अष्टाङ्गसंग्रहः चिकित्सितस्थानम् अध्याय १६-२०

विकिस्रोतः तः

अष्टाङ्गसंग्रहः

अथ षोडशोऽध्यायः।

अचि16.1
अथातो गुल्मचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अचि16.2
गुल्मो हि वातादृते न सम्भवति।
तस्मात्तेषु सर्वेष्वपि प्रथमं स्नेहस्वेदौ वातहहरौ।
स्नेहोपसंहितं मृदु विरेचनं तद्विधांश्च बहुशो बस्तीनम्ललवणमधुरांश्च रसान् युक्त्यावचारयेत्।
मारुते हि विजितेऽल्पेनापि यत्नेन शक्योऽन्योऽपि दोषो गुल्मेषु नियन्तुम्॥

अचि16.3
अथ वातोत्तरे रूक्षं बद्धमरुच्छकृतमातुरं तीव्ररुजमानिलव्याधिविहितमन्यतम तैलं पाययेत्।
अथवा विडङ्गपञ्चकोलमरिचत्रिफलाधान्यकगर्भं सपयस्सर्पिर्विपक्वम्।
अनेनैव वा कल्केन दशमूलक्वाथोपहितम्।
राजयक्ष्मविहितं वा षट्पलम्।
हिङ्गुधानकाम्लवेतससौवर्चलैलाबिडशठीदाडिमयवक्षारत्रिकटुकाजगन्धाजमोदाजाजीपुष्करमूलवचाचित्रकसुरसैर्वा दधिसंयुक्तम्॥

अचि16.4
हपुषामरिचबाष्विकासैन्धवदीप्यकाजाजीपञ्चकोलकैः कोलमूलकदाडिमरसदधिक्षीरवत् सर्पिः सिद्धं सिद्धं शूलविबन्धहिध्माध्मानप्लीहहृद्रोगग्रहणीहतनामकृमिवर्ध्मपाण्डुक्षयश्वासकासयोनिरोगोदरज्वरारोचकेषु।
शुण्ठीपलं पिप्पलीपलमध्यर्धं धानकाकुडवं दाडिमद्विकुडवं घृतपलानि विंशतिः क्षीरं चैकध्यं विपचेत्।
एतत्सर्पिः समानं पूर्वेण॥

अचि16.5
लशुनस्य विगतत्वचस्तुलां प्रत्येकं पञ्चपलिकं च महापञ्चमूलमष्टगुणेऽम्भसि साधयेत्।
तेन क्वाथेन तदर्धांशैश्च पृथक् सुरादधिमस्तुधान्याम्लदाडिमरसैः यवानीदीप्यकाम्लवेतसहिङ्गुचविकासैन्धवत्र्यूषणत्रिफलामरदारुभिश्चार्धपलिकैः प्रस्थोन्मितं घृतं शृतं पीतं समानं पूर्वेण॥

अचि16.6
वर्षाभूद्वयदशमूलाश्वगन्धासुषवीच्छिन्नरुहाभार्ङ्गीरास्नैरण्डबलाकालाशठीपुष्करमूलगन्धपलाशान् द्विपलांशान् प्रस्थं प्रस्थं च यवमाषकोलकुलत्थानां जलद्रोणे पादावशिष्टं विपचेत्।
तेन पृथक् समं मातुलुङ्गदाडिमाम्रातकरसशुक्ततुषोदकारनालं घृतप्रस्थं दध्याढकोपेतं वचाकारवीशताह्वाद्विक्षारत्रिलवणत्रिकटुकरास्नाकुम्भनिकुम्भयवानीयवानकहिंस्राम्लवेतसनीलिनीफलविडङ्गदाडिमहिङ्गुपाषाणभेदकोषकवृषकहपुषाभार्ङ्गीश्वदंष्ट्रात्रपुसैर्वारुबीजाजाजीसारिवोपकुञ्चिकाग्रन्थिककुस्तुम्बरीतुम्बुरुफलमूर्वाचित्रकसुरसागजपिप्पलीगर्भं साधयेत्।
दाधिकाख्यमेतत् सर्पिः समानं पूर्वेण।
मूत्रघातोन्मादापस्मारवातव्याधिहरं च।
पिबेद्वा व्योषषड्ग्रन्थाकृमिघ्नकटुकाचित्रकसौवर्चलाभयायवक्षारैर्दशांशक्षीरसंयुक्तं साधितं सर्पिः।
क्षीरायोग्याय च सुरामदिरामस्तुदधिसरदाडिमरसानामन्यतमं विदध्यात्॥

अचि16.7
अभ्यङ्गपूर्वं चैनं सदा स्वेदयेत्।
स्नेहस्वेदौ हि सम्यक् प्रयुक्तौ स्रोतसां मार्दवमुपजनय्यानिलं जित्वा भित्वा च विबन्धमाशु गुल्ममपकर्षतः॥

अचि16.8
तत्र हृदयजे विशेषेण स्नेहपानमिच्छन्ति।
बस्तिजे बस्तिमुभयं नाभिपार्श्वाश्रये।
विबद्धानिलवर्चसश्च दीप्ताग्नेः स्निग्धोष्णानि बृंहणानि चान्नपानानि पुनःपुनश्च स्नेहपाननिरूहानुवासनानि कफपित्तानुरक्षिणायोज्यानि॥

अचि16.9
अन्यथा कफो विवृद्धस्तन्द्रागौरवारुचिहृल्लासाग्निसादान् कुर्यात्।
तमुल्लिखेत्।
तत्कृतेषु च शूलानाहविबन्धेष्वनन्तरोक्तानां घृतानामौषधैश्चूर्णगुटिकाक्वाथान् कोलदाडिममातुलुङ्गसुरामण्डतक्रमस्तुधान्याम्लोष्णोदकानामन्यतमेन प्रकल्पयेत्।
अपि च॥

अचि16.10
त्रिलवणहपुषाजमोदाजगन्धावचाहिङ्गुपाठोपकुञ्चीशठीजीरकाजाजिकुस्तुम्बरीबाष्पिकाकारवीतुम्बुरुस्वर्जिका यावशूको जटापौष्करी दाडिमं तिन्तिणीकं विडङ्गानि भार्ङ्गी वरो वेतसाम्लो मिशिर्मरिचगजकणाभयापञ्चकोलानि कुम्भो निकुम्भो विशाला यवानी सुराह्वं च तत्सर्वमेकत्र चूर्णीकृतं बीजपूराद्रसेनासकृत् भावितं यः पिबेत् प्रातराहारकालेऽथवा मासमात्रं हिताशी नरः सादरम्।
प्लुतमशिशिरवारिणा जीर्णमद्येन मूत्रेण तक्रेण कोलाम्भसा मस्तुना पेयया सर्पिषौष्ट्रेण दुग्धेन कौलत्थयूषेण वा क्षारनिश्च्योततोयेन वा दाडिमाद्वारसेनात्मवानेभिरेवौषधैः साधितं वा घृतं हृदयगुदकटीयकृत्प्लीहगुह्याश्रितं तस्य शूलं प्रणश्येत् तथा गुल्मविष्टम्भदुर्नामकृच्छ्रोदराध्मानहिध्माविबन्धाः सवर्ध्मारुचिश्वासकासाः प्रपक्तुं च शक्तो भवेत् पावकः प्राश्यमानानि पाषाणचूर्णान्यपि॥

अचि16.11
अभयापलद्वयमम्लवेतसपलद्वयं पालिकान् वचाविश्वभेषजत्रिवृद्दन्तीचित्रकशठीपुष्करजटायावशूकान् कार्षिकान् मरिचाजाजीसैन्धवोपकुञ्चिकाशितिवारकयवानीधातकीपुष्पविडङ्गान् हिङ्गुत्रिकर्षं च चूर्णितं पूर्ववद्भावितं पीतं च समानं तेन॥

अचि16.12
यवानीशतपुष्पानागकेसरवचामुस्तव्योषपाठागुग्गुलुत्रिवृतागजपिप्पलीतालीसैलापामार्गद्रवन्तीनिदिग्धिकामूलानां भागो भागश्चाम्लवेतसस्य तत्सूक्ष्मरजीकृतं मातुलुङ्गदाडिमबदररसशीधुसुरोष्णसलिलान्यतमेन पीतं शूलगुल्मवर्ध्मानाहोदरकोष्ठस्तैमित्यार्शोश्मरीमूत्रग्रहकटीपृष्ठग्रहोन्मादापस्मारस्कन्नशुक्रताग्निसादानपनयति॥

अचि16.13
तिलकुन्तलपलाशसर्षपयवनालमूलकबीजानामन्तर्धूमदग्धानां क्षारं गोजाविमहिषीखरहस्तिमूत्रैर्बहुकृत्वो गालयेत्।
ततस्तदच्छं शुण्ठीसैन्धवकुष्ठकृमिघ्नचूर्णप्रतीवापमधिशृत्य लेहीभूतमाददीत।
तत्तैलयुक्तं समानं पूर्वेण॥

