीत्यर्शांसि तानि पुनर्बहुप्रकाराणि सुबहूपद्रवाणि च पायुमेढ्रादिसंश्रया मांसकीलाः।
समासतस्तु द्विविधान्यर्शांसि सहजानि जन्मोत्तरकालजानि च।
पुनश्च द्विविधानि शुष्काण्यार्द्राणि च।
सर्वेषां पुनरधिष्टानं मेदो मांसं त्वक् च।
स्थूलान्त्रप्रतिबद्धोऽर्धपञ्चाङ्गुलो हि गुदः।
तस्मिन् पूर्व मुक्ता वलीसंज्ञास्तिस्रः पेश्योऽध्यर्धाङ्गुलाः।
ताः प्रवाहिणी विसर्जनी संवरणी च।
रोमान्तादध्यर्धयवं गुदौष्ठमाहुः।
प्रथमा तु गुदौष्ठादङ्गुलमात्रो॥

अस7.3
तत्र सहजानां गुदवलीबीजोपतप्तिरायतनम्।
तस्या द्विविधो हेतुः मातापित्रोरपचारो दैवं च।
ताभ्यां सन्निपातप्रकोपः।
तस्मात्तान्यसाध्यानि।
एतेन कुलजाः सर्वे विकारा व्याख्याताः॥

अस7.4
विशेषतस्तु सहजानि दुर्दर्शनपरुषपाण्डूपचितदारुणान्यन्तर्मुखानि बहूपद्रवोपद्रुतानि भवति॥

अस7.5
अथेतराणि षड्विधानि पृथग्दोषैः संसृष्टैः सन्निपतितैः शोणितेन च।
तत्र वातश्लेष्मोत्तराणि शुष्काणि रक्तपित्तोत्तराण्यार्द्राणि॥

अस7.6
दोषप्रकोपहेतुस्तु प्रागुक्तः।
स यदा मलोपचयमादधाति पुनश्चोत्कटकविषमकठिनासनसेवनादुद्भ्रान्तयानोष्ट्रादिप्रयाणादतिव्यवायद्बास्तिनेत्रासम्यक्प्रणिधानादिना गुदक्षणनादभीक्ष्णं शीताम्बुसंस्पर्शाच्चैललोष्टतृणादिसङ्घर्षात् प्रततातिप्रवाहणाद्वातमूत्रपुरीषवेगोदीरणधारणात् स्त्रीणां चमगर्भभ्रंशाद्गर्भोत्पीडनाद्विषमप्रसूतेरेवंविधश्चापरः कुपितो वायुरपानस्तं मलमुपचितमधोगतमासाद्य गुदवलीष्वाधत्ते।
ततस्तास्वभिष्यण्णास्वर्शांसि सम्भवन्ति॥

अस7.7
तेषां पूर्वरूपाणि कृच्छ्रात् पक्तिरान्त्रकूजनमुद्गारबाहुल्यमम्लकोऽन्नाश्रद्धाविष्टम्भोश्मगर्भाभनाभित्वमाटोपोऽधस्तात् कृच्छ्रेण सशब्दस्य च वायोः प्रवृत्तिर्बहुमूत्रत्वमल्पपुरीषता गुदपरिकर्तनं सक्थिरदनमक्ष्णोः श्वयथुरविमलेन्द्रियत्वमालस्यं तन्द्रा कार्श्यं दौर्बल्यमाशङ्का ग्रहणीदोषशोफोदरपाण्डुरोगगुल्मेषु।
जातेषु चैतानि लिङ्गानि प्रव्यक्ततराणि भवन्ति॥

अस7.8
तैः खल्वधोमार्गोपरोधाद्वायुरपानो निवर्तमानः समानव्यानोदानप्राणान् पित्तश्लेष्माणौ च प्रकोपयन्नन लमुपमृद्नाति॥

