अष्टाङ्गसंग्रहः कल्पस्थानम् परिभाषा

विकिस्रोतः तः

अष्टाङ्गसंग्रहः

परिभाषा

अकप.1
परिभाषाः प्रवक्ष्यन्ते चिकित्सायां सुसंश्रिताः।
द्रव्याणि षोडशगुणे सलिले क्वाथयेत् भिषक्॥

अकप.2
चतुर्थशेषः पूतस्तु कषायो ग्राह्य इष्यते।
अथ क्वाथ्येषु तेषूक्तं तोयादन्यत् द्रव भवेत्॥

अकप.3
तच्चाम्बुवत् प्रयोक्तव्यं तत् षोडशगुणं ततः।
द्रवं यत्तत्र पठितं क्षीरं वा दधिमस्तु वा॥

अकप.4
मूत्रं तक्रं सुरामण्डं यदि वाप्यम्लकाञ्जिकम्।
जलवत् षोडशगुणं तत् स्यात् पादावशेषितम्॥

अकप.5
अनिर्दिष्टे प्रमाणे तु क्वाथ्यानां च द्रवस्य च।
कषायपाककल्पोऽयं कृष्णात्रेयेण वर्णितः॥

अकप.6
कर्तव्यं सति निर्देशे यथानिर्दिष्टमेव हि।
अस्यास्तु परिभाषायाः षडङ्गादावसम्भवात्॥

अकप.7
तत्र प्रसिद्धिमाश्रित्य भेषजेषु जलेषु च।
तथा विधेया भागाः स्युर्व्याध्यादिसदृशा यथा॥

अकप.8
तस्मादर्धपलं वापि कर्षन्नयमथापि वा।
द्रव्याणां स्यात् पलं वापि द्विप्रस्थमुदकस्य तु॥

अकप.9
ततोधिकं वा कर्तव्यमूहापोहविशारदैः।
हीनं वापि ततः कार्यमेवं यूषे च पानके॥

अकप.10
मांसौदनासवारिष्टपेयासु च वितर्कयेत्।
स्नेहादिसाधनायोक्तो निर्यूहो यत्र तत्र हि॥

अकप.11
तत्रापि षोडशगुणः पक्षोयं परिगृह्यते।
द्रव्यं स्नेहसमं क्वाथ्यमत्र पक्षे प्रयुज्यते॥

अकप.12
कषाय एव चेत्तत्र द्रवार्थं केवलो भवेत्।
तथान्यदपि तत्रोक्तं द्रवं क्षीरादिकं भवेत्॥

अकप.13
ततोनुरूपं सङ्ख्याय द्रव्यं तोयेन साधयेत्।
द्रव्यं स्नेहसमं क्वाथ्यमन्यत्रापि द्रवे सति॥

अकप.14
न तत्र युज्यते तस्मादनुरूपेण कल्पयेत्।
अन्येतु भिषजःप्राहुः क्वाथ्यान्यष्टगुणेऽम्भसि॥

अकप.15
क्वाथ्यं तु भवति स्नेहादत्र द्विगुणमौषधम्।
कषायेणैव चेत् साध्यः सत्यन्यस्मिन् द्रवे तथा॥

अकप.16
साधयेदनुरूपेण केचिदेवं प्रचक्षते।
चतुर्गुणेन तोयेन क्वाथयेदौषधानि तु॥

अकप.17
ऋषीणां सुश्रुतादीनां सर्वेषां मतमीदृशम्।
एतावांस्तु विशेषोऽत्र शेषमात्रापि पूर्ववत्॥

अकप.18
क्वाथ्यं तु भेषजं स्नेहादत्र पक्षे चतुर्गुणम्।
पलव्यपेक्षया द्रव्यादथ तोयं चतुर्गुणम्॥

अकप.19
प्रस्थव्यपेक्षया द्रव्याद्यदा तोयं चतुर्गुणम्।
क्रियते द्विगुणं क्वाथ्यं ततः स्नेहात् प्रयुज्यते॥

