अष्टाङ्गसंग्रहः कल्पस्थानम् अध्याय ५-८

विकिस्रोतः तः

अष्टाङ्गसंग्रहः

अथ पञ्चमोऽध्यायः।

अक5.1
अथातः सिद्धबस्तिकल्पं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
सिद्धबस्तीन् प्रयुञ्जीत सर्वदा सर्वदेहिनाम्।
निर्व्यापदो बहुफलान् बलपुष्टिकरान् सुखान्॥

अक5.2
मधुतैले समे कर्षः सन्धवात् द्विपचुर्मिसिः।
एरण्डमूलक्वाथेन निरूहो माधुतैलिकः।
रसायनं प्रमेहार्शः कृमिगुल्मान्त्रवृद्धिनुत्॥

अक5.3
सयष्टिमधुकश्चैष चक्षुष्यो रक्तपित्तजित्।
यापनो घनकल्केन मधुतैलरसाज्यवान्॥

अक5.4
पायुजानूरुवृषणबस्तिमेहनशूलजित्।
प्रसृतांशैर्घृतक्षौद्रवसातैलैः प्रक्ल्पयेत्।
यापनं सैन्धवार्धाक्षहपुषार्धपलान्वितम्॥

अक5.5
एरण्डमूलनिष्क्वाथो मधुतैलं ससैधवम्।
एष युक्तरथो बस्तिः सवचापिप्पलीफलः॥

अक5.6
सक्वाथो मधुषड्ग्रन्थाशताह्वाहिङ्गुसैन्धवः।
सुरदारु च रास्ना च बस्तिर्दोषहरः शिवः॥

अक5.7
पञ्चमूलस्य निष्क्वाथस्तैलं मागधिका मधु।
ससैन्धवः समधुकः सिद्धबस्तिरिति स्मृतः॥

अक5.8
द्विपञ्चमूलत्रिफलाफलबिल्वानि पाचयेत्।
गोमूत्रे तेन पिष्टैश्च पाठातोयदवत्सकैः॥

अक5.9
सफलैः क्षौद्रतैलाभ्यां क्षारेण लवणेन च।
युक्तो बस्तिः कफव्याधिपाण्डुरोगविषूचिषु।
शुक्रानिलविबन्धेषु बस्त्याटोपे च पूजितः॥

अक5.10
मुस्तापाठामृतैरण्डबलारास्नापुनर्नवम्।
मञ्जिष्ठारग्वधोशीरत्रायमाणाक्षरोहिणीः॥

अक5.11
कनीयः पञ्चमूलं च पालिकं मदनाष्टकम्।
जलाढके पचेत्तच्च पादशेषं परिस्रुतम्॥

अक5.12
क्षीरद्विप्रस्थसंयुक्तं क्षीरशेषं पुनः पचेत्।
सपादजाङ्गलरसः ससर्पिर्मधुसैन्धवः॥

अक5.13
पिष्टैर्यष्टीमिसिश्यामाकलिङ्गकरसाञ्जनैः।
बस्तिः सुखोष्णो मांसाग्निबलशुक्रविवर्धनः॥

अक5.14
वातासृङ्मोहमेहार्शोगुल्मविण्मूत्रसङ्ग्रहम्।
विषमज्वरवीसर्पवर्ध्माध्मानप्रवाहिकाः॥

अक5.15
वङ्क्षणोरुकटीकुक्षिमन्याश्रोत्रशिरोरुजः।
हन्यादसृग्दरोन्मादशोफकासाश्मकुण्डलान्।
चक्षुष्यः पुत्रदो राजा यापनानां रसायनम्॥

अक5.16
पृथक् पलांशं विपचेत् पञ्चमूलमगोक्षुरम्।
क्षीराढके चतुर्थस्थं पिष्टैर्यष्ट्यादिभिर्युतम्॥

अक5.17
क्षौद्रतैलाज्यसिन्धूत्थयुक्तं बस्तिः सुपूजितः।
विशेषाद्बालवृद्धस्त्रीसुकुमारसुखात्मनाम्॥

अक5.18
तद्वत् सहाचरबलासारिवादर्भसाधितम्।
क्षीरं बस्तिस्तथाभीरुगुडूचीबृहतीद्वयैः।
सिद्धं पयो मागधिकायष्टीमधुककल्कवत्॥

अक5.19
पञ्चमूलं बृहत्यादि प्रतिद्रव्यं पलोन्मितम्।
द्विपलं शालिगोधूमयवमाषं सयष्टिकम्॥

अक5.20
तैः सिद्धं छागलं क्षीरं कुक्कुटाण्डरसः सिता।
साज्यक्षौद्रद्विलवणस्तैर्बस्तिः शुक्रकृत्परम्।
कल्पोऽयं शिखिगोनर्दमत्स्याद्यण्डरसेष्वपि॥

अक5.21
रसः कुलीरमांसस्य चटकाण्डरसान्वितः।
सशर्कराघृतमधुर्बस्तिर्वृष्यतमो मतः॥

अक5.22
बस्तसूकरजैर्मुष्कैः कुलीरचटकामिषैः।
सिद्धं पयो बस्तशुक्रमुच्चटेक्षुरकं मधु॥

अक5.23
तैर्घृताढ्योऽल्पलवणो बस्तिर्वृष्यतमः परम्।
सिद्धेन पयसा भोज्यमात्मगुप्तोच्चटेक्षुरैः॥

अक5.24
अतो दशदशाहेन यस्तु बस्तीन् निषेवते।
वाजीव पुष्टः सवृषो गच्छति प्रमदाशतम्।
एते माक्षिकसंयुक्ताः कुर्वन्त्यतिवृषं नरम्॥

अक5.25
नातियोगं न चायोगं स्ताम्भिनस्ते च कुर्वते॥

अक5.26
निरूहा लेखनाः प्रायो बृंहणाः स्नेहबस्तयः।
यापनेषूभयं तस्मान्नेष्टं तेष्वनुवासनम्॥

अक5.27
मृदुत्वान्न निवर्तन्ते यस्य त्वेते प्रयोजिताः।
समूत्रैर्बस्तिभिस्तीक्ष्णैरास्थाप्यः क्षिप्रमेव सः॥

अक5.28
शोफाग्निनाशपाण्डुत्वशूलार्शःपरिकर्तिकाः।
स्युर्ज्वराश्चातिसाराश्च यापनात्यर्थसेवनात्॥

अक5.29
अरिष्टक्षारशीध्वाद्यैस्तत्रेष्टा दीपनी क्रिया।
युक्त्या तस्मान्निषेवेत यापनान् न प्रसङ्गतः॥

अक5.30
मृद्वल्पौषधसंयोगात् पादहीनप्रमाणतः।
अल्पकालोपयोगाच्च तेषु निष्परिहारता॥

अक5.31
द्रव्येषु यापनीयेषु सिद्धान् स्नेहान् पृथक् पृथक्।
बस्तीन् सर्वेषु वा युञ्ज्यात् परिहारविवर्जितान्॥