अचि16.14
महौषधदेवदारुदन्तीत्रिवृत्पाठाक्षारद्वयत्रिफलोपकुञ्चिकाचविकाद्वीपिप्पलीद्वयपिप्पलीमूलसर्पसुगन्धा कुष्टकटुरोहिणीनामर्धपलिकान् भागान् पलं पलं च पञ्चानां लवणानामेकत्र चूर्णयित्वा दध्ना त्रिवृतेन चाप्लाव्य कलशोदरेऽन्तर्धूमं पाचयेत्।
अग्निवर्णं च कलशमपनीय क्षारमाददीत।
एष क्षारागदो भेलविहितः समानः पूर्वेण सर्पमूषिकदष्ट्Aगरापस्मारोन्मादाश्मरीयोनिशुक्रदोषांश्च साधयति॥

अचि16.15
पित्तं च विवृद्धमन्तः सन्तापं जनयेत्।
तत्रैरण्डतैलं सपयस्कं विरेचनार्थं पिबेत्।
सकफस्तु वारुणीमण्डमिश्रम्।
अत्युद्रिक्तपित्तस्त्रिफलां त्रायमाणां वा क्षीरेण पिबेत्।
विरिक्तस्यापि सन्तापानुवृत्तौ रक्तमवसेचयेत्॥

अचि16.16
विड्विबन्धे चोदावर्तक्रमं कुर्यात्।
लुञ्चिततिलपलद्वयं शुण्ठ्यर्धपलं च पिष्टं गुडपलोपेतमुष्णेन पयसा पिबेत्।
तद्वातगुल्मोदावर्तयोनिशूलानपोहति तथाक्षीरशृतेन महापञ्चमूलेन शिलाह्वयम्।
लशुनं तु क्षीरसिद्धं पीत्वा गुल्मोदावर्तगृध्रसीहृद्रोगविद्रधिशोषविषमज्वरान् जयति॥

अचि16.17
बृहतीद्वयबिल्वगोक्षुरकैरण्डमातुलुङ्गीमूलपाषाणभेदक्वाथः सयावशूको गुल्मशूलहरः।
माषपर्णीमुद्गपर्णीसहदेवाद्द्रस्वपञ्चमूलैरण्डेक्षुवालिकानिर्यूहो यवक्षारोपेतः सर्वगुल्मकोष्ठशूलघ्नः।
देवदारुनागरैरण्डपुष्करमूलानां क्वाथः सर्वगुल्मशूलघ्नः।
पुष्करमूलदुरालभायवशुण्ठीनां वा।
तैलारनालमूत्रमदिरायावशूकाश्चैकत्र पीता गुल्मोदरानाहप्लीहहराः।
स्वेदांश्च विविधान् पुनःपुनर्योजयेत्॥

अचि16.18
स्रंसनार्थी नीलिनीफलचूर्णयुक्तानि पूर्वोक्तानि हवींषि पिबेत्।
अथवा रामठस्यैको भागः सैन्धवस्य त्रयो नवैरण्डतैलस्य सप्तविंशतिर्लशुनस्वरसस्य तदैकध्यं कृत्वा पीतमुदरगरगुल्मवर्ध्मप्लीहशूलहरम्।
नीलिनीबलाव्याघ्नीकटुकाफलतालपत्रिकारास्नाकृमिघ्नानि पालिकान्यपामाढके साधयित्वाष्टभागावशिष्टमवतारयेत्।
तेन स्नुहीक्षीरपलप्रतीवापं दधिसमं सर्पिःप्रस्थं पचेत्।
तत्पेयामण्डेन सह रसाशिना नीलिनीघृतं पलमात्रया पीतं गुल्मप्लीहकुष्ठश्वित्रजठरव्यङ्गशोफज्वरपाण्डुरोगोन्मादापस्मारानपकर्षति।
दुर्विरेच्यो हि सर्व एव गुल्मी मारुताभिभूतकोष्ठत्वात्।
तस्मात्सुस्निग्धमेनं स्नेहविरेकैर्वा शोधयेत्॥

अचि16.19
पित्तगुल्मे तु स्निग्धोष्णेन जाते स्रंसनार्थं मधुना कम्पिल्लकमवलिह्यात्।
द्राक्षाभयारसं वा सगुडं पिबेत्।
कल्पोदितानि वा विरेचनानि प्रयुञ्जीत॥

अचि16.20
रूक्षोष्णसमुद्भूते पुनः संशमनार्थं तिक्तकं वासाघृतं वा पिबेत्।
अथवा तृणपञ्चमूलक्वाथेन जीवनीयकल्केन च सिद्धं सर्पिः।
तथा न्यग्रोधादिगणेन तृणपञ्चमूलादिभिर्वा पृथक् साधितं क्षीरम्॥

अचि16.21
रूक्षोष्णजेऽपि चात्ययिके सामान्यतो वा समुत्पन्ने विद्रधिविहितानां त्रिफलादिक्वाथत्रायमाणाघृतद्राक्षाघृतानामन्यतमं पिबेत्।
क्षीरं वा त्रायमाणाशृतं कोष्णं पीत्वा क्षीरमेव सुखोष्णमनुपिबेत्॥

अचि16.22
पक्वाशयस्थे वा गुल्मे क्षीरबस्तिभिः सतिक्तैः संशोधयेत्।
शीतद्रव्यसिद्धैश्च स्नेहैरभ्यञ्जयेत्।
मणिकनकरजतताम्रभाजनानि च शिशिरवारिपूर्णानि गुल्मदेशस्योपरि धारयेन्मुक्तावलीश्च सुशीताः।
एवमसिद्धौ विदाहपूर्वरूपेषु चासृक् स्रावयेत्।
स्रुतरक्तं च जाङ्गलरसैर्लब्धबलमर्तिशेषनाशाय पुनः सर्पिरभ्यासयेत्॥

अचि16.23
विद्रधिवच्च विदह्यमानमुपनाहयेत्।
पर्यागतमाप तद्वदुपलक्ष्य तथैव सर्वथोपचरेत्॥

अचि16.24
श्लेष्मगुल्मिनं प्रागेव विधिवद्वामयेदवाम्यमुपवासयेत्।
लङ्घितस्योष्णकटुतिक्तदीपनं संसर्गमाचरेत्।
तथा स्वेदान् वातगुल्मोक्तानि च घृतादीनि द्विगुणहिङ्गुक्षाराम्लवेतसानि॥

अचि16.25
दशमूलक्वाथे व्योषदाडिमहिङ्गुयवक्षारबिडसैन्धवयुक्तं सर्पिः सिद्धं श्लेष्मगुल्मघ्नम्।
भल्लातकपलद्वयं लघुपञ्चमूलं च पालिकमुदकाढके प्रस्थावशेषं पाचयेत्।
तस्मिन् क्षीरप्रस्थे च सर्पिःप्रस्थं हिङ्गुविडङ्गशठीबिडसैन्धवक्षाररास्नानागरपिप्पलीषड्ग्रन्थामधुकचित्रकैः काषिकैर्विपचेत्।
एतद् भल्लातकघृतं कफगुल्मप्लीहकासश्वासग्रहणीपाण्डुरोगघ्नम्।
षट्पलं वा द्विगुणक्षारं क्षीररहितं मस्तुदधिकाञ्जिकार्द्रकरसाढकद्वयोपेतं साधयित्वा प्रयुञ्जीत।
हिङ्गुहरीतकीपुष्करमूलशुण्ठीसैन्धवबिडश्यामायवक्षारतुम्बुरुचूर्णो यवक्वाथाप्लुतः सर्पिर्भृष्टो भक्षितः शूलगुल्मकाठि न्यघ्नः॥

अचि16.26
ततोऽस्य सर्वमङ्गं गुल्मं च साध्मानं सविबन्धं कठिनमुन्नतं गूढमांसं स्थिरं महावस्तुं च बहुधा बहुशश्च स्वेदयेत्।
स्निग्धस्विन्नशरीरस्य शिथिलतां गते गुल्मे यथोक्तां घटिकां लागयेत्।
तया सङ्गृहीते च गुल्मे घटीमपनयेत् भिन्द्याद्वा॥

अचि16.27
ततो हृदयमान्त्रं च वर्जयन् गुल्मं विमार्गाजपदादर्शान्यतमेन वस्त्रान्तरितं प्रपीडयेत् प्रमृज्यात्।
ततः साल्वलादिभिः सुखोष्णैर्लेपयित्वा लोहपात्रैः स्वेदयेत्।
एवममुना क्रमेण स्थानादपसृते शिथिलीभूते च गुल्मे विरेकान् स्नेहवतो दाशमूलिकांश्च ब्स्तीन् विदध्यात्।
नीलिनीघृतमेनं द्विगुणप्रमाणं पाययेत्।
उदरोक्तानि च सर्पींषि॥

अचि16.28
त्रिफलाकुम्भनिकुम्भदशमूलानां षोडशांशावशिष्टं क्वाथं घृतमेरण्डतैलं क्षीरं चैकतः साधयेत्।
अयं मिश्रकस्नेहः कफगुल्मवातविड्विबन्धोदावर्तप्लीहोदरयोनिशूलान्यपकर्षति॥

अचि16.29
पिप्पल्यामलकद्राक्षाश्यामाद्यैः पालिकैरेरण्डतैलहविषोः प्रस्थौ षड्गुणे पयसि पचेदयं मिश्रकस्नेहो गुल्मिनां स्रंसनो वृद्धिविद्रधिगुल्मवातव्याधिषु च परममृतम्॥

