अष्टाङ्गसंग्रहः उत्तरस्थानम् अध्याय ६-१०

विकिस्रोतः तः

अष्टाङ्गसंग्रहः

अथ षष्ठोऽध्यायः।

अउ6.1
अथातः प्रत्येकग्रहप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ6.2
स्कन्दग्रहे गुग्गुल्वेलवालुकमनश्शिलाहरितालमञ्जिष्ठोशीररास्नागरुदेवदारुश्रीवेष्टकहरेणूगिरिकदम्बकचन्दनैः श्लक्ष्णपिष्टैः प्रदेहो वातहरवृक्षपत्रक्वाथेन कवोष्णेन परिषेकस्तेषामेव च मूलक्वाथे सर्वगन्धसुरामण्डकैडर्यावापवत्तैलं विपक्वमभ्यङ्गः॥

अउ6.3
बृंहतीद्वयद्विपुर्ननवरेणुकोपकुल्यामुस्तखदिरवचाशङ्खनाभिसरलसर्पसुगन्धासुराह्वकल्कविपक्वंवा॥

अउ6.4
क्षीरिवृक्षकषायेण क्षीरेण च सिद्धमर्धपलिकैश्च पिष्टैः सारिवाद्विकाकोलीद्विबलांशुमतीद्वयहस्तिकर्णपर्णैर्घृतप्रस्थं पानम्॥

अउ6.5
रास्नादेवदार्वन्यतरकल्केन वा सक्षीरं साधितं सर्पिः॥

अउ6.6
वचाकाकादनीसर्पकञ्चुकसर्षपैरुष्ट्राजाव्यश्वगोरोमभिश्च सघृतैर्धूपैः।
सिद्धार्थकसर्जरसकुष्ठहिङ्गुगुग्गुलुभिर्वा॥

अउ6.7
सोमवल्लीन्द्रवल्लीशमीबिल्ववृन्दाकमृगादिनीमूलानि सूत्रेण ग्रथितानि कण्ठेन शिरसा वा धारयेत्॥

अउ6.8
रक्तमाल्यानुलेपनवस्त्रपताकामणिबीजैर्विविधैश्च भक्ष्यैः सदधिघृतमधुलाजकुल्माषमांसमत्स्यसुरासवं समयूरकुक्कुटं सघण्टाकं सशूर्पव्यजनं च कुमारग्रहे रक्तौदनेन बलिमुपोषितो निवेदयेत्॥

अउ6.9
तत्र च रात्रावग्निं ज्वालयित्वा मन्त्रमिमं पठन् मधुसर्पिषा जुहुयात्॥

अउ6.10
अग्नये कृत्तिकाभ्यश्च स्वाहा स्वाहेति चान्ततः।
नमः स्कन्दाय देवाय ग्रहाधिपतये नमः॥

अउ6.11
शिरसा त्वाभिवन्देहं प्रतिगृह्णीष्व मे बलिम्।
नीरुजो निर्विकारश्च शिशुर्भवतु सर्वदा॥

अउ6.12
सर्वेष्वेव ग्रहेषु त्रिकालमग्निं पूजयेत्तर्पयेच्च।
विशेषतः स्कन्दग्रहे त्रिरात्रं च रात्रौ रात्रौ गायत्र्यभिमन्त्रितोदकेन चत्वरे धात्रीकुमारयोः स्नपनमाचरेत्॥

अउ6.13
त्रिकालं च मन्त्रेणानेन बालमपमार्जयेत् प्रतिसरां च बध्नीयात्॥

अउ6.14
तपसां तेजसां चैव यशसां वपुषां तथा।
विधाता योऽव्ययो देवः स ते स्कन्दः प्रसीदतु॥

अउ6.15
ग्रहसेनापतिर्देवो देवसेनापतिर्विभुः।
देवसेनारिपुहरः पातु त्वा भगवान् गुहः॥

अउ6.16
देवदेवस्य महतः पावकस्य च यः सुतः।
गङ्गोमाकृत्तिकानां च स ते शर्म प्रयच्छुतु॥

अउ6.17
रक्तमाल्याम्बरः श्रीमान् रक्तचन्दनभूषितः।
रक्तादित्यवपुर्देवः पातु त्वा क्रौञ्चसूदन इति॥

अउ6.18
विशाखे स्कन्दग्रहोक्तो वचाकुष्ठान्वितः प्रदेहो गोलोमीबिल्वशिरीषमुस्तसुरसादिक्वाथेन परिषेकः।
सर्पसुगन्धादेवदारुकुष्ठमुस्ताकल्केन सगोमूत्रबस्तमूत्रेण सिद्धं तैलमभ्यङ्गः॥

अउ6.19
क्षीरिवृक्षकषायेण जीवनीयगर्भं सपयस्कं सर्पिः सिद्धं पानम्।
जीवकर्षभक्षीरिणीबृहतीहरिद्रांशुमतीद्वयमधुकैर्वा विदारीद्वयतवक्षीरीमृद्वीकामधुकरास्नानीलोत्पलकन्दवचाव्योषैर्वा॥

अउ6.20
गृद्ध्रोलूकपुरीषवृषभरोमकेशहस्तिनखैर्घृताक्तैर्धूपः।
अनन्ताकुक्कुटीमर्कटीबिम्बीसमङ्गाश्वेतगिरिकर्णीकाः पूर्वोक्तानि च पूर्ववद्धारयेत्॥

अउ6.21
पक्वाममांसरुधिरदधिवारुणीयुक्तो वटवृक्षे बलिश्चतुष्पथे स्नानम्।
मन्त्रश्च॥

अउ6.22
स्कन्दापस्मारसंज्ञो यः स्कन्दस्य दयितः सखा।
विशाखसंज्ञः स शिशोः शिवोस्तु विकृताननः॥

अउ6.23
नैगमेषे विशाखोक्तः प्रदेहोग्निमन्थवरुणनलरोहिषपूतीकपारिभद्रकैः परिषेको धान्याम्लेन सबीजेन गुग्गुल्वश्वगन्धासर्षपोशीरश्वेताकुष्ठशताह्वाविपक्वं तैलमभ्यङ्गः॥

अउ6.24
दशमूलक्वाथे मधुरस्कन्धगर्भं सक्षीरं सर्पिः पानम्।
सर्पगन्धाबस्तनखरोमभिर्धूपः।
सर्पगन्धाबस्तगन्धातुम्बीमृगोर्वारुशतावरीसहदेवापुनर्नवबीजानि धारयेत्॥

अउ6.25
विचित्रमाल्यफलशुक्लविलेपनौदनदधिघृतगुडक्षीरैर्महापथे क्षीरिद्रुमे वा बलिः।
नदीतीरे स्नानम् मन्त्रश्च॥

अउ6.26
अजाननश्चलाक्षिभ्रूः कामरूपी महायशाः।
बालं बालहितो देवो नैगमेषोऽभिरक्षतु॥

अउ6.27
स्वाहा।
श्वग्रहे गवाक्षीब्रह्मदत्ताबृहतीद्वयसारिवाद्द्रीवेरकुष्ठभूमिकदम्बसुरसमञ्जरीकरवीरपुष्पैः प्रदेहः।
मयूरो लूकाश्वमहिषीपुरीषरोमभिश्च।
बिल्वैरण्डनक्तमालारलुकपत्रक्वाथः परिषेकः॥

अउ6.28
वयस्थाशतावरीसारिवापयस्यैरण्डसहदेवात्रिकटुककल्कक्षीरसिद्धं तैलमभ्यङ्गः।
तथैव च घृतं पानम्।
गोबस्तमूत्रभावितशुष्कमत्स्यचूर्णो निशीथे धूपः॥

अउ6.29
वचावयस्थाब्राह्मीजटिलागोलोमीलम्बापूतनाकेशीगिरिकदम्बकेकैषीकासहदेवीर्धारयेत्॥

अउ6.30
सघृतसुरामांसदधिरुधिरपललश्चत्वरे बलिः।
सङ्करकूटे स्नानम्।
मन्त्रश्च॥

अउ6.31
रक्षार्थं कार्तिकेयस्य कृत्तिकोमाग्निशूलिभिः।
योसौ श्वविग्रहः सृष्टः स देवस्त्वाभिरक्षतु॥

अउ6.32
स्वाहा।
पितृग्रहे पूर्वोक्तः प्रदेहो वचावयस्थाजीवन्तीधातकीप्रियङ्गुगुग्गुलुरास्नामनश्शिलालैर्वा।
वचादिभिरेव सिद्धं तैलमभ्यङ्गः॥

अउ6.33
बिल्वकपित्थकरञ्जतर्कारीसुरसपाटलीवरणपारिभद्रकपारिजातमातुलुङ्गपत्रक्वाथेन रात्रौ परिषेको बिल्वादिभिरेव च तैलं सुराबस्तमूत्रयुक्तं साधितमभ्यङ्गः॥

अउ6.34
त्रिफलांशुमतीद्वयपयस्यामधुककल्केन दशमूलनिर्यूहे सक्षीरं सर्पिः पक्वं पानम्।
देवदारुभार्ङ्गीविडङ्ग चन्दनकाकोलीद्वयजीवकर्षभकैर्वा सक्षारैः॥

अउ6.35
लक्ष्मीपुरकुष्ठगोलोमीजटिलोग्रगन्धाभिः सिद्धं तैलं नावनम्।
एभिरेव च सुरापिष्टैर्लेपः॥

अउ6.36
गृद्ध्रोलूकवानररोमाणि सघृतानि तत्पुरीषं वा सुप्तजने धूपो वचादिभिर्वा प्रदेहोक्तैः पूर्वोक्तो वा।
पूर्वोक्ता एव च धारयेत्॥

अउ6.37
सुरासवगुडापूपपिष्टतिलकृतभक्षो वृक्षमूले सवृषभः काञ्चनाक्षियुगयुक्तः स्वयं पित्रा कुमारस्य निर्वापणीयो बलिः।
क्षीरिवृक्षसमीपे स्नानम्।
मन्त्रश्व॥