अक5.32
सहाचराभीरुबलारास्नागोक्षुरकात् पृथक्।
तुलां जलद्रोणशते पचेत् द्रोणावशेषिते॥

अक5.33
पूतशीते बिसद्राक्षातवक्षीरीनिदिग्धिकाः।
महासहाक्षुद्रसहायष्टीमधुमधूलिकाः॥

अक5.34
जीवकर्षभकोदीच्यमृणालोत्पलचन्दनम्।
खर्जूरतालमज्जात्मगुप्तामलकीकणाः॥

अक5.35
पटोलमेदात्वक्पत्रशीतपाक्योदनाह्वयाः।
कल्कीकृत्य क्षिपेत्तस्मिन् पृथक् च प्रस्थसम्मितम्॥

अक5.36
रसं वराहमहिषबस्तमुष्कोद्भवं तथा।
शिखिकुक्कुटहंसाण्डसम्भवं तैलसर्पिषी॥

अक5.37
धात्रीविदारीस्वरसं गव्यक्षीराढकद्वयम्।
ब्रह्मभेरीमृदङ्गादिनिनादैः साधितं च तत्॥

अक5.38
सितच्छत्रत्रकृतच्छायं सितवस्त्रावगुण्ठितम्।
आरोपितं गजस्कन्धे पूजयित्वा वृषध्वजम्॥

अक5.39
कृत्वा स्वस्त्ययनं दद्यात् स्नेहबस्तिमयन्त्रणम्।
प्राप्तस्तेनातिवृषतां श्रमयेद्वनिताशतम्॥

अक5.40
निर्वलीपलितः कान्तश्चिरजीवी भवेत् स च।
नष्टशुक्रक्षतक्षीणविषमज्वरिणां हितः।
व्यापन्नार्तवशुक्राणां पुत्रदाता रसायनम्॥

अक5.41
एवं च बस्तयोऽन्येऽपि कल्प्याः पाक्याश्च नैकशः।
शतं वारान् सहस्रं वा पाचयेत् सम्भवे सति॥

अक5.42
दोषघ्नाः सपरीहारा वक्ष्यन्ते स्नेहबस्तयः॥

अक5.43
दशमूलं बलां रास्नामश्वगन्धां पुनर्नवाम्।
गुडूच्यैरण्डपूतीकभार्ङ्गीवृषकरोहिषम्॥

अक5.44
शतावरीं सहचरं काकनासां पलांशकम्।
यवमाषातसीकोलकुलत्थान् प्रसृतोन्मितान्॥

अक5.45
वहे विपाच्य तोयस्य द्रोणशेषेण तेन च।
पचेत्तैलाढकं पेष्यैर्जीवनीयैः पलोन्मितैः॥

अक5.46
अनुवासनमित्येतत् सर्ववातविकारनुत्।
अनूपानां वसा तद्वज्जीवनीयोपसाधिता॥

अक5.47
शताह्वायवबिल्वाम्लैस्तैलं सिद्धं समीरणे।
सैन्धवेनाग्निव्रणेन तप्तं चानिलजिद्धृतम्॥

अक5.48
जीवन्तीं मदनं मेदां श्रावणीं मधुकं बलाम्।
शताह्वर्षभकौ कृष्णां काकनासां शतावरीम्॥

अक5.49
स्वगुप्तां क्षीरकाकोलीं कर्कटाख्यां शठीं वचाम्।
पिष्ट्वा तैलं घृतं क्षीरे साधयेत चतुर्गुणे॥

अक5.50
बृंहणं वातपित्तघ्नं बलशुक्राग्निवर्धनम्।
रजःशुक्रामयहरं पुत्रीयं चानुव सनम्॥

अक5.51
शिशिरस्पर्शवीर्यैश्च पिष्टैः क्षीरे चतुर्गुणे।
तैलपादं घृतं सिद्धं पित्तघ्नमनुवासनम्॥

अक5.52
सैन्धवं मदनं कुष्ठं शताह्वा निचुलो वचा।
द्रीबेरं मधुकं भार्ङ्गी देवदारुसकट्फलम्॥

अक5.53
नागरं पुष्करं मेदा चविका चित्रकः शठी।
विडङ्गातिविषे श्यामा हरेणुर्नीलिनी स्थिरा॥

अक5.54
बिल्वाजमोदचपला दन्ती रास्ना च तैः स्मैः।
साध्यमेरण्डतैलं वा तैलं वा कफरोगनुत्॥

अक5.55
वर्ध्मोदावर्तगुल्मार्शःप्लीहमेहाढ्यमारुतान्।
आनाहमश्मरीं चाशु हन्यात्तदनुवासनम्॥

अक5.56
साधितं पञ्चमूलेन तैलं बिल्वादिनाथवा।
अन्वासनं श्लेष्महरं द्रव्यैर्वा कफघातिभिः।
फलैरष्टगुणे चाम्ले सिद्धमन्वासनं कफे॥

अक5.57
शूलानाहे तु तद्युक्तो निरूहः पटुमूत्रवान्।
पृच्छति स्म मुनिमित्यथ धीमानग्निवेश इह किन्तु फलानाम्।
बस्तिकर्मणि हितं सततं स्यात् तं पुनर्वसुरिति प्रशशास॥

अक5.58
इह कुष्ठहिता गरागरी हितमिक्ष्वाकुफलं प्रमेहिणाम्।
कुटजस्य फलं हृदामये प्रवरं कोशफलं तु पाण्डुषु॥

अक5.59
उदरे कृतवेधनं हितं मदनं सर्वगदाविरोधि च।
मधुरं सकषायतिक्तकं तदरूक्षं सकटूष्णपिच्छिलम्॥

अक5.60
कफपित्तहृदाशुकारि यन्निरपायं पवनानुलोमि च।
प्रवरं तदतः फलादिषु स्मृतमास्थापनयोजनास्विति॥

अक5.61
अथ मुनिवृषभे निगद्य वाक्यं स्थितवति विज्ञपयाम्बभूव भूयः।
इदमतिगहनं सहान्यशिष्यैरवनिगतोऽञ्जलिमग्रतो निधाय॥

अक5.62
चित्रकर्मगुणकृद्गुरुणोक्तो बस्तिरूर्ध्वमथ चैति न नाभेः।
शीघ्नमापतति चानु स देहात् सर्वतः कथमपोहति दोषान्॥

अक5.63
ऊचे गुरुस्तिमितमारुतवश्यमेतत् देहस्य यद्बहिरुपाश्रितमन्तरे वा।
दुष्टस्य तस्य जनयन्ननुलोमतां तु बस्तिर्हिनस्ति विषमानपि रोगपूगान्॥

अक5.64
शाखागताः कोष्ठगताश्च रोगा मर्मोर्ध्वसर्वावयवाङ्गजाश्च।
ये सन्ति तेषां न तु कश्चिदन्यो वायोः परं जन्मनि हेतुरस्ति॥