अचि16.30
दन्त्याः पलानि पञ्चविंशतिस्तावन्त्येव चित्रकस्य तावत्य एव हरीतक्यः सर्वमेकत्र सलिलकलशेऽष्टांशावशिष्टं साधयित्वा पूते च तस्मिन् रसे ताश्च हरीतकीः पञ्चविंशतिं गुडपलानि तैलार्धकुडवं चूर्णीकृतं त्रिवृताकुडवमर्धपलोन्मितां मागाधिकां महौषधं च प्रक्षिपेत्।
ततो मृद्वग्निना लेहीभूतेऽवतारिते शीते च तैलसमं मधु कर्षांशं च चतुर्जातकचूर्णं मिश्रयेत्।
एता दन्तीहरीतक्यः सावलेहाः पञ्चविंशत्यहोभिर्भक्ष्यमाणा गुल्मार्शःश्वयथुकुष्ठकामलारोचकग्रहणीपाण्डुहृद्रोगोत्क्लेशप्लीहोदरविषमज्वरानपोहन्ति।
हृद्यं सुखं च विरेचनम्॥

अचि16.31
गुडाक्षीरभावितं वा त्रिवृताचूर्णं सर्पिर्मधुभ्यामवलिह्यात्।
गुग्गुलुं वा गोमूत्रेण पिबेत्।
तेन वा श्यामात्रिवृत्कुष्ठदन्तीगुग्गुलुक्षारहरीतकीः पीलुरसं वा समधुसर्पिर्लवणम्॥

अचि16.32
मूत्रबस्तिक्षारांश्च तांस्तांस्तत्र तत्रोक्तान् क्षीररसस्निग्धाहारो द्व्यहमेकाहं वा विश्राम्य प्रयुञ्जीत।
क्षारो हि श्लेष्माणं स्निग्धस्थिरं मधुरमाशयात् छिन्दन् क्षरयति॥

अचि16.33
कफरुद्धमार्गशुध्यर्थं विविधांश्च चूर्णलवणतक्रारिष्टासवानवचारयेत्।
पिप्पलीपिप्पलीमूलसैन्धवाजाजीचित्रकचूर्णयुक्तां च जीर्णसुराम्।
अपि च॥

अचि16.34
वमनैर्लङ्घनैः स्वेदैः सर्पिष्पानौर्विरेचनैः।
बस्तिभिर्गुटिकाचूर्णक्षारारिष्टासवैरपि॥

अचि16.35
श्लैष्मिकः कृतमूलत्वाद्यदि गुल्मो न शाम्यति।
तस्य दाहं हृते रक्ते कुर्यादन्ते शरादिभिः॥

अचि16.36
अथ वस्त्रान्तरितं सपर्यन्तं गुल्मनिचयं प्रदीप्तेन शरलोहाग्निमन्थतिन्दुककाष्ठानामन्यतमेन नाभिबस्तिहृदयान्त्ररोमराजीः परिहरन् नातिगाढं परामृशेत्।
ततः कषायस्वादुशीतैरग्निवेगमुपशमय्य वर्णोपक्रमं कुर्वीत॥

अचि16.37
व्यामिश्रदोषे तु व्यामिश्रमिदमेव यथोक्तं विदध्यात्॥

अचि16.38
रक्तगुल्मे पुनरतीतप्रसवकालाया योषितः स्नेहस्वेदपूर्वकं स्नेहविरेचनं वितरेत्।
पलाशक्षारोदकसिद्धं च यमकम्।
गुल्मभेदनाय तीक्ष्णोष्णं च विधिम्॥

अचि16.39
एवमभिद्यमाने योनौ योनिविरेचनार्थं क्षारेण महावृक्षक्षीरेण वा युक्तं पललम्।
ताभ्यां वा भावितान् कटुकमत्स्यांस्तत्पित्तभावितान् वा वराहपित्तभावितान् वा नक्तकानूर्ध्वाधोभागिकद्रव्यभावितान् वा।
सगुडक्षारं किण्वं वा।
बस्तिं च सक्षारक्षीरमूत्रं दाशमूलिकमुत्तरबस्तिं च योजयेत्॥

अचि16.40
प्रवृत्तं तु रक्तं रसौदनाशिन्या उपेक्षेत।
अतिप्रवृत्तं तु रक्तं रक्तपित्तोपक्रमेण साधयेत्॥

अचि16.41
सर्वेषु चान्नपानस्वरूपज्ञो गुल्मेष्वाहारमग्निबलापेक्षी प्रयुञ्जीत॥

अचि16.42
आनाहादिष्वप्यामशुद्धवातोदावर्तानुरोधेन गुल्मवत् प्रतिकुर्यादिति।
भवति चात्र॥

अचि16.43
मन्देऽग्नौ वर्धते गुल्मः प्रदीप्ते तु प्रशाम्यति।
शमप्रकोपौ दोषाणां सर्वेषां यत्तदाश्रयौ॥
॥इति षोडशोऽध्यायः॥

अथ सप्तदशोऽध्यायः।

अचि17.1
अथात् उदरचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अचि17.2
सर्वमेवोदरमतिमात्रदोषसञ्चयानुबन्धेन स्रोतोमुखनिरोधाद्व्याकुलानिलतया यत् प्रजायते तस्मादभीक्ष्णमुदरी विरेचनान्युपयुञ्जीत।
मूत्रक्षीरान्यतरयुक्तमेरण्डतैलमहरहर्मासमेकं द्वौ वा क्षीराहारो वा गव्यं वा माहिषं वा मूत्रम्।
उष्ट्रीक्षीरवृत्तिर्वा स्यात्॥

अचि17.3
शोफशूलानाहतृण्मूर्च्छापरीतो विशेषेण पयोऽनुपानं गोमूत्रेण प्राणदां पिबेत्।
पिप्पलीसहस्रं वा स्नुहीक्षीरभावितं सेवेत।
तद्भावितेन वा कृष्णाभयाचूर्णेन कासरम्।
सैन्धवाजमोदयुक्तं वा नैम्बं तैलम्।
अथवार्द्रकरसानुविद्धम्।
सिद्धं वा॥

अचि17.4
हरीतकीचूर्णप्रस्थयुक्तमाढकं घृतस्याङ्गारेष्वभिविलाप्य खजेनाभिमथ्य सुगुप्तं यवपल्ले मासं स्थापयेत्।
ततश्चोद् वृत्य परिस्राव्य हरीतकीक्वाथाम्लदधिप्रतीवापं विपाचयेत्॥

अचि17.5
अथवा गव्ये पयसि महावृक्षक्षीरमावाप्य विपाच्य शीतीभूतमभिमथ्य तं नवनीतं महावृक्षक्षीरेणैव सह साधयेत्॥

अचि17.6
अथवा चविकाचित्रकदन्त्यतिविषाकुष्ठसारिवाविडङ्गत्रिफलाकटुरोहिणीद्विहरिद्राशाङ्खिनीत्रिवृद्दीप्यकानर्धकार्षिकान् राजवृक्षफलमज्जाद्विपलं महावृक्षक्षीरद्विपलं गोमूत्रक्षीरघृतत्रिकुडवं चैकध्यं पाचयेत्।
विद्रध्यष्ठीलानाहकुष्ठोन्मादापस्मारान्निघ्नन्ति॥

अचि17.7
यावशूकपञ्चकोलकषट्पलेन वा मस्तुदशमूलक्वाथाढकद्वयेन च सिद्धं सर्पिःप्रस्थं प्रयोजयेत्॥

अचि17.8
यवकोलकुलत्थपञ्चमूलकषायेण वा सुरासौवीरकयुक्तं सर्पिः॥

अचि17.9
सर्पिष्पानस्रस्ते च दोषे बलवान् विरेचनार्थं मूत्रासवारिष्टसुराः स्नुहीक्षीरयुक्ताः शीलयेत्।
विरेचनद्रव्यकषायं नागरदेवदारुप्रगाढम्।
त्रिलवणादिचूर्णं वा द्वित्रिगुणानुलोमनद्रव्यम्॥

अचि17.10
पटोलमूलरजनीविडङ्गत्रिफलाः कर्षांशाः।
कम्पिल्लकनीलिनीफलत्रिवृतानां क्रमाद् द्वित्रिचतुर्भिः कर्षैर्युक्ताश्चूर्णयित्वा मूत्रेण पिबेत्।
जीर्णे च पेयामण्डपो रसाशी वा स्यात्।
ततः षड्रात्रं सव्योषेण पयसाश्नीयात्।
ततः सप्तमेऽहनि पुनश्चूर्णं पिबेत्।
अनेन विधिना चूर्णमिदमुदराणि जातोदकान्यपि निबर्हयति।
गुल्मभेदनानि च प्रयुञ्जीत॥

अचि17.11
वमनविरेचनशिरोविरेचनवत्सकादिवचाहरिद्रादिवर्गद्रव्याणि पृथक्पालिकानि सूक्ष्मकल्कीकृतानि लवणानि च वज्रवृक्षक्षीरप्रस्थं च प्रक्षिप्य मूत्रगणे मृद्वग्निना घट्टयन् पाचयेत्।
अविदग्धकल्कं च तत्सिद्धमवतार्य शीतीभूतमङ्गुष्ठमात्रां गुटिकां वर्तयित्वा यथाबलं त्रिचतुरो मासानुपयोजयेत्।
एषा मूत्रवर्तिर्महारोगश्वासकासपीनसप्रसेकश्वयथुगुल्मपाण्डुकृमिकोष्ठारोचकाविपाकोदावर्तेषु परममगदम्॥

