अष्टाङ्गसंग्रहः निदानस्थानम् अध्याय १-५
अष्टाङ्गसङ्ग्रहः
निदानस्थानम्
अस1.1
अथातः सर्वरोगनिदानं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
अस1.2
इह कृतयुगे विगतरागद्वेषादिद्वन्द्वा जितलोभक्रोधश्रमक्लमालस्यभया निष्परिग्रहाः पुरुषा बभूवुः।
तेषां पुण्यबलेन पृथिव्यादीनां सर्वगुणसमुदायादचिन्त्यरस वीर्यादिसमुदितानि सस्यान्योषधयश्चासन्।
ते तानि जितेन्द्रियत्वात् काले मात्रया चोपयुञ्जानाः सत्यार्जवानृशंस्यादिगुणयोगाच्च सुरसदृशतेजसो रूपाकृतिप्रमाणप्रसादोपचयसंहननसत्त्वसारसम्पन्ना दीर्घायुषो नीरुजश्च बभूवुः॥
अस1.3
भ्रश्यन्ति तु कृतयुगे युगस्वभावात् क्रमेण परिहीयमाणसर्वगुणेषु पृथिव्यादिषु शरीरेषु च धर्मातिक्रमात् पुरुषेष्ववश्यम्भाविनो निरपेक्षरूक्षाभिरुपेक्षिता देवताभिर्ज्वरादयः प्रादुरभूवन्निति सर्वरोगाणां सामान्यतः सम्भवः॥
अस1.4
ज्वरस्तु स्थाणुशापात् प्राचेतसत्वमुपागतस्य प्रजापतेः क्रतौ भागमपरिकल्पयतस्तद्विनाशार्थं पूर्वजन्मावमानितया रुद्राण्या प्रेरितस्य पशुपतेर्दिव्यमब्दसहस्रं परिरक्षितवतः क्रोधमतिचिरकालसम्भृतो व्रतान्ते रोषाग्निः किङ्कररूपेण किल पिण्डितमूर्तिर्वीरभद्रनामा भस्मप्रहरणस्त्रिशिरोक्षिबाहुपादः पिङ्गललोचनो दर्ष्ट्री शङ्कुकर्णः कृष्णतनुरुत्तमाङ्गान्निश्चचार।
स देवीविनिर्मितया सह भद्रकाल्या प्रतिरोमकूपमभिनिःसृतैर्विविधविकृताकृतिभिरनन्तैर्भयानकवाक्यक्रियावपुर्भिरनुचरैः परिवृतश्चतुर्युगान्तकरकालाम्भोदसहस्रनिनदोऽनुनादयन् रोदसी ज्वालागर्भेण परीतः कलकलारावेण महाभूतसम्प्लवकारिणा विधाय दानववधमश्वमेधाध्वरविध्वंसनं च प्राञ्जलिर्विज्ञापयामास शिवम्।
शिवीभूतोऽसि देवदेव, देवैः पितामहप्रभृतिभिर्जगतः पित्रा च धात्राभिष्टूयमानः।
सम्प्रत्यहं किं करवाणीति।
तं शूली क्रोधमादिदेश।
यस्मात् त्रिदशैरप्यजय्य मत्क्रोध व्रतविघ्नं चिकीर्षुदत्यसैन्यं दक्षो दक्षहव्यं च त्वया जीर्णमतो जगतोऽस्य सस्थावरस्य ज्वरयिता ज्वरो भवान् भवतु।
त्वं हि सर्घरोगाणां प्रथमः प्रवरो जन्ममरणेषु तमोमयतया महामोहः प्राग्जन्मनो विस्मारयितापचारान्तरेषु चोष्मायमाणत्वात् सन्तापात्मा द्वयेष्वपि ध्रुवो ज्वरो भवेति।
सोऽयमेवमुमापतिनानुगृहीतो नानानामभिः सर्वतोऽनुभुवि विचरति।
तद्यथा।
पाकलो गजेष्वभितापो वाजिष्वलर्कः कक्कुरेष्विन्द्रमदो जलजेषु ज्योतिरोषधीषु चूर्णको धान्येष्वप्सु नीलिका भूमावूषरो मनुष्येषु ज्वर इति॥
अस1.5
तत्सहजाश्चारोचकाङ्गमर्दशिरोव्यथाभ्रमक्लमग्लानितृष्णासन्तापादयः।
तत्सन्तापाच्च रक्तपित्तम्।
तत्रैव च यज्ञे क्रोधभयाभिभूतानां परितो विद्रवतां लङ्घनप्लवनाद्यैर्देहविक्षोभणैर्गुल्मविद्रधिवृद्धिजठरादयो, हविःप्राशान्मेहकुष्ठार्शःशोफातीसारादयो, भयोत्त्रासशोकाशुचिसंस्पर्शैरुन्मादापस्मारग्रहादयो, रोहिण्यतिप्रसङ्गाच्छेषदुहित्रसम्भोगकृताच्च प्रजापतिक्रोधान्नक्षत्रराजस्य राजयक्ष्मा तत्सहोद्भवाश्च कासश्वासादयः।
सोऽपि हि न विना ज्वरेणानुबध्नातीति सकलोऽपि रोगग्रामो ज्वरपूर्वको ज्वरशब्दवाच्यो वा॥
अस1.6
ज्वरस्तमो विकार आतङ्कः पाप्मा गदो व्याधिराबाधो दुःखमामयो यक्ष्मा रोग इत्यनर्थान्तरम्।
तत्र रुजतीति रोगः।
तस्योपलब्धिर्निदानपूर्वरूपरूपोपशयसम्प्राप्तिभिः॥
अस1.7
तत्र निदानं वाय्वादिप्रकोपः।
तस्य पुनरहिताहारविहारसेवा।
निदानपर्यायास्तु हेतुर्निमित्तमायतनं कारकः कर्ता कारणं प्रत्ययः समुत्थानं मूलं योनिरिति॥
अस1.8
पूर्वरूपं नाम येन भाविव्याधिविशेषो विज्ञायते न तु दोषविशेषः।
तद्ध्युत्पत्स्यमानस्य व्याधेरल्पत्वादव्यक्तं रूपम्॥
अस1.9
स्पष्टं पुना रूपम्।
तस्य शब्दान्तराणि लिङ्गमाकृतिर्लक्षणं चिह्नं संस्थानं व्यञ्जनमिति॥
अस1.10
उपशयो हेतुव्याधिविपरीतैर्विपरीतार्थकारिभिश्चचौषधाहारविहारैः सुखानुबन्धः।
स हि व्याधिसात्म्यसंज्ञः।
तद्विपरीतोऽनुपशयः।
एतेन देशकालौ व्याख्यातौ॥
अस1.11
सम्प्राप्तिः पुनरेवंदुष्टो दोषस्तेन चैवमारब्धो व्याधिस्तत्पर्याया जातिरागतिर्निर्वृत्तिर्निष्पत्तिरिति॥
अस1.12
सा सङ्ख्याविकल्पप्राधान्यबलकालविशेषैर्भिद्यते।
तत्र सङ्ख्या तावदष्टौ ज्वरास्त्रिविधं रक्तपित्तं पञ्च कासा इति।
विकल्पः समवेतानां दोषाणामंशांशकल्पना।
प्राधान्यं व्याधिनामनुबन्ध्यानुबन्धकभेदात्तरतमयोगाद्वा दोषाणाम्।
बलाबलविशेषो हेत्वादिकार्त्स्न्यावयवविभावनया।
