अष्टाङ्गसंग्रहः चिकित्सितस्थानम् अध्याय ११-१५

विकिस्रोतः तः

अष्टाङ्गसंग्रहः

अथ एकादशोऽध्यायः।

अचि11.1
अथातोऽतीसारचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अचि11.2
प्रायेणातिसारो ह्यग्निमुपहत्य प्रागामाधिष्ठानो भवति।
तस्मादनिलजमप्यामपाचनार्थमादौ लङ्घनेनोपक्रमेत।
तत्र शूलानाहप्रसेकार्तं लवणाम्बुनोष्णेन वामयेत्।
न तु सामे पूर्वं सङ्ग्राहि प्रयुञ्जीत विबद्धे वा मले।
स्तिमिताध्मातगुरुसरुजकोष्ठः प्राणदामुष्णाम्बुनोपयुञ्जीत।
सव्योष्णां वा धान्याम्लक्वथितां वा।
अन्यद्वा स्रंसनदीपनमौषधम्॥

अचि11.3
अपिच विशुद्धस्रोतसो ह्यस्य दोषशेषे प्रवाहिते।
सुखं सङ्ग्रहणं कर्तुं पाचनैः स्तम्भ्नेन वा॥

अचि11.4
मध्यदोषस्तु विशोषयन् मागधीनागरवचाभूतीकधनिकाहरीतकीनां क्वाथं पिबेत्।
जलजलदबिल्वपेशिकाशुण्ठीधान्यकानां वा।
उभयमपि चैतत् प्रमथ्याख्यम्।
वचादिवर्गं क्वथितं चूर्णितं वा।
तद्वद्वचाभयाविडङ्गपाठाशुण्ठीबिडलवणानि वा।
मुस्तपिप्पलीन्द्रयवपाठातेजोवतीर्वा।
विडङ्गाभयाकणलवणपञ्चकानि वा।
पिप्पलीन्द्रयवपाठाशुण्ठीर्वा।
सरक्ते तु प्रवृत्त आमे गजपिप्पलीं मधुशर्करामधुराम्॥

अचि11.5
अल्पदोषं पुनरुपवासयेत्।
पानं त्वतिसारिणोम्बु वचातिविषाभ्यां क्वथितम्।
शुण्ठ्यतिविषाभ्यां मुस्तपर्पटकाभ्यां नागरधान्यकाभ्यां वा।
क्षुद्वतस्तु लघुपञ्चमूलपञ्चकोलहस्तिपिप्पलीबलाबिल्वपाठाहिङ्गुधान्यकजीरकशठीगन्धपलाशहपुषायवानीतिन्तिणीकदाडिमबिडसैन्धवैरन्नपानं यवाग्वादि कल्पयेत्॥

अचि11.6
बिल्वशलाटुहरीतकीपिप्पलीमूलैर्मूढवातस्य।
अंशुमतीद्वयबलाबिल्वशलाटुभिः पित्तोल्बणस्य।
पिबेच्च तृषितः पटपूतं तक्रम्।
मधुसुराधान्याम्लयवागूमण्डान्यतमं वा।
एष क्रमोऽनिलकफघ्नो दीपनपाचनो रोचनः सङ्ग्राही बल्यश्च॥

अचि11.7
पक्वदोषोऽपि तु योऽतिसार्यते बहुशोऽनिलेन विबद्धं सपिच्छं सफेनं सशूलपरिकर्तिकं सरोमहर्षं निष्पुरीषं च तां प्रवाहिकां बिम्बिसीमिति चाचक्षते।
तत्रोदावर्तोपदिष्टांस्तेनैव विधिना संस्कृतांश्छागपिशितरसान् दद्यात्॥

अचि11.8
यूषांश्च वर्चःक्षये तृष्यतो यवमुद्गमाषतिलकृतान्।
समेन वा तिलबालबिल्वयोः कल्केन दधिसरस्नेहयुक्तं खलकम्।
चित्रकशृङ्गवेरपूतीकरञ्जबिल्वाजमोदैर्वा तक्रदाडिमतैलाढ्यं सैन्धवोपेतमजिताख्यम्।
शठीतिन्तिणीकबिडदाडिमक्षारपञ्चकोलमरिचत्रिफलाधातकीधनिकापाठाजमोदाजाजीजीरककपित्थजम्ब्वाम्रास्थिभिर्वा तुल्यभागैः षड्गुणबिल्वमध्यैर्गुडमुद्गरसस्नेहदधिसिद्धोऽपराजिताख्यः खलको दीपनः पाचनो रुच्यो ग्राही बिम्बिसिनाशनः॥

अचि11.9
दधिसरं वा सगुडदाडिमं यमकभृष्टम्।
यमकभृष्टान् वा सशुण्ठीचूर्णान् सक्तून्।
माषान् वा सुसिद्धान् घृतमण्डोपसेच्नान् मरिचोपदंशान्।
छागमेषयोर्वान्तराधिरसं दाडिमाम्लं धान्यनागरोपेतं स्नेहविपक्वं व्यञ्जनं पानं च।
तद्वत् सुरां यमकस्निग्धां पिबेद्वा।
शुण्ठीबदरचूर्णं दधिघृततैलक्षौद्रफाणितोपेतम्॥

अचि11.10
हिङ्गुदाडिममहौषधोपकुल्याचूर्णं वा घृतक्षीरोष्णाम्बुमद्यान्यतमेन।
लिह्याद्वा लोध्रबिल्वशलाटुगुडांस्त्रिकटुकोत्कटांस्तैलेन।
अश्वत्थवातपोतक्वाथसिद्धं वा शाल्योदनं घृततैलक्षौद्रयुक्तं दध्ना खजाहतदधिसरानुपानमश्नीयात्॥

अचि11.11
अपि च दीपनं रोचनं रुच्यं दधि वातहरं परम्।
बद्धविड्वा हरत्यस्मात् चिरोत्थामपि बिम्बिसीम्॥

अचि11.12
तृष्णोल्बणस्तु सरक्तपिच्छोपवेशी पानान्नविरतो धारोष्णं क्षीरमाकाङ्क्षं पिबेत्।
शृतं वा गन्धर्वहस्तमूलेनाथवा बिल्वशलाटुभिः।
तदेव वाल्पतृष्णः सगुडतैलम्।
शृतेन वा पयसा मरिचकल्कं द्विगुणतिलकल्कयुक्तम्।
क्षीरेणैव वा पिप्पलीम्।
व्योषसिद्धेन वा पयसान्नानि भुञ्जीत॥

अचि11.13
शूलाधिक्ये तु दशमूलक्वथितेन पयसा सक्षौद्रेणास्थापनं दद्यात्।
अथवा पिच्छाबस्तिमनुवासनं च वातघ्नं वा पित्तघ्नं वा॥

अचि11.14
गुदभ्रंशे शूले चाम्लबदरचाङ्गेरीरसदधिक्षारनागरकल्केन शृतमम्लं सर्पिर्निराममातुरं पाययेत्।
मरिचपञ्चकोलाजाजीधनिकाबिडदाडिमगर्भं वा पूर्ववदम्लम्।
अनुवासयेद्वा दशमूलसिद्धेन स्नेहेन।
पिप्पल्यादिना वा॥

अचि11.15
गुदं चाभ्यङ्गपूर्वं स्वेदेन मृदुभूतं प्रवेशयेत्।
सच्छिद्रेण चास्य चर्मणा गोष्फणाबन्धं कुर्यात्।
मूषकमनान्त्रं कृत्वा महापञ्चमूलकषायं च क्षीरे विपचेत्।
तेन पयसा वातहरकल्कप्रतीवापं तैलं पाचयेत् तदभ्यञ्जनेन पानेन च सुकृच्छ्रमपि गुदभ्रंशं साधयति॥

अचि11.16
पित्तातिसारमपि साममादौ तीक्ष्णवर्ज्यैरौषधैर्वातातिसारवत् पाचयेत्।
तृष्णायां ससारिवाभूनिम्बं ज्वरविहितमम्भः षडङ्गमवचारयेत्।
उपोषितस्य चान्नकालेऽभीरुदृस्वपञ्चमूलबलाद्वयशूर्पर्ण्यादिमृदुमधुरतिक्तदीपनद्रव्यनिर्यूहयुज्क्तान् कालविन्मण्डपेयासक्तुयूषरसादीनीषदम्लाननम्लान् वा कवोष्णान् सुशीतान् वा सक्षौद्रान्॥

अचि11.17
अनुबन्धे तु मूर्वातिविषेन्द्रयवहरिद्रारसाञ्जनानि क्वथितानि पिबेत्।
केवलं वा वृक्षकबीजम्।
पाठागुडूचीकटुकाकिराततिक्तानि वा।
हरिद्रादिगणं वा।
वत्सकबीजातिविषाबिल्वाम्बुमुस्तानि वा।
तण्डुलोदकेन वातिविषावृक्षकत्वक्फलानि सक्षौद्राणि।
चन्दनोशीरशुण्ठीलोध्रनीलोत्पलानि वा।
नागरोत्पलधातकीपुष्पदाडिमत्वचो वा।
कमलोत्पललोध्रमोचरससमङ्गातिलान् वा।
मधुकशृङ्गवेरदीर्घवृन्तत्वचो वा।
मधुयुक्तानि शर्करापद्मकेसरमुस्तापयस्याचन्दनानि वा।
शाल्मलीवृन्तकृतं वा शीतकषायं मधुमधुकोपेतम्॥