अउ6.38
यः पिता सर्वबालानां ग्रहाणां पूजितो वरः।
वृक्षमूले कृतावासः स त्वां पातु पिता सदा॥
स्वाहा॥

अउ6.39
शकुन्यां मधुकद्रीबेरोशीरसारिवापद्मकोत्पलमञ्जिष्टालोद्ध्रप्रियङ्गुगैरिकैः प्रदेहः।
सुरामूत्रपिष्टैर्वा लोध्रयष्टीमधुकमञ्जिष्ठाहरीतकीदेवदारुभिर्व्रणोक्ताश्च प्रदेहाः।
वेतसाम्लकपित्थैः सपञ्चमूलैर्वा।
शुक्तिशङ्खशम्बूकभस्ममञ्जिष्ठाभयामधुकैस्तैलं पक्वं व्रणरोपणम्॥

अउ6.40
क्षीरितरुभिः परिषेको मार्कवमूलकामलकीत्वक्पत्रप्रियङ्गुमनश्शिलालैलाद्वययष्टीक्रमुकलोध्रधातकीसारिवाञ्जनोत्पलपतङ्गसमङ्गाद्विहरिद्रामांसीमञ्जिष्ठाचन्दनपद्मकसुवर्णगौरिकैस्तैलं सपयस्कं पक्वमभ्यङ्गो ग्रहहा व्रणरोपणश्च॥

अउ6.41
अर्जुनफललोध्रमधुकोदुम्बरवचाचूर्णं क्षौद्रयुक्तो मुखपाके मुखोद्घर्षः।
विशाखोक्तं सापः पानम्।
स्कन्दोक्तो धूपः।
काकपिच्छेन वा गोबालोग्रगन्धारक्षोघ्नघृतमयूरचन्द्रकैर्वा॥

अउ6.42
कटम्भराकुक्कुटीमर्कटीलम्बासहदेवीह्रीबेरोशीराणि धारयेत्।
नागदन्ती लक्ष्मणाबृहतीद्वयमृगोर्वारुशतावरीसहदेव्यो वा॥

अउ6.43
तिलतण्डुलमत्स्यमनशिशलाहरितालसम्पृक्तस्तिलपिष्टकृतशकुनिकैः करञ्जे बलिर्निष्कुटे स्नानम्।
मन्त्रश्च॥

अउ6.44
अन्तरिक्षचरा देवी सर्वालङ्कारभूषिता।
अयोमुखी तीक्ष्णतुण्डा शकुनी ते प्रसीदतु॥

अउ6.45
दुर्दर्शना महाकाया पिङ्गाक्षी भैरवस्वरा।
लम्बोदरी शङ्कुकर्णी शकुनी ते प्रसीदतु॥

अउ6.46
पूतनायां हिङ्गुवचागिरिकदम्बकुष्ठैलाद्वयसुराह्वैः प्रदेहः।
कपित्थशिरीषन्यग्रोधबिल्वैरण्डबकुलधव वंशाग्निमन्थपत्रक्वाथः सर्वगन्धोदकयुक्तः परिषेको वरणकट्वङ्गास्फोतकपोतवङ्कापारिभद्रदैर्वा॥

अउ6.47
कुष्ठसर्जरसवचागोलोमीवयस्थामनश्शिलालैस्तैलं साधितमभ्यङ्गः।
मधुरौषधैः साधितं सर्पिः पानम्।
एलाद्वयकुष्ठवचाहिङ्गुदेवदारुगिरिकदम्बकैर्धूपः।
बिम्बीगुञ्जाकाकादनीनद्रवारुणीचित्रपला धारयेत्॥

अउ6.48
विचित्रमाल्यमत्स्योदनकृसरपललवान् बलिः सङ्करकूटे।
तद्वच्छरावसम्पुटस्थः शून्यग्रहे चतुर्दिशं प्रक्षेप्यः।
तत्र चोच्छिष्टेन स्रपनम्।
मन्त्रश्च॥

अउ6.49
मलिनाम्बरसंवीता मलिना रूक्षमूर्धजा।
शून्यागाराश्रया देवी दारकं पातु पूतना॥

अउ6.50
दुर्दर्शना महाकाया कराला मेघकालिका।
भिन्नागाराश्रया देवी दारकं पातु पूतना॥

अउ6.51
शीतपूतनायां पूतनोक्तः प्रदेहो धारणीयानि च।
वरणकपित्थतुलसीपाशिकावंशीबिल्वपाटलीनन्दीभल्लातकपत्रनिर्यूहेण परिषेकः॥

अउ6.52
मुस्तामरदारुकुष्ठसर्पगन्धैर्गोबस्तमूत्रयुक्तं तैलं विपक्वमभ्यङ्गः।
काश्मर्यपृश्निपर्णीलोध्रमधुकैर्मधुरवर्गेण च समक्षीरं सर्पिः शृतं प्राश्यमानं शीतपूतनां छर्दिहिध्माकासश्वासांश्च शमयति॥

अउ6.53
सातिसारायां तु खदिरपलाशसर्जार्जुनरोहिणीत्वक्क्वाथेन तुल्यपयः सर्पिः।
गृध्रोलूकविड्बस्तगन्धाहिनिर्मोकनिम्बपत्रैर्धूपः।
जीर्णगोचर्मसर्षपभिक्षुसङ्घाटीसर्पकञ्चुकैर्वा॥

अउ6.54
मुद्गौदनप्रायो जलाशयसमीपे बलिस्तत्रैव च स्नानम्।
मन्त्रश्च॥

अउ6.55
मुद्गौदनाशना देवी सुराशोणितपायिनी।
जलाशयालयरता पातु त्वा शीतपूतना॥

अउ6.56
अन्धपूतनायां सर्वगन्धैः सशिरोवक्त्रस्य प्रदेहः।
वरुणास्फोतपारिभद्रकवृक्षादनीनागबलागैरिकशतावरीभिः परिषेकः।
हरितालमनश्शिलाकुष्ठसर्जरससुरासौवीरकसंस्कृतं तैलमभ्यङ्गः॥

अउ6.57
स्यन्दनस्योनाककाश्मर्यखदिरकुष्ठैर्मधुरवर्गेण च क्षीरिवृक्षकषाये सक्षीरं शृतं घृतं मधुयुक्तं चक्षुःकामोपसृष्टानां प्राशः।
छर्दिकासातीसारवतां तु तदेव पिप्पलीपिप्पलीमूलसालपर्णीबृहतीकल्कोपेतम्॥

अउ6.58
रक्षोघ्ररुष्करसर्जरसमधुभिर्धूपः।
जीर्णाभिक्षुसङ्घाटीकृकवाकुपुरीषाहित्वक्केशचर्मभिर्वा॥

अउ6.59
अनन्ता कुक्कुटी मर्कटी बिम्बीर्धारयेत्।
तुम्बी चित्रफलामृगोर्वारुजालिनीकाकादनीर्वा॥

अउ6.60
पक्वाममांसशोणितैश्चतुष्पथे बलिर्गृहे स्नानम्।
मन्त्रश्च॥

अउ6.61
कराला पिङ्गला मुण्डा कषायाम्बरवासिनी।
देवी बालमिमं प्रीता पालयत्वन्धपूतना॥

अउ6.62
मुखमण्डितिकायां वारुण्या श्लक्ष्णपिष्टैः सर्वगन्धैर्लेपः।
बिल्वैरण्डकपित्थाग्निमन्थवंशीकुबेराक्षीपत्रक्वाथेन परिषेकस्तेषामेव च स्वरसेन मधुकवाजिगन्धागर्भमैकध्यं तैलं वसा च पक्वमभ्यङ्गः॥

अउ6.63
ह्रस्वपञ्चमूलमधुरवर्गसिद्धं घृतं समधुशर्करं प्राशः।
पाठाकेतकसूचीनिम्बफलपिप्पलीविडङ्गहरीतकीभस्मवचाचोरकचूर्णो वा मधुसर्पिर्भ्याम्।
ऋक्षरोममषीपाठामरिचपिप्पलीचूर्णो वा देवदारुभस्मयुक्तो मूर्वाव्योषमुस्तरास्नागिरिकदम्बकाश्वगन्धाचूर्णो वाशोकरोहिणीचूर्णो वा।
एभिरेव च विपक्वमाजं घृतं पयो वा पिबेत्॥

अउ6.64
एभिरेव च योगैर्धूपोपदेहाभ्यङ्गनस्यतैलाक्षिपूरणपरिषेकान् कुर्यात्।
यवकुष्ठसर्जरसैर्धूपः।
सर्पचाषकीररल्लकजिह्वा धारयेत्।
मातुश्चास्य श्लेष्महरमौषधं पाने स्तनोद्वर्तने च युञ्ज्यात्॥

अउ6.65
विविधगन्धधूपमाल्याञ्जनपारदमनश्शिलायुक्तो गोष्ठमध्ये बलिर्गवां मध्ये स्नानम्।
मन्त्रश्च॥

अउ6.66
अलङ्कृता रूपवती सुभगा कामरूपिणी।
गोष्ठमध्यालयरता पातु त्वा मुखमण्डिता॥

अउ6.67
रेवत्यां सर्वगन्धैः कुलत्थमाषचूर्णेन च प्रदेहः।
अश्वगन्धाजशृङ्गीसारिवाद्विपुनर्नवद्विसहाविदारीभिः परिषेकः॥

अउ6.68
कुष्ठसर्जरससांधितं तैलमभ्यङ्गः।
धवाश्वकर्णधातकीककुभतिन्दुकैर्जीवनीयैश्च पिष्टैर्घृतं शृतं प्राशः।
यवयवफलोलूकगृध्रशकृद्भिः सघृतैर्धूपः।
वरणारिष्टसिन्दुकान्वितश्चाविकमूत्रेण कण्डको लेपः॥

