अष्टाङ्गसंग्रहः चिकित्सितस्थानम् अध्याय १-५
अष्टाङ्गसङ्ग्रहः
चिकित्सितस्थानम्।
अचि1.1
अथातो ज्वरचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
अचि1.2
आमाशयस्थो हत्वाग्निं सामो मार्गान् पिधाय यत्।
विदधाति ज्वरं दोषस्तस्मात् कुर्वीत लङ्घनम्॥
अचि1.3
प्राग्रूपेषु ज्वरादौ वा बलं यत्नेन पालयन्।
बलाधिष्ठानमारोग्यमारोग्यार्थः क्रियाक्रमः॥
अचि1.4
लङ्घनैः क्षपिते दोषे दीप्तेऽग्नौ लाघवे सति।
स्वास्थ्यं क्षुत्तृङ् रुचिः पक्तिर्बलेमाजश्च जायते॥
अचि1.5
तत्रोत्कृष्टे समुत्क्लिष्टे कफप्राये चले मले।
सहृल्लासप्रसेकान्नद्वेषकासविषूचिके॥
अचि1.6
सद्योभुक्तस्य सञ्जाते ज्वरे सामे विशेषतः।
वमनं वमनार्हस्य शस्तं कुर्यात्तदन्यथा॥
अचि1.7
श्वासातीसारसन्मोहहृद्रोगविषमज्वरान्॥
अचि1.8
पिप्पलीभिर्युतां गालां कलिङ्गैर्मधुकेन वा।
पीत्वोष्णतोयेन वमेन्मध्बम्बु लवणाम्बु वा॥
अचि1.9
पटोलनिम्बकर्कोटवेत्रपत्रजलानि वा।
पेयां मण्डं रसं चेक्षोर्मद्यं कल्पोदितानि वा॥
अचि1.10
वमनानि प्रयुञ्जीत बलकालविभागवित्।
कृतेऽकृते वा वमने ज्वरी कुर्याद्विशोषणम्॥
अचि1.11
दोषाणां समुदीर्णानां पाचनाय शमाय च।
आमेन भस्मनेवाग्नौ छन्नेऽन्नं न विपच्यते॥
अचि1.12
तस्मादादोषपचनाज्ज्वरितानुपवासयेत्।
तृष्णगल्पाल्पमुष्णाम्बु पिबेद्वातकफज्वरे॥
अचि1.13
तत् कफं विलयं नीत्वा तृष्णामाशु निवर्तयेत्।
उदीर्य चाग्निं स्रोतांसि मृदूकृत्य विशोधयेत्॥
अचि1.14
लीनपित्तानिलस्वेदशकृन्मूत्रानुलोमनम्।
निद्राजाङ्यारुचिहरं प्राणानामवलम्बनम्॥
अचि1.15
विपरीतमतः शीतं दोषसङ्घातवर्धनम्॥
अचि1.16
उष्णमेवंगुणत्वेऽपि युञ्ज्यान्नैकान्तपित्तले।
उद्रिक्तपित्ते दवथुदाहमोहातिसारिणि॥
अचि1.17
विषमद्योत्थिते ग्रीष्मे क्षतक्षीणेऽस्रपित्तिनि।
घनचन्दनशुण्ठ्यम्बुपर्पटोशीरसाधितम्॥
अचि1.18
शीतं तेभ्यो हितं तोयं पाचनं तृड्ज्वरापहम्।
ऊष्मा पित्तादृते नास्ति ज्वरो नास्त्यूष्मणा विना॥
अचि1.19
तस्मात् पित्तविरुद्धानि त्यजेत् पित्ताधिकेऽधिकम्।
स्नानाभ्यङ्गप्रदेहांश्च परिशेषं च लङ्घनम्॥
अचि1.20
अजीर्ण इव शूलघ्नं सामे तीव्ररुजि ज्वरे।
न पिबेदौषधं तद्धि भूय एवाममावहेत्॥
अचि1.21
आमाभिभूतकोष्ठस्य क्सीरं विषमहेरिव।
सोदर्दपीनसश्वासे जङ्घापर्वास्थिशूलिनि।
वातश्लेष्मात्मके स्वेदः प्रशस्तः स प्रवर्तयेत्॥
अचि1.22
स्वेदमूत्रशकृद्वातान् कुर्यादग्नेश्च पाटवम्।
स्नेहोक्तमाचारविधिं सर्वतश्चानुपालयेत्॥
अचि1.23
लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रसः।
मलानां पाचनानि स्युर्यथावस्थं क्रमेण वा॥
अचि1.24
शुद्धवातक्षयागन्तुजीर्णज्वरिषु लङ्घनम्।
नेष्यते तेषु हि हितं शमनं यन्न कर्शनम्॥
अचि1.25
तत्रसामज्वराकृत्या जानीयादविशोषितम्।
द्विधिधोपक्रमज्ञानमवेक्षेत च लङ्घने॥
अचि1.26
युक्तं लङ्घितलिग्गैस्तु तं पेयाभिरुपाचरेत्।
यथास्वौषधसिद्धाभिर्मण्डपूर्वाभिरादितः॥
अचि1.27
षडहं वा मृदुत्वं वा ज्वरो यावदवाप्नुयात्।
तस्याग्निर्दीप्यते ताभिः समिद्भिरिव पावकः॥
अचि1.28
ताश्च भेषजसंयोगाल्लघुत्वाच्चाग्निदीपनाः।
वातमूत्रपुरीषाणां दोषाणां चानुलोमकाः॥
अचि1.29
स्वेदनाय द्रवोष्णत्वान्मृदुत्वात्तृट्प्रशान्तये।
आहारभावात् प्राणाय सरत्वाल्लाघवाय च॥
अचि1.30
ज्वरघ्ना ज्वरसात्म्यत्वात् तस्मात् पेयाभिरादितः।
उपक्रमेज्ज्वरान् सर्वानृते मद्यसमुत्थितात्॥
अचि1.31
प्राग्लाजपेयां सुजरां सशुण्ठीधान्यपिप्पलीम्।
ससैन्धवां तथाम्लार्थी तां पिबेत् सहदाडिमाम्॥
अचि1.32
सृष्टविड्बहुपित्तो वा सशुण्ठीमाक्षिकां हिमाम्।
बस्तिपार्श्वशिरःशूली व्याघ्रीगोक्षुरसाधिताम्॥
अचि1.33
पृश्नि पर्णीबलाबिल्वनागरोत्पलधान्यकैः।
सिद्धां ज्वरातिसार्यम्लां पेयां दीपनपाचनीम्॥
अचि1.34
ह्रस्वेनपञ्चमूलेन हिक्कारुक्श्वासकासवान्।
पञ्चमूलेन महता कफार्तो यवसाधिताम्॥
अचि1.35
विबद्धवर्चाः सयवां पिप्पल्यामलकैः कृताम्।
यवागूं सर्पिषा भृष्टां मलदोषानुलोमनीम्॥
अचि1.36
चविकापिप्पलीमूलद्राक्षामलकनागरैः।
कोष्ठे विबद्धे सरुजि पिबेत्तु परिकर्तिनि॥
अचि1.37
कोलवृक्षाम्लकलशीधावनीश्रीफलैः कृताम्।
अस्वेदनिद्रस्तृष्णार्तः सितामलकनागरैः॥
अचि1.38
सिताबदरमृद्वीकासारिवामुस्तचन्दनैः।
तृष्णाच्छर्दिपरीदाहज्वरघ्नीं क्षौद्रसंयुताम्॥
अचि1.39
कुर्यात् पेयौषधैरेव रसयूषादिकानपि।
मद्योद्भवे मद्यनित्ये पित्तस्थानगते कफे॥
अचि1.40
ग्रीष्मे तयोर्वाधिकयोस्तृट्छर्दिदाहपीडिते।
ऊर्ध्वं प्रवृत्ते रक्ते च पेयां नेच्छन्ति तेषु तु॥
अचि1.41
द्राक्षादाडिमकाश्मर्यपथ्या पीलुपरूषकैः।
समधूकैः सबदरैः सक्षौद्रान् ससितोपलान्॥
अचि1.42
ज्वरघ्नैस्तोयमृदितैरद्भिर्वा लाजतर्पणान्।
पिबेत् सुसूक्ष्मरजसस्ततो जीर्णे तु तर्पणे॥
अचि1.43
यवाग्वां वौदनं क्षुद्वानश्नीयाद्भृष्टतण्डुलम्।
दकलावणिकैर्यूषैः रसैर्वा मुद्गलावजैः॥
अचि1.44
इत्ययं षडहो नेयो बलं दोषं च रक्षता।
ततः पक्वेषु दोषेषु लङ्घनाद्यैः प्रशस्यते॥
अचि1.45
कषायो दोषशेषस्य पाचनः शमनोऽथवा।
तिक्तः पित्ते विशेषेण प्रयोज्यः कटुकः कफे॥
अचि1.46
पित्तश्लेष्महरत्वेऽपि कषायः स न शस्यते।
नवज्वरे मलस्तम्भात् कषायो विषमज्वरान्॥
अचि1.47
कुरुतेऽरुचिहृल्लासहिध्माध्मानादिकानपि।
न च्यवन्ते न पच्यन्ते कषायस्तम्भिता मलाः॥
अचि1.48
तिर्यग्गता विमार्गा वा वर्धयन्त्यपि च ज्वरम्।
बद्धामकफवातत्वाच्छूलानाहादिकानपि॥
अचि1.49
सप्ताहादौषधं केंचिदाहुरन्ये दशाहतः।
केचिल्लघ्वन्नभुक्तस्य योज्यमामोल्बणे न तु॥
अचि1.50
तीव्रज्वरपरीतस्य दोषवेगोदये यतः।
दोषेऽथवातिनिचिते तन्द्रास्तैमित्यकारिणि॥
अचि1.51
अपच्यमानं भैषज्यं भूयो ज्वलयति ज्वरम्।
यदा ज्वरो मृदुर्देहो लघुः प्रचलिता मलाः॥
अचि1.52
अचिरज्वरितस्यापि योजयेद्भेषजं तदा।
मुस्तया पर्पटं युक्तं शुण्ठ्या दुस्पर्शयापि वा॥
अचि1.53
पाक्यं शीतकषायं वा पाठोशीरं सवालकम्।
पिबेत्तद्वच्च भूनिम्बगुडूचीमुस्तनागरम्॥
अचि1.54
यथायोगमिमे योज्याः कषाया दोषपाचनाः।
ज्वरारोचकतृष्णास्यवैरस्यापक्तिनाशनाः॥
अचि1.55
पाठेन्द्रयवभूनिम्बमुस्तपर्पटकामृताः।
जयन्त्याममतीसारं ज्वरं च समहौषधाः॥
अचि1.56
दुरालभामृतामुस्तानागरं वातजे ज्वरे।
अथवा पिप्पलीमूलगुडूचीविश्वभेषजम्॥
अचि1.57
कनीयः पञ्चमूलं च पित्ते क्षौद्रसमन्विताः।
कलिङ्गमुस्तकटुका मुस्तापर्पटकं तथा॥
अचि1.58
सधन्वयासभूनिम्बं वत्सकाद्यो गणः कफे।
अथवा वृषगाङ्गेयी शृङ्गेवरदुरालभाः॥
अचि1.59
रुग्विबन्धानिलश्लेष्मयुक्ते दीपनपाचनम्।
अभयापिप्पलीमूलशम्याककटुकाघनम्॥
अचि1.60
कलिङ्गकाः पटोलस्य पत्रं कटुकरोहिणी।
पटोलं सारिवा मुस्ता पाठा कटुकरोहिणी॥
अचि1.61
पटोलनिम्बत्रिफलामृद्वीकामुस्तवत्सकाः।
किराततिक्तममृता चन्दनां विश्वभेषजम्॥
अचि1.62
धात्री मुस्तामृताक्षौद्रमर्धश्लोकसमापनाः।
पञ्चैते सन्ततादीनां पञ्चानां शमना मताः॥
अचि1.63
पटोलेन्द्रयवारिष्टभद्रमुस्तामृताद्वयम्।
सारिवाद्वितयं पाठा त्रायन्ती कटुरोहिणी॥
अचि1.64
पटोलारिष्टमृद्वीकाशम्याकत्रिफलावृषम्।
चन्दनोशीरधान्याब्दगुडूचीविश्वभेषजम्॥
अचि1.65
देवदारुस्थिराशुण्ठीवासाधात्रीहरीतकीः।
पञ्च पञ्च ज्वरान् घ्नन्ति योगा मधुसितोत्कटाः॥
अचि1.66
सगुडाः सारिवाद्राक्षाशताह्वाकणरेणुकाः।
काश्मर्यसारिवाद्राक्षात्रायमाणामृतागुडाः॥
अचि1.67
शतपुष्पावचाकुष्ठदेवदारुहरेणुकाः।
शर्करामधुसंयुक्ताः समांसीमुस्तधान्यकाः॥
अचि1.68
कृष्णापुनर्नवाद्राक्षाशताह्वागुडसारिवाः।
शालिपर्णीबलाद्राक्षासारिवाच्छिन्नसम्भवाः॥
अचि1.69
आरग्वधो बला रास्ना काश्मर्यं मधुकं गुडः।
शतावरीच्छिन्नरुहास्वरसो वा गुडान्वितः॥
अचि1.70
सकृष्णाजीरकसितानागरश्चामृतारसः।
वातज्वरं जयन्यूशु केवलो वामृतारसः॥
अचि1.71
भार्ङ्गीसरलगाङ्गेयीदारुकुष्ठैलवालुकम्।
कोष्णं घृतगुडोपेतं पिबेद्वा वातजे ज्वरे॥
अचि1.72
पटोलादिगुडूच्यादी सूत्रोक्तौ पित्तजे ज्वरे।
अञ्जनादिः सकाश्मर्यः सारिवादिः सशर्करः॥
अचि1.73
सितामधुककाश्मर्यशीतोशारिपरूषकम्।
गुडूचीसारिवालोद्ध्रकमलोत्पलशर्कराः॥
अचि1.74
द्राक्षाभयातिक्तघनशम्याकफलपर्पटम्।
श्यामापर्पटदुःस्पर्शातिक्तातिक्तसितावृषाः॥
अचि1.75
शर्करातिक्तकटुकात्रायमाणाबिभीतकम्।
गुडूच्यामलकैर्युक्तः केवलो वापि पर्पटः॥