अकप.20
द्रवाणां द्विगुणं प्रस्थं शुष्कात् प्रस्थाद्यतो मतः।
प्रसिद्धिस्तु चिकित्सायां द्विधा हि भिषजामिह॥

अकप.21
पलव्यपेक्सयाप्यस्ति तथा प्रस्थव्यपेक्षया।
सुश्रुतस्य तु यः पूर्वमुपन्यस्तश्चिरन्तनः।
पाठः पलव्यपेक्षायां ज्ञापकं तदुदाहृतम्॥

अकप.22
इत्येवं त्रिविधः प्रोक्तः कषायग्रहणं प्रति।
एवमन्यत्र सर्वेषां कल्कात् स्नेहश्चतुर्गुणः॥

अकप.23
चतुर्गुणं द्रवं स्नेहाद्यत्र यत् पठ्यते द्रवम्।
अनुक्ते तु द्रवे देयं जलमेव चतुर्गुणम्॥

अकप.24
कल्ककल्पस्तु चरके कषायाणां न कीर्तितः॥

अकप.25
स्नेहपाकविधिस्तूक्त एवं दृढबलेन तु।
चरकोऽर्धकृते शास्त्रे ब्रह्मभूयं गतो यतः॥

अकप.26
कषायस्य तु पेयस्य यदि वा कल्कचूर्णयोः।
मात्रा दृढबलेनापि तत्रेति परिभाषिता॥

अकप.27
चरकोक्तैर्मया वाक्यैरनुमानात् प्रसाधिता।
अनुक्तापि यथा मात्रा पञ्चाद्वक्ष्याम्यहं तथा॥

अकप.28
एषां कषायकल्पानां प्रविभागो विधीयते।
कषायकल्पे त्रिविधे यश्चतुर्गुणितोदकः॥

अकप.29
कषायकल्पः स्नेहेषु साध्येष्वेव समाश्रितः।
वैद्यैः प्रायेण न तथा यः षोडशगुणोदकः॥

अकप.30
चतुर्गुणोदके पक्षे स्नेहाद्द्रव्यं चतुर्गुणम्।
अष्टाविंशं पलशतं क्वाथ्यद्रव्यस्य जायते॥

अकप.31
स्नेहप्रस्थे विपक्तव्ये शुष्कं तच्च भवेद्यदि।
आर्द्रं चेदुद्धृतं सद्यस्ततः पलशतद्वयम्॥

अकप.32
स्नेहप्रस्थे भवेत्साध्ये षट्पञ्चाशत् पलाधिकम्।
एवं बहुत्वात् द्रव्यस्य यश्चतुर्गुणितोदकः॥

अकप.33
सकल्पोऽभिमतस्तत्र स्नेहः स्याद्वीर्यवत्तरः।
सहस्रपाकाः स्नेहास्तु शतपाकाश्च कीर्तिताः॥

अकप.34
सुभावितं स्वल्पमपि द्रव्यं तद्बहुकर्मकृत्।
तस्माद्बहुतरं द्रव्यं यत्र पक्षे प्रयुज्यते॥

अकप.35
स्नेहपाकेषु सः श्रेयानित्येष तु मयाश्रितः।
स्नेहपाकविधावेव प्रयोगस्तस्य युज्यते॥

अकप.36
पाचनाः शमनीयाश्च ये कषाया ज्वरादिषु।
उदीरिताः पुनस्तेषु कषायेषूपकल्प्यते॥

अकप.37
चतुर्गुणादक पेयं कषायस्य पलं भवेत्।
तस्माद्द्रव्यपलं वैद्याः पाचनेषु प्रयुञ्जते॥

अकप.38
मात्रां तु वैद्याः क्वाथस्य पाययन्ति चतुष्पलाम्।
क्रियमाणः प्रसिद्धोऽयं पारम्पर्यागतो विधिः॥

