अष्टाङ्गसंग्रहः उत्तरस्थानम् अध्याय ३१-३५
अथ एकत्रिंशोऽध्यायः।
अउ31.1
अथातः सद्योव्रणप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
अउ31.2
आगन्तोर्व्रणस्य प्रागुपदिष्टः सम्भवः।
तत्र तत्र यथायथं प्रतीकारश्च।
विविधाभिघातजनितैस्तु सुबह्वाकृतिभिरपि सद्योव्रणैरधिष्ठितमङ्गं समासात् त्रिविधं भवति छिन्नं विद्धं पिच्चितं च।
त्रिविधमपि चैतत्त्वगादिक्षणनात् क्षतमित्युच्यते॥
अउ31.3
तत्र छिन्नं पञ्चधा भिद्यते।
तद्यथा त्वक्छेदे घृष्टम्।
किञ्चिन्मांसस्याप्यवकृत्तम्।
तस्यैवावगाढस्य विशेषेण विशालमायतं च विच्छिन्नम्।
किञ्चिच्छेषेष्वस्थिस्नाय्वादिषु विलम्बितम्।
अशेषाङ्गछेदे पातितम्॥
अउ31.4
विद्धं त्वष्टविधम्।
तत्र मांसमनुप्राप्ते शल्येऽनुविद्धम्।
द्वितीये पार्श्वे त्वचमुन्नाम्योत्तुण्डितम्।
किञ्चिन्निस्सृतेऽतिविद्धम्।
सर्वथा निस्सृते निर्विद्धम्।
एतदेव चतुर्विधं कोष्ठे पृथुमुखैर्वा प्रहरणैः कुन्तादिभिर्विद्धमनुभिन्नं भिन्नोत्तुण्डितमतिभिन्नं निर्भिन्नमिति च संज्ञां लभते॥
अउ31.5
यत् पुनः प्रहारेण पीडनेन वा गात्रमस्थियुक्तमसृङ्मज्जप्लुतं पृथुतामापद्यते तत् पिच्चितम्।
तत् द्विविधम्।
सव्रणमव्रणं च।
तत्र सव्रणमुक्तम्।
अव्रणं पुनर्भङ्गेषूपदेक्ष्यते।
भवति चात्र॥
अउ31.6
सद्यः सद्योव्रणं सिञ्चेद्यष्टीमधुकसर्पिषा।
तीव्रव्यथं कवोष्णेन बलातैलेन वा पुनः॥
अउ31.7
क्षतोष्माणो निग्रहार्थं तत्कालविसृतस्य च।
कषायशीतमधुरस्निग्धा लेपादयो हिताः॥
अउ31.8
सद्योव्रणेष्वायतेषु सन्धानार्थं विशेषतः।
मधुसर्पिःप्रयुञ्जीत पित्तघ्नीश्च हिमाः क्रियाः॥
अउ31.9
ससंरम्भेषु कर्तव्यमूर्ध्वं चाधश्च शोधनम्।
उपवासो हितं भक्तं प्रततं रक्तमोक्षणम्॥
अउ31.10
घृष्टपिच्चितयोरेष सुतरामिष्यते विधिः।
तयोर्ह्यल्पं स्रवत्यस्रं पाकस्तेनाशु जायते॥
अउ31.11
अत्यर्थमस्रं स्रवति प्रायशोऽन्यत्र विक्षते।
ततो रक्तक्षयाद्ग्वायौ कुपितेऽतिरुजाकरे॥
अउ31.12
स्नेहपानपरीषेकस्वेदलेपोपनाहनम्।
स्नेहबस्तिं च कुर्वीत वातघ्नौषधसाधितम्॥
अउ31.13
इति साप्ताहिकः प्रोक्तः सद्योव्रणहितो विधिः।
सप्ताहात् गतवेगे तु पूर्वोक्तं विधिमाच्रेत्॥
अउ31.14
क्षालनाभ्यङ्गलेपेषु तस्मिन् दुष्टे प्रयोजयेत्।
आरग्द्वधादिकं वर्गं सुरसादिं च शोधनम्॥
अउ31.15
कल्कस्त्रिवृत्तिलैरण्डपत्रैर्योज्यः ससैन्धवैः।
वातिके पैत्तिके कुम्भयष्ट्याह्वरजनीतिलैः।
श्लैष्मिके तिलतेजोह्वानिकुम्भस्वर्जिकाग्निकैः॥
अउ31.16
एष दुष्टव्रणविधिः कुष्ठमेहव्रणेष्वपि॥
अउ31.17
प्रायः सामान्यकर्मेदं वक्ष्यते तु पृथक् पृथक्॥
अउ31.18
घृष्टे रुजं निगृह्याशु वर्णे चूर्णानि निक्षिपेत्।
कल्कादीन्यवकृत्ते तु विच्छिन्नप्रविलम्बिनोः।
सीवनं विधिनोक्तेन बन्धनं चानुपीडनम्॥
अउ31.19
असाध्यं स्फुटितं नेत्रमुदीर्णं लम्बते तु यत्।
सन्निवेश्य यथास्थानमव्याविद्धसिरं भिषक्॥
अउ31.20
पीडयेत् पाणिना पद्मपत्रव्यवहितेन तत्।
ततोऽस्य सेचने नस्ये तर्पणे च हितं हविः॥
अउ31.21
विपक्वमाजं यष्ट्याह्वजीवकर्षभकोत्पलैः।
सपयस्कैः परं तद्धि सर्वनेत्राभिघातजित्॥
अउ31.22
गलपीडावसन्नेक्ष्णि वमनोऽत्कासनक्षवाः।
प्राणायामोऽथवा कार्यः क्रिया च क्षतनेत्रवत्॥
अउ31.23
कर्णे स्थानातुच्युते स्यूते स्रोतस्तैलेन पूरयेत्॥
अउ31.24
कृकाटिकायां छिन्नायां निर्गच्छत्यपि मारुते।
समं निवेश्य बध्नीयात् स्यूत्व शीघ्रं निरन्तरम्॥
अउ31.25
आजेन सर्पिषा चात्र परिषेकः प्रशस्यते।
उत्तानोन्नानि भुञ्जीत शयीत च सुयन्त्रितः॥
अउ31.26
घातं शाखासु तिर्यक्स्थं गात्रे सम्यङ्निवेशिते।
स्यूत्वा वेल्लितबन्धेन बध्नीयात् घनवाससा।
चर्मणा गोष्फणाबन्धः कार्यश्चासङ्गते व्रणे॥
अउ31.27
पादौ विलम्बिमुष्कस्य प्रोक्ष्य नेत्रे च वारिणा।
प्रवेश्य वृषणौ सीव्येत् सीवन्या तुन्नसंज्ञया॥
अउ31.28
कार्यश्च गोष्फणाबन्धः कट्यामावेश्य पट्टकम्।
स्नेहसेकं न कुर्वीत तेन क्लिद्यति हि व्रणः॥
अउ31.29
कालानुसार्यगुर्वेलाजातीचन्दनपर्पटैः।
शिलादार्व्यमृतातुत्थैः सिद्धं तैलं च रोपणम्॥
अउ31.30
छिन्नां निश्शेषतः शाखां दग्ध्वा तेइलेन युक्तितः।
बध्नीयात् कोशबन्धेन ततो व्रणवदाचरेत्॥
अउ31.31
कार्यः शल्याहृते विद्धे क्रमो भङ्गात्तु पिच्चिते॥
अउ31.32
शिरसोऽपहृते शल्ये बालवर्तिं प्रवेशयेत्।
मस्तुलुङ्गस्रुतेः क्रुद्धो हन्यादेनं चलोऽन्यथा।
व्रणे रोहति चैकेइकं शनैरपनयेत् कचम्॥
अउ31.33
मस्तुलुङ्गस्त्रुतौ खादेन्मस्तिष्कानन्यजीवजान्।