अक5.65
विट्श्लेष्मपित्तादिमलाचयानां विक्षेपसंहारकरो हि वायुः।
तस्यातिवृद्धस्य शमाय नान्यद्बस्तेः समं भेषजमस्ति यस्मात्॥

अक5.66
शाम्यन्ति यत्नेन जितेऽनिले च तदीरिताः पित्तकफादयोऽपि।
तस्माच्चिकित्सार्धमिति ब्रुवन्ति सर्वां चिकित्सामपि बस्तिमेके॥

अक5.67
यच्च पक्वाशस्थोऽपि दोषानापादमस्तकम्।
वीर्येण बस्तिरादत्ते खस्थोऽर्को भूरसानिव॥

अक5.68
यत्तत्रौषधवीर्यं हि तदपानेन वायुना।
पर्याप्तमचिरादेव समानः प्रतिपद्यते॥

अक5.69
समानाद्दुत्तरंचैवं व्यानाद्याः पवनाः क्रमात्।
ते तृप्ताः प्रकृतिं याताः शरीरानुग्रहे स्थिताः॥

अक5.70
प्रसह्य पित्तश्लेष्माणौ यथास्थानं निवेश्य च।
सन्तर्पयन्ति परितः स्वान् स्वान् भूतगुणांस्तनौ॥

अक5.71
व्यानस्तिर्यगपानोऽधः प्राणश्चोर्ध्वं प्रकर्षति।
यथास्वमेव नाडीभिर्हारिणीभिरिवोदकम्॥

अक5.72
एवं वातैः सिराभिश्च वपुर्बस्तिः सुयोजितः।
व्याप्नुवत् प्रसभं हन्ति सकृछ्रानपि यक्ष्मणः॥

अक5.73
बस्तिस्तस्मात् सर्वकर्मप्रधानं सर्वातङ्कान् हन्ति निःशेषतश्च।
स्रोतांस्यन्तः शोधयित्वा च कुर्यादोजस्तेजः शुक्रमेधाग्निकीप्तिम्॥
॥इति पञ्चमोऽध्यायः॥

अथ षष्ठोऽध्यायः।

अक6.1
अथातो बस्तिव्यापत्सिद्धिं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अक6.2
विबन्धगौरवाध्मानशिरोरुग्वाहनोर्ध्वगाः।
कुक्षिशूलाङ्गरुग्घिध्माहृत्पीडाकर्तनस्रवाः।
अयोगादतियोगाच्च बस्तेः स्युः षट्षडापदः॥

अक6.3
अस्निग्धस्विन्नदेहस्य गुरुकोष्ठस्य योजितः।
शीतोऽल्पस्नेहलवणद्रव्यमात्रो घनोऽपि वा॥

अक6.4
बस्तिः सङ्क्षोभ्य तं दोषं दुर्बलत्वादनिर्हरन्।
करोति वातविण्मूत्रविबन्धमतिदारुणम्॥

अक6.5
नाभिबस्तिरुनां दाहं हृल्लेपं श्वयथुं गुदे।
कण्डूं गण्डानि वैवर्ण्यमरतिं वह्निमार्दवम्॥

अक6.6
क्वाथद्वयं प्राग्विहितं मध्येदोषेऽतिसारिणि।
उष्णस्य तस्मादेकस्य तत्र पानं प्रशस्यते।
फलवर्त्यस्तथा स्वेदाः कालं ज्ञात्वा विरेचनम्॥

अक6.7
बिल्वमूलत्रिवृद्दारुयवकोलकुलत्थवान्।
सुराविण्मूत्रवान् बस्तिः सप्राक्पेष्यस्तमानयेत्॥

अक6.8
सशेषामे निरूहेण मृदुना दोष ईरितः।
मूर्छयत्यनिलं मार्गं रुणद्ध्यग्निं हिनस्ति च॥

अक6.9
गौरवक्लमहृच्छूलदाहसम्मोहवेष्टनम्।
ततः कुर्यादुपचरेत्तं रूक्षस्वेदपाचनैः॥

अक6.10
पिप्पलीकत्तृणोशीरदारुमूर्वाशृतं जलम्।
पिबेत् सौवर्चलोन्मिश्रं दीपनं हृद्विशोधनम्॥

अक6.11
वचानागरशठ्यो वा दधिमण्डेन मूर्छिताः।
पेयाः प्रसन्नया वा स्युररिष्टेनासवेन वा॥

अक6.12
दारुत्रिकटुकं पथ्यां पलाशं चित्रकं शठीम्।
पिष्ट्वा कुष्ठं च मूत्रेण पिबेत् क्षारांश्च दीपनान्।
बस्तिमस्य विदद्ध्याच्च समूत्रं दाशमूलिकम्॥

अक6.13
युक्तोऽल्पवीर्यो दोषाढ्ये रूक्षे क्रूराशयेऽथवा।
बस्तिर्दोषावृतो रूद्धमार्गो रुन्ध्यात् समीरणम्॥

अक6.14
सविमार्गोऽनिलः कुर्यादाध्मानं मर्मपीडनम्।
विदाहं गुदकोष्ठस्य मुष्कवङ्क्षणवेदनाम्।
रूणद्धि हृदयं शूलैरितश्चेतश्च धावति॥

अक6.15
स्वभ्यक्तस्विन्नगात्रस्य तत्र वर्तिं प्रयोजयेत्।
बिल्वादिश्च निरूहः स्यात् पीलुसर्षपमूत्रवान्।
सरलामरदारुभ्यां साधितं चानुवासनम्॥

अक6.16
बहुदोषेऽबले क्रूरकोष्ठे बस्तिस्तनुर्मृदुः।
शीतोऽल्पश्चावृतो दोषैः प्रतिहन्ति समीरणम्॥

अक6.17
ऊर्ध्वं सोऽनुसरन् देहं कुर्याद्वायुः शिरोरुजम्।
ग्रीवास्तम्भं प्रतिश्यायं बाधिर्यं दृष्टिविभ्रमम्॥

अक6.18
तमुष्णतैललवणप्रदिग्धं स्विन्नमर्दितम्।
तीक्ष्णैर्धूमैः प्रधमनैर्नस्यैरास्यविरेचनैः।
विरेकैर्बस्तिभिश्चाशु योज्येदानुलोमिकैः॥

अक6.19
स्निग्धस्विन्ने महादोषे बस्तिर्मृद्वल्पभेषजः।
उत्क्लेश्याल्पं हरेद्दोषं जनयेच्च प्रवाहिकाम्॥

अक6.20
शोफं बस्तावपाने च सदनं चोरुजङ्क्षयोः।
विबद्धमारुतो जन्तुरभीक्ष्णं स प्रवाहते॥

अक6.21
स्वेदाभ्यङ्गनिरूहांश्च शोधनीयानुलोमिकान्।
विदध्याल्लङ्क्षयित्वा च वृत्तिं तस्य विरिक्तवत्॥