अचि11.18
मधुकप्रियङ्गुकट्वङ्गत्वग्दाडिमाङ्कुरकल्केन वा दधियुतां यवागूं खलकं वा।
बिल्वकपित्थजम्ब्बाम्रास्थिभिर्वा।
मधुयुक्तान् वा लोध्राम्बष्ठाप्रियङ्ग्वादिगणान् क्वाथादिषु पृथक् कल्पितान्।
श्यामादिमहाकषायं वा॥

अचि11.19
शूलार्तस्तु रूक्षकोष्ठो घृतं सक्षारं पिबेत्।
क्षीरं वा बृहतीबलांशुमतीकच्छुरामूलसिद्धं मधुककट्वङ्गाजमोदशर्करावचूर्णितं सतैलक्षौद्रम्।
क्षीरमेव वा धारोष्णम्॥

अचि11.20
बलवान् विबद्धमलो विरेकार्थं त्रिफलाचूर्णयुक्तं वा पलाशफलक्वाथसिद्धं वा पयः पीत्वा पय एव कवोष्णमनुपिबेत्।
एवमेव च त्रायमाणया शृतम्।
ततो निस्सृते शकृति पुराणेऽतिसारः शान्तिमेति॥

अचि11.21
स्रुतदोषस्य च संसर्जनकाले शूलं चेदनुवर्तेत ततो बिल्वमधुकशताह्वाद्वयगर्भं सक्षीरं तैलचतुर्गुणं सर्पिर्विपाच्यानुवासनं दद्यात्।
ततः सम्यक्कृतायामपि संसर्ग्यामतीसारानुबन्धे पिच्छाबस्तयो योज्याः।
शाल्मलीवृन्तान्यार्द्रदर्भैर्वेष्टयित्वा कृष्णमृदावलिप्य गोमयाग्निना स्वेदयेत्।
शुष्कायां मृदि स्विन्नानि ज्ञात्वा वृन्तान्युलूखले समापेथ्य तेषां मुष्टिसम्मितं पिण्डं क्षीरप्रस्थे विमर्दयेत्।
ततस्तेन पयसा पूतेन सघृततैलेन मधुमधुककल्कयुक्तेनास्थापयेत्।
प्रत्यागते च स्नातः पयसा कच्छुराशृतेन जाङ्गलरसैर्वाश्नीयात्।
एष पिच्छाबस्तिः पित्तरक्तातिसारग्रहणीगुल्मशोषज्वरान् विरेचनास्थापनातियोगं च शमयति॥

अचि11.22
चिरोत्थितं त्वतीसारमवेदनं पक्वमप्यशाम्यन्तं पुटपाकैरुपाचरेत्।
अरलुकत्वक्कल्कं काश्मर्यपत्रप्रच्छन्नं पुटपाकविधिना पाचयेत् तद्रसं सुशीतं मधुयुतं पिबेत्।
वटादित्वक्प्ररोहकल्कमप्येवं कल्पयेत्।
अथवा तित्तिरिमपनीतान्त्रपिच्छं न्यग्रोधादेर्वल्कलस्य प्ररोहाणां वा कल्केन पूरयित्वा पूर्ववत् पुटपाकं कुर्यात्।
ततः तस्माद्रसमादाय सिताक्षौद्रयुक्तं पाययेत् अनेन सर्वे जाङ्गलसत्वा व्याख्याताः॥

अचि11.23
यस्तु पित्तातिसारी पित्तलान्यासेवेत तस्य पित्तमतिवृद्धं रक्तातिसारं तृड्दाहमोहज्वरशूलपायुपाकांश्च करोति।
तत्र क्षीरमाजं न्यग्रोधादिप्रसवशृतं सितामधुयुक्तमाहारे गुदप्रक्षालने च विदध्यात्।
तद्विधं वा सर्पिः सपयस्कं पिबेत्।
क्षीरोत्थं वा सर्पिः क्षीरानुपानं कपिञ्जलरसाशी क्षीराशी वा लिह्यात्॥

अचि11.24
सल्लकीप्रियङ्गुतिनिशशाल्मलीप्लक्षत्वक्संसृष्टं सिद्धं वा सक्षौद्रं क्षीरं पिबेत्।
यष्टीलोध्रसारिवाभिर्वा शृतं समधुसितम्।
तद्वत् कृष्णतिलसमङ्गोत्पलयष्टीमधुभिः।
शशकपिञ्जलपारावततण्डुलीयकमुद्गकाश्मर्यबीजादिरसांश्च सेवेत।
घृतभृष्टं वा रक्तमाजं मार्गं वा।
पूर्वोक्तान् वा पुटपाकान् मधुककृष्णमृत्तिकाशङ्खकल्कं वा सरुधिरं पिबेत् तण्डुलोदकेन।
तेन वा समाक्षिकं फलिनीकल्कम्।
अथवा ससिताक्षौद्रं चन्दनम्॥

अचि11.25
एते हि प्रयोगाः तृष्णादिप्रशमना रक्तातियोगघ्नाश्च।
वातोत्तरस्तु शतावरीघृतं लिह्यात्।
सशर्करं वा नवनीतम्।
पिच्छिलस्वरससाधितं वा सर्पिः।
लाक्षापिप्पलीशृङ्गवेरकटुकेन्द्रयवदार्वीत्वग्भिर्घृतं सिद्धं पेयामण्डेन पीतमतीसारं त्रिदोषमपि वारयति॥

अचि11.26
यदा पुनर्वायुना विट् बद्धं सशोणितमल्पाल्पं सफेनं कृच्छ्रादुपवेश्यते तदा पूर्वोक्तं पिच्छाबस्तिं दद्यात्।
मधुरौषधसिद्धेन च सर्पिषानुवासयेत्।
प्रायेण हि दुर्बलगुदा गुदाश्रयामयिनो भवन्ति।
विशेषतश्चिरकालातीसारिणः।
अतिसारातिप्रवृत्तौ स्वस्थानबलवृद्धो वायुः पित्तमनुबलमवाप्य दुर्जयतरो भवति तस्मात्तेषामभीक्ष्णमनुवासनं प्रयुञ्जीत।
गुददाहे पुनः पटोलमधुकमधूकक्षीरिवृक्षादिकषायेण सघृतशर्कराक्षौद्रेण क्षीरेण वा गुदं तदासन्नांश्च प्रदेशान् सिञ्चेत्।
शतधौतादिभिर्घृतैश्च पिचूनभ्यङ्गांश्च दद्यात्।
पटोलादीनामेव च कल्केन सघृतेन प्रदिह्यात्।
तच्चूर्णौर्धातकीलोध्रमाषचूर्णेन च पायुद्वारमवचूर्णयेत्।
एवमेव च शूले वातहरतैलप्रदेहैरुपाचरेत्।
यः पुनरेवमपि पित्तलान्यासेवेत स शीघ्रं गुदवलीषु पक्वासु व्यापद्यते॥

अचि11.27
श्लेष्मातीसारं तु प्रागेव नितरामामपाचनार्थं लङ्घनेन साधयेत्।
अनुबन्धे च पिबेत् कषायं मुस्ताभयाशुण्ठीबिल्वशलाटूनाम्।
वचाविडङ्गभूतीकधनिकादेवदारूणां वा।
पाठातिविषाकुष्ठचव्यकटुरोहिणीनां वा चित्रकपिप्पलीद्वयपिप्पलीमूलानां वा।
सुखाम्बुना वा हिङ्ग्वाद्यमलसकोक्तम्।
पथ्यासैन्धवशुण्ठीचूर्णं व।
लिह्याद्वा त्रिकटुचूर्णं क्षौद्रशर्करोपेतम्।
कपित्थं क्षौद्रेण वा।
कट्फलं वा पिप्पलीर्वा।
पूर्ववच्च सर्वं वातपित्तामरक्तसंसर्गमपेक्ष्य यथायथमुपकल्पयेत्।
सशूलप्रवाहिकस्य च निरामस्य वातेऽधिके वचाबिल्वपिप्पलीकुष्ठशताह्वाकल्कयुक्तं सलवणं पिच्छाबस्तिमनुवासनं च कोष्णेन बिल्वतैलेन बहुशोवचादिगर्भेण वा तैलेनेति।
भवति चात्र॥

अचि11.28
स्वस्थाने मारुतोऽवश्यं वर्धते कफसङ्क्षयात्।
स वृद्धः सहसा हन्यात्तस्मात्तं त्वरया जयेत्॥

अचि11.29
भीशोकाभ्यामपि मरुच्छीघ्रं कुप्यत्यतस्तयोः।
कार्या क्रिया वातहरा हर्षणाश्वासनानि च॥

अचि11.30
यस्योच्चाराद्विना मूत्रं पवनो वा प्रवर्तते।
दीप्ताग्नेर्लघुकोष्ठस्य शान्तस्तस्योदरामयः॥

अचि11.31
आमस्य पाको मलसङ्ग्रहोऽनु न सङ्ग्रहे रुग्गुदनाभिजन्मा।
विलङ्घनैर्ग्राहिभिरीरणघ्नैः क्रमेण तैस्तैर्विधिभिर्विधेयः॥

अचि11.32
न रिक्तकोष्ठस्य पुरीषबन्धो न रूक्षकुक्षेः सुहितस्य चाति।
पित्तास्रतोऽन्यत्र न चातिशीतैरत्युष्णतीक्ष्णैर्न कदाचिदेव॥

अचि11.33
खलरसदाधिका यमकदाडिमसारकृता।
दधि सगुडं पयोऽसिततिलाश्च सुजर्जरिताः।
सलवणमारुतघ्नगणसाधिततैलमलं।
घृतमपि वा प्रवाहणकृतां विजयेत रुजाम्॥
॥इति एकादशोऽध्यायः॥