शल्ये हृतेङ्गादन्यस्मात् स्नेहवर्तिं निधापयेत्॥
अउ31.34
दूरावगाढाः सूक्ष्मास्या ये व्रणाः स्रुतशोणिताः।
सेचयेच्चक्रतैलेन सूक्ष्मनेत्रार्पितेन तान्॥
अउ31.35
भिन्ने कोष्ठेऽसृजा पूर्णे मूर्च्छा हृत्पार्श्ववेदनाः।
ज्वरो दाहस्तृडाध्मानं भक्तस्यानभिनन्दनम्॥
अउ31.36
सङ्गो विण्मूत्रमरुतां श्वासः स्वेदोक्षिरक्तता।
लोहगन्धित्वमास्येऽस्य स्यात् गात्रे च विगन्धिता॥
अउ31.37
आमाशयस्थे रुधिरे रुधिरं छर्दयत्यपि।
आध्मानेनातिमात्रेण शूलेन च विशस्यते॥
अउ31.38
पक्वाशयस्थे रुधिरे सशूलं गौरवं भवेत्।
नाभेरधस्ताच्छीतत्वं खेभ्यो रक्तस्य चागमः॥
अउ31.39
अभिन्नोप्याशयः सूक्ष्मैः स्रोतोभिरभिपूर्यते।
असृजा स्यन्दमानेन पार्श्वैर्मूत्रेण बस्तिवत्॥
अउ31.40
तत्रान्तर्लोहितं शीतपादोच्छ्वासकराननम्।
रक्ताक्षं पण्डुवदनमानद्धं च विवर्जयेत्॥
अउ31.41
आमाशयस्थे वमनं हितं पक्वाशयाश्रिते।
विरेचनं निरूहश्च निःस्नेहोष्णैर्विशोधनैः॥
अउ31.42
यवकोलकुलत्थानां रसैः स्नेहविवर्जितैः।
भुञ्जीतान्नंयवागूं वा पिबेत् सैन्धवसंयुताम्॥
अउ31.43
अतिनिस्सृतरक्तस्तु भिन्नकोष्ठः पिबेदसृक्॥
अउ31.44
क्लिष्टच्छिन्नान्त्रभेदेन कोष्ठभेदो द्विधा स्मृतः।
मूर्च्छादयोऽल्पाः प्रथमे द्वितीयेत्वतिबाधकाः।
क्लिष्टान्त्रः संशये देही छिन्नान्त्रो नैव जीवति॥
अउ31.45
यथास्वं मार्गमापन्ना यस्य विण्मूत्रमारुताः।
व्युपद्रवः सभिन्नेऽपि कोष्ठे जीवत्यसंशयम्॥
अउ31.46
अभिन्नमान्त्रं निष्क्रान्तं प्रवेश्यं नत्वतोन्यथा।
उलुङ्गिलशिरोग्रस्तं तदप्येके वदन्ति तु॥
अउ31.47
प्रक्षाल्य पयसा दिग्धं तृण शोणित पांसुभिः।
प्रवेशयेत् क्लृप्तनखो घृतेनाक्तं शनैः शनैः।
क्षीरेणार्द्रीकृतं शुष्कं भूरिसर्पिः परिप्लुतम्॥
अउ31.48
अङ्गुल्या प्रमृशेत् कण्ठं जलेनोद्वेजयेच्च तम्।
तथान्त्राणि विशन्त्यन्तस्तत्कालं पीडयेत च॥
अउ31.49
व्रणसौक्ष्म्यात् बहुत्वाद्वा कोष्ठमान्त्रमनाविशत्।
तत्प्रमाणेन जठरं पाटयित्वा प्रवेशयेत्।
अउ31.50
यथास्थानस्थिते सम्यगान्त्रे सीव्येदनु व्रणम्।
स्थानादपेतमादत्ते जीवितं गुपितं च तत्॥
अउ31.51
वेष्टयित्वानुपट्टेन घृतेन परिषेचयेत्।
पाययेत ततः कोष्णं चित्रातैलयुतं पयः।
मृदुक्रियार्थं शकृतो वायोश्चाधः प्रवृत्तये॥
अउ31.52
त्वगश्वकर्णककुभबदरीसल्लकीधवात्।
तत्कल्कसाधितं तैलं प्रधानं व्रणरोपणम्॥
अउ31.53
अनुवर्तेत वर्षं च यथोक्तां व्रणयन्त्रणाम्॥
अउ31.54
उदरान्मेदसो वर्तिं निर्गतां भस्मना मृदा।
अवकीर्य कषायैर्वा श्लक्ष्णैर्मूले ततः समम्॥
अउ31.55
दृढं च बध्वा सूत्रेण वर्द्धयेत् कुशलो भिषक्।
तीक्ष्णेनाग्निप्रतप्तेन शस्त्रेण सकृदेव तु॥
अउ31.56
स्यादत्यथा रुगाटोपो मृत्युर्वा छिद्यमानया॥
अउ31.57
सक्षौद्रे च व्रणे बद्धे सुजीर्णेन्ने घृतं पिबेत्।
क्षीरं वा शर्कराचित्रालाक्षागोक्षुरकैः शृतम्।
रुग्दाहजित् सयष्ट्याह्वैः परं पूर्वोदितो विधिः॥
अउ31.58
मेदोग्रन्थ्युदितं चात्र तैलमभ्यञ्जने हितम्॥
अउ31.59
तालीसं पद्मकं मांसी हरेण्वगरुचन्दनम्।
हरिद्रे पद्मबीजानि सोशीरं मधुकं च तैः।
पक्वं सद्योव्रणेषूक्तं तैलं रोपणमुत्तमम्॥
अउ31.60
मूढप्रहाराभिहते पतिते विषमोच्चकैः।
कार्यं वातास्रजित्तृप्तिमर्दनाभ्यङ्गसेचनम्॥
अउ31.61
विश्लिष्टदेहं मथितं क्षीणं मर्महतं हतम्।
वासयेत्तैलपूर्णायां द्रोण्यां मांसरसाशिनम्॥
अउ31.62
प्रहर्तृयत्नायुधघातगात्रैः सद्योव्रणाः काममनन्तरूपाः।
तथापि न त्रित्वमतिक्रमन्ते चयादिभेदैरिव मारुताद्याः॥
इति एकत्रिंशोऽध्यायः॥
अथ द्वात्रिंशोऽध्यायः।
अउ32.1
अथातो भङ्गप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
अउ32.2
पतनपीडनप्रहाराक्षेपणव्यालदंशनप्रभृतिभिरभिघातविशेषैरनेकविधमस्थिभङ्गमुपदिशन्ति॥
अउ32.3
तत्तुभङ्गजातं द्व्यधिष्ठानं सन्धावसन्धौ च।
तत्र सन्धिमुक्तं षड्विधमुत्पिष्टं विश्लिष्टमवक्षिप्तमतिक्षिप्तं तिर्यक्क्षिप्तं विवर्तितमिति॥
अउ32.4
तस्य सामान्यलक्षणं प्रसारणाकुञ्चन विवर्तनाक्षेपणाशक्तिरुग्ररुजता स्पर्शासहिष्णुत्वं च॥
अउ32.5
अथोत्पिष्टे स्वस्थान एव सन्धावुभयतः शोफो वेदना विशेषतश्च रात्रौ भवति।
विश्लिष्टेल्पशोफो वेदनासातत्यं सन्धिविक्रिया च।
अवक्षिप्ते सन्धिविश्लेषस्तीव्रा च रुक्।
अतिक्षिप्ते द्वयोरपि सन्ध्यस्थ्नोरतिक्रान्तता वेदना च।
तिर्यक् क्षिप्तेत्वेकस्यास्थ्नः पार्श्वतो गमनमत्यर्थं वेदना च।
विवर्तिते सन्धिपार्श्वगमनाद्विषमाङ्गता वेदना च॥
