अष्टाङ्गसंग्रहः कल्पस्थानम् अध्याय १-४

विकिस्रोतः तः

अष्टाङ्गसंग्रहः

अष्टाङ्गसङ्ग्रहः

कल्पस्थानम्

अथ प्रथमोऽध्यायः।

अक1.1
अथातो वमनकल्पं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अक1.2
वमनद्रव्याणां मदनजीमूतकेक्ष्वाकुद्विकोशातकीकुटजफलानि श्रेष्ठानि तेष्वपि मदनफलम्॥

अक1.3
दोषदूष्यादिवशाच्चैषामेतत्कल्पनानां च प्राधान्यम्॥

अक1.4
दोषादीनामेव चातिबह्ववस्थाभेदाद्वमनादिषु कल्पनानां व्यापदां साधनानां च यदसङ्ख्येयत्वमतो बुद्धिमतां विकल्पमार्गप्रदर्शनार्थमुदाहरणमात्रं कल्पसिद्धिस्थानमुपदेक्ष्यते॥

अक1.5
अथ वसन्तग्रीष्मयोरन्तरे प्रशस्तेऽहनि मुहूर्ते च नातिहरितपाण्डूनि मदनफलान्यादाय तानि प्रमृज्य कुशमूटके बध्वा गोमयेनालिप्य यवबुसमाषशालिव्रीहिकुलत्थमुद्गान्यतमराशावष्टरात्रमुषितान्युद्धृत्यातपे शोषयेत्।
सुशुष्काणां पिप्पलीरुद् वृत्य दधिघृतमधुपललमृदिताः पुनः शोषयित्वा नवं कलशमरजस्कमाकण्ठं पूरयित्वा सुगुप्तं निधापयेत्॥

अक1.6
ततः प्रयोगकाले तासां फलपिप्पलीनामन्तर्नखमुष्टिं यावद्वा साधु मन्येत तावज्जर्जरीकृत्य यष्टीमधुककषाये कोविदारकच्छुदारनीपविदुलबिम्बीशणपुष्पीसदापुष्पीप्रत्यक्पुष्प्यन्यतमकषाये वा रात्रिमुषितं विमृदितं पूतं सूत्रोक्तविधिना पाययेत्।
श्लेष्मज्वरगुल्मप्रतिश्यायान्तर्विद्रधिषु विशेषेण पुनः पुनरापित्तागमनात्।
तेन साधु वमति॥

अक1.7
फलपिप्पलीनां चूर्णं वा स्वक्वाथभावितं त्रिभागत्रिफलाचूर्णं कोविदारादिनिर्यूहेण बलवत्कफप्रसेकापच्यर्बुदग्रन्थिज्वरोदरारोचकेषु पिबेत्॥

अक1.8
फलमज्जचूर्णं वा जीमूतादिनिर्यूहेण पित्ते कफस्थानगते॥

अक1.9
फलमज्जसिद्धं वा पयस्तस्मिन्नेव वा यवागूमधोभागे रक्तपित्ते हृद्दाहे च॥

अक1.10
तस्य वा पयसः शीतस्य सन्तानिकाञ्जलिं पित्ते प्रकुपिते उरसि कण्ठे हृदये च तनुकफोपदिग्धे॥

अक1.11
तज्जं वा दधि दध्युत्तरं वा कफच्छर्दिप्रसेकतमकेषु।
तस्माद्वा पयसो नवनीतमुत्पन्नं फलादिषट्कक्वाथसिद्धं कफाभिभूतेऽग्नौ शुष्यच्छरीरे च॥

अक1.12
फलमज्जचूर्णमिश्रेण वारग्वधादि द्रव्याणां घोण्टनिम्बबाणवर्जानां ससोमवल्कपञ्चकोलकानामन्यतमस्य निर्यूहेण साधितं लेहमुपयुञ्जीत॥

अक1.13
फलमज्जचूर्णमिश्रेण वा रेणुकैलाशताह्वाकुस्तुम्बुरुतगरकृष्ठत्वक्चोरकमरुबकागरुगुग्गुलुवालकश्रीवेष्टकपरिपेलवमांसीशैलेयस्थौणेयकसुरसारेवतपूत्यशोकरोहिणीनां द्वाविंशतेरन्यतमस्य कषायेण साधितामुत्कारिकां मोदकं वा भक्षयेत्॥

अक1.14
फलपिप्पलीस्वरसकषायपरिपीतैर्वा तिलशालितण्डुलपिष्टैस्तत्कषायोपसृष्टैः सुरसादिद्रव्यान्यतमनिर्यूहोपसृष्टैर्वा शष्कुलीरपूपानन्यान् वा भक्ष्यान् साधयित्वा भक्षयेत्॥

अक1.15
फलपिप्पलीनां वा भल्लातकविधिस्रुतं स्वरसमादर्वीप्रलेपात् पक्त्वा लेहयेत्।
अन्नपानेषु वा तं लेहमवचारयेत्।
तत्कषायैरेव चान्नपानानि कल्पयेत्॥

अक1.16
फलमज्जक्वाथं वा वत्सकादिप्रतिवापं निम्बरूपिकान्यतरकषायोपसर्जनं सन्तर्पणोत्थसर्वश्लेष्मव्याधिहरम्॥

अक1.17
फलपिप्पलीनां वा फलादिनिर्यूहेणैकविंशतिकृत्वः सुभावितानां कुसुमरजःसदृशेन चूर्णेनावचूर्णयेत् सरसि सरोरुहं बृहत्सायाह्ने तद्रात्रिमुषितं प्रभाते पुनरवचूर्णितमुद् वृत्य हरिद्राकृसराक्षरियवागूनामन्य तमं सैन्धवगुडफाणितोपेतमाकण्ठं पीतवानुपजिघ्रेत्।
सुकुमारः समुचितसुरभिर्गन्धसम्पदुत्क्लिष्टकफपित्तो भेषजद्वेषी च तथा हि सुखेन छर्दयति॥

अक1.18
एतेन सर्वमाल्यगन्धप्रावरणपटा व्याख्याताः।
एवमेव च फलाभावे मदनपुष्पाणि शलटूनि च कल्पयेत्।
इति फलविधानमुक्तम्॥

अक1.19
एवं च जीमूतादीनपि कल्पयेत्।
विशेषतस्तु ज्वरश्वासहिध्मादिषु जीमूतकम्॥

अक1.20
तत्र पुष्पेषु क्षीरम्।
फलेषु क्षीरपेयाम्।
लोमशेषु सन्तानिकाम्।
निर्लोमकेषु दधि दध्युत्तरं वा।
हरितपाण्डुषु क्षीरं दध्यम्लं वा।
तत्कषायसंसृष्टां पर्यागतानां जीर्णानां जीमूतकफलानां शुष्काणां चूर्णं पयसा वातपित्ते पिबेत्॥

अक1.21
द्वित्राणि वापोथ्यारग्वधादीनां नवानामन्यतमस्य पटोल्या वा निर्यूहेणासुतानि मथित्वा पित्तश्लेष्मजे ज्वरे।
जीमूतचूर्णं कल्कं वा शीताम्बुना पित्तजे।
तदेवोष्णेन वातकफजे कफजे वा॥

अक1.22
जीवकर्षभकेक्षुशतावरीणामन्यतमस्य स्वरसेन वातपित्तजे।
अथवा पूर्ववत् सिद्धं घृतम्॥