अथ द्वादशोऽध्यायः।

अचि12.1
अथातो ग्रहणीदोषचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अचि12.2
ग्रहणीसमाश्रितं दोषमादावेव यथास्वमजीर्णानुसारतो मात्राशीतीयोक्तविधानेनोपक्रमेत।
अथातीसारविधिना च।
आमपाचनार्थं पिबेन्मुस्तातिविषाविश्वभेषजक्वाथम्।
तच्चूर्णं वा सुखोदकेन, तेन वा शुण्ठीम्।
तद्वद्वचादिवर्गं ससैन्धवम्।
व्वारुणीमण्डेन वा गुल्मविध्युक्तं त्रिलवणादि चूर्णम्॥

अचि12.3
सप्रवाहे वा वर्चसि चूर्णीकृतान् बिडलवणयुक्तान् बिल्वमध्यनागरचित्रकान् दाडिमाम्भसा सकफे वा।
अतिमात्र आमशूलेऽलसकोक्तं हिङ्ग्वादिमुष्णाम्भसा पिबेत्।
छर्दिशूलानाहानुग्रन्थिषु तु मरिचाजाजिसौवर्चलाभयाः।
सपित्तकफे चामे कटुकेन्द्रयवपाठापिप्पलीमूलवचाभयानागराणि क्वथितानि चूर्णितानि वा॥

अचि12.4
भोजनकाले च पञ्चकोलपरिगृहीतं पटुलघुदीपनीयं पेयादिकमुपकल्पयेत्।
पेयां वा नागरातिविषाभ्यां तक्रदाडिमवृक्षाम्लाम्लाम् पाने च तक्रमस्त्वार नालमदिरारिष्टानतीसारनिर्दिष्टं चाम्बु।
यवानीपथ्यामलकमरिचानि त्रिपलिकानि लवणपञ्चकं च पलांशकमेकतश्चूर्णयित्वा कंसे सद्योमथितस्यासुनुयात्।
ततो व्यक्ताम्लकटुकं जातं पिबेत्।
एष तक्रारिष्टः परमग्निदीपनोऽर्शोगुल्मजठरश्वयथुकृमिप्रमेहहरः॥

अचि12.5
अपि च ग्रहणीदोषिणां तक्रं दीपनग्राहि लाघवात्।
पथ्यं मधुरपाकित्वान्न च पित्तप्रदूषणम्॥

अचि12.6
कषायोष्णविकाशित्वाद्भूक्षत्वाच्च कफे हितम्।
वाते स्वाद्वम्लसान्द्रत्वात् सद्यस्कमविदाहि तत्॥

अचि12.7
तस्मात्तक्रप्रयोगा ये जठराणां तथार्शसाम्।
विहिता ग्रहणीदोषे सर्वशस्तान् प्रयोजयेत्॥

अचि12.8
दाडिमकपित्थवृक्षाम्लाम्लीकानां पृथक् पृथक् कुडवं लवणपञ्चककुडवं त्र्यूषणत्रिपलं शर्करापलाष्टकं चैकध्यं चूर्णितमन्नपाने प्रणीतमजीर्णारुचिश्वासकासप्लीहगुल्मग्रहणीहृत्पाण्डुरोगघ्नम्।
परिपक्वामं च मारुतग्रहणीरोगिणमग्निसन्धुक्षणार्थं सर्पिः पाययेत्।
द्विपञ्चमूलपञ्चकोलसरलसुरदारुसुरभिगजपिप्पलीशणबीजयवकोलकुलत्थान्मस्तुनारनालेन वा पाचयेत्।
तेन पादावशेषेण पञ्चलवणद्विक्षाराम्लबदरयुक्तं सर्पिर्विपक्वमथवा सैन्धवव्योषक्षारद्वयपञ्चमूलाभयारास्नाजाजीग्रन्थिकशठीविडङ्गगर्भमार्द्रकमातुलुङ्गकोलाम्लीकादाडिमस्वरसशुष्कमूलकक्वाथमस्तुतक्रशुक्तप्रसन्नासौवीरकतुषोदकारनालोपेतं परमग्निदीपनमग्निघृताख्यम्॥

अचि12.9
अथवा चव्यचित्रकपाठातेजोवतीपिप्पलीमूलानि कुडवोन्मितानि मुस्तद्विकुडवमास्फोतजातीनिम्बसप्तच्छदाश्वमारककर्कोटकपटोलपल्लवानां च मुष्टिं मुष्टिमन्तर्नखमुदकद्रोणे पक्त्वा पादावशेषमवतारयेत्।
अर्धपलोन्मितां चात्र कल्कितां दद्यादतिविषां कृष्णासारिवाभद्राश्च द्विपलांशं सैन्धवं बिडं यवक्षारं च मागधिकायाश्चतुष्पलं पात्रं च घृतस्य एतदगस्त्यनिर्मितमलमनलजननम्॥

अचि12.10
उद्दीपिते तु किञ्चिदनले विबद्धमलमास्थापयेत्।
ततो जिते मातरिश्वनि स्रस्तदोषमेरण्डतैलेन तिल्वकसर्पिषा वा क्षारवता मिश्रकस्नेहेन वा विरेचयेत्।
कृतसंसर्गक्रमं च बद्धवर्चसमनुवासयेद्वातहरदीपनीयाम्लद्रव्यसिद्धेन तैलेन।
ततः पुनरपि लघ्वन्नभोजनः सर्पिरेव यथाग्निबलमल्पशोऽवचारयेत्।
अग्निघृतं च छर्दिविबन्धशूलश्वासकासिनः सबीजपूरकरसम्।
अभ्यङ्गार्थं च तैलमग्निघृतौषधैः साधयेत्।
अनिलकफसंसर्गे तु चूर्णमेषामौषधानामुष्णोदकेन पिबेत्॥

अचि12.11
पित्तदुष्टायां तु ग्रहण्यां स्वस्थानगतमुत्क्लिष्टं द्रवमनलीनर्वापणं पित्तमास्थापनेन वमनेन वा निर्हरेत्।
तिक्तलघुद्रव्यैश्च कृतसंसर्जनस्य दोषशेषशमनार्थं मधुनावलेह्यमुष्णाम्बुना वा पातुं प्रणयेत्।
मूर्वाकिरातततिक्तपर्पटकवचाचन्दनमुस्तत्रिकटुकत्रायमाणायवानीकलिङ्गत्वक्फलकटुरोहिणीदेवदारुदार्वीत्वक् पद्मकोशीरारिष्टपटोलपत्रातिविषासौराष्ट्रीत्वगेलामधु शिग्रुबीजचूर्णम्।
अयं हि ग्रहणीदोषशूलातिसारपाण्डुहृद्रोगगुल्मज्वरप्रमेहकामलामुखरोगारोचकनिबर्हणः॥

अचि12.12
भूनिम्बत्रिकटुककटुकामुस्तेन्द्रयवाः समाश्चित्रकभागौ द्वौ कुटजत्वग्भागाश्च षोडश सर्वमेकत्र चूर्णितं सगुडशीतोदकं पीतं समानं पूर्वेण।
नागररसाञ्जनातिविषाधातकीघनपाठाकलिङ्गत्वग्बीजबिल्वकटुकाः सक्षौद्रास्तण्डुलाम्बुपीताः पित्तग्रहणीविकारं रक्तातिसारमर्शांसि सप्रवाहिकं गुदशूलं च व्यपोहन्ति।
ततश्चैवं शमितपित्तोद्रेकस्याग्नेः स्थिरीकरणाय सर्पिः पूर्वोक्तमूर्वादिक्वाथेन सारिवास्फोतसप्तपर्णाटरूषकेन्द्रयववीराभूनिम्बधान्यन्यग्रोधाश्वत्थोदुम्बरप्लक्षोपकुल्यानीलोत्पलगर्भसिद्धं पानाय प्रयुञ्जीत कुष्ठोक्तं वा तिक्तकम्॥

अचि12.13
श्लेष्मदुष्टायां पुनर्ग्रहण्यां मागधिकंसिद्धार्थकल्कतीक्ष्णेन मदनफलकषायेण पुनःपुनर्वामयेत्।
अब्धातुर्हि प्रवृद्धस्तेजो निर्वापयति।
ततः कृतपेयादिक्रमस्य लवणक्षाराम्लकटुकोत्कटैर्यथोक्तैरन्नपानौषधैरनलमुत्तेजयेत्।
मञ्जिष्ठाचित्रकारुष्करकृमिघ्नमधूकपुष्पाणि क्रमाद् द्विकुडवार्धाढकाढकार्धद्रोणद्रोणांशान्यपां द्रोणत्रये क्वाथयेत्।
द्रोणशेषश्च पूतशीतः स निर्यूहो मधुद्विप्रस्थवांश्चन्दनोशीरसूक्ष्मैलागरुरूषितं जतुसृतं घृतकुम्भमध्युषितो मासमासवः।
सर्वदोषघ्नोऽग्निजननो बृंहणः शोषकुष्ठकिलासप्रमेहानाहगुल्मपाण्डुहृद्रोगजिच्च॥

अचि12.14
मधूकपुष्पाणां स्वरसोऽर्धावशेषक्वथितः क्षौद्रपादयुक्तः सर्वथा समानः पूर्वेण।
अनेन द्राक्षेक्षुकाश्मर्यफलस्वरसासवा व्याख्याताः॥