अउ32.6
असन्धिभग्नं पुनर्द्वादशविधम्।
तद्यथा।
कर्कटकं वक्रं स्थुटितं वेल्लितमस्थिच्छल्लिकाश्वकर्णं पिच्चितं दारितं चूर्णितमतिपातितं शेषितं मज्जानुगतमिति॥
अउ32.7
श्वयथुबाहुल्यं स्पन्दनं विवर्तनं स्पर्शासहिष्णुता च पीड्यमाने शब्दः स्रस्ताङ्गता वेदनातिप्रवृत्तिः सर्वासु चावस्थासु शर्म न लभत इति साधारणमसन्धिभग्नरूपम्॥
अउ32.8
वैशेषिकं तु संव्यूढमुभयतोस्थिमध्यभग्नं ग्रन्थिरिवोन्नतं कर्कटकानुकारि कर्कटकम्॥
अउ32.9
आभुग्नमविमुक्तमस्थि वक्रम्।
शूकपूर्णमिवाध्मातं विपुलैकदारि स्फुटितम्॥
अउ32.10
द्विधाभूतं वेल्लते प्रकम्पमानं वेल्लितकम्॥
अउ32.11
पार्श्वतोऽस्थि हीनमुद्गतमस्थिच्छल्लिका॥
अउ32.12
अश्वकर्णवदुद्गतमश्वकर्णम्॥
अउ32.13
पृथुतां गतमनल्पशोफं पिच्चितम्॥
अउ32.14
अणुबहुविदारि वेदनावच्च दारितम्॥
अउ32.15
स्पृश्यमानं शब्दवच्चूर्णितम्॥
अउ32.16
अस्थ्यवयवोस्थिमध्यमनुप्रविशन्नतिपातितम्॥
अउ32.17
अन्यतरपार्श्वावशिष्टं शेषितम्॥
अउ32.18
क्षतं भग्नमुन्नम्यमानं मज्ञि मज्जति मज्जानुगतम्॥
अउ32.19
एषामन्त्यानि पञ्च कृच्छ्रसाध्यानि कृशातिबालवृद्धासहानामत्याशिनां वातात्मकानां कुष्ठिनामुपद्रववतां च॥
अउ32.20
असाध्यं तु भिन्नं कटीकपालं सन्धिमुक्तं वा जघनमुत्पिष्टं कूर्परो विवर्तितस्तथा ललाटं चूर्णितमसंश्लिष्टकपालं च शिरः शंखपृष्ठस्तनान्तरभङ्गं चेति।
भवन्ति चात्र॥
अउ32.21
अथावनतमुन्नाम्यमुन्नतं चावपीडयेत्।
आञ्छेदधिक्षिप्तमधोगतं चोपरि वर्तयेत्।
आञ्छनोत्पडिनोन्नामचर्मसङ्क्षेपबन्धनैः॥
अउ32.22
सन्धीन् शरीरगान् सर्वांश्चलानप्यचलानपि।
इत्येतैः स्थापनोपायैः सम्यक्संस्थाप्य निश्चलम्।
पट्टैः प्रभूतसर्पिर्भिर्वेष्टयित्वा सुखैस्ततः॥
अउ32.23
कदम्बोदुम्बराश्वथसर्जार्जुनपलाशजैः।
वंशोद्भवैर्वा पृथुभिस्तनुभिः सुनिवेशितैः॥
अउ32.24
सुश्लक्ष्णैः सप्रतिष्टम्भैर्वल्कलैः शकलैरपि।
कुशाह्वयैः समं बन्धं पट्टस्योपरि योजयेत्॥
अउ32.25
शिथिलेन हि हि बन्धेन सन्धिस्थैर्यं न जायते।
गाढेनातिरुजादाहपाकश्वयथुसम्भवः॥
अउ32.26
त्र्यहात्त्र्यहादृतौ घर्मे सप्ताहन्मोक्षयेद्धिमे।
साधारणे तु पञ्चाहात् भङ्गदोषवशेन वा॥
अउ32.27
न्यग्रोधादिकषायेण ततः शीतेन सेचयेत्।
तं पञ्चमूलपक्वेन पयसा तु सवेदनम्॥
अउ32.28
सुखोष्णं चावचार्यं स्याच्चक्रतैलं विजानता।
विभज्य देशं कालं च वातघ्नौषधसंयुतम्॥
अउ32.29
प्रततं लेपसेकांश्च विदध्यात् भृशशीतलान्।
गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम्।
प्रातः प्रातः पिबेत् भग्नः शीतलं लाक्षयायुतम्॥
अउ32.30
सव्रणस्य तु भग्नस्य व्रणो मधुघृतोत्तरैः।
कषायैः प्रतिसार्योऽथ शेषो भङ्गोदितः क्रमः॥
अउ32.31
लम्बानि व्रणमांसानि प्रलिप्य मधुसर्पिषा।
सन्दधीत व्रणान् वैद्यो बन्धनैश्चोपपादयेत्॥
अउ32.32
तान्समान्सुस्थितान्ज्ञात्वा फलिनीलोध्रकट्फलैः।
समङ्गाधातकीयुक्तैश्चूर्णितैरवचूर्णयेत्॥
अउ32.33
पञ्चवल्कलचूर्णैर्वा मधुशुक्तसमन्वितैः।
धातकीलोध्रचूर्णैर्वा रोहन्त्याशु तथा व्रणाः॥
अउ32.34
विश्लिष्टोत्पिष्टयोः सन्धिमेवमेवाविघट्टयन्।
उपाचरेद्यथास्वं च विसर्पादीनुपद्रवान्॥
अउ32.35
इति भङ्ग उपक्रान्तः स्थिरधातोरृतौ हिमे।
मांसलस्याल्पदोषस्य सुसाधो दारुणोऽन्यथा॥
अउ32.36
पूर्वमध्यान्तवयसामेकद्वित्रिगुणैः क्रमात्।
मासैः स्थैर्यं भवेत् सन्धेर्यथोक्तं भजतां विधिम्॥
अउ32.37
सामान्यं साधनमिदं विशेषो वक्ष्यतेत्वतः॥
अउ32.38
नखसन्धिं समुत्पिष्टं रक्तानुगतमारया।
अवमथ्य स्रुते रक्ते शालिपिष्टेन लेपयेत्॥
अउ32.39
भग्नान् सन्धिविमुक्तांश्च कृत्वा पूर्ववदङ्गुलीन्।
तनुनावेष्ट्य पट्टेन घृतसेकं प्रदापयेत्॥
अउ32.40
चक्रयोगेन मतिमानाञ्छेदूर्वास्थि निर्गतम्॥
अउ32.41
आञ्च्छेदूर्ध्वमधस्ताच्च कटीभग्नं चिकित्सकः॥
अउ32.42
मुसलेनोत्क्षिपेत् कक्षमंससन्धौ विसङ्गते।
स्थानस्थितं च बध्नीयात् स्वस्तिकेन समाहितः॥
अउ32.43
कौर्परं तु भिषक्सधिमंगुष्ठेनानुमार्जयेत्।
अनुमृज्य ततः सन्धिं पीडयेत् कूर्पराच्च्युतम्।
प्रसार्याकुञ्चयेच्चैनं स्नेहसकं च कारयेत्॥
अउ32.44
मणिबन्धे च जानौ च गुल्फे चैषः क्रियाक्रमः॥
अउ32.45
उभे तले समे कृत्वा तलभग्नस्य दोहिनः।
बध्नीयादामतैलेन परिषेकं च कारयेत्॥
अउ32.46
प्राग्गोमयमयं पिण्डं धारयेन्मृन्मयं ततः।
हस्ते जातबले कार्यं क्रमात् पाषाणधारणम्॥
अउ32.47
सन्नमुन्नामयेत् स्विन्नमक्षकं मुसलेन तु।
तथोन्नतं पीडयेत बध्नीयान्निबिडं ततः॥