अक1.23
इक्ष्वाकुस्तु विशेषेण कासश्वासज्वरच्छर्दिविषश्लेष्मरोगेषूपयोज्यः।
तस्यापुष्पफलस्य प्रवालैः शृतं क्षीरमुद्रिक्तपित्ते कफज्वरे॥

अक1.24
पुष्पादिषु च सुतरां जीमूतवत् प्रयोगाः।
इक्ष्वाकुफलस्वरसं वा त्रिगुणक्षीरसाधितमुरस्थिते कफे पीनसे स्वरसादे वा वमनार्थी पिबेत्।
जीर्णे वा समुद्वृतबीजे क्षीरं प्रक्षिपेत्।
तत्र जातं दधि श्लेष्मकासश्वासच्छर्दिषु॥

अक1.25
इक्ष्वाकुबीजानि वा छागक्षीरभावितानि विषगुल्मोदरगरगण्डग्रन्थ्यर्बुदश्लीपदेषु इक्ष्वाकुफलमध्यं वा मस्तुना कुष्ठविषपाण्ड्वामयेषु।
तद्विपक्वं वा तक्रं समधुसैन्धवम्।
तदेव वा मध्यं सगुडपललं भक्षयेत्॥

अक1.26
इक्ष्वाकुफलतैलं वा पिबेत्।
तत्फलस्वरसभावितैर्वा सक्तुभिर्मन्थं श्लेष्मज्वरकासकण्ठरोगारोचकेषु।
इक्ष्वाकुकल्कं वा मांसरसेन वातकफगुल्मप्रसक्तज्वरेषु॥

अक1.27
बिल्वमूलद्विप्रस्थक्वाथेन वा तुम्बीबीजानि क्वाथयेत् ततस्तस्मिन् त्रिभागेन घृतम्।
घृतसमानि च पिष्ट्वा तुम्बीबीजानि।
तदर्धांशानि च प्रत्येकं जीमूतमहाजालिनीवत्सककृतवेधनानि।
क्वाथतुल्यमावपेत् त्रिकटुकम्।
पुनरधिश्रित्य लेहं साधयेत्तमवलिह्य प्रमथ्यामनुपिबेत्॥

अक1.28
अयमेव च कल्पः काश्मर्यादिषु चतुर्षु महापञ्चमूलाङ्गेषु पृथक् पृथगुक्तो वेदितव्यः॥

अक1.29
धामार्गवो विशेषेण गरगुल्मोदरकासकफसञ्चयोत्थरोगेषु स्थिरेषु गुरुषु च श्लेष्माशयस्थे वातश्लेष्मणि च कण्ठाश्रये प्रकल्प्यः।
जीवनीयान्यतमचूर्णसंयुक्तान् समधुशर्करांस्तत्कषायैर्लेहान् पित्तोपसर्जने श्लेष्मणि विदध्यात्॥

अक1.30
सुमनःसौमनस्यायनीहरिद्राचोरकहैमवतीमहासहाक्षुद्रसहावृश्चीवबिम्बीपुनर्नवकासमर्दान्यतमकषायेण वा धामार्गवफलमेकं द्वे वा मनोविकारेषु॥

अक1.31
कृतवेधनमत्यर्थकटुतीक्ष्णोष्णं सुतरां गरोदरगुल्मप्लीहपाण्डुरोगश्वयथुषु कल्पयेत्॥

अक1.32
कुटजफलं पुनः सुकुमारेषूल्बणास्रपित्तकफेषु वातशोणितविसर्पज्वरकुष्ठादिषु च योजयेत्।
कुटजफलचूर्णान्यर्कक्षीरेण सप्ताहं भावयित्वा जीवककषायेण पिबेत्।
फलजीमूतकेक्ष्वाकुजीवन्तीमूलान्यतमकषायेण वा सर्षपमधूकलवणान्यतमाम्भसा वा कुटजफलचूर्णं कृसरया वा वमनाय कल्पयेदिति।
भवति चात्र॥

अक1.33
वमनानां दिगित्येषा सुतरामुपयोगिनाम्।
बीजेनानेन मतिमानन्यानपि च कल्पयेदिति॥
॥इति प्रथमोऽध्यायः॥


अथ द्वितीयोऽध्यायः।

अक2.1
अथातो विरेचनकल्पं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अक2.2
विरेचनद्रव्याणां मूलेषु त्रिवृत्।
त्वक्षु तिल्वकः।
क्षीरेषु स्नुही।
फलेषु हरीतकी प्रधानानि।
त्रिवृतायाः खलु द्विविधं मूलमरुणं श्यावं च।
तत्रारुणं कषायमधुरं विपाके कटुकं रूक्षं श्लेष्मपित्तहरं कल्पनांविशेषात् पुनः सर्वव्याधिप्रशमनम्।
सुखविरेचनत्वात् शिशुस्थविरसुकुमारमृदुकोष्ठेषु प्रशस्तं त्रिवृच्छब्दवाच्यं च॥

अक2.3
इतरदपि तस्मात् गुणैः किञ्चिदूनं तीक्ष्णं कण्ठहृदयकर्षणं मूर्छासम्मोहकृदाशु दोषहरत्वात् बहुदोषक्लेशक्षमक्रूरकोष्ठेषु प्रशस्तं श्यामाशब्दवाच्यं च॥

अक2.4
अथ तयोर्मूलमतिर्यग्विसृतं गम्भीरानुगतं श्लक्ष्णमाहरेत्।
ततस्त्वचं शोषयित्वा सम्यक् सुगुप्तं स्थापयेत्॥

अक2.5
तच्चूर्णं शुण्ठीसैन्धवयुक्तमम्लैर्मांसरसेन वा पिबेद्वातामयेषु।
क्षीरक्षौद्रद्राक्षेक्षुकाश्मर्यस्वरससर्पिःस्वादुद्रव्यक्वाथैः सशर्करं पित्तोत्थेषु।
मूत्रक्सौद्रद्राक्षारिष्टपीलुरसत्रिफलापञ्चकोलक्वाथैर्व्योषचूर्णानुविद्धं कफजेषु॥

अक2.6
एभिरेव च द्रव्यैर्यथास्वं घृतशर्कराद्राक्षेक्षुरसतुगाक्षीरीमधुराणि मातुलुङ्गदाडिमामलककोलकरमर्दकपित्थरसतक्राम्लानि सैन्धवलवणानि व्योषतीक्ष्णानि विविधवेशवारपरिपूरितानि सहकाररसत्रिजातनागकेसरकर्पूरसुरभीणि लेहगुटिकामोदकभक्ष्यभोज्यान्युपकल्पयेदिति।
भवति चात्र॥

अक2.7
त्रिवृत्कल्ककषायेण साधितः ससितो हिमः।
मधुत्रिजातसंयुक्तो लेहो हृद्यं विरेचनम्॥

अक2.8
अजगन्धा तुगाक्सीरी विदारी शर्करा त्रिवृत्।
चूर्णितं मधुसर्पिर्भ्यां लीढ्वा साधु विरिच्यते।
सन्निपातज्वरस्तम्भपिपासादाहपीडितः॥

अक2.9
लिम्पेदन्तस्त्रिवृतया द्विधाकृत्वेक्षुगण्डिकाम्।
एकीकृत्य च तत्स्विन्नं पुटपाकेन भक्षयेत्॥

अक2.10
त्वगेलाभ्यां समा नीली तैस्त्रिवृत्तश्च शर्करा।
चूर्णं फलरसक्षौद्रसक्तुभिस्तर्पणं पिबेत्॥

