अष्टाङ्गसंग्रहः चिकित्सितस्थानम् अध्याय ६-१०

विकिस्रोतः तः

अष्टाङ्गसंग्रहः

अथ षष्ठोऽध्यायः।

अचि6.1
अथातः श्वासहिध्माचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अचि6.2
श्वासहिध्मा यतस्तुल्यहेत्वाद्याः साधनं ततः।
तुल्यमेव तदार्तं च पूर्वं स्वेदैरुपाचरेत्॥

अचि6.3
स्निग्धैर्लवणतैलाक्तं स्रोतस्सु ग्रथितः कफः।
तैर्लीनोऽपि विलीनोस्य कोष्ठं प्राप्तः सुनिर्हरः॥

अचि6.4
भवेत् खेषु मृदुत्वं च मारुते चानुलोमता।
स्विन्नं च भोजयेदन्नं स्निग्धमानूपजै रसैः॥

अचि6.5
दध्युत्तरेण वा दद्यात्ततोऽस्मै वमनं मृदु।
विशेषात् कासवमथुहृद्ग्रहस्वरसादिने॥

अचि6.6
पिप्पलीसैन्धवक्षौद्रयुक्तं वाताविरोधि यत्।
निर्हृते सुखमाप्रोति सकफे दुष्टविग्रहे॥

अचि6.7
स्रोतःसु च विशुद्धेषु चरत्यविहतोऽनिलः।
ध्मानोदावर्ततमके मातुलुङ्गाम्लवेतसैः॥

अचि6.8
हिङ्गुपीलुबिडयुक्तमन्नं स्यादनुलोमनम्। ससैधवं फलाम्लं वा कोष्णं दद्याद्विरेचनम्॥

अचि6.9
एते हि कफसंरुद्धगतिप्राणप्रकोपजाः।
तस्मात्तन्मार्गशुध्यर्थमूर्ध्वाधः शोधनं हितम्॥

अचि6.10
उदीर्यते भृशतरं मार्गरोधाद्वहज्जलम्।
यथा तथानिलस्तस्य मार्गमस्माद्विशोधयेत्॥

अचि6.11
अशान्तौ कृतसंशुद्धेर्धूमैर्लीनं मलं हरेत्।
हरिद्रापत्रमेरण्मूलं लाक्षां मनःशिलाम्॥

अचि6.12
सदेवदार्वलं मांसीं पिष्ट्वा वर्तिं प्रकल्पयेत्।
तां घृताक्तां पिबेद्धूमं यवान् वा घृतसंयुतान्॥

अचि6.13
मधूच्छिष्टं सर्जरसं घृतं वा गुरुवागुरु।
चन्दनंवाजशृङ्गं वा बालान्वा स्नाव वा गवाम्॥

अचि6.14
ऋष्यगोधकुरङ्गैणचर्मशृङ्गखुराणि वा।
गुग्गुलुं वा मनोह्वां वा सालनिर्यासमेव वा॥

अचि6.15
सल्लकीं गुग्गुलुं लोहं पद्मकं च घृताप्लुतम्॥

अचि6.16
अवश्यं स्वेदनीयानामस्वेद्यानामपि क्षणम्।
स्वेदयेत् ससिताक्षीरसुखोष्णस्नेहसेचनैः॥

अचि6.17
उत्कारिकोपनाहैश्च स्वेदाध्यायोक्तभेषजैः।
उरः कण्ठं च मृदुभिः सामे त्वामविधिं चरेत्॥

अचि6.18
अतियोगोद्धतं वातं दृष्ट्वा पवननाशनैः।
स्निग्धै रसाद्यैर्नात्युष्णैरभ्यङ्गैश्च शमं नयेत्॥

अचि6.19
अनुत्क्लिष्टकफास्विन्नदुर्बलानां हि शोधनात्।
वायुर्लब्धास्पदो मर्म संशोष्याशु हरेदसून्॥

अचि6.20
कषायलेहस्नेहाद्यैस्तेषां संशमयेदतः।
क्षीणक्षतातिसारासृक्पित्तदाहानुबन्धजान्॥

अचि6.21
मधुरस्निग्धशीताद्यैर्हिध्माश्वासानुपाचरेत्।
कुलत्थदशमूलानां क्वाथे स्युर्जाङ्गला रसाः।
यूषाश्च शिग्रुवार्ताककासघ्नवृषमूलकैः॥

अचि6.22
पल्लवैर्निम्बकुलकबृहतीमातुलुङ्गजैः।
व्याघ्रीदुरालभाशृङ्गीबिल्वमध्यत्रिकण्टकैः॥

अचि6.23
सामृताग्निकुलत्थैश्च यूषः स्यात् क्वथितैर्जलै।
तद्वद्रास्नाबृहत्यादिबलामुद्गैः सचित्रकैः॥

अचि6.24
पेया च चित्रकाजाजीशृङ्गीसौवर्चलैर्हिता।
दशमूलेन वा कासश्वासहिध्मारुजापहा॥

अचि6.25
दशमूलशठीरास्नाभार्ङ्गीबिल्वर्धिपौष्करैः।
कुलीरशृङ्गीचपलातामलक्यमृतौषधैः॥

अचि6.26
पिबेत् कषायं जीर्णेऽस्मिन् पेयां तैरेवसाधिताम्।
शालिषष्टिकगोधूमयवमुद्गकुलत्थभुक्॥

अचि6.27
कासहृद्ग्रहपार्श्वार्तिहिध्माश्वासप्रशान्तये।
सक्तून्वार्काङ्कुरक्षीरभावितानां समाक्षिकान्।
यवानां दशमूलादिनिःक्वाथलुलितान् पिबेत्॥

अचि6.28
अन्ने च योजयेत् क्षारहिङ्वाज्यबिडदाडिमान्।
सपौष्करशठीव्योषमातुलुङ्गाम्लवेतसान्॥

अचि6.29
दशमूलस्य वा क्वाथमथवा देवदारुणः।
पिबेद्वा वारुणीमण्डं हिध्माश्वासी पिपासितः॥

अचि6.30
पिप्पलीपिप्पलीमूलपथ्याजन्तुघ्नचित्रकैः।
कल्कितैर्लेपिते रूढे निक्षिपेत् घृतभाजने॥

अचि6.31
तक्रं मासस्थितं तद्धि दीपनं श्वासकासजित्।
पाठां मधुरसां दारु सरलं च निशि स्थितम्॥

अचि6.32
सुरामण्डेऽल्पलवणं पिबेत् प्रसृतसम्मितम्।
शिरीषकुन्दकदलीकुसुमं पिप्पलीयुतम्॥

अचि6.33
तण्डुलाम्बुप्लुतं हिध्माश्वासकासहरं परम्।
आरनालेन पिष्ट्वा वा मातुलुङ्गरसान्वितान्॥

अचि6.34
हिङ्गुसौवर्चलकणाकोलमुद्गान् जलेन वा।
कोष्णेन भार्ङ्गीं शुण्ठीं च क्षारं वा मरिचान्वितम्॥

अचि6.35
स्वक्वाथपिष्टां लुलितां बाष्पिकां पाययेत वा।
स्वरसं सप्तपर्णस्य पुष्पाणां वा शिरीषतः॥

अचि6.36
हिध्वाश्वासे मधुकणायुक्तं पित्तकफानुगे।
उत्कारिका तुगाकृष्णामधूलीगुडनागरैः॥

अचि6.37
पित्तानुबन्धे योक्तव्या पवने त्वनुबन्धिनि।
श्वाविट्छशामिषकणाघृतशल्यकशोणितैः॥

अचि6.38
सुवर्चलारसव्योषसर्पिर्भिः सहितं पयः।
अनुशाल्योदनं पेयं वातपित्तेऽनुबन्धिनि॥

अचि6.39
चतुर्गुणाम्बुसिद्धं वा छागं सगुडनागरम्।
पिप्पलीमूलमधुकगुडगोश्वशकृद्रसान्।
हिध्माभिष्यन्दकासघ्नान् लिह्यान्मधुघृतान्वितान्॥

अचि6.40
गोगजाश्ववराहोष्ट्रखरमेषाजविड्रसान्॥

अचि6.41
समध्वैकैकशो लिह्याद्बहुश्लेष्माथवा पिबेत्।
चतुष्पाच्चर्मरोमस्थिखुरशृङ्गोद्भवां मषीम्॥

अचि6.42
तथैव वाजिगन्धाया लिह्याच्छ्वासी कफोल्बणः।
क्षारं वा त्रिफलापाठाबृहतीफलमूलजम्॥

अचि6.43
मुक्ताप्रवालवैडूर्यशङ्खसौगन्धिकाञ्जनम्।
मसारगल्लस्फटिककाचैलालवणद्वयम्॥

अचि6.44
अपामार्गफलं ताम्रमयो रूप्यं शणात् फलम्।
ज्योतीरसेन तल्लिह्यादयो वैकं मधुद्रवम्॥

अचि6.45
शठीपौष्करधात्रीर्वा पौष्करं वा कणान्वितम्।
गैरिकाञ्जनकृष्णा वा स्वरसं वा कपित्थजम्॥

अचि6.46
रसेन वा कपित्थस्य धात्रीसैन्धवपिप्पलीः।
घृतक्षौद्रेण वा पथ्या विडङ्गोषणपिप्पलीः॥

अचि6.47
लिह्याद्वा पिप्पलीद्राक्षापथ्याशृङ्गीदुरालभाः।
घृतमाक्षिकतैलैर्वा त्र्यूषणं क्षारसंयुतम्।
पिप्पलीक्षौद्रयुक्तौ वा रसौ धात्रीकपित्थयोः॥

अचि6.48
सितोपलात्वामलकी द्राक्षा गोश्वशकृद्रसम्।
कोललाजमधुद्राक्षापिप्पलीनागराणि वा॥

अचि6.49
गुडतैलनिशाद्राक्षाकणारास्नोषणानि वा।
पिबेद्रसाम्बुमद्याद्यैर्लेहौषधरजांसि वा॥

अचि6.50
जीवन्तीमुस्तसुरसत्वगेलाद्वयपौष्करम्।
चण्डातामलकीलोहभार्ङ्गीनागरवालकम्॥

अचि6.51
कर्कटाख्याशठीकृष्णानागकेसरचोरकम्।
उपयुक्तं यथाकामं चूर्णं द्विगुणशर्करम्॥

अचि6.52
पार्श्वरुग्ज्वरकासघ्नं हिध्माश्वासहरं परम्।
जीवन्ती चोरकः शृङ्गी पौष्करं सुरसः शठी॥

अचि6.53
पिप्पलीत्वग्बिडक्षारशुण्ठीहिङ्वम्लवेतसम्।
एलातामलकीभार्ङ्गीवृक्षाम्लं चेति चूर्णितम्॥

अचि6.54
रसेन मातुलुङ्गस्य मद्येन हविषाथवा।
लीढं प्रयुक्तमन्ने वा केवलं चोपयोजितम्॥

अचि6.55
हिध्माश्वासविबन्धार्शःकासहृत्पार्श्वशूलनुत्।
शठीतामलकीभार्ङ्गीचण्डावालकपौष्करम्॥

अचि6.56
शर्कराष्टगुणं चूर्णं हिध्माश्वासहरं परम्।
तुल्यं गुडं नागरं च भक्षयेन्नावयेत वा॥

अचि6.57
लशुनस्य पलाण्डोर्वा मूलं गृञ्जनकस्य वा।
चन्दनाद्वा रसं दद्यान्नारीक्षीरेण नावनम्॥

अचि6.58
सशर्करां पिप्पली वा मधुकं वा मधुद्रवम्।
स्तन्येन मक्षिकाविष्ठामलक्तकरसेन वा॥

अचि6.59
ससैन्धवं घृताच्छं वा सिद्धं स्तन्येन वा घृतम्।
कल्कितैर्मधुरद्रव्यैस्तत् पिबेन्नावयेत वा॥

अचि6.60
सकृदुष्णं सकृच्छीतं व्यत्यासात् ससितं मधु।
तद्वत् पयस्तहासिद्धमधोभागौषधैर्घृतम्॥

अचि6.61
कणासौवर्चलक्षारवयस्थाहिड्गुचोरकैः।
सकायस्थैर्घृतं मस्तु दशमूलरसे पचेत्॥

अचि6.62
तत् पिबेज्जीवनीयैर्वा लिह्यात् समधु साधितम्।
तेजोवत्यभया कुष्ठं पिप्पली कटुरोहिणी॥

अचि6.63
पूकीकं पौष्करं मूलं पलाशश्चित्रकः शठी।
पटुद्वयं तामलकी जीवन्ती बैल्वपेशिका॥

अचि6.64
वचापत्रं च तालीसं कर्षांशैस्तैर्विंपाचयेत्।
हिङ्गुपादैर्घृतप्रस्थं पीतमाशु निहन्ति तत्॥

अचि6.65
श्वासानिलार्शोग्रहणीहिध्माहृत्पार्श्ववेदनाः।
सिद्धं वा पुरमञ्जिष्ठालाक्षासर्जरसैः पिबेत्॥

अचि6.66
सपद्मकमनोह्वालैर्घृतप्रस्थं पिचून्मितैः।
वत्सकादिप्रतीवापं सिद्धं वा प्रथमे गणे॥

अचि6.67
सपञ्चलवणं सर्पिः श्वासकासानपोहति।
हिंस्राविडङ्गपूतीकत्रिकटुत्रिफलाग्निकैः॥

अचि6.68
कोलमात्रैर्घृतप्रस्थं पाचयेत् सलिलाढके।
क्षीरप्रस्थद्वयोपेतं तत् कासश्वासपीनसान्॥

अचि6.69
अर्शांस्यरोचकं गुल्मं क्षयं हिध्मां च नाशयेत्।
सैन्धवार्धांशयुक्तं वा पुराणं पाययेद्घृतम्।
धान्वन्तरं वृषघृतं दाधिकं त्र्यूषणादि वा॥

अचि6.70
शीताम्बुसेकः सहसा त्रासविक्षेपभीशुचः।
हर्षेर्ष्योच्छ्वासरोधाश्च हितं कीटैश्च दंशनम्॥

अचि6.71
यत् किञ्चित् कफवातघ्नमुष्णं वातानुलोमनम्।
तत् सेव्यं प्रायशो यच्च सुतरां मारुतापहम्॥

अचि6.72
वातकृद्वा कफहरं कफकृद्वानिलापहम्।
कार्यं नैकान्तिकं ताभ्यां प्रायः श्रेयोऽनिलापहम्॥

अचि6.73
सर्वेषां बृंहणे ह्यल्पः शक्यश्च प्रायशो भवेत्।
नात्यर्थं शमनेऽपायो भृशोशक्यश्च कर्शने॥

अचि6.74
शमनैर्बृंहणैश्चातो भूयिष्ठं तानुपाचरेत्।
कासश्वासक्षयच्छर्दिहिध्माश्चान्योन्यभेषजैः॥
इति षष्ठोऽध्यायः॥

अथ सप्तमोऽध्यायः।

अचि7.1
अथातो राजयक्ष्मचिकित्सितं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अचि7.2
बलिनो बहुदोषस्य स्निग्धस्विन्नस्य शोधनम्।
ऊर्ध्वाधो यक्ष्मिणः कुर्यात् सस्नेहं यन्न कर्शनम्॥