अचि1.76
कषायो वा हिमस्तिक्ताद्राक्षामधुकनिम्बजः।
पित्तज्वरघ्नी कटुका श्लक्ष्णापिष्टा सशर्करा॥
अचि1.77
कफजेऽतिविषोशीरपटोलमरिचक्षपाः।
समूर्वेन्द्रयवद्वीपिकुष्ठनिम्बवचागुडाः॥
अचि1.78
सप्तच्छदामृतानिम्बस्फूर्जातं माक्षिकान्वितम्।
निशात्रिकटुकं तिक्तानागपुष्पकलिङ्गकाः॥
अचि1.79
सारिवातिविषाकुष्ठदुःस्पर्शामुस्तगुग्गुलुः।
परूषं त्रिफला तिक्ता बीजं वृषकजं घनम्॥
अचि1.80
नागरत्रिफलामुस्तामूर्वापाठाः समाक्षिकाः।
संसर्गसन्निपातेषु मिश्रानेतान् विकल्पयेत्॥
अचि1.81
गोकण्टकबलादर्भाः ससिता वातपित्तजे।
द्राक्षामलकभूनिम्बाः सगुडूचीशठीगुडाः॥
अचि1.82
त्रायन्ती सारिवाद्राक्षा काश्मर्यच्छिन्नजागुडाः।
द्राक्षामसूरत्रायन्तीगुडूचीसारिवाबलाः॥
अचि1.83
द्राक्षामधूकमधुकलोद्ध्रकाश्मर्यसारिवाः।
मुस्तामलकद्द्रीबेरपद्मकेसरपद्मकम्॥
अचि1.84
मृणालचन्दनोशीरनीलोत्पलपरूषकम्।
फाण्टो हिमो वा द्राक्षादिर्जातीकुसुमवासितः॥
अचि1.85
युक्तो मधुसितालाजैर्जयत्यनिलपित्तजम्।
ज्वरं मदात्ययं छर्दि मूर्छां दाहं श्रमं भ्रमम्।
ऊर्ध्वगं रक्तपित्तं च पिपासां कामलामपि॥
अचि1.86
कफवाते वचातिक्तापाठारग्वधवत्सकाः॥
अचि1.87
पिप्पलीचूर्णयुक्तो वा क्वाथश्छिन्नोद्भवोद्भवः।
व्याघ्रीशुण्ठ्यमृताक्वाथः पिप्पलीचूर्णसंयुतः॥
अचि1.88
वातश्लेष्मज्वरश्वासकासपीनसशूलजित्।
पथ्या कुस्तुम्बरीमुस्ताशुण्ठीकत्तृणपर्पटम्॥
अचि1.89
सकट्फलवचाभार्ङ्गीदेवाह्वं मधुहिङ्गुमत्।
कफवातज्वरष्ठीवकुक्षिहृत्पार्श्ववेदनाः॥
अचि1.90
कण्ठामयास्यश्वयथुकासश्वासान्नियच्छति॥
अचि1.91
आरग्वधादिः सक्षौद्रः कफपित्तज्वरं जयेत्।
तथा तिक्तावृषोशीरत्रायन्तीत्रिफलामृताः।
पटोलातिविषानिम्बमूर्वाधन्वयवासाकाः॥
अचि1.92
वृषपुष्पच्छदरसः शर्करामाक्षिकान्वितः।
पित्तश्लेष्मज्वरं हन्ति सासृक्पित्तं सकामलम्॥
अचि1.93
अनन्ताविश्वभैषज्यकटुकातोयतोयदाः।
ज्वरतृड्भ्रमसम्मोहधूमकाम्लकनाशनाः॥
अचि1.94
सन्निपातज्वरे व्याघ्नीदेवदारुनिशाद्वयम्।
पटोलपत्रनिम्बत्वक् त्रिफलाकटुकायुतम्॥
अचि1.95
मुस्तापर्पटकं पथ्या मृद्वीका कटुरोहिणी।
त्रायन्तीकणतन्मूलद्राक्षापथ्यामधूलिकाः॥
अचि1.96
त्रिफलोशीरषड्ग्रन्थायष्टीमधुबलाघनाः।
नागरं पौष्करं मूलं गुडूची कण्टकारिका॥
अचि1.97
सकासश्वासपार्श्वार्तौ वातश्लेष्मोत्तरे ज्वरे।
मधूकपुष्पमृद्वीका त्रायमाणा परूषकम्॥
अचि1.98
सोशीरतिक्तात्रिफलाकाश्मर्यं कल्पयेद्धिमम्।
कषायं तं पिबन् काले ज्वरान् सर्वानपोहति॥
अचि1.99
जात्यामलकमुस्तानि तद्वद्धन्वयवासकम्।
बद्धविट् कटुकाद्राक्षात्रायन्तीत्रिफलागुडान्॥
अचि1.100
जीर्णौषधोऽन्नं पेयाद्यमाचरेच्छ्लेष्मवान्न तु।
पेया कफं वर्धयति पङ्कं पांसुषु वृष्टिवत्॥
अचि1.101
श्लेष्माभिष्यण्णदेहानामतः प्रागपि योजयेत्।
यूषान् कुलत्थचणककलायादिकृतान् लघून्।
रूक्षांस्तिक्तरसोपेतान् हृद्यान् रुचिकरान् पटून्॥
अचि1.102
रक्ताद्याः शालयो जीर्णाः षष्टिकाश्च ज्वरे हिताः।
श्लेष्मोत्तरे वीततुषास्तथा वाट्यकृता यवाः॥
अचि1.103
ओदनस्तैः स्रुतो द्विस्त्रिः प्रयोक्तव्यो यथायथम्।
दोषदूष्यादिबलतो ज्वरघ्नक्वाथसाधितः॥
अचि1.104
मुद्गाद्यैर्लघुभिर्यूषाः कुलत्थैश्च ज्वरापहाः।
कारवेल्लककर्कोटबालमूलकपर्पटैः।
वार्ताकनिम्बकुसुमपटोलफलपल्लवैः॥
अचि1.105
अत्यन्तलघुभिर्मांसैर्जाङ्गलैश्च हिता रसाः।
व्याघ्रीपरूषतर्कारीद्राक्षामलकदाडिमैः॥
अचि1.106
संस्कृताः पिप्पलीशुण्ठीधान्यजीरकसैन्धवैः।
सितामधुभ्यां प्रायेण संयुता वा कृताकृताः॥
अचि1.107
अनम्लतक्रसिद्धानि रुच्यानि व्यञ्जनानि च।
अच्छान्यनलसम्पन्नान्यनुपानेऽपि योजयेत्।
तानि क्वथितशीतं च वारि मद्यं च सात्म्यतः॥
अचि1.108
कषायपानपथ्यान्नैर्दशाह इति लङ्घते।
सर्पिर्दद्यात् कफे मन्दे वातपित्तोत्तरे ज्वरे।
पक्वेषु दोषेष्वमृतं तद्विषोपममन्यथा॥
अचि1.109
दशाहे स्यादतीतेऽपि ज्वरोपद्रववृद्धिकृत्।
लङ्घनादिक्रमं तत्र कुर्यादा कफसङ्क्षयात्॥
अचि1.110
सज्वरं ज्वरमुक्तं वा दिनान्ते भोजयेल्लघु।
श्लेष्मक्षयविवृद्धोष्मा बलवाननलस्तदा॥
अचि1.111
यथोचितेऽथवा काले दोषसात्म्यानुरोधतः।
प्रागल्पवह्निर्भुञ्जानो न ह्यजीर्णेन पीड्यते॥
इति प्रथमोऽध्यायः॥
अथ द्वितीयोऽध्यायः।
अचि2.1
अथातो जीर्णज्वरचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
अचि2.2
देहधात्वबलत्वेन ज्वरो जीर्णोऽनुवर्तते॥
अचि2.3
रूक्षं हि तेजो ज्वरकृत्तेजसा रूक्षितस्य च।
वमनस्वेदकालाम्बुकषायलघुभोजनैः॥
अचि2.4
यः स्यादतिबलो धातुः सहचारी सदागतिः।
तस्य संशमनं सर्पिर्दीप्तस्येवाम्बु वेश्मनः॥
अचि2.5
वातपित्तजितामग्न्यं संस्कारमनुरुध्यते।
सुतरां तद्ध्यतो दद्याद्यथास्वौषधसाधितम्॥
अचि2.6
विपरीतं ज्वरोष्माणं जयेत् पित्तं च शैत्यतः।
स्नेहाद्वातं घृतं तुल्यं योगसंस्कारतः कफम्॥
अचि2.7
पूर्वे कषायाः सघृताः सर्वे योज्या यथामलम्।
त्रिफलापिचुमन्दत्वङ्मधुकं बृहतीद्वयम्।
समसूरदलं क्वाथः सघृतो ज्वरकासहा॥
अचि2.8
निदिग्धिकातामलफीत्रायमाणाकलिङ्गकैः।
कृष्णांशुमत्यतिविषाकटुकासेव्यचन्दनैः॥
अचि2.9
धात्रीबिल्वघनद्राक्षासारिवाभिश्च साधितम्।
हन्ति सद्यो घृतं जीर्णज्वरं कासं हलीमकम्।
अरुचिं विषमं वह्निं यक्ष्माणं च नवोत्थितम्॥
अचि2.10
वासागुडूचीत्रिफलात्रायमाणायवासकात्।
क्वाथे क्षीरे च विपचेत् ज्वरघ्नं कल्कितैर्घृतम्।
पिप्पलीमुस्तमृद्वीकाचन्दनोत्पलनागैरः॥
अचि2.11
बलादुरालभामुस्तात्रायतीनिम्बपर्पटम्।
पञ्चमूलद्वयं यच्च क्वाथयित्वा घृतं पचेत्।
सक्षीरं कल्कितैर्द्राक्षामेदामलकपौष्करैः॥
अचि2.12
शठीतामलकीयुक्तैस्तच्च ज्वरहरं परम्।
क्षयकासशिरःपार्श्वहृच्छूलांसाभितापनुत्॥
अचि2.13
कुलत्थकोलत्रिफलादशमूलयवान् पचेत्।
द्विपलान् सलिलद्रोणे पूते पिष्ट्वाक्सकान् क्षिपेत्॥
अचि2.14
पञ्चकोलकसप्ताह्ववयस्थानिम्बतुम्बुरून्।
शठीपुष्करमूलार्कमूलप्रतिविषावचाः॥
अचि2.15
किराततिक्तकं मुस्तं कर्कटाख्यां दुरालभाम्।
नक्तमालमुभे पाठे कटुकाशिग्रुतेजनीः॥
अचि2.16
सोमवल्कद्विरजनीकण्टकीकण्टकारिकाः।
पटोलहिङ्गुगोजिह्वाकेबुकं मदनाज्झटा॥
अचि2.17
लवणानि पलांशानि क्षारानर्धपलोन्मितान्।
प्रस्थं चाज्यस्य तत्सिद्धं दीपनं कफवातजित्॥
अचि2.18
हृत्प्लीहग्रहणीगुल्मकासश्वासार्शसां हितम्।
दीर्घज्वराभिभूतानां ज्वरिणाममृतोपमम्॥
अचि2.19
मञ्जिष्ठातिविषापथ्यावचानागररोहिणीः।
देवदारु हरिद्रां च द्रोणेऽपां पालिकान् पचेत्।
क्वाथेऽस्मिन् साधयेत् पिष्टैर्घृतप्रस्थं पिचून्मितैः॥
अचि2.20
शृङ्गवेरकणाहिङ्गुद्विक्षारपटुपञ्चकैः।
तत्कफावृतसर्वोत्थज्वरिणाममृतोपमम्॥
अचि2.21
वर्ध्महिध्मारुचिश्वासकासपाण्डुविकारिणाम्।
गलग्रह (ग्रन्थि) प्रमेहार्शः प्लीहापस्मारशोफिनाम्।
उदावर्तपरीतानां मन्दाग्निकृमिकोष्ठिनाम्॥
अचि2.22
गुडूच्या रसकल्काभ्यां त्रिफलाया वृषस्य च।
मृद्वीकाया बलायाश्च सिद्धाः स्नेहा ज्वरच्छिदः॥
अचि2.23
जीर्णे घृते च भुञ्जीत मुदुमांसरसौदनम्।
बलं ह्यलं दोषहरं परं तच्च बलप्रदम्॥
अचि2.24
कफपित्तहरा मुद्गकारवेल्लादिजा रसाः।
प्रायेण तस्मान्न हिता जीर्णे वातोत्तरे ज्वरे।
शूलोदावर्तविष्टम्भजनना ज्वरवर्धनाः॥
अचि2.25
न शाम्यत्येवमपि चेज्ज्वरः कुर्वीत शोधनम्।
शोधनार्हस्य वमनं प्रागुक्तं तस्य योजयेत्।
आमाशयगते दोषे बलिनः पालयन् बलम्॥
अचि2.26
सन्तर्पणोत्थे वमनं पिप्पलीलवणाम्बुना।
शर्करामाक्षिकाम्भोभिर्दाहतृष्णोल्बणे ज्वरे॥
अचि2.27
पक्वे तु शिथिले दोषे ज्वरे वा विषमद्यजे।
मोदकं त्रिफलाश्यामात्रिवृत्पिप्पलिकेसरैः॥
अचि2.28
ससितामधुभिर्दद्याद्व्योषाद्यं वा विरेचनम्।
द्राक्षाधात्रीरसं तद्वत्सद्राक्षां वा हरीतकीम्।
रसमामलकानां वा घृतभृष्टं ज्वरापहम्॥
अचि2.29
लिह्याद्वा त्रिवृतश्चूर्णं कृष्णात्रिफलयोस्तथा।
सर्पिर्मधुभ्यां त्रिफलां पिबेद्राक्सारसेन वा॥
अचि2.30
आरग्वधं वा पयसा मृद्वीकानां रसेन वा।
त्रिफलां त्रायमाणां वा पयसा ज्वरितः पिबेत्॥
अचि2.31
सघृतं त्रिफलाक्वाथं सर्पिषा वा विना शृतम्।
पयोऽनुपानमुष्णं वा मृद्वीकास्वरसं पिबेत्।
विरिक्तानां च संसर्गी मण्डपूर्वा यथाक्रमम्॥
अचि2.32
च्यवमानं ज्वरोत्क्लिष्टमुपेक्षेत मलं सदा।
पक्वोऽपि हि विकुर्वीत दोषः कोष्ठे कृतास्पदः॥
अचि2.33