अस7.9
अथ सर्व एवार्शसो भवत्यतिकृशो विवर्णः क्षामो दीनः प्रचुरविबद्धवातमूत्रपुरीषोऽश्मरीशर्करावाननियतविबद्धमुक्तामपक्वभिन्नशुष्कवर्चास्तथान्तराश्वेतपाण्डुहरितपीतरक्तारुणतनुसान्द्रीपच्छिलोपवेशी नाभिवङ्क्षणोद्देशप्रचुरपरिकर्तिकान्वितः सगुदशूलप्रवाहिकाप्रहर्षप्रमोहोऽल्पशुक्रप्रजोऽल्पभुक् सिरासन्ततगात्रः क्रोधनो दुरुपचारः क्रोधनो दुरुपचारः कासश्वासपीनसतृष्णारोचकपाणिपादवदनाक्षिकूटश्चयथुक्षवथुवेपथुवमथुपरीतस्तैमिरिकः शिरःशूली क्षामभिन्नस्वरः कर्णरोगी सज्वरः साङ्गमर्दः सर्वपर्वास्थिशूलोऽन्तरान्तरा हृदयकुक्षिपार्श्वपृष्ठबस्तित्रिकग्रहोपतप्तः प्रध्यानपरः परमलसश्च॥

अस7.10
तत्र वातोल्बणानि शुष्कम्लानकठिनपरुषरूक्षश्यावारुणानि तीक्ष्णस्फुटितमुखानि विषममध्यानि कदम्ब पुष्पतुण्डिकेरीकर्कन्धुसिद्धार्थविम्बीखर्जूरफलप्रमाणानि वक्राणि मिथो विसदृशानि कटीपार्श्वादिष्वधिकवेदनानि सशूलोदावर्तकराणि गुल्माष्ठीलाप्लीहोदराणि चास्य तन्निमित्तान्येव।
कृष्णत्वङ्नखनयनवदनमलाश्च भवन्ति॥

अस7.11
पित्तोल्बणानि नीलाग्राणि रक्तपीतकृष्णानि मृदुशिथिलानि स्पर्शासहानि विस्रगन्धीनि तनूनि तनुरक्तस्रावीणि दाहपाकवन्ति ज्वरमोहारुचिकराणि यकृत्प्रकाशानि शुकजिह्वाजलौकावक्त्रसदृशानि यवमध्यानि प्रक्लिन्नानि भिन्नपीतवर्चांसि हारिद्रत्वङ्नखादिकराणि च॥

अस7.12
श्लेष्मोल्बणानि महामूलानि स्थिरस्निग्धपाण्डुवृत्तोपचितानि गुरुस्तब्धश्लक्ष्णपिच्छिलानि सुप्तसुप्तानि स्पर्शक्षमाणि करीरपनसास्थिगोस्तनाकाराण्यतिमात्रोत्थानप्रवाहिकावङ्क्षणानाहनाभिपरिकर्तिकाहृल्लासप्रसके कासश्वासपीनसारुचिच्छर्दिकृछ्रमूत्रप्रमेहशीतज्वरशोफशिरोगौरवेन्द्रियोपलेपाग्निमार्दवक्लैब्यामविकारप्रबलानि न भिद्यन्ते न स्रवन्ति कण्डूबहुलानि सश्लेष्मवसाप्रकाशातिमलोपवेशीनि शुक्लत्वङ्नखादि कराणिच।
लक्षणसङ्करात् संसर्गसन्निपातजानि विभजेत्॥

अस7.13
रक्तोल्बणानि तु वटप्ररोहविद्रुमकाकनन्दिकाफलाभानि पित्तलक्षणानि च तथा गाढपुरीषप्रतिपीडितान्यत्यर्थं दुष्टमुष्णमसृक् सहसा विसृजन्ति।
तस्यातिप्रवृत्तौ रक्तक्षयोपद्रवा भवन्तीति।
भवति चात्र श्लोकः॥

अस7.14
मुद्गकोद्रवजूर्णाह्वकरीरचणकादिभिः।
रूक्षैः सङ्ग्राहिभिर्वायुः स्वे स्थाने कुपितो बली॥

अस7.15
अधोवहानि स्रोतांसि संस्रुध्याधः प्रशोषयन्।
पुरीषं वातविण्मूत्रसङ्गं कुर्वीत दारुणम्॥

अस7.16
तेन तीव्ररुजा कोष्ठपृष्ठहृत्पार्श्वगा भवेत्।
आध्मानमुदरावेष्टो हृल्लासः परिकर्तनम्॥

अस7.17
बस्तौ च सुतरां शूलं गण्डे श्वयथुसम्भवः।
पवनस्योर्ध्वगामित्वं ततश्छर्द्यरुचिज्वराः॥

अस7.18
हृद्रोगग्रहणीदोषमूत्रसङ्गप्रवाहिकाः।
बाधिर्यतिमिरश्वासशिरोरुक्कासपीनसाः॥

अस7.19
मनोविकारस्तृष्णास्रपित्तगुल्मोदरादयः।
ते ते च वातजा रोगा जायन्ते भृशदारुणाः॥