कालविशेषः पुनर्दोषाणामृत्वहोरात्र्याहारसमयनियतः प्रकोप इति।
एतावतैव समासतः कथितो निदानार्थः।
विस्तरेण तु यथास्वं प्रतिरोगमुपदेक्ष्यते॥
अस1.13
अथ तिक्तकटुकषायरूक्षलघुशीतविष्टम्भिविरूढकतृणधान्यकलायचणककरीरतुम्बकालिङ्गचिर्भिटबिसशालूकजाम्बवतिन्दुकहीनशुष्कप्रमिततृषिताशनक्षुधिताम्बुपानासृक्क्षयविरेचनादिकर्मातियोगवेगविधारणोदीरणरात्रिजागरणप्रवातव्यवायज्यायामबलवद्युद्धनिग्रहातिखरचापकर्षणात्युच्चविषमलङ्घनाध्वाध्ययनधावनसलिलतरणाभिघातदम्यगोवाजिगजनिग्रहाश्मशिलालोहकाष्ठोत्क्षेपविक्षेपभ्रमणचालनगाढोच्छादनपराघातनादिसाहसभयशोकोत्कण्ठादिभिरतिसेवितैर्ग्रीष्मवर्षापराह्णापररात्राहारपरिणामान्तेषु च वायुः प्रकोपमापद्यते॥
अस1.14
कट्वम्ललवणक्षारोष्णतीक्ष्णविदाहिशुक्तशाण्डाकीमद्यमूत्रमस्तुदधिधान्याम्लतैलकुलत्थमाषनिष्पावतिलान्नकट्वरकुठेरकादिवर्गामाम्रातकाम्लीकापीलुभल्लातकास्थिलाङ्गलिकामरिचातपाग्निरजोधूमक्रोधेर्ष्याजीर्णमैथुनोपगमनादिभिर्वर्षाशरन्मध्यन्दिनार्धरात्राहारविदाहकालेषु च पित्तम्॥
अस1.15
मधुराम्ललवणस्निग्धगुरुशीतपिच्छिलाभिष्यन्दि नवान्नपिष्टपृथुकस्थूलभक्ष्यशष्कुल्यामक्षीरकीलाटमोरटकूचीकातक्रपिण्डकपीयुषेक्षुरसफाणितगुडानूपपिशितमोचखर्जूरभव्यनारिकेलनिशाम्बुपानात्यम्बुपानातिसन्तर्पणभुक्तमात्रदिवास्वप्नकालातिस्वप्नकायवाङ्मनो व्यापारानारम्भानुपधानशयनावश्यायहर्षच्छीर्दविघातविरेचनाद्ययोगादिभिः शिशिरवसन्तपूर्वाह्णप्रदोषभुक्तमात्रेषु च श्लेष्मा॥
अस1.16
द्वयसंसर्गात् संसर्गः।
सर्वेषां तु मिश्रीभावात्तथाध्यशनसमशनविषमाशनविरुद्धाशनसङ्कीर्णाशनव्यापन्नाम्बुमद्यमन्दकदधियावकयवसुरापिण्याकाममूलकसर्षपशुष्कशाकवल्लूरकृशपिशितलकुचामफलमृत्तिकाभ्यवहारान्नपरिवर्तर्तुव्यापदसात्म्यौषधिगन्धाघ्राणविषपिट्Aकाविषगराभ्यवहारानार्तवदुर्दिनग्रहपीडाग्रहावेशपुरोवातपर्वतोपश्लेषरसायनस्नेहस्वेदविरेचनादिमिथ्यायोगेभ्यः पापानां च कर्मणामभ्यासात् पूर्वकृतानां च परिणामात् स्त्रीणां विषमप्रसवात् प्रसूतानां च मिथ्योपचारात् सन्निपातः॥
अस1.17
इति सामान्यतः सर्वेषु रोगेषु दोषप्रकोपहेतुरुक्त इति।
भवन्ति चात्र॥
अस1.18
प्रतिरोगमिति क्रुद्धा रोगाधिष्ठानगामिनीः।
रसायनीः प्रपद्याशु दोषा देहे विकुर्वते॥
अस1.19
आधानजन्मनिधनप्रत्यराख्यविपत्करे।
नक्षत्रे व्याधिरुत्पन्नः क्लेशाय मरणाय वा॥
अस1.20
ज्वरस्तु जातः षड्रात्रादश्विनीषु निवर्तते।
भरणीषु तु पञ्चाहात् सप्ताहात् कृत्तिकासु तु॥
अस1.21
त्रिः सप्तरात्रादथवा रोहिण्यामष्टरात्रतः।
एकादशाद्वा दिवसान्मृगे षण्णवरात्रयोः॥
अस1.22
पञ्चाहान्मृत्युरार्द्रायां त्रिपक्षे संशयोऽथवा।
पुनर्वसौ प्रवृत्तस्तु ज्वरोऽपैति त्रयोदशात्॥
अस1.23
दिवसात् सप्तविंशाद्वा द्व्यहात् सप्ताहतोऽथवा।
पुष्ये श्लेषासु मरणं चिरेणापि मघासु तु॥
अस1.24
अवश्यं स्वास्थ्यमाप्नोति द्वादशाहान्मृतो न चेत्।
फाल्गुन्योः पूर्वयोर्मृत्युरन्यथोश्च दिनेऽष्टमे॥
अस1.25
नव्मेऽग्न्येकविंशे वा ज्वरः सौम्यत्वमृच्छति।
हस्तेन सप्तमे शान्तिश्चित्रायामष्टमेऽथवा॥
अस1.26
पुनश्चित्रागमे स्वातौ दशाहादथ वा त्रिभिः।
पक्षैर्मृत्युं विशाखासु द्वाविंशेऽहनि निर्दिशेत्॥
अस1.27
नवमेऽह्नि न चेच्छान्तिर्मैत्रे मृत्युस्ततः परम्।
ज्येष्ठायां पञ्चमे मृत्युरूर्ध्वं वा द्वादशात् सुखम्॥
अस1.28
स्वास्थ्यं दशाहान्मूले तु त्रिसप्ताहेऽथ वा गते।
पूर्वाषाढासु नवमे ततोऽन्यासु तु मासतः॥
अस1.29
अष्टाभिरथवा मासैर्नव्भिर्वा भवेच्छिवम्।
आज्येष्ठाहाद्धनिष्ठासु द्वादशाद्वारुणेषु तु॥
अस1.30
षडहे द्वादशाहे वा मृत्युर्भाद्रपदासु तु।
उत्तरासु त्रिसप्ताहात् प्रशमो रेवतीषु च॥
अस1.31
चतूरात्रेऽष्टरात्रे वा क्षेममित्याह गौतमः॥
इति प्रथमोऽध्यायः॥
अथ द्वितीयोऽध्यायः।
अस2.1
अथातो ज्वरनिदानं व्याख्यास्यामाः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
अस2.2
अष्टाभिः कारणैर्ज्वरः सञ्जायते मनुष्याणां पृथग्दोषैः संसृष्टैः सन्निपतितैरागन्तुना च॥
अस2.3
तत्र यथोक्तैः प्रकोपणविशेषैः प्रकुपिता दोषाः प्रविश्यामाशयमूष्मणा मिश्रीभूयाममनुगम्य रसस्वेदवाहीनि स्रोतांसि पिधाय पित्तं तु द्रवत्वात्तप्तमिव जलमनलमुपहत्य सर्वेऽपि च दोषाः पक्तारं स्वस्थानाद्बहिर्निरस्य सह तेन सकलमपि शरीरमभिसर्पन्तः तत्सम्पर्काल्लब्धबलेन स्वेनोष्मणा नितरां देहोष्माणमेधयन्तोऽन्तस्स्रोतोमुखपिधानात् स्तम्भमादधाना बहिरपि स्वेदमपहरन्तः सर्वेन्द्रियाणि चोपतापयन्तो ज्वरमभिनिर्वर्तयन्ति॥