अतिप्रवर्तमानं वा पाचयन् सङ्ग्रहं नयेत्॥
अचि2.34
आमसङ्ग्रहणे दोषा दोषोपक्रम ईरिताः॥
अचि2.35
पाययेद्दोषहरणं मोहादामज्वरे तु यः।
प्रसुप्तं कृष्णसर्पं स कराग्रेण परामृशेत्॥
अचि2.36
ज्वरक्षीणस्य न हितं वमनं न विरेचनम्।
कामं तु पयसा तस्य निरूहैर्वा हरेन्मलान्॥
अचि2.37
क्षीरोचितस्य प्रक्षीणश्लेष्मणो दाहतृङ्वतः।
क्षीरं पित्तानिलार्तस्य पथ्यमप्यतिसारिणः॥
अचि2.38
तद्वपुर्लंघनोत्तप्तं प्लुष्टं वनमिवाग्निना।
दिव्याम्बु जीवयेत्तस्य ज्वरं चाशु नियच्छति॥
अचि2.39
संस्कृतं शीतमुष्णं वा तस्माद्धारोष्णमेव वा।
विभज्य काले युञ्जीत ज्वरिणं हन्त्यतोऽन्यथा॥
अचि2.40
पयः सशुण्ठीखर्जूरमृद्वीकाशर्कराघृतम्।
शृतशीतं मधुयुतं तृड्दाहज्वरनाशनम्॥
अचि2.41
तद्वद्द्राक्षाबलायष्टीसारिबाकणचन्दनैः।
चतुर्गुणेनाम्भसा वा पिप्पल्या वा शृतं पिबेत्॥
अचि2.42
कासाच्छ्वासाच्छिरश्शूलान् पार्श्वशूलाच्चिरज्वरात्।
मुच्यते ज्वरितः पीत्वा पञ्चमूलीशृतं पयः॥
अचि2.43
शृतमरेण्डमूलेन बालविल्वेन वा ज्वरात्।
धारोष्णं वा पयः पीत्वा विबद्धानिलवर्चसः।
सरक्तपिच्छातिसृतेः सतृट्शूलप्रवाहिकात्॥
अचि2.44
सिद्धं शुण्ठीबलाव्याघ्नीगोकण्टकगुडैः पयः।
शोफमूत्रशकृद्वातविबन्धज्वरकासजित्॥
अचि2.45
वृश्चीवबिल्ववर्षाभूसाधितं ज्वरशोफनुत्।
शिंशिपासारसिद्धं च क्षीरमाशु ज्वरापहम्॥
अचि2.46
निरूहस्तु बलं वह्निं विज्वरत्वं मुदं रुचिम्।
दोषे युक्तः करोत्याशु पक्वे पक्वाशयं गते॥
अचि2.47
पित्तं वा कफपित्तं वा पक्वाशयगतं हरेत्।
स्रंसनं त्रीनपि मलान् बस्तिः पक्वाशयाश्रयान्॥
अचि2.48
प्रक्षीणकफपित्तस्य त्रिकपृष्ठकटीग्रहे।
दीप्ताग्नेर्बद्धशकृतः प्रयुञ्जीतानुवासनम्॥
अचि2.49
पटोलनिम्बच्छदनकटुकाचतुरङ्गुलैः।
स्थिराबलागोक्षुरकमदनोशीरवालकैः॥
अचि2.50
पयस्यर्धोदके क्वाथं क्षीरशेषं विमिश्रितम्।
कल्कितैर्मुस्तमदनकृष्णामधुकवत्सकैः।
बस्तिं मधुघृताभ्यां च पीडयेज्ज्वरनाशनम्॥
अचि2.51
चतस्रः पर्णिनीर्यष्टीफलोशीरनृपद्रुमान्।
क्वाथयेत् कल्कयेद्यष्टीशताह्वाफलिनीफलम्।
मुस्तं च बस्तिः सगुडक्षौद्रसर्पिर्ज्वरापहः॥
अचि2.52
त्रायमाणामृतायष्टीमदनांशुमतीद्वयैः।
सबलाचन्दनवृषैर्जाङ्गलैश्च मृगद्विजैः॥
अचि2.53
क्वाथे कृते क्षिपेत् पिष्ट्वा फलयष्टीकणाघनम्।
स सद्यो ज्वरहा बस्तिः साज्यक्षौद्रोऽल्पसैन्धवः॥
अचि2.54
आम्रादीनां त्वचं शङ्खं चन्दनं मधुकोत्पलम्।
स्वर्णगौरिकमाञ्जिष्ठामृणालाञ्जनपद्मकम्॥
अचि2.55
क्षीरेण कल्कितं बस्तिं शीतं समधुशर्करम्।
दाहज्वरहरं दद्यात्सिद्धं तैश्चानुवासनम्॥
अचि2.56
जीवन्तीं मदनं मेदां पिप्पलीं मधुकं वचाम्।
ऋद्धिं रास्नां बिल्वं शतपुष्पां शतावरीम्॥
अचि2.57
पिष्ट्वा क्षीरं जलं सर्पिस्तैलं चैकत्र साधितम्।
ज्वरेऽनुवासनं कुर्यात्तथा स्नेहं यथामलम्॥
अचि2.58
चन्दनागरुकाश्मर्यपटोलमदनोत्पलैः।
पटोलारिष्टमदनगुडूचीमधुकैरपि।
ये च सिद्धिषु वक्ष्यन्ते बस्तयो ज्वरनाशनाः॥
अचि2.59
शिरोरुग्गौरवश्लेष्महरमिन्द्रियबोधनम्।
जीर्णज्वरे रुचिकरं दद्यान्नस्यं विरेचनम्।
स्नैहिकं शून्यशिरसो दाहार्ते पित्तनाशनम्॥
अचि2.60
धूमगण्डूषकवलान् यथादोषं च कल्पयेत्।
प्रतिश्यायास्यवैरस्यशिरः कण्ठामयापहान्॥
अचि2.61
अरुचौ मातुलुङ्गस्य केसरं साज्यसैन्धवम्।
धात्रीद्राक्षासितानां वा कल्कमास्येन धारयेत्॥
अचि2.62
यथोपशयसंस्पर्शान् शीतोष्णद्रव्यकल्पितान्।
अभ्यङ्गालेपसेकादीन् ज्वरे जीर्णे त्वगाश्रिते।
कुर्यादञ्जनधूपांश्च तथैवागन्तुजेऽपि तान्॥
अचि2.63
दाहे सहस्रधौतेन सर्पिषाभ्यङ्गमाचरेत्॥
अचि2.64
सूत्रोक्तैश्च गणैस्तैस्तैर्मधुराम्लकषायकैः।
दूर्वादिभिर्वा पित्तघ्नैः शोधनादिगणोदितैः॥
अचि2.65
शीतवीर्यैर्हिमस्पर्शैः क्वाथकल्कीकृतैः पचेत्।
तैलं सक्षीरमभ्यङ्गात्सद्यो दाहज्वरापहम्॥
अचि2.66
चन्दनं मधुकं काला द्राक्षा मधुरसा निशा।
तत्सिद्धं पूर्ववत्तैलं दाहज्वरहरं परम्॥
अचि2.67
शिरो गात्रं च तैरेव नातिपिष्टैः प्रलेपयेत्।
तत्क्वाथेन परीषेकमवगाहं च योजयेत्।
तथारनालसलिलक्षीरशुक्तघृतादिभिः॥
अचि2.68
कपित्थमातुलुङ्गाम्लविदारीलोध्रदाडिमैः।
बदरीपल्लवोत्थेन फेनेनारिष्टकस्य वा॥
अचि2.69
कर्पूरपद्मकोशीरकालीयाम्बुकुचन्दनैः।
तुङ्गप्रियङ्गुशैवालकमलोत्पलकर्दमैः॥
अचि2.70
वेत्राग्रलोध्रपुण्ड्राह्वैरारनालेन कल्कितैः।
लेपा व्यस्तैः समस्तैर्वा दाहघ्ना वर्णकारिणः॥
अचि2.71
धात्रीत्वक्पत्रनलदशङ्खव्याघ्रनखोत्पलैः।
चन्दनाञ्जनमुस्तैश्च सवृक्षाम्लाम्लवेतसैः॥
अचि2.72
सजीवकैः समधुकैः सपलाशैः सदाडिमैः।
बीजपूररसक्षौद्रशुक्तयुक्तैः प्रलेपितैः॥
अचि2.73
शिरस्यङ्गे च तृट्छर्दिदाहमोहशिरोरुजः।
नश्यन्ति गण्डाः पिटकाः प्रलापश्च ज्वरार्तिजः॥
अचि2.74
गौरामलककल्कश्च साम्लः साज्यश्च तद्गुणः।
मधूकमधुकोदीच्यनीलोत्पलमधूलिकाः॥
अचि2.75
जयन्ति मधुसर्पिर्भ्यां लीढा दाहज्वरभ्रमान्।
कासासृक्पित्तवीसर्पश्वासहिध्मावमीरपि॥
अचि2.76
वाम्यं च वामयेदाशु शीतेन मधुवारिणा।
यो वर्णितः पित्तहरो दोषोपक्रमणे क्रमः।
तं च शीलयतः शीघ्रं सदाहो नश्यति ज्वरः॥
अचि2.77
वल्लकीमधुरं गीतं चन्द्रिका हर्म्यमस्तकम्।
हरन्ति दाहं हाराश्च हरिचन्दनशीतलाः॥
अचि2.78
दाहं मन्दानिलोद्धूताः कुल्याः सलिलमालिनः।
चलत्प्रवालाङ्गुलिभिस्तर्जयन्ति महाद्रुमाः॥
अचि2.79
वाचः शिशूनामव्यक्ता योषितो मदनातुराः।
दाहं निर्भत्सयन्त्याशु सज्जनानां च सूनृताः॥
अचि2.80
रुचिभेदानुरोधेन नानाशक्तिसमन्वितः।
दाहशीतज्वरहरः कान्ताकान्ताङ्गसङ्गमः।
दाहशीतव्युपशमे तास्ततोऽपनयेत् पुनः॥
अचि2.81
वीर्योष्णैरुष्णसंस्पर्शैस्तगरागरुकुङ्कुमैः।
कुष्ठस्थौणेयशैलेयसरलामरदारुभिः॥
अचि2.82
नखरास्नापुरवचाचण्डलौद्वयचोरकैः।
पृथ्वीकाशिग्रुसुरसहिंस्राध्यामकसर्षपैः॥
अचि2.83
दशमूलमृतैरण्डद्वयपत्तूररोहिषैः।
तमालपत्रपूतीकसल्लकीधान्यदीप्यकैः॥
अचि2.84
मिसिमाषकुलत्थाग्निप्रकीर्यानाकुलीद्वयैः।
अन्यैश्च तद्विधैर्द्रव्यैः शीते तैलं ज्वरे पचेत्॥
अचि2.85
क्वथितैः कल्फितैर्युक्तैः सुरासौवीरकादिभिः।
तेनाभ्यज्यात् सुखोष्णेन तैः सुपिष्टैश्च लेपयेत्॥
अचि2.86
कवोष्णैस्तैः परीषेकमवगाहं च योजयेत्।
केवलैरपि तद्वच्च शुक्तगोमूत्रमस्तुभिः॥
अचि2.87
कुङ्कुमागरुकस्तूरीनखैलासुरदारुभिः।
शैलेयचण्डात्वङ्मुस्तरास्नाकपिवचामयैः॥
अचि2.88
पृथक् प्रदेहाः सर्वैर्वा शीतघ्ना दृढकल्किताः।
यवचूर्णं घृताभ्यक्तं पचेत् क्षीरे चतुर्गुणे॥
अचि2.89
दर्वीप्रलेपनं लेपं ज्वरार्तस्य प्रयोजयेत्।
आरग्वधादिवर्गं च पानाभ्यञ्जनलेपने॥
अचि2.90
धूपानगरुजान्ये च वक्ष्यन्ते विषमज्वरे।
अग्न्यनग्निकृतान् स्वेदान् स्वेदि भेषजभोजनम्॥
अचि2.91
संसर्गबलयोगे च वातश्लेष्मनिबर्हणम्।
गर्भभूवेश्मशयनं कुथकम्बलरल्लकान्॥
अचि2.92
निर्धूमदीप्तैरङ्गारैर्हसन्तीश्च हसन्तिकाः।
मद्यं सत्र्यूषणं तक्रं कुलत्थव्रीहिकोद्रवान्॥
अचि2.93
संशीलयेद्वेपथुमान् यच्चान्यदपि पित्तलम्।
अजाज्याः सगुडं कल्कं सगुडं वामृतारसम्॥
अचि2.94
रसं वार्ताकफलजं पिबेद्वा मधुसंयुतम्।
मधुकागरुकौन्तीनां कल्को व्याघ्रनखस्य च॥
अचि2.95
मद्येन पीतः सक्षौद्रस्तीव्रशीतज्वरापहः।
दयिताः स्तनशालिन्यः पीना विभ्रमभूषणाः॥
अचि2.96
यौवनासवमत्ताश्च तमालिङ्गेयुरङ्गनाः।
वीतशीतं च विज्ञाय तास्ततोऽपनयेत् पुनः॥
अचि2.97
आनाहे कालवित् कुर्यात् क्रियामलसकोदिताम्।
पिप्पलीपिप्पलीमूलयवानीचित्रसाधिताम्॥
अचि2.98
यवागूं पाययेच्चैनमनिलस्यानुलोमनीम्।
सोपद्रवोऽपि चेदेवं ज्वरः शीतो न शाम्यति॥
अचि2.99
अत्युदीर्णेऽनिलकफे स्वस्थाने पित्तधाम्नि वा।
तक्रानुपानं त्रपुसं भक्षयित्वानलं भजेत्॥
अचि2.100
आ स्स्वेदसम्भवात्तिष्ठेत् प्रावृतस्तद्वदातपे।
ततो विमृदितस्नातो युक्ताशी स्याद्गते ज्वरो॥
अचि2.101
शमं तौ पित्तवृध्यैव प्रपद्येते स्वधाम च।
निवर्तते ततः शीघ्रं वातश्लेष्मोद्भवो ज्वरः॥
अचि2.102
स्वर्ज्जिकाकुष्ठमञ्जिष्ठालाक्षामूर्वानिशौषधैः।
सतक्रं साधितं तैलमभ्यङ्गाद्दाहशीतजित्॥
अचि2.103
वमनैश्च विरेकैश्च बस्तिभिश्च यथाक्रमम्।
ज्वरानुपचरेद्धीमान् कफपित्तानिलोद्भवान्॥
अचि2.104
संसृष्टैः सन्निपतितैरेकानेकोल्बणैः समैः।
ज्वरान् दोषक्रमापेक्षी यथोक्तैरौषधैर्जयेत्॥
अचि2.105