अस7.20
दुर्नाम्नामित्युदावर्तः परमोऽयमुपद्रवः।
वाताभिभूतकोष्ठानां तैर्विनापि स जायते॥

अस7.21
सहजानि त्रिदोषाणि यानि चाभ्यन्तरे बलौ।
स्थितानि तान्यसाध्यनि याप्यन्तेग्निबलादिभिः॥

अस7.22
द्वन्द्वजानि द्वितीयायां बलौ यान्याश्रितानि च।
कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च॥

अस7.23
बाह्यायां तु बलौ जातान्येकदोषोल्बणानि च।
अर्शांसि सुखसाध्यानि नचिरोत्पतितानि च॥

अस7.24
मेढ्रादिष्वपि वक्ष्यन्ते यथास्वं नाभिजानि तु।
गण्डूपदास्यरूपाणि पिच्छिलानि मृदूनि च॥

अस7.25
व्यानो गृहीत्वा श्लेष्माणं करोत्यर्शस्त्वचो बहिः।
कीलोपमं स्थिरखरं चर्मकीलं तु तं विदुः॥

अस7.26
वातेन तोदपारुष्यं पित्तादसितरक्तता।
श्लेष्मणा स्निग्धता तस्य ग्रथितत्वं सवर्णता॥

अस7.27
अर्शसां प्रशमे यत्नमाशु कुर्वीत बुद्धिमान्।
तान्याशु हि गुदं बध्वा कुर्युर्बद्धगुदोदरम्॥
इति सप्तमोऽध्यायः॥

अथाष्टमोऽध्यायः।

अस8.1
अथातोऽतीसारग्रहणीदोषनिदानं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस8.2
अतीसारः स सुतरां जायतेऽत्यम्बुपानतः॥

अस8.3
कृशशुष्कामिषासात्म्यतिलपिष्टविरूढकः।
मद्यरूक्षातिमात्रान्नैरर्शोभिः स्नेहविभ्रमात्॥

अस8.4
कृमिभ्यो वेगरोधाच्च तद्विधैः कुपितोऽनिलः।
विस्रंसयत्यधोब्धातुं हत्वा तेनैव चानलम्॥

अस8.5
व्यापद्यानुशकृत् कोष्ठं पुरीषं द्रवतां नयन्।
प्रकल्पतेऽतिसाराय लक्षणं तस्य भाविनः॥

अस8.6
तोदो हृद्गुदकोष्ठेषु गात्रसादो मलग्रहः।
आध्यानमविपाकश्च तत्र वातेन विज्जलम्॥

अस8.7
अल्पाल्पं शब्दशूलाढ्यं विबद्धमुपवेश्यते।
रूक्षं सफेनमच्छं च ग्रथितं वा मुहुर्मुहुः॥

अस8.8
तथा दग्धगुडाभासं सपिच्छापरिकर्तिकम्।
शुष्कास्यो भ्रष्टपायुश्च हृष्टरोमा विनिष्टनन्॥

अस8.9
पित्तेन पीतमसितं हारिद्रं शाद्वलप्रभम्।
सरक्तमतिदुर्गन्धं तृण्मूर्च्छास्वेददाहवान्॥

अस8.10
सशूलः पायुसन्तापपाकवान् श्लेष्मणा घनम्।
पिच्छिलं तन्तुमच्छ्वेतं स्निग्धमामं कफान्वितम्॥

अस8.11
अभीक्ष्णं गुरु दुर्गन्धं विबद्धमनुबद्धरुक्।
निद्रालुरलसोऽन्नद्विडल्पाल्पं सप्रवाहिकम्॥

अस8.12
सरोमहर्षः सोत्क्लेशो गुरुबस्तिगुदोदरः।
कृतेऽप्यकृतसंज्ञश्च सर्वात्मा सर्वलक्षणः॥

अस8.13
भयेन क्षोभिते चित्ते सपित्तो द्रावयेच्छकृत्।
वायुस्ततोऽतिसार्येत क्षिप्रमुष्णं द्रवं प्लवम्॥

अस8.14
वातपित्तसमं लिङ्गैराहुस्तद्वच्च शोकतः।
अतीसारः समासेन द्वेधा सामो निरामकः॥