अउ6.69
शुक्लमाल्यविलेपनलाजौदनपायसैर्गोतीर्थे बलिः।
नदीसङ्गमे क्षीरिवृक्षसमीपे वा स्नपनम्।
मन्त्रश्च॥

अउ6.70
नानावस्त्रधरादेवी चित्रमाल्यानुलेपना।
चलत्कुण्डलिनी श्यामा रेवती ते प्रसीदतु॥

अउ6.71
शुष्करेवत्यां धूपवर्ज्यः स्कन्दग्रहोक्तो विधिः।
वचाश्वगन्धाहिङ्गुलाजसिद्धार्थकैरुद्वर्तनम्।
सर्षपतैलं वचासिद्धं नेत्रपूरणम्॥

अउ6.72
काकगृध्रगर्दभशकृद्भिर्लेपः।
कुलीरकपालशल्यकशुक्तिमेषशृङ्गहयखरजाहकहस्तिनखनकुलरोमभिर्धूपः सर्वग्रहघ्नः॥

अउ6.73
कुल्माषैर्मद्येन शुष्कमांसेन च शुष्कवृक्षे बलिः।
तत्रैव च स्नानम्।
मन्त्रश्च॥

अउ6.74
उपासते या सततं देव्यो विविधभूषणाः।
लम्बा कराला विनता तथैव बहुपुत्रिका।
रेवती शुष्कनामा च सा ते देवी प्रसीदतु इति॥

अउ6.75
भवति चात्र।
अनुबन्धान्यथाकृच्छ्रं ग्रहापायेप्युपद्रवान्।
बालामयनिषेधोक्तभेषजैः समुपाचरेत्॥
॥इति षष्ठोऽध्यायः॥
द्वितीयं कौमारतन्त्रं सम्पूर्णम्।

अथ सप्तमोऽध्यायः।

अउ7.1
अथातो भूतविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ7.2
अष्टादश भूताधिपतयः।
तद्यथा।
सुरासुरगन्धर्वोरगयक्षब्रह्मराक्षसराक्षसपिशाचप्रेतकूष्माण्डकाखोर्दमौकिरणवेतालपितरः ऋषिगुरुवृद्धसिद्धाश्च।
ते पुनः पृथक् कोटिपरिवाराः।
तेषामपि चापरिसङ्ख्येयः परिवार इत्यनन्तो भूतलोकः॥

अउ7.3
सर्वोऽपि च प्रायेणाहारकामा निशार्धविचारिणो भयानका मांसासृग्वसाशिनः॥

अउ7.4
अपि च।
सुरासुरादिसंवाससंसर्गात्तच्छीलाचारकर्मतया च तत्संज्ञां लभन्ते॥

अउ7.5
तेषां पुनरनुप्रवेशे कारणं सद्यः पूर्वकृतो वा विशेषेण प्रज्ञापराधः॥

अउ7.6
तेन हि कामक्रोधलोभमोहादिजनितेन प्रलुप्तधमभिन्नव्रताचारशौचो मलीमसः पूज्यानतिक्रामन्नात्मानमुपहन्ति॥

अउ7.7
ततस्तमात्महनमवतारगवेषिणो देवादिग्रहा अप्यनुघ्नन्ति।
तद्वदुन्मादापस्मारोपप्लुतचित्तं तथा ज्वराद्यामयोपहतमपि।
विशेषतश्च व्रणिनः पूयासृक्स्नेहगन्धेन॥

अउ7.8
एवंविधांस्तु पुरुषानेष्वाघातकालेष्वभिगच्छन्ति॥

अउ7.9
तद्यथा।
पापस्य कर्मणः समारम्भे।
पूर्वकृतस्य वा परिणामकाले।
एकस्य वा शून्यगृहनिवासे।
चतुष्पथाधिष्ठाने वा।
सन्ध्यावेलायामप्रयतभावे वा पक्षसन्धिषु वा मिथुनीभावे।
रजस्वलाभिगमने वा।
विगुणे वाध्यापनहोमबलिमङ्गलप्रयोगे।
नियमब्रह्मचर्यव्रतभङ्गे वा।
महाहवे वा।
देशपुरकुलविनाशे वा।
महाग्रहोपगमने वा।
स्त्रिया वा प्रजननकाले।
विविधभूताशुचिसंस्पर्शे वा।
वमनविरेचनरुधिरस्रावे वा।
अशुचेरप्रयतस्य वा चैत्यदेवायतनाभिगमने वा।
मांसमधुगुडतिलमद्योच्छिष्टे वा।
दिग्वाससि वा।
निशि नगरचतुष्पथोपवनश्मशानाभिगमने वा।
द्विजगुरुसुरयतिपूज्यव्यतिक्रमे वा॥

अउ7.10
तत्रावलोकयन्तो जनयन्ति मनोविकारं सुरासुरग्रहाः।
स्पृशन्तो गन्धर्वाः।
समाविशन्तो भुजगाः।
यक्षाश्चात्मगन्धमाघ्रापयन्तः।
राक्षसा वाहयन्तोधिरुह्य।
तथैव पिशाचाद्याः।
दर्शयन्तः पितरोभिशपन्त ऋषिगुरुवृद्धसिद्धाः॥

अउ7.11
तत्र शीलवन्तं चोक्षाचारं शुक्लाम्बरधरं तपःस्वाध्यायपरं प्रायः शुक्लप्रतिपदित्रयोदश्यां चतुर्दश्यां पौर्णमास्यां वा देवा गृह्णन्ति।
क्रोधनं कदर्यमात्मसम्भाविनं कुलरूपगर्वितं कृष्णद्वादश्यां कृष्णत्रयोदश्यां सन्ध्ययोश्चासुराः।
प्रियनृत्तगीतवादित्रगन्धमाल्याम्बरं परदाररतं चोक्षाचारं प्रायश्चतुर्थ्यामष्टभ्यां द्वादश्यां चतुर्दश्यां च गन्धर्वाः।
स्वप्नशीलं चपलमनिमित्रक्रोधनमर्थसिद्धं ब्राह्मणं प्रायः पञ्चभ्यां सन्ध्ययोर्मध्याह्ने च नागाः।
सत्वबलरूपगन्धर्वधनशौर्ययुक्तं माल्यानुलेपनहास्यप्रियमतिव्याकरणं प्रायः शुक्लसप्तम्यामेकादश्यां च यक्षाः॥

अउ7.12
स्वाध्यायतपोव्रतचर्यादेवयतिगुरुपूजारतं भ्रष्टशौचं वा ब्राह्मणमब्राह्मणं वा ब्रह्मवादिनं शूरं मानिनं देवागारसलिलक्रीडनप्रियं च स्खलितब्रह्मचर्यं प्रायः शुक्लपञ्चम्यामष्टम्यां पूर्णचन्द्रदर्शने सन्ध्यासु च।
ब्रह्मराक्षसाः॥

अउ7.13
हीनसत्वं पिशुनं स्तेनं लुब्धं शठं प्रायो द्वितीयातृतीयाष्टमीषु राक्षसपिशाचादयः।
कलिपानप्रियमसूयावन्तं परुषभाषिणं बह्वाशिनं च कृष्णनवमीद्वादश्योर्निशि च राक्षसाः॥

अउ7.14
आत्मश्लाघिनं कूटसाक्ष्यप्रदं परोपतापिनं च चतुर्दश्यां पिशाचादयः॥

अउ7.15
मातापितृगुरुवृद्धसिद्धाचार्योपसेविनं प्रायो दशम्याममावास्यां च पितरः।
तद्विधमेव च प्रायः षष्ठ्यां नवम्यां च गुरुवृद्धसिद्धाः।
तथैव च स्नानशुचिविविक्तसेविनं धर्मशास्त्रश्रुतिकाव्यकुशलमृषयः॥

अउ7.16
तेषां तु ग्रहीष्यतां पूर्वरूपाणि भवन्ति।
तद्यथा।
देवगोब्राह्मणतपस्विनां हिंसारुचित्वं नृशसाभिप्रायता कोपनत्वमरतिरोजोवर्णच्छायाबलवपुषां चोपतप्तिः स्वप्ने देवादिभिर्भत्सनं प्रवर्तनं च॥

अउ7.17
तत्र सौम्यदृष्टिं गम्भीरमप्रधृष्यमकोपनं शुचिमनिद्रं भोजनानभिलाषिणमल्पस्वेदमूत्रपुरीषवाचं संस्कृतवादिनं देवद्विजगुरुभक्तं शुक्लमाल्याम्बरसरित्पुलिनशैलोच्चभवनदधिक्षीरसुरभिप्रियं चिरादक्षिणी निमीलयन्तं वरप्रदातारं शुभगन्धं वर्चस्विनं फुल्लपद्मोपममुखं देवग्रहेण गृहीतं विद्यात्॥

अउ7.18
तत्रापि गोवृषमिव नदन्तं दीप्तमुखनयनमादीप्तेन स्वरेण सर्वमाभाषमाणमीश्वरेण।
मेधस्तनितविद्युद्वृष्टीर्वाचा विसृजन्तमिन्द्रेण।
धनानि वाचा प्रयच्छन्तमाच्छिन्दन्तं च धनदेन।
सुरासवसमगन्धं काष्ठतृणरज्ज्वादि सर्वं पाशमभिमन्यमानं वरुणेन॥

अउ7.19
जिह्मदृष्टिं दुष्टात्मानं क्रोधनमतृप्तं सस्वेदगात्रं देवब्राह्मणगुरुद्वेषिणं निर्भयमभिमानिनं शूरं व्यवसायिनं रुद्रोऽहमिन्द्रोहमुपेन्द्रोऽहं स्कन्दोऽहं विशाखोऽहमित्यादि भाषमाणं विकृतवाचमसकृद्धसन्तं सुरामिषरुचिं दन्तैर्नखैश्च परान् हिंसन्तमसुरेण॥

