अष्टाङ्गसंग्रहः उत्तरस्थानम् अध्याय ३६-४०

विकिस्रोतः तः

अष्टाङ्गसंग्रहः

अथ षट्त्रिंशोऽध्यायः।

अउ36.1
अथातः क्षुद्ररोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ36.2
स्निग्धाः सवर्णा ग्रथिता नीरुजा मुद्गसन्निभाः।
पिटकाः कफवाताभ्यां बालानामजगल्लिका॥

अउ36.3
यवप्रख्या यवप्रख्या ताभ्यां मांसाश्रिता घना।
अवक्त्रा त्वलजी वृत्ताः स्तोकपूया घनोन्नताः।
ग्रन्थयः पञ्च वा षड्वा कच्छपी कच्छपोन्नताः॥

अउ36.4
कर्णस्योर्ध्वं समन्ताद्वा पिटका कठिनोग्ररुक्।
शालूकाभा पनसिका शोफस्त्वल्परुजः स्थिरः।
हनुसन्धिसमुद्भूतस्ताभ्यां पाषाणगर्दभः॥

अउ36.5
शाल्मलीकण्टकाकाराः पिटकाः सरुजो घनाः।
मेदोगर्भा मुखे शूनां ताभ्यां च मुखदूषिका॥

अउ36.6
ते पद्मकण्टका ज्ञेया यैः पद्ममिव कण्टकैः।
चीयते नीरुजैः श्वेतैः शरीरं कफवातजैः॥

अउ36.7
पित्तेन पिटका वृत्ता पक्वोदुम्बरसन्निभा।
महादाहज्वरकरी विवृता विवृतानना॥

अउ36.8
गात्रेष्वन्तश्च वक्त्रस्य दाहज्वररुजान्विताः।
मसूरमात्रास्तद्वर्णास्तत्संज्ञाः पिटका घनाः॥

अउ36.9
ततः कष्टतराः स्फोटा विस्फोटाख्या महारुजाः॥

अउ36.10
या पद्मकर्णिकाकारा पिटका पिटकाचिता।
सा विद्धा वातपित्ताभ्यां ताभ्यामेव च गर्दभी॥

अउ36.11
मण्डला विपुलोत्सन्ना सरागपिटकाचिता॥

अउ36.12
कक्ष्येति कक्षासन्नेषु प्रायो देशेषु सानिलात्।
पित्तात् भवन्ति पिटकाः सूक्ष्मा लाजोपमा घनाः।
तादृशी महतीत्वेका गन्धनामेति कीर्तिता॥

अउ36.13
घर्मस्वेदपरीतेङ्गे पिटकाः सरुजो घनाः।
राजिकावर्णसंस्थानप्रमाणा राजिकाह्वयाः॥

अउ36.14
दोषैः पित्तोल्बणैर्मन्दैर्विसर्पति विसर्पवत्।
शोफोऽपाकस्तनुस्ताम्रो ज्वरकृज्जालगर्दभः॥

अउ36.15
मलैः पित्तोल्बणैः स्फोटा ज्वरिणो मांसदारणाः।
कक्ष्याभागेषु जायन्ते येग्न्याभाः साग्निरोहिणी।
पञ्चाहात् सप्तरात्राद्वा पक्षाद्वा हन्ति जीवितम्॥

अउ35.16
त्रिलिङ्गा पिटका वृत्ता जत्रूर्ध्वमिरिवेल्लिका॥

अउ36.17
विदारीकन्दकठिना विदारी कक्षवङ्क्षणे॥

अउ36.18
मेदोनिलकफैर्ग्रन्थिः स्नायुमांससिराश्रयैः।
भिन्नो वसाज्यमध्वाभं स्रवेत्तत्रोल्वणोनिलः॥

अउ36.19
मांमं विशोष्य ग्रन्थितां शर्करामुपपादयेत्।
दुर्गन्धिं रुधिरं क्लिन्नं नानावर्णं ततो मलाः।
तां स्रावयन्ति निचितां विद्यात्तच्छर्करार्बुदम्॥

अउ36.20
पाणिपादतले सन्धौ जत्रूर्ध्वंवोपचीयते।
वल्मीकवच्छनैर्ग्रन्थिस्तद्वत्बह्वणुभिर्मुखैः।
रुग्दाहकण्डूक्लेदाढ्यैर्वल्मीकोसौ समस्तजः॥

अउ36.21
शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः।
ग्रन्थिःकीलवदुत्सन्नो जायते कदरं तु तत्॥

अउ36.22
वेगसन्धारणाद्वायुरपानोऽपानसंश्रयम्।
अणूकरोति बाह्यान्तर्मार्गमस्य ततः शकृत्।
कृच्छ्रान्निर्गच्छति व्याधिरयं रुद्धगुदो मतः॥

अउ36.23
कुर्यात् पित्तानिलं पाकं नखमांसे सरुग्ज्वरम्।
चिप्पमक्षतरोगं च विद्यादुपनखं च तम्॥

अउ36.24
कृष्णोभिघाताद्रूक्षश्च खरश्च कुनखो नखः।
दुष्टकर्दमसंस्पर्शात् कण्डूक्लेदान्वितान्तराः।
अङ्गुल्योऽलसमित्याहुः तिलामांस्तिलकालकान्॥

अउ36.25
कृष्णानवेदनांस्त्वक्स्थान् मषांस्तानेव चोन्नतान्।
मषेभ्यस्तून्नततरान् चर्मकीलान् सितासितान्।
तथाविधो जतुमणिः सरुजो लोहितस्तु सः॥

अउ36.26
कृष्णं सितं वा सहजं मण्डलं लाञ्छनं समम्॥

अउ36.27
शोकक्रोधादिकुपिताद्वातपित्तान्मुखे तनु।
श्यामलं मण्डलं व्यङ्गं वक्त्रादन्यत्र नीलिका॥

अउ36.28
परुषं परुषस्पर्शं व्यङ्गं श्यावं च मारुतात्।
पित्तात्ताम्रान्तमानीलं श्वेतान्तं कण्डुमत्कफात्।
रक्ताद्रक्तान्तमाताम्रं सेषं चिमिचिमायते॥

अउ36.29
वायुनोदीरितः श्लेष्मा त्वचं प्राप्य विशुष्यति।
ततस्त्वग्जायते पाण्डुः क्रमेण च विचेतना।
अल्पकण्डूरविक्लेदा सा प्रसुप्तिः प्रसुप्तितः॥

अउ36.30
असम्यग्वमनोदीर्णपित्तश्लेष्मान्ननिग्रहैः।
मण्डलान्यतिकण्डूनि रागवन्ति बहूनि च।
उत्कोठः सोनुबन्धस्तु कोठ इत्यभिधीयते॥

अउ36.31
प्रोक्ताः षड्त्रिंशदित्येते क्षुद्ररोगा विभागशः।
यान् विज्ञाय न सम्मुह्येच्चिकित्सायां चिकित्सकः॥
इति षट्त्रिंशोऽध्यायः॥

अथ सप्तत्रिंशोऽध्यायः।

अउ37.1
अथातः क्षुद्ररोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ37.2
अजगल्लिकामपक्वां जलौकोभिर्ग्राहयेत्।
यवक्षारशुक्तिसौराष्ट्रीकल्कैश्च लेपयेत्॥

अउ37.3
यवप्रख्यादीन् पाषाणगर्दभान्तान् स्वेदयित्वा सुरदारुकुष्ठमनश्शिलालैर्लेपयेत्॥

अउ37.4
पक्वांस्तु सहाजगल्लिकया व्रणवदुपाचरेत्।

अउ37.5
मुखदूषिकां लोध्रतुवरिकाभ्यां वा प्रदिह्यात्।
वटपत्रनारिकेलशुक्तिभ्यां वा सैन्धववचाक्षिभेषजसिद्धार्थकैर्वा।
एवमशान्तौ छर्दयेत्।
ललाटे च सिरां विध्येत्॥

अउ37.6
पद्मकण्टकेषु निम्बाम्बुवान्तं निम्बोदकसिद्धं सर्पिः सक्षौद्रं पाययेत्।
निम्बारग्वधकषायेण चोद्वर्तनम्॥

अउ37.7
विवृतादीन् जालगर्दभान्तनिरिवेल्लिकां च पित्तविसर्पवच्चिकित्सेत्॥

अउ37.8
विशेषतो राजिकामपाकशर्करामूर्वाकण्टकशर्कराभिः क्षीरपिष्ट्Aअभिर्लेपयेत्।
अभीक्ष्णं च मृजाशीलनम्।
जालगर्दभे धात्रीफलान्युपयुञ्जीत॥

अउ37.9
अग्निरोहिणीमपि प्रत्याख्याय पित्तविसर्पदुपाचरेत् पक्वां तु मधुरवर्गसिद्धेन सर्पिषां रोपयेत्॥

अउ37.10
विदारिकां जलवासिनीभिर्ग्राहयित्वा बिल्वमूलनगवृत्तिकवर्षाभ्वजकर्णपलाशकल्केन प्रलिम्पेत्।
अनुपशाम्यन्तीं त्वभ्यज्य स्वेदयित्वा विम्लापयेत्।
पक्वां शस्त्रेण विदार्य निम्बतिलपटोलकल्केन प्रच्छाद्य बध्नीयात्।
क्षीरिवृक्षकदरखदिरकषायो व्रणप्रक्षालनम्।
शुद्धां मधुरकषायसंस्कृतेन तैलेन रोपयेत्॥

अउ37.11
शर्करार्बुदं मेदोर्बुदवदुपाचरेत्॥

अउ37.12
बल्मीकं हस्तस्य पादस्य चोपरिष्टान्मर्मणि वा जातं प्रवृद्धमतिबहुच्छिद्रावृतं सशोफं च वर्जयेत्॥

अउ37.13
अतोन्यथा तु प्राक् कृतशुद्धेः शोणितमपहरेत्।
सक्तुपलललवणगुडूच्यारेवतश्यामादन्तीकुलत्थिकामूर्लेलैपयेत्॥

अउ37.14
पक्वे तु सर्वां गतिं दुष्टमांसानि च शस्त्रेण सम्यक्शोधयित्वाग्निना क्षारेण वा दहेत्॥

अउ37.15
सुशुद्धे तु व्रणे भल्लातकमनश्शिलालैलाकालानुसार्यगरुचन्दनैर्निम्बतैलं रोपणार्थं श्रपयेत्॥

अउ37.16
कदरं शस्त्रेणोत्कृत्य स्नेहेन दहेत्॥

अउ37.17
रुद्धगुदे निरुद्धमणिवच्चिकित्सा॥

अउ37.18
चिप्पं शोणितावसेकसंशोधनैरुपाचरेत्।
व्यपगतोष्माणञ्चैनमुष्णाम्बुना परिषिच्य यथायोगं शस्त्रेण परिकर्त्यापनयेत्॥

अउ37.19
ततो रसाञ्जनरोचनानेपालीतेजोह्वाकल्कैरम्लपिष्टैः शोधयित्वा कालेयकागरुहरिद्रारसाञ्जनसिद्धेनतैलेन रोपयेत्।
मधुरकषायसिद्धेन वा।
अल्पावशिष्टं च सर्जरसचूर्णेन पूरयेत्॥

अउ37.20
कुनखमपि प्रदुष्टमेवमेवोपक्रमेत्॥

अउ37.21
अलसेत्वम्लकाञ्जिकावसिक्तौ चरणौ निम्बतिलपटोलीकासीसरोचनाकल्केनाकल्केनालेपयेत्।
निदिग्धिकारससिद्धेन सर्षपतैलेनाभ्यज्य रोचनाकासीसमनश्शिलाचूर्णैः प्रतिसारयेत्॥