अस8.15
सासृङ्निरस्रस्तत्राद्ये गौरवादप्सु मज्जति।
शकृद्दुर्गन्धमाटोपविष्टम्भार्तिप्रसेकिनः॥

अस8.16
विपरीतो निरामस्तु कफात् पक्वोऽपि मज्जति॥

अस8.17
अतीसारेषु यो नातियत्नवान् ग्रहणीगदः।
तस्य स्यादग्निविध्वंसकरैरन्यस्य सेवितैः॥

अस8.18
सामं शकृनिरामं वा जीर्णे येनातिसार्यते।
सोऽतिसारोऽतिसरणादाशुकारी स्वभावतः॥

अस8.19
सामं सान्नमजीर्णेऽन्ने जीर्णे पक्वं तु नैव वा।
अकस्माद्वा मुहुर्बद्धमकस्माच्छिथिलं मुहुः॥

अस8.20
चिरकृद्ग्रहणीदोषः सञ्चयाच्चोपवेशयेत्॥

अस8.21
स चतुर्धा पृथग्दोषैः सन्निपाताच्च जायते।
प्राग्रूपं तस्य सदनं चिरात् पचनमम्लकः॥

अस8.22
प्रसेको वक्त्रवैरस्यमरुचिस्तृट् क्लमो भ्रमः।
आनद्धोदरता छर्दिःकर्णक्ष्वेडान्त्रकूजनम्॥

अस8.23
सामान्यलक्षणं कार्श्यं धूमकस्तमको ज्वरः।
मूर्छा शिरोरुग्विष्टम्भः श्वयथुः करपादयोः॥

अस8.24
तत्रानिलात्तालुशोषस्तिमिरं कर्णयोः स्वनः।
पार्श्वोरुवङ्क्षणग्रीवारुजाभीक्ष्णं विषूचिका॥

अस8.25। रसेषु गृद्धिः सर्वेषु क्षुत्तृष्णा परिकर्तिका।
जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यं समश्नुते॥

अस8.26
वातहृद्रोगगुल्मार्शः प्लीहपाण्डुत्वशाङ्कितः।
चिराद्दुःखं द्रवं शुष्कः तन्वामं शब्दफेनवत्॥

अस8.27
पुनःपुनः सृजेद्वर्चः पायुरुक्श्वासकासवान्।
पित्तेन नीलं पीताभं पीताभः सृजति द्रवम्॥

अस8.28
पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः।
श्लेष्मणा पच्यते दुःखमन्नं छर्दिररोचकः॥

अस8.29
आस्योपदेहनिष्ठीवकासहृल्लासपीनसाः।
हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु॥

अस8.30
उद्गारो दुष्टमधुरः सदनं स्त्रीष्वहर्षणम्।
भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम्॥

अस8.31
अकृशस्यापि दौर्बल्यं सर्वजे सर्वसङ्करः॥

अस8.32
सिराविभागे ये चोक्ता विषमाद्यास्त्रयोऽग्नयः।
तेऽपि स्युर्ग्रहणीदोषाः समस्तु स्वास्थ्यकारणम्॥

अस8.33
वातव्याध्यश्मरीकुष्ठमेहोदरभगन्दराः।
अर्शासि ग्रहणीत्यष्टौ महारोगाः सुदुस्तराः॥
इति अष्टमोऽध्यायः॥

अथ नवमोऽध्यायः।

अस9.1
अथातो मूत्रघातनिदानं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस9.2
विंशतिर्मूत्राघाता भवन्ति।
तद्यथा।
वातपित्तकफसन्निपातकृच्छ्राणि।
वातपित्तश्लेष्मशुक्राश्मर्यः।
वातबस्त्यष्ठीलाकुण्डलिकामूत्रातीतजठरोत्सङ्गग्रन्थिशुक्रविड्विघातोष्णवातमूत्रक्षयावसादाश्चेति॥

अस9.3
तत्र वातबस्त्यादयो नव वातोल्बणाः।
ततो द्वौ वातपित्तोल्बणौ।
अन्त्यः कफपित्तोल्बणः॥

अस9.4
सर्वेषां पुनर्मूत्ररोगाणामधिष्ठानं बस्तिः।
स मर्मस्वभिहितः प्राक्।
स चाधोमुखोऽपि मूत्रवहासु नाडिषु सूक्ष्ममुखसहस्रनिष्यन्देन मूत्राख्येनाविरतं नवो घट इवाप्सु निमग्नमुखोपि पार्श्वेभ्योऽम्भसापूर्यते तैरेव च स्रोतोभिर्वातादयोऽपि दुष्टाः प्रविश्य बस्तिं यथास्वमाघातान् प्रमेहांश्च जनयन्ति॥