अक2.11
वातपित्तकफोत्थेषु रोगेष्वल्पानलेषु च।
नरेषु सुकुमारेषु निरपायं विरेचनम्॥

अक2.12
विडङ्गतण्डुलवरायावशूककणास्त्रिवृत्।
सर्वतोऽर्धेन तल्लीढं मध्वाज्येन गुडेन वा॥

अक2.13
गुल्मं प्लीहोदरं कासं हलीमकमरोचकम्।
कफवातकृतांश्चान्यान् परिमार्ष्टिगदान् बहून्॥

अक2.14
विडङ्गपिप्पलीमूलत्रिफलाधान्यचित्रकान्।
मरिचेन्द्रयवाजाजीपिप्पलीहस्तिपिप्पलीः॥

अक2.15
दीप्यकं पञ्चलवणं चूर्णितं कार्षिकं पृथक्।
तिलतैलत्रिवृच्चूर्णभागौ चाष्टपलोन्मितौ॥

अक2.16
धात्रीफलरसप्रस्थांस्त्रीन् गुडार्धतुलान्वितान्।
पक्त्वा मृद्वग्निना खादेत्ततो मात्रामयन्त्रणः॥

अक2.17
कुष्ठार्शःकामलागुल्ममेहोदरभगन्दरान्।
ग्रहणीपाण्डुरोगांश्च हन्ति पुंसवनश्च सः॥

अक2.18
गुडः कल्याणको नाम सर्वर्तुषु च यौगिकः।
व्योषत्रिजातकाम्भोदकृमिघ्नामलकैस्त्रिवृत्॥

अक2.19
सर्वैः समा समसिता क्षौद्रेण गुटिकाः कृताः।
मूत्रकृच्छ्रज्वरच्छर्दिकासशोषभ्रमक्षये।
तापे पाण्ड्वामयेऽल्पेग्नौ शस्ताः सर्वविषेषु च॥

अक2.20
त्रिवृता कौटजं बीजं पिप्पली विश्वभेषजम्।
क्षौद्रद्राक्षारसोपेतं वर्षाकाले विरेचनम्॥

अक2.21
त्रिवृद्दुरालभामुस्ताशर्करोदीच्यचन्दनम्।
द्राक्षाम्बुना सयष्ट्याह्वसातलं जलदात्यये॥

अक2.22
त्रिवृतां चित्रकं पाठामजाजीं सरलं वचाम्।
स्वर्णक्षीरीं च हेमन्ते चूर्णमुष्णाम्बुना पिबेत्॥

अक2.23
त्रिवृता शर्करातुल्या ग्रीष्मकाले विरेचनम्॥

अक2.24
त्रिवृत्त्रायन्तिहपुषासातलाकटुरोहिणीः।
स्वर्णक्षीरीं च संचूर्ण्य गोमूत्रे भावयेत्त्र्यहम्।
एष सर्वर्तुको योगः स्निग्धानां मलदोषहृत्॥

अक2.25
श्यामात्रिवृद्दुरालम्भाहास्तिपिप्पलिवत्सकम्।
नीलिनीकटुकामुस्ताश्रेष्ठायुक्तं सुचूर्णितम्।
रसाज्योष्णाम्बुभिः शस्तं रूक्षाणामपि सर्वदा॥

अक2.26
त्र्यूषणं त्रिफला हिङ्गु कार्षिकं त्रिवृतापलम्।
सौवर्चलार्धकर्षं च पलार्धं चाम्लवेतसात्॥

अक2.27
तच्चूर्णं शर्करातुल्यं मण्डेनाम्लेन वा पिबेत्।
गुल्मपार्श्वार्तिनुत् सिद्धं जीर्णे चास्मिन्रसौदनम्॥

अक2.28
त्रिवृतात्रिफलादन्तीसातलाव्योषसैन्धवैः।
प्रकल्प्य चूर्णं सप्ताहं भाव्यमामलकाद्रसे।
तद्योज्यं तर्पणे यूषे पिशिते रागयुक्तिषु॥

अक2.29
तुल्याम्लं त्रिवृताकल्कसिद्धं गुल्महरं घृतम्।
श्यामात्रिवृत्कषायेण सिद्धं सर्पिः पयोऽपि वा॥

अक2.30
त्रिवृन्मुष्टींस्तु सनखानष्टौ द्रोणेऽम्भसः पचेत्।
पादशेषं कषायं तं पूतं गुडतुलायुतम्॥

अक2.31
स्निग्धे स्थाप्यं घटे क्षौद्रपिप्पलीफलचित्रकैः।
लिप्ते मासे गते पीतं पाण्डुश्वयथुगुल्मजित्॥

अक2.32
सुरा वा त्रिवृतापादाकण्वा तत्क्वाथसंयुता।
यवैः श्यामात्रिवृत्क्वाथस्विन्नैः कुल्माषमम्भसा।
आसुतं षडहं पल्ले जातं सौवीरकं पिबेत्॥

अक2.33
भृष्टान्वा सतुषान्शुष्कान्यवांस्तच्चूर्णसंयुतान्।
आसुतानम्भसा तद्वत् पिबेज्जातं तुषोदकम्॥

अक2.34
ज्वरहृद्रोगवातासृगुदावर्तादिरोगिषु।
राजवृक्षोऽधिकं पथ्यो मृदुर्मधुरशीतलः॥

अक2.35
बाले वृद्धे क्षते क्षीणे सुकुमारे च मानवे।
योज्यो मृद्वनपायित्वाद्विशेषाच्चतुरङ्गुलः॥

अक2.36
फलकाले परिणतं फलं तस्य समाहरेत्।
तेषां गुणवतां भारं सिकतासु विनिक्षिपेत्॥

अक2.37
सप्तरात्रात्समुद्धृत्य शोषयेदातपे ततः।
ततोमज्जानमुद्धृत्य शुचौ पात्रे निधापयेत्॥

अक2.38
द्राक्षारसेन तं दद्याद्दाहोदावर्तपीडिते।
चतुर्वर्षे सुखं बाले यावद्द्वादशवार्षिके॥

अक2.39
चतुरङ्गुलमज्ञो वा कषायं पाययेद्धिमम्।
दधिमण्डसुरामण्डधात्रीफलरसैः पृथक्।
सौवीरकेण वा युक्तं कल्केन त्रैवृतेन वा॥

अक2.40
चतुरङ्गुलसिद्धाद्वा क्षीराद्यदुदियात् घृतम्।
मज्जकल्केन धात्रीणां रसे तत्साधितं पिबेत्॥

अक2.41
तदेव दशमूलस्य कुलत्थानां यवस्य च।
कषाये साधितं सापःकल्कैःश्यामादिभिः पिबेत्॥

अक2.42
दन्तीकषाये तन्मज्ज्ञो गुडं जीर्णं च निक्षिपेत्।
तमरिष्टं स्थितं मासं पाययेत् पक्षमेव वा॥

अक2.43
त्वचं तिल्वकमूलस्य त्यक्ताभ्यन्तरवल्कलम्।
विशोष्य चूर्णयित्वा च द्वौ भागौ गालयेत्ततः॥

अक2.44
लोध्रस्यैव कषायेण तृतीयं तेन भावयेत्।
कषाये दशमूलस्य तं भागं भावितं पुनः॥

अक2.45
शुष्कचूर्णं पुनः कृत्वा ततः पाणितलं पिबेत्।
मस्तुमूत्रसुरामण्डकोलधात्रीफलाम्बुभिः॥