अउ32.48
ऊरुवच्च विधातव्यं बाहुभङ्गे प्रसाधनम्॥
अउ32.49
ग्रीवायां तु विवृत्तायां प्रविष्टायामधोपि वा।
अवटावथ हन्वोश्च प्रगृह्योन्नमयेच्छिरः।
समं कुशाभिर्बध्नीयादुत्तानं शाययेच्च तम्॥
अउ32.50
हन्वस्थिनी समानीय हनुसन्धौ विसङ्गते।
स्वेदयित्वा स्थितेसम्यक् पञ्चाङ्गीबन्धमाचरेत्।
घृतं वातघ्नमधुरैः सिद्धं नस्यं च पूजितम्॥
अउ32.51
दन्तानभग्नांश्चलितान् सरक्तानवपीडयेत्।
वयस्थस्याम्बुभिः शीतैः परिषिच्य प्रलेपयेत्॥
अउ32.52
बहिर्निर्वापणैरन्तः सन्धानीयैरुपाचरेत्।
लाद्वयशृते क्षीरे पद्मकादिशृतं घृतम्॥
अउ32.53
नस्यगण्डूषयोर्योज्यं चलद्विजहितानि च।
कल्कितैस्तद्धितैश्चास्य दन्तमांसानि लेपयेत्।
त्रीन्मासान्मृदु भुञ्जीत रसान्नं कठिनांस्त्यजेत्॥
अउ32.54
नासां विवृत्तां सन्नं वा ऋजूकृत्य शलाकया।
प्रत्येकं नस्ततो नाडीं द्विमुखीं सम्प्रवेशयेत्।
ततः पट्टेन संवेष्त्य घृतसेकं प्रदापयेत्॥
अउ32.55
भग्नं कर्णं घृताभ्यक्तं न्यस्य बन्धेन योजयेत्।
सद्यःक्षतविधानं च ततः पश्चात् समाचरेत्॥
अउ32.56
कटीजङ्घोरुभग्नानां कवाटशयनं हितम्।
यन्त्रणार्थं ततः कीलाः पञ्च कार्या निबन्धनाः।
जङ्गो रुपार्श्वयोर्द्वौ द्वौ तल एकश्च कीलकः॥
अउ32.57
श्रोण्यां वा पृष्ट्वंशे वा वक्षस्यक्षकयोस्तथा।
विमोक्षे भग्नसन्धीनां विधिमेनं समाचरेत्॥
अउ32.58
सन्धींश्चिरविमुक्तांस्तु स्निग्धस्विन्नान् मृदूकृतान्।
ऊक्तैर्विधानैर्बुध्या च यथास्वं स्थानमानयेत्॥
अउ32.59
असन्धिभग्ने रूढे तु विषमोल्बणसाधिते।
आपोथ्य भग्नं यमयेत्तत्तो भग्नवदाचरेत्॥
अउ32.60
भङ्गो नैति यथा पाकं प्रयतेत तथा भिषक्।
पक्वमांससिरास्नायुः सन्धिः श्लेषं न गच्छति॥
अउ32.61
वातव्याधिविनिर्दिष्टान् स्नेहान् भग्नस्य योजयेत्।
चतुष्प्रयोगान् बल्यांश्च बस्तिकर्म च शीलयेत्॥
अउ32.62
शालिक्षीररसाज्याद्यैः पौष्टिकैरविदाहिभिः।
मात्रयोपचरेत् भग्नं सन्धिसंश्लेषकारिभिः॥
अउ32.63
ग्लानिर्न शस्यते तस्य सन्धिविश्लेषकृद्धि सा॥
अउ32.64
लवणं कटुकं क्षारमम्लं मैथुनमातपम्।
व्यायामं च न सेवेत भग्नो रूक्षं च भेषजम्॥
अउ32.65
सम्यग्यमितमप्यस्थि दुर्न्यासाद्दुर्निबन्धनात्।
सङ्क्षोभादपि यत् गच्छेद्विक्रियां तद्विवर्जयेत्।
आदितो यच्च दुर्जातमस्थि सन्धिरथापि वा॥
अउ32.66
तरुणास्थीनि भुज्यन्ते भज्यन्ते नलकानि तु।
कपालानि विभिद्यन्ते स्फुटन्त्यन्यानि भूयसा॥
अउ32.67
अनुल्बणमनाविद्धं स्वस्थाने पर्यवस्थितम्।
अवेदनं च चेष्टायां भग्नं विद्यात् सुसाधितम्॥
अउ32.68
कृष्णास्तिलान्विरजसो दृढवस्त्रबद्धान् सप्तक्षपा बहति वारिणि वासयेत्।
संशोषयेदनुदिनं प्रतिसार्य चैनान् क्षीरे तथैव मधुकक्वथिते च तोये॥
अउ32.69
पुनरपि पीतपयस्कांस्तान् पूर्ववदेव शोषितान् बाढम्।
विगततुषानरजस्कान् संचूर्ण्य विचूर्णितैर्युञ्ज्यात्॥
अउ32.70
नलदवालकलोहितयष्टिका नखमिसिप्लवकुष्ठबलात्रयैः।
अगरुकुङ्कुमचन्दनसारिवा सरलसर्जरसामरदारुभिः॥
अउ32.71
पद्मकादिगणोपेतैस्तिलपिष्टं ततश्च तत्।
समस्तगन्धभैषज्यसिद्धदुग्धेन पीडयेत्॥
अउ32.72
शैलेयरास्नाशुमतीकशेरुकालानुसारीनतपत्रलोध्रैः।
सक्षीरशुक्लैः सपयः सदूर्वैस्तैलं पचेत्तन्नलदादिबिश्च॥
अउ32.73
गन्धतैलमिदमुत्तममस्थिस्थैर्यकृज्जयति चाशु विकारान्।
वातपित्तजनितानतिवीर्यं व्यापिनोऽपिविविधैरुपयोगैः॥
॥इति द्वात्रिंशोऽध्यायः॥
अथ त्रयस्त्रिंशोऽध्यायः।
अउ33.1
अथातो भगन्दरप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
अउ33.2
हस्त्यश्वपृष्ठगमनकठिनोत्कटकासनैः।
अर्शोनिदानाभिहितैरपरैश्च निषेवितैः॥
अउ33.3
अनिष्टदिष्टपाकेन सद्यो वा साधुगर्हणैः।
प्रायेण पिटकापूर्वो योङ्गुले द्व्यङ्गुलेपि॥
अउ33.4
पायोर्व्रणोऽन्तर्बाह्यो वा दुष्टासृङ्मांसगो भवेत्।
बस्तिमूत्राशयाभ्याशगतत्वात् स्यन्दनात्मकः॥
अउ33.5
भगबस्तिगुदान्तेषु दीर्यमाणेषु भूरिभिः।
वातं मूत्रं शकृच्छुक्रं खैः सूक्ष्मैर्वहति क्रमात्॥
अउ33.6
दोषैः पृथग्युतैः सर्वैरागन्तुः सोऽष्टमः स्मृतः॥
अउ33.7
अपक्वं पिटकामाहुः पाकप्राप्तं भगन्दरम्॥
अउ33.8
गूढमूलां ससंरम्भां रूदाढ्यां रूढकोपिनीम्।
भगन्दरकरीं विद्यात् पिटकां नत्वतोन्यथा॥
अउ33.9
तत्र श्यावारुणा तोदभेदस्फुरणरुक्वरी।
पिटका मारुतात् #
अउ33.10
पित्तादुष्ट्रग्रीवावदुच्छ्रिता।
रागिणी तनुरूष्माढ्या ज्वरधूमायनान्विता॥
अउ33.11
स्थिरा स्निग्धा महामूला पाण्डुःकण्डूमती कफात्॥
अउ33.12
श्यावाताम्रा सदाहोषा घोररुग्वातपित्तजा॥