वर्धनेनैकदोसस्य क्षपणेनोच्छ्रितस्य वा।
कफस्थानानुपूर्व्या वा सन्निपातज्वरं जयेत्॥
अचि2.106
निद्रानिवारणोपायः सन्यासाभिहितो हितः।
सन्निपाते विशेषेण दारुणोऽयमुपद्रवः॥
अचि2.107
सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः।
शोफः सञ्जायते तेन कश्चिदेव विमुच्यते॥
अचि2.108
रक्तावसेचनैः शीघ्रं सर्पिष्पानैश्च तं जयेत्।
प्रदेहैः कफपित्तघ्नैर्नावनैः कवलग्रहैः॥
अचि2.109
शीतोष्णस्निग्धरूक्षाद्यैर्ज्वरो यस्य न शाम्यति।
शाखानुसारी तस्याशु मुञ्चेद्बाह्वाःक्रमात्सिराम्॥
अचि2.110
अयमेव विधिः कार्यो विषमेऽपि यथायथम्।
ज्वरे विभज्य वातादीन्यश्चानन्तरमुच्यते॥
अचि2.111
पटोलकटुकामुस्ताप्राणदामधुकैः कृताः।
त्रिचतुष्पञ्चशः क्वाथा विषमज्वरनाशनाः॥
अचि2.112
योजयेत्त्रिफलां पथ्या गुडूचीं पिप्पलीं पृथक्।
तैस्तैर्विधानैः सगुडं भल्लातकमथापि वा॥
अचि2.113
लङ्घनं बृंहणं वापि ज्वरागमनवासरे।
प्रातः सतैलं लशुनं प्राग्भक्तं वा तथा घृतम्॥
अचि2.114
जीर्णं तद्वद्दधि पयस्तक्रं सर्पिश्च षट्पलम्।
कल्याणकं पञ्चगव्यं तिक्ताख्यं वृषसाधितम्॥
अचि2.115
पञ्चगव्यस्य महतो विधिना पञ्चमाहिषम्।
पञ्चाजं चतुरौष्ट्रं च सिद्धं सिद्धं घृतं तथा॥
अचि2.116
कटुरोहिणिमञ्जिष्ठावृषग्रन्थिकचित्रकैः।
पाठास्वगुप्ताद्विनिशैः पञ्चगव्यस्य पञ्चसु॥
अचि2.117
प्रस्थेषु संयुतैः सेव्यं विषमज्वरजित् परम्।
वाक्स्वरस्मृतिमेधाग्निबलारोग्यवृषत्वकृत्॥
अचि2.118
कोलाग्निमन्थत्रिफलाक्वाथे दध्ना घृतं पचेत्।
तिल्वकावापमेतच्च विषमज्वरनाशनम्॥
अचि2.119
शृतक्षीरघृतक्षौद्रसिताकृष्णाः स्वजाहताः।
विषमज्वरहृद्रोगक्षतकासक्षयापहाः॥
अचि2.120
सुरां तीक्ष्णं च यन्मद्यंअ शिखितित्तिरिदक्षजम्।
मांसं मेध्योष्णवीर्यं च सहान्नेन प्रकामतः॥
अचि2.121
सेवित्वा तदहः स्वप्यादथवा पुनरुल्लिखेत्।
सर्पिषो महतीं मात्रां पीत्वा वा छर्दयेत् पुनः॥
अचि2.122
नीलिनीमजगन्धां च त्रिवृतां कटुरोहिणीम्।
पिबेज्ज्वरस्यागमने स्नेहस्वेदोपपादितः॥
अचि2.123
आस्थापनं वा तदहर्दद्यात्स्विन्नस्य यापनम्।
पयसा वृपदंशस्य शकृद्वा तदहः पिबेत्॥
अचि2.124
मस्तुना वा वृषशकृत् सुरया वाथ सैन्धवम्।
मनोह्वा सैन्धवं कृष्णा तैलेन नयनाञ्जनम्॥
अचि2.125
योज्या हिङ्गुसमा व्याघ्रीवसा नस्ये ससैन्धवा।
पुराणसर्पिः संहस्य वसा तद्वत् ससैन्धवा॥
अचि2.126
पलङ्कषा निम्बपत्रं वचा कुष्ठं हरीतकी।
सर्षपाः सयवाः सर्पिर्धूपो विड्वा बिडालजा॥
अचि2.127
पुरध्यामवचासर्जनिम्बार्कागरुदारुभिः।
धूपो ज्वरेषु सर्वेषु कार्योऽयमपराजितः॥
अचि2.128
सहदेवावचाभद्रानाकुलीभिःप्रयोजयेत्।
धूपनोद्वर्तनालेपान् सर्वज्वरनिबर्हणान्॥
अचि2.129
धूमनस्याञ्जनोत्तासा ये चोक्ताश्चित्तवैकृते।
दवाश्रयं च भैषज्यं ज्वरान् सर्वानपोहति।
विशेषाद्विषमान् प्रायस्ते ह्यागन्त्वनुबन्धजाः॥
अचि2.130
यथास्वं च सिरां विध्येदशान्तौ विषमज्वरे॥
अचि2.131
रससंस्थे तु सर्वस्मिन् कुर्याद्वमनलङ्घने।
सेकसंशमनालेपरक्तमोक्षानसृक्स्थिते॥
अचि2.132
तीक्ष्णान् विरेकान् मांसस्थे मेदोघ्नं मेदसि स्थिते।
अस्थिस्थे वातशमनमभ्यङ्गस्वेदमर्दनम्।
ज्वरे वातार्तिशमनं विशेषाद्बस्तिकर्म च॥
अचि2.133
केवलानिलवीसर्पविस्फोटाभिहतज्वरे।
सर्पिष्पानहिमालेपसेकमांसरसाशनम्॥
अचि2.134
कुर्याद्यथास्वमुक्तं च रक्तमोक्षादिसाधनम्।
ग्रहोत्थे भूतविद्योक्तं मणिमन्त्रादिसाधनम्।
औषधीगन्धजे पित्तशमनं विषजिद्रिषे॥
अचि2.135
इष्टैरर्थैर्मनोज्ञैश्च यथादोसशमेन च।
हिताहितविवेकैश्च ज्वरं क्रोधादिजं जयेत्॥
अचि2.136
क्रोधजो याति कामेन शान्तिं क्रोधेन कामजः।
भयशोकोद्भवौ ताभ्यां भीशोकाभ्यां तथेतरौ।
शापाथर्वणमन्त्रोत्थे विधिर्दैवव्यपाश्रयः॥
अचि2.137
ते ज्वराः केवलाःपूर्व व्याप्यन्तेऽनन्तरं मलैः।
तस्माद्दोषानुसारेण तेष्वाहारादि कल्पयेत्।
न हि ज्वरोऽनुबध्नाति मारुताद्यैर्विनाकृतः॥
अचि2.138
कथास्त्रिवर्गसंयुक्ता रुङ्निद्रादिविनोदिनीः।
शस्ता विचित्राः शृणुयान्न प्रेतव्याधिताश्रयाः॥
अचि2.139
ज्वरकालस्मृतिं चास्य हारिभिर्विषयैर्हरेत्।
त्यजेदाबललाभाच्च व्यायामस्नानमैथुनम्॥
अचि2.140
गुर्वसात्म्यं विदाह्यन्नं यच्चान्यज्ज्वरकारणम्।
न विज्वरोऽपि सहसा सर्वान्नीनो भवेत् तथा॥
अचि2.141
सद्यः प्राणहरो यस्मात्तस्मात्तस्य विशेषतः।
तस्यां तस्यामवस्थायां कुर्यात्तत्तधिषग्जितम्॥
अचि2.142
मनोभिरामा विषया वचनं ह्लादि दक्षिणम्।
करुणार्द्रं मनः शुद्धं सर्वज्वरनिषूदनम्॥
अचि2.143
मातरं पितरं देवान् वैद्यान् विप्रान् हरं हरिम्।
पूजयेच्छीलयेद्दानदमसत्यदयार्जवान्।
धारयेच्च सदा मन्त्रमणिरत्नमहौषधीः॥
अचि2.144
आर्यावलोकितं पर्णशबरीमपराजिताम्।
प्रणमेदार्यतारां च सर्वज्वरनिवृत्तये॥
अचि2.145
जपंस्तथा गतोष्णीषं सर्वव्याधिचिकित्सितम्।
आगन्तुदोषसहजैः सर्वरोगैर्विमुच्यते॥
इति द्वितीयोऽध्यायः॥
अथ तृतीयोऽध्यायः।
अचि3.1
अथातो रक्तपित्तचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
अचि3.2
ऊर्ध्वगं बलिनोऽवेगमेकदोषानुगं नवम्।
रक्तपित्तं सुखे काले साधयेन्निरुपद्रवम्॥
अचि3.3
अधोगं यापयेद्रक्तं यच्च दोषद्वयानुगम्।
शान्तं शान्तं पुनः कुप्यन्मार्गान्मार्गान्तरञ्च यत्॥
अचि3.4
अतिप्रवृत्तं मन्दाग्नोस्त्रिदोषं द्विपथं त्यजेत्।
ज्ञात्वा निदानमयनं मलावनुबलौ बलम्॥
अचि3.5
देशकालाद्यवस्थां च रक्तपित्ते प्रयोजयेत्।
लङ्घनं बृंहणं चादौ शोधनं शमनं तथा॥
अचि3.6
सन्तर्पणोत्थं बलिनो बहुदोषस्य साधयेत्।
ऊर्ध्वभागं विरेकेण वमनेन त्वधोगतम्।
शमनैर्बृंहणैश्चान्यल्लङ्घ्यबृंह्यानवेक्ष्य च॥
अचि3.7
ऊर्ध्वं प्रवृत्ते शमनौ रसौ तिक्तकषायकौ।
उपवासश्च निःशुण्ठीषडङ्गोदकपायिनः॥
अचि3.8
अधोगे रक्तपित्ते तु बृंहणो मधुरो रसः।
ऊर्ध्वगे तर्पणं योज्यं पेया पूर्वमधोगते॥
अचि3.9
अश्नतो बलिनोऽशुद्धं न धार्यं तद्धि रोगकृत्।
धारयेदन्यथा शीघ्रमग्निवच्छीघ्रकारि तत्॥
अचि3.10
त्रिवृतात्रिफलाधात्रीत्रायन्त्यारग्वधाभयाः।
गवाक्षीक्षुरसक्षीरद्राक्षाक्षौद्रसितोत्कटाः।
यथास्वं कल्पविहिता विरेकार्थं प्रयोजयेत्॥
अचि3.11
त्रिवृच्छ्यामाकषायेण कल्केन च सशर्करम्।
साधयेद्विधिवल्लेहं लिह्यात् पाणितलं ततः॥
अचि3.12
त्रिफला त्रिवृता श्यामा पिप्पली शर्करा मधु।
मोदकः सन्निपातोर्ध्वरक्तपित्तज्वरापहः॥
अचि3.13
त्रिवृत्समसिता तद्वत् पिप्पलीपादसंयुता।
वमनं फलसंयुक्तं तर्पणं ससितामधु॥
अचि3.14
ससितं वा जलं क्षौद्रयुक्तं वा मधुकोदकम्।
फलेन्द्रयवगाङ्गेयीमधुकं वा समाक्षिकम्॥
अचि3.15
क्षीरं वा रसमिक्षोर्वा शुद्धस्यानन्तरो विधिः।
यथास्वं मन्थपेयादिः प्रयोज्यो रक्षता बलम्॥
अचि3.16
मन्थो ज्वरोक्तो द्राक्षादिः पित्तघ्नैर्वा फलः कृतः।
मधुखर्जूरमृद्वीकापरूषकसिताम्भसा॥
अचि3.17
मन्थो वा पञ्चसारेण सघृतैर्लाजसक्तुभिः।
दाडिमामलकाम्लो वा मन्दाग्न्यम्लाभिलाषिणः॥
अचि3.18
कमलोत्पलकिञ्जल्कपृश्निपर्णीप्रियङ्गुकाः।
उशीरं शाबरं लोध्रं शृङ्गवेरं कुचन्दनम्॥
अचि3.19
ह्रीबेरं धातकीपुस्पं बिल्वमध्यं दुरालभा।
अर्धार्धैर्विहिताः पेया वक्ष्यन्ते पादयौगिकाः॥
अचि3.20
भूनिम्बसेव्यजलदाश्चन्दनाम्बुप्रियङ्गवः।
शालिपर्ण्या युता मुद्गाः पृश्निपर्ण्या मसूरकाः॥
अचि3.21
तुवर्यो वातिबलया बलया वा हरेणवः।
तत्कषाये हिताः पेया मांसपेयास्तथा रसाः॥
अचि3.22
अनम्लाः किञ्चिदम्ला वा सघृतक्षौद्रशर्कराः।
शूकशिम्बीभवं धान्यं शाकं मांसं च शस्यते॥
अचि3.23
अन्नस्वरूपविज्ञाने यदुक्तं लघु शीतलम्।
पूर्वोक्तमम्बु पानीयं पञ्चमूलेन वा शृतम्॥
अचि3.24
लघुना शृतशीतं वा मध्वम्भो वा फलाम्बु वा।
पद्मकाद्यञ्जनादिं च सारिवादिं च कल्पयेत्॥
अचि3.25
अन्नपाने गणं तद्वद्दशकं दाहनाशनम्।
कफानुगे यूषशाकं मारुतानुगते रसः॥
अचि3.26
अभीरोरङ्कुरैर्लावाः सहमुद्गाः पटोलजैः।
मकुष्ठाधन्वयासोत्थैरस्रपित्ते परं मताः॥
अचि3.27
शशः सवास्तुकः शस्तो विबन्धे तित्तिरिः पुनः।
उदुम्बरस्य निर्यूहे साधितो मारुतेऽधिके॥
अचि3.28
प्लक्षस्य बर्हिणस्तद्वन्न्यग्रोधस्य च कुक्कुटः।
बिसोत्पलमृणालानां वर्तकक्रकरौ हितौ॥
अचि3.29
वर्तिकाम्भोजनालानामश्वत्थस्य कपिञ्जलः।
यत्किञ्चिद्रक्तपित्तस्य निदानं तच्च वर्जयेत्॥
अचि3.30
वासारसेन फलिनीमृल्लोध्राञ्जनमाक्षिकम्।