अक2.46
मेषशृङ्ग्यभयाकृष्णाचित्रकैः क्वथिते जले।
मरुजाः सुनुयात्तच्चजातं सौवीरकं यदा।
भवेदञ्जलिनातस्य लोध्रकल्कं पिबेत्तदा॥

अक2.47
सुरां लोध्रकषायेण जातां पक्षस्थितां पिबेत्।
तिल्वकस्य कषायेण कल्केन च सशर्करः।
सघृतः साधितो लेहः स च श्रेष्ठं विरेचनम्॥

अक2.48
सुधा भिनत्ति दोषाणां महान्तमपि सञ्चयम्।
आश्वेव कष्टविभ्रंशा नैव तां कल्पयेदतः॥

अक2.49
मृदुकोष्ठेऽबले बाले स्थविरे दीर्घरोगिणि।
कल्प्या गुल्मोदरगरत्वग्रोगमधुमेहिषु।
पाण्डौ दूषीविषे शोफे दोषविभ्रान्तचेतसि॥

अक2.50
सा श्रेष्ठा कण्टकैस्तीक्ष्णैर्बहुभिश्च समाचिता।
द्विवर्षां वा त्रिवर्षां वा शिशिरान्ते विशेषतः॥

अक2.51
तां पाटयित्वा शस्त्रेण क्षीरमुद्धारयेत्ततः।
बिल्वादीनां बृहत्योर्वा क्वाथेन सममेकशः॥

अक2.52
मिश्रयित्वा सुधाक्षीरं ततोऽङ्गारेषु शोषयेत्।
पिबेत् कृत्वा तु गुटिकां मस्तुमूत्रसुरादिभिः॥

अक2.53
त्रिवृतादीन्नव वरां स्वर्णक्षीरीं ससातलाम्।
सप्ताहं स्नुक्पयःपीतान्रसेनाज्येन वा पिबेत्।
तद्वद्व्योषोत्तमाकुम्भनिकुम्भाग्नीन् गुडाम्बुना॥

अक2.54
अद्यात्च्छ्यामात्रिवृत्क्वाथं स्नुक्क्षीरघृतफाणितैः।
कासारिरसयूषाद्यैर्युक्तं वा स्नुक्पयः पिबेत्॥

अक2.55
निकुम्भकुम्भशम्याकशङ्खिनीसप्तलारजः।
रात्रौ मूत्रे दिवा घर्मे सप्ताहं स्थापयेदिति॥

अक2.56
स्नुक्क्षीरेऽपि ततस्तेन माल्यं वासोऽवचूर्णितम्।
आजिघ्नन् प्रावृणानश्च मृदुकोष्ठो विरिच्यते॥

अक2.57
नातिशुष्कं फलं ग्राह्यं शङ्खिन्या निस्तुषीकृतम्।
सप्तलायास्तथा मूलं ते तु तीक्ष्णविकाषिणी।
श्लेष्मामयोदरगरश्वयथ्वादिषु कल्पयेत्॥

अक2.58
अक्षमात्रं तयोः पिण्डं मदिरालवणान्वितम्।
हृद्रोगे वातकफजे तद्वद्गुल्मेऽपि योजयेत्॥

अक2.59
शङ्खिनीचूर्णभागौ द्वौ तिलकल्कस्य चापरः।
हरीतकीकषायेण ततैलं पीडितं पिबेत्।
अतसीसर्षपैरण्डकरञ्जेष्वप्ययं विधिः॥

अक2.60
दन्तिदन्तस्थिरस्थूलं मूलं दन्तीद्रवन्तिजम्।
आताम्रश्यावतीक्ष्णोष्णमाशुकारि विकाषि च॥

अक2.61
गुरुप्रकोपिवातस्य पीतश्लेष्मविलायनम्।
तत्क्षौद्रपिप्पलीलिप्तं स्वेदयेन्मृत्कुशान्तरे।
शोषयेच्चातपेऽग्न्यर्कौ हतो ह्यस्य विकाषिताम्॥

अक2.62
तत् पिबेन्मस्तुमदिरातक्रपीलुरसासवैः।
अभिष्यण्णतनुर्गुल्मी प्रमेही जठरी गरी।
गोमृगाजरसैः पाण्डुः कृमिकोष्ठी भगन्दरी॥

अक2.63
सिद्धं तत् क्वाथकल्काभ्यां दशमूलरसेन च।
विसर्पाविद्रध्यलजीकक्ष्यादाहान् जयेत् घृतम्॥

अक2.64
तैलं तु गुल्ममेहार्शोविबन्धकफमारुतान्।
महास्नेहः शकृच्छुक्रवातसङ्गानिलव्यथाः॥

अक2.65
दन्त्या रसेऽजशृङ्ग्याश्च गुडक्षौद्रघृतान्वितः।
लेहः सिद्धो विरेकार्थे दाहसन्तापमेहनुत्।
वाततर्षे ज्वरे पैत्ते स्यात्स एवाजगन्धया॥

अक2.66
दन्तीद्रवन्त्योर्मूलानि पचेद्धात्रीरसे ततः।
त्रीनंशान् फाणितात् द्वौ च भृष्टस्तैले घृतेऽथवा॥

अक2.67
श्यामादिकल्कयुक्तोऽयं लेहः सिद्धं विरेचनम्।
पथ्याक्षदशमूलानां तद्वल्लेहाः पृथग्रसैः॥

अक2.68
तयोर्बिडसमं चूर्णं तद्रसेनैव भावितम्।
विबद्धविशि वातोत्थे गुल्मे चाम्लयुतं हितम्।
मुद्र्गादिसिद्धैस्तन्मूलैर्यूषादींश्च प्रकल्पयेत्॥

अक2.69
दन्तीद्रवन्तीमरिचस्वर्णक्षीरीयवासकम्।
सशुण्ठ्यग्निकपृथ्वीकं चूर्णितं सप्त वासरान्॥

अक2.70
मूत्रभावितमाज्येन विबेज्जीर्णे च तर्पणम्।
सर्वदा सर्वरोगेषु बाले वृद्धे च तद्धितम्॥

अक2.71
दुर्भुक्ताजीर्णपांश्वार्तिर्गुल्मप्लीहोदरेषु च।
गण्डमालासु वाते च पाण्डुरोगे च शस्यते॥

अक2.72
गुडस्याष्टपले पथ्या विंशतिः स्यात् पलं पलम्।
दन्तीचित्रकयोः कर्षौ पिप्पलीत्रिवृतोर्दश॥

अक2.73
प्रकल्प्य मोदकानेकं दशमे दशमेऽहनि।
उष्णाम्भोऽनुपिबन् खादेत्तान् सर्वान् विधिनामुना॥

अक2.74
एते निष्परिहाराः स्युः सर्वव्याधिनिबर्हणाः।
विशेषाद्ग्रहणीपाण्डुकण्डूकोठार्शसां हिताः।
विरेचने मुख्यतमा नवैते त्रिवृतादयः॥

अक2.75
हरीतकीमपि त्रिवृद्धिधानेनोपकल्पयेत्।
विशेषात् ग्रहणीशोफपाण्डुमेहोदरापहाम्॥

अक2.76
पिबेत् पथ्यां ससिन्धूत्थविडङ्गोषणनागराम्।
मूत्रेण वत्सकादेर्वा निर्यूहेण हरीतकीम्॥