अउ7.20
स्वाचारं हृष्टात्मानं शुभगन्धमल्पव्यवहारं नृत्यन्तं गायन्तं मुखवाद्यानि कुर्वन्तं प्रियोद्यानपुलिनरक्तवस्त्रस्नानमाल्यानुलेपनधूपान्नपानहासलीलाशृङ्गारकथागान्धर्वं गन्धर्वेण।
तत्रापि शिरो धुनानं कलहं कुर्वन्तं संरम्भेण जागरूकं पठन्तं हसन्तं हसनेन॥

अउ7.21
क्रोधनमनिशं विश्वसन्तं भ्रमन्तमातपत्रात् त्रस्यन्तं रक्ताक्षं स्तब्धदृष्टिं जिह्वां लोलयन्तं सृक्विण्यौ लिहानमधोमुखशायिनं चलं वक्रगामिनं बिलमवलोक्य सर्पवदूर्ध्वं प्रसरन्तं जलौघघनदुन्दुभिस्वनैर्हृष्यन्तं क्षीरघृतगुडमधुस्नानमाल्यप्रियं गात्राणि कम्पयन्तं दन्तैः खादन्तं जलेऽवतीर्णमुत्तरणमनिच्छन्तमुरगेण॥

अउ7.22
असकृत् स्वप्नरोदनहासनृत्यगीतपाठकथान्नपानस्नानमाल्यधूपगन्धरक्तवस्त्ररतिं रक्तत्रस्तविप्लुताक्षं द्रुतं सगर्वं मत्तमिव गच्छन्तं वस्त्रान्तमुत्कर्षयन्तं चलिताग्रहस्तं बहुभाषिणं स्त्रीलोलुपं मद्यामिषप्रियं सन्नह्य शस्त्रं मृगयमाणमतिबलमव्यथं हृष्टं तुष्टमल्परोषं किं कस्मै ददामीति वादिनं शुभगन्धं वर्चस्विनं द्विजातिवैद्यपरिभाविनं रहस्यभाषिणं यक्षेण॥

अउ7.23
तत्रापि हृषितरोमाणमूर्ध्वेक्षणं प्रहृष्टनयनं चण्डं परुषं महानिनादं मणिवरेण।
रहोहसितनृत्यगीतान्याचरन्तमाकीर्णे मौनमासेवमानं विकटेन॥

अउ7.24
हासनृत्तप्रियमाक्रोशिनं प्रधाविनं देवद्विजभिषग्द्वेषिणं मन्त्रवेदशास्त्राभिधायिनं काष्ठशस्त्रादिभिश्चात्मानमाघ्नन्तं छिद्रप्रहारिणं वैद्यरन्ध्रान्वेषिणं भोःशब्दवादिनं परुषं रौद्रचेष्टं शीघ्रगामिनं ब्रह्मराक्षसेन।
तत्रापि विकृतस्वरं भाषयन्तमुत्रासयन्तं ब्रह्मवादिनं संस्कृतभाषिणं बहुशस्तोयं याचन्तं यज्ञसेनेन॥

अउ7.25
सक्रोधदृष्टिं भ्रुकुटिमुद्वहन्तं भैरवास्यं त्वरितमभिधावन्तं रुवन्तं ससंभ्रमं प्रहरन्तं नष्टनिद्रं निशाविचारिणमन्नद्वेषिणमनाहारमप्यतिबलिनमन्नकाले हसन्तं निर्लज्जं शूरं रोषणमप्रियवादिनमशुचिं स्रीमद्यमांसरक्तमाल्यप्रियं रक्तमामिषं वा दृष्ट्वोष्ठौ परिलिहन्तं दीनं शङ्कितं धावन्तमकस्माद्रुदन्तं हसन्तं गायन्तं नृत्यन्तं निरर्थकं परिभाषमाणं राक्षसेन।
तत्रापि परुषच्छविं भूमिं ताडयन्तमकस्माद्रुदन्तं विशाखेन।
भिन्नगद्गदकण्ठमङ्गानि भञ्जयन्तं जिह्वां परिलिहानमक्षमालया जपमानं शौचमभीक्ष्णं कुर्वाणं सङ्गमेन।
मेघविद्युदुदयायासते क्रुध्यन्तं जलवृष्टिं समन्तान्मन्यमानं शकटनिष्पीडिनं विद्युन्मालिना।
आममांसपललमूलकापूपपरमान्नयाचिनं रूक्षच्छविं विरूपाक्षेण॥

अउ7.26
अस्वस्थचित्तं नैकत्र तिष्ठन्तं परिधाविनं दयितनृत्यगीतहासोच्छिष्टमद्यमांसशून्यनिवासरतिं पुरस्तादभिघ्नन्तं निर्भत्सनाद्दीनशङ्कितवदनं नखैरात्मवपुषि लिखन्तं नष्टस्मृतिं बद्धाबद्धभाषिणमकस्माद्रुदन्तं दुःखान्यावेदयमानमुध्वस्तरूक्षदेहस्वरं दुर्गन्धमशुचिं नग्नं मलिनं रथ्याचैलतृणाभरणं सङ्करकूटकाष्ठाश्वारोहिणं लोलं बह्वाशिनं पिशाचेन।
तत्रापि भोजनं दृष्ट्वा हसन्तं विस्वरं क्रोशन्तं नित्यभीतं कश्मलेन।
सर्वगात्राणि स्पन्दयन्तं मुहुर्मुहुर्धावन्तं भीषयमाणं कुशेन।
वैद्यं दृष्ट्वा कुप्यन्तं भ्रमद्भोजिनं बह्वाशिनं भस्मगुण्ठनशयनं स्त्रियो मार्गे रुन्धानं मूत्रपुरीषविमर्दिनं निस्तेजसा।
प्रेताकृतिचेष्टागन्धं तृणच्छेदिनं भीतमाहारद्वेषिणं प्रेतेन॥

अउ7.27
बहुप्रलापमुग्रवाक्यं विलम्बितगतिं कृष्णवदनं शूनप्रलम्बवृषणं कूष्माण्डेन॥

अउ7.28
नग्नं धावन्तमकस्मादश्मकाष्ठादि गृहीत्वा भ्रमन्तं तृणचीरमाल्यनिवसनमुत्रस्तदृष्टिं परुषाभिधायिनं श्मशानशून्यैकवृक्षरथ्यानिषेविणं तिलान्नमद्यामिषसक्तदृष्टिं काखोर्देन॥

अउ7.29
उग्रवादिनं रक्तत्रस्तनेत्रमन्नाभिलाषिणमुदकं प्रार्थयमानं मौकिरणेन॥

अउ7.30
सत्यवादिनं परिवेपिनं धूपगन्धमाल्यरतिमतिनिद्रालुं वेतालेन॥

अउ7.31
अप्रसन्नदृष्टिं चलन्नेत्रपक्ष्माणं शङ्कितेक्षणं दीनवदनं संशुष्कतालुं निद्रालुं प्रतिहतवाचमपसव्यवस्त्रमल्पाग्निमरोचकिनं तिलगुडपायसमांसरुचिं च पितृग्रहेण॥

अउ7.32
ऋषिगुरुवृद्धसिद्धानामाभिशापानुध्यानानुरूपविहारव्याहाराहारं तद्ग्रहेण गृहीतं विद्यादिति।
भवति चात्र॥

अउ7.33
लक्षयेत् ज्ञानविज्ञानवाक्चेष्टाबलपौरुषम्।
पुरुषेऽपौरुषं यत्र तत्र भूतग्रहं वदेत्॥

अउ7.34
कुमारवृन्दानुगतं नग्नमुद्धतमूर्धजम्।
अस्वस्थमनसं दैर्घ्यकालिकं सग्रहं त्यजेत्॥
॥इति सप्तमोऽध्यायः॥

अथ अष्टमोऽध्यायः।

अउ8.1
अथातो भूतप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ8.2
भूतं जयेदहिंसेच्छुं जपहोमबलिव्रतैः।
तपःशीलसमाधानज्ञानदानदयादिभिः॥

अउ8.3
हिङ्गुव्योषालनैपालीलशुनार्कजटाजटाः।
अजलोमीसगोलोमी भूतकेशी वचा लता॥

अउ8.4
कुक्कुटीसर्पगन्धाख्यातिलाः काणविकाणिके।
वज्रप्रोक्ता वयस्था च शृङ्गी मोहनवल्यपि॥

अउ8.5
स्रोतोजाञ्जनरक्षोघ्नं रक्षोघ्नं चान्यदौषधम्।
खराश्वश्वाविडुष्ट्रर्क्षगोधानकुलशल्यकात्॥

अउ8.6
द्वीपिमार्जारगोसिंहव्याघ्रसामुद्रसत्वतः।
चर्मपित्तद्विजनखा वर्गेऽस्मिन् साधयेत् घृतम्॥

अउ8.7
पुराणमथवा तैलं नवं तत्पाननस्ययोः।
अभ्यङ्गे च प्रयोक्तव्यमेषां चूर्णं च धूपने॥

अउ8.8
एभिश्च गुलिकां युञ्ज्यादञ्जने सावपीडने।
प्रलेपे कल्कमेतेषां क्वाथं च परिषेचने।
प्रयोगोऽयं ग्रहोन्मादान् सापस्मारान् शमं नयेत्॥

अउ8.9
गजाह्वापिप्पलीमूलव्योषामलकसर्षपान्।
गोधानकुलमार्जारशशपित्तप्रपेषितान्।
नावनाभ्यङ्गसेकेषु विदधीत ग्रहापहान्॥

अउ8.10
अश्वश्वाश्वतरोलूककङ्कगृध्नशृगालजा।
विट्खरोष्ट्रवराहाच्च तया तैलं विपाचितम्।
पिष्टया बस्तमूत्रेण नावनादिषु पूजितम्॥

अउ8.11
शिरीषपुष्पं लशुनं शुण्ठीं सिद्धार्थकं वचाम्।
मञ्जिष्ठां द्वे निशे कृष्णां बस्तमूत्रेण पेषयेत्।
छायाशुष्का कृता वर्तिः मत्स्यपित्तद्रुताञ्जनम्॥