पित्तासृक् शमयेत् पीतं निर्यासो वाटरूषकात्॥
अचि3.31
शर्करामधुसंयुक्तः केवलो वा शृतोऽपि वा।
वृषः सद्यो जयत्यस्रं स ह्यस्य परमौषधम्॥
अचि3.32
वासारसेन भूनिम्बकटुकाशर्कराः पिबेत्।
तेनैव वा क्षौद्रयुतं पद्मकेसरपद्मकम्॥
अचि3.33
सलोध्रनागकुसुमशाड्वलोत्पलवास्तुकम्।
लिह्याद्वा मधुसर्पिर्भ्यां गवाश्वशकृतो रसम्॥
अचि3.34
पथ्यारजन्यहिंस्रा वा पलाण्डुं तद्वदेव वा।
फलिनीलोध्रखदिरशाल्मकोविदारजम्॥
अचि3.35
शिरीषशेलुककुभीसिन्दुवारातिमुक्तजम्।
पलाशयूथिकाशिग्रुमधूकासनजन्म च॥
अचि3.36
मधुना चूर्णितं पुष्पमेकत्र पृथगेव वा।
पुष्पैरेभिर्विपक्वं च सक्षौद्रं माहिषं घृतम्॥
अचि3.37
लिह्यात् क्षौद्रेण पथ्यां वा किञ्जल्कं कमलस्य वा।
लाजाः शृङ्गाटकं मुस्तं खर्जूरं कृष्णमृत्तिकाम्॥
अचि3.38
क्षीरिवृक्षाङ्कुरान् द्राक्षां तवक्षीरीं सितोपलाम्।
गैरिकं मधुकं लोध्रं शङ्खं शम्बूकमञ्जनम्॥
अचि3.39
तण्डूलीयकमूलं वा बीजं वा वास्तुकोद्भवम्।
पटोलमालतीनिम्बचन्दनद्वयपद्मकम्॥
अचि3.40
लोध्रो वृषस्तण्डुलीयः कृष्णा मृन्मदयन्तिका।
शतावरी गोपकन्याकाकोल्यौ मधुयष्टिका॥
अचि3.41
रक्तपित्तहराः क्वाथास्त्रयः समधुशर्कराः।
सक्षौद्रं ग्रथिते रक्ते लिह्यात् पारावताच्छकृत्॥
अचि3.42
अतिनिस्रुतरक्तो वा क्षौद्रेण रुधिरं पिबेत्।
जाङ्गलं भक्षयेद्वाजं मासं पित्तयुतं यकृत्॥
अचि3.43
लोध्रकालीयकोशीरफलिनीशङ्खगैरिकम्।
पटोलपत्रं दुस्पर्शा समङ्गा सारिवालता॥
अचि3.44
त्वग्जम्बुवेतसाश्वत्थहयाह्वोदुम्बरार्जुनात्।
किराततिक्तक्रमुकमुस्तकट्फलपद्मकम्॥
अचि3.45
प्रपौण्डरीकद्द्रीबेरकमलोत्पलपर्पटम्।
चन्दनेन पृथग्युक्तं समस्तं वा सशर्करम्॥
अचि3.46
फाण्टीकृतं शृतं शीतं चूर्णं वा तण्डुलाम्भसा।
पीतमाशु जयत्यस्रं तृड्दाहतमकानपि॥
अचि3.47
चन्दनोशीरजलदलाजमुद्गकणायवैः।
बलाजले पर्युषितैः कषायो रक्तपित्तहा॥
अचि3.48
प्रसादश्चन्दनाम्भोजसेव्यमृद्भृष्टलोष्टजः।
सुशीतः ससिताक्षौद्रः शोणितातिप्रवृत्तिजित्॥
अचि3.49
तद्वदच्छः सितालोध्रमधुकोशीरचन्दनात्।
मृच्छ्यामासारिवामुस्ताधातकीयष्टिकान्वितात्॥
अचि3.50
वैडूर्यमुक्तामृच्छङ्खगैरिकामलकोदकम्।
मधूदकं रसं चेक्षोः पिबेन् जयति शोणितम्॥
अचि3.51
आपोथ्य वा नवे कुम्भे प्लावयेदिक्षुगण्डिकाः।
स्थितं तत् गुप्तमाकाशे रात्रिं प्रातः स्रुतं जलम्॥
अचि3.52
मधुमद्विकचाम्भोजकृतोत्तंसं च तद्गुणम्।
त्रपुसीमूलकल्कं वा सक्षौद्रं तण्डुलाम्बुना॥
अचि3.53
पिबेत् करञ्जबीजं वा तेनक्षौद्रसितायुतम्।
लोध्रचन्दनयष्ट्याह्वं तेन यष्ट्याह्वमेव वा॥
अचि3.54
नीलोत्पलं सिता यष्टी मधुकं पद्मकेसरम्।
छिन्नोद्भवा च शीतोऽयं कषायो रक्तपित्तजित्॥
अचि3.55
ये च पित्तज्वरे प्रोक्ताः कषायास्तांश्च योजयेत्।
कषायैर्विविधैरेभिर्दोप्तेऽग्नौ विजिते कफे॥
अचि3.56
रक्तपित्तं न चेच्छाम्येत्तत्र वातोल्बणे पयः।
युञ्ज्याज्छागं शृतं तद्वत् गव्यं पञ्चगुणेऽम्भसि॥
अचि3.57
पञ्चमूलेन लघुना शृतं वा ससितामधु।
जीवकर्षभकद्राक्षाबलागोक्षुरनागरैः॥
अचि3.58
पृथक् पृथक् शृतं शीतं सघृतं सितयाथवा।
क्षीरेण वमनीपुष्पं मधुकं मधुशर्कराम्॥
अचि3.59
गोकण्टकाभीरुशृतं पर्णिनीभिस्तथा पयः।
हन्त्याशु रक्तं सरुजं विशेषान्मूत्रमार्गगम्॥
अस3.60। विण्मार्गगे विशेषेण हितं मोचरसेन तु।
वटप्ररोहैः शुङ्गैर्वा शुण्ठ्युदीच्योत्पलैरपि॥
अचि3.61
रक्तातिसारदुर्नामचिकित्सां चात्र कल्पयेत्।
पीत्वा कषायान् पयसा भुञ्जीत पयसैव तु।
कषाययोगैरेभिर्वा विपक्वं पाययेत् घृतम्॥
अचि3.62
समूलमस्तकं क्षुण्णं वृषमष्टगुणेऽम्भसि।
पक्त्वाष्टांशावशेषेण घृतं तेन विपाचयेत्॥
अचि3.63
तत्पुष्पगर्भं तच्छीतं सक्षौद्रं पित्तशोणितम्।
पित्तगुल्मज्वरश्वासकासहृद्रोगकामलाः॥
अचि3.64
तिमिरभ्रमवीसर्पस्वरसादांश्च नाशयेत्।
पलाशवृन्तस्वरसे तद्गर्भं च घृतं पचेत्॥
अचि3.65
सक्षौद्रं तच्च रक्तघ्नं तद्वद्वत्सकसाधितम्।
लोध्रोत्पलसमङ्गाभिस्तथैव त्रायमाणया॥
अचि3.66
लाजगोधूममधुकसिताचूर्णं पयोद्रवम्।
घृतेनोत्करिकां कृत्वा खादेत् पित्तास्रवारिणीम्॥
अचि3.67
रक्ते सपिच्छे सकफे ग्राथिते कण्ठमार्गगे।
लिह्यान्माक्षिकसर्पिर्भ्यां क्षारमुत्पलनालजम्॥
अचि3.68
मृणालाम्भोजकिञ्जम्ल्कश्यामासनमधूकजम्।
तद्वत् पृथक् पृथक् क्षारं घृतं क्षीरेण साधयेत्॥
अचि3.69
पिष्टैरभीरुकाकोलीमेदावृक्षाम्लदाडिमैः।
फलपूरकमूलेन विदार्या मधुकेन च॥
अचि3.70
तद्विबन्धज्वरानाहशूलकासास्रपित्तजित्।
पञ्चभिः पञ्चमूलैश्च सिद्धमाद्यैस्तदर्थकृत्॥
अचि3.71
गुदागमे विशेषेण शोणिते बस्तिरिष्यते।
मधुकाञ्जनमाञ्जिष्ठामृणालोत्पलगैरिकैः॥
अचि3.72
सुवर्णलोध्रकालीयसमङ्गाम्बुजचन्दनैः।
सौगन्धिकसिताशङ्खैः पिष्टैर्मधुघृतान्वितैः॥
अचि3.73
क्षीरेणास्थापयेदेनं स्नातं च शिशिराम्भसा।
क्षीरेणैवाशयेच्छालीस्ततो मधुकसर्पिषा॥
अचि3.74
कालेऽनुवासयेदेवमतिसारेऽपि दुस्तरे।
जीर्णेऽसृक्प्रबले कुर्याद्विरेके चातियोगिनि॥
अचि3.75
विदार्यादिगणेनेष्टं शृतं वास्थापने पयः।
सक्षौद्रशर्करासर्पिः सर्पिश्चैवानुवासने॥
अचि3.76
मूत्राशयस्थं शमयेद्रक्तमुत्तरबस्तिभिः।
ईदृशैरेव तद्वच्च प्रदरेऽपि विधिः स्मृतः॥
अचि3.77
छेदभेदादिभिश्चातिप्रवृत्ते शुद्धशोणिते।
विशेषात् प्रदरस्योक्तं योनिरोगेषु चैषधम्॥
अचि3.78
घ्राणगे रुधिरे शुद्धे नावनं चानुषेचयेत्।
कषाययोगान् पूर्वेक्तान् क्षीरेक्ष्वादिरसाप्लुतान्॥
अचि3.79
क्षीरादीन् ससितं तोयं केवलं वा हितं जलम्।
रसो दाडिमपुष्पाणामाम्रास्थ्नः शाड्वलस्य च॥
अचि3.80
कल्पयेच्छीतवर्गं च प्रदेहाभ्यञ्जनादिषु।
यच्च पित्तज्वरे प्रोक्तं बहिरन्तश्च भेषजम्।
रक्तपित्ते हितं तच्च क्षतक्षीणे हितं च यत्॥
इति तृतीयोऽध्यायः॥
चतुर्थोऽध्यायः।
अचि4.1
अथातः कासचिकित्सितं व्याख्यास्यामः।
इति हस्माहुरात्रेयादयो महर्षयः॥
अचि4.2
केवलानिलजं कासं स्नेहैरादावुपाचरेत्।
वातघ्नसिद्धैः स्निग्धैश्च पेयायूषरसादिभिः॥
अचि4.3
लेहैर्धूमैस्ततहाभ्यङ्गस्वेदसेकावगाहनैः।
बस्तिभिर्बद्धविड्वातं सपित्तं त्वौर्ध्वभक्तिकैः॥
अचि4.4
गुडूचीकण्टकारीभ्यां पृथक् त्रिंशत्पलाद्रसे।
प्रस्थः सिद्धो घृताद्वातकासनुद्वह्निदीपनः॥
अचि4.5
क्षाररास्नावचाहिङ्गुपाठायष्ट्याह्वधान्यकैः।
द्विशाणैः सर्पिषः प्रस्थं पञ्चकोलयुतैः पचेत्॥
अचि4.6
दशमूलस्य निर्यूहे पीतं मण्डानुपायिना।
सकासश्वासहृत्पार्श्वग्रहणीरोगगुल्मनुत्॥
अचि4.7
काश्मर्यत्रिफलाव्योषशठीद्राक्षापरूषकम्।
द्वे पाठे देवदार्वृद्धिस्वगुप्ताग्निकगोक्षुरम्॥
अचि4.8
व्याघ्नीतामलकीमेदाकाकनासाशतावरीः।
विदारी च घृतप्रस्थः कर्षांशैस्तैर्विपाचितः॥
अचि4.9
क्षीरेण च जयत्याशु ज्वरकासहलीमकान्।
गुल्मारुचियकृत्प्लीहशिरोहृत्पार्श्ववेदनाः॥
अचि4.10
कामलार्शोनिलाष्ठीलाक्षतशोफक्षयांश्च सः।
द्रोणेऽपां साधयेद्रास्नादशमूलशतावरीः।
पलोन्मिता द्विकुडवं कुलत्थं बदरं यवम्॥
अचि4.11
तुलार्धं चाजमांसस्य तेन साध्यं घृताढकम्।
समक्षीरं पलांशैश्च जीवनीयैः समीक्ष्य तत्॥
अचि4.12
प्रयुक्तं वातरोगेषु पाननावनबस्तिभिः।
पञ्चकासान् शिरःकम्पं योनिवङ्क्षणवेदनाम्।
सर्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्ध्वानिलान् जयेत्॥
अचि4.13
विदार्यादिगणक्वाथकल्कसिद्धं च कासजित्।
अशोकबीजक्षवकजन्तुघ्नाञ्जनपद्मकैः॥
अचि4.14
सबिडैश्च घृतं सिद्धं तच्चूर्णं वा घृताप्लुतम्।
लिह्यात् पयश्चानुपिबेदाजं कासाभिपीडितः॥
अचि4.15
विडङ्गं नागरं रास्नां पिप्पली हिङ्गु सैन्धवम्।
भाङ्गर्क्षीरश्च तच्चूर्णं पिबेद्वा घृतमात्रया।
सकफेऽनिलजे कासे श्वासहिध्माहताग्निषु॥
अचि4.16
दुरालभां शृङ्गवेरं शठीं रास्नां सितोपलाम्।
लिह्यात् कर्कटशृङ्गीं च कासे तैलेन वातजे॥
अचि4.17
दुस्पर्शां पिप्पलीं मुस्तं भार्ङ्गीं कर्कटकीं शठीम्।
पुराणगुडतैलाभ्यां चूर्णितान्यवलेहयेत्॥
अचि4.18
तद्वत् सकृष्णां शुण्ठीं च सभार्ङ्गीं तद्वदेव च।
पिबेत् कृष्णां च कोष्णेन सलिलेन ससैन्धवाम्॥
अचि4.19
मुस्तुना ससितां शुण्ठीं दध्ना वा कणरेणुकाः।
पिबेत् बदरमज्ञो वा मदिरादधिमस्तुभिः।
अथवा पिप्पलीकल्कं घृतभृष्टं ससैन्धवम्॥
अचि4.20
कासी सपीनसो धूमं स्नैहिकं विधिना पिबेत्।
हिध्माश्वासोक्तधूमांश्च क्षीरमांसरसाशनः॥
अचि4.21