अउ37.22
तिलकालकान् मषांश्च सूर्यकान्तेनाग्निना वा दहेत् क्षारेण वा।
चर्मकलिं जतुमणिं च तद्वच्छस्त्रेणोत्कृत्य॥

अउ37.23
लाञ्च्छनव्यङ्गनीलिकासु यथासन्नां सिरां विध्येत्।
क्षीरीवृक्षवल्ककल्कैश्च क्षीरपिष्टैर्लेपयेत्।
बलातिबलामधुकहरिद्राभिर्वा।
मधुकागरुपयस्याकालीयकैर्वा।
तरुणकपित्थतिन्दुकरजनीभिर्वा।
अम्लिकामूलेन वा।
सूकरदंष्ट्रया वा मधुघृतयुक्तया॥

अउ37.24
विशेषेण व्यङ्गेष्वसृक्स्रावपूर्वमर्जुनपरिपोटैर्लेपः।
क्षौद्रेण वा पिष्टा मञ्जिष्ठा।
अजाक्षीरेणवार्द्रदाडिमत्वक्।
तेनैव वा बालामलकं गोमूत्रेण सप्ताहं स्थितम्।
दधिमण्डेन वा कालेयकलोध्रोत्पलकिञ्जल्कम्।
नवनीतेन वा श्वेताश्वखुरजमषी॥

अउ37.25
तत्रापि वातजेषु देवदारुदुरालभाबृहतीमञ्जिष्ठामूर्वापामार्गत्रायन्तीत्रायमाणाशुकनसाबलाविदारीयवबदरकुलत्थबिल्वोत्पलशतावरीदर्भमूलक्वाथे शृङ्गीविडङ्गगर्भं घृतं विपक्वमधोभक्तं पानमभ्यङ्गं नावनं च सायं योजयेत्॥

अउ37.26
प्रलेपं च न्यग्रोधदेवदारुहरीतकीपूतीकरञ्जमदनफलचूर्णैर्घृतयुक्तैः।
बदरमज्जाकोद्रवलाजचूर्णेन वा सघृतेन।
श्वेतचमरास्थितालपत्रीस्तन्यमधुघृतैर्वा॥

अउ37.27
पैत्तेषु बलामधुकमागधिकाक्षीरकाकोलीस्वगुप्ताफलकाकमाचीतुगाह्वाभिः सपयः सर्पिः सिद्धं पूर्ववत् प्रयोजयेत्॥

अउ37.28
मृद्वीकाश्वेतपाकीखर्जूरपरूषकसौवीरबदरद्विमेदापुनर्नवकशेरुकाप्रवालविद्रुममृणालैर्वा सक्षीरैः॥

अउ37.29
उपस्निग्धं चैनमिक्षुरसेनोभयतो विरेचयेत्॥

अउ37.30
कृतरुधिरावसेचनानेतांश्च व्यङ्गान् मधुकसारिवाबलाचन्दनलोध्रोत्पलैर्घृतयुक्तैरालेपयेत्।
प्रपौण्डरीकमधुकपद्मकनीलोत्पलसारिवाकदलीमूलप्रवालसुवर्णगैरिकैर्वा।
शीतमधुरमन्नपानं प्रवातमहःस्वप्नं सौमनस्यं च सेवेत॥

अउ37.31
कफजेषु दशमूलदेवदारुहरीतकीश्वदंष्ट्रामलकीक्वाथे मुस्तकुष्ठहरिद्रामरतरुकल्कैस्तद्वत् साधितं सर्पिस्तद्वदेवोपयुञ्जीत॥

अउ37.32
तुत्थरोचनालोध्रप्रियङ्गुकालेयकैः समधुघृतैर्लेपः।
देवदारुसरलबलाशिग्रुमूलैर्वा।
मनश्शिलातुत्थरसाञ्जनैर्वा।
मृदुना वा क्षारेण दशमात्राः प्रलेपः॥

अउ37.33
रक्तजेषु क्षीरसर्पिःस्निग्धस्य सिरां विस्रावयेत्।
वमनविरेचने च पित्तवत् कुर्यात्।
आलेपश्चास्य चन्दनमधुककल्केन घृतवता।
सर्जरसनीलोत्पलशङ्खवेतसकदलीमूलमूर्वामधुककल्केन वा॥

अउ37.34
प्रसुप्तौ वातकुष्ठोक्तक्रमोऽन्ते चाग्निना दाहः॥

अउ37.35
उत्कोठे पित्तश्लेष्महरो विधिः सक्षारलवणं च तैलमभ्यङ्गः।
कोठे कुष्ठचिकित्सितमीक्षेत॥
॥इति सप्तत्रिंशोऽध्यायः॥

अथ अष्टत्रिंशोऽध्यायः।

अस38.1। अथातो गुह्यरोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ38.2
स्त्रीव्यवायनिवृत्तस्य सहसा भजतोथवा।
दोषाध्युषितसङ्कीर्णमलिनाणुरजःपथाम्॥

अउ38.3
अन्ययोनिमनिच्छन्तीमगम्यां नवसूतिकाम्।
तृषितं स्पृशतस्तोयं रतान्तेष्वपि नैव वा॥

अउ38.4
विवर्धयिषया तीक्ष्णान् प्रलेपादीन् प्रयच्छतः।
मुष्टिदन्तनखोत्पीडाविषवच्छूकपातनैः॥

अउ38.5
वेगनिग्रहदीर्घातिखरशष्पविघट्टनैः।
दोषा दुष्टा गता गुह्यं त्रयोविंशतिमामयान्॥

अउ38.6
जनयन्त्युपदंशादीन् उपदंशोऽत्र पञ्चधा।
पृथग्दोषैः सरुधिरैः समस्तैश्च अत्र मारुतात्।
मेढ्रशोफो रुजश्चित्राः स्तम्भस्त्वक्परिपोटनम्॥

अउ38.7
पक्वोदुम्बरसङ्काशं पित्तेन श्वयथुर्ज्वरः॥

अउ38.8
श्लेष्मणा कठिनः स्निग्धः कण्डूमाञ्छीतलो गुरुः॥

अउ38.9
शोणितेनासितस्फोटसम्भवोस्रस्रुतिर्ज्वरः॥

अउ38.10
तीव्रारुगाशुपचनं दरणं कृमिसम्भवः॥

अउ38.11
याप्यो रक्तोद्भवस्तेषां मृत्यवे सन्निपातजः॥

अउ38.12
जायन्ते कुपितैर्दोषैर्गुह्यासृक्पिशिताश्रयैः।
अन्तर्बहिर्वा मेढ्रस्य कण्डूला मांसकीलकाः॥

अउ38.13
पिच्छिलास्रस्रवा योनौ तद्वच्च छत्रसन्निभाः।
तेर्शांस्युपेक्षया घ्नन्ति मेढ्रपुंस्त्वभगातर्वम्॥

अउ38.14
गुह्यस्य बहिरन्तर्वा पिटकाः कफरक्तजाः।
सर्षपामानसंस्थाना घनाः सर्षपिकाः स्मृताः॥

अउ38.15
पिटका बहवो दीर्घा दीर्यन्ते मध्यतश्च याः।
सोऽवमन्थः कफासृग्भ्यां वेदनारोमहर्षवान्॥

अउ38.16
कुम्भीका रक्तपित्तोत्था जाम्बवास्थिनिभाशुजा॥

अउ38.17
अलजीं मेहवद्विद्यात् उत्तमां रक्तपित्तजाम्।
पिटकां माषमुद्गाभाम् पिटका पिटकाचिता।
कर्णिका पुष्करस्येव ज्ञेया पुष्करिकेति सा॥

अउ38.18
पाणिभ्यां भृशसंव्यूढे संव्यूढपिटका भवेत्॥

अउ38.19
मृदितं मृदितं वस्तु संरब्धं वातकोपतः॥

अउ38.20
विषमा कठिना भुग्ना वायुनाष्ठीलिका स्मृता॥

अउ38.21
विमर्दनादिदुष्टेन वायुना चर्म मेढ्रजम्।
निवर्तते सरुग्दाहं क्वचित् पाकं च गच्छति॥

अउ38.22
पिण्डितं कुथितं चर्म तत्प्रलम्बमधोमणेः।
निवृत्तसंज्ञं सकफं कण्डूकाठिन्यवत्तु तत्॥

अउ38.23
दुरूढं स्फुटितं चर्म निर्दिष्टमवपाटिका॥

अउ38.24
वातेन दूषितं चर्म मणौ सक्तं रुणद्धि चेत्।
स्रोतो मूत्रं ततोभ्येति मन्दधारमेवदनम्।
मणेर्विकासरोधश्च स निरुद्धमणिर्गदः॥

अउ38.25
लिङ्गं शूकैरिवाकीर्णं ग्रथिताख्यं कफोद्भवम्॥

अउ38.26
शूकदूषितरक्तोत्था स्पर्शहानिस्तदाह्वया॥

अउ38.27
छिद्रैरणुमुखैर्यत्तु मेहनं सर्वतश्चितम्।
वातशोणितकोपेन तं विद्याच्छतपोनकम्॥

अउ38.28
पित्तासृग्भ्यां त्वचः पाकस्त्वक्पाको ज्वरदाहवान्॥

अउ38.29
मांस्पाकः सर्वजः सर्ववेदनो मांसशातनः॥

अउ38.30
सरागैरसितैः स्फोटैर्वेदनाभिश्च पीडितम्।
मेहनं वेदना चोग्रा तं विद्यादसृगर्बुदम्॥

अउ38.31
मांसार्बुदं प्रागुदितं विद्रधिश्च त्रिदोषजः॥

अउ38.32
कृष्णानि भूत्वा मांसानि विशीर्यन्ते समन्ततः।
पक्वानि सन्निपातेन तान् विद्यात्तिलकालकान्॥

अउ38.33
मांसोत्थमर्बुदं पाकं विद्रधिं तिलकालकान्।
चतुरो वर्जयेदोषां शेषान् शीघ्रमुपाचरेत्॥

अउ38.34
विंशतिर्व्यापदो योनेर्जायन्ते दुष्टभोजनात्।
विषमस्थाङ्गशयनभृशमैथुनसेवनैः।
दुष्टार्तवादपद्रव्यैर्बीजदोषेण दैवतः॥

अउ38.35
योनौ क्रुद्धोऽनिलः कुर्याद्रुक्तोदायामसुप्तताः।
पिपीलिकासृप्तिमिव स्तम्भं कर्कशतां स्वनम्॥

अउ38.36
फेनिलारुणकृष्णाल्पतनुरूक्षार्तवस्रुतिम्।
भ्रंशं वङ्क्षणपार्श्वादौ व्यथां गुल्मं क्रमेण च।
तांस्तांश्च स्वान् गदान् व्यापद्वातिकी नाम सा स्मृता॥

अउ38.37
सैवातिचरणा शोफसंयुक्तातिव्यवायतः॥

अउ38.38
मैथुनादतिबालायाः पृष्ठजङ्घोरुवङ्क्षणम्।
रुजन् सन्दूषयेद्योनिं वायुः प्राक्चरणेति सः॥

अउ38.39
वेगोदावर्तनाद्योनिं प्रपीडयति मारुतः।
सा फेनिलं रजः कृच्छ्रादुदावृत्तं विमुञ्चति॥