अक6.22
कुर्वतो वेगसंरोधं पीडितो वातिमात्रया।
अस्निग्धलवणोष्णो वा बस्तिरल्पोऽल्पभेषजः॥

अक6.23
मृदुर्वा मारुतेनोर्ध्वं विक्षिप्तो मुखनासिकात्।
निरेति मूर्छाहृल्लासतृड्दाहादीन् प्रवर्तयन्॥

अक6.24
मूर्छाविकारं दृष्ट्वास्य सिञ्चेच्छीताम्बुना मुखम्।
वीजेदाक्लमनाशाच्च प्राणायामं च कारयेत्॥

अक6.25
पृष्ठपार्श्वोदरं मृद्यात् करैरुष्णैरधोमुखम्।
केशेषूत्क्षिप्य धुन्वीत भाययेद्व्यालदंष्ट्रिभिः।
शस्त्रोल्कारजपुरुषैर्बस्तिरेति तथा ह्यधः॥

अक6.26
पाणिवस्त्रैर्गलापीडं कुर्यान्न म्रियते यथा।
प्राणोदाननिरोधाद्धि सुप्रसिद्धतरायनः।
अपानः पवनो बस्तिं तमाश्वेवापकर्षति॥

अक6.27
कुष्ठक्रमुककल्कं च पाययेदम्लसंयुतम्।
औष्ण्यात्तैक्ष्ण्यात् सरत्वाच्च बस्तिंतसोस्यानुलोमयेत्।
गोमूत्रेण त्रिवृत्पथ्याकल्कं वाधोनुलोमनम्॥

अक6.28
पक्वाशयस्थिते स्विन्ने निरूहो दाशमूलिकः।
यवकोलकुलत्थैश्च विधेयो मूत्रसाधितैः॥

अक6.29
बस्तिर्गोमूत्रसिद्धैर्वा सामृतावंशपल्लवैः।
पूतीकरञ्जत्वक्पत्रशठीदेवाह्वरोहिषैः।
सतैलगुडसिन्धूत्थो विरेकौषधकल्कवान्॥

अक6.30
बिल्वादिपञ्चमूलेन सिद्धो बस्तिरुरःस्थिते।
शिरस्थे नावनं धूमः प्रच्छाद्यं सर्षपैः शिरः॥

अक6.31
बस्तिरत्युष्णतीक्ष्णाम्लघनोऽति स्वेदितस्य वा।
अल्पदोषे मृदौ कोष्ठे प्रयुक्तो वा पुनः पुनः॥

अक6.32
अतियोगत्वमापन्नः कुक्षिशूलकरो भवेत्।
विरेचनातियोगेन स तुल्याकृतिसाधनः॥

अक6.33
पृश्निपर्णीं स्थिरां पद्मं काश्मर्यं मधुकोत्पले।
पिष्ट्वा द्राक्षां मधूकं च क्षीरे तण्डुलधावने॥

अक6.34
द्राक्षायाः पक्कलोष्टस्य प्रसादे मधुकस्य वा।
विनीय सघृतं बस्तिं युञ्ज्याद्दाहेऽतियोगजे॥

अक6.35
स्नेहस्वेदैरसम्पाद्य गुरुतीक्ष्णोऽतिमात्रकः।
दुःस्थिताय प्रणिहितो बस्तिर्दुःशोधिताय वा॥

अक6.36
अतिप्रवृत्तो मरुतं कोपयेत् स विमार्गगः।
करोत्यङ्गरुजां जृम्भां स्तम्भं भेदं च पर्वणाम्॥

अक6.37
तं तैललवणाभ्यक्तं स्वेदितं प्रस्तरादिभिः।
बिल्वकोलयवैरण्डवषार्भूबृहतीद्वयःइ॥

अक6.38
आस्थापयेत् ससिन्धूत्थैर्जाङ्गलैराशितं रसैः।
तैलेनानिलजिद्द्रव्यविपक्वेनानुवासयेत्॥

अक6.39
मृदुकोष्ठेऽबले बस्तिरतितीक्ष्णोऽतिनिर्हरन्।
कुर्याद्धिध्मां हितं तत्र हिध्माघ्नं बृंहणं च यत्॥

अक6.40
बलाबृहत्यादिवराकाश्मर्यफलसैन्धवैः।
सप्रसन्नारनालाम्लैस्तैलं पक्त्वानुवासयेत्॥

अक6.41
उष्णाम्बुनाक्षं पिप्पल्या दद्याल्लवणसंयुतम्।
धूमलेहरसक्षीरस्वेदांश्चान्नं च वातजित्॥

अक6.42
अतितीक्ष्णः सवातो वा न वा सम्यक्प्रपीडितः।
घट्टयेद्धृदयं बस्तिस्तत्र काशकुशोत्कटैः॥

अक6.43
स्यात् साम्ललवणस्कन्धकरीरबदरीनलैः।
शृतैर्बस्तिर्हितः सिद्धो वातघ्नैश्चानुवासनम्॥

अक6.44
मृदुकोष्ठाल्पदोषस्य रूक्षतीक्ष्णातिमात्रकः।
हृत्वा बस्तिर्मलाञ्छीघ्रं वातपित्ते प्रकोपयेत्॥

अक6.45
नाभिबस्तिगुदांस्ते हि कृन्ततोऽस्य मुहुर्मुहुः।
विवर्णाल्पाल्पमुत्थानं बस्तिनिर्लेखनाद्भवेत्॥

अक6.46
स्वादुशीतौषधैस्तत्र पयस्येक्ष्वादिभिः शृतः।
यष्ठ्याह्वतिलकल्केन बस्तिःस्यात् क्षीरभोजिनः॥

अक6.47
ससर्जरसयष्ट्याह्वं जिङ्गणीकर्दमाञ्जनम्।
विनीय दुग्धे बस्तिः स्याद्व्यक्ताम्लरसभोजिनः।
पिच्छिलश्च हितो बस्तिः स्नेहश्च मधुरैः शृतः॥

अक6.48
बस्तिःक्षाराम्लतीक्ष्णोष्णलवणः पैत्तिकस्य वा।
गुदं लिखन् दहन् क्षिण्वन् करोत्यस्रपरिस्रवम्॥

अक6.49
स विदग्धं स्रवत्यस्रं वर्णैः पित्तं च भूरिभिः।
बहुशश्चातियोगेन मोहं गच्छति चासकृत्॥

अक6.50
तत्रार्द्रैः शाल्मलीपत्रैः क्षुणैराजं पयः शृतम्।
पूतं घृतान्वितं बस्तिं दद्यादन्यांश्च पिच्छिलान्॥

अक6.51
वटादिपल्लवेष्वेवं कल्पो यवतिलेषु च।
सुवर्चलोपोदकयोः कच्छुदारे च शस्यते॥

अक6.52
गुदे च शीतमधुरान् कुर्यात् सेकप्रलेपनान्।
रक्तपित्तातिसारघ्नी क्रिया चात्र प्रशस्यते॥