अकप.39
वाधितुं शक्यते नैव ज्ञापकं चात्र विद्यते।
पलं वत्सकबीजस्य श्रपयित्वा रसं पिबेत्॥

अकप.40
आचार्यचरकेणैवमतिसारे तु भाषितम्।
पटोलाद्ये कषाये च क्वाथ्यद्रव्यपलं कृतम्॥

अकप.41
चतुर्गुणेन तोयेन पचेद्द्रव्यपले सति।
चतुर्भागावशेषं तु पेयं क्वाथपलं भवेत्॥

अकप.42
शास्त्रे कुष्ठे च मात्रा सा महती सम्प्रकाशिता।
चतुष्पला कषायस्य मात्रा या भिषजां मता॥

अकप.43
पले चतुर्गुणजले सा मात्रा न प्रसिध्यति।
एवं सति च साध्यं स्याद्भेषजानां चतुष्पलम्॥

अकप.44
चतुष्पलस्य द्रव्यस्य क्वथितस्य चतुर्गुणे।
तोये चतुर्थशेषस्य पेयः क्वाथश्चतुष्पलः॥

अकप.45
भट्टारहरिचन्द्रेण खरणादे प्रकीर्तिता।
पातव्या षट्पला मात्रा तस्य द्रव्यपलानि षट्॥

अकप.46
क्वाथानि संप्रयुज्यन्ते जलं द्रव्याच्चतुर्गुणम्।
पटोलाद्ये च तेनापि क्वाथ्यद्रव्यपलं कृतम्॥

अकप.47
खरणादकृता मात्रा पेया तेनैव षट्पला।
परस्परविरुद्धं तत्तस्याप्येतत् प्रयुज्यते॥

अकप.48
अप्रसिद्धो विधिश्चायं कषायस्य ज्वरादिषु।
न षट्पलानि क्वाथ्यन्ते न च तोयं चतुर्गुणम्॥

अकप.49
चतुर्गुणोदका तस्मात् परिभाषा न युज्यते।
ज्वरादीनां कषायेषु स्नेहेष्वेव हि सा मता॥

अकप.50
कृष्णात्रेयमुनिप्रोक्ता या षोडशगुणोदका।
ज्वरादिषु कषायाणां ग्रहणं क्रियते तया॥

अकप.51
चतुर्गुणोदका यापि परिभाषोपदिश्यते।
तत्रापि हि विशेषोऽयमन्यः कैश्चिदुपाश्रितः॥

अकप.52
स्नेहेषु पलनिर्देशो येषु न विद्यते।
प्रस्थव्यपेक्षया चात्र सङ्ख्येयमुदकौषधम्॥

अकप.53
पलव्यपेक्षया चापि समाचारो द्विधा अपि।
पूर्वं प्रस्थव्यपेक्षा या प्रोक्ता विज्ञापके सति॥

अकप.54
द्रव्याणां पलनिर्देशो यत्रोक्तो मिश्रके तथा।
पलव्यपेक्षयैवात्र तोयमेवं चतुर्गुणम्॥

अकप.55
प्रदेशान्तरनिर्देशाच्चरकेऽप्यनुमीयते।
कषायमात्रा पातव्या यद्यप्यपरिभाषिता॥

अकप.56
स्वर्णक्षीर्यादिके योगे पाण्डुरोगचिकित्सिते।
पातव्या कथिता मात्रा गोमूत्रेण चतुष्पला॥

अकप.57
रोहिणीकटुकादीनां पित्तगुल्मचिकित्सिते।
घृतं मुक्त्वा कषायस्य प्रोक्ता मात्रा चतुष्पला॥

अकप.58
अतोऽनुमानाच्चरके सिद्धा मात्रा चतुष्पला।
द्रव्याणां च पलं क्वाथ्यं पटोलाद्ये प्रकीर्तितम्॥

अकप.59
पलं वत्सकबीजस्य निर्दिष्टं चातिसारिके।
तत् षोडशगुणे तोये यदि न क्वाथ्यते ततः॥