अउ33.13
पाण्डुरा किञ्चिदाश्यावा कृच्छ्रपाका कफानिलात्॥
अउ33.14
पादाङ्गुष्ठसमा सर्वैर्दोषैर्नानाविधव्यथा।
शूलारोचकतृङ्दाहज्वरच्छार्दिरुपद्रुता॥
अउ33.15
व्रणतां यान्ति ताः पक्वाः प्रमादात् तत्र वातजा।
चीयतेऽणुमुखैश्छिद्रैः शतपोनकवत् क्रमात्।
अच्छं स्रवद्भिरास्रावमजस्रं फेनसंयुतम्॥
अउ33.16
शतपोनकसंज्ञोऽयं उष्ट्रग्रीवस्तु पित्तजः॥
अउ33.17
बहुपिच्छापरिस्रावी परिस्रावी कफोद्भवः॥
अउ33.18
वातपित्तात् परिक्षेपी परिक्षिप्य गुदं गतिः।
जायते परितस्तत्र प्राकारं परिखेव च॥
अउ33.19
ऋजुर्वातकफादृज्व्या गुदो गत्यावदीर्यते॥
अउ33.20
कफपित्ते तु पूर्वोत्थं दुर्नामाश्रित्य कुप्यतः।
अर्शोमूले ततः शोफः कण्डूदाहादिमान् भवेत्॥
अउ33.21
स शीघ्रं पक्वभिन्नोस्य क्लेदयन् मूलमर्शसः।
स्रवत्यजस्रं गतिभिरयमर्शोभगन्दरः॥
अउ33.22
सर्वजः शम्बुकावर्तः शम्बुकावर्तसन्निभः।
गतयो दारयन्त्यस्मिन् रुग्वेगैर्दारुणैर्गुदम्॥
अउ33.23
अस्थिलेशोऽभ्यवहृतो मांसगृध्या यदा गुदम्।
क्षिणोति तिर्यङ्निर्गच्छन्नुन्मार्गं च ततो गतिः॥
अउ33.24
स्यात्तदा पूयदीर्णायां मांसकोथेन तत्र च।
जायन्ते कृमयस्तेऽस्य खादन्तः परितो गुदम्।
विदारयन्ति न चिरादुन्मार्गी क्षतजश्च सः॥
अउ33.25
तेषु रुग्दाहकण्ड्वादीन् विद्याद्व्रणविभक्तितः॥
अउ33.26
षट् कृच्छ्रसाधनास्तेषां निचयक्षतजौ त्यजेत्।
प्रवाहिणीं बलीं प्राप्तं सेवनीं वा समाश्रितम्॥
अउ33.27
अथ भगन्दारिणमपक्वपिटकं पाकपरिहाराथमपतर्पणेन व्रणप्रतिषेधविहितेन शीघ्रमुपाचरेत्॥
अउ33.28
पक्वपिटकं पुनरुपस्निग्धमर्कादिक्वाथशुद्धं स्वभ्यक्तमवगाहस्विन्नं भुक्तवन्तं शयनस्थमर्शसमिव यन्त्रयित्वा पराचीनमर्वाचीनं बहिर्मुखमन्तर्मुखं वा भगन्दरं सम्यगीक्षेत॥
अउ33.29
ततोऽन्तर्मुखे यन्त्रं प्राणिधाय प्रवाहणप्रविष्टं भगन्दरमभिसमीक्ष्य सम्यगेषित्वा शस्त्रेण पाटयेत्।
बहिर्मुखेत्वेषाणीं प्रणिधाय साशयमुद्धरेच्छस्त्रेणानन्तरं चोऽभयमप्यग्निना क्षारेण चोपत्रमेत उष्ठग्रीवं तु क्षारेणैव॥
अउ33.30
ततो निर्वापणशोधनरोपणैर्यथाकालं साधयोदिति सामान्यो विधिः॥
अउ33.31
अथ शतपोनके नाडीरेकान्तरिताः पाटयित्वा रोपयेत्।
रूढासु चेतराश्चिकित्सेत्।
अन्यथा तु विवृत्तं व्रणं गुदस्रोतोविदारणाद्वातविण्मूत्राण्यनुप्रपद्यन्ते।
ततश्चोन्मार्गगो वायुराध्मानाटोपपायुशूलादीनुपजनयति।
तत्र स्नेहाभ्यक्तगुदस्य स्निग्धान् पिण्डनाडीकुम्भीस्वेदान् प्रयुञ्जीतावगाहं वा।
स्विन्नं च वच हिंगुकुष्ठव्योषलवणपञ्चकाजमोदान् सर्पिर्मद्याकाञ्जिककुलत्थयूषान्यतमेन पाययेत्।
व्रणं चास्य मधुकतैलेनोष्णेन सिञ्चेत्।
गुदं च बलातैलादिभिर्वातघ्नैः।
अनेन विधिना वाय्वादयः स्वमार्गमापतन्ति।
तत्कृताश्च विकारा निवर्तन्ते॥
अउ33.32
एवमेव च परिक्षेपिण्यामपि क्रमात् गतिं नाडीविहितेन क्षारसूत्रेण द्विशस्त्रिशोवावदारयेत्।
सकृदेवह्यवदरणादसाध्यता याप्यता वा स्यात्॥
अउ33.33
अर्शोभगन्दरे पूर्वमर्शांसि च्छिन्द्यात् ततो गत्यनुसारेण भगन्दरम्॥
अउ33.34
उन्मार्गिणं तु प्रत्याख्यायोपाचरेत्।
अनिस्सृतं च शल्यमाहरेत्।
तथा कृमिघ्नं क्रममालेपाभ्यवहारयोः कुर्वीत।
वेदनायां तु पूर्वोक्ताः स्वेदाः।
वचादिपाचनं च।
साल्वलप्रदिग्धं वा व्रणं कदलीमृगलोपाकाजिनकौशेयाविकैरुपनाहयेदिति।
भवति चात्र॥
अउ33.35
भगन्दरे बहुच्छिद्रे छेदानालोच्य योजयेत्।
गोतीर्थं सर्वतोमद्रमर्धलाङ्गललाङ्गलौ॥
अउ33.36
पार्श्वागतेनशस्त्रेण छेदो गोतीर्थको मतः।
सर्वतः सर्वतोभद्रः पार्श्वच्छेदोर्धलाङ्गलः॥
अउ33.37
पार्श्वद्वये लाङ्गलकः समस्तांश्चाग्निना दहेत्।
आस्रावमार्गान् निश्शेषं नैवं विकुरुते पुनः॥
अउ33.38
यतेत् कोष्ठशुध्यै च भिषक् तस्यान्तरान्तरा॥
अउ33.39
आर्द्रकस्य रसे सिद्धं कल्के वा पाययेत् घृतम्।
भगन्दरे मारुतजे पक्वापक्वे विरेचयेत्॥
अउ33.40
ज्योतिष्मतीलाङ्गलिकाश्यामादन्तीत्रिवृत्तिलाः।
कुष्ठं शतह्वा गोलोमी तिल्वको गिरिकर्णिका।
हेमक्षीरी च वर्गोयं लेपाद्यैर्व्रणशोधनः॥
अउ33.41
तिलकुम्भवरादन्ती तुत्थसिन्धूत्थमाक्षिकम्।
सकृष्णरोचनाकुष्ठं शोधनं मांसकृत् पुनः॥
अउ33.42
मञ्जिष्ठासैन्धवक्षौद्रनागदन्तीत्रिवृत्तिलाः।
रसाञ्जनद्विरजनीतेजोह्वानिम्बपल्लवाः॥
अउ33.43
निकुम्भकुम्भरक्ताह्वकल्को नाडीव्रणापहः॥
अउ33.44
सुधाशेलुत्रिवृत्पाठामलयूहयमारकैः।
ज्योतिष्मतीलाङ्गलिका स्वर्जिकार्कवचाग्निकैः।
विष्यन्दनाख्यं विपचेत्तैलं शोधनरोपणम्॥
अउ33.45