अचि7.3
पयसा फलयुक्तेन मधुरेण रसेन वा।
सर्पिष्मत्या यवाग्वा वा वमनद्रव्यसिद्धया॥

अचि7.4
वमेद्विरेचनं दद्यात्त्रिवृच्श्यामानृपद्रुमान्॥
शर्करामधुसर्पिर्भिः पयसा तर्पणेन वा।
द्राक्षाविदारीकाश्मर्यमांसानां वा रसैर्युतान्॥

अचि7.5
शुद्धकोष्ठस्य युञ्जीत विधिं बृंहणदीपनम्।
हृद्यानि चान्नपानानि वातघ्नानि लघूनि च॥

अचि7.6
शालिषष्टिकगोधूमयवमुद्गं समास्थितम्।
लघुमच्युतवीर्यं च सुजरं बलकृच्च यत्॥

अचि7.7
आजं क्षीरं घृतं मांसं क्रव्यान्मांसं च शोषजित्।
काकोलूकवृकद्वीपिगवाश्वनकुलोरगम्॥

अचि7.8
गृध्रभासखरोष्ट्रं च हितं छद्मोपसंहितम्।
ज्ञातं जुगुप्सितं तद्धि छर्दिषे न बलौजसे॥

अचि7.9
मृगाद्याः पित्तकफयोः पवने प्रसहादयः।
वेशवारीकृताः पथ्या रसादिषु च कल्पिताः॥

अचि7.10
भृष्टाः सर्षपतैलेन सर्पिषा वा यथायथम्।
रसिका मृदवः स्निग्धाः पटुद्रव्याभिसंस्कृताः॥

अचि7.11
हिता मौद्गककौलत्थास्तद्वद्यूषाश्च साधिताः।
सपिप्पलीकं सयवं सकुलत्थं सनागरम्॥

अचि7.12
सदाडिमं सामलकं स्निग्धमाजं रसं पिबेत्।
तेन षड्विनिवर्तन्ते विकाराः पीनसादयः॥

अचि7.13
कोलदाडिमनिर्यासपिष्टयास्थिविहीनया।
द्राक्षया स्वच्छधान्याम्बुप्लुतालोडितकल्कया॥

अचि7.14
कार्यः सौवर्चलव्योषपत्रैलादीप्यकान्वितः।
समाक्षिकः सकर्पूरः सलवङ्कः सकेसरः॥

अचि7.15
चन्द्रकान्तो यथार्थाख्यः शोषहाग्निरुचिप्रदः।
शुक्ताम्लधात्रीस्वरसैर्द्राक्षायाः कल्कितं पलम्॥

अचि7.16
गुडषट्पलसंयुक्तं युक्तं श्लक्ष्णैश्च कार्षिकैः।
वृक्षाम्लधान्यद्रमिलीराजिकादाडिमोषणैः॥

अचि7.17
पलेन नागपुष्पस्य किञ्चित् सौवर्चलेन च।
ससेव्यपत्रत्वक्तोयः सुरसारसमूर्छितः॥

अचि7.18
भूरिभूस्तृणको रागः कण्ठ्यो रुच्यः समाक्षिकः।
पिबेच्च सुतरां मद्यं जीर्णं स्रोतोविशोधनम्॥

अचि7.19
पित्तादिषु विशेषेण मध्वरिष्टाच्छवारुणीः।
सिद्धं वा पञ्चमूलेन तामलक्याथवा जलम्॥

अचि7.20
पर्णिनीभिश्चतसृभिर्धान्यनागरकेण वा।
कल्पयेच्चानुकूलोस्य तेनान्नं शुचि यत्नवान्॥

अचि7.21
दशमूलेन पयसा सिद्धं मांसरसेन वा।
बलागर्भं घृतं योज्यं क्रव्यामांसरसेन वा॥

अचि7.22
सक्षौद्रं पयसा सिद्धं सर्पिर्दशगुणेन वा।
जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च॥

अचि7.23
पुष्कराह्वं शठीं कृष्णां व्याघ्रीं गोक्षुरकं बलाम्।
नीलित्पलं तामलकीं त्रायमाणां दुरालभाम्।
कल्कीकृत्य घृतं पक्वं रोगराजहरं परम्॥

अचि7.24
दुरालभां गोक्षुरकं चतस्त्रः पर्णिनीर्बलाम्।
भागान् पलोन्मितान् कृत्वा पलं पर्पटकस्य च॥

अचि7.25
पचेद्दशगुणे तोये दशभागावशेषिते।
पूते तस्मिन् घृतप्रस्थं क्षीरद्विगुणितं पचेत्॥

अचि7.26
गर्भं दत्वा शठीकृष्णाभूनिम्बोत्पलसारिवाः।
त्रायन्तीं पौष्करं मूलं सहपत्रफलां फलम्॥

अचि7.27
कुटजाच्च जयेत्तद्धि शिरःपार्श्वांसवेदनाम्।
तृष्णां छर्दिमतीसारं कासदाहभ्रमज्वरान्॥

अचि7.28
घृतं खर्जूरमृद्वीकामधुकैः सपरूसकैः।
सपिप्पलीकं वैस्वर्यकासश्वासज्वरापहम्॥

अचि7.29
दशमूलशृतात् क्षीरात् सर्पिर्यदुदियान्नवम्।
सपिप्पलीकं सक्षौद्रं तत् परं स्वरबोधनम्॥

अचि7.30
शिरःपार्श्वासशूलघ्नं कासश्वासज्वरापहम्।
पञ्चभिः पञ्चमूलैर्वा शृताद्यदुदियात् घृतम्॥

अचि7.31
पञ्चानां पञ्चमूलानां रसे क्षीरचतुर्गुणे।
सिद्धं सर्पिर्जयत्येतद्यक्ष्मणः सप्तकं बलम्॥

अचि7.32
पञ्चकोलयवक्षारषट्पलेन पचेत् घृतम्।
प्रस्थोन्मितं तुल्यपयः स्रोतसां तद्विशोधनम्॥

अचि7.33
गुल्मज्वरोदरप्लीहग्रहणीपाण्डुपीनसान्।
कासश्वासाग्निसदनश्वयथूर्ध्वानिलान् जयेत्॥

अचि7.34
रास्नाबलागोक्षुरकस्थिरावर्षाभुवारिणि।
जीवन्तीपिप्पलीगर्भं सक्षीरं शोषजिद्घृतम्।
अश्वगन्धाशृतात् क्षीरात् घृतं च ससितापयः॥

अचि7.35
साधारणामिषतुलां तोयद्रोणद्वये पचेत्।
तेनाष्टभागशेषेण जीवनीयैः पलोन्मितैः॥

अचि7.36
साधयेत् सर्पिषः प्रस्थं वातपित्तामयापहम्।
मांससर्पिरिदं पीतं युक्तं मांसरसेन वा।
कासश्वासस्वरभ्रंशशोषहृत्पार्श्वशूलजित्॥

अचि7.37
यष्टीबलागुडूच्यल्पपञ्चमूलतुलां पचेत्।
शूर्पेऽपामष्टभागस्थे तत्र पात्रं पचेत् घृतात्॥

अचि7.38
धात्रीविदारीक्षुरसत्रिपात्रे पयसोऽर्मणे।
सुपिष्टैर्जीवनीयैश्च पाराशरमिदं घृतम्।
ससैन्यं राजयक्ष्माणमुन्मूलयति शीलितम्॥

अचि7.39
मूर्वाहरिद्राखदिरक्वाथं सर्पिः शकृद्रसम्।
गोगजाजाविहयजं पयस्तुल्यान् दश द्रवान्॥

अचि7.40
स्वादुस्कन्धं त्रिकटुकं कल्कितं देवदारु च।
पचेत्तच्चाशु शोषघ्नं तद्वद्वासावरीघृतम्॥

अचि7.41
द्विपञ्चमूलवरणयवबिल्वपुनर्नवाः।
करञ्जबोलस्थविरकुलस्थबदराग्निकाः॥

अचि7.42
गर्भं दत्वा स्नुहीक्षीरं शुकाख्याचव्यसैन्धवम्।
हरीतकीं च तच्छोषशोफमेहोदरापहम्॥

अचि7.43
यवाग्वा वा पिबेन्मात्रां लिह्याद्वा मधुनान्विताम्।
सिद्धानां सर्पिषामेषां दद्यादन्नेन वा सह॥

अचि7.44
एलाजमोदत्रिफलासौराष्ट्रीव्योषचित्रकान्।
सारानरिष्टगायत्रीसालबीजकसम्भवान्॥

अचि7.45
भल्लातकं विडङ्गं च पृथगष्टपलोन्मितम्।
सलिले षोडशगुणे षोडशांशस्थितं पचेत्॥

अचि7.46
पुनस्तेन घृतप्रस्थं सिद्धे चास्मिन् पलानि षट्।
तवक्षीर्याः क्षिपेत्त्रिंशत् सिताया द्विगुणं मधु॥

अचि7.47
घृतात्त्रिजातात्त्रिपलं ततो लीढं खजाहतम्।
पयोनुपानं तत् प्राह्णे रसायनमयन्त्रणम्॥

अचि7.48
मेध्यं चक्षुष्यमायुष्यं दीपनं हन्ति चाचिरात्।
मेहगुल्मक्षयव्याधिपाण्डुरोगभगन्दरान्।
ये च सर्पिर्गुडाः प्रोक्ताः क्षते योज्याः क्षयेऽपि ते॥

अचि7.49
खर्जूरपिप्पलीद्राक्षापथ्याशृङ्गीदुरालभाः।
त्रिफलापिप्पलीमुस्ताशृङ्गाटगुडशर्कराः॥

अचि7.50
वीराशठीपुष्कराख्यासुरसाशर्करागुडाः।
नागरं चित्रको लाजाः पिप्पल्यामलकं गुडः॥

अचि7.51
विडङ्गसारश्चविका त्र्यूषणं च विचूर्णितम्।
अर्धश्लोकैः स्मृता लेहाः पञ्चैते मधुसर्पिषा।
स्वर्याः कासक्षयश्वासपार्श्वरुक्कफनाशनः॥

अचि7.52
त्वगेलापिप्पलीक्षीरीशर्करा द्विगुणाः क्रमात्।
चूर्णिता भक्षयेल्लिह्यात् पूर्ववद्वा तथागुणाः॥

अचि7.53
तिलमाषाश्वगन्धा वा माक्षिकाजघृतदुताः।
पूर्वोक्तेष्वेव रोगेषु वातप्रायेषु पूजिताः॥

अचि7.54
स्वरसादचिकित्सितम्।
विशेषात् स्वरसादेऽस्य नस्यधूमादि योजयेत्।
तत्रापि वातजे कोष्णं पिबेदौत्तरभक्तिकम्॥

अचि7.55
कासमर्दकवार्ताकीमार्कवस्वरसैर्घृतम्।
साधितं कासजित् स्वर्यं सिद्धमार्तगलेन वा॥

अचि7.56
बदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम्।
तैलं वा मधुकद्राक्षापिप्पलीकृमिनुत्फलैः॥

अचि7.57
हंसपाद्याश्च मूलेन पक्वं नस्तो निषेचयेत्।
सुखोदकानुपानं च ससर्पिष्कं गुडौदनम्।
अश्नीयात् पायसं चैवं स्निग्धं स्वेदं च योजयेत्॥

अचि7.58
पित्तोद्भवे पिबेत् सर्पिः शृतशीतपयोनुपः।
क्षीरिवृक्षाङ्कुरक्वाथकल्कसिद्धं समाक्षिकम्॥

अचि7.59
अश्नीयाच्च ससर्पिष्कं यष्टीमधुकपायसम्।
बलाविदारिगन्धाभ्यां विदार्या मधुकेन च॥

अचि7.60
सिद्धं सलवणं सर्पिर्नस्यं स्वर्यमनुत्तमम्।
प्रपौण्डरीकं मधुकं पिप्पली बृहती बला॥

अचि7.61
साधितं क्षीरसर्पिश्च तत् स्वव्र्यं नावनं परम्।
लिह्यान्मधुरकाणां च चूर्णं मधुघृतान्वितम्॥

अचि7.62
वरीं बलां पयस्यां वा काकोलीमधुके तथा।
एवमस्यानुपशमे ललाटे व्यधयेत् सिराम्॥

अचि7.63
पिबेत् कटूनि मूत्रेण कफजे रूक्षभोजनः।
कट्कफलामलकव्योषं लिह्यात्तैलमधुप्लुतम्॥

अचि7.64
व्योषक्षाराग्निचविकाभार्ङ्गीपथ्यामधूनि वा।
यवैर्यवागूं यमके कणाधात्रीकृतां पिबेत्।
भुत्क्वाद्यात्पिप्पलीं शुण्ठीं तीक्ष्णं वा वमनं भजेत्॥

अचि7.65
शर्कराक्षौद्रमिश्राणि शृतानि मधुरैः सह।
पिबेत् पयांसि यस्योच्चैर्वदतो विहतः स्वरः॥

अचि7.66
अरोचकचिकित्सितम्।
विचित्रमन्नमरुचौ हितैरुपहितं हितम्।
बहिरन्तर्मृजां चित्तनिर्वाणं हृद्यमौषधम्॥

अचि7.67
द्वौ कालौ दन्तपवनं भक्षयेन्मुखधावनैः।
कषायैः क्षालयेदास्यं धूमं प्रायौगिकं पिबेत्॥

अचि7.68
तालीसपत्रवटकाः सकर्पूरसितोपलाः।
शशाङ्ककिरणाख्याश्च भक्ष्या रुचिकराः परम्॥

अचि7.69
वातादरोचके तत्र पिबेच्चूर्णं प्रसन्नया।
हरेणुकृष्णाकृमिजिद्द्राक्षासैन्धवनागरात्॥

अचि7.70
एलाभार्ङ्गीयवक्षारहिङ्गुयुक्ताद् घृतेन वा।
छर्दयेद्वा वचाम्भोभिः पित्ताच्च गुडवारिभिः॥

अचि7.71
लिह्याद्वा शर्करासर्पिर्लवणोत्तममाक्षिकम्।
कफाद्वमेन्निम्बजलैर्दीप्यकारग्वधोदकम्॥

अचि7.72
पानं समध्वरिष्टाश्च तीक्ष्णाः समधुमाधवाः।
पिबेच्चूर्णं च पूर्वोक्तं हरेण्वाद्युष्णवारिणा॥

अचि7.73
त्रिकटुत्रिफलारात्रीयवक्षारं मधुप्लुतम्।
प्रातराहारकाले च युञ्जीत मुखधावनम्॥

अचि7.74
बिडं सौवर्चलं कुष्ठमजाजी मरिचं सिता।
धात्र्येलापद्मकोशीरपिप्पलीचन्दनोत्पलम्॥

अचि7.75
लोध्रं तेजोवती पथ्या यवक्षारं कटुत्रयम्।
आर्द्रदाडिमनिर्यासः सजाजीसितशर्करः॥

अचि7.76
सतैलमाक्षिका युक्ताश्चत्वारः कवलग्रहाः।
चतुरोऽरोचकान् हन्युरेकदोषसमस्तजान्॥

अचि7.77
कारव्यजाजीमरिचद्राक्षवृक्षाम्लदाडिमम्।
सौवर्चलगुडक्षौद्रं सर्वारोचकनाशनम्॥