अक2.77
पथ्यानागरचूर्णं वा संयुतं नीलिनीफलैः।
गुडेन भक्षयेत्तोयं कवोष्णं च पिबेदनु॥

अक2.78
पथ्यात्रिवृद्भ्यां गुटिकाः कार्या द्राक्षारसाप्लुताः।
माषप्रमाणास्ताः शुष्का लिह्याद्यक्ष्मी घृतद्रुताः।
पथ्यात्रिवृत्पटूष्णाम्बु सर्वत्रेष्टं विरेचनम्॥

अक2.79
स्नुक्क्षीरभाविते पथ्याचूर्णे कुर्वीत मोदकान्।
कोलास्थिमात्रान् शुष्कांश्च नवनीतेन लेहयेत्।
गुल्मोदरयकृत्प्लीहशूलानाहविबन्धिनः॥

अक2.80
लिह्यादेरण्डतैलेन कुष्ठं त्रिकटुकान्वितम्।
सुखोदकं चानुपिबेत्सुखमेतद्विरेचनम्॥

अक2.81
अल्पस्यापि महार्थत्वं प्रभूतस्याल्पकर्मताम्।
कुर्यात् संश्लेषविश्लेषकालसंस्कारयुक्तिभिः॥

अक2.82
त्वक्केसराम्रातकदाडिमैलासितोपलामाक्षिकमातुगुङ्गैः।
मद्येन तस्तैश्च मनोऽनुकूलैर्युक्तानि देयानि विरेचनानि॥
॥इति द्वितीयोऽध्यायः॥

अथ तृतीयोऽध्यायः।

अक3.1
अथातो वमनविरेचनव्यापत्सिद्धिं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अक3.2
अतिक्षुधितेनातिमृदुकोष्ठेनाल्पश्लेष्मणा दुर्वमेन हीनमात्रमतिमात्रं तीक्ष्णमतिशीतमजीर्णे वा पीतं वमनमधो गच्छति।
तत्रेप्सितानवाप्तिर्दोषोत्क्लेशश्च।
तं पुनराशु स्नेहयित्वा यौगिकैर्मात्राकालाद्यपेक्षं वामयेत्।
व्यापत्कराणि च पूर्वोक्तमतिक्रमं स्मरन् परिहरेत्॥

अक3.3
अजीर्णिनः श्लेष्मवतोऽत्युष्णतीक्ष्णलवणमतिमात्रमहृद्यं वा विरेचनमन्यद्वा भेषजमूर्ध्वं प्रवर्तते।
तत्र पूर्वोक्ता व्यापत्साधनं च।
तत ऊर्ध्वमप्युत्तिष्ठति हृद्यलेहवटकवर्ज्यमौषधं न तृतीयमवचारयेत्॥

अक3.4
क्रूरकोष्ठस्यातितीक्ष्णाग्रेरल्पमल्पवीर्यं वा भेषजमूर्ध्वभागिकमधोभागिकं वा भक्तवदुपैति पाकम्।
तत्र समुदीर्णा दोषा यथाकालमनिर्ह्रियमाणा विभ्रमं कुर्वन्ति।
तं स्निग्धकोष्ठमनल्पममन्दं चौषधं पाययेत्॥

अक3.5
कषायमल्पमप्रत्यग्रं रूक्षं वा भेषजमस्निग्धस्विन्नेन वा पीतं शीतोपचारेण वा स्तब्धं दोषविग्रथितमयोगी भवति।
तत्र वमने भूयो वामयेत्।
विरेचने स्निग्धस्विन्नं पुनर्विरेचयेत्।
उत्क्लिष्टभूरिदोषं वा तृतीयेऽहनि।
उभयोश्च संशोधनयोर्लवणतैलाभ्यक्तं पिण्डप्रस्तराभ्यां स्वेदयेत्॥

अक3.6
स्निग्धस्विन्नस्य च वमनमकृत्वा विरेचनं पीतवतः सामस्य वा मृदु वा विरिक्तस्याधोभागेत्यर्थगुरुस्तब्धोदरता शूलो वातमूत्रपुरीषसङ्गश्च भवति।
तमप्ययोगिनं समूत्रैस्तीक्ष्णैरास्थाप्य जाङ्गलरसैश्च भोजयित्वा फलदारुपिप्पलीसिद्धेन तैलेनानुवास्य वातहरैश्च स्नेहैरुपस्नेह्य पुनस्तीक्ष्णैर्विरेचयेत्॥

अक3.7
कफोल्बणस्यातिस्निग्धस्य गुरुकोष्ठस्य मन्दाग्नेर्वा मृदुप्रणीतमौषधं भृशमुत्क्लेश्य दोषान् जाड्यतन्द्रादौर्बल्याङ्गसादान् जनयति।
तच्छीघ्रमुल्लिखेत्।
लङ्घनेन च सन्धुक्षिताग्निं पुनःस्निग्धं तीक्ष्णोष्णैर्विशोधयेत्॥

अक3.8
सशेषान्नाय वातश्लेष्मवते रूक्षाय सोदावर्ताय मन्दाग्नये वा शीतं रूक्षं वा दत्तमौषधं भृशमाध्मानं करोति।
तत्र मलसङ्गात् समुन्नह्यत्युदरमन्तःशूलं दृतिवत् पार्श्वयोरापूर्णता शिरःपृष्ठरुजा श्वासकासौ पायुबस्तिनिस्तोदश्च भवति।
तमुदावर्तानाहहराभ्यङ्गस्वेदवर्तिदीपनचूर्णबस्तिक्रियाभिरुपचरेत्॥

अक3.9
क्षामेणाल्पबलेन मृदुकोष्ठाग्निना रूक्षेणास्निग्धेन वा स्विन्नेन सामेन वा बलवदौषधमुपयुक्तं सपित्तमनिलं प्रदूष्य परिकर्तिकामापादयति।
तत्र नाभिबस्तिगुदमेढ्रे सदाहपरिकर्तनमनिलसङ्गो विष्टम्भश्च॥

अक3.10
तं कृष्णतिलमधुकमधुयुक्तैः पिच्छाबस्तिभिरास्थापयेत्।
क्षीरिवृक्षशृतक्षीरेण वा।
शीताम्बुपरिषिक्तं चैनं पयसा भुक्तवन्तं घृतमण्डेन यष्टीमधुकतैलेन वानुवासयेत्।
क्षामस्य च मधुरो बृंहणश्च सर्वो विधिरिष्टः॥

अक3.11
सामे लङ्घनदीपनं च लघुरूक्षोष्णं चान्नपानम्।
निरामीभूतेऽनुबन्धे लघु क्षारम्लम्।
सवाते दधिसाराम्लं दाडिमत्वचा युक्तं भोजने पाने च प्रयुञ्जीत सदाडिमरसं च सर्पिः पिबेदुष्णाम्बुना वा तिलदेवदारुकल्कम्॥

अक3.12
क्रूरकोष्ठस्य बहुदोषस्याल्पमल्पगुणं मृदुस्निग्धं वा शोधनमवचारितमुत्क्लेश्य दोषान् न निर्हरति।
अल्पाल्पं च पित्तकफसंसृष्टं परिस्रवति।
विष्टम्भगौरवशोफकण्डूपाण्डुताङ्गसादगुल्मशूलानि चापादयति॥

अक3.13
तं तिनिशधवाश्च्वकर्णपलाशबलानिर्यूहैर्मधुयुक्तैरास्थापयेत्।
उपशान्तपरिस्रवं च पुनरुपस्निग्धं तीक्ष्णैः शोधयेत्।
शुद्धे च दीपनांश्चूर्णासवारिष्टादीन् योजयेत्॥