त्रिवृद्दन्तीहरिद्रार्कमूललोहाश्वमारकैः।
विडङ्गसारत्रिफलास्नुगर्कक्षीरमाक्षिकैः।
तैलं समदनैः सिद्धं भगन्दरनिर्वहणम्॥
अउ33.46
सैन्धवार्कत्रिवृत्पाठासमङ्गपूतिकाग्निकैः।
समातुलुङ्गच्छदनैस्तैलंशोधनरोपणम्॥
अउ33.47
मधुतैलयुता विडङ्गसारत्रिफलामागधिकोषणाश्च लीढा कृमिकुष्ठभगन्दरप्रमेहक्षतनाडीव्रणरोपणाभवन्ति॥
अउ33.48
अमृतात्रुटिवेल्लवत्सकं कलिपथ्यामलका निगुग्गुलुः।
क्रमवृद्धमिदं मधुप्लुतं पिटकास्थौल्यभगन्दरान् जयेत्॥
अउ33.49
गुग्गुलुपञ्चपलं पलिकांशा मागधिका त्रिफला च पृथक् स्यात्।
त्वक्त्रुटिकर्षयुतं मधुलीढं कुष्ठभगन्दरगुल्मगतिघ्नम्॥
अउ33.50
शृङ्गवेररजोयुक्तं तदेव च सुभावितम्।
क्वाथेन दशमूलस्य विशेषाद्वातरोगजित्॥
अउ33.51
उत्तमा खदिरसारजं रजः शीलयन्नसनवारिभावितम्।
हन्ति तुल्यमहिषाक्षमाक्षिकं कुष्ठमेहपिटकाभगन्दरान्॥
अउ33.52
भगन्दरेष्वेष विशेष उक्तः शेषाणि तु व्यञ्जनसाधनानि।
व्रणाधिकारात् परिशीलनाच्च सम्यग्विदित्वौपयिकं विदध्यात्॥
अउ33.53
अश्वपृष्ठगमनं चलरोधं मद्यमैथुनमजीर्णमसात्म्यम्।
साहसानि विविधानि च रुढे वत्सरं परिहरेदधिकं वा॥
॥इति त्रयस्त्रिंशोऽध्यायः॥
अथ चतुर्त्रिंशोऽध्यायः।
अउ34.1
अथातो ग्रन्थ्यर्बुदश्लीपदापचीनाडीविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
अउ34.2
कफप्रधानाः कुर्वन्ति मेदोमांसास्रगामलाः।
वृत्तोन्नतं यं श्वयथुं स ग्रन्थिर्ग्रथनात् स्मृतः॥
अउ34.3
दोषासृङ्मांसमेदोस्थिसिराव्रणभवा नव।
तत्रवातादायामतोदभेदान्वितोऽसितः॥
अउ34.4
स्थानात् स्थानान्तरगतिरकस्माद्धानिवृद्धिमान्।
मृदुर्बस्तिरिवानद्धो विभिन्नोच्छं स्रवत्यसृक्॥
अउ34.5
पित्तात् सदाहपीताभो रक्तो वा पच्यते द्रुतम्।
भिन्नोऽस्रमुष्णं स्रवति श्लेष्मणा नीरुजो घनः।
शीतः सवर्णः कण्डूमान् पक्वः पूयं स्रवेत् घनम्॥
अउ34.6
दोषैर्दुष्टेसृजि ग्रन्थिर्भवेन्मूर्च्छत्सु जन्तुषु।
सिरामांसं च संश्रित्य सस्वापः पैत्तलक्षणः॥
अउ34.7
मांसलैर्दूषितं मांसमाहारैर्ग्रन्थिमावहेत्।
स्निग्धं महान्तं कठिनं सिरानद्धं कफाकृतिम्॥
अउ34.8
प्रवृद्धं सेदुरैर्मेदो नीतं मांसेऽथ वा त्वचि।
वायुना कुरुते ग्रन्थिं भृशं स्निग्धं मृदुं चलम्॥
अउ34.9
श्लेष्मतुल्याकृतिं देहक्षयवृद्धिक्षयोदयम्।
स विभिन्नो घनं मेदस्ताम्रासितसितं स्रवेत्॥
अउ34.10
आस्थिभङ्गाभिघाताभ्यामुन्नतावनतं तु यत्।
सोस्थिग्रन्थिः पदातेस्तु सहसाम्भोवगाहनात्॥
अउ34.11
व्यायामाद्वा प्रतान्तस्य सिराजालं सशोणितम्।
वायुः सम्पीड्य सङ्कोच्य वक्रीकृत्य विशोष्य च।
निस्फुरं नीरुजं ग्रन्थिं कुरुते स सिराह्वयः॥
अउ34.12
अरूढे रूढमात्रे वा व्रणे सर्वरसाशिनः।
सार्द्रे वा बन्धरहिते गात्रेऽश्माभिहतेऽथ वा॥
अउ34.13
वातोऽस्रमस्रुतं दुष्टं संशोष्य ग्रथितं व्रणम्।
कुर्यात् सदाहः कण्डूमान् व्रणग्रन्थिरयं स्मृतः॥
अउ34.14
साध्या दोषास्रमेदोजा न तु स्थूलखराश्चलाः।
मर्मकण्ठोदरस्थाश्च महत्तुग्रन्थितोर्बुदम्॥
अउ34.15
तल्लक्षणं च मेदोन्तैः षोढा दोषादिभिस्तु तत्।
प्रायो मेदःकफाढ्यत्वात् स्थिरत्वाच्च न पच्यते॥
अउ34.16
सिरास्थं शोणितं दोषः सङ्कोच्यानुप्रपीड्य च।
पाचयेच्च तदानद्धं सास्रावं मांसपिण्डितम्॥
अउ34.17
मांसाङ्क्कुरैश्चितं याति वृद्धिं चाशु स्रवेत्ततः।
अजस्रं दुष्टरुधिरं भूरि तच्छोणितर्बुदम्॥
अउ34.18
तेष्वसृङ्मांसजे वर्ज्ये चत्वार्यन्यानि साधयेत्॥
अउ34.19
प्रस्थिता वङ्क्षणोर्वादिमधःकायं कफोल्बणाः।
दोषा मांसास्रगाः पादौ कालेनाश्रित्य कुर्वते।
शनैः शनैर्घनं शोफं श्लीपदं तं प्रचक्षते॥
अउ34.20
परिपोटयुतं कृष्णमनिमित्तरुजं खरम्।
रूक्षं च वातात् पित्तात्तु पीतं दाहज्वरान्वितम्॥
अउ34.21
कफात् गुरुस्निग्धमरुक्चितं मांसाङ्कुरैर्बृहत्॥
अउ34.22
तत्त्यजे द्वत्सरातीतं सुमहत्सपरिस्रुति॥
अउ34.23
पाणिनासौष्ठकर्णेषु वदन्त्यन्ये तु पादवत्।
श्लीपदं जायते तच्च देशेऽनूपे भृशं भ्रमात्॥
अउ34.24
मेदस्थाः कण्ठमन्याक्षकक्षवङ्क्षणगा मलाः।
सवर्णान् कठिनान् स्निग्धान् वार्ताकामलकाकृतीन्॥
अउ34.25
अवगाढान् बहून् गण्डांश्चिरपाकांश्च कुर्वते।
पच्यन्तेल्परुजस्तेन्ये स्रवन्त्यन्येतिकण्डुराः।
नश्यन्त्यन्ये भवन्त्यन्ये दीर्घकालानुबन्धिनः॥
अउ34.26
गण्डमालापची चेयं दूर्वेव क्षयवृद्धिभाक्।
तां त्यजेत् सज्वरच्छर्दिपार्श्वरुक्कासपीनसाम्॥
अउ34.27
अभेदात् पक्वशोफस्य व्रणे चापथ्यसेविनः।
अनुप्रविश्य मांसादीन् दूरं पूयोभिधावति॥
अउ34.28
गतिः सा दूरगमनान्नाडी नाडीव संस्रुतेः।