अचि7.78
एलात्वङ्नागकुसुमतीक्ष्णकृष्णामहौषधम्।
भागवृद्धं क्रमाच्चूर्णं निहन्ति समशर्करम्॥

अचि7.79
प्रसेकारुचिहृत्पार्श्वकासश्वासगलामयान्।
यवानीतिन्तिणीकाम्लवेतसौषधदाडिमम्॥

अचि7.80
कृत्वा कोलं च कर्षांशं सितायाश्च चतुष्पलम्।
धान्यसौवर्चलाजाजीवराङ्गं चार्धकार्षिकम्॥

अचि7.81
पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च।
चूर्णमेतत् परं रुच्यं हृद्यं ग्राहि हिनस्ति च।
विबन्धकासहृत्पार्श्वप्लीहार्शोग्रहणीगदान्॥

अचि7.82
तालिसपत्रं मरिचं नागरं पिप्पली शुभा।
यथोत्तरं भागवृद्धास्त्वगेले चार्धभागिके॥

अचि7.83
तद्रुच्यं दीपनं चूर्णं कणाष्टगुणशर्करम्।
कासश्वासारुचिच्छर्दिप्लीहहृत्पार्श्वशूलजित्॥

अचि7.84
पाण्डुज्वरातिसारघ्नं मूढवातानुलोमनम्।
तालीसपत्रचविकामरिचानां पलं पलम्॥

अचि7.85
कृष्णातन्मूलयोर्द्वे द्वे पले शुण्ठीपलत्रयम्।
चतुर्जातमुशीरं च कर्षांशं श्लक्ष्णचूर्णितम्॥

अचि7.86
तत्र त्रिंशत् पलं दत्वा क्वथितादमलाद्गुडात्।
कुर्वीत मोदकानक्षसम्मितांस्तेऽपि तद्गुणाः॥

अचि7.87
प्रसेकचिकित्सितम्।
अर्कामृताक्षारजलेशर्वरीमुषितैर्यवैः।
प्रसेके कल्पितान् सक्तून् भक्ष्यांश्चाद्याद् बली वमेत्॥

अचि7.88
कटुतिक्तैस्तथा शूल्यं भक्षयेज्जाङ्गलं पलम्।
शुष्कांश्च भक्ष्यान् सुलघूंश्चणकादिरसानुपः॥

अचि7.89
श्लेष्मणोऽतिप्रसेकेन वायुः श्लेष्माणमस्यति। कफप्रसेकं तं विद्यात् स्निग्धोष्णैरेव निर्जयेत्॥

अचि7.90
पीनसेऽपि क्रममिमं वमथौ च प्रयोजयेत्।
विशेषात्पीनसेऽभ्यङ्गान् स्नेहान् स्वेदांश्च शीलयेत्॥

अचि7.91
स्निग्धानुत्कारिकापिण्डैः शिरःपार्श्वगलादिषु।
लवणाम्लकटूष्णांश्च रसान् स्नेहोपसंहितान्॥

अचि7.92
शिरोऽंसपार्श्वशूलेषु यथादोषविधिं चरेत्।
औदकानूपपिशितैरुपनाहाः सुसंस्कृताः॥

अचि7.93
शस्यन्ते सचतुस्नेहाः शिरःपार्श्वांसशूलिनाम्।
लेपश्च नतयष्ट्याह्वशताह्वाकुष्ठचन्दनैः॥

अचि7.94
बलारास्नातिलाः सर्पिर्मधुकं नीलमुत्पलम्।
पलङ्कषा देवदारु चन्दनं मधुकं घृतम्॥

अचि7.95
कृष्णगन्धा बला वीरा विदारी सपुनर्नवा।
अभीरुयष्टीमधुकं पयस्या कत्तृणं घृतम्॥

अचि7.96
इत्यर्धयोगैश्चत्वारः प्रदेहाः परिकीर्तिताः।
शस्ताः संसृष्टदोषाणां शिरःपार्श्वासशूलिनाम्॥

अचि7.97
नावनं धूमपानानि स्नेहाश्चौत्तरभक्तिकाः।
तैलान्यभ्यङ्गयोगीनि बस्तिकर्म तथापरम्।
शृङ्गाद्यैर्वा यथादोषं दुष्टमेषां हरेदसृक्।
प्रदेहः सघृतैश्चेष्टः पद्मकोशीरचन्दनैः॥

अचि7.98
दूर्वामधुकमञ्जिष्ठाकेसरैर्वाघृताप्लुतैः।
चन्दनाद्येन तैलेन शतधौतेन सर्पिषा।
अभ्यङ्गः पयसासेकः शस्तश्चमधुकाम्बुना॥

अचि7.99
प्रायेणोपहताग्नित्वात् सपिच्छमतिसार्यते।
तस्यातिसारग्रहणीविहितं हितमौषधम्।
सनागरानिन्द्रयवान् पाययेत्तण्डुलाम्बना॥

अचि7.100
जीर्णेषु तेषु पेयां च चाङ्गेरीतक्रदाडिमः।
पाठानिम्बयवानीनां चूर्णं तक्रेण वा पिबेत्॥

अचि7.101
सुरया वाप्लुतां पाठां सनागरदुरालभाम्।
जम्ब्वाम्रबिल्वमध्यं वा सकपित्थं सनागरम्॥

अचि7.102
पेयामण्डेन योगैश्च पाठाद्यैः कारयेत् त्रिभिः।
ससूप्यधान्यान् सस्नेहान् साल्मान् सलवणान् खलान्।
वेतसार्जुनजम्बूनां मृणालीकृष्णगन्धयोः॥

अचि7.103
श्रापण्या मातुलुङ्गस्य धातक्या दाडिमस्य च।
चाङ्गेर्या मदयन्त्याश्च यूथिकायाश्च पल्लवैः॥

अचि7.104
कालविद्दुग्धिकायाश्च चुक्रिकायाश्च योजयेत्।
खलान्दधिसरोपेतान्ससर्पिष्कान्सदाडिमान्।
रोचनान् दीपनान् दद्यादतीसारहरान् परम्॥

अचि7.105
पुरीषं यत्नतो रक्षेच्छुष्यतो राजयक्ष्मिणः।
सर्वधातुक्षयार्तस्य बलं तस्य हि विड्बलम्॥

अचि7.106
ज्वरादिष्वपि कुर्वीत विकारेषु यथामयम्।
बह्वामयसमूहो हि यक्ष्मातः सोऽतिदुःसहः॥

अचि7.107
अजां वा पर्युपासीत षण्मासानुटजे वसन्।
तत्पयोमूत्रविड्वृत्तिपरिषेकप्रघर्षणः।
ताभिः परिवृतः स्वप्यात्तच्छकृद्रेणुसङ्करे॥

अचि7.108
एतद्रसायनं श्रेष्ठं रोगराजस्य नाशनम्।
अजाशकृद्रसक्षीरदधिमूत्रैः शृतं घृतम्॥

अचि7.109
सपञ्चपटु पञ्चाजं क्षयी क्षीरानुपः पिबेत्।
मांसमेवाश्नतो युक्त्या मार्द्वीकं पिबतोऽनु च॥

अचि7.110
अविधारितवेगस्य लक्ष्मा न लभतेऽन्तरम्।
सुरां समण्डां मार्द्वीकमरिष्टान् शीधुमाधवान्॥

अचि7.111
यथार्हमनुपानार्थं पिबेन्मांसानि भक्षयन्।
स्रोतोविबन्धमोक्षार्थं बलौजःपुष्टये च तत्॥

अचि7.112
स्नेहक्षीराम्बुकोष्ठेषु स्वभ्यक्तमवगाहयेत्।
उत्तीर्णं मिश्रकस्नेहैः पुनरक्तं सुखैः करैः।
मृद्नीयात् सुखमारीनं सुखं चोद्वर्तयेत् परम्॥

अचि7.113
जीवन्तीं शतवीर्यां च विकसां सपुनर्नवाम्।
अश्वगन्धामपामार्गं तर्कारीं मधुकं बलम्॥

अचि7.114
विदारीं सर्षपान् कुष्ठं तण्डुलानतसीफलम्।
माषांस्तिलांश्च किण्वं च सर्वमेकत्र चूर्णयेत्॥

अचि7.115
यवचूर्णं त्रिगुणितं दध्ना युक्तं समाक्षिकम्।
एतदुद्वर्तनं कार्यं पुष्टिवर्णबलप्रदम्॥

अचि7.116
गौरसर्षपकल्केन स्नानीयौषधिभिश्च सः।
स्नायादृतुसुखैस्तोयैर्जीवनीयोपसाधितैः॥

अचि7.117
गन्धमाल्यादिकां भूषामलक्ष्मीनाशनीं भजेत्।
सुहृदां दर्शनं गीतवादित्रोत्सवसंश्रुतीः॥

अचि7.118
बस्तयः क्षीरसर्पींषि मद्यं मांसं सुशीलता।
दैवव्यपाश्रयं तद्वदथर्वोक्तं च पूजितम्॥

अचि7.119
इष्ट्या यया च चन्द्रस्य राजयक्ष्मा पुरा जितः।
पुरोहितः प्रयुञ्जीत वेदोक्तां तां जितात्मनः॥
॥इति सप्तमोऽध्यायः॥

अथ अष्टमोऽध्यायः।

अचि8.1
अथातः छर्द्रिहृद्रोगतृष्णाचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अचि8.2
आमाशयोत्क्लेशभवाः प्रायश्छर्द्यो हितं ततः।
लङ्घनं प्रागृते वायोः वमनं तत्र योजयेत्॥

अचि8.3
बलिनो बहुदोषस्य वमतः प्रततं बहु।
ततो विरेकं क्रमशो हृद्यं मद्यैः फलाम्बुभिः॥

अचि8.4
क्षीरैर्वा सह स ह्यूर्ध्वं गतं दोषं नयत्यधः।
शमनं चौषधं रूक्षदुर्बलस्य तदेव तु॥

अचि8.5
परिशुष्कं प्रियं सात्म्यमन्नं लघु च शस्यते।
उपवासस्तथा यूषा रसाः काम्बलिकाः खलाः॥

अचि8.6
शाकानि लेहा भोज्यानि रागषाडवपानकाः।
भक्ष्याः शुष्का विचित्राश्च फलानि स्नानघर्षणम्॥

अचि8.7
गन्धाः सुगन्धयो गन्धफलपुष्पान्न पानजाः।
भुक्तमात्रस्य सहसा मुखे शीताम्बुसेचनम्॥

अचि8.8
हन्ति मारुतजां छार्दिं सर्पिः पीतं ससैन्धवम्।
किञ्चिदुष्णं विशेषेण सकासहृदयद्रवाम्॥

अचि8.9
व्योषत्रिलवणाढ्यं वा सिद्धं वा दाडिमाम्बुना।
सशुण्ठीदधिधान्येन पीतं तुल्याम्बु वा पयः॥

अचि8.10
व्यक्तसैन्धवसर्पिर्वा फलाम्लो वैष्किरो रसः।
स्निग्धं च भोजनं शुण्ठीदधिदाडिमसाधितम्।
कोष्णं सलवणं चात्र हितं स्नेहविरेचनम्॥

अचि8.11
पित्तजायां विरेकाथ द्राक्षेक्षुस्वरसैस्त्रिवृत्।
सर्पिर्वा तैल्वकं योज्यं वृद्धं च श्लेष्मधामगम्॥

अचि8.12
ऊर्ध्वमेव हरेत् पित्तं स्वादुतिक्तैर्विशुद्धिमान्।
पिबेन्मन्थं यवागूं वा लाजैः समधुशर्करैः।
गुद्गजाङ्गलजैरद्याद्व्यञ्जनैः शालिषष्टिकम्॥

अचि8.13
मृद्भृष्टलोष्टप्रभवं सुशीतं सलिलं पिबेत्।
मुद्गोशीरकणाधान्यैः सह वा संस्थितं निशाम्।
द्राक्षारसं रसञ्चेक्षोर्गुडूच्यम्बु पयोऽपि॥

अचि8.14
जम्ब्वाम्रपल्लवोशीरवटाश्वत्थाङ्कुरोद्भवः।
क्वाथः क्षौद्रयुतः पीतः शीतो वा विनियच्छति॥

अचि8.15
छर्दिं ज्वरमतीसारं मूर्छां तृष्णां च दुर्जयाम्।
धात्रीरसेन शीतं वा पिबेन्मुद्गदलाम्बु वा॥

अचि8.16
कोलमज्जासितालाजमक्षिकाविट्कणाञ्जनम्।
कोलास्थिमज्जास्रोतोजलाजोत्पलरजांसि वा॥

अचि8.17
लिह्यात् क्षौद्रेण पथ्यां वा द्राक्षां वा बदराणि वा।
पिबेच्छीताम्बुना शालिस्वर्णगैरिकजं रजः।
पिष्टं वा चन्दनद्राक्षामांसीसेव्याम्बुगैरिकम्॥

अचि8.18
शालितण्डुलतोयेन पिबेद्वा ससितामधु।
मधूकमधुकद्राक्षाकमलामलकाम्बुदम्॥

अचि8.19
ससारिवापरूषाक्षं मूर्वां वा माक्षिकान्विताम्।
मधुकं सात्मगुप्तं वा शीतं धात्रीरसेन वा॥

अचि8.20
कफजायां वमेन्निम्बकृष्णापिण्डीतसर्षपैः।
युक्तेन कोष्णतोयेन दुर्बलं चोपवासयेत्॥

अचि8.21
आरग्वधादेर्निर्यूहं शीतं क्षौद्रयुतं पिबेत्।
त्रिफलाकणचव्याद्वा पेयां पत्रैः करञ्जजैः॥

अचि8.22
मन्थान्यवैर्वा बहुशश्छर्दिघ्नौषधभावितैः।
कफघ्नमन्नं हृद्यं च रागाः सार्जकभूस्तृणाः॥

अचि8.23
लीढं मनश्शिलाकृष्णामरिचं बीजपूरकात्।
स्वरसेन कपित्थाच्च सक्षौद्रेण वमिं जयेत्॥

अचि8.24
समुस्तां मधुना शृङ्गीं कोलाम्लं वा सजाम्बवम्।
तद्वद्विडङ्गत्रिफलाकृमिघ्नपरिपेलवम्॥

अचि8.25
तद्वद्दुरालभां खादेत् कपित्थं त्र्यूषणेन वा।
अनुकूलोपचारेण याति द्विष्टार्थजा शमम्॥

अचि8.26
कृमिजा कृमिहृद्रोगगदितैश्च भिषग्जितैः।
यथास्वं परिशिष्टाश्च तत्कृताश्च तथामयाः॥

अचि8.27
त्वरमाणो जयेच्छर्दिं प्रसक्तामनुबन्धिनीम्।
कोष्ठाश्रयमहामर्मपीडाकरतरा हि सा॥

अचि8.28
नचान्नेन विना कायस्तन्मयो वर्ततेऽपि च।
धातुक्षयोऽतिवमथौ समीरणसमीरणात्॥

अचि8.29
नियतं जायते तस्माद्द्रुतं तत्र प्रयोजयेत्।
प्रच्छर्दनातियोगोक्तं क्रमं स्तम्भनबृंहणम्॥

अचि8.30
सर्पिर्गुडान् रसान् क्षीरं घृतं कल्याणजीवनम्।
धान्वन्तरं त्र्यूषणं वा दोषदेहानुरोधतः॥