अस2.4
तस्येमानि पूर्वरूपाणि मुखवैरस्यमन्नानभिलाषो गुरुगात्रत्वमालस्यमल्पप्राणता गतिस्खलनं निद्राधिक्यमरतिरसूया हितोपदेशेषु प्रद्वेषो बालेषु मधुरेषु च भक्ष्येष्वम्ललवणकटुकाभिनन्दनमविपाकेऽङ्गमर्दश्चक्षुषोराकुलत्वं साश्रुता जृम्भा विनामः क्लमो रोमहर्षः शब्दानलाम्बुशीतवातच्छायातपेष्वकस्मादिच्छाद्वेषौ च।
तदनन्तरं व्यक्तीभावो ज्वरस्येति।
भवति चात्र॥
अस2.5
आगमापगमक्षोभमृदुता वेदनोष्मणाम्।
वैषम्यं तत्र तत्राङ्गे तास्ताः स्युर्वेदनाश्चलाः॥
अस2.6
पादयोः सुप्तता स्तम्भः पिण्डिकोद्वेष्टनं क्लमः।
विश्लेष इव सन्धीनां साद ऊर्वोः कटीग्रहः॥
अस2.7
पृष्ठं क्षोदमिवाप्नोति निष्पीड्यत इवोदरम्।
भिद्यन्त इव चास्थीनि पार्श्वगानि विशेषतः॥
अस2.8
हृदयस्य ग्रहस्तोदः प्राजनेनेव वक्षसः।
स्कन्धयोर्मथनं बाह्वोर्भेदः पीडनमंसयोः॥
अस2.9
अशक्तिर्भक्षणे हन्वोर्जृम्भणं कर्णयोः स्वनः।
निस्तोदःशङ्खयोर्मूर्ध्नि वेदना विरसास्यता॥
अस2.10
कषायास्यत्वमथवा मलानामप्रवर्तनम्।
रूक्षारुणत्वगास्याक्षिनखमूत्रपुरीषता॥
अस2.11
प्रसेकारोचकाश्रद्धाविपाकास्वेदजागराः।
कण्ठौष्ठशोषस्तृट्शुष्कौ छर्दिकासौ विषादिता॥
अस2.12
हर्षो रोमाङ्गदन्तेषु वेपथुः क्षवथोर्ग्रहः।
भ्रमः प्रलापो घर्मेच्छा विनामश्चानिलज्वरे॥
अस2.13
युगपद्व्याप्तिरङ्गानां प्रलापः कटुवक्त्रता।
नासास्यपाकः शीतेच्छा भ्रमो मूर्छा मदोऽरतिः॥
अस2.14
विट्स्रंसः पित्तवमनं रक्तष्ठीवनमम्लकः।
रक्तकोठोद्गमः पीतहरितत्वं त्वगादिषु॥
अस2.15
स्वेदो निश्वासवैगन्ध्यमतितृष्णा च पित्तजे॥
अस2.16
विशेषादरुचिर्जाड्यं स्रोतोरोधोऽल्पवेगता।
प्रसेको मुखमाधुर्यं हृल्लेपश्वासपीनसाः॥
अस2.17
हृल्लासश्छर्दनं कासः स्तम्भः श्वैत्यं त्वगादिषु॥
अस2.18
अङ्गेषु शीतपिटकास्तन्द्रोदर्दः कफोद्भवे॥
अस2.19
काले यथास्वं सर्वेषां प्रवृत्तिर्वृद्धिरेव वा।
निदानोक्तानुपशयो विपरीतोपशायिता॥
अस2.20
यथास्वं लिङ्गसंसर्गे ज्वरः संसर्गजोऽपि च॥
अस2.21
शिरोऽर्तिमूर्छावमिदाहमोहकण्ठास्यशोषारतिपर्वभेदाः।
उन्निद्रतातृड्भ्रमरोमहर्षा जृम्भातिवाक्त्वं च चलात् सपित्तात्॥
अस2.22
तापहान्यरुचिपर्वशिरोरुक्पीनसश्वसनकासविबन्धाः।
शीतजाड्यतिमिरभ्रमतन्द्राः श्लेष्मवातजनितज्वरलिङ्गम्॥
अस2.23
शीतस्तम्भस्वेददाहाव्यवस्था तृष्णा कासः श्लेष्मपित्तप्रवृत्तिः।
मोहस्तन्द्रा लिप्ततिक्तास्यता च ज्ञेयं रूपं श्लेष्मपित्तज्वरस्य॥
अस2.24
सर्वजो लक्षणैः सर्वैर्वाहोऽत्र च मुहुर्मुहुः।
तद्वच्छीतं महानिद्रा दिवा जागरणं निशि॥
अस2.25
सदा वा नैव वा निद्रा मुहुः स्वेदोऽति नैव वा।
गीतनर्तनहास्यादिविकृतेहाप्रवर्तनम्॥
अस2.26
सस्रुती कलुषे रक्ते भुग्ने लुलितपक्ष्मणी।
अक्षिणी पिण्डिकापार्श्वमूर्धपर्वास्थिरुग्भ्रमः॥
अस2.27
सत्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः।
परिदग्धा खरा जिह्वा गुरुस्रस्ताङ्गसन्धिता॥
अस2.28
रक्तपित्तकफष्ठीवो लोलनं शिरसोऽतितृट्।
कोठानां श्यावरक्तानां मण्डलानां च दर्शनम्॥
अस2.29
हृद्व्यथा मलसंसर्ङ्गः प्रवृत्तिर्वाल्पशोऽति वा।
स्निग्धास्यता बलभ्रंशः स्वरसादः प्रलापिता॥
अस2.30
दोषपाकश्चिरात्तन्द्रा प्रततं कण्ठकूजनम्।
सन्निपातमभिन्यासं तं ब्रूयाच्च हृतौजसम्॥
अस2.31
वायुना कफरुद्धेन पित्तमन्तः प्रपीडितम्।
व्यवायित्वाच्च सौक्ष्म्याच्च बहिर्मर्गं प्रवर्तते॥
अस2.32
तेन हारिद्रनेत्रत्वं सन्निपातोद्भवे ज्वरे।
दोषे विबद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः॥
अस2.33
असाध्यः सोऽन्यथा कृच्छ्रो भवेद्वैकल्यदोऽपि वा॥
अस2.34
अन्यच्च सन्निपातोत्थो यत्र पित्तं पृथक्स्थितम्।
त्वचि कोष्ठेऽथवा दाहं विदधाति पुरोऽनु वा॥
अस2.35
तद्वद्वातकफौ शीतं दाहादिर्दुस्तरस्तयोः॥
अस2.36
शीतादौ तत्र पित्तेन कफे स्यन्दितशोषिते।
शीते शान्तेऽम्लको मूर्च्छा मदस्तृष्णा च जायते॥
अस2.37
दाहादौ पुनरन्ते स्युस्तन्द्राष्ठीववमिक्लमाः॥
अस2.38
आगन्तुरभिघाताभिषङ्गशापाभिचारतः।
चतुर्धात्र क्षतच्छेददाहाद्यैरभिघातजः॥
अस2.39
श्रमाच्च तस्मिन् पवनः प्रायो रक्तं प्रदूषयन्।
सव्यथाशोफवैवर्ण्यं सरुजं कुरुते ज्वरम्॥
अस2.40
ग्रहावेशौषधिविषक्रोधभीशोककामजः।
अभिषङ्गाद् ग्रहेणास्मिन्नकस्माद्धासरोदने॥
अस2.41