ग्राम्यानूपौदकैः शालियवगोधूमषष्टिकान्।
रसैर्माषात्मगुप्तानां यूषैर्वा भोजयेद्धितान्॥
अचि4.22
यवानीपिप्पलीबिल्वमध्यनागरचित्रकैः।
रास्नाजाजीपृथक्पर्णीपलाशशाठिपौष्करैः॥
अचि4.23
सिद्धां स्निग्धाम्ललवणां पेयामनिलजे पिबेत्।
कटीहृत्पार्श्वकोष्ठार्तिश्वासहिध्माप्रणाशिनीम्॥
अचि4.24
दशमूलरसे तद्वत् पञ्चकोलगुडान्विताम्।
पिबेत् समतिलां पेयां क्षैरेयीं वा ससैन्धवाम्।
मात्स्यकौक्कुटवाराहैर्मांसैर्वा साज्यसैन्धवाम्॥
अचि4.25
वास्तुको वायसीशाकं कासघ्नः सुनिषण्णकः।
कण्टकार्याः फलं पत्रं बालं शुष्कं च मूलकम्॥
अचि4.26
स्नेहास्तैलादयो भक्ष्याः क्षीरेक्षुरसगौडिकाः।
दधिमस्त्वारनालाम्लफलाम्बुमदिराः पिबेत्॥
अचि4.27
पित्तकासे तु सकफे वमनं सर्पिषा हितम्।
तथा मदनकाश्मर्यमधुकक्वथितैर्जलैः।
फलयष्ट्याह्वकल्कैर्वा विदारीक्षुरसाप्लुतैः॥
अचि4.28
पित्तकासे तनुकफे त्रिवृतां मधुरैर्युताम्।
युञ्ज्याद्विरेकाय युतां घनश्लेष्मणि तिक्तकैः॥
अचि4.29
हृतदोषो हिमं स्निग्धं स्वादु संसर्जनं भजेत्।
घने कफे तु शिशिरं रूक्षं तिक्तोपसंहितम्॥
अस4.30। पिप्पलीमुस्तयष्ट्याह्वद्राक्षामूर्वामहौषधम्।
लाकामृताफलद्राक्षात्वक्क्षीरीपिप्पलीसिताः॥
अचि4.31
दुस्पर्शाकर्कटीशुण्ठीशठीद्राक्षासिताबलाः।
निदिग्धिकामूलफलं वटबीजं रसाञ्जनम्॥
अचि4.32
खर्जूरं पिप्पली वांशी श्वदंष्ट्रा चेति पञ्च ते।
घृतक्षौद्रयुता लेहाः श्लोकार्धैः पित्तकासिनाम्।
पयोऽनुपानां शृङ्गीं वा लिह्यात्साज्यसितामधु॥
अचि4.33
लेहः पैत्ते सिताधात्रीक्षौद्रद्राक्षाहिमोत्पलैः।
सकफे साब्दमरिचः सघृतः सानिले हितः॥
अचि4.34
मृद्वीकार्धशतं त्रिंशत् पिप्पलीः शर्करापलम्।
लेहयेन्मधुना गोर्वा क्षीरपस्य शकृद्रसम्॥
अचि4.35
त्वगेलाव्योषमृद्वीकापिप्पलीमूलपौष्करैः।
लाजमुस्तशठीरास्नाधात्रीफलबिभीतकैः।
शर्कराक्षौद्रसर्पिर्भिर्लेहो हृद्रोगकासहा॥
अचि4.36
पिप्पल्यामलकद्राक्षालाजलाक्षासितोपलाः।
सञ्चूर्ण्य पक्त्वा पयसा लिह्यात् क्षौद्राष्टभागिकाः॥
अचि4.37
विदारीक्षुमृणालानां रसान् क्षीरं सितोपलाम्।
पिबेत् क्षौद्रेण संयोज्य पित्तकासमपोहति॥
अचि4.38
मधुरैर्जाङ्गलरसैर्यवश्यामाककोद्रवाः।
मुद्गादियूषैः शाकैश्च तिक्तकैर्मात्रया हिताः॥
अचि4.39
घनश्लेष्मणि लेहाश्च तिक्तका मधुसंयुताः।
शालयः स्युस्तनुकफे षष्टिकाश्च रसादिभिः।
शर्कराम्भोऽनुपानार्थं द्राक्षेक्षुस्वरसः पयः॥
अचि4.40
काकोलीबृहतीमेदाद्वयैः सवृषनागरैः।
पित्तकासे रसक्षीरपेयायूषान् प्रकल्पयेत्॥
अचि4.41
द्राक्षां कणां पञ्चमूलं तृणाख्यं च पचेज्जले।
तेन क्षीरं शृतं शीतं पिबेत् समधुशर्करम्॥
अचि4.42
साधितां तेन पेयां वा सुशीतां मधुनान्विताम्।
शठीद्द्रीबेरबृहतीशर्कराविश्वभेषजम्।
पिष्ट्वा रसं पिबेत् पूतं वस्त्रेण घृतमूर्छितम्॥
अचि4.43
महिष्यजावीगोक्षीरधात्रीफलरसैः समैः।
सर्पिः सिद्धं पिबेत् तद्वन्मधुरेण गणेन वा॥
अचि4.44
क्वाथीकृतेनेक्षुरसे क्षीरयुक्तेन साधितम्।
सशर्करं पिबेत् प्रातर्लिह्याद्वा माक्षिकान्वितम्॥
अचि4.45
क्षीरिवृक्षाड्कुरक्वाथे पक्वं क्षीरसमं घृतम्।
पाययेत् पित्तकासार्तं मधुना वावलेहयेत्॥
अचि4.46
मेदां विदारीं काकोलीं स्वयंगुप्ताफलं बलाम्।
शर्करां जीवकं मुद्गमाषपर्ण्यौ दुरालभाम्॥
अचि4.47
कल्कीकृत्य पचेत् सर्पिः क्षीरेणाष्टगुणेन तत्।
पानभोजनलेहेषु प्रयुक्तं पित्तकासजित्॥
अचि4.48
लिह्याद्वा चूर्णमेतेषां कषायमथवा पिबेत्।
कफकासी पिबेदादौ सुरकाष्ठात् प्रदीपितात्॥
अचि4.49
स्नेहं परिस्रुतं व्योषयवक्षारावचूर्णितम्।
स्निग्धं विरेचयेदूर्ध्वमधो मूर्ध्नि च युक्तितः॥
अचि4.50
तीक्ष्णैर्विरेकैर्बलिनं संसर्गीं चास्य योजयेत्।
यवमुद्गकुलत्थान्नैरुष्णरूक्षैः कटूत्कटैः॥
अचि4.51
कासमर्दकवार्ताकव्याघ्नीक्षारकणान्वितैः।
धान्वबैलरसैःस्नेहौस्तिलसर्षपनिम्बजैः॥
अचि4.52
दशमूलाम्बु घर्माम्बु मद्य मध्वम्बु वा पिबेत्।
मूलैः पौष्करशम्याकपटोलैरन्वितं निशाम्॥
अचि4.53
पिबेद्वारि सहक्षौद्रं कालेष्वन्नस्य वा त्रिषु।
पिप्पलीपिप्पलीमूलं शृङ्गवेरं बिभीतकम्॥
अचि4.54
देवदार्वभया मुस्तं पिप्पलीविश्वभेषजम्।
गुडूची पिप्पलीभाङ्र्गीशृङ्गीकर्कटकस्य च॥
अचि4.55
व्योषदारुचिडङ्गानि त्रिफलाशर्कराबलाः।
निदिग्धिकाया मूलत्वङ्मरिचैः सह योजिता॥
अचि4.56
शिखिकुक्कुटपिञ्छानां मषी क्षारो यवोद्भवः।
विशाला पिप्पलीमूलं त्रिवृता च मधुद्रवाः॥
अचि4.57
कफकासहरा लेहाः सप्त श्लोकार्धयोजिताः।
मधुना मरिचं लिह्यान्मधुनैव च जोङ्गकम्॥
अचि4.58
पृथग्रसांश्च मधुना व्याघ्रीवार्ताकभृङ्गजान्।
कासघ्नस्याश्वशकृतः सुरसस्यासितस्य च॥
अचि4.59
देवदारुशठीरास्नाकर्कटाख्यादुरालभाः।
पिप्पली नागरं मुस्तं पथ्याधात्रीसितोपलाः॥
अचि4.60
मधुतैलयुतावेतौ लेहौ वातानुगे कफे।
विडङ्गं सैन्धवं हिङ्गु कुष्ठं व्योषं मनःशिलाम्॥
अचि4.61
कासे श्वासे च हिध्मायां लिह्यात् क्षौद्रघृताप्लुतम्।
गुडक्षारोषणकणादाडिमं श्वासकासजित्।
क्रमात्पलद्वयार्धाक्षकर्षार्धाक्षपलोन्मितम्॥
अचि4.62
द्वे पले दाडिमादष्ट्Aउ गुडाद्व्योषात् पलत्रयम्।
रोचनं दीपनं स्वर्यं पीनसश्वासकासजित्॥
अचि4.63
पाठाशुण्ठीशठीमूर्वागवाक्षीपिप्पलीघनम्।
पिष्ट्वा घर्माम्बुना हिङ्गुसैन्धवाभ्यां युतं पिबेत्।
तद्वन्मुस्ताशठीशुण्ठीनागरातिविषभयाः॥
अचि4.64
पिबेज्ज्वरोक्तं पथ्यादि सशृङ्गीकं च पाचनम्।
अथवा दीप्यकत्रिवृद्विशालाघनपौष्करम्॥
अचि4.65
सकणं क्वथितं मूत्रे कफकासी जलेऽपि वा।
तैलभृष्टं च वैदेहीकल्काक्षं ससितोपलम्॥
अचि4.66
पाययेत् कफकासघ्नं कुलत्थसलिलाप्लुतम्।
सौवर्चलाभयाधात्रीपिप्पलीक्षारनागरम्॥
अचि4.67
चूर्णितं सर्पिषा वातकफकासहरं पिबेत्।
दशमूलाढके प्रस्थं घृतस्याक्षसमैः पचेत्॥
अचि4.68
पुष्कराह्वशठीविल्वसुरसव्योषहिङ्गुभिः।
पेयानुपानं तत् सर्ववातश्लेष्मामयापहम्॥
अचि4.69
निर्गुण्डीपत्रनिर्याससाधितं कासजिद्घृतम्।
घृतं रसे विडङ्गानां व्योषगर्भं च साधितम्॥
अचि4.70
पुनर्नव्सिताटिकासुरसकासमर्दामृता।
पटोलबृहतीफणिज्जकरसैः पयःसंयुतैः।
घृतं त्रिकटुना च सिद्धमुपयुज्य सञ्जायते।
न कासविषमज्वरक्षयगुदाङ्कुरेभ्यो भयम्॥
अचि4.71
समूलफलपत्रायाः कण्टकार्या रसाढके।
घृतप्रस्थं बलाव्योषविडङ्गशठिदाडिमैः॥
अचि4.72
सौवर्चलयवक्षारमूलामलकपौष्करैः।
वृश्चीवबृहतीपथ्यायवानीचित्रकर्धिभिः॥
अचि4.73
मृद्वीकाचव्यवर्षाभूदुरालम्भाम्लवेतसैः।
शृङ्गीतामलकीभार्ङ्गीरास्नागोक्षुरकैः पचेत्॥
अचि4.74
कल्कैस्तत् सर्वकासेषु श्वासहिध्मासु चेष्यते॥
अचि4.75
कण्टकार्यास्तुलां क्षुण्णां पक्त्वा द्रोणेऽम्भसः पचेत्।
तेनाढकेन क्वाथस्य घृतप्रस्यं पिचून्मितैः॥
अचि4.76
रास्नादुस्पर्शषङ्ग्रन्थापिप्पलीद्वयचित्रकैः।
सौवर्चलयवक्षारकृष्णामूलैश्च तज्जयेत्॥
अचि4.77
कासश्वासकफष्ठीवहिध्मारोचकपीनसान्।
पचेद्व्याघ्नीतुलां क्षुण्णां वहेऽपामाढकस्थिते॥
अचि4.78
क्षिपेत् पूते तु सञ्चूर्ण्य व्योषरास्नामृताग्निकान्।
शृङ्गीर्भार्ङ्गीघनग्रन्थिधन्वयासान् पलार्धकान्॥
अचि4.79
सर्पिषः षोडशपलं चत्वारिंशत्पलानि च।
मत्स्यण्डिकायाः शुद्धायाः पुनश्च तदधिश्रयेत्॥
अचि4.80
दर्वीलेपिनि शीते च पृथक् द्विकुडवं क्षिपेत्।
पिप्पलीनां तवक्षीर्या माक्षिकस्यानवस्य च॥
अचि4.81
लेहोऽयं गुल्महृद्रोगदुर्नामश्वासकासजित्।
त्रिफलापिप्पलीपाठासारिवाबृहतीद्वयम्।
मरिचं पद्मकं मुस्तमुशीरं चाक्षसम्मितम्॥
अचि4.82
पक्त्वा जलाढके पादशेषे क्षीरपलाष्टकम्।
दत्वा गुडस्य च पलं पचेदादर्विलेपनात्॥
अचि4.83
लेहः कफोल्बणं कासं सर्वमेव नियच्छति।
साधितं क्षीरमेभिर्वा तिलक्षौद्रयुतं पिबेत्॥
अचि4.84
शमनं च पिबेद्धूमं शोधनं बहले कफे॥
अचि4.85
मनःशिलालमधुकमांसीमुस्तेऽङ्गुदीत्वचः।
धूमं कासघ्नविधिना पीत्वा क्षीरं पिबेदनु॥
अचि4.86
निष्ठ्यूतान्ते गुडयुतं कोष्णं धूमो निहन्ति सः।
वातश्लेष्मोत्तरान् कासानचिरेण चिरन्तनान्॥
अचि4.87
प्रपौण्डरीकं मधुकं शार्ङ्गेष्टालं मनःशिलाम्।
मरिचं पिप्पलीं द्राक्षामेलां सुरसमञ्जरीम्॥
अचि4.88
कृत्वा वर्तिं पिबेद्धूमं क्षौमचैलानुवर्तिनी।
घृताक्तामनु च क्षीरं पिबेत् तद्वत् गुडाम्बु वा॥
अचि4.89
नेपालीतालमरिचलाक्षाञ्जनकुटन्नटैः।
उशीररोहिषफलद्रामिलीवंशलेखनैः॥
अचि4.90