अक3.14
पीतौषधो यदा वेगमुदीरयति निगृह्णाति वा।
तदा प्रवाहिकास्य जायते।
तस्यां सदाहशूलं सपिच्छं श्वेतं कृष्णं रक्तं वा भृशं प्रवाहमाणः कफमुपविशति।
तं परिस्रवविधिनोपचरेत्॥

अक3.15
पीतौषधस्य भेषजोद्गारच्छर्द्यादीनां निग्रहाद्वातादयः कुपिता हृदयमुपसृत्य हृद्ग्रहं घोरमावहन्ति।
ततः प्रधानमर्मोपतापाद्वेदनाभिरत्यर्थमातुरः पीड्यते।
मोहहिध्माकासलालापार्श्वशूलयुतो वेपथुमान् नष्टसंज्ञो दन्तान् कटकटापयत्युद्वृत्ताक्षो जिह्वां खादति।
तं हृदयोपसरणमाहुः॥

अक3.16
तस्मै भिषक् शीघ्रममुह्यन्नभ्यङ्गपूर्वं धान्यस्वेदेन परिस्वेद्य तीक्ष्णमवपीडं दद्यात्।
यष्टीमधुकमिश्रेण तण्डुलाम्बुना वमनम्।
कटुभिर्वा कफोत्तराय।
ततो दोषशेषं पाचनीयैः पाचयेद्यथादोषोच्छ्रयं च बस्तीन् वितरेत्॥

अक3.17
अस्निग्धस्विन्नेनाब्रह्मचरिणा वेगधारिणा मृदुकोष्ठेन सुकुमारेण वा रूक्षमौषधमतिमात्रं प्रयुक्तमतिविरेकाद्वायुं कोपयति।
तेन सर्वाङ्गप्रग्रहो भवति।
तस्य विशेषात् पार्श्वपृष्ठश्रोणिमन्याममसु शूलमूर्च्छाभ्रमकल्पस्तम्भो निस्तोदो भेद उद्वेष्टनं संज्ञानाशश्च स्यात्।
तमभ्यज्य धान्यैः स्वेदयित्वा यष्टीमधुकविपक्वेन तैलेनानुवासयेत्।
वातहरं चान्नपानम्॥

अक3.18
स्निग्धस्विन्नस्यातिमृदुकोष्ठस्य क्षुधितस्य वा तीक्ष्णमतिभूरि वा प्रयुक्तमौषधं सर्वशो निर्हृत्य मलान् धातूनपि द्रवीकृत्य विस्रावयेदतियोगेन।
तं शतधौतघृतेनाभ्यज्य कषायस्वादुशीतैः प्रदेहपरिषेकावगाहान्नपानैः शर्करामधुमद्भिश्च लहः स्तम्भयेत्॥

अक3.19
चन्दनाञ्जनोशीरच्छागासृक्शीतोदकैर्लाजसक्तून् पाययेत्।
पिच्छाबस्तींश्चस्मै दद्यान्मधुरवर्गसिद्धं च क्षीरसर्पिः सर्पिर्मण्डोऽनुवासनम्।
रक्तपित्तविधानं च कुर्यात्॥

अक3.20
विशेषेण वमनातियोगे सघृततसिताक्षौद्रं फलरसैर्मन्थं पिबेत्।
क्षीरिवृक्षशुङ्गसिद्धां वा समाक्षिकां पेयां क्षीरं वा संग्राहिद्रव्यसिद्धं च क्षीरं भोजनेऽवचारयेत्॥

अक3.21
सोद्गारायां च छर्द्यां धनिकामधूकमधुरसामुस्ताञ्जनानि मधुना लिह्यात्।
वाक्सङ्गे हनुसङ्गेऽनिलार्तौ च घृतमांसरससिद्धामल्पतण्डुलां पेयां पिबेत्।
स्नेहस्वेदौ चावचारयेत्॥

अक3.22
जिह्वाप्रवेशे स्निग्धाम्ललवणान् कवलगण्डूषान् हृद्यांश्चाजमांसरसान्।
पुरतश्चास्य फलान्यम्लानि खादयेत्॥

अक3.23
निर्गतां तु जिह्वां तिलद्राक्षाकल्कलिप्तां व्योषलवणचूर्णप्रघृष्टां वा प्रवेशयेत्।
अक्षिणी व्यावृत्ते घृताभ्यक्ते पीडयेद्विसंज्ञं सामवेणुगीतशब्दान् श्रावयेत्॥

अक3.24
विरेचनातियोगे तण्डुलाम्भसा मधुमिश्रेण वमेत् प्रियङ्वादिं च तण्डुलोदकेन पिबेद्रोध्ररसाञ्जनदाडिमत्वचो वा।
सोमवल्कलट्फलोत्पलसमङ्गापद्मकेसराणि वा।
क्षौद्रशर्करामधुकौडुम्बरत्वचो वा।
रक्तातिसारक्रियां च कुर्वीत॥

अक3.25
गुदं निःसृतमभ्यज्य स्वेदयित्वा कषायैश्चस्तम्भयित्वा प्रवेशयेत्।
पूर्ववच्च वाक्सङ्गादीन् साधयेत्॥

अक3.26
उभयत्र च जीवरक्तपित्तयोर्ज्ञानार्थं रक्ते शुक्लं पिचु प्लोतं वा क्षिपेत्।
तस्मिन्नावाने कोष्णाम्बुक्षालितशुद्धे जीवरक्तम्।
विवर्णे तु रक्तपित्तं विद्यात्।
अन्नं वा तद्विमिश्रं शुने काकाय वा दद्यात्।
तस्मिन् भुक्ते जीवं वदेदभुक्ते पित्तम्॥

अक3.27
आमरणाच्च तस्य तृण्मूर्छामदार्तस्य क्रियां पित्तघ्नीमतियोगोक्तां च कुर्यात्।
एणादिरुधिरं वातिस्रुतरक्तोक्तविधिना सक्षौद्रं शीघ्रमुपयुञ्जीत।
तद्धि सद्यो जीवमभिसन्दधाति।
श्यामाकाश्मर्यमधुकदूर्वोशीरैर्वा शृतं पयो घृतमण्डाञ्जनयुक्तं शीतं बस्तौ निषेचयेत्॥

अक3.28
शेषेष्वपि चासम्यक्प्रयुक्तवमनविरेचनोपद्रवेषु यथामयं दोषादीनपेक्ष्य प्रतिकुर्याद्बस्तिव्यापत्सिद्धिं चेक्षेत॥

अक3.29
एवमुभयतोभागेऽपि शोधने यथावस्थमुत्तिष्ठेत।
या तु विरेचने परिकर्तिका तद्वमने कण्ठक्षणनम्।
यदधःपरिस्रवः स कफप्रसेको यदधःप्रवाहणं स शुष्कोद्गार इति।
भवति चात्र॥

अक3.30
अतिमात्रमकालेऽल्पं तुल्यवीयरभावितम्।
असम्यक्संस्कृतं जीर्णं व्यापद्येतौषधं ध्रुवम्॥

अक3.31
छर्दनं न तु दुश्छद दुर्विरेच्यं न रेचनम्।
पाययेदौषधं भूयस्तन्निहन्ति तथा हि तौ॥

अक3.32
यस्योर्ध्वं कफसंसृष्टं पीतं यात्यानुलोमिकम्।
वमितं कवलैः शुद्धं लङ्घितं पाययेत्तु तम्॥