अक6.53
दाहादिषु त्रिवृत्कल्कं मृद्वीकावारिणा पिबेत्।
तद्धि पित्तशकृद्वातान् हत्वा दाहादिकान् जयेत्॥

अक6.54
विशुद्धश्च पिबेच्छीतां यवागूं शर्करायुताम्।
युञ्ज्याद्वातिविरिक्तस्य क्षीणविट्कस्य भोजनम्।
माषयूषेण कुल्माषान् पानं दध्यथवा सुराम्॥

अक6.55
आमं यः कुणपं रुग्वानुपवेश्येत सारुचिः।
स घनातिविषाकुष्ठनतदारुवचाः पिबेत्॥

अक6.56
शकृद्वातमसृक् पित्तं कफं वा योऽतिसार्यते।
पक्वं तत्र स्ववर्गीयो बस्तिः शेष्ठं भिषग्जितम्॥

अक6.57
षण्णामेषां द्विसंसर्गात्त्रिंशद्भेदा भवन्ति तु।
केवलैः सहषट्त्रिंशद्विद्यात् सोपद्रवांश्च तान्॥

अक6.58
शूलप्रवाहिकाध्मानपरिकर्तारुचिज्वरान्।
तृण्मोहदाहमूर्छादींश्चैषां विद्यादुपद्रवान्॥

अक6.59
तत्रामेऽन्तरपानं तु कट्वम्ललवणैर्युतम्।
पाचनं शस्यते बस्तिरामे हि प्रतिषिध्यते॥

अक6.60
वातघ्नग्राहिवर्गीयो बस्तिः शकृति शस्यते।
स्वाद्वम्लो व्यक्तलवणः स्नेहबस्तिः समीरणे॥

अक6.61
रक्ते रक्तेन पित्ते तु कषायस्वादुतिक्तकः।
सार्यमाणे कफे बस्तिः कषायकटुतिक्तकः॥

अक6.62
शकृता वायुना वामे तेन वर्चसि वानिले।
संसृष्टेऽन्तरपानं स्यात् कट्वम्ललवणैर्युतम्॥

अक6.63
पित्तेनामेऽसृजा तद्वत् तयोरामेन वा पुनः।
संसृष्टयोर्भवेत् पानं सकटुस्वादुतिक्तकम्॥

अक6.64
तथामे कफसंसृष्टे कषायकटुतिक्तकम्।
आमेन तु कफे युक्ते कषायलवणोषणम्॥

अक6.65
वातेन विशि पित्ते वा विट्पित्तास्रैस्तथानिले।
स्यात् कषायाम्लमधुरः संसृष्टे बस्तिरुत्तमः।
बस्तिर्वातेन रक्ते तु कार्यः स्वाद्वम्लतिक्तकः॥

अक6.66
शकृच्छोणितयोः पित्तशकृतोरस्रपित्तयोः।
बस्तिरन्योन्यसंसर्गे कसायस्वादुतिक्तकः॥

अक6.67
कफेन विशि पित्ते वा कफे विट्पित्तयोः।
कटुतिक्तकषायः स्यात् संसृष्टे बस्तिरुत्तमः॥

अक6.68
मधुरोषणतिक्तस्तु रक्ते कफविमूर्छिते।
मारुते कफसंसृष्टे कट्वम्ललवणो भवेत्।
स्याद्बस्तिः कटुतिक्ताम्लः संसृष्टे वायुना कफे॥

अक6.69
त्रिचतुःपञ्चषड्योगानेवमेव विकल्पयेत्।
युक्तिश्चैषातिसारोक्ता सर्वरोगेष्वपि स्मृता॥

अक6.70
युगपत् षड्रसं षण्णां संसर्गे पाचनं भवेत्।
निरामाणां तु पञ्चानां बस्तिः षड्सिको हितः॥

अक6.71
उदुम्बरशलाटूनि जम्ब्वाम्रोदुम्बरत्वचः।
शङ्खं सर्जरसं लाक्षां कत्तृणं च पलांशिकम्॥

अक6.72
पिष्ट्वा तैः सर्पिषः प्रस्थं क्षीरद्विगुणितं पचेत्।
अतीसारेषु सर्वेषु पेयमेतद्यथाबलम्॥

अक6.73
कच्छुराधातकीबिल्वसमङ्गारक्तमूलिभिः।
मसूराश्वत्थशुङ्गैश्च यवागूः स्याज्जले शृतैः॥

अक6.74
बालोदुम्बरकट्वङ्गसमग्गाप्लक्षपल्लवैः।
मसूरधातकीपुष्पबलाभिश्च तथा भवेत्॥

अक6.75
नानाप्रकारा जायन्ते व्यापदो बस्तिविभ्रमात्।
यथायथं यथावस्थं तासां कुर्वीत साधनम्॥
॥इति षष्ठोऽध्यायः॥

अथ सप्तमोऽध्यायः।

अक7.1
अथातः स्नेहादिव्यापत्सिद्धिं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अक7.2
स्नेहबस्तौ मरुत्पित्तकफात्याशाविडावृते।
अभुक्ते शूनपाय्वामदत्तेऽष्टौ व्यापदः स्मृताः॥

अक7.3
शीतोऽल्पो वाधिके वाते पित्तेत्युष्णः कफे मृदुः।
अतिभुक्ते गुरुर्वर्चःसञ्चयेऽल्पबलस्तथा।
दत्तस्तैरावृतः स्नेहो नायात्यभिभवादपि॥

अक7.4
स्तम्भोरुसदनाध्मानज्वरशूलाङ्गमर्दनैः।
पार्श्वरुग्वेष्टनैर्विद्याद्वायुना स्नेहमावृतम्॥

अक7.5
स्निग्धाम्ललवणोष्णैस्तं रास्नापीतद्रुतैलिकैः।
सौवीरकसुराकोलकुलत्थयवसाधितैः॥

अक7.6
निरूहैर्निर्हरेत् सम्यक् समूत्रैः पाञ्चमूलिकैः।
ताभ्यामेव च तैलाभ्यां सायं भुक्तेऽनुवासयेत्॥

अक7.7
तृड्दाहरागसम्मोहवैवर्ण्यतमकज्वरैः।
विद्यात् पित्तावृतं स्वादुतिक्तैस्तं बस्तिभिर्हरेत्॥

अक7.8
तन्द्राशीतज्वरालस्यप्रसेकारुचिगौरवैः।
समूर्छाग्लानिभिर्विद्याच्छ्लेष्मणा स्नेहमावृतम्॥

अक7.9
कषायतिक्तकटुकैः सुरामूत्रोपसाधितैः।
फलतैलयुतैः साम्लैर्बस्तिभिस्तं विनिर्हरेत्॥

अक7.10
छर्दिमूर्छारुचिग्लानिशूलनिद्राङ्गमर्दनैः।
आमलिङ्गैः सदाहैस्तं विद्यादत्यशनावृतम्॥