अचि8.31
हृद्रोगचिकित्सितम्।
हृद्रोगे वातजे तैलं मस्तुसौवीरतक्रवत्।
पिबेत् सुखोष्णं सबिडं गुल्मानाहार्तिजिच्च तत्॥

अचि8.32
तलं च लवणैः सिद्धं समूत्राम्लं तथागुणम्।
बिल्वं रास्नां यवान् कोलं देवदारु पुनर्नवम्॥

अचि8.33
कुलत्थान् पञ्चमूलं च पक्त्वा तस्मिन् जले पचेत्।
तैलं तन्नावने पाने बस्तौ च विनियोजयेत्॥

अचि8.34
शुण्ठीवयस्थालवणकायस्थाहिङ्गुपौष्करैः।
पथ्यया च शृतं पार्श्वहृद्रुजागुल्मजिद्घृतम्॥

अचि8.35
सौवर्चलस्य द्विपले पथ्यापञ्चाशदन्विते।
घृतस्य साधितः प्रस्था हृद्रोगश्वासगुल्मनुत्॥

अचि8.36
दाडिमं कृष्णलवणं हिङ्गुशुण्ठ्यम्लवेतसम्।
अपतन्त्रकहृद्रोगश्वासघ्नं चूर्णमुत्तमम्॥

अचि8.37
पुष्कराह्वशठीशुण्ठीबीजपूरजटाभयाः।
पीताः कल्कीकृताः क्षारघृताम्ललवणैर्युताः।
विकर्तिकाशूलहरा क्वाथः कोष्णश्च तद्गुणः॥

अचि8.38
यवानीलवणक्षारवचाजाज्यौषधैः कृतः।
सपीतदारुबीजाह्वपलाशशठिपौष्करैः॥

अचि8.39
पञ्चकोलशठीपथ्यागुडबीजाह्वपौष्करम्।
वारुणीकल्कितं भृष्टं यमके लवणान्वितम्॥

अचि8.40
हृत्पार्श्वयोनिशूलेषु खादेत् गुल्मोदरेषु च।
स्निग्धाश्चेह हिताः स्वेदाः संस्कृतानि घृतानि च॥

अचि8.41
लघुना पञ्चमूलेन शुण्ठ्या वा साधितं जलम्।
वारुणीदधिमण्डं वा धान्याम्लं वा पिबेत्तृषि॥

अचि8.42
सायामस्तम्भशूलामे हृदि मारुतदूषिते।
क्रियषा सद्रवायामपमोहे तु हिता रसाः॥

अचि8.43
स्नेहाढ्यास्तित्तिरिक्रौञ्चशिखिवर्तकदक्षजाः।
बलातैलं सहृद्रोगी पिबेद्वा सुकुमारकम्॥

अचि8.44
यष्ट्याह्वशतपाकं वा महास्नेहं तथोत्तमम्।
रास्नाजीवकजीवन्तीबलाव्याघ्रीपुनर्नवैः॥

अचि8.45
भार्ङ्गीस्थिरावचाव्योषैर्महास्नेहं विपाचयेत्।
दधिपादं तथाम्लैश्च लाभतः स निषेवितः।
तर्पणो बृंहणो बल्यो वातहृद्रोगनाशनः॥

अचि8.46
त्र्यूषणत्रिफलापाठमधूकं मधुकं चुटी।
पञ्चमूलं लघु बले मेदे ऋद्दिः शतावरी॥

अचि8.47
कण्डूकरी तामलकी जीवकं चाक्षसंमितैः।
तैः पचेत् सर्पिषः प्रस्थं दध्नः प्रस्थेन माहिषात्॥

अचि8.48
युक्तं सिद्धं च मधुना तन्निहन्ति निषेवितम्।
हृत्पाण्डुग्रहणीदोषकासश्वासहलीमकान्॥

अचि8.49
दीप्तेऽग्नौ सद्रवायामे हृद्रोगे वातिके हितम्।
क्षीरं दधि गुडः सर्पिरौदकानूपमामिषम्॥

अचि8.50
घृतान्येव च वर्ज्यानि ह्रद्रोगेषु चतुर्ष्वपि।
शेषेषु स्तम्भजाड्यामसंयुक्तेऽपि च वातिके।
कफानुबन्धे तस्मिंस्तु रूक्षोष्णामाचरेत् क्रियाम्॥

अचि8.51
पैत्ते द्राक्षेक्षुनिर्याससिताक्षाद्रपरूषकैः।
युक्तो विरेको हृद्यः स्यात् क्रमः शुद्धे च पित्तहा॥

अचि8.52
क्षतपित्तज्वरोक्तं च बाह्यान्तःपरिमार्जनम्।
कट्वीमधुककल्कं च पिबेत् ससितमम्भसा॥

अचि8.53
श्रेयसीशर्कराद्राक्षाजीवकर्षभकोत्पलैः।
बलाखर्जूरकाकोलीमेदायुग्मैश्च साधितम्॥

अचि8.54
सक्षीरं माहिषं सर्पिः पित्तहृद्रोगनाशनम्।
प्रपौण्डरीकमधुकबिसग्रन्थिकशेरुकाः॥

अचि8.55
सशुण्ठीशैवलास्ताभिः सक्षीरं विपचेत् घृतम्।
शीतं समधु तच्चेष्टं स्वादुवर्गकृतं च यत्।
बस्तिं च दद्यात् सक्षौद्रं तैलं मधुकसाधितम्॥

अचि8.56
कफोद्भवे वमेत् स्विन्नः पिचुमन्दवचाम्भसा।
कुलत्थधन्वोत्थरसतीक्ष्णमद्ययवाशनः॥

अचि8.57
पिबेच्चूर्णं वचाहिङ्गुलवणद्वयनागरात्।
सैला यवानककणा यवक्षारात् सुखाम्बुना॥

अचि8.58
फलधान्याम्लकौलत्थयूषमूत्रासवैस्तथा।
पुष्कराह्वाभयाशुण्ठीशठीरास्नावचाकणात्।
क्वाथं तथाभयाशुण्ठीमाद्रीपीतद्रुकट्फलात्॥

अचि8.59
क्वाथे रौहीतकाश्वत्थखदिरोदुम्बरार्जुने।
सपलाशवटे व्योषत्रिवृच्चूर्णान्विते कृतः॥

अचि8.60
सुखोदकानुपानः स्याल्लेहः कफविकारहा।
श्लेष्मगुल्मोदिताज्यानि क्षारांश्च विविधान् पिबेत्॥

अचि8.61
प्रयोजयेच्छिलाह्रं वा ब्राह्मं चात्र रसायनम्।
तथामलकलेहं वा प्राशं वागस्त्यनिर्मितम्॥

अचि8.62
स्याच्छूलं यस्य भुक्तेऽति जीर्यत्यल्पं जरां गते।
शाम्येत् सकुष्ठकृमिजिल्लवणद्वयतिल्वकैः॥

अचि8.63
सदेवदार्वतिविषैश्चूर्णमुष्णाम्बुना पिबेत्।
यस्य जीर्णेऽधिकं स्नेहैः स विरेच्यः फलैःपुनः॥

अचि8.64
जीर्यत्यन्ने तथा मूलैस्तीक्ष्णैः शूले सदाधिके।
प्रायोऽनिलो रुद्धगतिः कुप्यत्यामाशये यतः॥

अचि8.65
तस्यानुलोमनं कार्यं शुद्धिलङ्घनपाचनैः।
कृमिघ्नमौषधं सर्वं कृमिजे हृदयामये॥

अचि8.66
तृष्णाचिकित्सितम्।
तृष्णासु वातपित्तघ्नो विधिः प्रायेण शस्यते।
सर्वासु शीतो बाह्यान्तस्तथा शमनशोधनः॥

अचि8.67
दिव्याम्बु शीतं सक्षौद्रं तद्वद्भौमं च तद्गुणम्।
निर्वापितं तप्तलोष्टकपालसिकतादिभिः॥

अचि8.68
सशर्करं वा क्वथितं पञ्चमूलेन वा जलम्।
दर्भपूर्वेण मन्थश्च प्रशस्तो लाजसक्तुभिः॥

अचि8.69
वाट्यश्चामयवैः शीतः शर्करामाक्षिकान्वितः।
यवागूः शालिभिस्तद्वत् कोद्रवैश्च चिरन्तनैः॥

अचि8.70
शीतेन शीतवीर्यैश्च द्रव्यैः सिद्धेन भोजनम्।
हिमाम्बुपरिषिक्तस्य पयसा ससितामधु॥

अचि8.71
रसैश्चानम्ललवणैर्जाङ्गलैर्घृतभर्जितैः।
मुद्गादीनां तथा यूषैर्जीवनीयरसान्वितैः॥

अचि8.72
नस्यं क्षीरघृतं सिद्धं शीतैरिक्षोस्तथा रसः।
नारीक्षीरेण वा घृष्टमुष्ट्रास्थि ससितं हितम्॥

अचि8.73
निर्वापणाश्च गण्डूषाः सूत्रस्थानोदिता हिताः।
दाहज्वरोक्ता लेपाद्या निरीहत्वं मनोरतिः॥

अचि8.74
महासरिद्ध्रदादीनां दर्शनस्मरणादि च।
तृष्णायां पवनोत्थायां सगुडं दधि शस्यते।
रसाश्च बृंहणाः शीता विदार्यादिगणाम्बु च॥

अचि8.75
पित्तजायां सितायुक्तः पक्वोदुम्बरजो रसः।
तत्क्वाथो वा हिमस्तद्वत्सारिवादिगणाम्बु वा॥

अचि8.76
तद्विधैश्च गणः शीतकषायान् ससितामधून्।
मधुरैरौषधैस्तद्वत् क्षीरिवृक्षैश्च कल्पितान्॥

अचि8.77
बीजपूरकमृद्वीकावटवेतसपल्लवान्।
मूलानि कुशकाशानां यष्ट्याह्वं च जले शृतम्॥

अचि8.78
अपाकशर्कराच्छिन्नरुहालोद्ध्राञ्जनाम्बु वा।
कार्पसीफलकल्कं वा ससितक्षीरभोजनः॥

अचि8.79
ज्वरोदितं वा द्राक्षादिपञ्चसाराम्बु वा पिबेत्॥

अचि8.80
कफोद्भवायां वमनं निम्बप्रसववारिणा।
बिल्वाढकीपञ्चकोलदर्भपञ्चकसाधितम्॥

अचि8.81
जलं पिबेद्रजन्या वा सिद्धं सक्षौद्रशर्करम्।
मुद्गयूषं च सव्योषपटोलीनिम्बपल्लवम्।
यवान्नं तीक्ष्णकवलनस्यलेहांश्च शीलयेत्॥

अचि8.82
सर्वैरामाच्च तद्धन्त्री क्रियेष्टा वमनं तथा।
त्र्यूषणारुष्करवचाफलाम्लोष्णाम्बुमस्तुभिः॥

अचि8.83
अन्नात्ययान्मण्डमुष्णं हिमं मन्थं च कालवित्।
तृषि श्रमान्मांसरसं मन्थं वा ससितं पिबेत्॥

अचि8.84
आतपात् ससितं मन्थं यवकोलजसक्तुभिः।
सर्वाण्यङ्गानि लिम्पेच्च तिलपिण्याककाञ्जिकैः॥

अचि8.85
शीतस्नानाच्च मद्याम्बु पिबेत्तृड्वान् गुडाम्बु वा।
मद्यादर्धजलं मद्यं स्नातोऽम्ललवणैर्युतम्॥

अचि8.86
स्नेहतीक्ष्णतराग्निस्तु स्वभावशिशिरं जलम्।
स्नेहादुष्णाम्ब्वजीर्णात्तु जीर्णान्मण्डं पिपासितः॥

अचि8.87
पिबेत् स्निग्धान्नतृषितो हिमस्पर्धि गुडोदकम्।
गुर्वाद्यन्नेन तृषितः पीत्वोष्णाम्बु तदुल्लिखेत्॥

अचि8.88
क्षयजायां क्षयहितं सर्वं बृंहणमौषधम्।
कृशदुर्बलरूक्षाणां क्षीरं छागो रसोऽथवा।
क्षीरं च सोर्ध्ववातायां क्षयकासहरैः शृतम्॥

अचि8.89
रोगोपसर्गजातायां धान्याम्बु ससिताम्धु।
पाने प्रशस्तं सर्वा च क्रिया रोगाद्यपेक्षया॥

अचि8.90
तृष्णक् पूर्वामयक्षीणो न लभेत जलं यदि।
मरणं दीर्घरोगं वा प्राप्नुयात् त्वरितं ततः॥

अचि8.91
सात्म्यान्नपानभौषज्यैस्तृष्णां तस्य जयेत्पुरः।
तस्यां ज्जितायामन्योऽपि व्याधिः शक्यश्चिकित्सितुम्॥
॥इति अष्टमोऽध्यायः॥

अथ नवमोऽध्यायः।

अचि9.1
अथातो मदात्ययचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अचि9.2
यं दोषमधिकं पश्येत्तस्यादौ प्रतिकारयेत्।
कफस्थानानुपूर्व्या वा तुल्यदोषे मदात्यये।
पित्तमारुतपर्यन्तः प्रायेण हि मदात्ययः॥

अचि9.3
हीनमिथ्यातिपीतेन यो व्याधिरुपजायते।
समपीतेन तेनैव स मद्येनोपशाम्यति॥

अचि9.4
मद्यस्य विषसादृश्याद्विषं तूत्कर्षवृत्तिभिः।
तीक्ष्णादिभिर्गुणैर्योगाद्विषान्तरमपेक्षते॥

अचि9.5
तीक्ष्णोष्णेनातिमात्रेण पीतेनाम्लविदाहिना।
मद्येनान्नरसक्लेदो विदग्धः क्षारतां गतः॥

अचि9.6
यान् कुर्यान्मदतृण्मोहज्वरान्तर्दाहविभ्रमान्।
मद्योत्क्लिष्टेन दोषेण रुद्धः स्रोतस्सु मारुतः॥

अचि9.7
सुतीव्रा देवना याश्च शिरस्यस्थिषु सन्धिषु।
जीर्णाममद्यदोषस्य प्रकाङ्क्षालाघवे सति।
यौगिकं विधिवद्युकं मद्यमेव निहन्ति तान्॥

अचि9.8
क्षारो हि याति माधुर्यं शीघ्रमम्लोपसंहितः।
मद्यमम्लेषु च श्रेष्ठं दोषविष्यन्दनादलम्॥

अचि9.9
तीक्ष्णोष्णाद्यैः पुराप्रोक्तैर्दीपनाद्यैस्तथागुणैः।
सात्म्यत्वाच्च तदेवास्य धातुसाम्यकरं परम्॥

अचि9.10
सप्ताहमष्टरात्रं वा कुर्यात् पानात्ययौषधम्।
जीर्यत्येतावता पानं कालेन विपथाश्रितम्॥

अचि9.11
परं ततोऽनुबध्नाति यो रोगस्तस्य भेषजम्।
यथायथं प्रयुञ्जीत कृतपानात्ययौषधम्॥

अचि9.12
तत्र वातोल्बणे मद्यं दद्यात् पिष्टकृतं युतम्।
बीजपूरकवृक्षाम्लकोलदाडिमदीप्यकैः॥