अस9.5
तत्राल्पशो मुहुर्मुहुर्बस्तिमेढ्रवङ्क्षणेषु तीव्रशूलः कृच्छ्रान्मूत्रयति वातकृच्छ्रे।
सदाहं सरुजं रक्तं पीतं कृष्णं वा पित्तकृच्छ्रे।
बस्तिमेढ्रयोर्गौरवं शोफो मूत्रं च सपिच्छं मेहति कफकृच्छ्रे।
सर्वलक्षणसन्निपातेन सन्निपातकृच्छ्रे।
स च कृच्छ्रतमः॥

अस9.6
यदा तु वायुर्बस्तिमुखमावृत्य सपित्तं सकफं सशुक्रं वा मूत्रं परिशोषयति तदा क्रमेण गोरिव पित्ताद्रोचना मणिकस्येव स्वच्छादपि जलात् पङ्कस्तद्वदश्मर्यभिनिर्वर्तते।
सर्वा च सा श्लेष्माश्रया।
अथास्याः पूर्वरूपाणि ज्वरो बस्त्याध्मानमरुचिर्मूत्रकृच्छ्रं बस्तिशिरोमुष्कशेफसां देवना बस्तगन्धित्वं मूत्रस्येति॥

अस9.7
सामान्यलिङ्गानि तु नाभिबस्तिमेवनीषु मेहतस्तया मार्गनिरोधने वेदना मूत्रधारासङ्गस्तद्व्यपाये च गोमेदकप्रकाशमनाविलमसितं सुसुखं मूत्रं विसृजति।
तत्सङ्क्षोभणाच्च सरुधिरम्।
धावनलङ्घनादिभिश्चास्य विविधा वेदना भवन्ति।
यथैव च पक्वाशयात् स्रस्तेन शकृताधिष्ठिते बस्तौ मूत्रं न प्रवर्तते तहाश्मर्यापि॥

अस9.8
तत्र वायुना बस्तिसेवनीमेहनेषु तीव्रवेदनार्दितो दन्तान् खादति नाभिं प्रपीडयति मेढ्रं मृद्नाति।
मुहुर्मुहुर्वेपथुमान् कृच्छ्रात्सवातं शकृद्विमुञ्चति।
विशीर्णधारं च मूत्रयत्यश्मरी चास्य श्यावा परुषा विषमा कदम्बपुष्पवत् कण्टकाचिता भवति।
पित्तेन पच्यमान इव दह्यते बस्तिः।
अश्मरी च रक्ता पीतावभासा कृष्णा भल्लातकास्थिसंस्थाना।
श्लेष्मणा भिद्यते निस्तुद्यत इव गुरुः शीतश्च बस्तिरश्मरी च श्वेता महती कुक्कुटाण्डप्रतिमा मधुवर्णा वा भवति।
प्रायेणैतास्तिस्रोऽश्मर्यो बालानां जायन्ते।
तेषामेव चाल्पबस्तित्वादल्पमांसोपचयत्वाच्च सुखग्रहणाहरणा भवन्ति॥

अस9.9
महतां तु शुक्राश्मरी शुक्रनिमित्ता भवति।
मैथुनविघाताच्छुक्रमुपस्थितमनिरस्यमानं विमार्गगमनिलो विगृह्य वृषणयोरन्तरे संहरति संहृत्योपशोषयति ततः शुष्कमश्मरी भवति।
सा शुक्रमार्गमावृणोति मूत्रकृच्छ्रं बस्तिवेदनां वृषणयोश्च श्वयथुमापादयति।
उत्पन्नमात्रायां च शुक्रं निरेति।
प्रपीडितमात्रे च तस्मिन्नेवावकाशे विलीयत इति॥

अस9.10
अश्मर्येव तु वायुनाअणुशो विभिन्ना शर्करेत्युच्यते।
अनुलोमे च मारुते सा सिकतेव मूत्रेण सह च्यवते॥