अउ8.12
नक्तमालफलं व्योषं बिल्वस्योनाकयोर्जटा।
हरिद्रे च कृता वर्तिः पूर्ववन्नयनाञ्जनम्।
वयस्था हिङ्गु कटुका षड्ग्रन्था सैन्धवं तथा॥

अउ8.13
सिद्धार्थकवचाहिङ्गुप्रियङ्गुरजनीद्वयम्।
मञ्जिष्ठाश्वेतकटभीवराश्वेताद्रिकर्णिकाः॥

अउ8.14
निम्बस्य पत्रं बजिं तु नक्तमालशिरीषयोः।
सुराह्वं त्र्यूषणं सर्पिर्गोमूत्रे तैश्चतुर्गुणे॥

अउ8.15
सिद्धं सिद्धार्थकं नाम पाने नस्ये च योजितम्।
ग्रहान् सर्वान् निहन्त्याशु विशेषादासुरान् ग्रहान्॥

अउ8.16
कृत्यालक्ष्मीविषोन्मादज्वरापस्मारपाप्मजित्।
एभिरेवौषधैर्बस्तवारिणा कल्पितोऽगदः॥

अउ8.17
पाननस्याञ्जनालेपस्नानोद्घर्षणयोजितः।
गुणैः पूर्ववदुद्दिष्टो राजद्वारे च सिद्धिकृत्॥

अउ8.18
सिद्धार्थकव्योषवचाश्वगन्धा निशाद्वयं हिङ्गुपलाण्डुकन्दम्।
बीजं करञ्जात् कुसुमं शिरीषात् फलं च वल्कं च कपित्थवृक्षात्॥

अउ8.19
समाणिमन्थं सनतं सकुष्ठं स्योनाकमूलं किणिही सिता च।
बस्तस्य मूत्रेण सुभावितं तत् पित्तेन गव्येन गुडान् विदध्यात्॥

अउ8.20
दुष्टग्रहोन्मादतमोनिशान्धानुद्बन्धकान् वारिनिमग्रदेहान्।
दिग्धाहतान् दर्पितसर्पदष्टां स्तेसाधयन्त्यञ्जननस्यलेपैः॥

अउ8.21
कार्पासास्थिमयूरपत्रबृहतीनिर्माल्यपिण्डीतक।
त्वग्वांशीबृषदंशविट् तुषवचाकेशाहिनिर्मोचनैः।
नागेन्द्रद्विजशृङ्गहिङ्गुमरिचैस्तुल्यैः कृतं धूपनं।
स्कन्दोन्मादपिशाचराक्षससुरावेशग्रहघ्नं परम्॥

अउ8.22
त्रिकटुकदलकुंकुमग्रन्घिकक्षारसिंही निशादारुसिद्धार्थयुग्माम्बुशक्राह्वयैः।
सितलशुनफलत्रयोशीरतिक्तावचा तुत्थयष्टीबलालोहितैलाशिलापद्मकैः॥

अउ8.23
विषातार्क्ष्यशैलैः सचव्यामयैः कल्कितैः।
घृतमनवमशेषमूत्रांशासिद्धं मतं भूतरावाह्वयं पानतस्तद्ग्रहघ्नं परम्॥

अउ8.24
नतमधुककरञ्जलाक्षापटोलीसमङ्गावचा।
पाटलीहिंगुसिद्धार्थसिंहीनिशायुग्लतारोहिणैः॥

अउ8.25
बदरकटुफलत्रिकाकाण्डदारुक्रिमिघ्नाजगन्धामरा।
ङ्कोलकोशातकीशिग्रुनिम्बाम्बुदेन्द्राह्वयैः॥

अउ8.26
गदशुकत्रुपुष्पबीजोग्रयष्ट्यद्रिकर्णीनिकुम्भाग्नि।
बिल्वैःसभैःकल्कितैर्मूत्रवर्गेण सिद्धं घृतम्॥

अउ8.27
विधिविनिर्हितमाशु सर्वैःक्रमैर्योजितं हन्तिसर्वग्रहोन्मादकुष्ठज्वरांस्तन्महाभूतरावं स्मृतम्॥

अउ8.28
ग्रहा गृह्णन्ति ये येषु तेषां तेषु विशेषतः।
दिनेषु बलिहोमादीन् प्रयुञ्जीत चिकित्सकः॥

अउ8.29
स्नानवस्त्रवसामांसमद्यक्षीरगुडादि च।
रोचते यद्यदा येभ्यस्तत्तेषामाहरेत्तदा॥

अउ8.30
रत्नानि गन्धमाल्यानि बीजानि मधुसर्पिषी।
भक्ष्याश्च सर्वे सर्वेषां सामान्यो विधिरित्ययम्॥

अउ8.31
सुरषिर्गुरुवृद्धेभ्यः सिद्धेभ्यश्च सुरालये।
दिश्युत्तरस्यां तत्रापि देवायोपहरेत् बलिन्॥

अउ8.32
पश्चिमायां यथाकालं दैत्यभूताय चत्वरे।
गन्धर्वाय गवां मार्गे सवस्त्राभरणं बलिम्॥

अउ8.33
पितृनागग्रहे नद्यां नागेभ्यः पूर्वदक्षिणे।
यक्षाय यक्षायतने सरितोर्वा समागमे॥

अउ8.34
चतुष्पथे राक्षसयोर्भीमेषु गहनेषु वा।
रक्षसां दक्षिणस्यां तु पूर्वस्यां ब्रह्मरक्षसाम्॥
शून्यालये पिशाचाय पश्चिमां दिशमास्थिते॥

अउ8.35
शुचिशुक्लानि माल्यानि गन्धाः क्षैरेयमोदनम्।
दधिच्छत्रं च धवलं देवानां बलिरिष्यते॥

अउ8.36
हिङ्गुसर्षपषड्ग्रन्थाव्योषैरर्धपलोन्मितैः।
चतुर्गुणे गवां मूत्रे घृतप्रस्थं विपाचयेत्।
तत्पाननावनाभ्यङ्गैर्देवग्रहविमोक्षणम्॥

अउ8.37
नस्याञ्जनं वचाहिङ्गुलशुनं बस्तवारिणा॥

अउ8.38
दैत्ये बलिर्बहुफलः सोशीरकमलोत्पलः॥

अउ8.39
नागानांसुमनोलाजगुडापूपगुडौदनैः।
परमान्नमधुक्षीरकृष्णमृन्नागकेसरैः।
वचापद्मपुरोशीररक्तोत्पलदलैर्बलिः॥

अउ8.40
श्वेतपत्रं च लोध्रं च तगरं नागसर्षपाः।
शीतेन वारिणा पिष्टं नावनाञ्जनयोर्हितम्॥

अउ8.41
यक्षाणां क्षीरदध्याज्यमिश्रकौदनगुग्गुलु।
देवदारूत्पलं पद्ममुशीरं वस्त्रकाञ्चनम्॥

अउ8.42
हिरण्यं च बलिर्योज्यो मूत्राज्यक्षीरमेकतः।
सिद्धं समोन्मितं पाननावनाभ्यञ्जने हितम्॥

अउ8.43
हरीतकी हरिद्रे द्वे लशुनो मरिचं वचा।
निम्बपत्रं च बस्ताम्बुकल्कितं नावनाञ्जनम्॥

अउ8.44
ब्रह्मरक्षोबलिः सिद्धं यवानां पूर्णमाढकम्।
तोयस्य कुम्भः पललं छत्रं वस्त्रं विलेपनम्॥

अउ8.45
गायत्रीविंशतिपलक्वाथेऽर्धपलिकैः पचेत्।
त्र्यूषणत्रिफलाहिङ्गुषड्ग्रन्थामिसिसर्षपैः॥

अउ8.46
सनिम्बपत्रलशुनैः कुडवान् सप्त सर्पिषः।
गोमूत्रे त्रिगुणे पाननस्याभ्यङ्गेषु तद्धितम्॥

अउ8.47
रक्षसां पललं शुक्लं कुसुमं मिश्रकौदनम्।
बलिः पक्वाममांसानि निष्पावा रुधिरोक्षिताः॥

अउ8.48
नक्तमालशिरीषत्वङ्मूलपुष्पफलानि च।
तद्वच्च कृष्णपाटल्या बिल्वमूलं कटुत्रिकम्॥

अउ8.49
हिङ्ग्विन्द्रयवसिद्धार्थलशुनामलकीफलम्।
नावनाञ्जनयोर्योज्यो बस्तमूत्रद्रुतोऽगदः॥

अउ8.50
एभिरेव घृतं सिद्धं गवां मूत्रे चतुर्गुणे।
रक्षोग्रहान् वारयते पानाभ्यञ्जननावनैः॥

अउ8.51
पिशाचानां बलिः सीधुः पिण्याकः पललं दधि।
मूलकं लवणं सर्पिः सभूतौदनयावकम्॥

अउ8.52
हरिद्राद्वयमञ्जिष्ठामिसिसैन्धवनागरम्।
हिङ्गुप्रियङ्गुत्रिकटुरसोनत्रिफलावचाः॥

अउ8.53
पाटलीश्वेतकटभीशिरीषकुसुमैर्घृतम्।
गोमूत्रपादिकं सिद्धं पानाभ्यञ्जनयोर्हितम्॥

अउ8.54
बस्ताम्बुपिष्टैस्तैरेव योज्यमञ्जननावनम्॥

अउ8.55
देवर्षिपितृगन्धर्वे तीक्ष्णं नस्यादि वर्जयेत्।
सर्पिष्पानादि मृद्वस्मिन् भैषज्यमवचारयेत्॥

अउ8.56
ऋते पिशाचात् सर्वेषु प्रतिकूलं च नाचरेत्।
सवैद्यमातुरं घ्नन्ति क्रुद्धास्ते हि महौजसः॥

अउ8.57
ईश्वरं द्वादशभुजं नाथमार्यावलोकितम्।
सर्वव्याधिचिकित्सां च जपन्सर्वग्रहान्जयेत्।
तथोन्मादानपस्मारानन्यं वा चित्तविप्लवम्॥