नाड्येकानृजुरन्येषां सैवानेकगतिर्गतिः॥
अउ34.29
सा दोषैःपृथगेकस्थैः शल्यहेतुश्च पञ्चमी॥
अउ34.30
वातात् सरुक्सूक्ष्ममुखी विवर्णा फेनिलोद्वमा।
स्रवत्यभ्यधिकं रात्रौ पित्तात्तृङ्ज्वरदाहकृत्।
पीतोष्णपूतिपूयस्रुग्दिवा चाति निषिञ्चति॥
अउ34.31
घनपिच्छिलसंस्रावा कण्डूला कठिना कफात्।
निशि चाभ्यधिकक्लेदा सर्वैः सर्वाकृतिं त्यजेत्॥
अउ34.32
अन्तःस्थितं शल्यमनाहृतं तु करोति नाडीं वहते च सास्य।
फेनानुविद्धं तनुमल्पमुष्णं सास्र च पूयं सरुजं च नित्यम्॥
॥इति चतुर्त्रिंशोऽध्यायः॥
अथ पञ्चत्रिंशोऽध्यायः।
अउ35.1
अथातो ग्रन्थ्यादिप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
अउ35.2
सर्वेष्वेव पूर्वं ग्रन्थिषु बृहतीद्वयपिप्पलीचित्रकसाधितेन पुराणसपिंषा स्निग्धं वामयेत्।
विरेचयेच्च।
कृतसंसर्जनस्यचोत्तमाङ्गगतेषु ग्रन्थिषु लाक्षाद्विरजनीविडङ्गशुण्ठीपूतीदारुभिः शिरो विरेचयेत् धूमकवलगण्डूषांश्च स सेवेत॥
अउ35.3
अङ्कोलमधुकमातुलुङ्गहिंस्रापूतीदारुबिल्वमूलसरलकुष्ठवचावरुणत्वक्कालातिविषाजगन्धाभिर्लेपः।
श्यामासुरदारु समङ्गाकोशातकीपुनर्नवसर्षपैर्वा॥
अउ35.4
सशोफरुक्स्तम्भे चोपनाहो यवसक्तुमधुककुष्ठशतपुष्पोदवदारुभिर्घृतयुक्तैः।
गोजाविखरोष्ट्राश्वहस्तिमूषीकमांसैर्वा वेशवारीकृतैर्वसातैलवद्भिः॥
अउ35.5
पलाशवृन्ताग्निमन्थत्वक्कल्केन मांसपिण्डैर्वा।
बहुशः स्विन्नमङ्गुष्ठेन वेणुपर्वणा वा शनैश्शनैः पुनः पुनर्विमर्दयेत्।
यथायथं च शोफवत् क्रियां प्रयुञ्जीत॥
अउ35.6
अथ वातजे ग्रन्थौ दशमूलसिद्धं महास्नेहं पिबेत्।
अमृतानिम्बबीजभार्ङ्गीस्योनाकबाणतालपत्रीकृष्णगन्धागरुभिः क्षीरपिष्टैः सुखोष्णैर्लेपः।
विविधाश्च वातव्याधिविहिताः स्नेहस्वेदोपनाहाः।
तथानुपशमे सिराव्यधः॥
अउ35.7
पक्वं तु विदार्य निरस्तपूयं कृत्वार्कादिवर्गाम्भसा प्रक्षाल्य तिलकल्केन सचित्रकसैन्धवेनालेपयेत्।
तैलं च रोपणं रास्नासरलोशीरविडङ्गमधुकक्षीरसंस्कृतं कुर्यात्॥
अउ35.8
पित्तजे रक्तजे च जलौकसो न्यग्रोधादिः प्रदेहपरिषेकयोः पद्मकादिः पाने च द्राक्षेक्षुरसयुक्ता हरीतकी विरेकः।
पक्वे पाटिते च पित्तव्रणोक्तो विधिः॥
अउ35.9
कफजमन्तश्शुद्धस्य भृशं स्वेदयेद्विम्लापयेच्च काकादनीविकङ्कतकाकनन्दिकारग्वधेङ्गुदमूलमदनफलभार्ङ्गीकरञ्जैर्लेपयेत्।
नागरविडङ्गैलावालुकचव्यपलाशवृन्तचित्रकैर्वा।
भल्लातसैन्धवाजगन्धासर्षषैर्वा॥
अउ35.10
एवमप्यपच्यमानममर्मस्थं विदार्य स्थितरक्तं निश्शेषमग्निना दहेत्।
सशेषो हि पुनरापूर्यते।
ततो निर्वापितं क्षारक्षौद्रगुडोत्तरैरालेपैस्संशुद्धं रोपयेत्॥
अउ35.11
मांसव्रणग्रन्थींश्चैवमेव यापयेत्।
मेदोजेप्ययमेव विधिः अपि च मेदोग्रन्थिं तिलकल्कदिग्धं द्विगुणपटान्तरितं तप्तेन फालेन दर्व्या वा जतुलिप्तया बहुशः प्रमृज्यात्।
शस्त्रं चावचार्य पूर्ववन्मेदो दहेत्।
सुपक्वं वा विपाट्य मूत्रप्रक्षालितं क्षौद्रसैन्धवसुवर्चिकाकाञ्चनक्षीरीहरितालमिश्रैः क्षीरबकप्रगाढैस्तिलैरालेपयेत्॥
अउ35.12
गुञ्जाद्विकरञ्जतापसवृक्षवंशावलेखमूत्रसिद्धं तैलमभ्यङ्गः।
सम्यक्शुद्धं चैनं रोपयेत्॥
अउ35.13
सिराग्रन्थौ त्वभिनवे तैलं साहचरं पिबेत् उपनाहञ्च वातहरैर्बस्तिकर्म च कुर्यात्।
सिराव्यधञ्च॥
अउ35.14
वातार्बुदमैरण्डप्रियालनारिकेलमज्जोर्वारुकार्कोरुबीजोत्कारिकयोपनाहयेत्।
आनूपामिषवेशवारैर्वा।
नाडीस्वेदञ्च कुर्यात् बहुशश्चात्रशृङ्गेण रुधिरमवसेचयेत्।
वातहरवर्गक्काथपयोम्लसिद्धं त्रिवृतं पिबेत्॥
अउ35.15
पित्तोत्थे मृदून् स्वेदोपनाहान् कायविरेचनञ्च प्रयोजयेत्।
शाककाकोदुम्बरिकापत्रघृष्टे च प्रियङ्गुपतङ्गसर्जरसार्जुनलोध्रमधुमधुकैर्लेपः।
श्यामाग्रिकर्णिकाञ्जनक्लीतनकनखद्राक्षासप्तलान्यतमरससाधितं सर्पिः पीतं पित्तार्बुदश्लीपदोदरघ्नम्॥
अउ35.16
श्लेष्मजे तूर्ध्वमधश्च हृतदोषस्य स्रुतरक्तस्य च वमनविरेचनद्रव्यैः प्रलेपः।
काकादनीशुकबर्हाग्निजिह्वामूलदक्षकपोतगृध्रपुरीषकाशमूलैर्वा पलाशक्षीरपिष्टैः।
पिण्याककुलत्थनिष्पावैर्मांसप्रगाढैर्दधिपिष्टैर्लेपयेत्।
लेपास्वादलोभेन च निलीयमाना मक्षिकाः स मुपेक्षेत।
तद्विमुक्तैः कृमिभिरितरैर्वा भक्ष्यमाणञ्च।
ततः कृमिभक्षितावशेषं शाकादिपत्रैर्विलिख्याग्निनाप्रतिसारयत्।
अल्पमूलं वा त्रपुतास्रायःसीसपट्टकवेष्टितम्।
पुनः पुनश्च क्षारान् कालापेक्षया योजयेत्।
जात्यास्फोतकरवीरपल्लवांश्च व्रणशोधनाय कल्कादौ।
तैलञ्चात्र पाठाविडङ्गभार्ङ्गी त्रिफलाकषायसिद्धमभ्यञ्जनम्॥