अउ38.40
इयं व्यापदुदावृत्ता जातघ्नी तु यदानिलः।
जातं जातं सुतं हन्ति रौक्ष्याद्दुष्टार्तवोद्भवम्॥

अउ38.41
अत्याशिताया विषमं स्थितायाः सुरते मरुत्।
अन्नेनोत्पीडितो योनेः स्थितः स्रोतसि वक्रयेत्।
सास्थिमांसं मुखं तीव्ररुजमन्तर्मुखीति सा॥

अउ38.42
वातलाहारसेविन्यां जनन्यां कुपितोनिलः।
स्त्रिया योनिमणुद्वारां कुर्यात् सूचिमुखीति सा॥

अउ38.43
वेगरोधादृतौ वायुर्दुष्टो विण्मूत्रसङ्ग्रहम्।
करोति योनिशोषं च शुष्काख्या सातिवेदना॥

अउ38.44
षडहात् सप्तरात्राद्वा शुक्रं गर्भाशयान्मरुत्।
वमेत् सरुङ्नीरुजो वा यस्यां सा वामिनी मता॥

अउ38.45
योनौ वातोपतप्तायां स्त्रीगर्भे बीजदोषतः।
नृद्वेषिण्यस्तनी च स्यात् षण्डसंज्ञानुपत्रमा॥

अउ38.46
दुष्टो विष्टभ्य योन्यास्यं गर्भकोष्ठं च मारुतः।
कुरुते विवृतां स्रस्तां वातिकीमिव दुःखिताम्।
उत्सन्नमांसां तामाहुर्महायोनिं महारुजम्॥

अउ38.47
यथास्वैर्दूषणैर्दुष्टं पित्तं योनिसमाश्रितम्।
करोति दाहपाकोषापूतिगन्धज्वरान्विताम्।
भृशोष्णभूरिकुणपनीलपीतासितार्तवाम्॥

अउ38.48
सा व्यापत् पैत्तिकी रक्तयोन्याख्यासृगतिस्रुतेः॥

अउ38.49
कफोभिष्यन्दिभिः क्रुद्धः कुर्याद्योनिमवेदनाम्।
शतिलां कण्डुलां पाण्डु पिच्छिलां तद्विधस्रुतिम्।
सा व्यापच्छ्लैष्मिकी #

अउ38.50
वातपित्ताभ्यां क्षीयते रजः।
सदाहकार्श्यवैवर्ण्यं यस्यां सा लोहितक्षया॥

अउ38.51
पित्तलाया नृसंवासे क्षवथूद्गारधारणात्।
पित्तयुक्तेन मरुता योनिर्भवति दूषिता॥

अउ38.52
शूना स्पर्शासहा सर्पिर्नीलपीतास्रवाहिनी।
बस्तिकुक्षिगुरुत्वातिसारारोचककारिणी।
श्रेणिवङ्क्षणरुक्तोदज्वरकृत्सा परिप्लुता॥

अउ38.53
वातश्लेष्मामयव्याप्ता श्वेतपिच्छिलवाहिनी॥

अउ38.54
उपप्लुता स्मृता योनिः विप्लताख्या त्वधावनात्।
सञ्जातजन्तुः कण्डूला कण्ड्वा चातिरतिप्रिया॥

अउ38.55
अकालवाहनाद्वायुः श्लेष्मरक्तविमूर्च्छितः।
कर्णिकां जनयेद्योनौ रजोमार्गनिरोधिनीम्॥

अउ38.56
सा कर्णिनी त्रिभिर्दोषैर्योनिगर्भाशयाश्रितैः।
यथास्वोपद्रवकरैर्व्यापत् सा सान्निपातिकी॥

अउ38.57
इति योनिगदा नारी यैः शुक्रं न प्रतीच्छति।
ततो गर्भं न नृह्णणाति रोगांश्चाप्नोति दारुणान्।
असृग्दरार्शोगुल्मादीनाबाधांश्चानिलादिभिः॥
॥इति अष्टत्रिंशोऽध्यायः॥

अथ एकोनचत्वारिंशोऽध्यायः।

अउ39.1
अथातो गुह्यरोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ39.2
उपदंशेषूत्पन्नमात्रेषु पाकपरिहारार्थं मेढ्रमध्ये सिरां विध्येत्।
उभयतश्चास्य विधिवद्दोषानपहरेद्विशेषतो विरेचनेन।
तदयोग्यस्य त्वत्युच्छ्रितानास्थापनेन॥

अउ39.3
यथादोषं चालेपसेकादीनविरतं विदध्यात्।
एवं सद्य एव रुक्तोदशोफरागसंरम्भा निवर्तन्ते॥

अउ39.4
पक्वेषु तु तु शस्त्रमवचारयेत्।
सघृतक्षौद्रशर्करेण तिलकल्केनालेपयेत्।
अपि च॥

अउ39.5
जम्ब्वाम्रसुमनोनीपश्वेतकाम्बोजिकाङ्कुरान्।
सल्लकीबदरीबिल्वपलाशतिनिशोद्भवाः॥

अउ39.6
त्वचः क्षीरिद्रुमाणां च त्रिफलां च पचेज्जले।
स क्वाथः क्षालनं तेन पक्वं तैलं च रोपणम्।
गोजीविडङ्गमधुकसर्वगन्धैश्च पेषितैः॥

अउ39.7
तुत्थगौरिकलोध्रैलामनोह्वालरसाञ्जनैः।
हरेणुपुष्पकासीससौराष्ट्रीलवणोत्तमैः।
लेपः क्षौद्रद्रुतैः सूक्ष्मैरुपदंशव्रणापहः॥

अउ39.8
दार्वीत्वक्शङ्खतार्क्ष्योत्थलाक्षागोक्षीरविड्रसैः।
सक्षौद्रतैलसर्पिर्भिर्लेपः श्रेष्ठो व्रणेऽथवा।
लाक्षाद्राक्षातसीक्षौद्रैः क्षौद्रशैलेयतार्क्ष्यजैः॥

अउ39.9
कपाले त्रिफलादग्धा सघृता रोपणी परम्॥

अउ39.10
सामान्यं साधनमिदं वातिकं तु प्रलेपयेत्।
अपक्वं कुष्ठयष्ट्याह्वसुरदारुपुनर्नवैः॥

अउ39.11
स्निग्धोष्णैर्लोहसरलरास्नापुण्ड्राह्वसंयुतैः।
अथवा निचुलैरण्डबीजगोधूमचिक्कसैः॥

अउ39.12
गैरिकाञ्जनमञ्जिष्ठामधुकोशीरपद्मकैः।
सचन्दनोत्पलैः शीतैर्घृताढ्यैः पित्तसम्भवम्॥

अउ39.13
पद्मोत्पलमृणालैर्वा ससर्जार्जुनवेतसैः।
सेचयेच्च घृतक्षीरशर्करेक्षुमधूदकैः॥

अउ39.14
धवसालाश्वकर्णाजकर्णत्वग्भिः कफोत्थितम्।
सुरापिष्टाभिरुष्णाभिः सतैलाभिः प्रलेपयेत्॥

अउ39.15
रजन्यतिविषामुस्तसरलामरदारुभिः।
सपत्रपाठापत्तूरैरथवा श्लेष्मसम्भवम्॥

अउ39.16
न च याति यथा पाकं प्रयतेत तथा भृशम्।
पक्वैः स्नायुसिरामांसैः प्रायो नश्यति हि ध्वजः॥

अउ39.17
उपदंशद्वये शिष्टे प्रत्याख्यायाचरेत् क्रियाम्॥

अउ39.18
अर्शांसि यथायोगं शुद्धदेहस्य शस्त्रक्षाराग्निभिः साधयेत्।
उपदंशोक्ता चात्र रसक्रिया लेपः॥

अउ39.19
सर्षपिकां विलिख्य कषायैरवचूर्णयेत्।
तैरेव च तैलं व्रणरोपणं कुर्यात्॥

अउ39.20
अवमन्थे जलौकसो योजयेत्।
पक्वभिन्नं धवतिन्दुकसल्लकीपतङ्गसर्जकृतेन तैलेन रोपयेत्॥

अउ39.21
तद्वत् कुम्भीकामुपचरेत्।
लोध्रतिन्दुकत्रिफलाकृतस्तु लेपस्तैलं च रोपणम्॥

अउ39.22
अलजीं स्रुतरक्तां कषायैरवचूर्णयेत्।
तेष्वेव च तैलं व्रणरोपणार्थं कुर्वीत॥

अउ39.23
उत्तमां पिटकां शस्त्रेण च्छित्वा कषायचूर्णप्रदेहैर्मधुमाद्भिरुपाचरेत्॥

अउ39.24
पुष्करिकासंव्यूढास्पर्शहानित्वक्पाकेषु पित्तविसर्पोक्तो विधिः॥

अउ39.25
मृदितं कोष्णेन बलातैलेन परिषेचयेत्।
मधुरद्रव्यकल्कैश्च सुखोष्णैर्घृतस्निग्धैरुपनाहयेत्॥

अउ39.26
अष्ठीलिकां जलौकोभिर्ग्राहयेत्।
तथानुपशमे श्लेष्मग्रन्थिमिव शस्त्रेणोद्धरेत्॥

अउ39.27
निवृत्तं सर्पिषाभ्यज्य स्वेदयेत्।
स्विन्नमुपनाहयेत्त्रिरात्रं पञ्चरात्रं वा साल्वलेन।
ततो भूयः स्वेदयित्वा घृतेनाभ्यज्य शनैः शनैश्चर्म समानयन् मणिमवपीडयेत्।
पीडयित्वा च पुनरुपनाहयेत्।
स्निग्धोष्णं चान्नपानम्॥

अउ39.28
अवपाटिकायामप्ययं विधिः॥

अउ39.29
निरुद्धमणौ सुवर्णादिकृतां दारुजां वा जतुसृतां नाडीमुभयतोद्वारां स्नेहाभ्यक्तां स्रोतसि प्रणिधाय सूकरशिंशुमारयोर्वसयामज्ज्ञा वा परिषेचयेत्।
चक्रतैलेन वा।
वातहरसिद्धेन वा त्रिवृतेन।
तृतीये तृतीये चाहनि नाडीं पीनतरां विदध्यात्।
एवमस्य स्रोतोद्वारं विवर्धयेत् स्निग्धं चाहारं भोजयेत्।
एवमनुपशान्तौ शस्त्रेण सेवनीं परिहृत्य दारयित्वा सद्यःक्षतवदुपाचरेत्॥

अउ39.30
ग्रथितं नाडीस्वेदेन स्वेदयित्वा स्निग्धोष्णैरुपनाहयेत्।
शतपोनकं लिखित्वा कषायचूर्णैः सक्षौद्रैर्लेपयेत्।
विदार्यादिसिद्धेन च तैलेन रोपयेत् शर्करार्बुदे रक्तविद्रधिवत् साधनम्॥

अउ39.31
सर्वेषु च यथास्वमन्तःशुद्धिं कषायलेपघृततैलरसक्रियाचूर्णशोधनरोपणान् विदध्यात्॥

अउ39.32
योनिव्यापदि तु वातिक्यां लवणतैलाक्तां योनिं पिण्डनाडीकुम्भीप्रभृप्रभृतिभिः स्वेदयेत्।
ततः सुखोष्णाम्बुपरिषिक्तसर्वगात्रां जाङ्गलरसैर्भोजयेत्॥