अचि17.12
कृतविरेचनश्च क्षामदेहोऽन्तरान्तरा क्षीरमौष्ट्रकं गव्यमाजं वा व्योषयुक्तं शीलयेत्।
दोषशेषविजयाय च शीलयेच्चविकानागरं क्षीरेण पिष्टम्।
सुरदारुचित्रकं वा सुरङ्गां वा पुनर्नवं वा त्रिफलादन्तीरौहीतकनिर्यूहं वा व्योषक्षारोपेतं तत् स्नुहीक्षीरघृतयुक्तम्॥

अचि17.13
पुराणमन्नं तक्रमरिष्टांश्च तांस्तान् क्षीरं च दन्तीचित्रकविडङ्गचविकात्रिकटुकोपेतम्।
तुल्यार्द्रकरसं वा क्षीरं शीलयेत्।
पिप्पलीवर्धमानां वा सेवेत।
शिलाजतु वा क्षीराशी गुग्गुलुं वा।
पुनः पुनश्च स्नेहयेद्विरेचयेच्च।
आत्ययिकांस्तु स्नेहविरेकैरेवोपक्रमेत।
सलिलं तु वर्जयेत्।
आनाहोदावर्तयोर्यथास्वं प्रतिकुर्वीत॥

अचि17.14
वातकृतेषु पार्श्वशूलोपस्तम्भहृद्ग्रहेषु बिल्वक्षाराम्भसा तैलं पाचयेत्।
स्योनाकाग्निमन्थतिलकुन्तलकदल्यपामार्गान्यतमक्षारेण वा विपक्वं तैलम्॥

अचि17.15
कफे पित्ते वा वातेनावृते ताभ्यां वा वाते बलवान् वातगुल्मोक्तक्रमेणैरण्डतैलं पिबेत्॥

अचि17.16
लिम्पेच्च जठरमुदरिणां शिग्रुपलाशार्काश्वकर्णगजपिप्पलीदेवदारुभिर्मूत्रपिष्टैः सुखोष्णैः।
वृश्चिकालीकुष्ठषड्ग्रन्थाद्विपुनर्नवधान्यनागरपञ्चमूलक्वाथैर्मूत्रैश्च परिषेचयेत्।
प्रततमेव च स्वेदयेत्॥

अचि17.17
विरिक्तस्य चास्य सदा म्लानमुदरं साल्वलादिभिरुपनद्धं घनेन वाससा वेष्टयेत्।
एवमेनमनवकाशो वायुर्न पुनराध्मापयति।
तथापि पुनः सुविरिक्तस्याध्मानेऽम्ललवणान् सुस्निग्धान् निरूहान् दद्यात्।
सोपस्तम्भे तु वायौ तीक्ष्णोष्णान्॥

अचि17.18
अथ वातोदरिणं विदार्यादिसिद्धेन सर्पिषोपस्नेह्य स्वेदिताङ्गं तिल्वकघृतेन बहुशोऽनुलोमयेत्।
कृतायां च संसर्ग्यां बलार्थं क्षीरमवचारयेत्।
निवर्तयेच्च प्रागुत्क्लेशात् क्रमेण।
ततो यूषरसादिभिर्मन्दाम्ललवणैः समिद्धानलमुदावर्तिनं पुनः स्निग्धस्विन्नमास्थापयेद्विदार्यादिक्वाथेन चित्राफलतैलप्रगाढेन तीक्ष्णोष्णाधोभागिकद्रव्ययुक्तेन वा दाशमूलिकेन॥

अचि17.19
दीप्ताग्निं च बद्धमलमस्थिसन्धित्रिकपार्श्वादिशूलस्फुरणाक्षेपयुक्तं रूक्षमनुवासयेद्वातहराम्लसिद्धाभ्यां तिलोरुबूकतैलाभ्याम्।
भोजयेच्चैनं जाङ्गलरसेन विदार्यादिशृतेन वा पयसा॥

अचि17.20
सरलमधुशिग्रुमूलकबीजस्नेहाश्च पानाभ्यञ्जनेन शूलघ्नाः।
स्वेदयेच्चाभीक्ष्णं जठरम्॥

अचि17.21
अविरेच्यस्य तु पयःसर्पिर्यूषरसबस्त्यभ्यङ्गसमभक्तौषधैः संशमयेत्॥

अचि17.22
पित्तोदरिणं मधुरविपक्वेन सर्पिषोपस्नेह्य श्यामात्रिवृत्त्रिफलाविपक्वेनानुलोम्यैनं मधुघृतसिताढ्येन न्यग्रोधादिनिर्यूहेणास्थापयेदनुवासयेच्च॥

अचि17.23
दुर्बलं तु प्रागेवानुवास्य क्षीरबस्तिभिः शोधयेत्॥

अचि17.24
सञ्जातबलाग्निं च स्निग्धं पुनःक्षीरेण सत्रिवृत्ककेनोरुबूकशृतेन वा।
सातलात्रायमाणाभ्यां वारग्वन्धेन वा सश्लेष्मणि पित्ते समूत्रेण सवाते तिक्तघृतान्वितेन पयसा पुनःपुनर्विरेचयेत् बस्तिकर्म चाचरेत्॥

अचि17.25
एभिरेव क्षीरैर्विदार्यादिशृतेन वा भोजयेत्।
पायसेन चोपनाहयेदुदरम्॥

अचि17.26
श्लेष्मोदरिणं वत्सकादिसिद्धेन सर्पिषोपस्नेह्य स्नुहीक्षीरविपक्वेनानुलोम्य कटुक्षारयुक्तैः कफहरैराहारैः संसर्ज्य त्रिकटुमूत्रतैलप्रगाढेन मुष्ककादिक्वाथेनास्थापयेदनुवासयेच्च।
कुलत्थयूषेण व्योषवता क्षीरेण वा भोजयेत्।
स्त्यानकफोदरं क्षारमरिष्टांश्च तीक्ष्णान् पाययेत्।
सततं च स्वेदयेत्।
किण्वसर्षपमूलकबीजकल्कैर्जठरमुपनाहयेत्॥

अचि17.27
सान्निपातिकमुदरं प्रत्याख्याय चिकित्सेत्।
सर्वमेवेत्येके सर्वस्य सर्वात्मकत्वात् कृच्छ्रतमत्वाच्च।
दोषोद्रेकतस्तु प्रतिकुर्वीत॥

अचि17.28
सप्तलाशङ्खिनीनिर्याससिद्धेन च सर्पिषा विरेचयेन्मासमर्धमासं वा।
महावृक्षक्षीरमूत्रसिद्धेन वा॥

अचि17.29
अथावाजगन्धाजशृङ्गीदन्तीद्रवन्तीस्वादुकण्टकपुनर्नवाझरसीवृश्चिकालीमूषिकपर्णीमहासहाक्षुद्रसहावृक्षादिनीभार्ङ्गीगृध्रनखीतण्डुलीयकदाडिममातुलुङ्गमूलक्वाथेन मदनफलैलाकुष्ठकुटिलरास्नाकल्कगोमूत्रसंसृष्टेन सैन्धवलवणितेनस्निग्धेनास्थापयेत्॥

अचि17.30
तथा चानुपशाम्यति निचयात्मके सर्वत्र च जठरे ज्ञातीनाश्राव्य मद्येनाश्वमारकगुञ्जाकाकादनीमूलकल्कं पाययेत्।
पानभोजनेषु वा विषं निक्षिपेत्।
इक्षुगण्डिकां वा भक्षयेत् कृष्णसर्पेण दंशयित्वा वल्लीफलानि वा मूलकं वा॥

अचि17.31
एवं ह्यस्य दोषसङ्घातः स्थिरो लीन उन्मार्गगो विषेणाशु प्रमाथिना विभिन्नो बहिः प्रवर्तते।
तेनागदतां व्रजति।
भवान्तरं वा॥

अचि17.32
हृतदोषं च शीताम्बुपरिषिक्तं क्षीरयवागूं पाययेत्।
ततस्त्रिवृद्वास्तुकमण्डूकपर्णीकालशाकयवशाकानामन्य तमं स्वरससाधितमनम्ललवणस्नेहं स्विन्नास्स्विन्नमनन्नभुङ्मासमेकमश्नीयात्।
तत्स्वरसमेव च तृषितः पिबेत्।
ततः शाकैर्निर्हृते दोषे परतो दुर्बलाय कारभं क्षीरं प्रयुञ्जीत॥

अचि17.33
प्लीहोदरे यथादोषमुपस्निग्धस्विन्नस्य दध्ना भुक्तवतो वामबाहौ सिरां विध्येत्।
रुधिरस्यन्दनार्थं च पाणिना प्लीहानं विमर्दयेत्।
पुनश्च स्नेहपीतं विशुद्धदेहं समुद्रशुक्तिक्षारं पयसा पाययेत् हिङ्गु सुवर्चिकां वा।
पलाशक्षारोदकेन वा यवक्षारम्॥

अचि17.34
पारिजातकेक्ष्वाक्वपामार्गक्षारं वा तैलसंसृष्टम्।
सौभञ्जनकनिर्यूहं वा पिप्पलीचित्रकसैन्धवचूर्णयुक्तम्।
अम्लस्रुतं वा बिडमागधिकाढ्यं पूतिकरञ्जक्षारम्।
अग्निसादे तु त्रिलवणादिं क्षारानरिष्टांश्च पिबेत्।
घृतं षट्पलं महाषट्पलं रोहीतकषट्पलं वा॥