अचि9.13
यवानीहपुषाजाजीव्योषत्रिलवणार्द्रकैः।
शूल्यैर्मांसैर्हरितकैः स्नेहवद्भिश्च सक्तुभिः॥

अचि9.14
उष्णस्निग्धाम्ललवणा मेद्यमांसरसा हिताः।
आम्राम्रातकपेशीभिः संस्कृता रागषाडवाः॥

अचि9.15
गोधूममाषविकृतीर्मृदुचित्रा मुखप्रियाः।
आर्दिकार्द्रककुल्माषशुक्तमांसादिगर्भिणीः॥

अचि9.16
सुरभिर्लवणा शीता निगदा वाच्छवारुणी।
स्वरसो दाडिमात् क्वाथः पञ्चमूलात् कनीयसः॥

अचि9.17
शुण्ठीधान्यात्तथा मस्तु शुक्ताम्भोच्छाम्लकाञ्जिकम्।
अभ्यङ्गोद्वर्तनस्नानमुष्णं प्रावरणं घनम्॥

अचि9.18
घनश्चागरुजो धूपः पङ्कश्चागरुकुङ्कुमात्।
कुचोरुश्रोणिशालिन्यो यौवनोष्णाङ्गयष्टयः।
हर्षेणालिङ्गने युक्ताः प्रियाः संवाहनेषु च॥

अचि9.19
पित्तोल्बणे बहुजलं शार्करं मधु वा युतम्।
रसैर्दाडिमखर्जूरभव्यद्राक्षापरूषजैः॥

अचि9.20
सुशीतं ससितासक्तु योज्यं तादृक् च पानकम्।
स्वादुवर्गकसायैर्वा युक्तं मद्यं समाक्षिकम्॥

अचि9.21
शालिषष्टिकमश्नीयाच्छशाजैणकपिञ्जलैः।
सतीनमुद्गामलकपटोलीदाडिमैरपि॥

अचि9.22
कफपित्तं समुत्क्लिष्टमुल्लिखेत्तृड्विदाहवान्।
पीत्वाम्बु शीतं मद्यं वा भूरीक्षुरससंयुतम्॥

अचि9.23
द्राक्षारसं वा संसर्गी तर्पणादिः परं हिताम्।
तथाग्निर्दीप्यते तस्य दोषशेषान्नपाचकः॥

अचि9.24
कासे सरक्तनिष्ठीवे पार्श्वस्तनरुजासु च।
तृष्णायां सविदाहायां सोत्क्लेशे हृदयोरसि॥

अचि9.25
गुडूचीभद्रमुस्तानां पटोलस्याथवा रसम्।
सनागरं योजयेत तित्तिरिप्रतिभोजनम्॥

अचि9.26
तृष्यते चातिबलवद्वातपित्ते समुद्धते।
दद्याद्द्राक्षारसं पानं शीतं दोषानुलोमनम्॥

अचि9.27
जीर्णेऽद्यान्मधुराम्लेन छागमांसरसेन च।
तृष्यल्पशः पिबेन्मद्यं मदं रक्षन् बहूदकम्॥

अचि9.28
मुस्तदाडिमलाजाम्बु जलं वा पर्णिनीशृतम्।
पाटल्युत्पलकन्दैर्वा स्वभावादेव वा हिमम्॥

अचि9.29
मद्यातिपानादब्धातौ क्षीणे तेजसि चोद्धते।
यः शुष्कगलताल्वोष्ठो जिह्वां निष्कृष्य चेष्टते॥

अचि9.30
पाययेत् कामतोऽम्भस्तं निशीथपवनाहतम्।
कोलदाडिमवृक्षाम्लचुक्रीकाचुत्रिकारसः।
पञ्चाम्लको मुखालेपः सद्यस्तृष्णां नियच्छति॥

अचि9.31
त्वचं प्राप्तश्च पानोष्मा पित्तरक्ताभिमूर्छितः।
दाहं प्रकुरुते घोरं विह्वलो येन मुह्यति॥

अचि9.32
तृष्णादाहपरीतस्य तस्य दाहज्वरापहम्।
विधिं यथोक्तं युञ्जीत बाह्यान्तः परिमार्जनम्॥

अचि9.33
प्रभातमारुतोद्धूताः प्रालेयजलवर्षिणः।
स्मर्यमाणा अपि घ्नन्ति दाहं मलयपादपाः॥

अचि9.34
मुक्ताकलापाः शशिरश्मिशुभ्रा मृणालपद्मोत्पलपत्ररम्याः।
सेकावगाहाः सजला जलार्द्रा वाताः सुशीता मणयो महार्हाः॥

अचि9.35
अलिञ्जराः पद्मपुटापिधानाः प्रवालवर्णा हिमवारिपूर्णाः।
परिस्रवन्तो दृतयो महान्तः पुत्राः प्रिया दर्पणमण्डलानि॥

अचि9.36
नार्यश्च नेत्रोत्पलकर्णपूरा मध्यं वयः किञ्चिदिव स्पृशन्त्यः।
मनोऽनुकूला हरिचन्दनार्द्रास्तृड्दाहमूर्च्छादवथून् जयन्ति॥

अचि9.37
करेणुकाभिः परिवारितेन विक्षोभणं वारणयूथपेन।
आस्फालनं शीकरवर्षणं च सिन्धोः स्मरन् दाहतृषोरगम्यः॥

अचि9.38
सरिद्ध्रदानां हिमवद्दरीणां चन्द्रोदयानां कमलाकराणाम्।
मनोरमान्यापि कथाप्रवृत्ता दाहं च तृष्णां च निहन्ति सद्यः॥

अचि9.39
लाजोत्पलोशीरकुचन्दनाम्बु शीताभिधानं मधुशर्कराढ्यम्।
मद्योद्भवां पित्तकृतां च तृष्णां सदाहशोषां विनिहन्ति पीतम्॥

अचि9.40
प्रियङ्गुपत्रप्लवलोध्रसेव्यद्द्रीबेरकालेयकनागपुष्पैः।
शीताम्बुपिष्टैर्नवकर्परस्थैस्तृड्दाहहा सर्वशरीरलेपः॥

अचि9.41
अशाम्यत्यथवा दाहे रसैस्तृप्तस्य जाङ्गलैः।
शाखाश्रयां यथान्यायं रोहिणीं व्यधयेत्सिराम्॥

अचि9.42
जल्लेखनोपवासाभ्यां विजयेत कफोल्बणं।
तृषितोऽम्बु पिबेत् सिद्धं मुस्तया पर्पटेन वा॥

अचि9.43
स्थिराशुण्ठीबलोदीच्यदुस्पर्शान्यतमेन वा।
सिद्धमेतच्च सर्वेषु पानदोषेषु शस्यते॥

अचि9.44
निरामं क्षुधितं काले पाययेत् बहुमाक्षिकम्।
शार्करं मधु वा जीर्णमरिष्टं सीधुमेव वा।
रूक्षतर्पणसंयुक्तं यवानीनागरान्वितम्॥

अचि9.45
यूषेण यवगोधूमं तनुनाल्पेन भोजयेत्।
उष्णाम्लकटुतिक्तेन कौलत्थेनाल्पसर्पिषा॥

अचि9.46
शुष्कमूलकजैश्छागै रसैर्वा धन्वचारिणाम्।
साम्लवेतसवृक्षाम्लपटोलीव्योषदाडिमैः॥

अचि9.47
प्रभूतशुण्ठीमरिचहरितार्द्रकपेशिकम्।
बीजपूररसाद्यम्लं भृष्टं नीरसवर्तितम्॥

अचि9.48
करीरकरमर्दादिरोचिष्णुबहुसालनम्।
प्रव्यक्ताष्टाङ्गलवणं विकल्पितनिमर्दकम्।
यथाग्नि भक्षयन्मांसं माधवं निगदं पिबेत्॥

अचि9.49
सितासौवर्चलाजाजीतिन्तिणीकाम्लवेतसम्।
त्वगेलामरिचार्धांशमष्टाङ्गलवणं हितम्।
स्रोतोविशुध्यग्निकरं कफप्राये मदात्यये॥

अचि9.50
कटुस्कन्धयुतां श्वेतां मृद्वीकां निष्कुलीकृताम्।
रसेन मातुलुङ्गस्य कलकयेद्दाडिमस्य वा।
तया क्षौद्रयुतो रागाः कृतो रोचनदीपनः॥

अचि9.51
सौवर्चलैलामरिचदीप्यकाजाजि चोचवत्।
कार्व्याः कल्पयेदेवं शूक्तं मत्स्यण्डिकान्वितम्॥

अचि9.52
धान्यसौवर्चलाजाजीकारवीमरिचान्वितान्।
सगुडान् मधुयुक्तेन व्यक्ताम्लान् मरिचोत्कटान्॥

अचि9.53
रूक्षोष्णोद्वर्तनोद्घर्षस्नानभोजनलङ्घनैः।
सकामाभिः सह स्त्रीभिर्युक्त्या जागरणेन च।
मदात्ययः कफप्रायः शीघ्रं समुपशाम्यति॥

अचि9.54
यदिदं कर्म निर्दिष्टं पृथग्दोषबलं प्रति।
सन्निपाते दशविधे तच्छेषेऽपि विकल्पयेत्॥

अचि9.55
त्वन्नागपुष्पमगधामरिचाजाजिधान्यकैः।
परूषकमधूकैलासुराह्वैश्च सितान्वितैः॥

अचि9.56
सकपित्थरसं हृद्यं पानकं शशिबोधितम्।
मदात्ययेषु सर्वेषु पेयं रुच्यग्निदीपनम्॥

अचि9.57
तद्वद्दाडिममृद्वीकाकणाकाश्मर्यदारुभिः।
सबीजपूरकरसैर्बिडसौवर्चलान्वितम्॥

अचि9.58
फलैर्वा विविधैरम्लैः सत्रिवृच्चूर्णशर्करम्।
कच्छुदाराङ्कुरद्राक्षावर्षाभूजीरकद्वयम्॥

अचि9.59
मधूकयष्टीत्वक्कृष्णाकेसरं श्लक्ष्णचूर्णितम्।
पिबेदालोड्य दुग्धेन सूक्ष्मतान्तवगालितम्॥

अचि9.60
नाक्षोभ्य हि मनो मद्यं शरीरमविहन्य वा।
कुर्यान्मदात्ययं तस्मादिष्यते हर्षणी क्रिया॥

अचि9.61
सेव्याः सर्वेन्द्रियसुखा धर्मकल्पद्रुमाङ्कुराः।
विषयातिशयाः पञ्च शराः कुसुमधन्वनः॥

अचि9.62
संशुद्धिशमनाद्येषु मददोषः कृतेष्वपि।
न चेच्छाम्येत् कफे क्षीणे जाते दौर्बल्यलाघवे॥

अचि9.63
तस्य मद्यविदग्धस्य वातपित्ताधिकस्य च।
ग्रीष्मोपतप्तस्य तरोर्यथा वर्षं तथा पयः॥

अचि9.64
मद्यक्षीणस्य हि क्षीरं क्षीणमाश्वेव पुष्यति।
ओजस्तुल्यं गुणैः सर्वैर्विपरीतं च मद्यतः॥

अचि9.65
पयसा विहते रोगे बले जाते निवर्तयेत्।
क्षीरप्रयोगं मद्यं च क्रमेणाल्पाल्पमाचरेत्॥

अचि9.66
न विक्षयध्वंसकोत्थैः स्पृश्येतोपद्रवैर्यथा।
तयोस्तु स्यात् घृतं क्षीरं बस्तयो बृंहणाः शिवाः।
अभ्यङ्गोद्वर्तनस्नानान्यन्नपानं च वातजित्॥

अचि9.67
युक्तमद्यस्य मद्योत्थो न व्याधिरुपजायते।
अतोऽस्य वक्ष्यते योगो यः सुखायैव केवलम्॥

अचि9.68
आश्विनं या महत्तेजो बलं सारस्वतं च या।
दधात्यैन्द्रं च या वीर्यं प्रभावं वैष्णवं च या॥

अचि9.69
अस्त्रं मकरकेतोर्या पुरुषार्थो बलस्य या।
सौत्रामण्यां द्विजमुखे हुताशे हूयते च या॥

अचि9.70
या सर्वौसधिसम्पूर्णान्मथ्यमानात्सुरासुरैः।
महोदधेः समुद्भूता श्रीशशाङ्कामृतैः सह॥

अचि9.71
मधुमाधवमैरेयसीधुगौडासवादिभिः।
मदशाक्तिमनुज्झन्ती या रूपैर्बहुभिः स्थिता॥

अचि9.72
यामास्वाद्य विलासिन्यो यथार्थं नाम बिभ्रति।
कुलाङ्गनापि यां पीत्वा नयत्युद्धतमानसा॥

अचि9.73
अनङ्गालिङ्गितैरङ्गैः क्वापि चेतो मुनेरपि।
तरङ्गभङ्गभ्रुकुटीतर्जनैर्मानिनीमनः॥

अचि9.74
एकं प्रसाद्य कुरुते या द्वयोरपि निर्वृतिम्।
यथाकामभटावाप्तिपरिहृष्टाप्सस्रोगणे॥

अचि9.75
तृणवत् पुरुषा युद्धे यामास्वाद्य जहत्यसून्।
यां शीलयित्वापि चिरं बहुधा बहुविग्रहाम्॥

अचि9.76
नित्यं हर्षातिवेगेन तत् पूर्वमिव सेवते।
शोकोद्वेगारतिभयैर्यां दृष्ट्वा नाभिभूयते॥

अचि9.77
गोष्ठीमहोत्सवोद्यानं न यस्याः शोभते विना।
स्मृत्वा स्मृत्वा च बहुशो वियुक्तः शोचते यया॥

अचि9.78
अप्रसन्नापि या प्रीत्यै प्रसन्ना स्वर्ग एव या।
अपीन्द्रं मन्यते दुस्स्थं हृद्यस्थितया यया॥

अस9.79। अनिर्देश्यसुखास्वादा स्वसंवेद्यैव या परम्।
इति चित्रास्ववस्थासु प्रियामनुकरोति या॥

अचि9.80
प्रियातिप्रियतां याति यत् प्रियस्य विशेषतः।
या प्रीतिर्या रतिर्वाग्या या पुष्टिरिति च स्तुता॥

अचि9.81
वेददानवगन्धर्वयक्षराक्षसमानुषैः।
पानप्रवृत्तौ सत्यां तु तां सुरां विधिना पिबेत्॥

अचि9.82
सम्भवन्ति न ते रोगा मेदोनिलकफोद्भवाः।
विधियुक्तादृते मद्याद्ये न सिध्यन्ति दारुणाः॥

अचि9.83
अस्ति देहस्य सावस्था यस्यां पानं निवार्यते।
अन्यत्र मद्यान्निगदाद्विविधौषधसम्भृतात्॥

अचि9.84
आनूपं जाङ्गलं मांसं विधिनाप्युपकल्पितम्।
मद्यं सहायमप्राप्य सम्यक् परिणमेत् कथम्॥

अचि9.85
सुतीक्ष्णमारुतव्याधिघातिनो लशुनस्य च।
मद्यमांसवियुक्तस्य प्रयोगे स्यात् कियान् गुणः॥