अकप.60
चतुर्गुणोदके तोये पेयं क्वाथपलं भवेत्।
इत्येतत् षोडशगुणं तोयं यत्र प्रयुज्यते॥

अकप.61
एषैव चरकस्यापि परिभाषानुमीयते।
पातव्येषु कषायेषु मुस्तपर्पटकादिषु॥

अकप.62
विशेषः कथ्यतेऽन्योऽपि माने शुष्कद्रवाश्रये।
शुष्कद्रव्याश्रयं मानं निर्दिश्य यदुदाहृतम्॥

अकप.63
द्रवेषु द्विगुणं मानं सद्यश्चैवोद्धृतेषु च।
द्विगुणं मानमित्येतदारभ्य कुडवादिति॥

अकप.64
शुष्काणां च द्रवाणां च समं तु कुडवादधः।
तुलायामपि नैवेष्टा द्विगुणा मानकल्पना॥

अकप.65
तुलापलशतं चैव तच्छ्रुष्कद्रवयोर्मतम्।
पलं चतुर्गुणं चेष्टं प्रसिद्धज्ञापकादिकम्॥

अकप.66
सहाचरतुलायास्तु रसे तैलाढकं पचेत्।
यदुक्तं शतमेवात्र पलानां परिगृह्यते॥

अकप.67
चतुःसुवर्णमेतच्च पलं नाष्टसुवर्णकम्।
द्रव्यस्य द्विगुणत्वे स्यात् पलमष्टसुवर्णकम्॥

अकप.68
नैवाञ्जलौ न प्रसृते न पले न पलादधः।
द्रवाणामौषधानां हि द्विगुणं मानमिष्यते॥

अकप.69
द्विगुणत्वे द्रवेषु स्यात् पलमष्टसुवणकम्।
तेनैषां द्विगुणत्वेन क्रियामार्गो विरुध्यते॥

अकप.70
कुडवाद्यासु संज्ञासु द्रवाणां द्विगुणो विधिः।
विद्यते ज्ञापकं चात्र चरकाचार्यदर्शितम्॥

अकप.71
स्पष्टार्थमेव पठितमिदं कुष्ठचिकित्सिते।
सलिलाढकेऽष्टभागे शेषे पूतो रसो ग्राह्यः॥

अकप.72
ते च कषायाष्टपले चतुष्पलं सर्पिषश्च पक्तव्यम्।
यावत्स्यादष्टपलं शेषं पेयं ततः कोष्णमिति॥

अकप.73
अष्टभागावशेषे तु पलानामष्टकद्वयम्।
पलस्य द्विगुणे माने क्रियमाणे न युज्यते॥

अकप.74
द्विगुणे हि पले तत् स्यादेकमेव पलाष्टकम्।
चतुष्पलं च दातव्यं यत् प्रोक्तं सह सर्पिसा॥

अकप.75
पलस्य द्विगुणे माने तदप्यष्टपलं भवेत्।
चतुःसुवर्णं हि पलं शुष्काणामिष्यते यतः॥

अकप.76
द्विगुणत्वात् द्रवाणां हि तत् स्यादष्टसुवर्णकम्।
निरूहमात्रानिर्देश एवं सति च बाध्यते॥

अकप.77
प्रसृतार्धं समारभ्य द्वादश प्रसृताः परम्।
एषा मात्रा द्विगुणिता द्विगुणे प्रसृते भवेत्॥

अकप.78
निरूहमात्रा शास्त्रोक्ता द्वादशप्रसृतास्तथा।
चत्वारिंशत् पलानि स्युरष्टाभिरधिकानि च॥

अकप.79
व्याध्यादिषु तु मध्येषु क्वाथस्याञ्जलिरिष्यते।
अत्र सुश्रुतनिदशे क्वाथोऽयं द्विगुणो भवेत्॥

अकप.80
स्वरसात् क्वथिताच्छीतात् कषायात् षट्पलं पिबेत्।
यदुक्तं खरणादेन तद्द्वादशपलं भवेत्॥