अउ39.33
बलाद्रोणद्वयनिर्यूहे पयस्यासालपर्णीमागधिकाशतावरीकाकनासाश्रावणीशर्कराजीवनीयगर्भं क्षीरचतुर्गुणं घृततैलाढकं साधयेत् तत्पानात् सर्वान् वातपित्तविकारानपोहति गर्भजननं च॥

अउ39.34
शतावरीत्रिफलागुडूचीकाश्मर्यमृद्वीकाकासमर्दकपरूषकहरिद्राद्वयसहचरशुकनासापुनर्नवैः कार्षिकैर्घृतप्रस्थः सिद्धः पीतो वातजान् योनिरोगानपोहति गर्भजननश्च॥

अउ39.35
सैन्धववचोपकुञ्चिकापिप्पलीवृषकयवक्षाराजमोदाजाजीसितोपलाचित्रकचूर्णो मदिरालुलितः सर्पिषा संयावीकृत्य भक्षितो योनिपार्श्वबास्तिवेदनार्शोगुल्महृद्रोगहरः॥

अउ39.36
शूले वृषकरास्नागोक्षुरकशृतं पयः पिबेत्।
वृषकमातुलुङ्गमूलमदयन्तिकासैन्धवपिप्पलीकृष्णजीरककल्कं वा मद्येन।
तेनैवचार्जकमूलं बिल्वयुक्तं वा पिप्पली युक्तं वा।
सौवर्चलोपकुञ्चिकापिप्पलीर्वा मद्येनावन्तिसोमेन वा॥

अउ39.37
दन्तीत्रिफलगुडूचीक्वाथः सुखोष्णो योनेः परिषेकः॥

अउ39.38
कुष्ठतगरदेवदारुवार्ताकिनीसैन्धवैः साधितं तैलं पिचुना धारयेत्॥

अउ39.39
रास्नामालतीच्छिन्नरुहामधुकबलाव्याघ्रीदेवदारुचित्रकयूथिकामूलैः कर्षांशैस्तैलप्रस्थः समूत्रो द्विगुणपयसा विपक्वः पिचुना प्रणीतोऽनिलार्तिहरः॥

अउ39.40
बस्तिकर्म चाभीष्णं स्वेदं च प्रयोजयेद्विशेषतो वातहरैः सुकुमारबलातैलशिरीषतैलैः शतपाकसहस्र पाकैश्चानुवासनमुत्तरबस्तिं च।
एष क्रमो विशेषेण योनेर्वेदनाकार्कश्यस्तम्भस्रंसस्पर्शाहानिघ्नश्च॥

अउ39.41
अतिचरणादिषु सर्वास्वनिलजास्वयमेव क्रमः॥

अउ39.42
धारयेच्चातिचरणाय यवगोधूमकिण्वकुष्ठशतपुष्पाश्र्याह्वीप्रयड्गुबलाखुकर्णीकल्ककृतामुत्कारिकाम्॥

अउ39.43
प्राक्चरणाशुष्काविप्लुताकर्णिनीषुतैलमुत्तरबस्तिं दद्यात्॥

अउ39.44
धारयेच्च विप्लुतायां गोमत्स्यान्यतरपित्तेनैकविंशतिकृत्वो भावितान् क्षौमनक्तकान् किण्वं वा माक्षिकयुक्तमेवमस्याः स्रोतांसि विशुध्यन्ति कण्डूक्लेदशोफाश्च निवर्तन्ते॥

अउ39.45
कर्णिन्यां तु कुष्ठार्कपल्लवपिप्पलीसैन्धवैर्बस्तमूत्रपिष्टैर्वर्तिं कृत्वा धारयेत्।
श्लेष्महरं च सर्वं कुर्यात्॥

अउ39.46
उदावृत्तायामानूपमांसरसाः क्षीरं स्वेदो दशमूलत्रिवृताक्वाथकल्कासिद्धश्च स्नेहः पानानुवासनोत्तरबस्तिषु।
योनिस्रंसे च महायोनिप्रभृतिष्वेष एव विधिः॥

अउ39.47
जातघ्नीरक्तयोनिरक्तक्षयासु कुट्Aजकाश्मर्यक्वाथसिद्धं सर्पिरुत्तरबस्तौ दद्यात्।
अथवा मृगाजाविवराहरुधिराम्लदधिमधुघृतानीति।
भवति चात्र॥

अउ39.48
स्नेहन स्वेदबस्त्यादि वातलास्वनिलापहम्।
कारयेद्रक्तपित्तघ्नं शीतं पित्तकृतासु च॥

अउ39.49
श्लेष्मलासु च रूक्षोष्णं कर्म कुर्याद्यथायथम्।
सन्निपाते विमिश्रं तु संसृष्टासु च कारयेत्॥

अउ39.50
स्निग्धस्विन्नां तथा योनिं दुःस्थितां स्थापयेत् समाम्।
पाणिना नमयेत् जिह्मां संवृतां प्रथयेत् पुनः॥

अउ39.51
प्रवेशयेन्निस्सृतां च विवृतां परिवर्तयेत्।
स्थानापवृत्ता योनिर्हि शल्यभूता स्त्रिया मता॥

अउ39.52
सर्वां व्यापन्नयोनिं च कर्मभिर्वमनादिभिः।
मृदुभिः पञ्चभिर्नारीं स्निग्धस्विन्नामुपाचरेत्॥

अउ39.53
सर्वतः सुविशुद्धायाः शेषं कर्म विधीयते।
बस्त्यभ्यङ्गपरीषेकप्रलेपपिचुधारणम्॥

अउ39.54
हिंस्राकल्कं समीरार्तौ कोष्णमभ्यज्य धारयेत्।
पञ्चवल्कस्य पित्तार्तौ श्यामादीनां कफातुरा॥

अउ39.55
वामिन्याप्लुतयोश्चैव स्वेदयित्वा प्रयोजयेत्।
तर्पणं स्नेहपिचुभिर्भोजनं चानिलापहम्॥

अउ39.56
सल्लकीजिङ्गिणीजम्बूधवत्वक्पञ्चवल्कलैः।
कषायैः साधितात् स्नेहात् पर्युपप्लुतयोः पिचुम्॥

अउ39.57
कुलीरसूकरवसा सर्पिर्भिर्मधुरैः शृतैः।
पूरयित्वा महायोनिं बध्नीयात् क्षौमनक्तकैः॥

अउ39.58
प्रस्रस्तां सर्पिषाभ्यज्य क्षीरस्विन्नां प्रवेशयेत्।
बध्नीयाद्वेशवारस्य पिण्डेनामूत्रकालतः॥

अउ39.59
यच्च वातविकाराणां कर्मोक्तं तच्च कारयेत्।
सर्वव्यापत्सु मतिमान्महायोन्यां विशेषतः॥

अउ39.60
नहि वातादृते योनिर्वनितानां प्रदुष्यति।
अतो जित्वा तमन्यस्य कुर्याद्दोषस्य भेषजम्॥

अउ39.61
पित्तलानां तु योनीनां सेकाभ्यङ्गपिचुक्रियाः।
शीताः पित्तजितः कार्याः स्नेहनार्थं घृतानि च॥

अउ39.62
शतावरीमूलतुलाचतुष्कात् क्षुण्णपीडितात्।
रसेन क्षीरतुल्येन पाचयेत घृताढकम्॥

अउ39.63
जीवनीयैः शतावर्या मृद्वीकाभिः परूषकैः।
पिष्टैः प्रियालैश्चाक्षांशैर्मधुकार्द्धपलान्वितैः॥

अउ39.64
सिद्धशीते तु मधुनः पिप्पल्याश्च पलाष्टकम्।
शर्कराया दशपलं क्षिपेल्लिह्यात् पिचुं ततः॥

अउ39.65
योन्यसृक्शुक्रदोषघ्नं वृष्यं पुंसवनं परम्।
क्षतं क्षयमसृक्पित्तं कासं श्वासं हलीमकम्॥

अउ39.66
कामिलां वातरुधिरं विसर्पं हृच्छिरोग्रहम्।
अपस्मारार्दितायाममदोन्मादांश्च नाशयेत्॥

अउ39.67
एवमेव पयस्सर्पिर्जीवनीयोपसाधितम्।
गर्भदं पित्तजानां च रोगाणां परमं हितम्॥

अउ39.68
रक्तयोन्यामसृग्वर्णैरनुबन्धमवेक्ष्य च।
यथादोषोदयं युञ्ज्याद्रक्तस्थापनमौषधम्॥

अउ39.69
तिलचूर्णं दधि घृतं फाणितं सौकरी वसा।
क्षौद्रयुक्तं जयेत् पीतं वातोत्तरमसृग्दरम्॥

अउ39.70
वराहस्य रसो मेध्यः सकौलत्थश्च तद्गुणः।
पत्रकल्को घृते भृष्टो राजादनकपित्थयोः।
शर्कराक्षौद्रयष्ट्याह्वनागरैश्च युतं दधि॥

अउ39.71
पयस्योत्पलशालूकबिसकालीयवारिजम्।
सपयश्शर्कराक्षौद्रं रक्ते पित्तोत्तरे पिबेत्॥

अउ39.72
तण्डुलीयकमूलं वा सक्षौद्रं तण्डुलाम्भसा।
सतार्क्ष्यशैलं लाक्षां वा छागेन पयसा पिबेत्।
वासाघृतं महातिक्तं रक्तपित्तहितञ्च यत्॥

अउ39.73
मधुकं त्रिफलां लोध्रं मुस्तं सौराष्ट्रिकां मधु।
मद्यैर्निमगुडूच्यौ च कफजेऽसृग्दरे पिबेत्॥

अउ39.74
पाठां जम्ब्वाम्रयोरस्थि शिलोद्भेदं रसाञ्जनम्।
अम्बष्ठां शाल्मलीपिच्छां समङ्गां वत्सकत्वचम्॥

अउ39.75
बाल्हीकबिल्वातिविषालोध्रतोयदगैरिकम्।
शुण्ठीमधूकमाचीकरक्तचन्दनकट्फलम्॥

अउ39.76
कट्वङ्गवत्सकानन्ताधातकीमधुकार्जुनम्।
पुष्ये गृहीत्वा सञ्चूर्ण्य सक्षौद्रं तण्डुलाम्बुना॥

अउ39.77
पिबेदर्शस्वतीसारे रक्तं यच्चोपवेश्यते।
दोषा जन्तुकृता ये च बालानां तांश्च नाशयेत्॥

अउ39.78
योनिदोषं रजोदोषं श्यावश्वेतारुणासितम्।
चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम्॥

अउ39.79
सर्वेषु गर्भस्रावोक्तं प्रदरेषु प्रशस्यते॥

अउ39.80
रक्तक्षयायां क्षीरं च जीवनीयशृतं पिबेत्॥

अउ39.81
योन्यां बलासदुष्टायां वर्तिः संशोधने हिता।
वाराहे बहुशः पित्ते भावितैर्नक्तकैः कृता॥

अउ39.82
भावितं पयसार्कस्य माषचूर्णं ससैन्धवम्।
वर्तिः कृता क्षणं धार्या सेक्तव्यानुसुखाम्बुना॥

अउ39.83
पिप्पलीमाषमरिचशताह्वाकुष्ठसैन्धवैः।
प्रदेशिन्यङ्गुलीतुल्या वर्तिर्योनिविशोधनी॥