अस9.11
वायुस्तु मूत्रवेगरोधाद्बस्तिमुखमावृणोति।
ततो मूत्रसङ्गं वेदनां कण्डूं च करोति।
कदाचिच्च बस्तिं स्वस्थानात् प्रच्याव्य गर्भमिवोद्वृत्तं स्थूलं परिप्लुतं च कुरुते।
तत्र शूलस्पन्दनदाहोद्वेष्टनानि बिन्दुशश्च मूत्रस्रवणम्।
पीडिते च बस्तौ धारया प्रवृत्तिरयं द्विविधोऽपि वातबस्तिः कृच्छ्रसाध्यः तयोरपि द्वितीयोऽनिलप्रबलः कृच्छ्रसाध्यतरः॥

अस9.12
बस्तिविण्मार्गान्तरे वायुर्घनोन्नतं तीव्ररुजमचलमष्ठीलाभं ग्रन्थिं करोति।
तेनानिलविण्मूत्रसङ्गो भवत्याध्मानं च।
सा वाताष्ठीला।
विगुणो वायुः बस्तौ कुण्डलीभूतस्तीव्रशूलस्तम्भगौरवान्वितो मूत्रमाविध्याल्पशो वा प्रवर्तयन् भ्रमति सा वातकुण्डलिका।
मूत्रमतिवेलं विधार्य विमुच्यमानं न प्रवर्तते वाहमानस्य तु कृच्छ्रादल्पं प्रवर्तते तन्मूत्रातीतम्॥

अस9.13
मूत्ररोधादपानो वायुर्नाभेरधस्तात्तीव्ररुजमाध्मानं मलसङ्गं च कुर्वन्नुदरमभिपूरयेत् तन्मूत्रजठरम्।
मारुतेनाक्षिप्तं छिद्रवैगुण्येन वा मूत्रयतो मूत्रमल्पं बस्तौ नाले मणौ वा स्थित्वा तच्छेषगुरुमेढ्रस्य सरुजमरुजं वा शनैः स्रवेत् स मूत्रोत्सङ्गः।
बस्तिद्वारेऽल्पो वृत्तः शीघ्रसम्भवोऽश्मरीतुल्यलिङ्गो मूत्रग्रन्थिः॥

अस9.14
मूत्रितस्य व्यवायगमनाद्वातोद्धतं स्वस्थानाच्च्युतं शुक्रं मेहतो मूत्रस्य प्राक् पश्चाद्वा भस्मोदकसङ्काशं प्रवर्तते तन्मूत्रशुक्रम्।
वायुना पीडितं शकृन्मूत्रस्रोतः प्रपद्यते ततो विट्गन्धि विट्संसृष्टं च कृच्छान्मूत्रयति स विड्विघातः।
अत्यध्वातपोष्णभोजनादिभिः पित्तं प्रवृद्धमनिलेरितं बस्तिमेढ्रगुददाहं कुर्वद्धरितहारिद्रक्तं सरक्तं वा मूत्रं कृछ्रात् प्रवर्तयेत् स तूष्णवातः।
वातपित्तं बस्तिमाश्रित्य मूत्रं सशूलदाहं क्षपयति स मूत्रक्षयः।
पित्तं श्लेष्मोभयमपि वा वातेन बस्तौ संहन्यते ततो मूत्रं सदाहं सरक्तं पीतं श्वेतं सान्द्रं कृच्छ्रप्रवृत्ति शुष्कं च शङ्खरोचनान्यतरचूर्णवर्णं सर्ववर्णयुक्तं वा भवति।
स मूत्रावसादः॥

अस9.15
इति विस्तरतः प्रोक्ता रोगा मूत्राप्रवृत्तिजाः।
निदानलक्षणैरूर्ध्वं वक्ष्यन्तेऽतिप्रवृत्तिजाः॥
इति नवमोऽध्यायः॥

अथ दशमोऽध्यायः।

अस10.1
अथातः प्रमेहनिदानं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अस10.2
विंशतिः प्रमेहा भवन्ति।
तद्यथा।
कफादुदकेक्षुसान्द्रसुरापिष्टशुक्रसिकताशीतशनैर्लालाप्रमेहाः दश।
पित्तात् क्षारकालनीलहारिद्रमाञ्जिष्ठशोणितमेहाः षट्।
वाताद्वसामज्जहस्तिमधुमेहाश्चत्वार इति॥

अस10.3
तेषां यत्किञ्चिदाहारविहारजातं श्लेष्ममेदोमूत्रजननं स हेतुः।
तत्र वातपित्तमेदःक्लेदमांसशुक्ररसैरन्वितो बस्तिगतः श्लेष्मा प्रमेहान् जनयति।
तैः कफशोणिताभ्यां च युक्तं पित्तम्।
तैर्वसालसीकामज्जौजोभिश्च वायुः॥