औषधीगन्धजे मूर्छा शिरोरुक् श्वयथुः क्षवः।
विषान्मूर्छातिसारास्यश्यावतादाहहृद्गदाः।
अस2.42
क्रोधात् कम्पः शिरोरुक् च प्रलापो भयशोकजे।
कामान्मोहोऽरुचिर्दाहोद्रीनिद्राधधृतिक्षयः॥
अस2.43
ग्रहादौ सन्निपातस्य भयादौ मरुतस्त्रये।
कोपः क्रोधे तु पित्तस्य यौ तु शापाभिचारजौ।
सन्निपातज्वरौ घोरौ तावसह्यतमौ मतौ॥
अस2.44
तत्राभिचारिकैर्मन्त्रैर्हूयमानस्य तप्यते।
पूर्वं चेतस्ततो देहस्ततो विस्फोटतृड्भ्रमैः॥
अस2.45
सदाहमूर्छर्ग्रस्तस्य प्रत्यहं वर्धते ज्वरः।
इति ज्वरोऽष्टधा दृष्टः समासाद्द्विविधस्तु सः॥
अस2.46
शारीरो मानसःसौम्यस्तीक्ष्णोऽन्तर्बहिराश्रयः।
प्राकृतो वैकृतःसाध्योऽसाध्यःसामो निरामकः॥
अस2.47
पूर्वं शरीरे शारीरे तापो मनसि मानसे।
पवने योगवाहित्वाच्छीतं श्लेष्मयुते भवेत्॥
अस2.48
दाहः पित्तयुते मिश्रं मिश्रे अन्तः संश्रये पुनः।
ज्वरेधिकं विकाराः स्युरन्तःक्षोभो मलग्रहः॥
अस2.49
बहिरेव बहिर्वेगे तापोऽपि च सुसाध्यता॥
अस2.50
वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात्।
वैकृतोऽन्यःसदुः साध्यः प्रायश्च प्राकृतोऽनिलात्॥
अस2.51
एकमार्गक्रियारम्भव्यतिवृत्तेर्महात्ययात्॥
अस2.52
वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम्।
कुर्यात् पित्तं च शरदि तस्य चानुबलः कफः॥
अस2.53
तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम्।
कफो वसन्ते तमपि बातपित्तं भवेदनु॥
अस2.54
बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः।
सर्वथा विकृतिज्ञाने प्रागसाध्य उदाहृतः॥
अस2.55
ज्वरोपद्रवतीक्ष्णत्वमग्लानिर्बहुमूत्रता।
न प्रवृत्तिर्न विड्जीर्णा न क्षुत्सामज्वराकृतिः॥
अस2.56
ज्वरेगोऽधिकं तृष्णा प्रलापः श्वसनं भ्रमः।
मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम्॥
अस2.57
जीर्णतामविपर्यासात् सप्तरात्रं च लङ्घनात्॥
अस2.58
ज्वरः पञ्चविधः प्रोक्तो मलकालबलाबलात्।
प्रायः स सन्निपातेन भूयसा त्वपदिश्यते॥
अस2.59
सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ॥
अस2.60
धातुमूत्रशकृद्वाहिस्रोतसां व्यापिनो मलाः।
तापयन्तस्तनुं सर्वां तुल्यदूष्यादिवर्धिताः॥
अस2.61
बलिनो गुरवः स्तब्धा विशेषेण रसाश्रिताः।
सन्ततं निष्प्रतिद्वन्दा ज्वरं कुर्युः सुदुस्सहम्॥
अस2.62
मलाञ्ज्वरोष्मा धातून् वा स शीघ्रं क्षपयस्ततः।
सर्वाकारं रसादीनां शुध्याशुध्यापि वा क्रमात्॥
अस2.63
वातपित्तकफेः सप्त दश द्वादशवासरान्।
प्रायोऽनुयाति मर्यादां मोक्षाय च वधाय च॥
अस2.64
इत्यग्निवेशस्य मतं हारीतस्य पुनः स्मृतिः॥
अस2.65
द्विगुणा सप्तमी यावन्नवम्येकादशी तथा।
एषा त्रिदोषमर्यादा मोक्षाय च वधाय च॥
अस2.66
शुध्यशुद्धौ ज्वरः कालं दीर्घमप्यनुवर्तते॥
अस2.67
कृशानां व्याधिमुक्तानां मिथ्याहारादिसेविनाम्।
अल्पोऽपि दोषो दूष्यादेर्लब्ध्वान्यतमतो बलम्॥
अस2.68
सप्रत्यनीको विषमं कुर्याद्वृद्धिक्षयान्वितः॥
अस2.69
सूक्ष्मसूक्ष्मतरास्येषु दूरदूरतरेषु च।
दोषो रक्तादिमार्गेषु शनैरल्पश्चिरेण यत्॥
अस2.70
याति देहं च नाशेषं भूयिष्ठं भेषजेऽपि च।
क्रमोऽयं तेन विच्छिन्नसन्तापो लक्ष्यते ज्वरः॥
अस2.71
विषमो विषमारम्भक्रियाकालोऽनुषङ्गवान्॥
अस2.72
यथोत्तरं मन्दगतिर्मन्दशक्तिर्यथा यथा।
कालेनाप्नोति सदृशान् स रसादींस्तथा तथा॥
अस2.73
दोषो ज्वरयति क्रुद्धश्चिराच्चिरतरेण च॥
अस2.74
भूमौ स्थितं जलैः सिक्तं कालमेव प्रतीक्षते।
अङ्कुराय यथा बीजं दोषबीजं रुजे तथा॥
अस2.75
वेगं कृत्वा विषं यद्वदाशये लीयतेऽबलम्।
कुप्यत्याप्तबलं भूयः काले दोषविषं तथा॥
अस2.76
एवं ज्वराः प्रवर्तन्ते विषमाः सततादयः॥
अस2.77
दोषः प्रवर्तते तेषां स्वे काले ज्वरयन् बली।
निवर्तते पुनश्चैष प्रत्यनीकबलाबलः॥
अस2.78
क्षीणे दोषे ज्वरः सूक्ष्मो रसादिष्वेव लीयते।
लीनत्वात् कार्श्यवैवर्ण्यजाड्यादीनादधाति सः॥
अस2.79
अतिलीनोऽतिमन्दत्वात् भवत्यह्नि न पञ्चमे॥
अस2.80
दोषो रक्ताश्रयः प्रायः करोति सततं ज्वरम्॥
अस2.81
अहोरात्रस्य स द्विः स्यात्सकृदन्येद्युराश्रितः॥
अस2.82
तस्मिन्मांसवहा नाडीर्मेदोनाडीस्तृतीयके।
ग्राही पित्तानिलान्मूर्ध्नस्त्रिकस्य कफपित्ततः॥
अस2.83
स पृष्ठस्यानिलकफात् स चैकाहान्तरः स्मृतः॥
अस2.84
चतुर्थको मले मेदोमज्जास्थ्यन्यतमस्थिते।
मज्जस्थ एवेत्यपरे प्रभावं स तु दर्शयेत्॥
अस2.85
द्विधा कफेन जङ्घाभ्यां प्रथमं शिरसोऽनिलात्।