अक7.11
कटूनां लवणानां च क्वाथैश्चूर्णैश्च पाचनम्।
मृदुर्विरेकः सर्वं च तत्रामविहितं हितम्॥

अक7.12
विण्मूत्रानिलसङ्गार्तिगुरुत्वाध्मानहृद्ग्रहैः।
स्नेहं विडावृतं ज्ञात्वा स्नेहस्वेदैः सबस्तिभिः॥

अक7.13
श्यामाबिल्वादिसिद्धैश्च निरूहैः सानुवासनैः।
निर्हरेद्विधिना सम्यगुदावर्तहरेण च॥

अक7.14
अभुक्ते शूनपायोर्वा पेयामात्राशितस्य वा।
गुदे प्रणिहितः स्नेहो वेगाद्धावत्यनावृतः।
ऊर्ध्वकायं ततः कण्ठादूर्ध्वेभ्यः खेभ्य एत्यपि॥

अक7.15
मूत्रश्यामात्रिवृत्सिद्धो यवकोलकुलत्थवान्।
तत्सिद्धतैलो देयः स्यान्निरूहः सानुवासनः॥

अक7.16
कण्ठादागच्छतः स्तम्भकण्ठग्रहविरेचनैः।
छर्दिघ्नीभिः क्रियाभिश्च तस्य कुर्यान्निवर्तनम्॥

अक7.17
नापक्वं प्रणयेत् स्नेहं गुदं स ह्युपलिम्पति।
ततः कुर्यात् सरुङ्मोहकण्डूशोफान् क्रियात्र च।
तीक्ष्णो बस्तिस्तथा तैलमर्कपत्ररसे शृतम्॥

अक7.18
ह्रस्वं दीर्घं तनु स्थूलं जीर्णं शिथिलबन्धनम्।
पार्श्वच्छिद्रं तथा वक्रमष्टौ नेत्राणि वर्जयेत्॥

अक7.19
अप्राप्त्यतिगतिक्षोभकर्षणनस्रवाः।
गुडपीडा गतिर्जिह्मा तेषां दोषा यथाक्रमम्॥

अक7.20
मांसलस्निग्धविषमजालवत्स्थूलवातलः।
छिन्नः क्लिन्नश्च तानष्टौ बस्तीन् कर्मसु वर्जयेत्॥

अक7.21
गतिवैषम्यदौर्गन्ध्यजिह्मत्वस्रुतिदुर्ग्रहाः।
फेनिलच्युत्यधार्यत्वं बस्तेः स्युर्बस्तिदोषतः॥

अक7.22
उच्चकैरत्यवाक्शीर्षं न्युब्जं सङ्कुचितं स्थितम्।
उत्तानं दक्षिणं पार्श्वं सप्त शय्याः परित्यजेत्॥

अक7.23
मूत्राघातोऽतिसम्प्राप्तिरप्राप्तिः साधुनागतिः।
आश्वागतिर्मरुत्कोपस्तृप्तिः पक्वाशयस्य च।
तद्दोषाः स्युर्विधातव्यं यथौपयिकमत्र च॥

अक7.24
सवातातिद्रुतोत्क्षिप्ततिर्यगुल्लुप्तकम्पिताः।
अतिमन्दकबाह्यातिवेगदोषाः प्रणेतृतः॥

अक7.25
अनुच्छ्रवास्य तु बद्धे वा दत्ते निःशेष एव वा।
प्रविश्य क्षुभितो वायुः शूलतोदकरो भवेत्।
तत्राभ्यङ्गो गुदे स्वेदो वातघ्नान्यशनानि च॥

अक7.26
द्रुतं प्रणीते निष्कृष्टे सहसोत्क्षिप्त एव वा।
स्यात् कटीगुदजङ्क्षोरुबस्तिस्तम्भार्तिभेदनम्॥
भोजनं तत्र वातघ्नं स्वेदाभ्यङ्गाः सबस्तयः॥

अक7.27
तिर्यग्वल्यावृते द्वारे बद्धे वापि न गच्छति।
नेत्रे तदृजु निष्कृष्य संशोध्य च पुनर्नयेत्॥

अक7.28
पीड्यमानेऽन्तरामुक्ते गुदे प्रतिहतोऽनिलः।
उरः शिरोरुजं सादमूर्वोश्च जनयेद्बली।
बस्तिःस्यात्तत्रबिल्वादिः फलश्यामादिमूत्रवान्॥

अक7.29
स्याद्दाहो दवथुः शोफः कम्पेनाभिहते गुदे।
कषायमधुराः शीताः सेकास्तत्र सबस्तयः॥

अक7.30
अतिमात्रप्रणीतेन नेत्रेण क्षणनाद्वलेः।
स्यात् सार्तिदाहनिस्तोदगुरुवर्चःप्रवर्तनम्।
तत्र सर्पिः पिचुः क्षीरं पिच्छाबस्तिश्च शस्यते॥

अक7.31
न भावयति मन्दस्तु बाह्यश्चाशु निवर्तते।
स्नेहस्तत्र पुनः सम्यक् प्रणेयः सिद्धिमिच्छता॥

अक7.32
अतिप्रपीडितः कोष्ठे तिष्ठत्यायाति वा गलम्।
तत्र बस्तिर्विरेकश्च गलपीडादि कर्म च॥

अक7.33
वमनाद्यैर्विशुद्धं च क्षामदेहबलानलम्।
यथाण्डं तरुणं पूर्णं तैलपात्रं यथा तथा।
भिषक् प्रयत्नतो रक्षेत् सर्वस्मादपचारतः॥

अक7.34
दद्यान्मधुरहृद्यानि ततोऽम्ललवणौ रसौ।
स्वादुतिक्तौ ततो भूयः कषायकटुकौ ततः॥

अक7.35
अन्योन्यप्रत्यनीकानां रसानां स्निग्धरूक्षयोः।
व्यत्यासादुपयोगेन क्रमात्तं प्रकृतिं नयेत्।
सर्वंसहः स्थिरबलो विज्ञेयः प्रकृतिं गतः॥

अक7.36
अत्रान्तरे त्यजेदष्टौ भाष्यादीनि विशेषतः।
उच्चैर्भाष्याच्छिरोरोगतिमिरोरःस्वरव्यथाः॥

अक7.37
रक्तनिष्ठीवतमकज्वराद्यास्तत्र साधनम्।
अभ्यङ्गस्वेदनस्याधोभक्तस्नेहोपसेवनम्।
मौनं विधिर्वातहरो यथास्वं च विकारजित्॥

अक7.38
अत्यास्यायानयानाभ्यां सन्धिमूर्धत्रिकादिरुक्।
अतिचङ्क्रमणात् पादजङ्क्षोरुसदनादयः॥

अक7.39
तेषां वातहरं सर्वं स्नेहस्वेदादि शस्यते।
अजीर्णभोजनादामविषच्छर्दिज्वरादयः॥

अक7.40
तत्र मात्राशितीयोक्तो विधेयो विधिरामहा।
अहितान्नाद्यथादोषं रोगाः स्युर्भेषजानि च॥