अचि9.86
निगूढशल्याहरणे शस्त्रक्षाराग्निकर्मणि।
पीतमद्यो विषहते सुखं वैद्यविकत्थनाम्॥

अचि9.87
अनलोत्तेजनं रुच्यं शोकश्रमविनाशनम्।
न चातः परमस्त्यन्यदारोग्यबलपुष्टिकृत्॥

अचि9.88
रक्षता जीवितं तस्मात् पेयमात्मवता सदा।
आश्रितोपाश्रितहितं परमं धर्मसाधनम्॥

अचि9.89
स्रातः प्रणम्य सुरविप्रगुरून्यथास्वं वृत्तिं विधाय च समस्तपरिग्रहस्य।
आपानभूमिमथ गन्धजलाभिषिक्तामाहारमण्डपसमीपगतां श्रयेत॥

अचि9.90
स्वास्तृतेऽथ शयने कमनीये मित्रभृत्यरमणीसमवेतः।
स्वं यशः कथकचारणसङ्घैरुद्धतं निशमयन्नतिलोकम्॥

अचि9.91
विलासिनीनां च विलासशोभि गीतं सनृत्तं कलतूर्यघोषैः।
काञ्चीकलापैश्चलकिङ्किणीकैः क्रीडाविहङ्गैश्च कृतानुनादम्॥

अचि9.92
मणिकनकसमुत्थैरावरेयैर्विचित्रैः सजलविविधभाक्तिक्षौमवस्त्रावृताङ्गैः।
अपि मुनिजनचित्तक्षोभसम्पादनीभिश्चकितहरिणलोलप्रेक्षणीभिः प्रैयाभिः॥

अचि9.93
स्तननितम्बकृतादतिगौरवादलसमाकुलमीश्वरसंश्रयात्।
इति गतं दधतीभिरसंस्थितं तरुणचित्तविलोभनकार्मणम्॥

अचि9.94
यौवनासवमत्ताभिर्विलासाधिष्ठितात्माभिः।
सञ्चार्यमाणं युगपत्तन्वङ्गीभिरितस्ततः॥

अचि9.95
तालवृन्तनलिनीदलानिलैः शीतलीकृतमतीव शीतलैः।
दर्शनेऽपि विदधद्वशानुगं स्वादितं किमुत चित्तजन्मनः॥

अचि9.96
चूतरसेन्दुमृगैः कृतवासं मल्लिकयोज्ज्वलया च सनाथम्।
स्फटिकशुक्तिगतं सतरङ्गं कान्तमनङ्गमिवोद्वहदङ्गम्॥

अचि9.97
तालीसाद्यं चूर्णमेलादिकं वा हृद्यं प्राश्य प्राग्वयस्स्थापनं वा।
तत्प्रार्थिभ्यो भूमिभागे सुमृष्टे तोयोन्मिश्रं दापयित्वा ततश्च॥

अचि9.98
धृतिमान् स्मृतिमान् नित्यमनूनाधिकमाचरन्।
उचितेनोपचारेण सर्वमेवोपलालयन्॥

अचि9.99
जितविकसितासितसरोजनयनसङ्क्रान्तिवार्धितश्रीकम्।
कान्तामुखमिव सौरभहृतमधुपगणं पिबेन्मद्यम्॥

अचि9.100
पीत्वैवं चषकत्रयं परिजनं सम्मान्य सर्वं ततो।
गत्वाहारभुवं पुरः सुभिषजो भुञ्जीत भूयोऽत्र च।
मांसापूपघृतार्द्रकादिहरितैर्युक्तं ससौवर्चलैर्द्विस्त्रिर्वा चाल्पमेव वनितासंवल्गनार्थं पिबेत्॥

अचि9.101
रहसि दयितामङ्के कृत्वा भुजान्तरपीडनात् पुलकिततनुं जातस्वेदां सकम्पपयोधराम्।
यदि सरभसं सीधोर्वारं न पाययते कृती किमनुभवति क्लेशप्रायं तदा गृहतन्त्रताम्॥

अचि9.102
वरतनुवक्त्रसङ्गतिसुगन्धितरं सरकं द्रुतमिव पद्मरागमणिमासवरूपधरम्।
भवति रतिश्रमेण च मदः पिबतोऽल्पमपि क्षयमत ओजसः परिहरन् स शयीत परम्॥

अचि9.103
इत्थं युक्त्या पिबन्मद्यं न त्रिवर्गाद्विहीयते।
असारसंसारसुखं परमं चाधिगच्छति॥

अचि9.104
ऐश्वर्यस्योपभोगोऽयं स्पृहणीयः सुरैरपि।
अन्यथा हि विपत्सु स्यात् पश्चात्तापेन्धनं धनम्॥

अचि9.105
उपभोगेन रहितो भोगवानिति निन्द्यते।
निर्मितोऽतिकदर्योऽयं विधिना निधिपालकः॥

अचि9.106
तस्माद्व्यवस्थया पानं पानस्य सततं हितम्।
जित्वाविषयलुब्धानामिन्द्रियाणां स्वतन्त्रताम्॥

अचि9.107
विधिर्वसुमतामेष भविष्यद्वसवस्तु ये।
यथोपपत्ति तैर्मद्यं पातव्यं मात्रया हितम्॥

अचि9.108
यावद्दृष्टेर्न सम्भ्रान्तिर्यावन्न क्षोभ्यते मनः।
तावदेव विरन्तव्यं मद्यादात्मवता सदा॥

अचि9.109
अभ्यङ्गोद्वर्तनस्नानवासधूपानुलेपनैः।
स्निग्धोष्णैर्भावितश्चान्नैः पानं वातोत्तरः पिबेत्॥

अचि9.110
शीतोपचारैर्विविधैर्माधुरस्निग्धशीतलैः।
पैत्तिको भावितश्चान्नैः पिबन्मद्य न सीदति॥

अचि9.111
उपचारैरशिशिरैर्यवगोधूमभुक् पिबेत्।
श्लैष्मिको धन्वजैर्मांसैर्मद्यं मारिचिकैः सह॥

अचि9.112
तत्र वाते हितं मद्यं प्रायः पैष्टिकगौडिम।
पित्ते साम्भो मधु कफे मार्द्वीकारिष्टमाधवम्॥

अचि9.113
प्राक् पिबेछ्लैष्मिको मद्यं भुक्तस्योपरि पैत्तिकः॥
वातिकस्तु पिबेन्मध्ये समदोषो यथेच्छति॥

अचि9.114
मदेषु वातपित्तघ्नं प्रायो मूर्छासु चेष्यते।
सर्वत्रापि विशेषेण पित्तमेवोपलक्षयेत्॥

अचि9.115
शीताः प्रदेहा मणयः सेका व्यजनमारुताः।
सिताद्राक्षेक्षुखर्जूरकाश्मर्यस्वरसाः पयः॥

अचि9.116
सिद्धा मधुरवर्गेण रसा यूषाः सदाडिमाः।
षष्टिकाः शालयो मुद्गा यवाः सर्पिश्च जीवनम्॥

अचि9.117
कल्याणकं पञ्चगव्यं षट्पलं पयसाग्निकम्।
पिप्पल्यो वा शिलाह्वं वा रसायनविधानतः।
त्रिफला वा प्रयोक्तव्या सघृतक्षौद्रशर्करा॥

अचि9.118
प्रसक्तवेगेषु हितं मुखनासावरोधनम्।
पिबेद्वा मानुषीक्षीरं तेन दद्याच्च नावनम्॥

अचि9.119
मृणालबिसकृष्णा वा लिह्यात् क्षौद्रेण साभयाः।
दुरालभां वा मुस्तां वा शीतेन सलिलेन वा॥

अचि9.120
पिबेन्मरिचकोलस्थिमज्जोशीराहिकेसरम्।
धात्रीफलरसे सिद्धं पथ्याक्वाथेन वा घृतम्॥

अचि9.121
कुर्यात् क्रियां ज्वरोक्तां च यथादोषबलोदयम्।
पञ्च कर्माणि शस्तानि तथा रक्तावसेचनम्॥

अचि9.122
सत्वस्यालम्बनं ज्ञानमगृद्धिर्विषयेषु च॥

अचि9.123
मदेष्वतिप्रवृद्धेषु मूर्छायेषु च योजयेत्।
तीक्ष्णं संन्यासविहितं विषघ्नं विषजेषु च॥

अचि9.124
आशु प्रयोज्यं संन्यासे सुतीक्ष्णं नस्यमञ्जनम्।
धूमं प्रधमनं तोदः सूचीभिश्च नखान्तरे॥

अचि9.125
केशानां लुञ्चनं दाहो दशनवृश्चिकैः।
कट्वम्लगालनं वक्त्रे कपिकच्छ्वावघर्षणम्॥

अचि9.126
उत्थितो लब्धसंज्ञश्च लशुनस्वरसं पिबेत्।
खादेत्सव्योषलवणं बीजपूरककेसरम्।
लघ्वन्नं कटुतीक्ष्णमद्यात् स्रोतोविशुद्धये॥

अस9.127। विस्मापनैः संस्मरणः प्रियश्रवणदर्शनैः।
पटुभिर्गीतवादित्रशब्दैर्व्यायामशीलनैः॥

अचि9.128
स्रंसनोल्लेखनैर्धूमैः शोणितस्यावसेचनैः।
उपाचरेत्तं प्रततमनुबन्धभयात् पुनः।
तस्य संरक्षितव्यं च मनः प्रलयहेतुतः॥
॥इति नवमोऽध्यायः॥

अथ दशमोऽध्यायः।

अचि10.1
अथातोऽर्शस चिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अचि10.2
अथ खलु बलवन्तमर्शोभिरुपद्रुतं यथार्हस्नेहोपस्निग्धस्विन्नमनिलवेदनावृद्धिशमनार्थं स्निग्धमुष्णमल्पमन्नं द्रवप्रायं भुक्तवन्तं शुचिं कृतस्वस्त्ययनं भुक्तविण्मूत्रमव्यथं समे शुचौ विविक्ते देशे साधारणे व्यभ्रे काले शय्यायां समे फलके वा प्रत्यादित्यगुदमन्यस्योत्सङ्गे निषण्णपूर्वकायं उत्तानमुन्नतकटीदेशं यन्त्रणशाटकेन परिक्षिप्तग्रीवासक्थिसन्धिमलज्जार्हैराप्तपरिचारकैः सुपरिगृहीतं कृत्वा ततोऽस्म घृताभ्यक्तगुदाय घृताभ्यक्तं यन्त्रमृज्वनुसुखं शनैः पायौ प्रणिदध्यात्।
प्रवाहणप्रविष्टं चार्शोऽभिवीक्ष्यपिचुप्लोतकयोरन्यतरेणावगुण्ठितया शलाकयोत्पीड्य यथोक्तविधिनाग्निक्षाराभ्यामुपाचरेत् सम्यङ्निर्वापयेच्च॥

अचि10.3
महान्ति प्राणवतश्छित्वा दहेत्।
छत्राकाराण्यूर्ध्वविसृतानि क्षारसूत्रेण बध्वा॥

अचि10.4
ततो यन्त्रमपनीयोत्थाप्यातुरं स्वभ्यक्तगुदजघनवङ्क्षणं यथाकालमुष्णोदककोष्ठेऽवगाहयेत्।
ततो निवातमगारं प्रवेश्याचारिकमुपदिशेत्॥

अचि10.5
सावशेषं पुनर्दाहयेत्।
एवं सप्तरात्रात्सप्तरात्रादेकैकमुपक्रमेत्।
बहुषु तु प्राग्दक्षिणं ततो वामं वामात् पृष्ठाग्रजम्।
एकाहात्तु सर्वाणि दहतोऽतियोगोक्तो देषः।
तत्र शुष्काण्यग्निना क्षारेण वा साधयेत्।
क्षारेणैव मृदुनार्द्राणि।
एष सर्वप्रदेशेष्वर्शसां दहनविकल्पः।
तृतीये तु गुदवलौ प्रत्याख्यायोपचरेन्न वेत्येके॥

अचि10.6
अथ सम्यग्दग्धे वातानुलोम्यमन्नाभिरुचिरग्नेर्दीप्तिर्लाघवमिन्द्रियप्रसादो यथोक्तोपद्रवनिवृत्तिर्बलवर्णोपपत्तिश्च।
असम्यग्दाहे तु क्षाराग्निकर्मणोर्विधिमीक्षेत्॥

अचि10.7
बस्तिवेदनायां कुष्ठशतपुष्पादेवदारुसुरभिपुनर्नवागरुकल्केन नाभेरधः सर्वमालिम्पेत्।
मूत्रपुरीषप्रतीघाते वरणालम्बुसैरण्डपुनर्नवाश्वदंष्ट्रासुरभीसुषवीकषायं सुखोष्णं स्वभ्यक्तपृष्ठकटीवङ्क्षणगुदस्य परिषेकेऽवाअहे वा योजयेत्।
क्षीरं सस्नेहं तैलमेव वा।
दग्धेषु चार्शःसु शकृच्छैथिल्यार्थं त्रिवृद्वास्तुकोपोदकाचुञ्ज्चुपर्णीशाकयुक्तमन्नमश्नीयात्॥

अचि10.8
अनिलानलरक्षणोत्तेजनार्थं देहपुष्टये च स्नेहादीन् सम्यगासेवेत्।
संशोधनाः प्रलेपाद्याः कषायास्तैलयुक्तयः।
व्रणाधिकारमालोच्य योक्तव्या हत्नामसु॥

अचि10.9
अथानवचारणीयशस्त्रक्षाराग्नेर्वातकफोल्बणानि दोषसम्पूर्णत्वान्निर्गतानि सस्तम्भकण्डूशोफशूलानि क्षारचित्रककुष्ठबिल्वमूलकसिद्धेन तैलेन वा कृष्णाहिबिडालौष्ट्रजलौकःसूकरवसाभिर्वाभ्यज्य।
पिण्डेन स्वेदयेद्द्रवस्वेदेन वा।
धूपयेच्च सघृतशमीपत्रार्कमूलमानुषकेशाहिनिर्मोकबिडालचर्मभिः।
कुञ्जरवराहवृषशकृत्सक्तुसर्जरसैर्वा।
सुरसाबृहतीपिप्पल्यश्वगन्धाभिर्वा सघृताभिः।
अरिष्टशिग्रुपत्रकुलत्थवचाभिर्वा।
प्रदिह्याच्च स्नुहीक्षीरयुक्तेन हरिद्राचूर्णेन।
गोमूत्रपिष्टैर्वा कुक्कुटशकृन्निशापिप्पलीगुञ्जामूलैः।
गोपित्तपिष्टाभिर्वा दन्तीचित्रकसुवर्चिकाभिः।
सुधाक्षीरपिष्टैर्वा गुडकृष्णासैन्धवकुष्ठशिरीषबीजैः।
तद्वच्च गजास्थितुत्थभल्लातकलाङ्गलीकुलीरशृङ्गीवचाभयाहिंगुकुष्ठबिल्वशिग्रुमूलकबीजनिम्बाश्वमारपत्रपीलुमूलैः बस्तमूत्रपिष्टैर्वा सुधाकाण्डार्कक्षीरतुम्बप्रसवकरञ्जैः।
पिप्पल्यादिभिर्वानुवासनद्रव्यैः।
एभिर्हि प्रदिग्धान्य शारंसि दुष्टमसृक्सञ्चितं पिच्छां च विमुच्य प्रशाम्यन्ति।
एभिश्च तैलान्यभ्यङ्गार्थमुपकल्पयेत्॥