गम्भीरधातुचारित्वात् सनिपातेन सम्भवात्॥
अस2.86
तुल्योच्छ्रायाच्च दोषाणां दुश्चिकित्स्यश्चतुर्थकः॥
अस2.87
अस्थिमज्जोमयगते चतुर्थकविपर्ययः।
त्रिधा द्व्यहं ज्वरयति दिनमेकं तु मुञ्चति॥
अस2.88
बलाबलेन दोषाणामन्नचेष्टादिजन्मना।
ज्वरः स्यान्मनसस्तद्वत्कर्मणश्च तदा तदा॥
अस2.89
उत्क्लेशो गौरवं दैन्यं भङ्गोऽङ्गानां विजृम्भणम्।
अरोचको वमिः सादः सर्वस्मिन् रसगे ज्वरे॥
अस2.90
रक्तनिष्ठीवनं तृष्णा रक्तोष्णपिटकोद्गमः।
दाहरागभ्रममदप्रलापा रक्तसंश्रिते॥
अस2.91
तृड् ग्लानिः सृष्टवर्चस्त्वमन्तर्दाहो भ्रमस्तमः।
दौर्गन्ध्यं गात्रविक्षेपो मांसस्थे मेदसि स्थिते॥
अस2.92
स्वेदोऽतितृष्णा वमनं स्वगन्धस्यासहिष्णुता।
प्रलापो ग्लानिररुचिरस्थिस्थे त्वस्थिभेदनम्॥
अस2.93
दोषप्रवृत्तिरूर्ध्वाधः श्वासाङ्गक्षेपकूजनम्।
अन्तर्दाहो बहिःशैत्यं श्वासो हिध्मा च मज्जगे॥
अस2.94
तमसो दर्शनं मर्मच्छेदनं स्तब्धमेढ्रता।
शुक्रप्रवृत्तिर्मृत्युश्च जायते शुक्रसंश्रये॥
अस2.95
उत्तरोत्तरदुस्साध्याः पञ्चात्रान्त्यौ तु वर्जयेत्।
प्रलिम्पन्निव गात्राणि श्लेष्मणा गौरवेण च॥
अस2.96
मन्दज्वरः प्रलेपस्तु सशीतः स्यात्प्रलेपकः।
नित्यं मन्दज्वरो रूक्षः शीतः कृच्छ्रेण सिध्यति॥
अस2.97
स्तब्धाङ्गः श्लेष्मभूयिष्ठो भवेद्वातबलासकः।
हरिद्राभेकवर्णाभस्तद्वर्णं यः प्रमेहति॥
अस2.98
स वै हारिद्रको नाम ज्वरभेदोऽन्तकः स्मृतः।
कफवातौ समौ यस्य हीनपित्तस्य देहिनः॥
अस2.99
तीक्ष्णो वा यदि वा मन्दो जायते रात्रिकोज्वरः।
दिवाकरापीतबले व्यायामाच्च विशोषिते॥
अस2.100
शरीरे नियतं वाताज्ज्वरः स्यात् पूर्वरात्रिकः।
आमाशये यदा दुष्टे श्लेष्मपित्ते व्यवस्थिते॥
अस2.101
तदार्धं शीतलं देहे स्वर्धज्चोष्णं प्रजायते।
काये पित्तं यदा दुष्टं श्लेष्मा चान्ते व्यवस्थितः॥
अस2.102
उष्णत्वं तेन देहस्य शीतत्वं करपादयोः॥
अस2.103
धातून् प्रक्षोभयन् दोषो मोक्षकाले विलीयते।
ततो नरः श्वसन् स्विद्यन् कूजन् वमति चेष्टते॥
अस2.104
वेपते प्रलपत्युष्णैः शीतैश्चाङ्गैर्हतप्रभः।
विसंज्ञो ज्वरवेगार्तः सक्रोध इव वीक्षते॥
अस2.105
सदोषशब्दञ्च शकृद् द्रवं सृजति वेगवत्॥
अस2.106
देहो लघुर्व्यपगतक्लमममोहतापः पाको मुखे करणसौष्ठवमव्यथत्वम्।
स्वेदः क्षवः प्रकृतियोगि मनोऽन्नलिप्सा कण्डूश्च मूर्ध्नि विगतज्वरलक्षणानि॥
इति द्वितीयोऽध्यायः॥
अथ तृतीयोऽध्यायः।
अस3.1
अथातो रक्तपित्तकासनिदानं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
अस3.2
भृशोष्णतीक्ष्णकट्वम्ललवणातिविदाहिभिः।
कोद्रवोद्दालकैश्चान्नैस्तद्युक्तैरतिसेवितैः॥
अस3.3
कुपितं पित्तलैः पित्तं द्रवं रक्तं च मूर्छिते।
ते मिथस्तुल्यरूपत्वमागम्य व्याप्नुतस्तनुम्॥
अस3.4
पित्तं रक्तस्य विकृतेः संसर्गाद् दूषणादपि।
गन्धवर्णानुवृत्तेश्च रक्तेन व्यपदिश्यते॥
अस3.5
प्रभवत्यसृजः स्थानात् प्लीहतो यकृतश्च तत्॥
अस3.6
शिरोगुरुत्वमरुचिः शीतेच्छा धूमकोऽम्लकः।
छर्दिश्छर्दितबैभत्स्यं कासश्वासौ भ्रमः क्लमः॥
अस3.7
लोहलोहितमत्स्यामगन्धास्यत्वं स्वरक्षयः।
रक्तहारिद्रहरितवर्णता नयनादिषु॥
अस3.8
नीललोहितपीतानां वर्णानामविवेचनम्।
स्वप्ने तद्वर्णदर्शित्वं भवत्यस्मिन् भविष्यति॥
अस3.9
ऊर्ध्वं नासाक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः।
कुपितं रोमकूपैश्च समस्तैस्तत् प्रवर्तते॥
अस3.10
ऊर्ध्वं साध्यं कफाद्यस्मात्तद्विरेचनसाधनम्।
बह्वौषधं च पित्तस्य विरेको हि वरौषधम्॥
अस3.11
अनुबन्धी कफो यश्च तत्र तस्यापि शुद्धिकृत्।
कषायाः स्वादवोऽप्यस्य विशुद्धश्लेष्मणो हिताः॥
अस3.12
किमु तिक्ताः कषाया वा ये निसर्गात् कफापहाः॥
अस3.13
अधो याप्यं चलाद्यस्मात्तत् प्रच्छर्दनसाधनम्।
स्वल्पौषधं च पित्तस्य वमनं न वरौषधम्॥
अस3.14
अनुबन्धी चलो यश्च शान्तयेपि न तस्य तत्।
कषायाश्च हितास्तस्य मधुरा एव केवलम्॥
अस3.15
कफमारुतसंसृष्टमसाध्यमुभयायनम्।
अशक्यप्रातिलोम्यत्वादभावादौषधस्य च॥
अस3.16
न हि संशोधनं किञ्चिदस्त्यस्य प्रतिलोमनम्।
शोधनं प्रतिलोमं च रक्तपित्ते भिषग्जितम्॥
अस3.17
एवमेवोपशमनं सर्वशो नास्य विद्यते।
संसृष्टेषु हि दोषेषु सर्वजिच्छमनं हितम्॥
अस3.18
तत्र दोषानुगमनं सिरास्र एव लक्षयेत्।
उपद्रवांश्च विकृतिज्ञानतः तेषु चाधिकम्॥
अस3.19
आशुकारी यतः कासस्तमेवातः प्रवक्ष्यते॥
अस3.20
पञ्च कासाः वातपित्तश्लेष्मक्षतक्षयैः।