अउ8.58
महाविद्यां च मायूरीं शुचिस्तं श्रावयेत् सदा॥

अउ8.59
भूतेशं पूजयेत् स्थाणुं प्रमथाख्यांश्च तद्गणान्।
जपन् सिद्धांश्च तन्मन्त्रान् ग्रहान् सर्वानपोहति॥

अउ8.60
यच्चानन्तरयोः किञ्चिद्वक्ष्यतेऽध्याययोर्हितम्।
यच्चोक्तमिह तत् सर्वं प्रयुञ्जीत परस्परम्॥
॥इति अष्टमोऽध्यायः॥

अथ नवमोऽध्यायः।

अउ9.1
अथात उन्मादप्रतिषेधं नामाध्यायं व्याख्यास्यमः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ9.2
षडुन्मादा भवन्ति वातपित्तकफसन्निपाताधिविषनिमित्ताः।
तत्रोन्मादो नाम य उन्मार्गगैः शारीरमानसैर्दोषैर्मनसो मदः॥

अउ9.3
तेषां पुनरुन्मार्गगत्वे हेतुः शमलं विकृतोपहितमहितमनुचितमन्नपानविधिनिरपेक्षमाहारजातमत्युपक्षीणदेहानां व्यवायव्याधिवेगसमुद्गमे विषमशरीरचेष्टोपसेवा देवद्विजगुरूल्लङ्घनं वा रागद्वेषजनिताभिराधिभिर्मनोविघातो विषोपविषगरोपयोगो वा॥

अउ9.4
एभिर्हीनसत्वस्य मनस्युपहते बुद्धौ प्रचलितायामत्युदीर्णत्वाद्दोषाः प्रकुपिता हृदयमुपसृत्य मनोवहानि स्रोतांस्यावृत्य जनयन्त्युन्मादम्॥

अउ9.5
तत्र शिरसः शून्यता चक्षुषोरस्वस्थत्वं स्वनः कर्णयोरुच्छ्वासाधिक्यमास्यसंस्रवणमन्नानभिलाषोऽरोचकोऽविपाको हृदयग्रहोऽस्थाने ध्यानायाससम्मोहोद्वेगाः सततं रोमहर्षो ज्वरोऽभीक्ष्णमुन्मत्तचित्तत्वमुदर्दित्वमर्दिताकृतिकरणं व्याधेः स्वप्ने च दर्शनमभीक्ष्णं भ्रान्तचित्तचलितानवस्थितानामप्रशस्तानां रूपाणां तिलपीडकवच्चक्राधिरोहणं वातकुण्डलिकाभिरुन्मथनं निमज्जनं कलुषाणामम्भसामावर्तेषु चक्षुषोश्चापसर्पणामिति दोषनिमित्तानामुन्मादानां पूर्वरूपाणि।
ततोऽनन्तरमुन्मादाभिनिर्वृत्तिरेव॥

अउ9.6
सामान्यलिङ्गं मनोबुद्धिस्मृत्यादिसम्प्रमोषः॥

अउ9.7
ततश्च देहो हतसारथिरिव रथोऽकर्णधार इव चाप्सु प्लवः सुखदुःखाचारधर्माधर्मप्रलुप्तोऽकस्माद् भ्रमति॥

अउ9.8
तत्रवातादस्थानस्मितहसितनृत्तगीतवादित्रवागङ्गविक्षेपवाग्भेदभ्रू विक्षेपरोदनक्रोशनास्फोटनानि पर्यटनमजस्रमास्यात् फेनागमो यानमयानैरलङ्करणमनलङ्कारिकैर्द्रव्यैर्लोभोऽभ्यवहार्येषु लब्धेषु चावमानस्तीव्रं मात्सर्यं कार्श्यं पारुष्यमुत्पिण्डितारुणाक्षता जीर्णेऽन्ने चातिबलवत्वम्॥

अउ9.9
पित्तात् क्रोधः सन्तर्जनमकस्मान्मुष्टिलोष्टकाष्ठशस्त्रैरभिद्रवणं नग्नता प्रच्छायशिशिराभिरातिरुदकाभिलाषः सन्तापः पीतावस्रंसनमनिमित्तमनलज्वलनोपशङ्काह्नि तारकादर्शनं ताम्रहरितहारिद्रसंरब्धाक्षत्वं च॥

अउ9.10
कफादल्पवाक्चेष्टाहारत्वमरोचको वमथुरुष्णसेवा लालासिङ्घणकस्रवणं रहः कामता स्त्रीप्रियत्वं निद्राबीभत्सत्वं शौचद्वेषः श्वयथुरास्ये शुक्लस्तिमितमलाविलाक्षता भुक्ते रात्रौ च बलवत्वमिति।
भवति चात्र॥

अउ9.11
सर्वायतनसंस्थानसन्निपाते तदात्मकम्।
उन्मादं दारुणं विद्यात्तं भिषक् परिवर्जयेत्॥

अउ9.12
धनकान्तादिनाशेन दुःसहेनाभिषङ्गवान्।
पाण्डुर्दीनो मुहुर्मुह्यन् हाहेति परिदेवते॥

अउ9.13
रोदित्यकस्मात् स्मयते तद्गुणान् बहुमन्यते।
शोकक्लिष्टमना ध्यायन् जागरूको विचेष्टते॥

अउ9.14
विषेण श्याववदनो नष्टच्छायोऽबलेन्द्रियः।
वेगान्तरेऽपि सम्भ्रान्तो रक्ताक्षस्तं विवर्जयेत्॥

अउ9.15
अथानिलज उन्मादे स्नेहपानं प्रयोजयेत्।
पूर्वमावृतमार्गे तु सस्नेहं मृदुशोधनम्॥

अउ9.16
कफपित्तोद्भवेऽप्यादौ वमनं सविरेचनम्।
स्निग्धास्विन्नस्य बस्तींश्च शिरसश्च विरेचनम्।
तथास्य शुद्धदेहस्य प्रसादं लभते मनः॥

अउ9.17
स्नेहकाले च वातोत्थे तैलं शरीषमिष्यते।
महाकल्याणकं पैत्ते पञ्चगव्यं कफोद्भवे॥

अउ9.18
इथमप्यनुवृत्तौ तु तीक्ष्णं नावनमञ्जनम्।
हर्षणाश्वासनोत्रासभयताडनतर्जनम्॥

अउ9.19
अभ्यङ्गोद्वर्तनालेपधूपान् पानं च सर्पिषः।
युञ्ज्यात्तांनि हि शुद्धस्य नयन्ति प्रकृतिं मनः॥

अउ9.20
हिङ्गुसौवर्चलव्योषैर्द्विपलांशैर्घृताढकम्।
सिद्धं समूत्रमुन्मादभूतापस्मारनुत् परम्॥

अउ9.21
द्वौ प्रस्थौ स्वरसात्ब्रह्म्या घृतप्रस्थं च साधितम्।
व्योषश्यामात्रिवृद्बिम्बीशङ्खपुष्पीनृपद्रुमैः॥

अउ9.22
ससप्तलाकृमिहरैः कल्कितैरक्षसम्मितैः।
पलवृध्या प्रयुञ्जीत परं मात्राचतुष्पलम्॥

अउ9.23
उन्मादकुष्ठापस्मारहरं वन्ध्यासुतप्रदम्।
वाक्स्वरस्मृतिमेधाकृद्धन्यं ब्राह्मीघृतं स्मृतम्॥

अउ9.24
वराविशालावढ्रैलादेवदार्वेलवालुकैः।
द्विसारिवाद्विरजनीद्विस्थिराफलिनीनतैः॥

अउ9.25
बृहतीकुष्ठमञ्जिष्ठानागकेसरदाडिमैः।
वेल्लतालीसपत्रैलामालतीमुकुलोत्पलैः॥

अउ9.26
सदन्तीपद्मकहिमैः कर्षांशैः सर्पिषः पचेत्।
प्रस्थं भूतग्रहोन्मादकासापस्मारसूदनम्॥

अउ9.27
पाण्डुकण्डूविषे शोषे मेहे मोहे ज्वरे गरे।
अरेतस्यल्परजसि दैवोपहतचेतसि॥

अउ9.28
अमेधसि स्खलद्वाचि स्मृतिकामेऽल्पपावके।
बल्यं मङ्गल्यमायुष्यं कान्तिसौभाग्यपुष्टिदम्।
कल्याणकामिदं सर्पिः श्रेष्ठं पुंसवनषे च॥

अउ9.29
एभ्यो द्विसारिवादीनि जले पक्त्वैकविंशतिम्।
जले तस्मिन् पचेत् सर्पिर्गृष्टिक्षीरचतुर्गुणम्॥

अउ9.30
वीराद्विमेदाकाकोलीकपिकच्छूविषाणिभिः।
सूप्यपर्णीयुतैरेतन्महाकल्याणकं परम्।
बृंहणं सन्निपातघ्नं पूर्वस्मादधिकं गुणैः॥

अउ9.31
जटिला पूतना केशी चारटी मर्कटी वचा।
त्रायमाणा जया वीरा चोरकः कटुरोहिणी॥

अउ9.32
कायस्था सूकरी छत्रा सातिच्छत्रा पलङ्कषा।
महापुरुषदन्ता च वयस्था नाकुलीद्वयम्॥

अउ9.33
कटम्भरा वृश्चिकाली शालिपर्णी च तैर्घृतम्।
सिद्धं चातुर्थिकोन्मादग्रहापस्मारनाशनम्॥

अउ9.34
महापैशाचकं नाम घृतमेतद्यथामृतम्।
बुद्धिमेधास्मृतिकरं बालानां चाङ्गवर्धनम्॥

अउ9.35
लशुनानां शतं त्रिंशदभयात्र्यूषणात् पलम्।
गव्यचर्ममषीप्रस्थो द्व्याढकं क्षीरमूत्रयोः॥