अस10.4
त्रयाणामपि दोषाणां श्लेष्मा प्रमेहेषु प्राक् प्रकोपमापद्यते श्लेष्माधिष्ठानत्वान्मूत्रस्य।
तद्वृद्धेर्मेद एव च तेन प्रथमं दूष्यतेऽत्यन्तसभागत्वात्।
तदनन्तरं देहक्लेदादयः।
ततः श्लेष्मादिक्षये पित्तं प्रबलीभवच्छोणितमपि दूषयति।
तत्क्षयेऽपि वायुर्वसादीन् धातून् शरीरस्य परमसारभूतान् बस्तिमाकृष्य मूत्रेण सह विसृजति॥

अस10.5
तस्मात् कफपित्तवातजाः क्रमेण साध्ययाप्यासाध्याः।
तथा पित्तजाः संसृष्टदोषमेदःस्थानत्वाद्विरुद्धोपक्रमत्वाच्च।
वातजः पुनः क्षीणेषु धातुषु महात्ययतया विरुद्धोपक्रमत्वाच्च।
मेदसि तु नातिदुष्टे पित्तजा अपि साध्यतां गच्छेयुः॥

अस10.6
धातुसम्पर्कात् पुनः सर्वमेहेषु मूत्रमाविलं भूरि च भवति।
दोषाणां दूष्याणां चोत्कृष्टापकृष्टसंयोगेन मूत्रवर्णरसस्पर्शगन्धविशेषाद्वर्णानामिव शुक्लकृष्णादीनां शबलकल्माषादयः प्रमेहाणां प्रभेदा भवन्ति॥

अस10.7
तेषां पूर्वरूपाण्यतिवृद्धिर्नखादीनां जटिलीभावश्च केशानां माधुर्यमास्यस्य तालुकण्ठशोषः।
पिपासा मलाधिक्यं बहिःकाये कायछिद्रेषु च शीतेच्छा स्नेहः स्वेदः सुप्तता चाङ्गेषु पाणिपाददाहोतिमाधुर्यात् पिपीलिकोपसर्पणं विस्रगन्धता च मूत्रशरीरयोः शुक्लता च मूत्रे श्वासनिद्रातन्द्रालस्यप्रकर्षश्च॥

अस10.8
तत्र शीतं श्वेतमगन्धमच्छमुदकमिवोदकमेही मेहति।
इक्षुरसमिवातिमधुरं शीतमीषत्पिच्छिलाविलामिक्षुमेही।
पर्युषितं सान्द्रीभवत् सान्द्रमेही।
सुरातुल्यमुपरि प्रसन्नमधःसान्द्रं सुरामेही।
हृष्टरोमा पिष्टमिव सान्द्रं सितं च पिष्टमेही।
शुक्राभं शुक्रमिश्रं वा शुक्रमेही।
सरुजं ससिकतं सिकतामेही।
प्रायो मधुरमतिशीतं शीतमेही।
मन्दंमन्दं शनैःशनैः शनैर्मेही।
पिच्छिलं तन्तुबद्धमिव लालामेही।
वर्णगन्धरसस्पर्शैः स्रुतक्षारोपमं क्षारमेही।
उष्णं मषीकालं कालमेही।
सफेनमच्छमम्लं चाषपत्रनीलं नीलमेही।
कटुकं सदाहं हरिद्रायुक्तमिव हारिद्रमेही।
विस्रं मञ्जिष्ठोदकवर्णमिव मञ्जिष्ठामेही।
विस्रमुष्णं सलवणं शोणितसङ्काशं शोणितमेही।
वसामिश्रं वसां वा वसामेही।
मज्जमिश्रं मज्जानं वा मज्जमेही।
सलसीकं मधुरमवेगं लसीकयैव च विबद्धमनुबद्धमजस्रं मत्त इव हस्ती स्रवति हस्तिमेही॥