अउ39.84
उदुम्बरशलाटूनां द्रोणं द्रोणेम्भसः पचेत्।
सपञ्चवल्कतिलकमालतीनिम्बपल्लवे॥

अउ39.85
निशास्थिते जले तस्मिंस्तैलप्रस्थं विपाचयेत्।
पलाशशाल्मलीलाक्षाधवनिर्यासवल्कलैः॥

अउ39.86
पिष्टैर्युक्तं ततःस्नेहपिचुं योनौ निधापयेत्।
सशक्ररैः कषायैश्च शीतैः कुर्वीत सेचनम्॥

अउ39.87
पिच्छिला विवृता योनिश्चिरदुष्टा तु दारुणा।
सप्ताहाच्छुध्यति क्षिप्रमपत्यं च समश्नुते॥

अउ39.88
उदुम्बरस्य दुग्धेन षट्कृत्वो भावितात्तिलात्।
तैलं क्वाथेन तस्यैव कार्यं धार्यं च पूर्ववत्॥

अउ39.89
धातक्यामलकीपत्रस्रोतोजमधुकोत्पलैः।
जम्ब्वाम्रसारकासीसलोध्रकट्फलतिन्दुकैः॥

अउ39.90
सौराष्ट्रिकादाडिमत्वगुदुम्बरशलाटुभिः।
अक्षमात्रैरजामूत्रे क्षीरे च द्विगुणे पचेत्॥

अउ39.91
तैलप्रस्थं तदभ्यङ्गपिचुबस्तिषु योजयेत्।
शूनोत्तानोन्नता स्तब्धा पिच्छिला स्राविणी तथा।
विप्लुतोपप्लुता योनिः सिध्येत् सस्फोटशूलिनी॥

अउ39.92
अर्कनिम्बाम्रकोशाम्रबिल्वबूकधवोद्बवैः। करीरजिङ्गिणीनम्बूकरञ्जार्जुनशिग्रुजैः॥

अउ39.93
पलाशसिध्रकोत्थैश्च कषायैर्धावनं परम्।
शुक्तसीधुमधून्मिश्रैर्योनेः स्रावनिवारणम्॥

अउ39.94
कुर्यात् सतक्रगोमूत्रशुक्तैर्वा त्रिफलारसैः॥

अउ39.95
यवान्नमभयारिष्टं सीधु तैलं च शीलयेत्।
पिप्पल्ययोरजःपथ्याप्रयोगांश्चसमाक्षिकान्॥

अउ39.96
रोहीतकजटाकल्कं पाण्डुरेऽसृग्दरे पिबेत्।
धात्रीमज्ज्ञोथवा कल्कं सितामाक्षिकसंयुतम्॥

अउ39.97
मधुनामलकीचूर्णं रसं वा प्राशयेत् सिते।
सलोध्रवल्केन वटत्वक्कषायेण धावयेत्॥

अउ39.98
आस्रावे क्षौमपट्टान् वा भावितांस्तेन धारयेत्।
प्लक्षत्वक्चूर्णपिण्डं वा धारयेन्मधुना कृतम्॥

अउ39.99
योन्या स्नेहाक्तया लोध्रप्रियङ्गुमधुकस्य वा।
धार्या मधुकृता वर्तिः कषायाणां च भूरिशः॥

अउ39.100
स्रावच्छेदार्थमभ्यक्तां धूपयेद्वा धृताप्लुतैः।
सरलागुग्गुलुयवैः सतैलैः कटुमत्स्यकैः॥

अउ39.101
कासीसं त्रिफला काङ्क्षी साम्रजम्ब्वस्थि घातकी।
पैच्छिल्ये क्षौद्रसंयुक्तश्चूर्णो वैशद्यकारकः॥

अउ39.102
पलाशधातकीजम्बूसमङ्गामोचसर्जजः।
दुर्गन्धे पिच्छिले क्लेदे स्तम्भनश्चूर्ण इष्यते।
आरग्वधादिवर्गस्य कषायः परिषेचनम्॥

अउ39.103
स्तब्धानां कर्कशानां च कार्यं मादर्वकारकम्।
धारणं वेशवारस्य कृसरा पायसस्य वा॥

अउ39.104
दुर्गन्धानां कषायः स्यात्तैलं वा कल्क एव वा।
चूर्णो वा सर्वगन्धानां पूतिगन्धापकर्षणः॥

अउ39.105
श्लेष्मलानां कटुप्रायाः समूत्रा बस्तयो हिताः।
पित्ते समधुकक्षीरा वाते तैलाम्लसंयुताः।
सन्निपातसमुत्थायाः कर्म साधारणं हितम्॥

अउ39.106
एवं योनिषु शुद्धासु गर्भं विन्दन्ति योषितः।
अदुष्टे प्राकृते बीजे बीजोपक्रमणे सति॥

अउ39.107
पञ्चकर्मविशुद्धस्य पुरुषस्यापि चेन्द्रियम्।
परीक्ष्य वर्णैर्दोषाणां दुष्टं तद्घ्नैरुपाचरेत्॥

अउ39.108
मञ्जिष्ठाकुष्ठतगरत्रिफलाशर्करावचाः।
द्वे निशे मधुकं मेदा दीप्यकः कटुरोहिणी॥

अउ39.109
पयस्या हिङ्गुकाकोली वाजिगन्धा शतावरी।
पिष्ट्वाक्षांशं घृतप्रस्थं पचेत् क्षीरचतुर्गुणम्॥

अउ39.110
योनिशुक्रप्रदोषेषु तत्सर्वेषु प्रशस्यते।
आयुष्यं पौष्टिकं मेध्यं धन्यं पुंसवनं परम्॥

अउ39.111
फलसर्पिरिति ख्यातं पुष्पे पीतं फलाय यत्।
म्रियमाणप्रजानां च गर्भिणीनां च पूजितम्।
एतत्परं च बालानां ग्रहघ्नं देहवर्द्धनम्॥
एकोनचत्वारिंशोऽध्यायः।
॥इति शल्यतन्त्रं नाम पञ्चममङ्गं समाप्तम्॥


अथ चत्वारिंशोऽध्यायः।

अउ40.1
अथातो विषप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ40.2
पुरा खल्वमृतार्थं सुरासुरैः सलिलनिधेर्विमथ्यमानात् क्रोध इव रूपवान् सत्वं समुद्वभूव कृष्णमनलनयनमूर्ध्वप्रदीप्तकेशं दंष्ट्राकरालं भैरवारावरूपम्।
तद्दर्शनादेव यतो देवदानवाश्च विषण्णास्तस्मात्तद्विषसंज्ञामवाप॥

अउ40.3
तत् सहसैव सर्वभूतानि निर्दग्धुकाममुपयोगविशेषैर्विषममृततां विनयमानो ब्रह्मानुनीयौषधिषु न्यस्तवान्॥

अउ40.4
ततस्तत् स्थावरासु मूर्तिष्वधिवसनात् स्थावरमित्युच्यते॥

अउ40.5
जङ्गमं पुनः पृथिव्या भारावतारार्थमुरगादिरूपेण विष्णुर्निर्ममे॥

अउ40.6
तयोः स्थावरं मूलपत्रपुष्पफलत्वक्सारनिर्यासक्षीरधातुकन्दभेदाद्दशाधिष्ठानम्॥

अउ40.7
तत्र मूलविषाणि क्लीतनकाश्वमारकगुञ्जासुगन्धकगर्गककर्करकरघाटकादीनि।
पत्रविषं कालपत्रिका लम्बा वरदकरम्भार्कादीनाम्।
पुष्पविषं वल्लीरेणुककरम्भ महाकरम्भादीनाम्।
फलं कुमुद्वतीरेणुकाकरम्भमहाकरम्भमदनकतुवरकादीनाम्।
त्वक्सारनिर्यासाः करककरघाटककरम्भमहाकरम्भनाराचकादीनाम्।
क्षीरं कुमुद्वती दन्ती स्नुह्यर्कजालिनी व्यालादीनाम्।
धातवो हरितालफेनाश्मभस्मरक्तप्रभृतयः।
कन्दजानि तु हालाहलकालकूटवत्सनाभशृङ्गीसाषर्पजालककर्दमकवैराटकमुस्तकमुष्ककसाक्तुकक्रौञ्चकवालकमहाविषपुण्डरीकगालवमूलकमर्कटकर्कटककरवीरकेन्द्रायुधसङ्कोचकलाङ्गलकतैलपेय कुशपुष्पके तु पुष्पकरोहिषाञ्जनाभकादीनि॥

अउ40.8
तत्र मूलविषैरुपयुक्तैरुद्वेष्टनप्रलापमोहाः प्रजायन्ते।
पत्रविषैर्जृम्भोद्वेष्टनश्वासाः।
पुष्पविषैश्छर्द्याध्मानमोहाः।
फलविषैर्दाहमुष्कशोफौ।
त्वक्सारनिर्यासविषैः प्रसेकास्यदौर्गन्ध्यपारुष्यशिरोवेदनाः।
क्षीरविषैर्जिह्वागौरवं शकृत्भेदश्च।
धातुविषैस्तालुदाहमूर्च्छाहृदयपीडाः।
सर्वमेव च स्थावरं ज्वरहिध्मादन्तहर्षहनुस्तम्भगलग्रहफेनवमनारुचिश्वासमूर्च्छाः करोति विशेषेण कन्दजम्।
तद्ध्यतितीक्ष्णत्वादाशुकारितरम्।
इतरत्तु प्रायः कालान्तरप्राणहरम्॥

अउ40.9
सर्वमपि चैतन्मौलमित्युच्यते मूलाश्रयत्वात् पत्रादीनाम्॥

अउ40.10
जङ्गमस्य त्वाश्रयाः षोदश।
दृष्टिनिश्वासस्पर्शदंष्ट्रामुखनखास्थिमूत्रपुरीषशुक्रार्तवलालाशूकपित्तशोणितशवानि।
तानि पुनः सर्पकीटकणभाद्याश्रितानि।
तत्कृतान्यथास्वमामयान् साधनं चोत्तरत्र वक्ष्यति॥

अउ40.11
सर्वं च प्रायशो जङ्गमं निद्रातन्द्राक्लमदाहरोमहर्षशोफपाकातिसारान् करोति॥

अउ40.12
द्विविधमपिचैतद्विषं तीक्ष्णोष्णरूक्षविशदसूक्ष्मव्यवाय्याशुकारिविकाशिलघ्वव्यक्तरसत्वैर्दशभिर्गुणैर्युक्तमपाकि च॥

अउ40.13
तत्र तैक्ष्ण्यौष्ण्यात् पित्तं रक्तं च प्रकोपयति।
रौक्ष्याद्वायुम्।
वैशद्यादसक्तवेगं प्रसरति।
सौक्ष्म्याद्व्यवायित्वाच्च दोषधातुमलादीन् समस्तान् शरीरावयवाननुप्रविशति।
आशुकारित्वादाशु व्यापादयति।
विकाशित्वान्मर्मच्छेदेन मतिं व्यामोहयति।
लाघवाद्दुर्निर्हरमव्यक्तरसत्वाच्छ्लेष्मप्रकोपणमन्नरसांश्च सर्वाननुवर्तते।
अत एव च प्रयत्नेनान्नानि विषतो रक्षेदित्युक्तम्।
अपाकित्वाज्जरां नो याति।
तेनाभ्यवहृतमवश्यं मारयति।
मन्त्रौषधबलेन चोपशमितमपि प्रत्ययमासाद्य पुनः प्रकृप्यतीति।
भवति चात्र॥