अकप.81
पैत्तिके पठ्यते गुल्मे सर्पिषश्च चतुष्पलम्।
पिबेत् संमूर्छितं तेन गुल्मः शाम्यति पैत्तिकः॥

अकप.82
चतुष्पलं घृतस्येदं मात्राप्यष्टपलं भवेत्।
स्वर्णक्षीर्यादिके योगे गोमूत्राञ्जलिरिष्यते॥

अकप.83
अञ्जलेर्द्विगुणत्वाद्धि मात्रा साष्टपला भवेत्।
गौल्मिके त्रायमाणाद्ये घृते च परिपठ्यते॥

अकप.84
रसस्यामलकेक्षूणां क्षीरस्य च घृतस्य च।
पलानि पृथगष्टाष्टौ कृत्वा सम्यग्विपाचयेत्॥

अकप.85
अष्टौ प्रत्येकमेतानि स्युः षोडश पलानि तु।
तस्मादेवंप्रकारेषु निर्देशेषु विरुध्यते॥

अकप.86
द्रवाणां द्विगुणं मानं तत्कार्यं कुडवादिषु।
आर्द्रेष्वपि न सर्वेषु सद्यस्तेषूद्घृतेषु च॥

अकप.87
द्विगुणं मानमिच्छन्ति विशेषोऽत्र च कल्प्यते।
शुष्काणि विनियुज्यन्ते दशमूलादिकानि हि॥

अकप.88
तेष्वेव द्विगुणं मानं न सर्वेषूद्घृतेषु हि।
आर्द्राणामेव येषां तु प्रसिद्धिमुपकल्पयेत्॥

अकप.89
वासाघृते वृषघृते तैले साहचरे तथा।
आर्द्राणां द्विगुणं मानमेवमादिषु नेष्यते॥

अकप.90
आर्द्राणामेव तेषां हि प्रयोगः शस्यते यतः।
शतावरीमूलतुलाश्चतस्रो याः प्रकीर्तिताः॥

अकप.91
नै तत्र द्विगुणं मानं भिषग्भिः कैश्चिदाश्रितम्।
वद्यबुद्धिविकासार्थमिदमन्यत् प्रकाश्यते॥

अकप.92
क्वाथ्यानामौषधानां हि प्रमाणं यत्र नोदितम्।
चतुर्गुणं च निर्दिष्टमन्यत् क्षीरादिकं द्रवम्॥

अकप.93
कषायोऽप्यौषधानां हि तत्र कार्यश्चतुर्गुणः।
उदाहरणमत्रेष्टं महाकल्याणकं घृतम्॥

अकप.94
एवमेवौषधानां हि प्रमाणं यत्र नोदितम्।
द्विगुणं चापि निर्दिष्टमन्यत् क्षीरादिकं द्रवम्॥

अकप.95
कषायोऽप्यौषधानां हि द्विगुणस्तत्र युज्यते।
वासादिकं ज्वरे प्रोक्तमत्रोदाहरणं स्मृतम्॥

अकप.96
निर्दिष्टं क्षीरमन्यद्वा द्रवं यत्र चतुर्गुणम्।
क्वाथौषधानां मानं च प्रोक्तं नोक्तं जलस्य तु॥

अकप.97
तत्रोषधिवशादेव सङ्ख्या क्वाथस्य गम्यते।
चतुर्गुणोदका तत्र परिभाषा यदीष्यते॥

अकप.98
ततो द्रव्यसमस्तत्र कषायः परिकल्प्यते।
यदा तु परिभाषेष्टा या षोडशगुणोदका॥

अकप.99
चतुर्थशेषः क्वाथः स्यात्ततो द्रव्याच्चतुर्गुणः।
अत्र साहचरं तैलमुदाहरणामिष्यते॥

अकप.100
यत्रौषधं कषायोऽपि द्रवं क्षीरादिकं त्रयम्।
प्रमाणं तु तथा नोक्तं स्नेहस्योक्तं न वा भवेत्॥