अचि17.35
रोहीतकत्वक्पलानि पञ्चविंशतिं कोलप्रस्थद्वयं च तोये क्वाथयेत् तेन क्वाथेन तथा पालिकैः पञ्चकोलकैस्तैः सर्वैश्च तुल्यया रोहीतकत्वचा कल्कीकृतैर्घृतप्रस्थं साधयेत्।
तत् परं प्लीहहितम्॥

अचि17.36
रोहीतकलताः खण्डशः कल्पिताः हरीतकीश्च तोये गोमूत्रे वा सप्तरात्रमासुनुयात्।
स रसः प्लीहगुल्मोदरकृमिमेहकामलार्शांसि साधयति।
एवमनुपशाम्यत्यप्राप्तपिच्छोदके वातकफोल्बणे गुल्मविधिनाग्निकर्म कुर्यात्॥

अचि17.37
पित्तोल्बणे तु जीवनीयघृतक्षीरबस्तिविरेचनानि प्रयुञ्जीत।
पुनःपुनश्च रुधिरमवसेचयेत्।
यकृदाख्येऽप्ययमेव क्रियाविभागः॥

अचि17.38
बद्धोदरे स्विन्नाय सतैललवणमूत्रं तीक्ष्णं निरूहमनुवासनं च दद्यात्।
स्रंसनानि चान्नान्युदावर्तहराणि च तीक्ष्णं च विरेचनं यच्च किञ्चिद्वातघ्नम्॥

अचि17.39
छिद्रोदरे स्वेदवर्ज्यं कफोदरवदाचरेत्।
दकोदरेतु पूर्वमुदकदोषहरणार्थं रूक्षतीक्ष्णौषधान् समूत्रान्निर्यूहचूर्णक्षारान् कफघ्नानि दीपनीयानि चान्नपानानि योजयेत्॥

अचि17.40
एवमसिद्धौ बद्धच्छिद्रदकोदरेष्वश्मर्यामिव सुहृदां प्रकाश्य शस्त्रमवचारयेत्।
तत्र बद्धच्छिद्रोदरयोः स्निग्धस्विन्नस्याधो नाभेश्चतुरङ्गुलानि वामतोऽपहायोदरं पाटयित्वा चतुरङ्गुलप्रमाणमान्त्राणि निष्कास्य निरीक्ष्य बद्धगुदोदरस्यान्त्रप्रतिरोधकरं बालं मलोपलेपमश्मानं चापहरेत्।
परिस्राविणि शल्यमुद्धृत्यान्त्रपरिस्रावं विशोध्य तच्छिद्रं मर्कोटकैर्दंशयेत्।
लग्नेषु च शिरस्सु कायमपनयेत्।
ततो मधुघृताभ्यामभ्यज्यान्त्राणि यथास्थानं स्थापयित्वा बाह्यं व्रणमुदरस्य सीव्येत्।
यष्टीमधुकमिश्रया च कृष्णमृदा व्रणमभिलिप्य बध्नीयात्।
अथ निवातमागारं प्रवेश्य क्षीरवृत्तिं स्नेहद्रोण्यां वासयेत्॥

अचि17.41
दकोदरे सवषु च जातोदकेषु जठरेषु वातहरतैलाभ्यक्तस्योष्णोदकस्विन्नस्याप्तैः परिगृहीतस्याकक्ष्यातः पटवेष्टितोदरस्याधो नाभेर्वामतश्चतुरङ्गुलमपहाय व्रीहिमुखेनाङ्गुष्ठोदरमात्रमवगाढं विध्वा नाडीं निधाय दोषोदकमर्धमात्रमवसिञ्चेत्।
ततोनाडीमुद्धृत्य तैललवणेनाभ्यज्य व्रणं बन्धनेनोपचरेत्॥

अचि17.42
सहसा सर्वस्निम् विस्राविते तृष्णा ज्वरोऽङ्गमर्दोऽतीसारः श्वासः कासः पाददाहो वा जायते।
पूर्यते च सुतराम्।
अतस्तृतीयचतुर्थपञ्चमषष्ठाष्टमद्वादशषोडशरात्राणामन्यतममन्तरं कृत्वा दोषोदकमल्पशो विस्रावयेत्।
निस्रुते च दोषोदके विमृद्योदरमाविककौशेयचर्मणामन्यतरेण गाढतरं वेष्टयेत्।
तथा नाध्मापयति वायुः।
लङ्घयित्वा च यवागूमल्पस्नेहलवणां मात्रया पाययेत्।
ततः परं षण्मासान् क्षीरवृत्तिर्भवेत्।
ततो मासत्रयं क्षीरपेयां पिबेत्।
अन्यच्च मासत्रयमल्पलवणमल्पक्षीरं श्यामाकं कोरदूषं वा भुञ्जीतेति।
भवति चात्र॥

अचि17.43
प्रयतो वत्सरेणैवं विजयेत जलोदरम्।
वर्ज्येषु यन्त्रितो दिष्टे नात्यदिष्टे जितेन्द्रियः॥

अचि17.44
सर्वमेवोदरं प्रायो दोषसङ्घातजं यतः।
अतो वातादिशमनी क्रिया सर्वत्र शस्यते॥

अचि17.45
वह्निर्मन्दत्वमायाति दोषैः कुक्षौ प्रपूरिते।
तस्मात् भोज्यानि योज्यानि दीपनानि लघूनि च॥

अचि17.46
सपञ्चमूलान्यल्पाम्लपटुस्नेहकटूनि च।
भावितानां गवां मूत्रे षष्टिकानां च तण्डुलैः॥

अचि17.47
यवागूं पयसा सिद्धां प्रकामं भोजयेन्नरम्।
पिबेदिक्षुरसं चानु जठराणां निवृत्तये॥

अचि17.48
स्वं स्वं स्थानं व्रजन्त्येषां वातपित्तकफास्तथा।
अत्यर्थोष्णाम्ललवणं रूक्षं ग्राहि हिमं गुरु॥

अचि17.49
गुडं तिलकृतं शाकं वारि पानावगाहयोः।
आयासाध्वदिवास्वप्नयानयानानि च त्यजेत्॥

अचि17.50
नात्यच्छसान्द्रमधुरं पान तक्रं प्रशस्यते।
सकणालवणं वाते पित्ते सोषणशर्करम्॥

अचि17.51
यवनीसैन्धवाजाजीमधुव्योषैः कफोदरे।
त्र्यूषणक्षारलवणैः संयुक्तं निचयोदरे॥

अचि17.52
मधुतैलवचाशुण्ठीशताह्वाकुष्ठसैन्धवैः।
प्लीह्नि बद्धे तु हपुषायवानीपट्वजाजिभिः॥

अचि17.53
सकृष्णामाक्षिकं छिद्रे व्योषवत्सलिलोदरे।
गौरवारोचकानाहमन्दवह्न्यतिसारिणाम्।
तक्रं वातकफार्तानाममृतत्वाय कल्पते॥

अचि17.54
प्रयोगाणां च सर्वेषामनु क्षीरं प्रयोजयेत्।
स्थैर्यकृत् सर्वधातूनां बल्यं दोषानुबन्धहृत्।
भेषजापचिताङ्गानां क्षीरमेवामृतायते॥
॥इति सप्तदशोऽध्यायः॥

अथ अष्टादशोऽध्यायः।

अचि18.1
अथातः पाण्डुरोगचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अचि18.2
पाण्ड्वामयिनमादौ कल्याणकपञ्चगव्यतिक्तकानामन्यतमं सर्पिः पाययेत्।
दाडिमसारतः कुडवं धान्यकार्धकुडवं पिप्पल्यष्टमिकां शुण्ठीचित्रकयोश्च पलं पलमेकतः कल्कीकृत्य तोयाढके विंशतिपलं घृतस्य सिद्धं हृत्पाण्डुरोगगुल्मप्लीहार्शःश्वासकासमूढवातवातकफार्तिहरमग्निदीपनं वन्ध्यानां सम्मतं दुःखप्रसविनीनां च॥

अचि18.3
दुरालभाचन्दनपटोलत्रायमाणागुडूचीकिराततिक्तरोहिणीघननिशाद्वयेन्द्रयवदेवदारुपर्पटकाजमोदैः कार्षिकैः क्षीराढके घृतप्रस्थं साधयेत्।
पाण्डुरोगकामलारक्तपित्तज्वरदाहासृग्दरविस्फोटश्वयथुभगन्दरार्णोघ्नम्॥

अचि18.4
स्निग्धं चैनं तीक्ष्णिर्वामयेत्।
पुनश्च स्निग्धं मूत्रयुक्तं गव्यं माहिषं वार्धमासं पयः पाययेत्।
मागधिकाशृतं वा।
मूत्रसिद्धां वा त्रिफलाम्।
सप्ताहं मूत्रेण वा हरीतकीः कल्किताः।
स्वर्णक्षीरीभद्रद्रारुनागरश्यामात्रिवृन्मूलानि तेनैव वा क्वथितानि।
एभिर्वा शृतं पयः॥