अचि12.15
दशमूलवीरारजनीत्रिफलाजीवकर्षभकाणां पृथक् पृथक् पञ्चपलान् भागानपां वहे पक्त्वा पादशेषे रसे शीतीभूते गुडतुलाद्वयं दद्यादर्धकुडवं च माक्षिकात्तत्प्रमाणांश्च चूर्णितान् मुस्तप्रियङ्गुमञ्जिष्ठामधुकविडङ्गप्लवशाबरलोध्रान् एषोऽर्धमासस्थितो मूलासवोऽयं समानः पूर्वेण।
महावृक्षकण्डचतुष्पलं द्विगुणार्ककाण्डं लवणत्रयत्रिपलं पक्ववार्ताककुडवं चित्रकमूलपलद्वयं चान्तर्धूमं दग्ध्वा वार्ताकरसेन गुटिकाः कुर्यात्।
ता भोजनोत्तरं भक्षिता ग्रहणी दुर्नामविषूचिकालसककासश्वासपीनसप्लीहपाण्डुश्वयथुमेहारोचकगुल्महराः॥

अचि12.16
दशमूलार्कमूलदन्तीत्रिवृच्चित्रकास्फोतपाठारास्नास्नुहीकाण्डानां पृथग्दशपलान् भागान् कपालोदरे दग्ध्वा क्षारमुदकद्रोणैश्चतुर्भिः क्वाथयेत्।
पादावशेषं च पूतं पुनःपादावशेषमेव क्वथितावतारितं गुडपलशतोन्मिश्रमधिश्रयेत्।
घनीभवति च तस्मिन् सुश्लक्ष्णरजसां वृश्चिकालीद्वययावशूकानां त्रिंशत् पलान्यावपेत्।
त्रिंशदेव वचाभयाव्योषचित्रकाणाम्।
द्विपलं च पृथक् पृथक् हिङ्ग्वम्लवेतसयोः।
ततोऽक्षमात्रा गुटिकाः कृत्वा यथाबलमुपयुक्ताः समानाः पूर्वाभिरधिका वा।
अर्शोविहितांश्च क्षारतक्रारिष्टान् घृतान्यन्नपानं च सेवेत।
षट्पलं भल्लातकघृतं धान्वतरं च।
सन्निपाते तु पञ्च कर्माणि कुर्याद्यथावस्थं वा ग्रहणीचिकित्सितमिति।
भवति चात्र॥

अचि12.17
प्रसेके श्लैष्मिकेऽल्पाग्नेर्दीपनं रूक्षतिक्तकम्।
योज्यं कृशस्य व्यत्यासात् स्निग्धरूक्षं कफोदये॥

अचि12.18
क्षीणक्षामशरीरस्य दीपनं स्नेहसंयुतम्।
दीपनं बहुपित्तस्य तिक्तं मधुरकैर्युतम्॥

अचि12.19
स्नेहोऽम्ललवणैर्युक्तो बहुवातस्य शस्यते।
स्नेहमेव परं विद्याद्दुर्बलानलदीपनम्॥

अचि12.20
नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्वपि।
मलमामं कफे क्षीणे मन्दाग्निर्योऽतिसार्यते॥

अचि12.21
स पिबेत् सर्पिषो मात्रां दीपनीयौषधैर्युताम्।
प्रसन्नो मार्गमापन्नः स्वं समानोऽनिलस्तया।
अग्नेः समीपचारित्वादाशु प्रकुरुते बलम्॥

अचि12.22
पुरीषं यस्तु कृच्छ्रेण कठिनत्वाद्विमुञ्चति।
स घृतं लवणैर्युक्तं नरोऽन्नावग्रहं पिबेत्॥

अचि12.23
रौक्ष्यान्मन्देऽनले सर्पिस्तलं वा दीपनैः पिबेत्।
क्षारचूर्णासवारिष्टान् मन्दे स्नेहातिपानतः॥

अचि12.24
उदावर्तात्तु योक्तव्या निरूहस्नेहबस्तयः।
दोषातिवृध्या मन्देऽग्नौ संशुद्धोऽन्नविधिं चरेत्॥

अचि12.25
व्याधिमुक्तस्य मन्देऽग्नौ सर्पिरेव तु दीपनम्।
अध्वोपवासक्षामत्वैर्यवाग्वा पाययेत् घृतम्।
अन्नावपीडितं बल्यं दीपनं बृंहणं च तत्॥

अचि12.26
दीर्घकालप्रसङ्गात्तु क्षामक्षीणकृशान् नरान्।
प्रसहानां रसैः साम्लैर्भोजयेत् पिशिताशिनाम्॥

अचि12.27
लघूष्णकटुशोधित्वैर्दीपयन्त्याशु तेऽनलम्।
मांसोपचितमांसत्वात् परं च बलवर्धनाः॥

अचि12.28
स्नेहासवसुरारिष्टचूर्णक्वाथहिताशनैः।
सम्यक् प्रयुक्तैर्देहस्य बलमग्नेश्च वर्धते॥

अचि12.29
दीप्तो यथैव स्थास्नुश्च बाह्योऽग्निः सारदारुभिः।
सस्नेहैर्जायते तद्वदाहारैः कोष्ठगोऽनलः॥

अचि12.30
नाभोजनेन कायाग्निर्दीप्यते नातिभोजनात्।
यथा निरिन्धनो वह्निरल्पो वातीन्धनावृतः॥

अचि12.31
यदा क्षीणे कफे पित्तं स्वे स्थाने पवनानुगम्।
प्रवृद्धं वर्धयत्यग्निं तदासौ सानिलोऽनलः॥

अचि12.32
पक्त्वान्नमाशु धातूंश्च सर्वानोजश्च सङ्क्षिपन्।
मारयेत् स्यात् स ना स्वस्थो भुक्ते जीर्णे तु ताम्यति।
तृट्कासदाहमूर्च्छाद्या व्याधयोऽत्यग्निसम्भवाः॥

अचि12.33
तमत्यग्निं गुरुस्निग्धमन्दसान्द्रहिमस्थिरैः।
अन्नपानैर्नयेच्छान्तिं दीप्तमग्निमिवाम्बुभिः॥

अचि12.34
मुहुर्मुहुरजीणापि भोज्यान्यस्योपहारयेत्।
निरिन्धनोऽन्तरं लब्ध्वा यथैनं न विपादयेत्॥

अचि12.35
कृसरां पायसं स्निग्धं पैष्टिकं गुडवैकृतम्।
अश्नीयादौदकानूपपिशितानि भृतानि च॥

अचि12.36
मत्स्यान् विशेषतः श्लक्ष्णान् स्थिरतोयचराश्च ये।
आविकं सुभृतं मांसमद्यादत्यग्निवारणम्॥

अचि12.37
पयः सहमधूच्छिष्टं घृतं वा तृषितः पिबेत्।
गोधूमचूर्णं पयसा बहुसर्पिःप्लुतं पिबेत्॥

अचि12.38
आनूपरसयुक्तान् वा स्नेहांस्तैलविवर्जितान्।
श्यामात्रिवृद्विपक्वं वा पयो दद्याद्विरेचनम्॥

अचि12.39
असकृत् पित्तहरणं पयसा प्रतिभोजनम्।
यत्किञ्चिद्गुरु मेध्यं च श्लेष्मकारि च भोजनम्।
सर्वं तदत्यग्निहितं भुक्त्वा च स्वपनं दिवा॥

अचि12.40
आहारमग्निः पचति दोषानाहारवर्जितः।
धातून् क्षीणेषु दोषेषु जीवितं धातुसङ्क्षये॥

अचि12.41
अग्निमूलं बलं पुंसां बलमूलं हि जीवितम्।
एष सारश्चिकित्साया यदग्नेः परिरक्षणम्॥
॥इति द्वादशोऽध्यायः॥

अथ त्रयोदशोऽध्यायः।

अचि13.1
अथातो मूत्राघातचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अचि13.2
वातान्मूत्रकृच्छ्रे वातहरतैलाभ्यक्तगात्रस्याधोनाभेः सर्वमङ्गं पिण्डेन सेकावगाहैश्च वातघ्नैः कुम्भीस्वेदेन च स्वेदयेत्॥

अचि13.3
दशमूलबलैरण्डमूलपुनर्नवाशतावरीवृश्चीवपत्तूरपाषाणभेदककोलकुलत्थयवक्वाथेन तत्कल्केन च तैलं सर्पिः सूरकर्क्षवसालवणपञ्चकोपेतं सिद्धं पानाय दद्यात्।
एतान्येव चौषधान्यन्नपाने पिण्डोपनाहस्वेदयोश्च तैलफलस्नेहाम्लयुक्तानि कल्पयेत्।
प्रसन्नां च सौवर्चलाढ्यां पिबेत्॥

अचि13.4
पित्तजे शीतसेकावगाहप्रदेहान् प्रयुञ्जीत।
तृणपञ्चमूलश्वदंष्ट्राभीरुविदारीकशेरुकक्वाथं शीतं समधु शर्करं पिबेत्।
तद्वच्च काण्डेक्षुरकमूलम्।
कमलोत्पलविदारीशृङ्गाटकानि।
द्राक्षारसेन वा त्रपुसकुसुम्भोर्वारुबीजवृषककुङ्कुमकल्कं सर्वमूत्राघातघ्नम्।
मधुकदार्व्युर्वारुबीजानि वा तण्डुलधावनेन।
समाक्षिकां वा दार्वीमामलकरसेन।
मृद्वीकाकल्कं वा पर्युषिताम्भसा॥