अउ9.36
पुराणसर्पिषःप्रस्थमेभिः सिद्धं प्रयोजयेत्।
हिङ्गुचूर्णपलं शीते दत्वा च मधुमानिकाम्॥

अउ9.37
तद्दोषगन्तुसम्भूतानुन्मादान् विषमज्वरान्।
अपस्मारांश्च हन्त्याशु पानाभ्यञ्जननावनैः॥

अउ9.38
केवलं सिद्धमेभिर्वा घृतमुत्तममात्रया।
पुराणं पाययित्वैनं श्वभ्रे रुन्ध्यात् गृहेऽथवा॥

अउ9.39
एतानौषधवर्गान्वा विधेयत्वमगच्छति।
अञ्जनोद्वर्तनालेपनावनादिषु योजयेत्॥

अउ9.40
अश्वगन्धाजगन्धोग्रगन्धालशुनसर्षपैः।
रास्नाकायस्थगोलोमीयुक्तैस्तैलं विपाचितम्॥

अउ9.41
गोमूत्रसदृशं पाननस्याभ्यङ्गानुवासैनैः।
सर्वोन्मादग्रहालक्ष्मीपाप्मापस्मारनाशनम्॥

अउ9.42
शिरीषो मधुकं हिङ्गु लशुनस्तगरं वचा।
कुष्ठं च बस्तमूत्रेण पिष्टं स्यान्नावनाञ्जनम्॥

अउ9.43
तद्वद्व्योषं हरिद्रे द्वे मञ्जिष्ठाहिङ्गुसर्षपाः।
शिरीषबीजं चोन्मादग्रहापस्मारनाशनम्॥

अउ9.44
ब्राह्मीमैन्द्रीं विडङ्गानि व्योषं हिङ्गुजटां मुरम्।
रास्नां विषघ्नां लशुनं विशल्यां सुरसं वचाम्॥

अउ9.45
ज्योतिष्मतीं नागविन्नामनन्तां सहरीतकीम्।
काम्लीं च हस्तिमूत्रेण पिष्ट्वा छायाविशोषिता।
वर्तिनस्याञ्जनालेपधूपैरुन्मादसूदनी॥

अउ9.46
पिष्ट्वा फलान्यपामार्गाद्धिङ्गुलं हिङ्गुपत्रिकाम्।
वर्तिर्गोक्रोष्टुपित्तेन मरिचार्धांशकाञ्जनम्।
उन्मादभूतापस्मारे नृषु गोषु च गोचरे॥

अउ9.47
अवपीडाश्च विविधाः सर्षपस्नेहसंयुताः।
कटुतैलेन चाभ्यङ्गो ध्मापयेच्चास्य तद्रजः॥

अउ9.48
सहिङ्गुतीक्ष्णधूमश्च सूत्रस्थानोदितो हितः।
शृगालशल्यकोलूकजतुकावृकबस्तजैः॥

अउ9.49
मूत्रपित्तशकृल्लोमनखचर्मभिराचरेत्।
धूपधूमाञ्जनाभ्यङ्गप्रदेहपरिषेचनम्॥

अउ9.50
धूपयेत् सततं चैनं श्वगोमत्स्यैः सुपूतिभिः।
वातश्लेष्मात्मके प्रायः पैत्तिके तु प्रशस्यते॥

अउ9.51
तिक्तकं जीवनीयं च सर्पिः स्नेहश्च मिश्रकः॥

अउ9.52
शीतानि चान्नपानानि मधुराणि लघूनि च।
विध्येत् सिरां यथोक्तां वा तृप्तं मेद्यामिषस्य वा।
निवाते शाययेदेवं मुच्यते मतिविभ्रमात्॥

अउ9.53
प्रक्षिप्यासलिले कूपे शोषयेद्वा बुभुक्षया।
आश्वासयेत् सुहृत्तं वा वाक्यैर्धर्मार्थसंहितैः॥

अउ9.54
ब्रूयादिष्टविनाशं वा दर्शयेदद्भुतानि वा।
बद्धं सर्षपतैलाक्तं न्यस्तं चोत्तानमातपे॥

अउ9.55
कपिकच्छ्वाथवा तप्तैर्लोहतैलजलैः स्पृशेत्।
कशाभिस्ताडयित्वा वा बध्वा श्वभ्रे विनिक्षिपेत्॥

अउ9.56
अथवा वीतशस्त्राश्मजने सन्तमसे गृहे।
सर्पेणोद्घृतदंष्ट्रेण दान्तैः सिंहैर्गजैश्च तम्।
त्रासयेच्छस्त्रहस्तैर्वा किरातारातितस्करैः॥

अउ9.57
अथवा राजपुरुषा बहिर्नीत्वा सुसंयतम्।
भीषयेयुर्वधेनैनं तर्जयन्तो नृपाज्ञया॥

अउ9.58
देहदुःखभयेभ्यो हि परं प्राणभयं मतम्।
तेन याति शमं तस्य सर्वतो विप्लुतं मनः।
सिद्धा क्रिया प्रयोज्येयं देशकालाद्यपेक्षया॥

अउ9.59
इष्टद्रव्यविनाशात्तु मनो यस्योपहन्यते।
तस्य तत्सदृशप्राप्तिसान्त्वाश्वासैः प्रसादयेत्॥

अउ9.60
कामशोकभयक्रोधहर्षेर्ष्यालोभसम्भवान्।
परस्परप्रतिद्वन्द्वैरेभिरेव शमं नयेत्॥

अउ9.61
भूतानुबन्धमीक्षेत प्रोक्तलिङ्गाधिकाकृतिम्।
यद्युन्मादे ततः कुर्यात् भूतनिर्दिष्टमौषधम्॥

अउ9.62
बलिं च दद्यात् पललं यावकं सक्तुपिण्डिकाम्।
स्निग्धं मधुरमाहारं तण्डुलान् रुधिरोक्षितान्॥

अउ9.63
पक्वामकानिमांसानि सुरां मैरेयमासवम्।
अतिमुक्तस्य पुष्पाणि जात्याः सहचरस्य च।
चतुष्पथे गवां तीर्थे नदीनां सङ्गमेषु च॥

अउ9.64
निवृत्तामिषमद्यो यो हिताशी प्रयतः शुचिः।
निजागन्तुभिरुन्मादैः सत्ववान् न स युज्यते॥

अउ9.65
प्रसादश्चेन्द्रियार्थानां बुध्यात्ममनसां तथा।
धातूनां प्रकृतिस्थत्वं विगतोन्मादलक्षणम्॥
॥इति नवमोऽध्यायः॥

अथ दशमोऽध्यायः।

अउ10.1
अथातोऽपस्मारप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ10.2
स्मृत्यपायो ह्यपस्मारः स धीसत्त्वाभिसम्प्लवात्।
जायतेऽभिहते चित्ते चिन्ताशोकभयादिभिः॥

अउ10.3
उन्मादवत् प्रकुपितैश्चित्तदेहगतैर्मलैः।
हते सत्त्वे हृदि व्याप्ते संज्ञावाहिषु खेषु च॥

अउ10.4
तमो विशन् मूढमतिर्बीभत्साः कुरुते क्रियाः।
दन्तान्खादन्वमन्फेनं हस्तौ पादौ च विक्षिपन्॥

अउ10.5
पश्यन्नसन्ति रूपाणि प्रस्खलन् पतति क्षितौ।
विजिह्माक्षिभ्रुवो दोषवेगेऽतीते विबुध्यते॥

अउ10.6
कालान्तरेण स पुनश्चैवमेव विचेष्टते।
अपस्मारश्चतुर्भेदो वाताद्यैर्निचयेन च॥

अउ10.7
रूपमुत्पत्स्यमानेऽस्मिन् हृत्कम्पः शून्यता भ्रमः।
तमसो दर्शनं ध्यानं भ्रूव्युदासोऽक्षिवैकृतम्॥

अउ10.8
अशब्दश्रवणं स्वेदो लालासिङ्घाणकस्रुतिः।
अविपाकोऽरुचिर्मूर्छा कुक्ष्याटोपो बलक्षयः॥

अउ10.9
निद्रानाशोऽङ्गमर्दस्तृट् स्वप्ने गानं सनर्तनम्।
पानं तैलस्य मद्यस्य तयोरेव च मेहनम्॥

अउ10.10
तत्र वातात् स्फुरत्सक्थिः प्रततं च मुहुर्मुहुः।
अपस्मरति संज्ञां च लभते विस्वरं रुदन्॥

अउ10.11
उत्पिण्डिताक्षः श्वसिति फेनं वमति कम्पते।
आविध्यति शिरो दन्तान् दशत्याध्मातकन्धरः॥

अउ10.12
परितो विक्षिपत्यङ्गं विषमं विनताङ्गुलिः। रूक्षश्यावारुणाक्षित्वङ्नखास्यः कृष्णमीक्षते।
चपलं परुषं रूपं विरूपं विकृताननम्॥

अउ10.13
अपस्मरति पित्तेन मुहुः संज्ञां च विन्दति।
पीतफेनाक्षिवक्त्रत्वगास्फालयति मेदिनीम्।
भैरवादीप्तरुषितरूपदर्शी तृषान्वितः॥

अउ10.14
कफाच्चिरेण ग्रहणं चिरेणैव विबोधनम्।
शुक्लाभरूपदर्शित्वं सर्वलिङ्गं तु वर्जयेत्॥

अउ10.15
अथावृतानां धीचित्तहृद्खानां प्राक्प्रबोधनम्।
तीक्ष्णैः कुर्यादपस्मारे कर्मभिर्वमनादिभिः॥

अउ10.16
वातिकं बस्तिभूयिष्ठैः पैत्तं प्रायो विरेचनैः।
श्लैष्मिकं वमनप्रायैरपस्मारमुपाचरेत्॥

अउ10.17
वमनं मदनं लम्बा विशालारिष्टकौटजम्।
रेको मूत्रत्रिवृच्छ्यामा द्रवन्ती सप्तला स्नुही॥