अक7.41
हलीमकादयः प्रोक्ता दिवास्वप्नात् पुरा गदाः।
विदध्यात् कफजित्तेषु धूमरूक्षान्नलङ्क्षनम्॥

अक7.42
व्यवायाज्जीवितभ्रंशस्तैस्तैरस्यानिलामयैः।
गुदोऽवलुप्यत इव भ्रमतीव च चेतना॥

अक7.43
मेढ्रं धूमायति मनस्तमसीव प्रवेश्यते।
जीवनीयशृतक्षीरसर्पिषोरुपसेवनम्।
आहारो बृंहणस्तत्र वृष्यास्ते ते च बस्तयः॥

अक7.44
वेगरोधोर्ध्ववातत्वात् प्रागुक्ता ये सदातुराः।
तेषां विबद्धे पवने सर्वदेहोपतापित्नि।
फलवर्तिं पुरा दद्यादथ बस्तिं चलापहम्॥

अक7.45
निकुम्भकुम्भाग्न्युरुबूकधावनीपुनर्नवं दारु महच्च पञ्चकम्।
फलं च मूत्रे क्वथितं समस्तु तत् घृतं सतैलं लवणानि पञ्च च॥

अक7.46
निरूहितं धन्वरसेन भोजयेन्निकुम्भतैलेन ततोऽनुवासयेत्।
बलां सरास्नां फलबिल्वचित्रकान् द्विपञ्चमूलं कृतमालकात् फलम्॥

अक7.47
यवान् कुलत्थांश्च पचेज्जले रसः समुस्तपाठेन्द्रयवैश्च कल्कवान्।
सतैलसर्पिर्गुडसैन्धवो हितः सदातुराणां बलपुष्टिवर्णदः॥

अक7.48
तथानुवास्यं मधुकेन साधितं फलेन बिल्वेन शताह्वयाथवा।
सजीवनीयस्तु रसोऽनुवासने निरूहणे चालवणः शिशोर्हितः॥

अक7.49
निरूहबस्तेर्नैवान्यत् पथ्यं स्थविरबालयोः।
बलाङ्गवर्धनं शीघ्रमादृतो योजयेदतः॥
॥इति सप्तमोऽध्यायः॥

अथ अष्टमोऽध्यायः।

अक8.1
अथातो भेषजकल्पं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अक8.2
जाङ्गले साधारणे वा देशे यथाकालं शिशिरातपपवनसलिलसेविते समे शुचौ प्रदक्षिणोदके श्मशानचैत्यदेवयजनागारसभाश्वभ्रारामवल्मीकोषरविरहिते कुशरोहिषास्तीर्णे स्निग्धकृष्णसुवर्णमधुरसुरभिमृत्तिके मृदावफालकृष्टेनुपहतेन्यैर्बल्वत्तरैर्द्रुमैर्भेषजानि प्रशस्यन्त इति सामान्यतो भूमिपरीक्षा॥

अक8.3
विशेषतस्त्वश्मवती स्थिरा गुर्वी श्यामा कृष्णा स्थूलतृणवृक्षसस्यप्राया स्वगुणभूयिष्ठा।
स्निग्धा शीतलासन्नोदका स्निग्धतृणसस्यकोमलवृक्षप्राया शुक्लाचाम्बुगुणभूयिष्ठा।
नानावर्णलघ्वल्पपुष्पवती प्रविरलपाण्डुवृक्षप्ररोहाग्निगुणभूयिष्ठा।
रूक्षा रासभभस्मवर्णा रूक्षतनुकोटरवृक्षप्रायाल्परसप्ररोहानिलगुणभूयिष्ठा।
मृद्वी समा श्वभ्रवत्यव्यक्तरसजला महापर्वतवृक्षा श्यामा चाकाशगुणभूयिष्ठा।
तत्राम्बुपृथिवीगुणभूयिष्ठासु भूमिषु जातानि विरेचनानि बृंहणानि च शस्यन्ते।
अनलानिलाकाशगुणभूयिष्ठासु वमनानि।
सर्वगुणयुक्तासूभयतोभागानि।
आकाशगुणभूयिष्ठासु शमनानि।
एवं बलवत्तमानि भवन्ति॥

अक8.4
तत्र यानि कालजान्युपगतसम्पूर्णप्रमाणरसवीर्यगन्धानि कालातपाग्निसलिलपवनशस्त्रजन्तुभिरनुपहतगन्धवर्णरसस्पर्शप्रभावान्यवगाढमूलान्युदीच्यां दिशि स्थितानि।
तेषां शाखापलाशमचिरप्ररूढं वर्षावसन्तयोर्ग्राह्यम्।
ग्रीष्मे मूलानि शिशिरे वा शीर्णप्ररूढपर्णानाम्।
शरदि त्वक्कन्दक्षीराणि।
हेमन्ते साराणि।
यथर्तु पुष्पफलम्॥

अक8.5
अन्ये पुनराहुः सौम्यान्यौषधानि सौम्येष्वृतुष्वाग्नेयान्याग्नेयेषु।
एवमव्यापन्नान्यापूर्णतररसवीर्याणि च भवन्ति॥

अक8.6
अथ मङ्गलाचारः कल्याणवृत्तः शुचिः शुक्लवासाः सम्पूज्य च देवतामश्विनौ गोब्राह्मणांश्च कृतोपवासः प्राङ्मुख उदङ्मुखो वा गृह्णीयात्।
गृहीत्वा चानुरूपगुणवद्भाजनसंस्थान्यगारेषु पूर्वोत्तरद्वारेषु निवातप्रवातैकदेशेषु नित्यपुष्पोपहारबलिकर्मवत्स्वग्निसलिलोपस्वेदधूमरजोमूषिकचतुष्पदामनभिगमनीयानि स्ववच्छन्नानि शिक्येष्वासज्य स्थापयेत्॥

अक8.7
तानि सक्षीराण्युपकल्पयेत्।
तदसम्पत्तावनतिक्रान्तवत्सराणि।
पुराणानि तु पिप्पलीविडङ्गगुडमधुघृतानि॥

अक8.8
अपि च।
क्षीरं बाष्कयणं ग्राह्यं विण्मूत्रं तच्च नीरुजाम्।
वयोबलवतां धातुपिच्छशृङ्गखुरादिकम्॥

अक8.9
पञ्चविधस्तु भेषजानां कषायकल्पः।
निर्यासः कल्को निर्यूहः शीतः फाण्टश्च।
ते यथापूर्वं बलिनः॥

अक8.10
तत्र सद्यःसमुद्धृतप्रक्षालितक्षुण्णस्य तान्तवनिष्पीडितस्य स्वरसो निर्यासः।
उपलदशनादिपिष्टस्तु कल्कः।
शुष्कपिष्टः सूक्ष्मतान्तवपटच्युतश्चूर्णः।
तस्य समस्तद्रव्यापरित्यागादाप्लुतोपयोगाच्च कल्कादभेदः।
क्वाथो निर्यूहः॥