अचि13.5
कफजे यथास्वं स्वेदो वमनं कटुतीक्ष्णोष्णक्षारमन्नपानं यवान्नं तक्रं च।
पिबेच्च मद्येन सूक्ष्मैलामामलकरसेन वा मधुयुतां वा कदलीरसेन कैडर्यकरसेन वा शितिवारकबीजं वा तक्रेण।
प्रवालचूर्णं वा तण्डुलाम्बुना।
धवकुटजकरञ्जामृताकेबुकैलारग्वधसप्तच्छदक्वाथं वा शीतं सक्षौद्रम्।
तत्सिद्धां वा यवागूम्।
कण्टकारिकास्वरसं वा समाक्षिकम्।
व्योषैलागोक्षुरकसारसास्थीनि वा मधुमूत्रयुक्तानि।
पाटलीक्षारं वा बहुकृत्वः परिस्रुतं तैलयुक्तम्।
तिलपाटलीपारिभद्रयावशूकक्षारोदकानुविद्धां वा त्वगेलोषकचूर्णयुक्तां प्रसन्नाम्।
तिलादीनां वा पृथक् क्षारं गुडोपदंशमश्नीयात्।
तीक्ष्णोष्णद्रव्यसिद्धं च तैलं पानाभ्यङ्गार्थे॥

अचि13.6
सन्निपातात्मके वातादीनां स्थानानुपूर्व्या यथासन्नं प्रतिकुर्वीत।
यथोल्बणं वा सर्वेषु समस्थितेषु वा समसितं यवक्षारं भक्षयेत्।
अपि च॥

अचि13.7
एलाश्मभेदकशिलाजतुपिप्पलीनां चूर्णानि तण्डुलजलालुलितानि पित्वा।
तद्वद्गुडेन सहितान्युपयुज्य मासमासन्नमृत्युरपि जीवति मूत्रकृच्छ्री॥

अचि13.8
एलोपकुल्यामधुकाश्मभेदकौन्तीश्वदंष्ट्रावृषकोरुपूगैः।
क्वाथं पिबेच्छर्करयावगाढं कृच्छ्रे सदाहे सरुजे बिबन्धे॥

अचि13.9
हरीतकीगोक्षुरराजवृक्षपाषाणभिद्धन्वयवासकानाम्।
क्वाथं पिबेदश्मजतुप्रधानं सर्शकरे साश्मरिमूत्रकृच्छ्रे॥

अचि13.10
अश्मर्यामचिरोत्थितायां वातबस्त्यादिषु च यथादोषमिदमेवाचरेत्॥

अचि13.11
पाषाणभेदकवसुकवसिराश्मन्तकशतावरीश्वदंष्ट्राबृहतीद्वयकपोतवङ्काबलातिबलाकच्छुरोशीरगुन्धुवृक्षादनीभल्लूकवरणयवकोलकुलत्थशाकफलकतकफलक्वाथे सर्पिरूषकादिप्रतीवापं विपाच्य पीतमाशु वाताश्मरीं भिनत्ति।
एभिरेव च द्रव्यैः कषायक्षारान्नपानानि कल्पयेत्॥

अचि13.12
सिंहीव्याघ्नीगोक्षुरकेक्षुरकोरुबूकमूलकल्कोऽमधुरेण दध्ना पीतः सप्गाहादश्मरीं भिनत्ति।
शिग्रुमूलकल्केन दधिलवणयमकसिद्धो यूषः॥

अचि13.13
वीरतरादिगुन्द्रेत्कटपत्तूरवाराहीपाठापाटलीशिरीषशालिमूलविदारीद्विपुनर्नवक्वाथे त्रपुसकुसुम्भैर्वारुकर्करुबीजमधुकशिलाजतुप्रतीवापं सर्पिर्विपाच्य पीतमाशु पित्ताश्मरीं भिनत्ति।
पूर्ववच्च कषायादीनेभिः कल्पयेत्॥

अचि13.14
वरणादिभद्रदार्वादिगुग्गुल्वेलाद्वयकुष्ठमरिचचित्रकमुस्तासुरसाह्वयैः कल्कीकृतैः साधितमूषकादिप्रतीवापं सर्पिः श्लेष्माश्मरीं भिनत्ति।
इति समानं पूर्वेण॥

अचि13.15
मस्तुना बहुशः पाटलीभस्म गालयित्वा भस्म विसर्जयेत्।
ततस्तन्मस्तु गृहीत्वा कुलत्थैः सह क्वाथयेत्।
तं क्वाथं गोक्षुरकमूलैलात्रपुसकुरण्टकबीजपाषाणभेदकचूर्णं क्षौद्रेण लीढ्वानुपिबेत्।
तथा शीघ्रमेवाश्मरी भिद्यते च्यवते च॥

अचि13.16
अश्मरीभेषजानां घृताक्तानामन्तर्धूमं दग्धानां क्षारं ग्राम्यपशुशकृत्क्षारं च गोमूत्रेण बहुकृत्वो गालयित्वा तमच्छमग्नौ साधयेत्।
घनीभवति च तस्मिंस्त्र्यूषणोषकादिचूर्णं दद्याद्दर्वीप्रलेपं चावतारयेत्।
एष क्षीराशिनः क्षारावलेहोऽश्मरीं भिनत्ति पातयति च शर्कराम्॥

अचि13.17
तिलकदलीयवापामार्गपलाशक्षारोऽविमूत्रेण पीतः समानः पूर्वेण।
केतकपत्रक्वाथेन हिङ्गुक्रौञ्चास्थिक्षारयुक्तः पाटलीकरवीरक्षारश्च।
क्रौञ्चोष्ट्रगर्दभास्थिश्वदंष्ट्राकदम्बमूलतालपत्रिकाजमोदनागरचूर्णश्च सुरामण्डोष्णोदकान्यतरप्रयुक्तः॥

अचि13.18
पिचुकाङ्कोलशाककतकेन्दीवरफलक्वाथश्च सुखोष्णो गुडयुक्तः।
नृत्यकुण्डकबीजचूर्णश्च समाक्षिकोऽविक्षीरयुक्तः॥

अचि13.19
कपोतवङ्कामूलं च सुरया।
तत्सिद्धं वा पयोऽश्मरीवेदनार्तः पिबेत्।
सिद्धं वाभयास्थिभिः पुनर्नवेन वा॥

अचि13.20
शेषेष्वेवं मूत्राघातेष्वत एव चिकित्सां विभजेत्॥

अचि13.21
द्रस्वपञ्चमूलेन द्विगुणत्रिकण्टकेन साधितं तोयं पयो वा केवलं घृतमिश्रं वा पिबेत् सर्वमूत्राघातघ्नम्॥

अचि13.22
गोक्षुरककण्टकारिकाकृतां वा सफाणितां यवागूम्।
ताम्रचूडरससिद्धां वा।
वीरतरादिक्वाथेन वा।
तेन वा तद्भावितं शिलाजतु।
वाजिरासभान्यतरशकृद्रसं वा।
दुरालभास्वरसं वा।
ककुभकषायं वा।
मूर्वाभयामुस्तदेवदारुमधुककल्कं वा।
वारुणीक्षीरोष्णोदकान्यतमेन।
त्रिफलाकल्कं वा ससैन्धवं सुखाम्भसा।
केवलमेव वा बिभीतक बीजं सुरया।
विहगपिशितोपदंशं वा निगदमदिरामण्डं मार्द्वीकमासवान् वा विविधान् पिबेत्।
पीतमद्यश्च शीघ्रवेगेन वाजिना रथेन वा यायात्।
एवमश्मरी शर्करा चप्रच्यवते।
सर्वेषु च मूत्राघातेषु विशेषतोऽश्मरीशर्करासु वीरतरादिः सर्वथा प्रयोज्यः।
तिल्वकघृतं च विरेकार्थम्।
बस्तिकर्म चाभीक्ष्णं विशेषेणोत्तरबस्तिः॥

अचि13.23
तत्र श्यामादिरर्धार्धविहितो गोमूत्रसिद्धो निरूहः।
बिल्वादिमूलैश्च सुरासौवीरकादिसिद्धैस्तृणपञ्चमूलश्वदंष्ट्राशृतक्षीरवांश्च त्रपुसैर्वारुकशताह्वाबीजकर्षभकयवानीकल्कितः।
पीतदारुसिद्धं तैलमनुवासनम्॥

अचि13.24
शतावरीगोक्षुरकबृहतीद्वयपुनर्नवोशीरमधुकद्विसारिवाश्रेयसीलोध्रतृणपञ्चमूलकषाये क्षीरचतुर्गुणं बलावृक्षकखराह्वोपकुञ्चिकावत्सकत्रपुसोर्वारुबीजशितिवारकमधुकषड्ग्रन्थाशताह्वाश्मभेदमदनहपुषाकल्कगर्भं तैलमुत्तरबस्तिः।
तद्विशुद्धस्रोतसा च पुनः शुक्राश्मर्यां शुक्राशयशोधनार्थं बलत्थेन पुंसा वृष्याण मांसानां कुक्कुटमांसस्य च तृप्तेनानुकूलाः प्रकर्षेण प्रियाः प्रमदा यथाकालमासेव्या इति॥

अचि13.25
क्रियाभिराभिः सिद्धाभिर्नचेच्छान्तिस्ततो भिषक्।
इति राजानमापृच्छ्य शस्त्रं साध्ववचारयेत्॥

अचि13.26
अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत्।
निश्चितस्यापि वैद्यस्य बहुशः सिद्धकर्मणः॥