पूर्वकल्पेन धूमोऽयं सानुपानो विधीयते।
कार्पासास्थ्यश्वगन्धा च धूमः कासविनाशनः।
कोशातकीफलान्मध्यैः पिबेद्वा समनःशिलैः॥
अचि4.91
तमकः कफकासे तु स्याच्चेत् पित्तानुबन्धजः।
पित्तकासक्रियां तत्र यथावस्थं प्रयोजयत्॥
अचि4.92
कफानुबन्धे पवने कुर्यात् कफहरां क्रियाम्।
पित्तानुबम्धयोर्वातकफयोः पित्तनाशिनीम्॥
अचि4.93
वातश्लेष्मात्मके शुष्के स्निग्धमार्द्रे विरूक्षणम्।
कासे कर्म सपित्ते तु कफजे तिक्तसंयुतम्॥
इति चतुर्थोऽध्यायः॥
अथ पञ्चमोऽध्यायः।
अचि5.1
अथातः क्षतक्षयकासचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
अचि5.2
उरस्यन्तःक्षते सद्यो लाक्षां क्षौद्रयुतां पिबेत्।
क्षीरणे शालीन् जीर्णेऽद्यात् क्षीरेणैव सशर्करान्॥
अचि5.3
पार्श्वबस्तिसरुक्चाल्पपित्ताग्निस्तां सुरायुताम्।
भिन्नविट् तु समुस्तातिविषापाठां सवत्सकाम्॥
अचि5.4
लाक्षां सर्पिर्मधूच्छिष्टं जीवनीयगणं सिताम्।
त्वक्क्षीरीं समितं क्षीरे पक्त्वा दीप्तानलः पिबेत्॥
अचि5.5
इक्ष्वालिकाबिसग्रन्थिपद्मकेसरचन्द्रनैः।
शृतं पयो मधुयुतं सन्धानार्थं पिबेत् क्षती॥
अचि5.6
यवानां चूर्णमामानां क्षीरसिद्धं घृतान्वितम्।
ज्वरदाहे सिताक्षौद्रसक्तून् वा पयसा पिबेत्॥
अचि5.7
कासवांस्तु पिबेत्सर्पिर्मधुरौषधसाधितम्।
गुडोदकं वा क्वथितं सक्षौद्रमरिचं हिमम्॥
अचि5.8
चूर्णमामलकानां वा क्षीरे पक्वं घृतान्वितम्।
रसायनविधानेन पिप्पलीर्वा प्रयोजयेत्॥
अचि5.9
कासी पर्वास्थिशूली च लिह्यात्सघृतमाक्षिकाः।
मधूकमधुकद्राक्षात्वक्क्षीरीपिप्पलीबलाः॥
अचि5.10
त्रिजातमर्धकर्षांशं पिप्पल्यर्धपलं सिता।
द्राक्षा मधूकं खर्जूरं पलांशं श्लक्ष्णचूर्णितम्॥
अचि5.11
मधुना गुटिका घ्नन्ति ता वृष्याः पित्तशोणितम्।
कासश्वासारुचिच्छार्दिमूर्छाहिध्मामदभ्रमान्॥
अचि5.12
क्षतक्षयस्वरभ्रंशप्लीहशोषाढ्यमारुतान्।
रक्तनिष्ठीवहृत्पार्श्वरुक्पिपासाज्वरानपि॥
अचि5.13
रक्तेऽतिवृद्धे च्छागं वा जाङ्गलं वा पिबेदसृक्।
वर्षाभूशर्करारक्तशालितण्डुलजं रजः॥
अचि5.14
रक्तष्ठीवी पिबेत् सिद्धं द्राक्षारसपयोघृतैः।
मधूकमधुकक्षीरसिद्धं वा तण्डुलीयकम्॥
अचि5.15
यथास्वं मार्गविसृते रक्ते कुर्याच्च भेषजम्।
पिप्पलीमधुकं पिष्टं कार्षिकं ससितोपलम्॥
अचि5.16
प्रास्थिकं गव्यमाजं च क्षीरमिक्षुरसं तथा।
यवगोधूममृद्वीकाचूर्णमामलकाद्रसः॥
अचि5.17
तैलं च प्रसृतांशानि तत् सर्वं मृदुनाग्निना।
पचेल्लेहो घृतक्षौद्रयुतः स क्षतकासनुत्॥
अचि5.18
श्वासहृद्रोगकासघ्नो हितो वृद्धाल्परेतसाम्।
मूढवातस्त्वजामेदः सुराभृष्टं ससैन्धवम्॥
अचि5.19
क्षामः क्षीणः क्षतोरस्को मन्दनिद्रोऽग्निदीप्तिमान्।
शतक्षीरसरेणाद्यात् सघृतक्षौद्रशर्करम्॥
अचि5.20
शर्करायवगोधूमं जीवकर्षभकौ मधु।
घृतक्षीरानुपानं वा लिह्यात् क्षीणः क्षती कृशः॥
अचि5.21
क्रव्यात्पिशितनिर्यूहं घृतभृष्टं पिबेच्च सः।
पिप्पलीक्षौद्रसंयुक्तं मांसशोणितवर्धनम्॥
अचि5.22
न्यग्रोधोदुम्बराश्वत्थप्लक्षसालप्रियङ्गुभिः।
तालमस्तकजम्वूत्वक्प्रियालैश्च सपद्मकैः॥
अचि5.23
साश्वकर्णैः शृतात् क्षीरादद्याज्जातेन सर्पिषा।
शाल्योदनं क्षतोरस्कः क्षीणशुक्रबलेन्द्रियः॥
अचि5.24
वातपित्तार्दितेऽभ्यङ्गो गात्रभेदे घृतैर्मतः।
तैलैश्चानिलरोगघ्नैः पीडिते मातरिश्वना॥
अचि5.25
हृत्पार्श्वार्तिषु पानं स्यात् जीवनीयस्य सर्पिषः।
कुर्याद्वा वातरोगघ्नं पित्तरक्तविरोधि यत्॥
अचि5.26
यष्ट्याह्वनागबलयोः क्वाथे क्षीरसमं घृतम्।
पयस्यापिप्पलीवांशीकल्कसिद्धं क्षते हितम्॥
अचि5.27
घृतं वाष्टगुणे क्षीरे कोललाक्षरसान्वितम्।
कल्कैः कट्वङ्गदार्वीत्वग्वत्सकत्वक्दलैर्घृतम्॥
अचि5.28
जीवनीयो गणः शुण्ठी वरी वीरापुनर्नवौ।
बलाभार्ङ्गीस्वगुप्तर्धिशठीतामलकीकणाः॥
अचि5.29
शृङ्गाटकं पयस्या च पञ्चमूलं च यल्लधु।
द्राक्षाक्षोडादि च फलं मधुरस्निग्धबृंहणम्॥
अचि5.30
तैः पचेत् सर्पिषः प्रस्थं कार्षांशैः श्लक्ष्णकल्कितैः।
क्षीरधात्रीविदारीक्षुच्छागमांसरसान्वितम्॥
अचि5.31
प्रस्थार्धं मधुनः शीते शर्करार्धतुलारजः।
पलार्धिकं च मरिचत्वगेलापत्रकेसरम्॥
अचि5.32
विनीय चूर्णितं तस्माल्लिह्मान्मात्रां यथानलम्।
अमृतप्राशमित्येतन्नराणाममृतं घृतम्॥
अचि5.33
सुधामृतरसं प्राश्यं क्षीरमांसरसाशिना।
नष्टशुक्रक्षतक्षीणदुर्बलव्याधिकर्शितान्॥
अचि5.34
स्त्रीप्रसक्तान् कृशान् वर्णस्वरहीनांश्च बृंहयेत्।
कासहिध्माज्वरश्वासदाहतृष्णास्रपित्तनुत्।
पुत्रदं छर्दिमूर्छाहृद्योनिमूत्रामयापहम्॥
अचि5.35
श्वदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्यकत्तृणम्।
दर्भमूलं पृथक्पर्णीं पलाशर्षभकौ स्थिराम्॥
अचि5.36
पालिकानि पचेत्तेषां रसे क्षीरचतुर्गुणे।
कल्कैः स्वगुप्ताजीवन्तीमेदर्षभकजीवकैः॥
अचि5.37
शतावर्यृद्धिमृद्वीकाशर्कराश्रावणीबिसैः।
प्रस्थः सिद्धो घृताद्वातपित्तहृद्रोगशूलनुत्॥
अचि5.38
मूत्रकृच्छ्रप्रमेहार्शः कासशोषक्षयापहः।
धनुःस्त्रीमद्यभाराध्वखिन्नानां बलमांसदः॥
अचि5.39
मधुकाष्टपलद्राक्षाप्रस्थक्वाथे पचेद् घृतम्।
पिप्पल्यष्टपले कल्के प्रस्थं सिद्धे च शीतले॥
अचि5.40
पृथगष्टपलं क्षौद्रशर्कराभ्यां च मिश्रयेत्।
समसक्तु क्षतक्षीणरक्तगुल्मेषु तद्धितम्॥
अचि5.41
धात्रीफलविदारीक्षुजीवनीयरसात् घृतात्।
गव्याजयोश्च पयसोः प्रस्थं प्रस्थं विपाचयेत्॥
अचि5.42
सिद्धशीते सिताक्षौद्रद्विप्रस्थं विनयेत्ततः।
यक्ष्मापस्मारपित्तासृक्कासमेहक्षयापहम्।
वयःस्थापनमायुष्यं मांसशुक्रबलप्रदम्॥
अचि5.43
घृतं तु पित्तेऽभ्यधिके लिह्याद्व्यतेऽधिके पिबेत्।
लीढं निर्वापयेत् पित्तमल्पत्वाद्धन्ति नानलम्।
आक्रामत्यनिलं पीतमूष्माणं निरुणाद्धि च॥
अचि5.44
क्षामक्षीणकृशाङ्गानामेतान्येव घृतानि तु।
त्वक्क्षीरीपिप्पलीलाजचूर्णैः स्त्यानानि योजयेत्॥
अचि5.45
सर्पिर्गुडान् समध्वंशान् कृत्वा दद्यात् पयोनु च।
रेतोवीर्यं बलं पुष्टिं तैराशुतरमाप्नुयात्॥
अचि5.46
बला विदारी ह्रस्वं च पञ्चमूलं पुनर्नवम्।
पञ्चानां क्षीरिवृक्षाणां शुङ्गा मुष्ट्यंशकास्तथा॥
अचि5.47
एषां कषाये द्विक्षीरे विदार्याजरसांशके।
जीवनीयैः पचेत् पिष्टैरक्षमात्रिर्घृताढकम्॥
अचि5.48
सितापलानि पूते च शीते द्वात्रिंशदावपेत्।
गोधूमपिप्पलीवांशीचूर्णं शृङ्गाटकस्य च॥
अचि5.49
समाक्षिकं कौडविकं तत्सर्वं खजमूर्च्छितम्।
स्त्यानं सर्पिर्गुडान् कृत्वा भूर्जपत्रेण वेष्टयेत्॥
अचि5.50
तान् जग्ध्वा पालिकान् क्षीरं मद्यंत्वनुपिबेत् कफे।
शोषे कासे क्षते क्षीणे श्रमस्त्रीभारकर्शिते॥
अचि5.51
रक्तनिष्ठीवने तापे पीनसे चोरसि स्थिते।
शस्ताः पार्श्वशिरःशूले भेदे च स्वरवर्णयोः॥
अचि5.52
सर्शकराशृते क्षीरघृततैलाढकत्रये।
चूर्णीकृताः क्षिपेत् पक्वसान्द्रे दशपलाः पृथक्॥
अचि5.53
द्राक्षात्मगुप्तावर्षाभूसमङ्गाभीरुपिप्पलीः।
तद्वद्विदार्यामलके प्रस्थार्धं विश्वभेषजम्॥
अचि5.54
क्षामः क्षीणः क्षतः शुष्यंस्तान्खादेत् पालिकैर्गुडैः।
तथा सद्यो रसादीनां वृध्या पुष्टिं समश्नुते॥
अचि5.55
गोक्षीरार्धाढकं सर्पिः प्रस्थमिक्षुरसाढकम्।
रसाद्विदार्याः कुडवं रसात् प्रस्थं च तैत्तिरात्॥
अचि5.56
दद्यात् सिध्यति तस्मिंस्तु पिष्टानिक्षुरसैरिमान्।
मधूकषुष्पं कुडवं कुडवं च प्रियालतः॥
अचि5.57
पलद्वयं तवक्षीर्याः खर्जूराणि च विंशतिः।
पृथग्विभीतकान्मज्ञः पिप्पल्याश्च चतुर्थिकाम्॥
अचि5.58
त्रिंशत्पलानि खण्डाच्च मधुकात् पाणिमानिकाम्।
तथार्धपलिकान्यत्र जीवनीयानि दापयेत्॥
अचि5.59
सिद्धे द्विकुडवं क्षौद्राच्छीते दत्वा च मोदकान्।
कारयेन्मरिचाजाजीपलचूर्णावचूर्णितान्॥
अचि5.60
वातासृक्पित्तरोगेषु क्षतकासक्षयेषु च।
क्षीणौजःस्वरशुक्रेषु योनिदोषेषु संस्रवे।
मृतप्रजासु वन्ध्यासु हितं गर्भस्य च स्रुतौ॥
अचि5.61
वीतत्वगास्थिकूष्माण्डतुलां स्विन्नां पुनः पचेत्॥
अचि5.62
घट्टयन् सर्पिषः प्रस्थे क्षौद्रवर्णेऽत्र च क्षिपेत्।
स्वण्डाच्छतं कणाशुण्ठ्योर्द्विपलं जीरकादपि॥
अचि5.63
त्रिजातधान्यमरिचं पृथगर्धपलांशकम्।
अवतारितशीते च दत्वा क्षौद्रं घृतार्धिकम्॥
अचि5.64
स्वजेनामथ्य च स्थाप्यं तन्निहन्त्युपयोजितम्।
कासहिध्माज्वरश्वासरक्तपित्तक्षतक्षयान्॥
अचि5.65
उरःसन्धानजननं मेधास्मृतिबलप्रदम्।
अश्विभ्यांन्निर्मितं हृद्यं कूष्माण्डकरसायनम्॥