अकप.101
तुल्यं क्वाथेन दातव्यं तत्र क्षीरादिकं द्रवम्।
कर्तव्यं च तथा तत् स्याद्यथा स्नेहाच्चतुर्गुणम्॥

अकप.102
गौल्मिको मिश्रकस्नेह उदाहरणमत्र हि।
एवं वै द्विगुणे स्नेहात् त्रिगुणे च प्रकीर्तिते॥

अकप.103
क्षीरादिके द्रवे कार्यं कषायग्रहणं तथा।
यथा कषायसहितं द्रवं स्यात्तच्चतुर्गुणम्॥

अकप.104
अत्रोदाहरणं तत् स्याद्यथास्नेहाच्चतुर्गुणः।
कषायः पठ्यते यत्र प्रमाणं चास्य नोदितम्॥

अकप.105
चतुर्गुणं वाप्यधिकं प्रोक्तं क्षीरादिकं द्रवम्।
तत्रापि च प्रयोक्तव्यं स्नेहात् क्वाथं चतुर्गुणम्॥

अकप.106
पञ्चमूलकषायेण पिण्याकं बहुवार्षिकम्।
पठ्यते वातरोगे तदुदाहरणमत्र हि॥

अकप.107
बहूनि यत्र पठ्यन्ते क्वचित् स्नेहे द्रवाणि हि।
बहूनामपि तेषां च परिमाणं न पठ्यते॥

अकप.108
सर्वेषां समुदायः स्यात्तत्र स्नेहाच्चतुर्गुणः।
स्नेहपाकविधिं केचिदेवं समनुचक्षते॥

अकप.109
बहुष्वेकैकमिच्छन्ति केचित्तत्र समं द्रवम्।
इत्येवं मतभेदात्तु यथा क्वाथविधौ तथा॥

अकप.110
चतुर्गुणोदकः पक्षो यदा तत्र समाश्रितः।
बहुद्रव्यं किल स्नेहो वीर्यवाञ्छतपाकवत्॥

अकप.111
अनयैवोपपत्या तु समुदायं चतुर्गुणम्।
नेच्छन्ति केचित् प्रत्येकमाहुः स्नेहसमं द्रवम्॥

अकप.112
ग्रहणीरौगिके स्नेहे पञ्चमूलाभयादिके।
शुक्तेन मातुलुङ्गस्य स्वरसेनैवमादितः॥

अकप.113
उदाहरणमत्रास्ति यो वाप्यन्यो बहुद्रवः।
श्लोकैरेषोणुतैलस्य कथ्यते पाकसंविधिः॥

अकप.114
यस्य साधयितुं तैलं यावन्मात्रमभीप्सितम्।
तत्रौषधानि तावन्ति दत्वा तोयं चतुर्गुणम्॥

अकप.115
कषायार्थं विपच्यन्ते यः कषायश्चतुर्गुणः।
यावन्मात्रस्य तैलस्य दद्यात् पादावशेषितम्॥

अकप.116
यावन्मात्रमसौ तैलात् कषायो नावतार्यते।
चतुर्गुणोऽत्र किं तर्हि पाक्याद्दशगुणः कृतः॥

अकप.117
चतुर्गुणेन तोयेन प्राप्तानि परिभाषया।
क्वाथ्यानि यानि तान्यत्र पाक्याः शतगुणे जले॥

अकप.118
क्वाथ्यन्ते परिभाषा तु शास्त्रवाक्येन बाधिता।
इत्येवमणुतैलस्य कर्तव्यं सम्प्रसाधनम्॥

अकप.119
गद्योक्तो यः पुनः श्लोकैरर्थः समनुगीयते।
तद्व्यक्तिव्यवसायार्थं द्विरुक्तिः सा न गर्ह्यते।

[प्रागुक्तोऽपि मयार्थो यः श्लोकैस्तस्मात् प्रकाशितः॥]

॥इति अष्टमोऽध्यायः॥