अचि18.5
वत्सकबीजविशालाकुष्ठकटुकादारुमुस्तानां समा भागाः मूर्वाभागद्वयमतिविषाभागार्धं च चूर्णितं सुखाम्बुना पीत्वा क्षौद्रमनुलिह्यात्।
एतत् पाण्डुकामलाज्व्रारुचिगुल्मानाहामवातरक्तपित्तकासश्वासानपोहति॥

अचि18.6
त्रिकटुककालतिललोहैर्वा माक्षिकधातुतुल्यैर्माक्षिकेणवटकाव्योषकाग्निविडङ्गभागा नव नव चायसचूर्णभागा मधुघृताभ्यां तक्रेणोष्णोदकेन वोपयुक्ता हृत्पाण्डुरोगकामलाकुष्ठार्शःशोफोदरप्लीहमेहहराः॥

अचि18.7
माक्षिकधातुचविकादारुदार्वीत्वग्ग्रन्थिकान् त्रिफलादीनि च नव विचूर्ण्य चूर्णाद्द्विगुणं च सुश्लक्ष्णं पृथङ्मण्डूरं ततो गोमूत्रं सर्वतोऽष्टगुणं पक्त्वा तस्मिंस्तत् क्षिपेत्।
अनन्तरं च वटकान् कुर्यात्।
ते तक्रानुपानमभ्यस्ताः परमौषधं पाण्ड्वामयिनां शोफार्शःकुष्ठकामलामेहप्लीहाढ्यवातकफार्तानां च॥

अचि18.8
शिलाजतुताप्यरूप्यायोमलाः पृथक् पञ्चपलिकास्त्रिफलादयश्च विगतघनाः पलांशाः श्लक्ष्णरजसः सितोपलापलाष्टकयुक्ताः क्षौद्रद्रुता योगराजः।
कुलत्थादियूषाशिना यथाग्न्यभ्यवहृतः समानः पूर्वेण।
यक्ष्मविषविषज्वरकासश्वासापस्मारहरश्च॥

अचि18.9
त्रिफलाकुटजफलघनपटोलपिचुमन्दमहौषधकषायैर्मासमर्धमासं वा भावितान्यष्टौ शिलाह्वयपलानि समसितान्युपकुल्यातुगाक्षीरीधात्रीफलकर्कटकशृङ्ग्यः पृथक् पलांशाः निदिग्धिकाफलमूलयोः पलं त्रिजातकत्रिकर्षं च क्षौद्रत्रिपलयुक्तान् वटकान् वर्तयेत्।
ते दाडिमाम्बुक्षीररससलिलसुरासवान्यतमानुपाना वज्राभिधाना वज्रमिवानन्तरोक्तान् रोगान् दारयन्ति।
हृद्रोगगलरोगगरोदरासृग्दरभगन्दरगुल्मवर्ध्मशुक्रमूत्रदोषांश्च॥

अचि18.10
द्राक्षापिप्पलीप्रस्थद्वयं शर्करार्धतुलां तवक्षीरीनागरमधुकानि च द्विपलिकानि चूर्णयित्वामलकरसद्रोणे प्रक्षिप्य मृद्वग्निना पचेत्।
लेहीभूते शीते च तस्मिन् मधुप्रस्थमावपेत्।
त्रिसुगन्धिकस्य कर्षत्रयं च चूर्णीकृत्य दर्व्या परिघट्य जातीपुष्पादिवासिते मृद्भाण्डे निदध्यात्।
अयं द्राक्षालेह उपयुज्यमानः पाण्ड्वामयहृद्रोगकामलाहलीमकज्वरगुल्मोदरशोफोदावर्तादीनपरानपि विरेकसाध्यान् व्याधीन् प्रसह्य वायुरिवाभ्राण्यपहरति॥

अचि18.11
भोजनं तु सात्म्यतः शालियवगोधूममुद्गजाङ्गलमांसानि पयो घृतं वृषपटोलवेतपर्पटशाकं द्राक्षादाडिमखर्जूरामलकरसानि।
पानमनुपञ्चमूलसिद्धं वारि वाताधिके।
घनद्रीबेरशुण्ठीसाधितं पित्तोत्तरे।
श्लेष्मण्यरिष्टसीधुमार्द्वीकासवाः।
सर्वत्र वा तक्रम्॥

अचि18.12
बीजकसारप्रस्थम्।
वरायाः पलानि पञ्चविंशतिः।
पञ्च द्राक्षाया बलायाः सप्त जलद्रोणे पक्त्वा पादशेषं तेभ्यो रसमादाय पूतशीतेऽस्मिन् शर्करातुलां मधुप्रस्थं कर्षांशानि च चूर्णितानि व्योषव्याघ्रनखोशीरक्रमुकैलावालुककुष्ठमधुकानि निक्षिप्य घृतभाजने सर्वमैकध्यं यवपल्ले ग्रीष्मे दशरात्रं विंशतिरात्रं शीते स्थापयेत्।
अयं बीजकसारारिष्टः पाण्डुकामलामेहहृद्रोगवातशोणितविषमज्वरारोचककासश्वासान् निबर्हति॥

अचि18.13
गण्डीरतरोः समूलपुष्पशाखस्य तुलामाहरेत्।
अर्धतुलां दशमूलस्य त्रिफलायाः पृथगर्धप्रस्थ कुटजत्वचश्च।
कुडवांशान् मुस्तारुष्करकृमिघ्नेन्द्रयवान्।
पालिकान् पाठादन्तीमधुरसारास्नाशठीचित्रकान्।
मृद्वीकार्धप्रस्थं च षोडशगुणे पादशेषमम्भसि विपाच्य रसमाददीत।
तं पूतशीतं सितोपलातुलाद्वयेन लोहचूर्णप्रस्थेन च युक्तं मागधिकार्धप्रस्थेन श्लक्ष्णपिष्टेन ग्रन्थिकपलेनार्धपलिकैश्च मरिचविडङ्गैलवालुकैः प्रलिप्ते घृतकुम्भे निधापयेत्।
मासमात्रं स्थितोऽयं गण्डीरारिष्टोऽधिकगुणः पूर्वस्मात्।
ग्रन्थ्यर्बुदकृमिहरश्च॥

अचि18.14
अथवा चव्यकुष्ठचित्रकप्रलिप्ते भाजने मस्तुद्रोणं गुडतुलां पिप्पलीप्रस्थत्रयं त्रिफलाप्रस्थत्रयं विडङ्गप्रस्थत्रयं कुडवांशांश्च मरिचपरूषकद्राक्षाकाश्मर्यफलेन्द्रयवान् द्विपलिकानि च दन्तीचित्रकभल्लातकानि चूर्णितानि प्रक्षिपेत्।
ततो यवपल्लस्थं पक्षमुपेक्ष्य यथाबलं पिबेत्।
एष मस्त्वरिष्टः पाण्डुरोगमेहस्थौल्यमेदोर्शोग्रहणीप्लीहशोफोदरभगन्दरहरः।
परमं चाग्निदीपन इति॥

अचि18.15
भवति चात्र।
पाण्डुरोगप्रशान्त्यर्थं विहितं यच्चिकित्सितम्।
विकल्प्यमेतद्विदुषा पृथग्दोषबलं प्रति॥

अचि18.16
स्नेहप्रायं पवनजे तिक्तशीतं तु पत्तिके।
श्लैष्मिके कटुरूक्षोष्णं विमिश्रं सान्निपातिके॥

अचि18.17
मृदं निर्घातयेत् कायात्तीक्ष्णैः संशोधनैः पुरः।
बलाधानानि सर्पींषि शुद्धे कोष्ठे तु योजयेत्॥

अचि18.18
व्योषबिल्वद्विरजनीत्रिफलाद्विपुनर्नवम्।
मुस्तान्ययोरजः पाठा विडङ्गं देवदारु च॥

अचि18.19
वृश्चिकाली च भार्ङ्गी च सक्षीरैस्तैः शृतं घृतम्।
सर्वान् प्रशमयत्याशु विकारान् मृत्तिकाकृतान्।
तद्वत् केसरयष्ट्याह्वपिप्पलीक्षीरशाद्वलैः॥

अचि18.20
मृद्द्वेषणाय तल्लौल्ये वितरेद्भावितां मृदम्।
विडङ्गेनातिविषया पाठया निम्बपल्लवैः॥

अचि18.21
वार्ताकैः कटुरोहिण्या कौटजैर्मूर्वयाथवा।
मृद्भेदाभिन्नदोषानुगमाद्योज्यं च भेषजम्॥

अचि18.22
कामलायां तु पित्तघ्नं पाण्डुरोगाविरोधि यत्।
पथ्याशतरसे पथ्यावृन्तार्धशतकल्कितः।
प्रस्थः सिद्धो घृताद् गुल्मकामलापाण्डुरोगजित्॥

अचि18.23
दन्तीचतुष्पलरसे पिष्टैर्दन्तीशलाटुभिः।
घृतप्रस्थः शृतस्तद्वत् प्लीहाश्वयथुजिच्च सः॥

अचि18.24
पुराणसर्पिषः प्रस्थो द्राक्षार्धप्रस्थसाधितः।
कामलागुल्मपाण्ड्वर्तिज्वरमेहोदरापहः॥

अचि18.25
हरिद्रात्रिफलानिल्बबलामधुकसाधितम्।
सक्षीरं माहिषं सर्पिः कामलाहरमुत्तमम्॥