अस13.27। अथातुरमुपस्निग्धमपकृष्टदोषमीषत्कर्शितमभ्यक्त स्विन्नशरीरमभुक्तवन्तं कृतमङ्गलस्वस्तिवाचनमुपकल्पितसम्भारमाश्वास्य ततो बलवन्तमविक्लवमाजानुसमे फलके प्रागुपवेश्य पुरुषं तस्योत्सङ्गे सुनिषष्णपूर्वकायमुत्तानं वस्त्रचुंबलोपविष्टं सङ्कुचितजानुकूर्परमितरेण पुंसा सहबद्धं सूत्रैः शाटकेन वा ततोऽस्यस्वभ्यक्तं नाभिप्रदेशं वामपार्श्वे विमृद्य मुष्टिनावपीडयेत्।
अधोनाभेर्यावदश्मर्यधः प्रतिपन्ना ततस्तैलाभ्यक्ते कृत्तनखे वामहस्तप्रदेशिनीमध्यमे पायौ प्रणिधायानुसेवन्यासाद्य च प्रयत्नबलाभ्यामश्मरीं मेढ्रगुदयोरन्तरमानीय निर्वलीकमनायतमविषमं च बस्तिं सन्निवेश्य भृशमुत्पीडयेदङ्गुलीभ्यां यावत् ग्रन्थिरिवोन्नतं शल्यं भवति।
ततः सेवन्याः सव्ये पार्श्वे सेवनीं यवमात्रं मुक्त्वा निदध्याच्छस्त्रमश्मरीप्रमाणेन।
दक्षिणतो वा क्रियासौकर्यहेतोरित्येके।
यथा न विभिद्यते विचूर्ण्यते वा तथा प्रयतेत।
तच्चूर्णमल्पमप्यवस्थितं पुनः परिवृद्धिमेति।
तस्मात् समग्रामग्रवक्रेणाददीत॥

अचि13.28
स्त्रीणां तु बस्तिः पार्श्वगतो गर्भाशयसन्निकृष्टः।
तस्मात्तासामुत्सङ्गवदधः शस्त्रं पातयेत्।
अतोऽन्यथा खल्वासां मूत्रस्रावी व्रणो भवति पुरुषस्य च मूत्रप्रसेकक्षणनात्।
अश्मरीनिमित्तमेकतो भिन्नो बस्तिः सिध्यति।
क्रियाभ्यासाच्छास्त्रविहितच्छेदादीनष्पन्दपरिवृद्धत्वाच्च शल्यस्येति।
न तु द्विधा भिन्नबस्तिरश्मरीमानमपि॥

अचि13.29
उद्धृतशल्यं तूष्णोदकद्रोण्यामवगाह्य स्वेदयेत्।
तथा बस्तिरसृजा नापूर्यते।
पूर्णे तु क्षीरिवृक्षकषायं पुष्पनेत्रेण विदध्यात्।
स हि तथा बस्तिगतमश्मरीचूर्णं रक्तं च निर्हरति।
मूत्रविशुद्ध्यर्थं च गुडसौहित्यं कारयेत्॥

अचि13.30
उत्थाप्य चैनं मधुघृताभ्यक्तव्रणं मूत्रविशोधनद्रव्यसिद्धामुष्णां यवागूं सघृतां पाययेदुभयकालं त्रिरात्रम्।
त्रिरात्रादूर्ध्वं गुडप्रगाडेन पयसा मृदुमोदनमल्पं भोजयेदादशरात्रात्।
अत ऊर्ध्वं फलाम्लैर्जाङ्गलरसैः।
व्रणं च क्षीरिवृक्षकषायेण प्रक्षाल्य लोध्रमधुकमञ्जिष्ठाप्रपौण्डरीककल्केन लेपयेत्।
द्वादशरात्रं चैनमप्रमत्तः स्वेदयेत्।
एतेष्वेव च हरिद्रादियुक्तेषु तैलं विपक्वं व्रणाभ्यञ्जनम्।
सप्तरात्राच्च स्वमार्गमप्रतिपद्यमाने मूत्रे यथोक्तमग्निना व्रणं दहेत्।
स्वमार्गप्रतिपन्ने चोत्तरबस्त्यास्थापनानुवासनैर्मधुरप्रायैरुपाचरेत्॥

अचि13.31
यदृच्छया मूत्रमार्गप्रतिपन्नामन्तरासक्तां शुक्राश्मरीं शर्करां वा स्रोतसापहरेत्।
विदार्य वा नाडिं बडिशेनोद्धरेत्।
रूढव्रणश्च वर्षमङ्गनाश्च नगनागरथद्रुमात् नारोहेत्।
नाप्सु प्लवेत भुञ्जीत वा गुरूणि॥

अचि13.32
कर्मणि तु मूत्रवहशुक्रवहमुष्कस्रोतोमूत्रप्रसेकसेवनीयोनिगुदबस्तयोऽष्टौ परिहर्तव्याः।
तत्र मूत्रवहच्छेदात् मूत्रपूर्णबस्तेर्मरणम्।
शुक्रवहच्छेदान्मरणं क्लैब्यं वा।
मुष्कस्रोतसोरुपघातात् ध्वजभङ्गः।
मूत्रप्रसेकच्छेदान्मूत्रस्रवणम्।
सेवनीयोनिच्छेदनाद्रुजाप्रादुर्भावः।
गुदबस्तिविद्धस्य सद्योमरणमुक्तं प्रागिति॥

अचि13.33
भवति चात्र।
मर्माण्यमून्यविज्ञाय स्रोतोजानि शरीरिणाम्।
शस्त्रपाणिर्ध्रुवं हन्ति साहसात् केवलो यथा इति॥
॥इति त्र्योदशोऽध्यायः॥

अथ चतुर्दशोऽध्यायः।

अचि14.1
अथातः प्रमेहचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अचि14.2
प्रायेण हि प्रमेहिणोऽभिष्यण्णदेहत्वादुपहताग्नेर्भक्ष्यादिपञ्चविधमप्यन्नमुपयुक्तं मूत्राय मेदसे च विपरिणमते।
तस्मादस्य तेजोधातुवृद्धये क्लेदमेदः प्रशमनाय च बलिनः संशोधनानि प्रयुञ्जीत।
दुर्बलस्य तु संशमनानि।
सर्वस्य च बद्धमूत्राण्यमेदस्कराण्यबृंहणान्यग्निदीपनानि बलजननानि चान्नपानानि।
बलं हि विधिनोपचितमशेषामयक्षयाय सम्प्रवर्तते॥

अचि14.3
अथ संशोधनार्हं प्रमेहिणमादवेव बिभीतकसर्षपेङ्गुदीकरञ्जनिम्बनिकुम्भान्यतमतैलेन त्रिकण्टकादिना वा यथास्वं सिद्धेन स्नेहेन प्रियङ्वादिशृतेन वा हविषा स्नेहयित्वा कल्पविहितैः प्रयोगैर्वामयेद्विरेचयेच्च॥

अचि14.4
ततो जातबलं मुस्तामरदारुनागरप्रतिवापेन सुरसादिकषायेणास्थापयेत्।
पित्तोत्तरं तु न्यग्रोधादिकषायेण।
ततश्च जाङ्गलरसैः क्रमेण सन्तर्पयेत्।
अत्यपतर्पणेन हि प्रमेहिणो विशेषेण मूत्रकृच्छ्रबस्तिमेढ्रशूलगुल्मातिकार्श्यभ्रमादीनां सम्भवः।
ततोऽनुबन्धरक्षणार्थं शमनार्हस्य च शमनान्यवचारयेत्॥

अचि14.5
प्रातः सर्वप्रमेहेषु हरिद्रां मधुना युक्तामामलकरसेन पिबेत्।
अथवा सालसप्तपर्णकुटजकपित्थकम्पिल्लकबिभीतकरोहितककुसुमानि तच्चूर्णं वा क्षौद्रेण लिह्यात्।
हरीतकीचूर्णं वा।
पिबेद्वा त्रिफलामुस्तादेवदारुहरिद्राक्वाथम्।
असनचित्रकत्रिफलादार्वीकलिङ्गकानां वा सक्षौद्रम्।
तद्वद् गुडूच्या वा स्वरसमामलकानां वा॥

अचि14.6
विशेषतस्तु कफमेहेषु कट्फलमुस्तालोध्राभयानां समाक्षिकं कषायम्।
तगरविडङ्गद्विहरिद्राणां वा।
चन्दनागरुकुष्ठदेवदारूणां वा।
पाठाग्निमन्थचविकात्रिफलानां वा।
पित्तप्रमेहेषु तु लोध्रसेव्यार्जुनचन्दनानाम्।
निम्बामृतामलकपटोलीनां वा।
शिरीषसर्जार्जुनकेसराणां वा।
फलिनीकमलोत्पलकिंशुकानां वा।
कुटजोत्पलकटङ्कटेरीणां वा॥

अचि14.7
तेष्वपि च विशेषेण पिबेदुदकमेहादिषु क्रमात् कषायं पारिजातस्य वैजयन्त्याः सप्तच्छदस्यारिष्टस्य निशायाः ककुभचन्दयोश्चित्रकस्य पाठाजोङ्गकयोः खदिरस्य त्रिफलारग्वधयोश्च मधुयुतम्।
पिबेच्च सिकतामेहे हिङ्गुप्रवालकैलालवणानि मद्येन मूत्रेण क्षारोदकेन वा।
क्षारमेहादिषु त्रिफलाया असनादेः न्यग्रोधादेः शम्याकस्य चन्दनमञ्जिष्ठयोः गुडूचीतिन्दुकास्थिकाश्मर्यखर्जूराणां च मधुयुक्तम्।
शोणितमेहे मदयन्तीपत्रकल्कं च सक्षौद्रं शीताम्बुना॥

अचि14.8
वातयेष्वपि यापनार्थं कफपित्तोल्बणेषु पिबेत् कषायम्।
तत्र वसामेहेऽग्निमन्थस्य।
मज्जमेहेऽमृतचित्रकयोः।
कुष्ठकुटजपाठाकटुरोहिणीकल्कमिश्रम् हस्तमेहे हस्तिसूकरखरोष्ट्रास्थिक्षारम्।
मधुमेहे कदरखदिरपुरकषायम्॥