अक3.33
विबद्धेऽल्पे चिराद्दोषे स्रवत्युष्णं पिबेज्जलम्।
तेनाध्मानं वमिस्तृष्णा विबन्धश्चाशु शाम्यति॥

अक3.34
भेषजं दोषरुद्धं चेन्नोध्व नाधः प्रवर्तते।
सोद्गारं साङ्गशूलं वा स्वेदं तत्रावचारयेत्॥

अक3.35
सम्पग्विरिक्तस्योद्गारे भेषजं क्षिप्रमुल्लिखेत्।
अजीर्णमप्रवृत्तौ तु सुशीतैः स्तम्भयेद्भिषक्॥

अक3.36
कदाचिच्छ्लेष्मणा रुद्धं तिष्ठत्युरसि भेषजम्।
क्षीणे श्लेष्मणि सायाह्ने रात्रौ वा तत् प्रवर्तते॥

अक3.37
रुक्षानाहारयोर्जीर्णे तिष्ठत्यूर्ध्वं गतेऽपि वा।
वायुना भेषजे त्वन्यत् सस्नेहलवणं पिबेत्॥

अक3.38
तृण्मोहभ्रममूर्छाद्याः स्युर्जीर्यति च भेषजे।
पित्तघ्नं स्वादु शीतं च भेषजं तत्र शस्यते॥

अक3.39
लालाहृल्लासविष्टम्भरोमहर्षाः कफावृते।
भेषजं तत्र तीक्ष्णोष्णं कट्वादि कफनुद्धितम्॥

अक3.40
प्रतिकूला गतिः पाको ग्रथितत्वं सगौरवम्।
दोषोत्क्लेशो भृशाध्मानं परिकर्तः परिस्रवः॥

अक3.41
प्रवाहिका हृद्ग्रहणं सर्वगात्रपरिग्रहः।
सह धातुस्रवेणैता द्वादशोक्ताः ससाधनाः।
व्यापदो विधिविभ्रंशात् द्विविधेऽपि विरेचने॥

अक3.42
उत्पद्यमानासु च तासु तासु व्यापत्सु संशोधनविभ्रमेण।
दिशानयैवाशु यतेत सिद्ध्यै ज्योतिर्हि शास्त्रं नयदुर्नयानाम्॥
॥इति तृतीयोऽध्यायः॥

अथ चतुर्थोऽध्यायः।

अक4.1
अथातो बस्तिकल्पं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अक4.2
बलां गुडूचीं त्रिफलां सरास्नां द्विपञ्चमूलं च पलोन्मितानि।
अष्टौ फलान्यर्धतुलां च मांसात् छागात् पचेदप्सु चतुर्थशेषम्॥

अक4.3
पूतो यवानीफलबिल्वकुष्ठवचाशताह्वाघनपिप्पलीनाम्।
कल्कैर्गुडक्षौद्रघृतः सतैलैर्युक्तः सुखोष्णो लवणान्वितश्च॥

अक4.4
बस्तिः परं सर्वगदप्रमाथीस्वस्थे हितो जीवनबृंहणश्च।
बस्तौ च यस्मिन् पठितो न कल्कः सर्वत्र दद्यादमुमेव तत्र॥

अक4.5
द्विपञ्चमूलस्य रसोऽम्लयुक्तः सच्छागमांसस्य सपूर्वपेष्यः।
त्रिस्नेहयुक्तः प्रवरो निरूहः सर्वानिलव्याधिहरः प्रदिष्टः॥

अक4.6
बलापटोलीलघुपञ्चमूलत्रायान्तकैरण्डयवात् सुसिद्धात्।
प्रस्थो रसाच्छागरसार्धयुक्तः साध्यः पुनः प्रस्थसमः स यावत्॥

अक4.7
प्रियङ्गुकृष्णाघनकल्कयुक्तः सतैलसर्पिर्मधुसैन्धवश्च।
स्याद्दीपनो मांसबलप्रदश्च चक्षुर्बलं चोपदधाति सद्यः॥

अक4.8
एरण्डमूलात्त्रिपलं पलाशत्तथा पलांशं लघुपञ्चमूलम्।
रास्नाबलाछिन्नरुहाश्वगन्धापुनर्नवारग्वधदेवदारु॥

अक4.9
फलानि चाष्टौ सलिलाढकाभ्यां विपाचयेदष्टमशेषितेऽस्मिन्।
वचाशताह्वाहपुषाप्रियङ्गुयष्टीकणावत्सकबीजमुस्तम्॥

अक4.10
दद्यात् सुपिष्टं सहतार्क्ष्यशैलमक्षप्रमाणं लवणांशयुक्तम्।
समाक्षिकस्तैलयुतः समूत्रो बस्तिर्जयेल्लेखनदीपनोऽसौ॥

अक4.11
जङ्घोरुपादत्रिकपृष्ठकोष्ठहृद्गुह्यशूलं गुरुतां विबन्धम्।
गुल्माश्मवर्ध्मग्रहणीगुदोत्थांस्तांस्तांश्च रोगान् कफवातजातान्॥

अक4.12
चतुष्पले तैलघृतस्य भृष्टः छागाच्छतार्धो दधिदाडिमाम्लः।
रसः सपेष्यो बलवणमांसरेतोग्नितैमिर्यशिरोरुजीष्टः॥

अक4.13
यष्ट्याह्वयस्याष्टपलेन सिद्धं पयः शताह्वाफलपिप्पलीभिः।
युक्तं ससर्पिर्मधुवातरक्तविसर्पवैस्वर्यहितो निरूहः॥

अक4.14
यष्ठ्याह्वलोध्राभयचन्दनैश्च शृतं पयोऽग्र्यं कमलोत्पलैश्च।
सशर्कराक्षौद्रघृतं सुशीतं पित्तामयान् हन्ति सजीवनीयम्॥

अक4.15
गोपाङ्गनाचन्दनशीतपाकीद्राक्षर्धिकाश्मर्यमधूकसेव्यैः।
पयः शृतं श्रावणिमुद्गपर्णीबलास्वगुप्तामधुयष्टिकल्कैः॥

अक4.16
गोधूमचूर्णैश्च पिचुप्रमाणैरिक्षोविदार्याश्च रसेन युक्तम्।
तैलेन यष्टीमधुसाधितेन सितोपलाक्षौद्रघृतैश्च शीतः॥

अक4.17
बस्तिः प्रशस्तः ससमस्तदेहदाहे सशूलेऽवयवाश्रिते वा।
गुल्मातिसारभ्रममूत्रकृच्छ्रक्षीणे क्षतौजोबलसङ्क्षये च॥

अक4.18
कोशातकारग्वधदेवदारुमूर्वाश्वदंष्ट्राकुटजार्कपाठाः।
पक्त्वा कुलत्थान् बृहतीं च तोये रसस्य तस्य प्रसृता दश स्युः॥

अक4.19
तान् सर्षपैलामदनैः सकुष्ठैरक्षप्रमाणैः प्रसृतैश्च युक्तान्।
क्षौद्रस्य तैलस्य फलाह्वयस्य क्षारस्य तैलस्य च सार्षपस्य॥

अक4.20
दद्यान्निरूहं कफरोगिताय मन्दाग्नये चाशनविद्विषे च॥

अक4.21
पुनर्नवैरण्डवृषाश्मभेदवृश्चीवभूतीकबलापलाशान्।
द्विपञ्चमूलं च पलांशकानि क्षुण्णानि धौतानि फलानि चाष्टौ॥