अस10.9
औजः स्निग्धमधुरं तद्रौक्ष्याद्वायुः कषायत्वेनोपसृजति तेन कषायमधुरानुयातं मध्विव मेहति मधुमेही।
स तु द्विधा कैश्चिदिष्यते।
धातुक्षयेणानिलकोपाद्दोषावरणेन वा।
तदावृतो हि वायुराहारप्रसादमादाय मुहुर्मुहुरनिमित्तं दोषलिङ्गानि वृद्धिक्षयौ चाविर्भावयन् कृच्छ्रसाध्यं मधुमेहं प्रवर्तयति।
सर्व एव चोपेक्ष्यमाणा मधुमेहत्वमायान्ति।
तस्मात्सर्वेऽपि मधुमेहशब्देनोच्यन्ते।
यतः सर्वेष्वपि प्राङ्मधिविव मधुरं मेहति मधुररसश्चास्य देहो भवतीति॥

अस10.10
तत्र प्रतिश्यायः शरीरशैथिल्यमरोचकाविपाकौ प्रसेकच्छर्दिर्निद्रा कासश्च श्लेष्मजानामुपद्रवा भवन्ति।
वृषणावदरणं बस्तिर्मेढ्रतोदोऽम्लकः पिपासा ज्वरो दाहो मूर्च्छातीसारः पाण्डुरोगश्च पित्तजानाम्।
हृद्ग्रहो लौल्यमनिद्रता कम्पः शूलं बद्धपुरीषत्वं शोषः कासः श्वासश्च वातजानाम्॥

अस10.11
अथैवमस्य मेदःक्लेदादिभिरभिष्यण्णदहेस्य दोषैरनुगतधातोः प्रमेहाभिवृद्धौ मांसलेष्ववकाशेषु सन्धिमर्मसु च प्रदेशविशेषाश्रयत्वात् प्राणापहारिण्यो भूयः कष्टतमोपद्रवा दश पिटका जायन्ते।
सुतरां चाधःकाये।
तदभिमुखा हि प्रमेहिणां दोषाः।
तद्यथा।
शराविका कच्छपिका जालिनी पुत्रिणी विदारिका सर्षपिका मसूरिकालजी विनता विद्रधिश्च॥

अस10.12
तत्र श्यावा क्लेदवेदनायुक्ता निम्नमध्योन्नतौष्ठा शरावसंस्थानप्रमाणा शराविका।
महामूलावगाढार्तितोदा श्लक्ष्णा कच्छपपृष्ठनिभा कच्छपिका।
महाशयार्तितोदा स्तब्धा स्निग्धस्राविणी सूक्ष्मच्छिद्रा मांससिराजालावृता जालिनी।
महती पिटकाभिरल्पाभिराचिता पुत्रिणी।
कंठिना विदारीकन्दवद्वृत्ता विदारिका।
शीघ्रपाका महावेदना सर्षपाकृतिप्रमाणा तद्विधाभिश्च पिटकाभिश्चिता सर्षपिका।
मसूराकार प्रमाणा मसूरिका।
त्वचमुत्थान एव दहन्ती स्फोटैरावृता विसर्पन्ती रक्ता कृष्णातितृण्मोहज्वरकरी दाहभूयिष्ठातिकष्टा चालजी।
महती नीलावगाढरुजाक्लेदा पृष्ठोदरान्यतराधिष्ठाना विनता विनता।
विद्रधिस्तु वक्ष्यते पृथगेव॥

अस10.13
तासामाद्याः पञ्चातिबलश्लेष्ममेदःसम्भवेन मूलव्याध्येकरूपत्वात्तद्वृद्धिकारितया दुःसहाः।
न त्वितराः पित्तोल्बणतयाल्पकफमेदोभावात्।
प्रमेहवशाच्च पिटकासु यथास्वं दोषोद्रेको भवतीति।
भवति चात्र श्लोकः॥

अस10.14
प्रमेहेण विनाप्येता जायन्ते दुष्टमेदसः।
तावच्च नोपलक्ष्यन्ते यावद्वस्तुपरिग्रहः॥

अस10.15
हारिद्रवर्णं रक्तं वा मेहप्राग्रूपवर्जितम्।
यो मूत्रयेन्न तं मेहं रक्तपित्तं तु तं विदुः॥

अस10.16
दृष्ट्वा प्रमेहं मधुरं सपिच्छं मधूपमं स्यात् द्विविधो विचारः।
सम्पूरणाच्छ्रलेष्मसमुद्भवः स्यात् क्षीणेषु दोषोष्वनिलात्मको वा॥

अस10.17
सपूर्वरूपाः कफपित्तमेहाः क्रमेण ये वातकृताश्च मेहाः।
साध्या न ते पित्तकृतास्तु याप्याः साध्यास्तु मेदो यदि नातिदुष्टम्॥

इति दशमोऽध्यायः॥