अउ40.14
स्थावरं जङ्गमं चेति विषं प्रोक्तमकृत्रिमम्॥

अउ40.15
कृत्रिमं गरसंज्ञं तु क्रियते विविधौषधैः।
हन्ति योगवशेनाशु चिराच्चिरतराच्च तत्।
शोफपाण्डूदरोन्माददुर्नामादीन्करोति वा॥

अउ40.16
अपि चैतद्विषं सर्वं तीक्ष्णाद्यैरन्वितं गुणैः।
वातपित्तोत्तरं नॄणां सद्यो हरति जीवितम्॥

अउ40.17
विषं हि देहं सम्प्राप्य प्राग्दूषयति शोणितम्।
कफपित्तानिलांश्चानु समदोषं सहाशयान्।
ततो हृदयमास्थाय देहोच्छेदाय कल्पते॥

अउ40.18
शरीरं दूषिते रक्ते सर्वं चिमिचिमायते।
कोठः समण्डलः स्वेदो रोमहर्षश्च जायते॥

अउ40.19
क्षुद्रकीटा इवाङ्गेषु विसर्पन्तीति मन्यते।
विनामयति गात्राणि जृम्भते शिशिरप्रियः॥

अउ40.20
व्यापिनस्तस्य दुष्टस्य द्रुतस्य विषतेजसा।
वातादयो वशं यान्ति बलिनोप्यबला इव॥

अउ40.21
विषं यद्दोषभूयिष्ठं तं दोषं प्राक् प्रपद्यते।
आशये यस्य यस्यैव ततस्तदवतिष्ठते।
तज्जान् विकारान् कुरुते यान् सर्वेषूपदेक्ष्यति॥

अउ40.22
वाताशयस्थं कुरुते तथा श्लेष्मामयानपि।
पित्तश्लेष्माशयगतं तद्वत् पित्तकफोद्भवान्॥

अउ40.23
तत्रापि चोत्तमाङ्गस्थे सकोठं शूयते शिरः।
विशेषादक्षिकूटौष्ठनासास्यं हृष्टदन्तता।
ताल्शोषो रुजा मूर्ध्नि वक्त्रे चिमिचिमायनम्॥

अउ40.24
अर्थेषु चक्षुरादीनामप्रवृत्तिर्हनुग्रहः।
इत्यन्यापि च विषं स्थितमङ्गेऽभिलक्षयेत्॥

अउ40.25
व्याप्यैवं सकलं देहमुपरुध्य च वाहिनीः।
विषं विषमिव क्षिप्रं प्राणानस्य निरस्यति॥

अउ40.26
पीतं मृतस्य हृदये जग्धदिग्धाभिविद्धयोः।
दंशे तिष्ठति भूयिष्ठं सर्वतः पिण्डितं विषम्।
नाद्यादतो विशेषेण तेषां मांसं तदाश्रयम्॥

अउ40.27
यथास्वं भक्षिते पीडा यथास्वं च क्रियाक्रमः॥

अउ40.28
सप्त वेगान् विषस्याहुरष्टावितिपुनर्वसुः॥(चृ.ष्ष् 5.4.39,Cष् 6.23.7)

अउ40.29
दुष्यति प्रथमे वेगे रसश्छर्द्दिप्रसेककृत्।
द्वितीयेस्रं चिमिचिमाजृम्भावेपथुकारि तत्॥

अउ40.30
तृतीये पिशितं कण्डूकोठमण्डलशोफदम्।
दोषाश्चाश्चतुर्थे तेषु स्युर्यथायथमुपद्रवाः॥

अउ40.31
पञ्चमे दर्शनभ्रान्तिः षष्ठे हिध्मासमुद्भवः।
सप्तमे स्कन्धभङ्गोस्य जायते मृत्युरष्टमे॥

अउ40.32
दुष्यति प्रथमे रक्तं द्वितीये श्वयथूद्भवः।
तृतीयेङ्गे चिमिचिमा चतुर्थे ज्वरमूर्च्छना॥

अउ40.33
पञ्चमे पाण्डुजिह्वास्य शोषः षष्ठे हृदि व्यथा।
सप्तमे मरणं वेग इति गग्नजितो मतम्॥

अउ40.34
मूर्च्छा हृदि परं पीडा शिरोरुगपतन्त्रकः।
हिध्मा च दारुणो मर्मच्छेदो जीवितसंशयः।
सप्तेति वेगा मूर्च्छाद्या विदेहपतिना स्मृताः॥

अउ40.35
रक्तमांसवसास्नायु तथास्थ्याद्यास्त्रयः क्रमात्।
आश्रयाः सप्त सप्तानामित्यालम्बायनोऽब्रवीत्॥

अउ40.36
वेगान् धन्वन्तरिस्तद्वत् सर्पदष्टस्य मन्यते।
स्नाववर्जं तु तत्स्थाने दोषानिच्छति कोष्ठगान्॥

अउ40.37
धात्वन्तरेषु याः सप्त कलाः पूर्वं प्रकीर्त्तिताः।
अतीत्य तासामेकैकां वेगं प्रकुरुते विषम्॥

अउ40.38
तत्कालकल्पं कालेन कलामभ्येति यावता।
ऊह्यमानं समीरेण तावद्वेगान्तरं स्मृतम्॥

अउ40.39
मुनिना येन यत्तूक्तं तत्सर्वमिह दर्शितम्॥

अउ40.40
जीर्णं विषघ्नौषधिभिर्हतं वा दवाग्निवातातपशोषितं वा।
स्वभावतो वा न गुणैः सुयुक्तं दूषीविषाख्यां विषमभ्युपैति॥

अउ40.41
वीर्याल्पभावादविभाव्यमेतत्।
कफावृतं वर्षगणानुबन्धि॥

अउ40.42
तेनादिर्तो भिन्नपुरीषवर्णो दुष्टास्ररोगी तृडरोचकार्तः।
मूर्च्छन् वमन् गद्गदवाग्विमुह्यन् भवेच्च दूष्योदरलिङ्गजुष्टः॥

अउ40.43
आमाशयस्थे कफवातरोगी पित्ताशस्थेऽनिलपित्तरोगी।
भवेन्नरो ध्वस्थीशरोरुहाङ्गो विलूनपक्षः स यथा विहङ्गः।
स्थितं रसादिष्वथवा विचित्रान्।
करोति धातुप्रभवान्विकारान्॥

अउ40.44
प्राग्वाताजीर्णशीताभ्रदिवास्वप्नाहिताशनैः।
दुष्टं दूषयते धातूनतो दूषीविषं स्मृतम्॥

अउ40.45
स्थावरस्योपयुक्तस्य पूर्वे वेगेऽथ जायते।
जिह्वायाः श्यावता स्तम्भो मूर्च्छा त्रासः क्लमो वमिः॥

अउ40.46
द्वितीये वेपथुः स्वेदो कण्ठे च वेदनाः।
विषं चामाशयं प्राप्तं कुरुते हृदि वेदनाम्॥

अउ40.47
तालुशोषस्तृतीये तु शूलं चामाशये भृशम्।
दुर्बले हरिते शूने जायेते चास्य लोचने॥

अउ40.48
पक्वाशयगते तोदहिध्माकासान्त्रकूजनम्।
चतुर्थे जायते वेगे शिरसश्चातिगौरवम्॥

अउ40.49
कफप्रसेको वैवर्ण्यं पर्वभेदश्च पञ्चमे।
सर्वदोषप्रकोपश्च पक्वाधाने च वेदना॥

अउ40.50
षष्ठे संज्ञाप्रणाशश्च सुभृशं चातिसार्यते।
स्कन्धपृष्ठकटीभङ्गो भवेन्मृत्युश्च सप्तमे॥

अउ40.51
प्रथमे विषवेगेथ वान्तं शीताम्बुसेचितम्।
सर्पिर्मधुभ्यां संयुक्तमगदं पाययेद्द्रुतम्॥

अउ40.52
द्वितीये पूर्ववद्वान्तं विरिक्तं चानु पाययेत्।
तृतीयेऽगदपानं च हितं नस्यं तथाञ्जनम्॥

अउ40.53
चतुर्थे स्नेहसंयुक्तमगदं प्रतिभोजयेत्।
पञ्चमे मधुकक्वाथमाक्षिकाभ्यां युतं हितम्॥

अउ40.54
षष्ठेऽतिसारवत् सिद्धिरवपीडस्तु सप्तमे।
मूर्ध्नि काकपदं कृत्वा सासृग्वा पिशितं क्षिपेत्॥

अउ40.55
कोशातक्यग्निकः पाठा सूर्यवल्यमृताभयाः।
शेलुः शिरीषः किणिही हरिद्रे क्षुद्रसाह्वया।
पुनर्नवे त्रिकटुकं बृहत्यौ सारिवे बले॥

अउ40.56
एषां यवागूं निर्यूहे शीतां सघृतमाक्षिकाम्।
युञ्ज्याद्वेगान्तरे सर्वविषघ्नीं कृतकर्मणः॥

अउ40.57
तद्वन्मधूकमधुकपद्मकेसरचन्दनैः॥

अउ40.58
अगदान् वक्ष्यते चातः सिद्धान् पूर्वर्षिनिर्मितान्।
सर्वेषु सर्वावस्थेषु ये विषेषु परं हिताः॥

अउ40.59
चन्दनं कुङ्कुमं कुष्ठं काङ्क्षी लाक्षा प्रियङ्गवः।
मुस्तस्थौणेयशैलेयरोचनामदनप्लवम्॥

अउ40.60
श्रोवेष्टकीवडैङ्गलाविशालालमनश्शिलाः।
सुरसप्रसवस्पृक्कारजनीद्वयवालकम्॥

अउ40.61
हिङ्गुसिद्धार्थकाः पद्मचारिणी पद्मकेसरम्।
जात्याःपुष्पं प्रवालश्च पुष्पमर्कशिरीषयोः॥

अउ40.62
द्विरोध्रबृहती कौन्ती मधुकं गन्धनाकुली।
मुद्गपर्णीकणाश्यामा ध्यामकं नलदं नतम्॥

अउ40.63
सिन्दुवारकशम्याकदेवदारुमयूरकम्।
पुष्ये समाहृतैः पिष्टैर्योज्यस्तैरगदोत्तमः॥

अउ40.64
सञ्जीवनःप्रागमृताद्विहितोऽयं स्वयम्भुवा।
पाननस्याञ्जनाघ्राणधूमालेपनधारणैः॥

अउ40.65
जीवनो विषसुप्तानां राजद्वारे जयावहः।
धन्यो धान्यधनायुःश्रीक्षेमपुष्टिसुखप्रदः॥

अउ40.66
गृहे स्थितो विषालक्ष्मीमन्त्रज्वरगरग्रहान्।
कृत्याकार्मणकाखोर्दव्यालजन्तुसरीसृपान्॥

अउ40.67
स्वप्नोपघातदुःस्वप्नतोयाग्निरिपुतस्करान्।
निहन्त्यकालमरणमरकाशनिविग्रहान्॥

अउ40.68
चन्दनं वालकं मुस्तं ध्यामकं कटुका नतम्।
दाडिमं कुङ्कुमं शुण्ठी कपित्थं वत्सकात्फलम्॥

अउ40.69
करञ्जबीजं मरिचमुत्पलं कमलं दलम्।
नलमूलमपामार्गं करवीरकमञ्जनम्॥

अउ40.70
लाक्षामालत्यहिच्छत्रनागपुष्पाम्लवेतसम्।
विशालारोचनाश्यामा शङ्खपुष्पीप्रियङ्गुका॥