अक8.11
तत्र भेद्यान्यौषधान्यणुशो भेदयित्वा छेदयित्वा छेदयानि प्रक्षाल्योदकेन शुचौरूक्षायामधःप्रलिप्तायां ताम्रायोमृन्मयान्यतमायां स्थाल्यां समावाप्य बह्वल्पपानीयग्राहितामौषधानामाकलय्य यावता मुक्तरसता स्यात् तावदुदकमासेचयेच्छोषयेच्च।
अथाग्नावधिश्रित्य महत्यासने सुखोपविष्टः सर्वतः सततमवलोकयन् दर्व्यावघट्टयन् मृदुना परितः समुपगच्छतानलेन साधयेत्।
अवतार्य च परिस्रुतं यथार्हस्पर्शं प्रयुञ्जीत॥

अक8.12
क्षीरादिसहितं च द्रव्यं न सम्यङ्मुक्तरसं भवतीति वारिक्वाथपूर्वकं क्षीराद्यैस्तदुपदेशे अनुपदग्धं क्वाथयेत्॥

अक8.13
शीतसलिलाप्लुतस्तु निशापर्युषितपूतः शीतः।
उष्णाम्भसि क्षुण्णाभिषुतपूतः फाण्टः॥

अक8.14
तत्र सम्यग्रसवीर्यादीन्यौषधस्य समीक्ष्य व्याध्यातुरादिबलतश्च निर्यासादीनां कल्पनां मात्रां च संश्रयेत्॥

अक8.15
तथा च केचिदाहुः।
मात्राया न व्यवस्थास्ति व्याधिं कोष्ठं बलं वयः।
आलोच्य देशकालौ च योज्या तद्वच्च कल्पना॥

अक8.16
इत्यलमेतदुपदिष्टं बुद्धिमतां ज्ञानप्रबोधाय।
यथा तु सर्वभिषजो विज्ञास्यन्ति तथोपदेक्ष्यते।
निर्यासस्य मध्यमा मात्रा चतुष्पलम्।
कल्कचूर्णयोः कर्षः पलत्रयं तदालोडने॥

अक8.17
निर्यूहे भेषजपलमुदकार्धप्रस्थेऽधिश्रित्य पादशेषितमवतारयेत्॥

अक8.18
शीतफाण्टयोरौषधपलं षट्चतुर्भिरम्बुपलैरासुतमिति॥

अक8.19
स्नेहपाके त्वनिर्दिष्टप्रमाणे समुदितस्य द्रवस्य पादेन स्नेहो योज्यस्तत्पादेन कल्कः॥

अक8.20
अन्ये पुनः पठन्ति।
स्नेहपाके त्वमानोक्तौ चतुर्गुणविवर्धितम्।
कल्कस्नेहद्रवं योज्यमधीते शौनकः पुनः॥

अक8.21
स्नेहे सिध्यति शुद्धाम्बुनिष्क्वाथस्वरसैः क्रमात्।
कल्कस्य योजयेदंशं चतुर्थं षष्ठमष्टमम्॥

अक8.22
पञ्चप्रभृति तु द्रवं पृथक् स्नेहसममेवावपेत्।
अनिरूपितकल्पनं च भैषज्यं कल्कीकुर्यात्।
अथैकध्यं प्रतिसंसृज्याधिश्रित्य च निर्यूहवत्साधयेत्॥

अक8.23
तत्र यदा विरमति शब्दः प्रसादमापद्यते स्नेहो यथास्वं वर्णगन्धरसोत्पत्तिर्भैषज्यमङ्गुलीभ्यां मृद्यमानमनतिमृद्वनतिदारुणमनङ्गुलिग्राहि च स्यात्।
स कालस्तस्यावतरणाय॥

अक8.24
अपि च।
घृतस्य फेनोपशमस्तैलस्य तु तदुद्भवः।
लेहस्य तन्तुमत्ताप्सु मज्जनं सरणं न च॥

अक8.25
अथावतार्य शीतीभूतमहतेन वाससा परिपूय शुचौ दृढे कलशे समासिच्यापिधानेन पिधाय शुक्लेन वस्त्रपट्टेनावच्छाद्य सूत्रेण सुबद्धं स्वनुगुप्तं शुचौ देशे सुस्थितं स्थापयेत्॥

अक8.26
परिमाणं पुनः षड्वंश्यो मरीचिः।
ताः षट्सर्षपः।
तेऽष्टौ तण्डुलः।
तौ धान्यमाषः।
तौ यवः।
अतः परं चतुर्गुणवृध्याण्डिकामाषकशाणकर्षपलकुडवप्रस्थाढकद्रोणवहाः कल्प्यन्ते।
धरणं तु पलस्य दशमो भागः।
माषकस्य पर्यायो हेमो धानकश्च।
शाणद्वयस्य पर्यायो द्रङ्क्षणः कोलो वटकश्र।
कर्षस्य सुवर्णमक्षं पिचुर्बिडालपदकं पाणितलं तिन्दुकं कवलग्रहः षोडशिका च।
कर्षद्वयस्य शुक्तिरष्टमिका च।
पलस्य मुष्टिः प्रकुञ्चश्चतुर्थिका बिल्वमाम्रं च।
पलद्वयस्य प्रसृतोऽष्टमानं च।
कुडवस्याञ्जलिः।
कुडवद्वयस्य मानिका।
आढकस्य पात्रं कंसश्च।
द्रोणस्य नल्वणार्मणोन्मानघटकुम्भकलशाः।
द्रोणद्वयस्य शूर्पः।
तुला पुनः पलशतं तानि विंशतिर्भार इति।
भवति चात्र॥

अक8.27
शुष्कमेयेष्विदं मानं द्विगुणं तु द्रवार्द्रयोः॥

अक8.28
पेषणालोडने वारि स्नेहपाके च निर्द्रवे॥

अक8.29
कल्पयेत्सदृशान् भागान् प्रमाणं यत्र नोदितम्॥

अक8.30
अनिर्दिष्टाप्रसिद्धेषु मूलं ग्राह्यं त्वगादिषु॥

अक8.31
स्नेहपाकस्त्रिधा मन्दश्चिक्कणः खरचिक्कणः।
मन्दः कल्कसमे किट्टे चिक्कणो मदनोपमे॥

अक8.32
किञ्चित् सीदति कृष्णे च वर्त्यमाने तु पश्चिमः।
दग्धोऽतौर्ध्वं निष्कार्यः स्यादामस्त्वग्निसादकृत्।
मृदुर्नस्ये खरोऽभ्यङ्गे पाने बस्तौ च चिक्कणः॥

अक8.33
हिमवद्विन्ध्यशैलाभ्यां प्रायो व्याप्ता वसुन्धरा।
सौम्यं पथ्यं च तत्राद्यमाग्नेयं वैन्ध्यमौषधम्॥

समाप्तमिदं कल्पस्थानम्।