अचि5.66
पिवेन्नागबलामूलस्यार्धकर्षाभिवर्धितम्।
पलं क्षीरयुतं मासं क्षीरवृत्तिरनन्नभुक्॥
अचि5.67
एष प्रयोगः पुष्ट्यायुर्बलवर्णकरः परम्।
मण्डूकपर्ण्याः कल्पोऽयं यष्ट्या वित्तौषधस्य च॥
अचि5.68
पादशेषं जलद्रोणे पचेन्नागबलातुलाम्।
तेन क्वाथेन तुल्यांशं घृतं क्षीरं च साधयेत्॥
अचि5.69
पलार्धिकैश्चातिबलाबलायष्टीपुनर्नवैः।
प्रपौण्डरीककाश्मर्यप्रियालकपिकच्छुभिः॥
अचि5.70
अश्वगन्धासिताभीरुमेदायुग्मत्रिकण्टकैः।
काकोलीक्षीरकाकोलीक्षीरशुक्लाद्विजीरकैः॥
अचि5.71
मृणालबिसखर्जूरशृङ्गाटककशेरुकैः।
एतन्नागबलासर्पिः पित्तरक्तं क्षतक्षयम्॥
अचि5.72
जयेत्तृड्भ्रमदाहांश्च बलपुष्टिकरं परम्।
वर्ण्यमायुष्यमोजस्यं वलीपलितनाशनम्।
उपयुज्य तु षण्मासाद् वृद्धोऽपि तरुणायते॥
अचि5.73
शर्करा पिप्पलीचूर्णैः सर्पिषा माक्षिकेण च।
संयुतं वा शृतं क्षीरं पिबेत् कासज्वरापहम्॥
अचि5.74
फलाम्लं सर्पिषा भृष्टं विदारीक्षुरसे कृतम्।
स्त्रीषु क्षीणः पिबेद्यूषं जीवनं बृंहणं परम्॥
अचि5.75
सक्तूनां वस्त्रपूतानां मन्थं क्षौद्रघृतावितम्।
यवान्नसात्म्यो दीप्ताग्निः क्षतक्षीणः पिबेन्नरः॥
अचि5.76
जीवनीयोपसिद्धं वा जाङ्गलं घृतभर्जितम्।
रसं प्रयोजयेत् क्षीणे व्यञ्जनार्थं सशर्करम्॥
अचि5.77
गोमहिष्यश्वनागाजैः क्षीरैर्मांससैस्तथा।
यवान्नं भोजयेद्यूषैः फलाम्लैर्वा घृताप्लुतैः॥
अचि5.78
दीप्तेऽग्नौ विधिरेष स्यान्मन्दे दीपनपाचनः।
यक्ष्मोक्तः क्षतिनां शस्तो ग्राही शकृति तु द्रवे॥
अचि5.79
दशमूलं स्वयंगुप्तां शंखपुष्पीं शठीं बलाम्।
हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान्॥
अचि5.80
भार्ङ्गी पुष्करमूलं च द्विपलांशान्यवाढकम्।
हरीतकीशतं चैकं जलपञ्चाढके पचेत्॥
अचि5.81
यवस्वेदे कषायं तं पूतं तच्चाभयाशतम्।
पचेद्गुडतुलां दत्वा कुडवं च पृथग्घृतात्॥
अचि5.82
तैलात् सपिप्पलीचूर्णात् सिद्धशीते च माक्षिकात्।
लेहाद्द्वे चाभये नित्यमतः खादेद्रसायनात्॥
अचि5.83
तद्वलीपलितं हन्याद्वर्णायुर्बलवर्धनम्।
पञ्चकासान् क्षयं श्वासं सहिध्मं विषमज्वरम्॥
अचि5.84
मेहगुल्मग्रहण्यर्शोहृद्रोगरुचिपीनसान्।
अगस्त्यविहितं धन्यमिदं श्रेष्ठं रसायनम्॥
अचि5.85
दशमूलं बलां मूर्वां हरिद्रे पिप्पलीद्वयम्।
पाठाश्वगन्धापामार्गस्वगुप्तातिविषामृताः॥
अचि5.86
बालबिल्वं त्रिवृद्दन्तीमूलं पत्रं च चित्रकात्।
पयस्यां कुटजं हिंस्रां पुष्पं सारं च बीजकात्॥
अचि5.87
बोलस्थविरभल्लातविकङ्कतशतावरीः।
पूतीकरञ्जशम्याकचन्द्रलेखासहाचरम्॥
अचि5.88
सौभाञ्जनकनिम्बत्वगिक्षुरं च पलांशकम्।
पथ्यासहस्रं सशतं यवानां चाढकद्वयम्॥
अचि5.89
पचेदष्टगुणे तोये यवस्वेदेऽवतारयेत्।
पूते क्षिपेत् सपथ्ये च तत्र जीर्णगुडात्तुलाम्॥
अचि5.90
तैलाज्यधात्रीरसतः प्रस्थं प्रस्थं ततः पुनः।
अधिश्रयेन्मृदावग्नौ दर्वीलेपेऽवतार्य च॥
अचि5.91
शीते प्रस्थद्वयं क्षौद्रात् पिप्पलीकुडवं क्षिपेत्।
चूर्णीकृतात्त्रिजाताच्च त्रिपलं निखनेत्ततः॥
अचि5.92
धान्ये पुराणकुम्भस्थं मासं खादेच्च पूर्ववत्।
रसायनं वसिष्ठोक्तमेतत् पूर्वगुणाधिकम्।
स्वस्थानां निष्परीहारं सर्वर्तुषु च शस्यते॥
अचि5.93
पालिकं सैन्धवं शुण्ठी द्वे च सौवर्चलात् पले।
कुडवांशानि वृक्षाम्लं दाडिमं पत्रमार्जकात्॥
अचि5.94
एकैका मरिचाजाज्योर्धान्यकाद्वे चतुर्थिके।
शर्करायाः पलान्यत्र दश द्वे च प्रदापयेत्॥
अचि5.95
कृत्वा चूर्णमतो मात्रामन्नपानेषु दापयेत्।
रुच्यं तद्दीपनं बल्यं पार्श्वार्तिश्वासकासनुत्॥
अचि5.96
एकां षोडशिकां धान्याद् द्वे द्वे चाजाजिदीप्यकात्।
ताभ्यां दाडिमवृक्षाम्ले द्विर्द्विस्सौवर्चलात् पले॥
अचि5.97
शुण्ठ्याः कर्षं दधित्थस्य मध्यात् पञ्चपलानि च।
तच्चूण षोडशपलैः शर्कराया विमिश्रयेत्॥
अचि5.98
षाडवोयं प्रदेयः स्यादन्नपानेषु पूर्ववत्।
विधिश्च यक्ष्मपित्तास्रविहितः शस्यते क्षते॥
अचि5.99
निवृत्ते क्षतदोषे तु कफे वृद्ध उरः शिरः।
दाल्येते कासिनो यस्य स ना धूमानिमान्पिबेत्॥
अचि5.100
द्विमेदाद्विबलायष्टीकल्कैः क्षौमे सुभाविते।
वर्तिं कृत्वा पिबेद्धूमं जीवनीयघृतानुपः॥
अचि5.101
मनःशिला बला साजगन्धा त्वक्क्षीरिनागरैः।
तद्वदेवानुपानं तु शर्करेक्षुगुडोदकम्॥
अचि5.102
पिष्ट्वा मनःशिलां तुल्यामार्द्रया वटशुङ्गया।
ससर्पिष्कं पिबेद्धूमं तित्तिरिप्रतिभोजनः॥
अचि5.103
क्षयजे बृंहणं पूर्वं कुर्यादग्नेश्च वर्धनम्।
बहुदोषाय सस्नेहं मृदु दद्याद्विरेचनम्॥
अचि5.104
शम्याकेन त्रिवृतया मृद्वीकारसयुक्तया।
तिल्वकस्य कषायेण विदारीस्वरसेन च।
सर्पिः सिद्धं पिबेद्युक्त्या क्षीणदेहो विशोधनम्॥
अचि5.105
पित्ते कफे धातुषु च क्षीणेषु क्षयकासवान्।
घृतं कर्कटकीक्षीरद्विबलासाधितं पिबेत्॥
अचि5.106
विदारीभिः कदम्बैर्वा तालसस्यैश्च साधितम्।
घृतं पयश्च मूत्रस्य वैवर्ण्ये कृच्छ्रनिर्गमे॥
अचि5.107
शूने सवेदने मेढ्रे पायौ सश्रोणिवङ्क्षणे।
घृतमण्डेन लघुनानुवास्यो मिश्रकेण वा॥
अचि5.108
जाङ्गलैः प्रतिभुक्तस्य वर्तकाद्या बिलेशयाः।
क्रमशः प्रसहास्तद्वत् प्रयोज्याः पिशिताशिनः॥
अचि5.109
औष्ण्यात् प्रमाथिभावाच्च स्रोतोभ्यश्च्यावयन्ति ते।
कफं शुद्धैश्च तैः पुष्टिं कुर्यात् सम्यग्वहन् रसः॥
अचि5.110
चविकात्रिफलाभार्ङ्गीदशमूलैः सचित्रकैः।
कुलत्थपिप्पलीमूलपाठाकोलयवैर्जले॥
अचि5.111
शृतैर्नागरदुस्पर्शापिप्पलीशठिपौष्करैः।
पिष्टैः कर्कटशृङ्ग्या च समैः सर्पिर्विपाचयेत्॥
अचि5.112
सिद्धेऽस्मिंश्चूर्णितौ क्षारौ द्वौ पञ्च लवणानि च।
दत्वा युक्त्या पिबेन्मात्रां क्षयकासनिपीडितः॥
अचि5.113
कासमर्दाभयामुस्तापाठाकट्फलनागरैः।
पिप्पल्या कटुरोहिण्या काश्मर्या सुरसेन च॥
अचि5.114
अक्षमात्रैर्घृतप्रस्थं क्षीरद्राक्षारसाढके।
पचेच्छोषज्वरप्लीहसर्वकासहरं शिवम्॥
अचि5.115
वृषव्याघ्रीगुडूचीनां पत्रमूलफलाङ्कुरात्।
रसकल्कैर्घृतं पक्वं हन्ति कासज्वरारुचीः॥
अचि5.116
द्विगुणे दाडिमरसे सिद्धं वा व्योषसंयुतम्।
पिबेदुपरिभक्तस्य यवक्षारयुतं नरः॥
अचि5.117
पिप्पलीनुडसिद्धं वा छागक्षीरयुतं घृतम्।
एतान्यग्निविवृध्यर्थं सर्पीषि क्षयकासिनाम्।
स्युर्दोषबद्धकण्ठोरःस्रोतसां च विशुद्धये॥
अचि5.118
श्वाविदां सूचयो दग्धाः सघृतक्षौद्रशर्कराः।
श्वासकासहरा बर्हिपादौ वा क्षौद्रसर्पिषा॥
अचि5.119
एरण्डपत्रक्षारं वा व्योषतैलगुडान्वितम्।
लेहयेत् क्षारमेवं वा सुरसैरण्डपत्रजम्॥
अचि5.120
लिह्यात्त्र्यूषणचूर्णं वा पुराणगुडसर्पिषा।
चित्रकत्रिफलाजाजी कर्कटाख्या कटुत्रिकम्।
द्राक्षां च क्षौद्रसर्पिर्भ्यां लिह्यादद्याद्गुडेन वा॥
अचि5.121
पाठामधुकजीवन्तीत्वक्क्षीरीत्रिफलाघनम्।
शठीद्विबृहतीद्राक्षापिप्पल्येलावितुन्नकम्॥
अचि5.122
सारिवापुष्करजटाकर्कटाख्यारसाञ्जनम्।
पुनर्नवालोहरजस्त्रायमाणायवानिका॥
अचि5.123
ऋद्धिस्तामलकी भार्ङ्गी विडङ्गं धन्वयासकम्।
क्षारचित्रकचव्याम्लवेतसव्योषदारु च।
सर्वकासान् जयेल्लीढं तच्चूर्णं मधुसर्पिषा॥
अचि5.124
पद्मकं त्रिफला व्योषं विडङ्गं देवदारु च।
बलारास्ना च तच्चूर्णं समस्तसमशर्करम्॥
अचि5.125
स्वादेन्मधुघृताभ्यां वा लिह्यात् कासहरं परम्।
तद्वन्मारिचचूर्णं वा सघृतक्षौद्रशर्करम्॥
अचि5.126
पथ्याशुण्ठीघनगुदैर्गुटिकां धारयेन्मुखे।
सर्वेषु कासश्वासेषु केवलं वा बिभीतकम्॥
अचि5.127
कल्के तिल्वकपत्राणां घृतभृष्टे सशर्करे।
पेयोत्कार्यथवा च्छर्दितृट्कासामातिसारजित्॥
अचि5.128
गौरसर्षपगण्डीरविडङ्गव्योषचित्रकान्।
साभयान् साधयेत्तोये यवागूस्तेन चाम्भसा॥
अचि5.129
ससर्पिर्लवणा कासे हिध्माश्वासे सपीनसे।
पाण्ड्वामये क्षये शोफे कर्णशूले च शस्यते॥
अचि5.130
कण्टकारीरसे सिद्धो मुद्गयूषः सुसंस्कृतः।
सगौरामलकः साम्लः सर्वकासभिषग्जितम्॥
अचि5.131
वातघ्नौषधनिःक्वाथे क्षीरं यूषान् रसानपि।
वैष्किरान् प्रातुदान् बैलान् दापयेत् क्षयकासिने॥
अचि5.132
क्षतकासे च ये धूमाः सानुपाना निदर्शिताः।
क्षयकासेऽपि ते योज्या वक्ष्यते यच्च यक्ष्मणि॥
अचि5.133
बृंहणं दीपनं चाग्नेः स्रोतसां च विशोधनम्।
व्यत्यासात् क्षयकासिभ्यो बल्यं सर्वं प्रशस्यते॥
अचि5.134
सन्निपातोद्भवो घोरः क्षयकासो यतस्ततः।
यथादोषबलं तस्य सन्निपातहितं हितम्॥
इति पञ्चमोऽध्यायः॥