अचि10.10
तथा कासीससैन्धवालपिप्पलीकुष्ठशुण्ठीविडङ्गविदारीलाङ्गलीकरवीरार्द्रकस्वर्णक्षीरीदन्तीचित्रकालर्कसूधापयोभिस्तैलं चतुर्गुणमूत्रविपक्वमप्रदूषयत् गुदमभ्यङ्गात् क्षारवदर्शांसि शातयति।
तैलाभ्यक्तं वा पायुप्रदेशं पक्वेष्टकाशकलैस्तीक्ष्णकोटिभिरग्निवर्णैर्महिषीमूत्रनिर्वापितैर्निष्पीडयन् द्विकालं सप्तदिनानि स्वेदयेत्।
अनन्तां च यथोक्तेनावगाहरेन।
ततो गते सप्तरात्रे पूतीकरञ्जपल्लवकल्केन ससैन्धवेन स्नुही पयसा वर्तिं कृत्वा नातिशुष्कां गुदे विदध्यात्।
कृतविण्मूत्रं चावगाहे स्थापयेत्।
प्रातः सायं चैष विधिः प्रत्यहमेकान्तरं वा यावत्त्रिरात्रम्।
ततो देवदालीक्षारहरीतकीः शीलयेत्।
एवमर्शांसि शीर्यन्ते॥

अचि10.11
अथ हरीतकीपाकविधिः।
सजालमूलं जीमूतकमन्तर्धूमं दहेत् तस्यभस्मनोर्द्धाढकं गोमूत्रपात्रद्वयेनैकविंशतिकृत्वो गालयेत्।
ततस्तेन क्षारमूत्रेण कुटजचित्रकव्याधिघातचूर्णप्रसृतत्रयान्वितेन पथ्याशतद्वयमाघनीभावात् पचेत्।
अवतीर्णं च तमवलेहं व्योषरजःप्रसृतयुक्तं घृतभाविते भाजने निदध्यात्।
स लेहः सावलेहविजयाद्वयोपयोगमभ्यस्यमानो गुदजजठरजघनवङ्क्षणशूलगरानाहगुल्मपाण्डुरोगाश्मरीशर्कराश्वासकासान् नियच्छति।
सदा च पत्रभङ्गोदकेन कोष्णेनाम्बुना वा शौचमाचरेत्।
अप्रवर्तमानं च रुधिरमुच्छूनकठिनेष्वर्शःसु जलौकाभिः सूचीकूर्चेन वा प्रवर्तयेत्॥

अचि10.12
अग्निसादे गुदशोफशूलार्तौ च हिङ्ग्वर्धकर्षं सौवर्चलयवक्षारेन्द्रयवपिप्पलीनां पृथक् कर्षं मूर्वार्धपलं पाठापलं शुण्ठीद्विपलं चैकत्र चूर्णितमुष्णाम्बुसर्पिर्मद्याद्यैरुपयोज्यम्।
त्रिलवणादिचूर्णं वा।
हिङ्ग्वतिविषाकुष्ठस्वर्जिकाक्षारबिडलवणानि वा द्विगुणोत्तराणि प्रथोजयेत्।
प्राणदां वा तक्रानुपानं सगुडाम्।
प्रातः प्राग्भक्तं वा निरन्नो वा तक्रमहरहस्तस्मिन् जीर्णे तक्रे सायं तक्रपेयां ससैन्धवां पिबेत्।
तक्रेणैव वा लाजसक्तूनवलिह्यात्।
पीलूनि वा तक्रानुपानानि प्रातः पक्षं पक्षार्धं वा प्रयोजयेत्।
कटुकिकामूलकल्कं वा प्रातस्तक्रेण॥

अचि10.13
शुण्ठीचित्रकपुनर्नवाक्वाथसिद्धं वा क्षीरम्।
गोमूत्रपरिस्रुते वा बहुकृत्वो जीमूतकक्षार उषिता हरीतकीः।
गोमूत्रार्धद्रोणसिद्धं वा क्षौद्रवदभयाशतम्।
वासिष्ठहरीतजीर्वा।
भल्लातकानि वा रसायनोपदेशेन पुनर्नवामलंबुसां वा शोफोक्तविधिना गुडार्द्रकं वा॥

अचि10.14
सकुतुमन्थं वा भल्लातकचूर्णयुक्तं नातिलवणं तक्रेण।
तक्रेण वाषाढकार्तिकमार्गशीर्षाणां मासानामन्यतमस्मिन् पुष्ययोगे समुद्धृतं चित्रकमथवा मस्तुयूषक्षीरघृततैलाद्यन्यतमेन॥

अचि10.15
चित्रकमूलक्वाथं वा लेहतां गतं समधुगुडं तक्राशी शीलयेत्।
कलशे वान्तश्चित्रकमूलत्वक्कल्कलिप्तशुष्के जातं दधि कालशेयं वा पानभोजनेषु।
एवं भार्ङ्ग्यास्फोतगुडूचीपञ्चकोलेषु तक्रकल्पः॥

अचि10.16
घृतघटे वा हपुषोपकुञ्चिकाधानकाजमोदाजाजीशठीकारवीयवानीचित्रकपिप्पलीद्वयपिप्पलीमूलचूर्णासुतं जातं तक्रम्।
तक्रमेव वातिमन्दवह्निः सप्ताहसस्नेहमम्लमनम्लं वा सान्नमनन्नं वा शीलयेत्॥

अचि10.17
ततस्तक्रसिद्धानि क्रमशोऽर्शोघ्नलघुदीपनीयद्रव्यधान्यपिशितशाकोपकल्पितानि पेयाअयूषरसव्यञ्जनानि।
तक्रं हि परमौषधमनिलकफार्तीनां विशेषाज्जठराश्रितानाम्।
तत्रापि विशेषेण दुर्नाम्राम्।
न हि तद्विहतान्यर्शांसि पुनः प्ररोहन्ति।
भूमावपि तन्निषिच्यमानमहरहः समूलमुच्छिनत्ति तृणजालमप्स्वपि च शैवालम्।
तद्विशोधितेषु पुनर्देहस्रोतःसूपचीयमानोऽन्नरसः पुष्टिबलवर्णौजसामाशु वृद्धये सम्पद्यते॥

अचि10.18
मद्यपश्च सेवेत चव्यचित्रकाजाजीचूर्णानुविद्धं शीधुं गौडं वा।
सौवर्चलहपुषान्वितां वा सुराम्॥

अचि10.19
अभयापलाष्टकं द्विगुणामलकमिन्द्रवारुणीपलपञ्चकं च द्विगुणकपित्थमध्यं लोद्ध्रविडङ्गैलवालुकपिप्पलीमरिचानि द्विपलांशानि जर्जरितान्युदकभारे विपाच्य पादशेषं रसं पूतशीतं गुडतुलाद्वयेन धातकीपलाष्टकेन संयोज्य घृतभाजनेऽर्धमासस्थं प्रातरन्नकाले वोपयुञ्जीत।
अयमभयारिष्टोऽर्शोग्रहणीपाण्डुहृद्रोगकामलायक्ष्मविषमज्वरप्लीहगुल्मोदरश्वयथुकुष्ठकृमिग्रन्थ्यर्बुदघ्नोऽग्निरुचिवर्णकरश्च॥

अचि10.20
दन्तीचित्रकत्रिफलादशमूलानि पालिकान्युदकद्रोणे साधयित्वा पादशेषे पूतशीते तस्मिन् गुडतुलार्धं धातकीकुडवं च प्रक्षिप्य घृतभाजने मासमुषितो दन्त्यरिष्टः समानः पूर्वेण।
दुरालभायाः प्रस्थमभयामलकवृषपाठाचित्रकदन्तीमहौषधीनां प्रत्येकं द्विपलमम्भसां द्रोणे पूर्ववत् सिद्धं पूतशीतं शर्करातुलयोन्मिश्रं मधुघृतप्रियङ्गुपिप्पलीचविकाकल्कलिप्तेघृतकुम्भे पक्षं निधापयेत्।
अयं दुरालभारिष्टः समानः पूर्वेण॥

अचि10.21
नवामलकपलशतं पिप्पलीनागपुष्पकुडवद्वयं पालिकानि चव्यचित्रकक्रमुकलोध्रपाठामरिचविडङ्गमञ्जिष्ठैलवालुकपिप्पलीमूलान्यर्धपलांशिकानि दार्वीशताह्वेन्द्राह्वासारिवाद्वयमुस्तकुष्ठान्यैकध्यं च जलद्रोणद्वयेऽर्धावशेषं साधयेत्।
स रसः पूतशीतः समद्राक्षास्वरसः सितापलशतद्वयेन क्षौद्रार्धप्रस्थेन पृथक् कार्षिकेण च त्वगेलालोध्रकुटन्नटाम्बुसेव्यक्रमुककेसरचूर्णेन युक्तो गुडशर्कराधूपिते घृतभाण्डे प्रक्षिप्य पक्षमुपेक्षितोऽयमामलकारिष्टः समानः पूर्वेण।
अकालवलीपलितखलतिशमनश्च॥

अचि10.22
गुग्गुलुपलचतुष्टयमामलकप्रस्थं धातकीप्रस्थमभयाशतमक्षशतञ्च गुडपलशतद्वयं पालिकानि पञ्चकोलाजमोजचतुर्जातककट्फलमुस्तमरिचानि दशपलिकानि च खण्डद्राक्षादाडिमानि सर्वमैकध्यमम्भसाप्लाव्यालोड्य च पुराणे जतुसृते द्रोणक्षमे भाजने निक्षिप्य स्थापयेत्।
गन्धवर्णरसोपपन्नं चासवमभिसमीक्ष्य तं कुम्भमिक्षुरसस्य पूरयेत्।
एष षण्मासस्थितो गुग्गुल्वासवः समानः पूर्वेण॥

अचि10.23
अमद्यपो वा पिबेच्च शृतशीतमल्पमुदकं शृतं धान्यनागराभ्याम्।
लघुना पञ्चमूलेन वा।
पञ्चकोलकाजाजीकारवीगजशौण्डीबिल्वशलाटुपाठातुम्बुरुधान्यकैर्वा॥

अचि10.24
एभिश्च फलाम्लान् यमकस्निग्धान् पेयायूषरसादीन् कुर्यात्।
एभिरेव घृतं साधयेत्।
पिबेद्वा मस्तु धान्याम्लं मधुशुक्तोदकं वा॥

अचि10.25
पूतीकरञ्जत्वक्पलशतद्वयं शुष्कमुदकद्रोणे क्वाथयेत्।
पादशेषे च तस्मिन् पूतशीते गुडपलान्यशीतिं व्योषार्धपस्थचूर्णं च दत्वा यवपल्ले घृतकुम्भस्थं मासं निधापयेत्।
एतत् करञ्जशुक्रमभ्यस्यमानमलमनलजननमर्शोगुल्मानाहप्लीहगरोदरघ्नं च।
पीलुतुलां तुल्यगुडां मस्तुनस्तक्रस्य वा द्रोणेऽभिषुणुयात्।
तत्र पालिकानामभयातिविषापाठामुस्तकटुकादेवदारुहिंस्राजीरकारुष्करचव्याजमोदैलाचित्रकगजपिप्पलीव्योषविडङ्गशताह्वाहरेणुचिरबिल्वत्वक्कुष्ठकुटजबीजत्रिवृत्पिप्पलीमूलोपकुञ्चिकानां चूर्णं क्षिप्त्वा पूर्ववन्निधापयेत् तदधिकगुणं पूर्वस्मात्॥

अचि10.26
सुतक्षितानामिक्षुगण्डिकानां द्रोणमुदकद्रोणेन घृतभाविते भाजनेऽभिषुणुयात्।
आवपेच्चात्र जर्जरीकृता यवानीयवानककुस्तुम्बरीपृथवीकाः पृथक् कुडवांशास्तथा द्विपलोन्मितास्तेजोवतीपञ्चकोलकाजाजीजीरकद्वयकारवीः क्षौद्रकुडवं च प्रक्षिप्य ततो दशरात्रेण सञ्जातात् तस्मान्मात्रां सौवर्चलार्द्रकभूस्तृणैः सुरभीकृतां भुञ्जानः पिबेत्।
पुनः पुनश्चात्र पानीयं प्रक्षिपेदिक्षुगण्डिकादिकञ्च सम्भारम्।
तत् गण्डीराख्यं काञ्जिकं परं रुचिकरमग्निदीपनमर्शोग्रहणीविकारोदरगरकृमिगुल्ममदात्ययपाण्डुरोगघ्नम्॥

अचि10.27
रूक्षकोष्ठश्चार्शसो नागरक्षारकृष्णाजाजीधान्यकारवीगर्भं फलाम्लं सफाणितं सर्पिः पिबेत्।
गुल्मोक्तानि वा घृतानि।
किंशुकक्षारोदकेन वा विपक्वं व्योषगर्भम्।
पाठामरिचपञ्चकोलकक्षारयवानीकुस्तुम्बरुहरीतकीबिल्वविडङ्गसैन्धवगर्भं चतुर्गुणेन दध्ना विपक्वं सर्पिः प्रवाहिकागुदभ्रंशपिच्छास्रावानाहगुल्मपायुपार्श्ववङ्क्षणवेदनाग्रहणीदोषहृद्रोगमूत्रकृच्छ्रघ्नम्॥

अचि10.28
पिप्पलीपाठानागरगोक्षुरकाणां त्रिपलिकानां निर्यूहे गण्डीरमरिचपञ्चकोलकान्यर्धपलिकानि कल्कीकृत्य षड्गुणेन दध्ना चत्वारिंशत् घृतपलानि तुल्यचाङ्गेरीरसानि पाचयेत्।तत् सर्पिः समानं पूर्वेण।
शोफोदरवासकासहिध्माघ्नं च॥

अचि10.29
बद्धवर्चांसि चार्शांस्युदावर्तवदुपाचरेत्।
भिन्नवर्चांसि चार्शांस्यतीसारवत्।
अतिप्रवृत्तरक्तानि रक्तपित्तातिसारवत्॥

अचि10.30
अशुद्धं च कालबलापेक्षी स्रवद्रुधिरमुपेक्षेत।
उभौ च तत्रानुबध्येते श्लेष्मानिलो वा।
तत्र पित्तश्लेष्मोल्बणं पाचनदीपनद्रव्यैरुपेक्षया च संशोध्य शमयेत्।
पित्तानिलोल्बणमन्तर्बहिरूर्ध्वमधश्च यथाग्निस्नेहैः।
केवलपित्तोल्बणमुष्णकाले विशेषतश्च दुर्बलस्य स्तम्भनैः॥