अचि18.26
गोमूत्रे द्विगुणे दार्वीकल्कार्धपलसाधितः।
दार्वीपञ्चपलक्वाथे कल्के कालीयके परः॥

अचि18.27
माहिषात्सर्पिषः प्रस्थः पूर्वः पूर्वे परः परे।
सिद्धं कालीयकक्वाथे सनिशं चोत्तरे हितम्॥

अचि18.28
आरग्वधं रसेनेक्षोर्विदार्यामलकस्य वा।
सत्र्यूषणं बिल्वमात्रं पाययेत् कामलापहम्॥

अचि18.29
पिबेन्निकुम्भकल्कं वा द्विगुडं शीतवारिणा।
कुम्भस्य चूर्णं सक्षौद्रं त्रैफलेन रसेन वा।
सशर्करां त्रिभाण्डीं वा गवाक्षीं वा प्रयोजयेत्॥

अचि18.30
त्रिफलाया गुडूच्या वा दार्व्या निम्बस्य वा रसम्।
प्रातः प्रातर्मधुयुतं कामलार्ताय योजयेत्॥

अचि18.31
तिलपिष्टनिभं यस्तु कामलावान् सृजेन्मलम्।
कफरुद्धपथं तस्य पित्तं कफहरैर्जयेत्॥

अचि18.32
रूक्षशीतगुरुस्वादुव्यायामचलनिग्रहैः।
कफसम्मूर्छितो वायुर्यदा पित्तं बहिः क्षिपेत्॥

अचि18.33
हारिद्रनेत्रमूत्रत्वक्श्वेतवर्चास्तदा नरः।
भवेत्साटोपविष्टम्भो गुरुणा हृदयेन च॥

अचि18.34
दौर्बल्याल्पाग्निपार्श्वार्तिहिध्माश्वासारुचिज्वरैः।
क्रमेणाल्पेऽनुषज्येत पित्ते शाखासमाश्रिते॥

अचि18.35
रसैस्तं रूक्षकट्वम्लैः शिखितित्तिरिदक्षजैः।
शुष्कमूलकजैर्यूषैः कुलत्थोत्थैश्च भोजयेत्॥

अचि18.36
भृशाम्लतीक्ष्णकटुकलव्णोष्णं च शस्यते।
सबीजपूरकरसं लिह्याद्व्योषं तथाशयम्॥

अचि18.37
स्वं पित्तमेति तेनास्य शकृदप्यनुरज्यते।
वायुश्च याति प्रशमं सहाटोपाद्युपद्रवैः।
निवृत्तोपद्रवस्यास्य कार्यः कामलिको विधिः॥

अचि18.38
गोमूत्रेण पिबेत् कुम्भकामलायां शिलाजतु।
मासं माक्षिकधातुं वा किट्टं वाथ हिरण्यजम्॥

अचि18.39
गुडूचीस्वरसक्षीरसाधितेन हलीमकी।
महिषीहविषा स्निग्धः पिबेद्धात्रीरसेन तु॥

अचि18.40
त्रिवृतां तद्विरिक्तोऽद्यात् स्वादु पित्तानिलापहम्।
द्राक्षालेहं च पूर्वोक्तं सर्पींषि मधुराणि च॥

अचि18.41
यापनान् क्षीरबस्तींश्च शीलयेत्सानुवासनान्।
मार्द्वीकारिष्टयोगांश्च पिबेद्युक्त्याग्निवृद्धये॥

अचि18.42
कासिकं चाभयालेहं पिप्पलीं मधुकं बलाम्।
पयसा च प्रयुञ्जीत यथादोषं यथाबलम्।
पाण्डुरोगेषु कुशलः शोफोक्तं च क्रियाक्रमम्॥
॥इति अष्टादशोऽध्यायः॥

अथ एकोनविंशोऽध्यायः।

अचि19.1
अथातः श्वयथुचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अचि19.2
श्वयथुषु दोषजेषु सर्वेषु सर्वसरेष्वामानुबद्धेषु लङ्घन पाचनशोधनान्यादौ योजयेत्।
स्नेहजेषु विरूक्षणान्यौषधानि विरूक्षणोत्थेषु स्नेहनानि।
तत्रामजेषु लङ्घितवतो लघ्वन्नमशितस्य भद्रदारुनागरमरिचप्रतिविषाविडङ्गेन्द्रयवानुष्णाम्बुना।
नागरदेवदारुपथ्यावर्षाभ्वो वा।
पञ्चकोलकाजाजीनिदिग्धिकामुस्तपाठारजनीर्वा।
मूत्रवर्तिं वा नवायसं वा।
गुरुभिन्नपुरीषस्तु तक्रं सव्योषसौवर्चलक्षौद्रम्।
गुडहरीतकीं वा शीलयेत्॥

अचि19.3
इतरस्त्रिवृत्त्र्यूषणकटुरोहिण्ययश्चूर्णानि त्रिफलाक्वाथेन।
व्योषयवक्षारायोरजांसि वा।
बिभीतककल्कं वा तण्डुलाम्बुना।
गुग्गुलुं वा गोमूत्रेण।
हरीतकीं वा।
तुल्यगुडां वा शुण्ठीं पुनर्नवकषायानुपानाम्।
आर्द्रकं वा तुल्यगुडमर्धपलाभिवृद्धं पञ्चपलप्रकर्षं प्रयुञ्जीत।
मासमयं प्रयोगः शोफशोषार्शः श्वासकासप्रसेकपीनसालसकाग्निसादगुल्मोदरप्रमेहपाण्डुकामलामनोविकारानपहरति।
आर्द्रकरसं वा शालिक्षीराहारः पिबेत्॥

अचि19.4
निवृत्तामदोषः शृतानि पयांसि सर्पींषि च।
त्रिकटुकैरण्डश्यामामूलैः सिद्धं क्षीरम्।
महौषधमुरुङ्गीमूलाभ्यां वा।
वर्षाभूमयूरकपञ्चकोलैर्वा।
कुम्भनिकुम्भव्योषाग्निकैर्वा करभीक्षीरवृत्तिर्वा स्यात् गोमूत्रं महषीमूत्रं वा सक्षीरं क्षीराशनः पिबेत्॥

अचि19.5
दाडिमयवानीयवानकधनिकापाठाम्लवेतसमरिचपञ्चकोलबिल्वफलयावशूकानक्षमात्रान् सलिलाढके विपाच्य तत्कषायेण घृतप्रस्थं साधयेच्छोफार्शोगुल्ममेहाग्निसादहरम्।
अर्शोविहितविधिना चित्रकदध्नो नवनीतमाददीत।
तच्चित्रकमूलगर्भं सचित्रककल्कतक्रसिद्धं समानं पूर्वेण॥

अचि19.6
यथादोषोच्छ्रयं च धान्वन्तरं कल्याणकं पञ्चगव्यं तिक्तं महातिक्तमुदरोक्तानि वा तिल्वकचतुर्थानि घृतानि पाययेत्॥

अचि19.7
दशमूलक्वाथकंसे पथ्याशतं गुडतुलोन्मिश्रमाधिश्रयेत्।
लेहीभूते तत्र त्रिकटुकत्रिजातकयवक्षारचूर्णं प्रक्षिपेत् क्षौद्रार्धप्रस्थं च।
एता दशमूलहरीतक्योऽतिप्रवृद्धमपि श्वयथुमुदरारोचकाविपाकपाण्डुरोगगुल्ममेहश्वासकासकार्श्यामवाताम्लपित्तमूत्रशुक्रदोषांश्च निघ्नन्ति॥

अचि19.8
शठीपुष्करमूलकारवीचित्रकाजाजीजीवन्तीबिल्वमध्ययवक्षारवृक्षाम्लैर्दशमूलेन च परिगृहीतानि घृततैलभृष्टानि पेयादीन्यन्नान्यल्पस्नेहलवणान्युपकल्पयेत्।
स्पर्शसुखांश्चाभ्यङ्गप्रदेहसेकान्॥

अचि19.9
शैलेयस्थौणेयकश्रीवेष्टकागरुदेवदारुहरेणुकाकुष्ठध्यामकपद्मकमांसीमागधिकावन्यधान्यतालीसपत्रकचतुर्जातकपलाशाम्बुदाम्बुप्रियङ्गुस्पृक्कानखैः श्लक्ष्णपिष्टैस्तैलमभ्यङ्गं पचेत्।
तैश्च प्रदेहं कुर्यात्।
सर्षपसौवर्चलसैन्धवशार्ङ्गेष्टाभिश्च।
केवलैर्वाक्षमज्जाभिः॥

अचि19.10
विशेषतश्चैकाङ्गजेषु पुनर्नवहिंस्राकोशातकीकरवीरकिंशुकातिविषर्धिवृद्धिमूषिकपर्णीहस्तिकर्णनलिकानाकुलीस्थूलकाकादनीसालत्रिफलादेवदारुलोध्रतालपर्णीदशपत्रिकाजयन्तीभिः प्रलेपः॥

अचि19.11
मूलकतोयेन कवोष्णेन वृक्षकार्कनक्तमालनिम्बवर्षाभूक्वाथेन वा स्नानम्॥

अचि19.12
अथानिलजे श्वयथौ त्रिवृतमेरण्डतैलं वार्धमासं मासं वा पिबेत्।
एरण्डतैलमेव च विड्वातसङ्गे प्राग्भक्तं पयसा रसैर्वा।
वातहराभ्यङ्गस्वेदोपनाहांश्च कुर्यात्।
विशेषेण चैकाङ्गगे मातुलुङ्गाग्निमन्थशुण्ठी देवदारुहिंस्राप्रलेपः॥