अचि14.9
कफानुगतेषु तु वसादिमेहेषु यथास्वकषायेण साधितानि तैलानि।
पित्तानुगतेषु च घृतानि यमकं वा प्रयुञ्जीत॥

अचि14.10
एतेन शेषेष्वपि मेहेषु स्नेहविकल्प उक्तो वेदितव्यः॥

अचि14.11
तथा कषायसम्पृक्तैः स्नेहैः कफपित्तमूत्रमेदसामनिलस्य चोपशमो भवति॥

अचि14.12
त्रिकण्टकातिविषाभल्लातकलोध्रवचापिचुमन्दघननिशाजमोदार्जुनाश्मन्तकपटोलसोमवल्कमञ्जिष्ठापद्मकचन्दनागरुभिश्च स्नेहो विपक्वः सर्वमेहघ्नः॥

अचि14.13
दशमूलहरीतकीदेवदारुकरञ्जद्वयद्विवर्षाभूदन्तीभूकदम्बभल्लातकशठीपुष्करमूलार्कमूलस्नुहीमूलवरणमूलपिप्पलीमूलानि प्रत्येकशो दशपलोन्मितानि यवकोलकुलत्थप्रस्थत्रयं चाष्टगुणेऽम्भसि साधयित्वा पादशेषं कषायमवतारयेत्।
तेन वचाविडङ्गकम्पिल्लकभल्लातकभार्ङ्गीरोहिषचविकापिप्पलीद्वयत्रिवृन्निचुलविश्वभेषजप्रतीवापं घृतप्रस्थं विपचेत्।
एतद्धान्वन्तरं सर्पिः सर्वमेहपिटकाकुष्ठविषशोफार्शोगुल्मविद्रधिप्लीहजठरश्वासकासवर्ध्मपाण्डुरोगवातशोणितोन्मादापस्मारहरम्॥

अचि14.14
आहारं च यवविकृतिप्रायं मध्वामलकोपेतमाहारयेत्।
यथायथं प्रमेहघ्नौषधनिर्यूहैः सुबहुशो यवान् भावयित्वा सक्तुमन्थापूपधानालाजवाट्यादीन् विविधांश्च लघून् भक्ष्यानुपकल्पयेत्।
तद्वच्च गोधूमान्।
गवाश्वखरजठरस्थितैश्च यवैर्वंशयवैर्वा।
यवो हि बद्धमूत्रो मेदःपित्तकफहरः स्थैर्यकरश्च।
तथा शालिषष्टिकतृणधान्यानि मुद्गादयस्तिक्तानि शाकानि जाङ्गलानि च पिशितानि शूल्यानि परिशुष्काणि प्रदिग्धानि भृष्टचणकोपदंशानि विविधासवानुपानान्युपयुञ्जीत॥

अचि14.15
लोध्रमूर्वाशठीविडङ्गत्रिफलापुष्करमूलचातुर्जातकक्रमुकचविकायवानीश्यामाभार्ङ्गीद्विविशालाभूनिम्बतगरचित्रकपिप्पलीमूलकटुरोहिणीकुष्ठपाठेन्द्रयवातिविषाप्लवनखमरिचानि कर्षांशान्यपां कलशेऽधिशृत्य तुर्यशेषे रसे पूते जतुशृतपुराणघृतभाजनस्थेऽर्धभागेन मधु निधाय पक्षमुपेक्षितोऽयं लोध्रासवः सर्वप्रमेहकुष्ठकिलासस्थौल्यारुचककृमिपाण्डुशोफार्शोग्रहणीदोषान्निहन्ति॥

अचि14.16
दशमूलदन्तीत्रिवृच्छ्यामाश्रेयसीचित्रकपुनर्नवसुधाधवैकैषिकागण्डीरगुडूचीनां पृथक् पञ्चविंशतिपलान् भागांस्त्रिफलाढकं च सलिलद्रोणैर्दशभिः पादशेषं निर्यूहमवतारयेत्।
तस्मिन् पूतशीते शुचिभाजनस्थे पुराणगुडतुलाद्वयं गोमूत्राढकमयोरजोर्धाढकं मागधिकाप्रस्थं कुटजार्जुनकुष्ठकृमिघ्नवचाचित्रकपलानि च द्वादश प्रतीवापं दत्वा मासं स्थापयेत्।
एष दशमूलारिष्टः समानः पूर्वेण॥

अचि14.17
असनादिद्रव्याणि पृथक् विंशतिपलान्यम्भसां घटाष्टकेन क्वाथयेत्।
चतुर्थस्थितं च परिस्रुतं सुशीतं गुडपलशतद्वयेन मध्वर्धाढकेन श्लक्ष्णपिष्टेन च पृथक् पलांशेन वत्सकादिना संयोज्य सक्षौद्रेण पिप्पलीचूर्णेनान्तःप्रलिप्ते जतुसृते घृतकुम्भे आवाप्य यवप्ल्ले निधापयेत्।
तत्र च तनूनि खदिराङ्गारप्रतप्तानि त्रींश्चतुरो वा मासानयं विवृतो लोहारिष्टः पूर्वस्मादधिकगुणः।
शीघुमधुमाधवानपि च निगदान् पिबेत्॥

अचि14.18
निवृत्तमद्यस्तु सारोदकं दर्भाम्भो मधुकपित्थतिन्दुकमरिचानुविद्धानि पानकानि रागषाडवांश्च सार्षपिकान्यनुपानानि च तद्विधानि।
उष्ट्राश्वतरखरपुरीषचूर्णानुविद्धं चास्मै दद्यादशनम्॥

अचि14.19
मुस्तामृतागण्डीरद्विहरिद्राद्विसारिवाद्विदर्भवर्षाभूत्रिकण्टकव्योषफल्गुरोहिषपल्लवश्यामासुरदारुकालाविडङ्गपाठाकम्पिल्लकभार्ङ्गीनिदिग्धिकादन्तीचित्रककटुकैरण्डमूलानि समांशान्यैकध्यं चूर्णयित्वा तच्चूर्णादयश्चूर्णं द्विगुणं श्लक्ष्णमावाप्य मद्यानुपानं मधुनावलिह्यात् पिबेद्वा सुखोदकेन त्रिफलाम्भसा वा।
तेन मेहप्लीहहलीमकपाण्डुरोगश्वयथुदुर्नामगुल्मोदराणि शीघ्रमुपशाम्यन्ति।
द्विविधोपक्रमणीयोक्तांश्चातिस्थौल्यादिगदयोगांश्च शीलयेत्।
प्रवृद्धमेदाः प्रगाढव्यायामोद्वर्तनस्नानविलेपनानि च रूक्षाभिरौषधीभिः॥

अचि14.20
अधनस्तु छत्रपादत्रविरहितो मुनिवृत्तिर्योजनशतमधिकं वा गच्छेत्।
श्यामाकनीवारामतिन्दुककपित्थाश्मन्तकफलमूलाहारो वा मृगैः सह वसेत्।
गोभिर्वा सह तन्मूत्रशकृद्वृत्तिः परिभ्रमेत्।
तडागानि वा खनेत्।
कृशं त्वविरुद्धैर्बृंहयेत्॥

अचि14.21
शराविकाद्यास्तु अपक्वाः शोफवदुपाचरेत्।
पक्वाश्च व्रणवत्।
पूर्वरूपेष्वेव तु तासां पाने वनस्पतिकषायं बस्तमूत्रं चोपदिशन्ति।
तीक्ष्णं च संशोधनं।
दुर्विरेच्या हि मेहिनो भवन्ति मेदोभिव्याप्तदेहत्वात्।
तैलं च व्रणरोपणार्थमेलादौ कुर्वीत।
आरग्वधादेः कषायमुद्वर्तने।
असनादेः परिषेचने।
वत्सकादेः पानभोजनेषु॥

अचि14.22
पाठाचित्रकशार्ङ्गेष्टाक्षुद्रवृहतीसारिवासोमवल्कसप्तपर्णारग्वधकुटजमूलचूर्णं मधुनालिह्यान्नवायसं वा।
असनादिवर्गस्य कषायं पादशेषं परिगृह्य परिस्राव्य च पुनः प्रियङ्ग्वामलकलोध्रदन्तीकृष्णायस्ताम्रचूर्णावापं दर्वीप्रलेपिनमवतारयेत् तं यथाबलमवलिह्यात्।
यथास्वं च प्रमेहघ्नौषधनिर्यूहैर्भावितशिलाजतुतुलोपयुक्ता सर्वमेहान् सपिटकानपकर्षतीति॥

अचि14.23
भवति चात्र मागधीमधुकं लेध्रं कुष्ठमेलाहरेणवः।
समङ्गा धातकीपुष्पं सारिवा रजनीद्वयम्॥

अचि14.24
प्रियङ्गवः सर्जरसः पद्मकं पद्मकेसरम्।
मातुलुङ्गस्य पत्राणि मधूच्छिष्टं ससैन्धवम्॥

अचि14.25
तैस्तैलं सिद्धमभ्यङ्गाच्छोधयेद्रोपयेत च।
दुष्टारुःपिटकागण्डगण्डमालाभगन्दरान्॥

अचि14.26
पिटकाः साधयेच्छीघ्नं ता ह्यसून् घ्नन्ति मेहिनः।
अनुशेषानपि भिषग्यथाबलमुपद्रवान्॥

अचि14.27
सर्वजत्वान्महामर्मसंश्रयादनुषङ्गतं।
सुबहूपद्रवत्वाच्च प्रमेहो दारुणे गदः॥
॥इति चतुर्दशोऽध्यायः॥

अथ पञ्चदशोऽध्यायः।

अचि15.1
अथातो विद्रधिवृद्धिचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अचि15.2
सर्वमेव विद्रधिमामं शोफविधिना यथादोषमुपाचरेत्।
प्रततं च शोणितमपहरेत्।
पाकाभिमुखं चोपनाह्य पक्वं पाटयित्वा व्रणवच्चिकित्सेत्॥