क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम्॥
अस3.21
तेषां भविष्यतां रूपं कण्ठे कण्डूररोचकः।
शूकपूर्णाभकण्ठत्वमस्वास्थ्यं हृदयस्य च॥
अस3.22
कषायविज्जलासात्म्यकट्वम्ललवणोषणैः।
रूक्षशीतगुरुस्निग्धोत्क्लेदिपर्युषिताशनैः॥
अस3.23
धारणोदीरणायासरात्र्यहःस्वप्नजागरैः।
अन्यैश्च तद्विधैर्धातुक्षयावरणकारिभिः॥
अस3.24
क्रुद्धः प्रतिहतोऽपाने यदापानः प्रपद्यते।
ऊर्ध्वं रसस्य स स्थाने तिष्ठन्नुरसि पीड्यते॥
अस3.25
उदानेन संजस्तत्र कण्ठे चानुप्रपूर्य च।
वाहिनीर्गलमूर्धस्थास्ततोऽङ्गान्युत्क्षिपन्निव॥
अस3.26
क्षिपन्निवाक्षिणी पृष्ठमुरःपार्श्वे च पीडयन्।
विवृतत्वान्मुखेनैति भिन्नकांस्योपमध्वनिः॥
अस3.27
यस्मात्तस्मात्स वर्णौजोबलमांसक्षयावहः॥
अस3.28
हेतुभेदात् प्रतीघातभेदो वायोः संरहसः।
यद्रुजाशब्दवैषम्यं कासानां जायते ततः॥
अस3.29
कुपितो वातलैर्वायुः शुष्कोरःकण्ठवक्त्रताम्।
हृत्पार्श्वोरःशिरःशूलं मोहक्षोभस्वरक्षयान्॥
अस3.30
करोति शुष्ककासं च महावेगरुजास्वनम्।
सोऽङ्गहर्षी कफं शुष्कं कृच्छ्रान्मुक्त्वाल्पतां व्रजेत्॥
अस3.31
पित्तात् पीताक्षिकफता तिक्तास्यत्वं ज्वरो भ्रमः।
पित्तासृग्वमनं तृष्णा वैस्वर्यं धूमको मदः॥
अस3.32
प्रततं कासवेगेन ज्योतिषामिव दर्शनम्।
कफादुरोऽल्परुङ्मूर्धहृदयं स्तिमितं गुरु॥
अस3.33
कण्ठोपलेपः सदनं पीनसच्छर्द्यरोचकाः।
रोमहर्षो घनस्निग्धश्वेतश्लेष्मप्रवर्तनम्॥
अस3.34
युद्धाद्यैः साहसैस्तैस्तैः सेवितैरयथाबलम्।
उरस्यन्तःक्षते वायुः पित्तेनानुगतो बली॥
अस3.35
कुपितः कुरुते कासं कफं तेन सशोणितम्।
पीतं श्यावं च शुष्कं च ग्रथितं कुथितं बहु॥
अस3.36
ष्ठीवेत् कण्ठेन रुजता विभीन्नेनेव चोरसा।
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना॥
अस3.37
पर्वभेदज्वरश्वासतृष्णावैस्वर्यकम्पवान्।
पारावत इवाकूजन् पार्श्वशूली ततोऽस्य च॥
अस3.38
क्रमाद्वीर्यं रुचिः पक्तिर्बलं वर्णश्च हीयते।
पक्षीणस्य सासृङ्मूत्रत्वं स्याच्च पृष्ठकटीग्रहः॥
अस3.39
वायुप्रधानाः कुपिता धातवो राजयक्ष्मिणः।
कुर्वन्ति यक्ष्मायतनैः कासं ष्ठीवेत् कफं ततः॥
अस3.40
पूतिपूतोपमं पीतं विस्रं हरितलोहितम्।
लुप्येत इव पार्श्वे च हृदयं पततीव च॥
अस3.41
अकस्मादुष्णशीतेच्छा बह्वाशित्वं बलक्षयः।
स्निग्धप्रसनवक्त्रत्वं श्रीमद्दशननेत्रता॥
अस3.42
ततोऽस्यक्षयरूपाणि सर्वाण्याविर्भवन्ति च॥
अस3.43
इत्येष क्षयजः कासः क्षीणानां देहनाशनः।
याप्यो वा बलिनां तद्वत् क्षतजोऽभिनवौ तु तौ॥
अस3.44
सिध्येतामपि सानाथ्यात् साध्या दोषैः पृथक् त्रयः।
मिश्रा याप्या द्वयात्सर्वे जरसा स्थविरस्य च॥
अस3.45
कासाच्छ्वासक्षयछर्दिस्वरसादादयो गदाः।
भवन्त्युपेक्षया यस्मात्तस्मात्तं त्वरया जयेत्॥
इति तृतीयोऽध्यायः॥
अथ चतुर्थोऽध्यायः।
अस4.1
अथातः श्वासहिध्मानिदानं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
अस4.2
कासवृध्या भवेच्छ्रूवासः पूर्वैर्वा दोषकोपनैः।
आमातिसारवमथुविषपाण्डुज्वरैरपि॥
अस4.3
रजोधूमानिलैर्मर्मघातादतिहिमाम्बुना।
क्षुद्रकस्तमकश्छिन्नो महानूर्ध्वश्च पञ्चमः॥
अस4.4
कफोपरुद्धगमनः पवनो विष्वगास्थितः।
प्राणोदकान्नवाहीनि दुष्टः स्रोतांसि दूषयन्॥
अस4.5
उरस्थः कुरुते श्वासमामाशयसमुद्भवम्॥
अस4.6
प्राग्रूपं तस्य हृत्पार्श्वशूलं प्राणविलोमता।
आनाहः शङ्खभेदश्च तत्रायासातिभोजनैः॥
अस4.7
प्रेरितः प्रेरयेत् क्षुद्रं स्वयंसंशमनं मरुत्॥
अस4.8
प्रतिलोमं सिरा गच्छन्नुदीर्य पवनः कफम्।
परिगृह्य शिरोग्रीवमुरःपार्श्वे च पीडयन्॥
अस4.9
कासं घुर्घुरकं मोहमरुचिं पीनसं तृषम्।
करोति तीव्रवेगं च श्वासं प्राणोपतापिनम्॥
अस4.10
प्रताम्येत्तस्य वेगेन निष्ठ्यूतान्ते क्षणं सुखी।
कृच्छ्राच्छयानः श्वसिति निष्ण्णः स्वास्थ्यमृच्छति॥
अस4.11
उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमर्तिमान्।
विशुष्कास्यो मुहुः श्वासी काङ्क्षत्युष्णं सवेपथुः॥
अस4.12
मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्च विवर्धते।
स याप्यस्तमकः साध्यो नवो वा बलिनो भवेत्॥
अस4.13
ज्वरमूर्छायुतः शीतैः शाम्येत् प्रतमकस्तु सः॥
अस4.14
छिन्नाच्छ्वसिति विच्छिन्नं मर्मच्छेदरुजार्दितः।
सस्वेदमूर्छः सानाहो बस्तिदाहनिरोधवान्॥
अस4.15
अधोदृग्विप्लुताक्षश्च मुह्यन् रक्तैकलोचनः।
शुष्कास्यः प्रलपन्दीनो नष्टच्छायो विचेतनः॥