अउ40.71
अजाजी सारिवाकुष्ठमजमोजः कुरण्डकः।
वयस्था सिन्दुवारैला कायस्था चारटी वचा॥

अउ40.72
कर्कटी पूतना केशी श्वेता च गिरिकर्णिका।
गोलोमी सिंहलोमी च वर्षाभूर्गजपिप्पली।
अगदो यापनाख्योयं पूर्वेण सदृशो गुणैः॥

अउ40.73
श्रीवेष्टकं हरिद्रे द्वे कोविदारं मनःशिलाम्।
पिप्पलीं पाटलीं पद्मां श्वेतां च गिरिकर्णिकाम्।
मञ्जिष्ठां बृहतीं वक्रं यष्टी मरिचकेसरम्॥

अउ40.74
फलीनीं किणिहीं चेति गवां पित्तेन भावयेत्।
सूर्योदयो हन्ति विषं तमः सूर्योदयो यथा॥

अउ40.75
निम्बपत्रं गृहाद्धूमं फाणितं बृहतीफलम्।
गोपित्तयुक्तमगदः परमं मृतजीवनः॥

अउ40.76
गोपित्तकुष्ठसुरसं मधुकद्विनिशं तथा।
विशालारजनीकुष्ठश्वपित्तव्योषतुम्बुरु॥

अउ40.77
वचाशिरीषपञ्चाङ्गी मृतसञ्जीवनो गदः।
पञ्चाङ्गानि शिरीषस्य श्वपित्तं च वरोऽगदः॥

अउ40.78
प्रियङ्गु तगरं लाक्षा मञ्जिष्ठा मधुकं मधु।
हरिद्राचेत्ययं श्रेष्ठः कौटिल्यदयितोऽगदः॥

अउ40.79
विसंज्ञानां विषैर्घोरैः प्रहाअरैर्नष्टचेतसाम्।
उद्बन्धानां जलौघे च मृतानां चेतनावहः॥

अउ40.80
शिरीषफलकाकाण्डसुरसाग्रपुनर्नवैः।
कक्ष्यावायसिसंयुक्तैरगदः पूर्ववत् गुणैः॥

अउ40.81
कटुकालाबुमूलानि गवां पित्तेन कल्कयेत्।
ब्राह्मो धार्योयमगदः सर्वकर्मसु पूजितः॥

अउ40.82
अगारधूमस्रिवृता गोपित्तं त्र्यूषणं वचा।
प्राजापत्योयमगदः सर्वरक्षोविषापहः॥

अउ40.83
श्वेतापुष्करतुल्यांशैर्जीवन्त्याः कुसुमैः कृतः।
रुक्मपिष्टो मणिर्द्धार्यश्चाणक्येष्टो विषापहः॥

अउ40.84
मांसीत्वक्पत्रसुरसमनोह्वाशीतकुङ्कुमम्।
निशाव्याघ्रन्नखं शुण्ठी दशाङ्गोऽयं विषापहः।
उत्पातगण्डपिटकादिग्धविद्धविषापहः॥

अउ40.85
उदुम्बरत्वग्जम्ब्वस्थिमधुकोत्पलगैरिकैः।
चन्दनोशीरनलद नागकेसरपद्मकैः।
विशेषाद्विषविस्फोटविसर्पज्वरदाहहा॥

अउ40.86
शिरीषोदुम्बरप्लक्षन्यग्रोधाश्वत्थवल्कलैः।
सघृतो दाहतृष्णास्रविषवीसर्पपित्तहा॥

अउ40.87
गजपिप्पलिकासीसक्षारयष्टीमयूरकम्।
रक्ता नतं वचा दन्ती शिवः शिवकृतोऽगदः॥

अउ40.88
सुराला पावकी सोमा भोगवत्यमृता नतम्।
आढकी किणिही सोमराजी चौशनसोऽगदः॥

अउ40.89
श्लेष्मातकार्ककुसुमं तण्डुलीयो मयूरकः।
सुरसा मञ्जरी काकमाची पानेऽगदो वरः॥

अउ40.90
दध्याज्यक्षौद्रलवणं पीतं मूलविषापहम्।
हरिद्रासैन्धवक्षौद्रघृतं संसृज्य पाययेत्।
आर्तान् मूलविषैर्घोरैर्दिग्धविद्धान् विशेषतः॥

अउ40.91
हरिद्रान्तर्बहिःशस्ता विषदोषातुरे परम्॥

अउ40.92
निशाश्वमारसुरसकरञ्ञव्योषदारुभिः।
अञ्जनं बस्तमूत्रेण पिष्टैर्नेत्रोपरोधजित्॥

अउ40.93
कर्णाक्षिनासिकाकण्ठजिह्वारोगेषु नावनम्।
बीजपूरार्यबृहतीफलज्योतिष्मतीकृतम्॥

अउ40.94
श्वेता वचा हिङ्ग्वमृता सुगन्धा कुष्ठसैन्धवम्।
शिरीषपुष्पद्विनिशाव्योषटुण्टुकसर्षपाः॥

अउ40.95
कपित्थमध्यं लशुनं करञ्जो वंशलेखनम्।
पिष्ट्वा गोबस्तमूत्रेण तत्पित्तेनैव भावयेत्॥

अउ40.96
दिनानि सप्त व्यत्यासाद्विनिहन्ति ततोञ्जनात्।
विषं शिरस्थं मूर्द्धार्तिज्वरजीर्णविषूचिकाः॥

अउ40.97
अपस्मारग्रहोन्मादपाण्डुमेहमदात्ययान्।
शुष्कनेत्रामयशिरोरोगपैल्लगलार्बुदान्॥

अउ40.98
काचान्धकारपटलकण्डूदौर्बल्ययक्ष्मणः।
लेपात् पीतक्षतालीढदष्टदिग्धविषं जयेत्॥

अउ40.99
श्वित्रं कृच्छ्राणि कुष्ठानि दुष्टनाडी महाव्रणान्।
आनाहार्शो गुदे लेपाल्ललाटे दुष्टपीनसम्॥

अउ40.100
योनिलेपेन नारीणां मूढगर्भानुलोमनः।
उन्मूलयत्येष विषं गन्धहस्तीव काननम्॥

अउ40.101
विडङ्गपाठा त्रिफलाजमोदा हिङ्ग्वग्निवक्रं लवणस्यवर्गः।
व्योषान्वितं स्थावरजङ्गमानां जेता विषाणामगदोऽजिताख्यः॥

अउ40.102
मनोह्वा रोचना चण्डा त्वगेलासितसर्षपैः।
स्पृक्काहिंगुलकाश्मीरकान्ताभिःकल्कितोऽगदः।
विषघ्नो बालसूर्योयं श्रीरक्षाविजयर्द्धिदः॥

अउ40.103
अजगन्धा सगोमूत्रा गृहधूमः सुगुग्गुलुः।
एष माहेश्वरो योगो न क्वचित् प्रतिहन्यते॥

अउ40.104
विषदिग्धेन विद्धस्तु प्रताम्यति मुहुर्मुहुः।
विवर्णभावं भजते विषादं चाशु गच्छति॥

अउ40.105
कीटैरिवावृतं चास्य गात्रं चिमिचिमायते।
श्रोणिपृष्ठशिरःस्कन्धसन्धयः स्युः सवेदनाः॥

अउ40.106
कृष्णदुष्टास्रविस्रावी तृण्मूर्च्छाज्वरदाहवान्।
दृष्टिकालुष्यवमथुश्वासकासकरः क्षणात्॥

अउ40.107
शूयते पच्यते सद्यो गत्वा मांसं च कृष्णताम्।
प्रक्लिन्नं शीर्यतेऽभीक्ष्णं सपिच्छिलपरिस्रवम्॥

अउ40.108
कुर्यादमर्मविद्धस्य हृदयावरणं द्रुतम्।
शल्यमाकृष्य तप्तेन लोहेनानु दहेद्व्रणम्॥

अउ40.109
अथवा मुष्ककश्वेतासोमत्वक्ताम्रवल्लितः।
शिरीषात् गृध्रनख्याश्च क्षारेण प्रतिसारयेत्।
शुकनासाप्रतिविषाव्याघ्रीमूलैश्च लेपयेत्॥

अउ40.110
पीतदष्टचिकित्सां च कुर्यात्तस्य यथार्हतः।
व्रणे तु पूतिपिशिते क्रिया पित्तविसर्पवत्॥

अउ40.111
सौभाग्यार्थं स्त्रियो भर्त्रे राज्ञे वारातिचोदिताः।
गरमाहारसम्पृक्तं यच्छन्त्यासन्नवर्तिनः॥

अउ40.112
नानाप्राण्यङ्गशमलविरुद्धौषधिभस्मनाम्।
विषाणां चाल्पवीर्याणां योगो गर इति स्मृतः॥

अउ40.113
तेन पाण्डुः कृशोल्पाग्निः कासश्वासज्वरार्दितः।
वायुना प्रतिलोमेन स्वप्नचिन्तापरायणः॥

अउ40.114
महोदरयकृत्प्लीहो दीनवाग्दुर्बलोऽलसः।
शोफवान् सतताध्मातः शुष्कपादकरः क्षयी॥

अउ40.115
स्वप्ने गोमायुमार्जारनकुलव्यालवानरान्।
प्रायः पश्यति शुष्कांश्च वनस्पतिजलाशयान्॥

अउ40.116
मन्यते कृष्णमात्मानं गौरो गौरं च कालकः।
विकर्णनासानयनं पश्येत्तद्विहतेन्द्रियः॥

अउ40.117
एतैरन्यैश्च बहुभिः क्लिष्टो घोरैरुद्रवैः।
गरार्तो नाशमाप्नोति कश्चित्सद्योऽचिकित्सितः॥

अउ40.118
गरार्तो वान्तवान् भुक्त्वा तत्पथ्यं पानभोजनम्।
शुद्धहृच्छीलयेद्धेम सूत्रस्थानविधेः स्मरन्॥

अस40.119। शर्कराक्षौद्रसंयुक्तश्चूर्णस्ताप्यसुवर्णयोः।
लेहः प्रशमयत्युग्रं सर्वं योगकृतं विषम्॥

अउ40.120
मूर्वामृतानतकणापटोलीचव्यचित्रकान्।
वचामुस्तविडङ्गानि तक्रकोष्णाम्बुमस्तुभिः।
पिबेद्रसेन चाम्लेन गरोपहतपावकः॥

अउ40.121
पारावतामिषशठीपुष्कराह्वशृतं हिमम्।
गरतृष्णारुजाकासश्वासहिध्माज्वरापहम्॥

अउ40.122
वायसी श्वासकासघ्नी भृष्टाज्यत्रिफलारसे।
भार्ङ्गीनागरनिर्यूहः शिशिरश्च समाक्षिकः॥

अउ40.123
हरेणुचन्दनश्यामानलदं श्लक्ष्णपेषितम्।
विलेपनं प्रयोक्तव्यं गरेणोपहतत्वचः॥

अउ40.124
मञ्जिष्ठा किणिहीनिम्बरजन्यश्वत्थचन्दनैः।
प्रघर्षणं कृशानां तु गरेण क्षपितौजसाम्॥

अउ40.125
पथ्यं परममुद्दिष्टं शीलनं क्षीरसर्पिषोः॥

अउ40.126
वृषनिम्बपटोलीनां क्वाथेन् विपचेत् घृतम्।
अभयागार्भिणं श्रेष्ठं तत् गरस्य निबर्हणम्॥