अउ10.18
दशमूलबलारास्नासरलामरदारुभिः।
यवकोलकुलत्थैश्च समूत्रक्षारसैन्धवैः।
आस्थापनं प्रयुञ्जीत हिङ्गुस्नेहसमन्वितैः॥

अउ10.19
एभिरन्यैश्च वातघ्नैः कटुतैलं प्रसाधितम्।
वातापस्मारशमनं नस्याभ्यङ्गानुवासनैः॥

अउ10.20
सर्वतः सुविशुद्धस्य सम्यगाश्वासितस्य च।
अपस्मारविमोक्षार्थं योगान् संशमनान् शृणु॥

अउ10.21
गोमयस्वरसक्षीरदधिमूत्रैः शृतं हविः।
अपस्मारज्वरोन्मादकामलान्तकरं पिबेत्॥

अउ10.22
द्विपञ्चमूलत्रिफलाद्विनिशाकुटजत्वचः।
सप्तपर्णमपामार्गं नीलिनीं कटुरोहिणीम्॥

अउ10.23
शम्याकपुष्करजटाफल्गुमूलदुरालभाः।
द्विपलाःसलिलद्रोणे पक्त्वा पादावशेषिते॥

अउ10.24
भार्ङ्गीपाठाढकीकुम्भनिकुम्भव्योषरोहिषैः।
मूर्वाभूतीकाभूनिम्बश्रेयसीसारिवाद्वयैः॥

अउ10.25
मदयन्त्यग्निनिचुलैरक्षांशैः सर्पिषः पचेत्।
प्रस्थं तद्वद्द्रवैः पूर्वैः पञ्चगव्यमिदं महत्॥

अउ10.26
ज्वरापस्मारजठरभगन्दरहरं परम्।
शोफार्शः कामलापाण्डुगुल्मकासग्रहापहम्॥

अउ10.27
शिरीषपुष्पपत्रत्वक्सारमूलतुलाद्वयम्।
वरणैरण्डशम्याकदशमूलाटरूषकम्।

अउ10.28
शतावरीबलारास्नासुषवीपारिभद्रकम्।
मुरुङ्गीं वञ्चुलं दन्तीं ककुभं सपुनर्नवम्॥

अउ10.29
रोहिषस्य जटां पुष्पं करघाटमयूरकम्।
शतार्धांशं पृथग्द्राक्षालाक्षामिसिवरायवान्॥

अउ10.30
सकोलान् सकुलत्थांश्च पृथगर्धाढकोन्मितान्।
द्विशतं पिशितात् गव्यात् छागाद्वा तत्पचेदपाम्॥

अउ10.31
द्रोणैर्द्वात्रिंशताष्टांशशेषेण च विपाचयेत्।
तैलद्रोणं दधिवहे श्लक्ष्णपिष्टैश्च पालिकैः॥

अउ10.32
पाठासमङ्गासुषवीद्विनिशाचन्दनद्वयैः।
एलाजलोत्पलबलाश्वदंष्ट्रासारिवाघनैः॥

अउ10.33
मञ्जिष्ठाकुष्ठमधुकलोध्ररास्नाकुटन्नटैः।
शठीशिरीषकुसुमनतनागामराह्वयैः॥

अउ10.34
वराङ्गजोङ्गपत्तङ्गविडङ्गैः सप्रियङ्गुभिः।
मुरुड्गीपत्रनलदसेव्यकुन्दनखद्वयैः॥

अउ10.35
तिलपर्ण्या च तत्पानबस्त्यभ्यञ्जननावनैः।
अपस्मारग्रहोन्मादान् सशोषविषमज्वरान्॥

अउ10.36
योनिशुक्रामयान् गुल्मं प्रमेहं पाण्डुतां मदम्।
वातशोणितवीसर्पपक्षाघातार्दितादिकान्॥

अउ10.37
सर्वान् मारुतजान्रोगान्विशेषाद्विषवातजान्।
निहन्ति कार्मणं कृत्यां मूलदंष्ट्राविषं गरम्।
रसायनानां प्रवरं मेध्यं वाजीकरं परम्॥

अउ10.38
ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीशृतं घृतम्।
पुराणं मेध्यमुन्मादालक्ष्म्यपस्मारपाप्मजित्॥

अउ10.39
तैलप्रस्थं घृतप्रस्थं जीवनीयैः पलोन्मितैः।
क्षीरद्रोणे पचेत् सिद्धमपस्मारविमोक्षणम्॥

अउ10.40
कंसे क्षीरेक्षुरसयोः काश्मर्येऽष्टगुणे रसे।
कार्षिकैर्जीवनीयैश्च सर्पिःप्रस्थं विपाचयेत्।
वातपित्तोद्भवं क्षिप्रमपस्मारं निहन्ति तत्॥

अउ10.41
तद्वत् काशाविदारीक्षुकुशक्वाथशृतं पयः॥

अउ10.42
मधुकद्विपले कल्के द्रोणे चामलकीरसात्।
सिद्धं सिद्धो घृतप्रस्थः पित्तापस्मारभेषजम्॥

अउ10.43
कूष्माण्डस्वरसे सर्पिरष्टादशगुणे शृतम्।
यष्टीकल्कमपस्मारहरं धीवाक्स्वरप्रदम्॥

अउ10.44
कपिलानां गवां पित्तं नावनं परमं हितम्।
श्वशृगालविडालानां सिंहादीनां च पूजितम्॥

अउ10.45
गोधानकुलनागानां पृषतर्क्षगवामपि।
पित्तेषु साधितं तैलं नस्येऽभ्यङ्गे च शस्यते॥

अउ10.46
त्रिफलाव्योषपीतद्रुयवक्षारफणिज्जकैः।
श्र्याह्वापामार्गकारञ्जबीजैस्तैलं प्रसाधितम्।
बस्तमूत्रे हितं नस्यं चूर्णं वाध्मापयेत् भिषक्॥

अउ10.47
वृश्चिकालीबलाकुष्ठभाङ्र्जीलवणपञ्चकम्।
कायस्थां शारदां मुद्गमुशीरं जलदं यवान्॥

अउ10.48
व्योषं च बस्तमूत्रेण पिष्ट्वा वर्तीं प्रकल्पयेत्।
अपस्मारगरोन्मादसर्पदष्टविषाशिते॥

अउ10.49
मुस्तावयस्थात्रिफलाकायस्थाहिङ्गुशाद्वलैः।
व्योषमाषयवैर्मूत्रैर्बस्तमेषर्षभोद्भवैः॥

अउ10.50
हन्ति वर्तिरपस्मारकिलासविषमज्वरान्।
पुष्योद्घृतं शुनः पित्तमपस्मारघ्नमञ्जनम्।
तदेव सर्पिषा युक्तं धूपनं परमं हितम्॥

अउ10.51
कटभीनिम्बकट्वङ्गमधुशिग्रुत्वचां रसे।
सिद्धं मूत्रसमं तैलमभ्यङ्गार्थं प्रशस्यते॥

अउ10.52
पलङ्कषावचापथ्यावृश्चिकाल्यर्कसर्षपैः।
जटिलापूतनाकेशीनाकुलीहिङ्गुचोरकैः॥

अउ10.53
लशुनातिरसाच्छत्राकुष्ठैर्विड्भिश्च पक्षिणाम्।
मांसाशिनां यथालाभं बस्तमूत्रे विपाचितम्।
तैलमभ्यञ्जनं कार्यं तैश्च धूपनलेपनम्॥

अउ10.54
नकुलोलूकमार्जारगृध्रकीटाहिकाकजैः।
तुण्डैः पक्षैः पुरीषैश्च धूपमस्य प्रयोजयेत्॥

अउ10.55
काकोलीशिग्रुलवणहिङ्गुशिवाटिकाः।
कैडर्यं चन्दनं कृष्णां काकनासां ससर्षपाम्॥

अउ10.56
शुनः स्कन्धाक्षिनखरान् पर्शुकांश्चेति पेषयेत्।
बस्तमूत्रेण पुष्यर्क्षे तैर्दिह्याद्धूपयेच्च तैः॥

अउ10.57
गोपुच्छलोमभिर्दग्धैरथवा बस्तरोमभिः।
खरास्थिभिर्हस्तिनखैस्तद्वद्वा मूत्रकल्कितैः।
उद्वर्तनं सदा कुर्याच्छृतैश्च परिषेचनम्॥

अउ10.58
आभिः क्रियाभिः सिद्धाभिर्हृदयं सम्प्रभुच्यते।
स्रोतांसि चास्य शुध्यन्ति स्मृतिं संज्ञां च विन्दति॥

अउ10.59
भूतानुबन्धेपस्मारे दोषलिङ्गाधिकाकृतौ।
युञ्ज्याद्यथास्वं भूतोक्तां क्रियां दैवव्यपाश्रयाम्॥

अउ10.60
शीलयेत्तैललशुनं पयसा वा शतावरीम्।
ब्राह्मीरसं कुष्ठरसं वचां वा मधुसंयुताम्॥

अउ10.61
समं क्रुद्धैरपस्मारो दोषैः शारीरमानसैः।
यज्जायते यतश्चैष महामर्मसमाश्रयः॥

अउ10.62
तस्माद्रसायनैरेनं दुश्चिकित्स्यमुपाचरेत्।
तदार्तं चाग्नितोयादेर्विषमात् पालयेत् सदा॥

अउ10.63
मुक्तं मनोविकारेण त्वमित्थं कृतवानिति।
न ब्रूयाद्विषयैरिष्टैः क्लिष्टं चेतोऽस्य बृंहयेत्॥

अउ10.64
ग्रहोपश्लिष्टदेहानां विभ्रान्तस्मृतिचेतसाम्।
महास्नेहं प्रशंसन्ति पानाभ्यञ्जनबस्तिषु॥

॥इति दशमोऽध्यायः॥

(तृतीयं भूततन्त्रं सम्पूर्णम्)