अस4.16
महता महता दीनो नादेन श्वसिति क्रथन्।
उद्धूयमानः संरब्धो मत्तर्षभ इवानिशम्॥
अस4.17
प्रणष्टज्ञानविज्ञानो विभ्रान्तनयनाननः।
वक्षः समाक्षिपन् बद्धमूत्रवर्चा विशीर्णवाक्॥
अस4.18
शुष्ककण्ठो मुहुर्मुह्यन् कर्णशङ्खशिरोऽतिरुक्॥
अस4.19
दीर्घमूर्ध्वं श्वसित्यूर्ध्वान्न च प्रत्याहरत्यधः।
श्लेष्मावृतमुखस्रोताः क्रुद्धगन्धवहार्दितः॥
अस4.20
मर्मसु छिद्यमानेषु परिदेवी निरुद्धवाक्॥
अस4.21
एते सिध्येयुरव्यक्ता व्यक्ताः प्राणहरा ध्रुवम्॥
अस4.22
श्वासैकहेतुप्राग्रूपसङ्ख्याग्रकृतिसंश्रयाः।
हिध्मा भक्तोद्भवा क्षुद्रा यमला महतीति च॥
अस4.23
गम्भीरा च मरुत्तत्र त्वरयायुक्तिसेवितैः।
रूक्षतीक्ष्णखरासात्म्यैरन्नपानैः प्रपीडितः॥
अस4.24
करोति हिध्मामरुजां मन्दशब्दां क्षवानुगाम्।
शमं सात्म्यान्नपानेन या प्रयाति च सान्नजा॥
अस4.25
आयासात् पवनः क्रुद्धः क्षुद्रां हिध्मां प्रवर्तयेत्।
जत्रुमूलप्रविसृतामल्पवेगां मृदुं च सा॥
अस4.26
वृद्धिमायास्यतो याति भुक्तमात्रे च मार्दवम्॥
अस4.27
चिरेण यमलैर्वेगैराहारे या प्रवर्तते।
परिणामोन्मुखे वृद्धिं परिणामे च गच्छति॥
अस4.28
कम्पयन्ती शिरोग्रीवामाध्मातस्यातितृष्यतः।
प्रलापच्छर्द्यतीसारनेत्रविप्लुतिजृम्भिणः॥
अस4.29
यमला वेगिनी हिध्मा परिणामवती च सा॥
अस4.30
ध्वस्तभ्रूशङ्खयुग्मस्य सास्रविप्लुतचक्षुषः।
स्तम्भयन्ती तनुं वाचं स्मृतिं संज्ञां च मुष्णती॥
अस4.31
रुन्धती मार्गमन्नस्य कुर्वती मर्मघट्टनम्।
पृष्ठतो नमनं शोषं महाहिध्मा प्रवर्तते॥
अस4.32
महामूला महाशब्दा महावेगा महाबला।
षक्वाशयाद्वा नाभेर्वा पूर्ववद्या प्रवर्तते॥
अस4.33
तद्रूपा सा मुहुः कुर्यात् जृम्भामङ्गप्रसारणम्।
गम्भीरेणानुनादने गम्भीरा तासु साधयेत्।
आद्ये द्वे वर्जयेदन्त्ये सर्वलिङ्गां च वेगिनीम्॥
अस4.34
सर्वाश्च सञ्चितामस्य स्थविरस्य व्यवायिनः।
व्याधिभिः क्षीणदेहस्य भक्तच्छेदक्षतस्य वा॥
अस4.35
सर्वेऽपि रोगा नाशाय नत्वेवं शीघ्रकारिणः।
हिध्माश्वासौ यथा तौ हि मृत्युकाले कृतालयौ॥
इति चतुर्थोऽध्यायः।
अथ पञ्चमोऽध्यायः।
अस5.1
अथातो राजयक्ष्मादिनिदानं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
अस5.2
अनेकरोगानुगतो बहुरोगपुरोगमः।
राजयक्ष्मा क्षयः शोषो रोगराडिति च स्मृतः॥
अस5.3
नक्षत्राणां द्विजानां च राज्ञोऽभूद्यदयं पुरा।
यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः॥
अस5.4
देहौषधक्षयकृतेः क्षयस्तत्सम्भवाच्च सः।
रसादिशोषणाच्छोषो रोगराट् तेषु राजनात्॥
अस5.5
साहसं वेगसंरोधः शुक्रौजःस्नेहसङ्क्षयः।
अन्नपानविधित्यागश्चत्वारस्तस्य हेतवः॥
अस5.6
तैरुदीर्णोऽनिलः पित्तं कफं चोदीर्य सर्वतः।
शरीरसन्धीनाविश्य तान् सिराश्च प्रपीडयन्॥
अस5.7
मुखानि स्रोतसां रुध्वा तथैवातिविवृत्य वा।
सर्पन्नूर्ध्वमधस्तिर्यग्यथास्वं जनयेत् गदान्॥
अस5.8
रूपं भविष्यतस्तस्य प्रतिश्यायो भृशं क्षवः।
प्रसेको मुखमाधुर्यंअ सदनं वह्निदेहयोः॥
अस5.9
स्थाल्यमत्रान्नपानादौ शुचावप्यशुचीक्षणम्।
मक्षिकातृणकेशादिपातः प्रायोऽन्नपानयोः॥
अस5.10
हृल्लासश्छर्दिररुचिरश्नतोऽपि बलक्षयः।
पाण्योरवेक्षा पादस्य शोफोऽक्ष्णोरतिशुक्लता॥
अस5.11
बाह्वोः प्रमाणजिज्ञासा काये बैभत्स्यदर्शनम्।
स्त्रीमद्यमांसप्रियता घृणित्वं मूर्धगुण्ठनम्॥
अस5.12
नखकेशातिवृद्धिश्च स्वप्ने चाभिभवो भवेत्।
पतङ्गकृकलासाहिकपिश्वापदपक्षिभिः॥
अस5.13
केशास्थितुषभस्मादिराशौ समधिरोहणम्।
शून्यानां ग्रामदेशानां दर्शनं शुष्यतोऽम्भसः॥
अस5.14
ज्योतिर्गिरीणां पततां ज्वलतां च महीरुहाम्॥
अस5.15
पीनसश्वासकासांसमूर्धस्वररुजोऽरुचिः।
ऊर्ध्वं विट्स्रंससंशोषावधश्छरिदिस्तु कोष्ठगे॥
अस5.16
तिर्यक्स्थे पार्श्वरुक्दोषे सन्धिगे भवति ज्वरः।
रूपाण्येकादशैतानि जायन्ते राजयक्ष्मिणः॥
अस5.17
तेषामुपद्रवान् विद्यात् कण्ठोद्ध्वंसमुरोरुजम्।
जृम्भाङ्गमर्दनिष्ठीववह्निसादास्यपूतिताः॥
अस5.18
तत्र वाताच्छिरःपार्श्वशूलमंसाङ्गमर्दनम्।
कण्ठोद्ध्वंसः स्वरभ्रंशः पित्तात् पादास्यपाणिषु॥
अस5.19
दाहोतिसारोऽसृक्छर्दिर्मुखगन्धो ज्वरो मदः।
कफादरोचकश्छर्दिः कासो मूर्धाङ्गगौरवम्॥
अस5.20
प्रसेकः पीनसः श्वासः स्वरसादोऽल्पवह्निता॥
अस5.21
दोषैर्मन्दानलत्वेन सोपलेपैः कफोल्बणैः।
स्रोतोमुखेषु रुद्धेषु धातूष्मस्वल्पकेषु च॥
अस5.22
विदह्यमानः स्वस्थाने रसस्तांस्तानुपद्रवान्।