अउ40.127
हरिद्रां नाकुलीं जातीं पृथक्पिष्ट्वा विपाचयेत्।
घृतत्रयं विषार्तानामेतदारोग्यदं परम्॥

अउ40.128
तण्डुलीयकमूलेन गृहधूमेन चैकतः।
क्षीरेण च घृतं सिद्धं समस्तविषरोगजित्॥

अउ40.129
नागदन्ती त्रिवृद्दन्ती द्रवन्ती स्नुक्पयः पलैः।
साधितं माहिषं सर्पिः सगोमूत्राढकं हितम्।
सर्पकीटविषार्तानां गरार्तानां च शान्तये॥

अउ40.130
मधुकं तगरं कुष्ठभद्रदारुहरेणवः।
मञ्जिष्ठैलैलवालूनि नागपुष्पोत्पलं प्लवम्॥

अउ40.131
विडङ्गं चन्दनं पत्रं प्रियङ्गुर्ध्यामकं बला।
अंशुमत्यौ हरिद्रे द्वे बृहत्यौ सारिवाद्वयम्॥

अउ40.132
एषां कल्कैर्घृतं सिद्धमजेयं नाम विश्रुतम्।
विषाणि हन्ति सर्वाणि शीघ्रमेव प्रयोजितम्॥

अउ40.133
श्वेते कपोते बीजानि प्रत्यक्पुषीशिरीषयोः।
गोमूत्रपिष्टैस्तैः सर्पिः सिद्धं बिषहरं परम्।
अमृतं नाम विख्यातमपि सञ्जीवयेन्मृतम्॥

अउ40.134
शिरीषत्वक् त्रिकटुकं विदारी चन्दनोत्पलम्।
द्वे बले सारिवास्फोतबृहतीनिम्बपल्लवाः॥

अउ40.135
बन्धुजीवाढकीमूर्वावासासुरसवत्सकाः।
पाठाङ्कोलाश्वगन्धार्कमूलयष्ट्याह्वपद्मकम्॥

अउ40.136
विशाला बृहती लाक्षा कोविदारशतावरीः।
कटभीदन्त्यपामार्ग पृश्निपर्णी रसाञ्जनम्॥

अउ40.137
श्वेतौ बाणाश्वखुरकौ कुष्ठदारुप्रियङ्गुकाः।
सारं मधूकात्रिफलां करञ्जस्यफलं वचाम्॥

अउ40.138
रजन्यौ लोध्रमक्षांशं पिष्ट्वा साध्यं घृताढकम्।
तुल्याम्बुछागगोमूत्रत्र्याढके तद्विषापहम्॥

अउ40.139
अपस्मारक्षयोन्मादभूतग्रहगरोदरान्।
पाण्डुरोगकृमिप्लीहगुल्मोरुस्तम्भकार्मलाः॥

अउ40.140
हनुस्तम्भग्रहादींश्च पानाभ्यञ्जननावनैः।
हन्ति सञ्जीवयति च विषोद्बन्धमृतान् नरान्॥

अउ40.141
भक्षिते हरिताले तु हृदि दाहोरसाग्रहः।
आनाहोम्लस्य वमनं पीतहारिद्रविट्स्रुतिः।
तथा मण्डलिसर्पोक्ता विकारास्तच्च भेषजम्॥

अउ40.142
विभज्य योजयेत् ऊर्ध्वमधः संशोधितं च तम्।
अङ्कोलजालिनीबीजशुकनासाप्रियङ्गुकाः।
लोध्रध्यामकतालीसनतयष्ट्याह्वगुग्गुलुः॥

अउ40.143
हीबेरं भद्रकाष्ठं च लेहयेन्मधुसर्पिषा।
दद्यान्नकुलगोपित्तयुक्तं नस्येञ्जने च तत्॥

अउ40.144
धुर्धूरकोपयोगेन सर्वं पश्यति पीतकम्।
कम्पलालामदच्छर्दिस्मृतिभ्रंशभ्रमान्वितः।
तं वामयेत मधुरैः पाययेद्वा सितापयः॥

अउ40.145
कोरदूषैर्मदनकैः प्रायो धुर्धूरवत् गदाः।
उन्मादोक्षिविनाशश्च तत्रापि वमनं हितम्।
कूष्माण्डकं च सगुडं बहुशस्तत्र भक्षयेत्॥

अउ40.146
नानाप्रकारैः संयोगैः कोद्रवा मदहेतवः।
तान्विभज्य यथादोषं चिकित्सेदविरोधिभिः॥

अउ40.147
दूंषीविषार्तं सुस्विन्नमूर्ध्वं चाधश्च शोधितम्।
दूषीविषारिमगदं लेहयेन्मधुनाप्लुतम्॥

अउ40.148
पिप्पल्योध्यामकं मांसी लोध्रमेला सुवर्चिका।
कुटन्नटं नतं कुष्ठं यष्टी चन्दनगैरिकम्।
दूषीविषारिर्नाम्नायं नचान्यत्रापि वार्यते॥

अउ40.149
हरीतकी सलवणा मागधी मरिचानि च।
एतद्दूषीविषार्तानां काश्यपोक्तं विरेचनम्॥

अउ40.150
युञ्ज्याद्वा विषरोगेषु रेके व्योषादिकं भिषक्॥

अउ40.151
तरुणस्य पलाशस्य स्रुतं क्षारोदकं पचेत्।
क्वाथे तत्र प्रतीवापं प्रक्षिपेच्छ्रलक्ष्णचूर्णितम्॥

अउ40.152
व्योषं शिरीषकुसुमं मधुकं सारिवे मिसिम्।
कुष्ठं वेल्लनिशे लाक्षां शुक्लां सुरसमञ्जरीम्॥

अउ40.153
सिन्धूत्थं रक्तमृन्मांसीं रेणुकां हिङ्गुबाल्हिकम्।
दर्वीप्रलेपि तज्जातं गोविषाणे निधापयेत्॥

अउ40.154
क्षयगुल्मोदरार्शांसि मेहं मन्दाग्नितां ज्वरम्।
त्वग्दोषकासापस्मारग्रहोन्मादभगन्दरान्॥

अउ40.155
पाण्डुं कण्ठस्वरगदान् प्लीहानं श्वयथुं कृमीन्।
कोलमात्रमतः खादन् जयेत् सर्वविषाणि च॥

अउ40.156
विषं तेजोमयं मन्त्रैः सत्यब्रह्मतपोमयैः।
यथा निवार्यते शीघ्रं प्रयुक्तैर्न तथौषधैः॥

अउ40.157
न तु सर्वमनुष्याणां सन्ति भेषजसम्पदः।
अज्ञातरोगसद्भावे योग्यता चातिदुर्लभा॥

अउ40.158
प्रकुप्यति विषं भूयः केवलैश्चौषधैर्जितम्।
अवाप्तौ सिद्धमन्त्राणां यतेतातश्चिकित्सकः॥

अउ40.159
तेऽपि च व्रतहीनस्य हीना वा स्वरवर्णतः।
यस्मान्न सिद्धिमायान्ति तस्माद्योज्योऽगदक्रमः॥

अउ40.160
विषप्रकृतिकालान्नदोषदूष्यादिसङ्गमे।
विषसङ्कटमुद्दिष्टं शतस्यैकोत्र जीवति॥

अउ40.161
क्षुत्तृष्णाघर्म्मदौर्बल्यक्रोधशोकभयश्रमैः।
अजीर्णवर्चोद्रवता पित्तमारुतवृद्धिभिः॥

अउ40.162
तिलपुष्पफलाध्राणभूबाष्पघनगर्जितैः।
हस्तिमूषिकवादित्रनिस्वनैर्विषसङ्कटैः।
पुरोवातोत्पलामोदमदनैर्बर्धते विषम्॥

अउ40.163
वर्षासु चाम्बुयोनित्वात् सङ्क्लेदं गुडवद्गतम्।
विसर्पति घनापाये तदगस्त्यो हिनास्ति च।
प्रयाति मन्दवीर्यत्वं विषं तस्मात् घनात्यये॥

अउ40.164
इति प्रकृतिसात्म्यर्तुस्थानवेगबलाबलम्।
आलोच्य निपुणं बुध्या कर्मानन्तरमाचरेत्॥

अउ40.165
श्लैष्मिकं वमनैरुष्णरूक्षतीक्ष्णैः प्रलेपनैः।
कषायकटुतिक्तैश्च भोजनैः शमयेद्विषम्॥

अउ40.166
पैत्तिकं स्रंसनैः सेकप्रदेहैर्भृशशीतलैः।
कषायतिक्तमधुरैर्घृतयुक्तैश्च भोजनैः॥

अउ40.167
वातात्मकंजयेत्स्वादुस्निग्धाम्ललवणान्वितैः।
सघृतैर्भोजनालेपैस्तथैव पिशिताशनैः॥

अउ40.168
नाघृतं स्रंसनं शस्तं प्रलेपो भोज्यमौषधम्।
सर्वेषु सर्वावस्थासु विषेषु न घृतोपमम्।
विद्यते भेषजं किञ्चिद्विशेषात् प्रबलानिले॥

अउ40.169
रक्तगे स्रावयेद्रक्तं पित्तवच्च क्रियाक्रमः।
दूषीविषे पुनस्तत्स्थे पञ्चकर्माणि चाचरेत्॥

अउ40.170
गण्डूषैः कवलैः प्राशैस्तीक्ष्णैः प्रधमनाञ्जनैः।
शिरोगतं प्रशमयेद्विषसङ्क्रमणैस्तथा॥

अउ40.171
विषदुष्टकफस्रोतोरुद्धवायुर्मृतोपमः।
यःस्यादसाध्यलिङ्गैश्च रहितस्तस्य योजयेत्॥

अउ40.172
मूर्ध्निं काकपदं कृत्वा कल्कं चर्मकसोद्भवम्।
ध्मापनं चास्य कटभीजालिनी कटुकैर्हितम्॥

अउ40.173
आशये यस्य दोषस्य विषं तिष्ठति तं पुनः।
आश्रयाश्रयिणोर्विद्वानविरोधेन साधयेत्॥

अउ40.174
क्षारागदः कफस्थानस्थिते स्वेदः सिराव्यधः।
पित्ते क्षौद्रपयोम्लाज्यपानसेकावगाहनम्।
स्वेदो वाताशये दध्ना पानं च नतकुष्ठयोः॥

अउ40.175
क्षीरेणागदगर्मेण मदनस्य फलेन च।
आस्थापनं प्रयुञ्जीत वाताशयगते विषे॥

अउ40.176
पचेद्यष्टीमधुक्वाथे तैलं क्षीरचतुर्गुणम्।
त्रिफला सर्पवेताली शतपुष्पेन्दुराजिभिः॥

अउ40.177
अनन्तया च तत्पाननावनाभ्यङ्गबस्तिषु।
भोजने च प्रणिहितं हन्ति वाताशयाद्विषम्॥

अउ40.178
वलया सोमराज्या वा पचेत् पाटलयाथवा।
घृतमण्डसमं तैलमानुवासनिकं परम्॥

अउ40.179
विषोपद्रवपथ्यं च वीक्ष्य युञ्ज्याद्यथामयम्॥

अउ40.180
अयत्नाच्छ्लेष्मगं साध्यं यत्नात्पित्ताशयाश्रितम्।
सुदुस्साधमसाध्यं वा वाताशयगतं विषम्॥

इति चत्वारिंशोऽध्यायः।