अक4.22
बिल्वं यवाङ्कोलकुलत्थधान्यफानि च स्युः प्रसृतोन्मितानि।
पयो जलद्व्याढकसाधितं तत् क्षीरावशिष्टं शुचिवस्त्रपूतम्॥

अक4.23
वचाशताह्वामरदारुकुष्ठयष्ट्याह्वसिद्धार्थकपिप्पलीनाम्।
कल्कैर्यवान्या मदनैश्च युक्तं नात्युष्णशीतं गुडसैन्धवाक्तम्॥

अक4.24
क्षौद्रस्य तैलस्य च सर्पिषश्च नवस्य युक्तं प्रसृतित्रयेण।
दद्यान्निरूहं विधिना विधिज्ञः ससर्वसंसर्गकृतामयघ्नः॥

अक4.25
अर्धार्धविहितान् बस्तीनतश्चित्रान् प्रवक्ष्यते।
कोशातकीद्वयेक्ष्वाकुफलजीमूतवत्सकाः॥

अक4.26
श्यामात्रिवृतयोर्मूलं तथा दन्तीद्रवन्तिजम्।
प्रकीर्या चोदकीर्या च क्षीरिणी नीलिनीफलम्॥

अक4.27
सप्तपाशङ्खिनीलोध्रं फलं कम्पिल्लकस्य च।
स्वकल्कसैन्धवयुताः पक्वाशयविशोधनाः॥

अक4.28
घातकीपुष्पतर्कारीजीवन्तीमूलवत्सकाः।
प्रग्रहः खदिरः कुष्ठं शमी पिण्डीतको यवाः॥

अक4.29
प्रियङ्गुरर्कमूली च तरुणीजातियूथिकाः।
वटाद्याः किंशुकं लोध्रमिति सङ्ग्राहिका मताः॥

अक4.30
ग्राही प्रियङ्ग्वम्बष्ठादिक्वाथकल्कैः क्रमेण च।
ऊषकादिप्रतीवापो लेखनस्त्रिफलारसः।
मधुरक्वाथकल्केन सरसाज्येन बृंहणः॥

अक4.31
बदर्यैरावणीशेलुशाल्मलीधन्वनाङ्कुराः।
समाक्षिकाः क्षीरयुताः सासृजः पिच्छिलाः स्मृताः॥

अक4.32
कोलङ्कतककाण्डेक्षुदर्भपोटेक्षुपालिभिः।
दाहघ्नः सघृतक्षीरो द्वितीयश्चन्दनादिभिः॥

अक4.33
मुष्टिः शाल्मलिवृन्तानां क्षीरसिद्धो घृतान्वितः।
हितः प्रवाहणे तद्वद्वृन्तैः शाल्मलकस्य च॥

अक4.34
कर्बुदाराढकीनीपविदुलैः क्षीरसाधितैः।
परिकर्ते तथा वृन्तैः श्रीपर्णीकोविदारजैः॥

अक4.35
परिस्रवे पयः सिद्धं सवृश्चीवपुनर्नवम्।
आखुकर्णिकया तद्वत्तण्डुलीयकयुक्तया॥

अक4.36
अश्वावरोहकः काकनासाराजकशेरुकाः।
सिद्धाः क्षीरेऽतियोगे स्युः क्षौद्राञ्जनघृतैर्युताः।
न्यग्रोधाद्यैश्चतुर्भिश्च विधिनापरः॥

अक4.37
बृहती क्षीरकाकोली पृश्निपर्णी शतावरी।
काश्मर्यबदरीमूर्वास्तथोशीरप्रियङ्गवः॥

अक4.38
जीवादाने शृतौ क्षीरे द्वौ घृताञ्जनसंयुतौ।
बस्ती प्रदेयौ भिषजा शीतौ समधुशकरौ।
गोव्यजामहिषीक्षीरैर्जीवनीययुतैरपि॥

अक4.39
शशैणदक्षमार्जारमहिषाव्यजशोणितैः।
सद्यस्कैर्मृदितैर्बस्तिर्जीवादाने प्रशस्यते॥

अक4.40
अथेमान् सुकुमाराणां निरूहान् स्नेहनान् मृदून्।
कर्मणा विप्लुतानां च वक्ष्यामि प्रसृतैः पृथक्॥

अक4.41
क्षीरात् द्वौ प्रसृतौ कार्यै मधुतैलघृतात्त्रयः।
खजेन मथितो बस्तिर्वातघ्नो बलवर्णकृत्॥

अक4.42
एकैकः प्रसृतस्तैलप्रसन्नाक्षौद्रसर्पिषाम्।
बिल्वादिमूलक्वाथात् द्वौ कौलत्थाद्द्वौ स वातजित्॥

अक4.43
पटोलनिम्बपूतीकरास्नासप्तच्छदाम्भसः।
प्रसृतः पृथगाज्याच्च बस्तिः सर्षपकल्कवान्।
सपञ्चतिक्तोऽभिष्यन्दकृमिकुष्ठप्रमेहहा॥

अक4.44
विडङ्गत्रिफलाशिग्रुफलमुस्ताखुकर्णिजात्।
कषायात् प्रसृताः पञ्च तैलादेको विमथ्य तान्।
निरूहः कृमिहा वेल्लपिप्पलीकल्कयोजीतः॥

अक4.45
पयस्येक्षुस्थिरारास्नाविदारीक्षौद्रसर्पिषाम्।
एकैकः प्रसृतो बस्तिः कृष्णाकल्को वृषत्वकृत्॥

अक4.46
चत्वारस्तैलगोमूत्रदधिमण्डाम्लकाञ्जिकात्।
प्रसृताः सर्षपैः पिष्टैर्विट्सङ्गानाहभेदनः॥

अक4.47
श्वदंष्ट्राश्मभिदेरण्डक्वाथतैलसुरासवात्।
प्रसृताः पञ्च चपलाकौन्तीयष्ट्याह्वकल्कवान्।
बस्तिः कवोष्णः साहाने मूत्रकृच्छ्रे वरो मतः॥

अक4.48
मृदुबस्तिजडीभूते तीक्ष्णोऽन्यो बस्तिरिष्यते।
तीक्ष्णैर्विकर्षिते स्निग्धो मधुरः शिशिरो मृदुः॥

अक4.49
तीक्ष्णत्वं मूत्रबिल्वाग्निलवणक्षारसर्षपैः।
प्राप्तकालं विधातव्यं क्षीराज्याद्यैस्तु मार्दवम्॥

अक4.50
बलकालदोषरोगप्रकृतीः प्रविभज्य योजितो बस्तिः।
स्वः स्वैरौषधवर्गैः स्वान् स्वान् रोगान् निवतयति॥

अक4.51
उष्णार्तानां शीतान् शीतार्ताना तथा सुखोष्णांश्च।
तद्योग्यौषधयुक्तान् बस्तीन् सन्तर्क्य युञ्जीत॥

अक4.52
बस्तीन्न बृंहणीयान् दद्याद्व्याधिषु विशोधनीयेषु।
मेदस्विनो विशोध्या ये च नराः कुष्ठमेहार्ताः॥

अक4.53
न क्षीणक्षतदुर्बलमूर्छितकृशशुष्कशुद्धदेहानाम्।
दद्याद्विशोधनीयान् दोषनिबद्धायुषो य च॥

॥इति चतुर्थोऽध्यायः॥