कुर्यादगच्छन् मांसादीनसृक् चोर्ध्वं प्रधावति॥
अस5.23
पच्यते कोष्ठ एवान्नमन्नपक्त्रैव चास्य यत्।
प्रायोऽस्मान्मलतां यातं नैवालं धातुपुष्टये॥
अस5.24
रसोऽप्यस्य न रक्ताय मांसाय कुत एव तु।
अवष्टब्धः स शकृता केवलं वर्तते क्षयी॥
अस5.25
लिङ्गेष्वल्पेष्वपि क्षीणं व्याध्यौषधबलाक्षमम्।
वर्जयेत् साधयेदेव सर्वेष्वपि ततोऽन्यथा॥
अस5.26
दोषैर्व्यस्तैः समस्तैश्च क्षयात् षष्ठश्च मेदसा।
स्वरसादो भवेत्तत्र क्षामो रूक्षश्चलः स्वरः॥
अस5.27
शूकपूर्णाभकण्ठत्वं स्निग्धोष्णोपशयोऽनिलात्।
पित्तात्तालुगले दाहः शोष उक्तावसूयनम्॥
अस5.28
लिम्पन्निव कफात् कण्ठं मन्दः खुरखुरायते।
स्वरो विबद्धः सर्वैस्तु सर्वलिङ्गः क्षयात् कषेत्॥
अस5.29
धूमायतीव चात्यर्थं मेदसा श्लेष्मलक्षणः।
कृच्छ्रलक्ष्याक्षरश्चात्र सर्वैरन्त्यं च वर्जयेत्॥
अस5.30
अरोचको भवेद्दोषैर्जिह्वाहृदयसंश्रयैः।
सन्निपातेन मनसः सन्तापेन च पञ्चमः॥
अस5.31
कषायतिक्तमधुरं वातादिषु मुखं क्रमात्।
सर्वोत्थे विरसं शोकक्रोधादिषु यथामलम्॥
अस5.32
छर्दिर्दोषैः पृथक् सर्वैर्द्विष्टैरर्थैश्च पञ्चमी।
उदानो विकृतो दोषान् यूसर्वास्वर्प्ध्वमस्यति॥
अस5.33
तासूत्क्लेशास्यलावण्यप्रसेकारुचयोऽग्रगाः।
नाभिं पृष्ठं रुजन् वायुः पार्श्वेचाहारमुत्क्षिपेत्॥
अस5.34
ततो विच्छिन्नमल्पाल्पं कषायं फेनिलं वमेत्।
शब्दोद्गारयुतं कृष्णमच्छं कृच्छ्रेण वेगवत्॥
अस5.35
कासास्यशोषहृन्मूर्धस्वरपीडाक्लमान्वितः।
पित्तात् क्षारोदकनिभं धूम्रं हरितपीतकम्॥
अस5.36
सासृगम्लं कटूष्णं च तृण्मूर्छादाहतापवान्।
कफात् स्निग्धं घनं श्वेतं श्लेष्मतन्तुगवाक्षितम्॥
अस5.37
मधुरं लवणं भूरिप्रसक्तं लोमहर्षणम्।
मुखश्वयथुमाधुर्यतन्द्राहृल्लासकासवान्॥
अस5.38
सर्वलिङ्गा मलैः सर्वै रिष्टोक्ता याच तां त्यजेत्।
पूत्यमेध्याशुचिद्विष्टदर्शनश्रवणादिभिः॥
अस5.39
तप्ते चित्ते हृदि क्लिष्टे छर्दिर्द्विष्टार्थयोगजा॥
अस5.40
वातादीनेव विमृशेत् कृमितृष्णामदौहृदे।
शूलवेपथुहृल्लासैर्विशेषात् कृमिजां वदेत्॥
अस5.41
कृमिहृद्रोगलिग्गैश्च स्मृताः पञ्च तु हृद्गदाः।
तेषां गुल्मनिदानोक्तैः समुत्थानैश्च सम्भवः॥
अस5.42
वातेन शूल्यतेऽत्यर्थं तुद्येते स्फुटतीव च।
भिद्यते शुष्यति स्तब्धं हृदयं शून्यता द्रवः॥
अस5.43
अकस्माद्दीनता शोको भयं शब्दासहिष्णुता।
वेपथुर्वेष्टनं मोहः श्वासरोधोऽल्पनिद्रता॥
अस5.44
पित्तात्तृष्णा भ्रमो मूर्च्छा स्वेदोऽम्लकःक्लमः।
छर्दनं चाम्लपित्तस्य धूमकः पीतता ज्वरः॥
अस5.45
श्लेष्मणा हृदयं स्तब्धं भारि कंसाश्मगर्भवत्।
कासाग्निसादनिष्ठीवनिद्रालस्यारुचिज्वराः॥
अस5.46
सर्वलिङ्गस्त्रिभिर्दोषैः कृमिभिः श्यावनेत्रता।
तमःप्रवेशो हृल्लासः शोषः कण्डूः कफस्रुतिः॥
अस5.47
हृदयं प्रततञ्चात्र क्रकचेनेव दार्यते।
चिकित्सेदामयं घोरं तं शीघ्रं शीघ्रकारिणम्॥
अस5.48
वातात् पित्तात् कफात् तृष्णा सन्निपाताद्रसक्षयात्।
षष्ठी स्यादुपसर्गाच्च वातपित्ते तु कारणम्॥
अस5.49
सर्वासु तत्प्रकोपो हि सौम्यधातुप्रशोषणात्।
सर्वदेहभ्रमोत्कम्पतापतृट्दाहमोहकृत्॥
अस5.50
जिह्वामूलगलक्लोमतालुतोयवहाः सिराः।
संशोष्य तृष्णा जायन्ते तासां सामान्यलक्षणम्॥
अस5.51
मुखशोषो जलातृप्तिरन्नद्वेषः स्वरक्षयः।
कण्ठौष्ठजिह्वाकार्कश्यं जिह्वानिष्क्रमणं क्लमः॥
अस5.52
प्रलापश्चित्तविभ्रंशस्तृड्ग्रहोक्तास्तथामयाः॥
अस5.53
मारुतात् क्षामता दैन्यं शङ्खतोदः शिरोभ्रमः।
गन्धाज्ञानास्यवैरस्यश्रुतिनिद्राबलक्षयाः॥
अस5.54
शीताम्बुपानाद्वृद्धिश्च पित्तान्मूर्छास्यतिक्तता।
रक्तेक्षणत्वं प्रततं शोषो दाहोऽतिधूमकः॥
अस5.55
कफो रुणद्धि कुपितस्तोयवाहिषु मारुतम्।
स्रोतस्सु सकफस्तेन पङ्कवच्छोष्यते ततः॥
अस5.56
शूकैरिवाचितः कण्ठो निद्रा मधुरवक्त्रता।
आध्मानं शिरसो जाड्यं स्तैमित्यच्छर्द्यरोचकाः।
आलस्यमविपाकश्च सर्वैः स्यात् सर्वलक्षणा॥
अस5.57
आमोद्भवा च भक्तस्य संरोधाद्वातपित्तजा।
उष्णक्लान्तस्य सहसा शीताम्भो भजतस्तृषम्॥
अस5.58
ऊष्मा रुद्धो गतः कोष्ठं यां कुर्यात् पित्तजैव सा।
या च पानातिपानोत्था तीक्ष्णाग्रेःस्नेहजा च या॥
अस5.59
स्निग्धगुर्वम्ललवणभोजनेन कफोद्भवा।
तृष्णा रसक्षयोक्तेन लक्षणेन क्षयात्मिका॥
अस5.60
शोषमेहज्वराद्यन्यदीर्घरोगोपसर्गतः।
या तृष्णा जायते तीव्रा सोपसर्गात्मिका स्मृता॥
इति पञ्चमोऽध्यायः॥