अचि19.13
पित्तजे न्यग्रोधादिसिद्धं सर्पिः पिबेत्।
तिक्तकं वा।
मूर्छारतितृड्दाहेषु क्षीरम्।
तदेव तु स्रंसनार्थी मूत्रयुक्तम्। अभयामरदारुमधुककटुकादन्तीचन्दननिचुलपटोलमूर्वादार्वीत्रायमाणोपकुल्याविशालाक्वाथः ससर्पिरुपयुक्तः श्वयथुविषवीसर्पज्वरदाहपिपासान्तःसन्तापसन्निपातानुपशमयति।
घृतक्षीरक्षीरिवृक्षवेतसमञ्जिष्ठामृणालचन्दनादिभिः शीतवीर्यैः कल्पयेदभ्यङ्गादीन्॥

अचि19.14
कफोत्थे त्वारग्वधादिसाधितं तैलं पिबेत्।
क्षारमूत्रतक्रासवारिष्टांश्च।
भल्लातकचित्रकव्योषविडङ्गबृहतीफलानि पृथक् प्रस्थांशान्यच्छधान्याम्लद्रोणे गोमयाग्निना त्रिभागशेषमवतारयेत्।
तत्पूतशीतं मस्तुकलशेन सितोपलातुलया च युक्तमग्निकमागधिकाकल्कलिप्ते दृढे भाण्डे समावाप्य वैहायसे सुगुप्तं स्थापयेत्।
ततो दशाहस्थितोऽयमुपयुक्तो भल्लातकारिष्टः शोफोदरार्शोभगन्दरग्रहणीकृमिकुष्ठमेहकार्श्यकिक्कसान् सत्वरमपनयति॥

अचि19.15
त्रिफलामरिचद्राक्षापिप्पलीकाश्मर्यफलानां प्रत्येकं शतं गुडतुलामुदकद्रोणं च मधुलिप्तभाजनस्थं सप्ताहमुष्णे काले द्विसप्ताहं शीते धारयेत्।
अयमष्टशतरिष्टः समानः पूर्वेण।
पुराणपिण्याककृष्णाशिग्रुत्वगतसीसिकता मूत्रपिष्टाः सुखोष्णाः प्रलेपे दद्यात्।
एक्राङ्गगे तु कालासरलाजशृङ्ग्यजगन्धाश्वगन्धैकैषिकाः।
शुण्ठीकुलत्थतर्कारीकुष्ठार्जकचित्रकजलमूत्राणि स्नाने।
चण्डागरुणी विलेपने॥

अचि19.16
संसर्गसन्निपातयोर्यथादोषोदयमिदमेव साधनम्।
एकदेशाश्रये च श्वयथौ यथासन्नं वमनादीनि रक्तावसेचनं च कुर्वीतेति।
भवति चात्र॥

अचि19.17
प्रायोऽभिघातादनिलः सरक्तः शोफं सरागं प्रकरोति तत्र।
विसर्पनुन्मारुतरक्तनुच्च कार्यं विषघ्नं विषजे च कर्म॥

अचि19.18
ग्राम्याब्जानूपं पिशितमबलं शुष्कशाकं तिलान्नं।
गौडं पिष्टान्नं दधिसलवणं पिच्छिलं मद्यमम्लम्।
धाना वल्लूरं समशनमथो गुर्वसात्म्यं विदाहि।
स्वप्नं चारात्रौ श्वयथुगदवान् वर्जयेन्मैथुनं च॥
॥इति एकोनविंशोऽध्यायः॥

अथ विंशोऽध्यायः।

अचि20.1
अथातो विसर्पचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अचि20.2
पूर्वरूपेष्वेव सर्वविसर्पाणां लङ्घनं रूक्षणं सिरामोक्षणमुल्लेखनं विरेचनं च कुर्यात्।
न तु कदाचिदपि स्नेहनम्॥

अचि20.3
निरामेषु क्षीणकफेषु च शीतवीर्याणि सर्पींषि तिक्तकत्रायमाणाघृतादीनि पाने दद्यात्।
तत्र मदनेन्द्रयवपटोलपिचुमन्दमधुकेक्षुरसान् वमनेऽवचारयेत्।
द्राक्षात्रिवृत्त्रिफलात्रायमाणा विरेचने॥

अचि20.4
मुस्तदेवदारुकुष्ठशताह्वावाराहीधान्याककृष्णगन्धावंशार्तगलान् लेपसेकेष्वनिलजे ह्रस्ववढ्रवल्लीकण्टकपञ्चमूलानि च॥

अचि20.5
पित्ते तु कमलोत्पलशैवालपङ्कदूर्वामृणालशृङ्गाटककशेरुकशर्कराद्रीबेरकुचन्दनमुक्तामणिगैरिकपयस्याप्रपौण्डरीकमधुकपद्मकघृतक्षीराणि न्यग्रोधादिं च॥

अचि20.6
श्लेष्मण्यजगन्धाश्वगन्धासरलकालकैषिकागरुवोचरास्नावचाशीतशिवेन्द्रवल्लीगोमूत्राणि वरणादिं च संसर्गे यथादोषबलं विकल्पयेत्॥

अचि20.7
तत्र कफस्थानाश्रिते सामे पित्तस्थानगते च रूक्षा विशीताः प्रलेपपरिषेकाः॥

अचि20.8
पित्ते तनवः सुशीताः सघृता वस्त्रान्तरिताः क्षणे क्षणे चापनीयान्ये प्रयोज्याः॥

अचि20.9
द्वन्द्वजेषु यथायथं दोषांश्चिकित्सेत्।
विशेषेणाग्निविसर्पे महातिक्तकं पिबेत्।
ग्रन्थिविसर्पे रक्तपित्तसंसर्गमवेक्ष्य प्राग्लङ्घनादीनि विरेचनान्तानि शमनानि च योजयेत्।
ततो वातश्लेष्महरं कर्म॥

अचि20.10
शूले च तदा स्निग्धाम्लोष्णाभिरुत्कारिकाभिर्ग्रन्थीनामुपनाहनम्।
वातकफविसर्पोक्तैश्च लेपस्तैरेव वा सिद्धेन तैलेन तोयेन वा परिषेकः।
लिम्पेद्वा शुष्कमूलकस्य कल्केन नक्तमालत्वचो वा।
बिभीतकेन वा विजयाक्षनागबलाग्निमन्थभूर्जग्रन्थिवंशपत्राणां वा॥

अचि20.11
दन्तीचित्रकमूलत्वक्कासीसार्कस्नुहीक्षीरभल्लातकास्थिभिरुष्णैर्लेपः शिलामपि भिनत्ति।
दीर्घकालप्रसक्ते तु ग्रन्थौ त्रिफलां प्रयुञ्जीत।
मधुपिप्पलीर्वा।
मुस्तासक्तुभल्लातकानि वा।
सीघुमधुशर्करान् वा।
मातुलुङ्गरसानुविद्धां मदिरां वा।
गिरिजतुं वा गुल्मभेदनं वा।
तप्तलोहोपलादिपीडनं वा।
जत्रूर्ध्वगते तीक्ष्णधूमवमनानि च॥

अचि20.12
तथाप्यभेदे क्षारेणाग्निना वा दहेत्।
पाटयित्वा वा शस्त्रेण परिशोधयेत्।
विदग्धं वा रक्तमपनीयापनीय पुनःपुनः स्वेदयेत्।
एवं पर्यायेण रक्तपित्ते वातश्लेष्मणि चोत्तिष्ठेत॥

अचि20.13
सर्वस्मिन् विसर्पे पर्यागते विदारिते च व्रणवत्।
तैलं च दार्वीविडङ्गकम्पिल्लकैः ग्रन्थिव्रणसाधनं साधयेत्॥

अचि20.14
कर्दमके शीघ्रतरं सुतरां च वमनादीनि कृत्वा पुनर्जलौकोभिरसृगवसेचयेत्।
असृक्प्रक्लेदाद्धि त्वङ्मांससिरास्नावसङ्क्लेदो भवति।
पिबेच्च कषायं घनपटोलपिचुमन्दानाम्।
मुस्तोशीरामलकसारिवाणाम्।
चन्दनोत्पलयोः।
पटोलादिवर्गस्य वा।
घृतमिश्रं वा दार्वीत्वक्तिक्तापटोलयष्ट्याह्वारिष्टमसूरत्रिफलात्रायमाणानाम्॥

अचि20.15
विरेकार्थं च त्रिवृच्चूर्णं सर्पिषा पयसा द्राक्षारसेन घर्माम्भसा वा पाययेत्।
त्रायमाणाशृतं पित्तोद्वृत्तो क्षीरमिति।
भवति चात्र॥

अचि20.16
श्रेष्ठास्रस्रुतिरेवात्र विसर्पो ह्यसृगाश्रयः।
यच्च नासावसंसृष्टो रक्तपित्तेन जायते॥

अचि20.17
न घृतं बहुदोषाय देयं यन्न विरेचनम्।
तेन दोषो ह्युपस्तब्धस्त्वग्रक्तपिशितं पचेत्॥

॥इति विंशोऽध्यायः॥

टीका

अचि16.14: भेलविहित