अचि15.3
आभ्यन्तरे तु विद्रधौ वरणादिक्वाथमूषकादिप्रतीवापं पिबेत्।
आभ्यामेव च वर्गाभ्यां विरेचनद्रव्यैश्च पानाय् सर्पिः प्रकल्पयेत्।
आस्थापनमनुवासनं च।
मधुशिग्रुम् च पानभोजनलेपनेषु।
शिलाह्वयं वा कल्पविधानेनोपयुञ्जीत।
गुग्गुलुं वा यथादोषं च सर्वशो गुल्मवदुपक्रमेत्॥

अचि15.4
त्रिफलापिचुमन्दमधुककटुकापटोलानि शाणांशानि।
त्रिवृत्त्रायमाणयोः कर्षम्।
मसूरपलं चैकध्यमष्टगुणेऽम्भसि साधयित्वा पूतं रसं घृतमूर्छितं पिबेत्।
तेन विद्रधिगुल्मज्वरदाहशूलतृष्णाहृद्रोगभ्रमारतिमूर्छारक्तपित्तकामलाकुष्ठविसर्पाः प्रशाम्यन्ति॥

अचि15.5
त्रायमाणाप्रस्थक्वाथे मुस्तकटुकातामलकीत्रायमाणाचन्दनदुरालभाजीवन्तीवीरोत्पलैः पालिकैर्घृतप्रस्थं क्षीरामलकरसप्रस्थद्वयोपेतं विपक्वं समानं पूर्वेण॥

अचि15.6
द्राक्षामधूकखर्जूराभीरुविदारीपरूषकत्रिफलाक्वाथे क्षीरेक्षुधात्रीस्वरससमेतमभयागर्भं सर्पिर्विपाचयेत्।
तच्छीतं मधुशर्करापादयुक्तं समानं पूर्वेण।
भृशं च शृङ्गादिभिः शोणितमवसेचयेद्यथासन्नम्।
बाहुमध्ये वा सिरां व्यधेत्।
पच्यमानं च कोष्ठगतं बहिरुन्नतमुपनाहयेत्॥

अचि15.7
तत्रैव च पिण्डिते शूले तत्पार्श्वपीडनेन लब्धसुप्तौ शस्त्रकर्मविधिनिर्दिष्टैश्च चिह्नैः पक्वमुपलक्ष्य भित्त्वा व्रणवत् साधयेत्॥

अचि15.8
आभ्यन्तर एव च पक्वमूर्ध्वमधो वा प्रवृत्तं पूयमुपद्रवान् परिरक्षन् उपेक्षेत दशाहमात्रम्॥

अचि15.9
असम्यग्वहति वा क्लेदे तन्निर्वाहणार्थमम्लसुरासवमैरेयोष्णोदकान्यतमेन वरणादिं मधुशिग्रुं वा पिबेत्।
तन्मूलैर्वा कृतां यवागूं यवकोलकुलत्थयूषेण चाश्नीयात्।
ऊर्ध्वं च दशाहात्तिल्वकघृतेन त्रायमाणा घृतेन वा यथाबलं शोधयेत्॥

अचि15.10
विशुद्धश्च तिक्तकमल्पमल्पं सर्पिर्मधुनोपेतमुपयुञ्जीत।
यथा च नोपैति पाकं तथा प्रयतितव्यम्।
शीघ्रविदाहित्वात्तस्य विद्रधिरिति संज्ञा।
पक्वे तु पुनर्दैविकी सिद्धिराशुकारितरश्च सर्वामयेभ्यो विद्रधिः।
सति च प्रमेहे प्रमेहचिकित्सितमीक्षेत॥

अचि15.11
स्तनविद्रधिमपि व्रणविधानेनोपचरेत्।
पच्यमानं यथेष्टभोजनेन पाचयेत्।
न पुनरुपनाहयेत्।
उपनद्धो हि स्तनो मृदुमांसतया शीघ्रमेव पक्वः सङ्कोथमवाप्यावदीर्येत।
पक्वं च स्तनविद्रधिं स्तन्यवाहिनीः सिराः सचूचुकं च कृष्णमण्डलं परिहरन् शस्त्रेणोपक्रमेत।
सर्वासु चामविदग्धपक्वव्रणावस्थासु स्तनं निर्दुहीत।
दन्तादिविद्रधीनामपि यथास्वमेव वक्ष्यते लक्षणं साधनं च॥
॥इति विद्रधिचिकित्सा॥

अचि15.12
वृद्धौ तु मारुतजे त्रिवृता स्निग्धमातुरं स्विन्नं च मिश्रकसुकुमारकतिल्वकैरण्डकोशाम्रफलस्नेहानामन्यतमेन विरेचयेत्।
ततोऽनिलघ्नक्वाथकल्कैर्निरूहयेत् निरूढं च मांसरसेनाशितं यष्टीमधुकतैलेनानुवासयेत्।
स्वेदप्रलेपोपनाहांश्च प्रयुञ्जीत।
पक्वं च भित्वा व्रणमिव चिकित्सेत्॥

अचि15.13
पित्तवृद्धिं पित्तशोफवत्।
पक्वं च पित्तव्रणवत्॥

अचि15.14
कफवृद्धिमपि कफशोफवत्।
पिबेच्च पीतदारुकषायं मूत्रेण।
कफग्रन्थिवच्च सर्वं विम्लापनवर्ज्यमाचरेत्।
पक्वं च पाटितं श्लेष्मव्रणवत्।
रक्तजं पित्तवृद्धिवत्।
प्रततं चात्र रक्तमपहरेत्॥

अचि15.15
मेदोवृद्धिं गवादिकरीषतुषकिण्वसुरसादिभिरुष्णरूक्षैर्मूत्रयुक्तैः स्वेदयित्वा पुनस्तद्विधैरेव सुखोष्णैः सोत्सेधं लेपयेत्।
तद्वच्छिरोविरेकद्रव्यैर्वा।
स्विन्नं चैवं फलसेवनीं परिहरन् वृद्धिपत्रेण विदार्यापनीयमेदः कासीससैन्धवमाक्षिकैः प्रतिसार्य सीव्येत्।
ततः सुमनोग्रन्थिमनःशिलैलाभल्लातकैस्तैलमभ्यङ्गार्थं कुर्यात्।
आव्रणसन्धानाच्च स्नेहस्वेदौ॥

अचि15.16
मूत्रवृद्धिं स्निग्धैः स्वेदयित्वा वस्त्रपट्टेन वेष्टयेत्।
ततोऽधस्तात् सेवन्या दकोदरवद्व्रीहिमुखेन भित्वा नाड्या स्रावयेत्।
ततः स्थगिकाबन्धं कुर्यात्।
व्रणे च शोधनरोपणानि॥

अचि15.17
आन्त्रवृद्धिं फलकोशमसंप्राप्तं वातवृद्धिवदुपचरेत्।
पुनर्नवशतपलं दशपलानि च पृथक् दशमूलपयस्याश्वगन्धाशतावर्येरण्डमूलान्यपां वहेऽष्टांशावशेषं साधयेत्।
पूतशीते च तस्मिन् निर्यूहे त्रिंशद्गुडपलान्येरण्डतैलप्रस्थं घृतद्विप्रस्थं क्षीरद्विप्रस्थं कल्कीकृतानि च द्विपलिकानि द्राक्षानागरपिप्पलीपिप्पलीमूलयवानीयवक्षारचित्रकमधुकसैन्धवान्यावाप्यैकध्यं विपचेत्।
एतत् सर्वयन्त्रणास्वपरिक्लेशेन मुकुमाराख्यं सुकुमाराणामीश्वराणां नारीणां क्षीणरेतसामप्रजानामल्पाग्नीनां विषमाग्नीनां च कामतोन्नपाने वा प्रयुक्तमलक्ष्मीघ्नं कान्तिकरं बल्यं बृंहणं वयस्थापनं वर्ध्मविद्रधिप्लीहगुल्मोदावर्तशोफोदरार्शोमेढ्रयोनिरोगेषु महावातव्याधिषु च परममौषधम्।
गन्धर्वहस्तमूलतुलां यवाढकं नागरार्धकुडवं च सलिलद्रोणे पादशेषं विपचेत्।
तेन द्विगुणक्षीरेणैरण्डतैलप्रस्थं साधयेत्।
कल्कपिष्टं चात्र दद्यात् पुनर्गन्धर्वहस्तमूलकुडवं शुण्ठीपलं च।
एतत् गन्धर्वहस्ततैलं तुल्यं पूर्वेण।
भवति चात्र॥

अचि15.18
यायाद्वर्ध्म न चेच्छातिं स्नेहरेकानुवासनैः।
बस्तिकर्म पुरः कृत्वा वङ्क्षणस्थं ततो दहेत्।
अग्निना मार्गरोधार्थं मरुतोऽर्धेन्दुवक्रया॥

अचि15.19
अङ्गुष्ठस्योपरि स्नाव पीतं तन्तुसमं च यत्।
उत्क्षिप्य सूच्या तत्तिर्यक् दहेच्छित्वा यतो गदः॥

अचि15.20
ततोऽन्यपार्श्वेऽन्ये त्वाहुर्दहेद्वानामिकाङ्गुलेः॥

अचि15.21
गुल्मेऽन्यैर्वातकफजे प्लीह्नि चायं विधिः स्मृतः।
कनिष्ठिकानामिकयोर्विश्वभ्यां तु यतो गदः॥

॥इति पञ्चदशोऽध्यायः॥