अचि10.31
अथ श्लेष्मोल्बणे कुटजत्वग्विश्वभेषजक्वाथं पिबेत्। तण्डुलोदकेन वा कुटजत्वक्फलातिविषारसाञ्जनानि सक्षौद्राणि।
कुटजत्वक्पलशतमार्द्रं दिव्याम्बुना क्वाथयेत्।
मुक्तरसे च पूते तस्मिन् पालिकान् सुश्लक्ष्णपिष्टान् प्रियङ्गुसमङ्गामोचरसान् कुटजबीजत्रिपलं च प्रक्षिप्य मृद्वग्निना पुनः साधयेदादर्वीलेपात्।
अयमवलेहश्छागलीक्षीरेण पेयामण्डेन वा सहाजक्षीरभुजः प्रयुक्तो रक्तजान्यर्शांस्यतीसारं कफपित्तञ्चोर्ध्वमधो वा प्रवृत्तमपहरति।
कुटजत्वक्पलशतमुदकद्रोणेऽष्टभागशेषं साधयेत्।
परिस्राव्य तदुदकं कल्कीकृतैर्व्योषरसाञ्जनमोचरसमुस्ताधातकीफलबिल्वशलाटुदाडिमशलाटुत्वक्समङ्गालोध्रद्वयैः पलांशैः पलैश्च कुटजत्वचो दशभिस्तथा विंशत्या घृतस्य गुडस्य च त्रिंशता संसृष्टमधिश्रयेत्।
अथावलेहतां गतमवतारितं सप्ताहमर्धमासं मासं वा धान्यमध्ये सुगुप्तं निहितमुपयुक्तमाशु सर्वार्शोग्रहणीदोषश्वासकासानपोहति॥

अचि10.32
मोचरससमङ्गातिललोध्रचन्दननीलोत्पलानि वा छागपयसा पिबेत्।
शूले तु बिल्वयवानीनागररसाञ्जनदुरालभावत्सकबीजानामन्यतमेनापि युक्तं पाठाचूर्णं शृतेन कोष्णेनांभसा तक्रेण वा।
शूले रक्तातिप्रवृत्तौ च लोध्रधातकीकुटजत्वगिन्द्रयव केसरनीलोत्पलकल्कसिद्धं सर्पिर्दुग्धिकानिदिग्धिकाकल्कसिद्धं वा॥

अचि10.33
वातोल्बणे तु रक्ते बलातिबलाबिल्वत्रिफलाहस्तिपिप्पलीन्यग्रोधकरञ्जपत्रमधुकतिन्दुकोत्पलैः कार्षिकैर्घृतप्रस्थमजाक्षीरे दशगुणे पचेत्।
तत् परं रक्तार्शोघ्नम्।
पाठालोध्रह्रीबेरोत्पलचव्यचन्दनसमङ्गातिविषाबिल्वधातकीमधुकदेवदारुदार्वीत्वङ्मुस्तामांसीनागरयवक्षारचित्रककल्केन चाङ्गेरीस्वरसेन च साधितं सर्पिर्द्रोषत्रयघ्नमर्शोऽतिसारप्रवाहिकाबस्त्यानाहगुदभ्रंशपिच्छास्रुतिग्रहणीपाण्ड्वामयज्वरमूत्रकृच्छ्रारोचकदुर्नामशूलेषु योज्यम्।
बलादार्व्यवाक्पुष्पीगोक्षुरकपृश्निपर्शीनामश्वत्थोदुम्बरन्यग्रोधप्लक्षबदरीवेतसप्रवालानां च द्विपलोन्मितानां कषायेण जीवन्तीकटुकापञ्चकोलेन्द्रयवदेवदारुशाल्मलीपुष्पवीराचन्दनाञ्जनकट्फलमुस्तश्यामास्थिरातिविषासमङ्गाव्याघ्नीमोचरसबिल्वकमलोत्पलकिञ्जल्कानां चार्धकर्षोन्मितानां कल्केन चाङ्गेरीसुनिषण्णकस्वरसप्रस्थाभ्यां च घृतप्रस्थं पाचयेत्।
तत् समानं पूर्वेण॥

अचि10.34
रक्तस्तम्भनाय च शीताभ्यङ्गप्रदेहसेकावगाहादीन् प्रयुञ्जीत।
तदशान्तौ यथोदितानि घृतानि कवोष्णान्यवपीडकयोजनया पाययेत्।
कवोष्णानेव च घृतैतलक्षीररसकानथवा स्निग्धोष्णैर्मांसरसैर्भोजयित्वा घृतमण्डेन कोष्णेनानुवासयेत्।
शीतवीर्यद्रव्यसिद्धेन वा यथास्वं स्नेहेन।
शाल्मलीपुष्पयवासकुशकाशमूलन्यग्रोधोदुम्बराश्वत्थशृङ्गान् द्विपलाशान् क्षीरप्रस्थेन त्रिगुणोदकेन साधयित्वा क्षीरावशेषमवतारयेत्।
स निर्यूहः शाल्मलीनिर्याससमङ्गाचन्दनोत्पलेन्द्रयवप्रियङ्गुपद्मकेसरकल्कगर्भो घृतक्षौद्रशर्करोपेतः पिच्छाबस्तिर्गुदभ्रंशप्रवाहिकारक्तस्रुतिज्वरघ्नः॥

अचि10.35
अपिच लाजैः पेया पीता चुक्रीकाकेसरोत्पलैः सिद्धा।
हन्त्याशु रक्तरोगं तथा बलापृश्निपर्णीभ्याम्॥

अचि10.36
ह्रीबेरबिल्वनागरनिर्यूहे साधितां सनवनीताम्।
वृक्षाम्लदाडिमाम्लामम्लीकाम्लां सकोलाम्लाम्॥

अचि10.37
गृञ्जनकसुरससिद्धां दद्याद्यमकेन भर्जितां पेयाम्।
रक्तातिसारग्रहणीप्रवाहिकाशोफनिग्रहणीम्॥

अचि10.38
काश्मर्यामलकानां सकच्छुराणां खलान् फलाम्लांश्च।
गृञ्जनकशाल्मलीनां दुग्धीकाचुक्रिकाणां च॥

अचि10.39
न्यग्रोधशृङ्गिकानां खलांस्तथा कोचिदारपुष्पाणाम्।
दध्नः सरेण सिद्धान् दद्याद्रक्ते प्रवृत्तेऽति॥

अचि10.40
सिद्धं पलाण्डुशाकं तक्रेणोपोदकां सबदरां च।
रुधिरस्रुतौ प्रदद्यान्मसूरसूपं सतक्राम्लम्॥

अचि10.41
पयसा शृतेन यूषैः सतीनमुद्गाढकीमसूराणाम्।
भोजनमद्यादम्लैः शालिश्यामाककोद्रवजम्॥

अचि10.42
शशहरिणलावमांसैः सकपिञ्जलैणेयकैः सुसिद्धैश्च।
शालीनद्यान्मधुरैरम्लैरीषत्समरिचैर्वा॥

अचि10.43
दक्षशिखितित्तिरिरसौर्द्विककुल्लोपाकजैश्च मधुराम्लैः।
अद्याद्रसैरतिवहेष्वर्शःस्वनिलोल्बणशरीरः॥

अचि10.44
छगलीपयः प्रयुक्तं निहन्तिरक्तं सवास्तुकरसश्च।
धन्वविहगमृगाणां रसो निरम्लः कदम्लो वा॥

अचि10.45
रसखलशाकयवागूघृतयुक्तः केवलोऽथवा जयति।
रक्तमतिवर्तमानं वातं च पलाण्डुरुपयुक्तः।
छागान्तराधितरुणं सरुधिरमुपसाधितं बहुपलाण्डु॥

अचि10.46
व्यत्यासान्मधुरामं विट्शोणितसङ्क्षये योज्यम्।
नवनीततिलाभ्यासात् केसरनवनीतशर्कराभ्यासात्।
दधिसरमथिताभ्यासात् गुदजाः शाम्यन्ति रक्तवहाः॥

अचि10.47
नवनीतघृतं छागं सपयोमांसं सषष्टिकः शालिः।
तरुणश्च सुरामण्डस्तरुणीव सुरा जयत्यस्रम्॥

अचि10.48
प्रायेण वातबहुलान्यर्शांसि भवन्त्यतिस्रुते रक्ते।
दृष्टेऽपि हि कफपित्ते तस्मादनिलोऽधिकं जेयः॥

अचि10.49
दृष्ट्वा शोणितपित्तं प्रबलं कफवातरूपमल्पं च।
शीताः क्रियाः प्रयोज्या यथेरिताः पित्तरोगेषु॥

अचि10.50
उदावर्ते तु दोषविलयनाय शीतज्वरघ्नतैलाभ्यक्तस्विन्नस्य श्यामात्रिवृत्पिप्पलीनिकुम्भनीलिनीचूर्णं गोमूत्रपरिपीतं द्विगुणलवणगुडेन कराङ्गुष्ठाकारां वर्तिं कृत्वा घृताभ्यक्तगुदस्य गुदे वातविण्मूत्रानुलोमनार्थं निदध्यात्।
पिप्पलीमदनफलसर्षपागारधूमैर्वा समूत्रगुडैः।
तुम्बीकरघाटकणासिद्धार्थकसैन्धवजीमूतकैर्वा।
एतेषामेव वा चूर्णं नाड्या प्रधमेत्।
तद्विघाते त्वानुलोमिकौषधतैलमूत्राम्ललवणक्षारयुक्तं सुतीक्ष्णमास्थापनं दद्यात्॥

अचि10.51
त्रिफलात्रिकटुत्रिलवणदन्तीचित्रकभल्लातकानि जर्जरितानि सस्नेहमूत्राणि शरावद्वयकोष्ठे मृत्प्रलिप्ते गोमयाग्निना विपचेत्।
स कल्याणकाख्यः क्षारः क्षीरमांसरसाशिना घृतेन पीतोऽन्नपाने वा प्रणीतोऽर्शोगुल्मपाण्डुहृद्रोगोदावर्तग्रहणीमूत्रविबन्धाश्मरीकृमिश्वयथुहिध्माश्वासकासशूलानाहप्लीहमेहापहः।
वैरेचनिकमूलफलानि सहिंस्रार्कमूलदशमूलगुडाद्वीपिद्विपुनर्नवानि सर्वैश्च तुल्यानि पञ्चलवणानि क्षारः पूर्ववत् कृतः काङ्कायनोक्तोऽधिकगुणः पूर्वस्मात्।
हिङ्गुपाठात्र्यूषणत्रिफलाकटभीबिल्वमध्यायोरजः कटुकापञ्चकोलकमुस्तकुष्ठक्षारद्वयमुष्ककमधुकोग्रगन्धाविडङ्गमूर्वाजमोदेन्द्रयवगुडूचीदेवदारूणि कार्षिकाणिपृथक् पलांशानि पञ्चलवणान्यैकध्यमापोथ्य घृततैलकुडवेन दधिकुडवेन च संयोज्य कल्याणकविधिना दग्धो महाक्षारस्तत्तुल्यः।
सर्वगरविषनिबर्हणश्च।
प्राग्भक्तं वा वितरेत् घृतगुडयवक्षारान्॥

अचि10.52
दाडिमरसं वा सयवानीपाठामहौषधलवणगुडतक्रम्।
यमकस्नेहभृष्टान् वा सक्तुयुक्तान् करञ्जप्रसवान्।
दधिदाडिमाम्लबदरतिन्तिणीकमातुलुङ्गलवणसुरां यमकसंस्कृताम्।
त्रिवृद्दन्तीगुडचित्रकचाङ्गेरीबालमूलकलोणीकासुवर्चलोपोदकाचुञ्चुपर्णीवीरावास्तुकपल्लवांस्तथा दक्षशिखिश्वाविङ्गोधामार्जारोष्ट्रलोपाककूर्मशल्यकमांसान् मांसरसान् यवप्रायं चान्नं भोजनार्थे।
पानार्थे तु सपिप्पलीचूर्णं गौडमच्छसुरां सलवणानासवांश्च दीपनीयवातहरानारनालमस्तु वा संस्कृतम्॥

अचि10.53
अनुबन्धे तु भूयो मदिरामस्तुमूत्रयुक्तं विरेकम्।
सपिप्पलीं वा घृतभृष्टां सगुडां हरीतकीं सकुम्भनिकुम्भां वा।
द्विविधोपक्रमणीयोदितान् वा तर्पणप्रयोगान्।
त्रिवृच्चूर्णं वा त्रिफलारसानुविद्धम्।
अभयामलकविडङ्गान् वा समत्रिवृतान् सगुडान् माणिभद्रकाख्यान्।
मिश्रकस्नेहं सुकुमारकं नीलिनीघृतं वा कल्पोदितानि वा विरेचनान्यवचारयेत्।
गुदाश्रये हि दोषेऽपहृते व्याधयोऽपि तज्जाः प्रशाम्यन्ति॥

अचि10.54
रूक्षतया च विड्वातविब्न्धेन शूलोदावर्तसम्भवः तस्मात्तत्राशुतरं स्नेहनमनुवासनं विदध्यात्।
पिप्पलीमदनबिल्ववचामधुकशतपुष्पाशठीकुष्ठपुष्करमूलद्वीपिदेवदारुभिः श्लक्ष्णपिष्टैर्द्विगुणपयस्तैलं सिद्धमर्शोगुदभ्रंशयोनिशूलवङ्क्षणानाहगुदशोफोत्थानप्रवाहिकपिच्छास्रावोरुकटीपृष्ठदौर्बल्यवैवर्ण्यमूत्रकृच्छ्रनिषूदनं वातमूत्रशकृत्पित्तश्लेष्मानुलोमकरं च।
वातानुलोम्ये हि सति ध्रुवमनलो याति दीप्तिमर्शांसि चातः सङ्कोचमिति।
भवन्ति चात्र॥

अचि10.55
अर्शांसि शस्त्रक्षाराग्निलेपाभ्यङ्गैरुपाचरेत्।
दृश्यान्यदृश्यानि पुनः सदान्तःपरिमार्जनैः॥

अचि10.56
अल्पकालोत्थितेष्वल्पलिङ्गदोषेषु चौषधम्।
नात्युच्छ्रितेषु मृदुषु क्षारोऽस्रस्रुतिमत्सु च॥

अचि10.57
उच्छ्रितेष्वल्पमूलेषु शस्तं शस्त्रं कुनामसु।
युक्तेषु स्थैर्यकाठिन्यकार्कश्यैः शस्त्रपावकौ॥

अचि10.58
योज्यौ महत्सु वा क्षारः पाटयित्वा विकुट्य वा।
सूचीकूर्चेन तद्वच्च बडिशं तेषु शस्त्रकम्॥

अचि10.59
अतिस्थूलातिदीर्घे तु यन्त्रके मर्मघट्टनम्।
अणुच्छिद्रे महद्रूपमेकदेशेऽवशिष्यते॥

अचि10.60
अतिच्छिद्रेऽधिकं रूपादवतीर्णं प्रवाहणात्।
स्थूलान्त्रमति हिंस्याच्च यथोक्तं योजयेदतः॥

अचि10.61
शुष्केषु भल्लातकमग्र्यमुक्तं भैषज्यमार्द्रेषु तु वत्सकत्वक्।
सर्वेषु सर्वर्तुषु कालशेय मर्शःसु बल्यं च मलापहं च॥

अचि10.62
भित्त्वा विबन्धाननुलोमनाय यन्मारुतस्याग्निबलाय यच्च।
तदन्नपानौषधमर्शसेन सेव्यं विवर्ज्यं विपरीतमस्मात्॥

अचि10.63
अर्शोऽतिसारग्रहणीविकाराः प्रायेण चान्योन्यनिदानभूताः।
सन्नेऽनले सन्ति न सन्ति दीप्ते रक्षेदतस्तेषु विशेषतोऽग्निम्॥

॥इति दशमोऽध्यायः॥