अउ35.17
मेदोर्बुदं स्विन्नभिन्नं सुशोधितमेदस्कमुपशान्तरक्तस्रावं सद्यःस्सीव्येत्।
ततो गृहधूमलोध्रमनश्शिलाहरिद्रापतङ्गचूर्णैर्मधुमाद्भिः प्रतिसारयेत्।
करञ्जतैलञ्चाभ्यञ्जनार्थे नियुञ्जीत।
सर्वार्बुदानि च यदृच्छया पर्यागतानि सुपरिशोधितानि रोपयेत्।
अपि च॥
अउ35.18
सशेषदोषाणि तु योर्बुदानि करोति तस्याशु पुनर्भवन्ति।
तस्मादशेषोद्धरणं प्रशस्तं क्षारेण शस्त्रेण तथाग्निना वा॥
अउ35.19
श्लीपदे तु वातात्मके स्नेहस्वेदोपनाहान् प्रयुज्य गुल्फस्योपरिष्टाद्व्यङ्गुले सिरां विध्येत्।
एरण्डतैलञ्च गोमूत्रेण मासं पिबेत्।
जीर्णे नागरक्वथितेन पयसा पुराणधान्यान्यश्नीयात्।
त्रिवृतञ्च पाययेत्।
बस्तिश्च प्रयुञ्जीत।
एवमप्यशाम्यत्याग्निना दहेत्॥
अउ35.20
पैत्तिके मृदुरुपनाहो गुल्फस्याधः सिरामोक्षः पित्तार्बुदोक्ताः स्नेहविरेकाः पित्तघ्नाश्च लेपाः॥
श्लैष्मिके त्वङ्गुष्ठे सिरां मुञ्चेत्।
सक्षौद्रांश्च कफघ्नान् कषायानभीक्ष्णं पाययेत्।
यथाबलं वा हरीतकी वर्धमानाः॥
अउ35.21
श्लैष्मिके त्वङ्गुष्ठे सिरां मुञ्चेत्।
सक्षौद्रांश्च कफघ्नान् कषायानभीक्ष्णं पाययेत्।
यथाबलं वा हरीतकी वर्धमानाः॥
अउ35.22
आदारीकाकजंघाकाकादनीशुकनासाकदम्बपुष्पबृहतीद्वयमन्तर्धूमं दग्ध्वा गोमूत्रेण बहुशः परिस्रावयेत् ततस्तत् क्षारोदकं क्षारकल्पेन विपचेत्।
दद्याच्चात्र परतीवापं फल्गुशुकाख्या मदनफलरसं एष क्षारो मधुराहारेणाभ्यस्तः श्लीपदापचीग्रहणीदोषारोचकान् सर्वविषाणि च नियच्छति॥
अउ35.23
तैलं वा पिबेद्विडङ्गार्कमरिचचित्रकशुण्ठीदेवदार्वेलावालुकलवणपञ्चकैस्सिद्धम्।
आलेपयेच्च नागरामृताविडङ्गकटुकाभद्रदारुभिर्मूत्रपिष्टैरूरुस्तम्भोक्तैश्च भेषजैर्यवान्नं च शीलयेत्॥
अउ35.24
मण्डमालायां कुम्भनिकुम्भद्रवन्तीजीमूतककोशातकीफलविपक्वं घृतमुभयानुलोमनं पिबेत्।
शार्ङ्गेष्टामूलं वा तक्रपिष्टम्।
वमनार्थं सुखोदकेन वा जातीबर्हिष्ठनिर्गुण्डीजीमूतकोत्तुण्डकीमूलत्वक्चूर्णम्।
सिरा चास्य विध्येत्॥
अउ35.25
सशेषदोषं तु कौष्ठिकं नवकं पाययेत्।
रसाञ्जनं गोमूत्रतण्डुलोदकान्यतरेण।
तदेव च नावयेत्।
मधूकसारं वा शिग्रुफलानि वा निम्बकरञ्जकरवीरसिद्धं वा तैलं वैरेचनिकञ्च धूमं पिबेत्॥
अउ35.26
अपक्वांश्च गण्डान्नाकुलीसैन्धवनागरैर्लेपयेत्।
गुञ्जाकरवीरार्कश्यामासिद्धार्थकैरजामूत्रयुक्तैर्दशकृत्वा विपक्वं तैलं लवणपञ्चकपिप्पलीमरिचचूर्णो पेतमभ्यङ्गात्सर्वावस्थानपच्यर्शोर्बुदनाडीदुष्टव्रणवल्मीकानपोहति॥
अउ35.27
सौवर्चलसैन्धवौद्भिददन्तीभल्लातकचित्रककल्केन सिद्धं तैलमभ्यङ्गोऽपच्याम्।
तण्डूलीयकस्वरसेन वा सनिर्गुण्डीरसं वा तैलं साधितमभ्यङ्गपाननावनैर्गण्डमालानाडीव्रणकुष्ठानिलार्तिहरम्॥
अउ35.28
काकादनीनलिकाग्निजिह्वावन्ध्याकर्कोटकीविशालापाठोत्तुण्डकीजीमूतकोशातकीबीजैरर्द्धपलांशौर्विषकर्षयुक्तैर्निर्गुण्डीस्वरसोपेतं करञ्जतैलप्रस्थं विपचेत्तत्पूर्ववदेवप्रयुक्तं परमपचीघ्नम्॥
अउ35.29
अमर्मजांश्च गण्डानपक्वानेवोद्भृत्याग्निना क्षारेण वा प्रसाधयेत्।
सर्षपवृक्षादनी क्वाथैर्व्रणक्षालनम्।
तिलकुन्तलक्ष्Aअरपिष्टस्तिलकल्कः सुखोष्णो लेपः।
काककृकलासगोधाहिनिर्मोककूर्माणामन्यतमस्यान्तर्धूमदग्धस्य मषीङ्गुदतैलप्लुताभ्यङ्गः।
मांसीसर्जरसकार्पासीफलसैन्धवैः स्तन्यपिष्टैस्तैलं विपक्वमभ्यङ्गो व्रणकाठिन्यघ्नः सर्पाजगरवसे तैलं च समं त्रयमेतदपचीघ्नम्।
श्लीपदोक्तानि च तैलानि प्रयोजयेत्॥
अउ35.30
एवमनुपशमे वामपार्श्वजायां दक्षिणजङ्घापृष्ठमध्यादिन्द्रबस्तेरधः ऊर्ध्वं वा शस्त्रेणाक्षिमात्रं व्रणं कृत्वा मत्स्याण्डजालनिभं मेदोपनीयाग्निना दहेत्।
अनेनेतरपार्श्वजाव्याख्याता।
एवमुभयपार्श्वजायामुब्भयतः।
यवमुद्गप्रायं च गण्डमालासु भोजनम्॥
अउ35.31
नाडीमनिलजामुपनाह्य पूयगतिमस्या निश्शेषमोषित्वावदारयेच्छस्त्रेण।
ततस्तिलापामार्गफलकल्केन ससैन्धवेन पूरयित्वा बध्नीयात्॥
अउ35.32
पित्तजां सघृतक्षीरया पद्मकादिकृतयोऽल्कारिकयोऽपनाहिताम्।
विदारितां च तिलनागदन्तीमञ्जिष्ठाकल्केन पूरयेत् श्यामात्रिभण्डीत्रिफलातिल्वकहरिद्राद्वयकल्कक्षीरसंस्कृतं सर्पिरभ्यङ्गः।
परं नाडीनिबर्हणम्॥
अउ35.33
श्लेष्मजां सक्तुकुलत्थकिण्वसर्षपैरुपनाह्य विदार्य च निम्बतिलसैन्धवसौराष्ट्रीनिकुम्भैर्लेपयेत्।
दन्तीचित्रकस्वर्जिकासैन्धवतालीसनलदपूतीकापामार्गफलैस्तैलं समूत्रं पाचितमभ्यङ्गः॥
अउ35.34
शल्यहेतुकीं पाटयित्वा सर्वशः शल्यं विशोध्य मधुघृततिलकल्कप्रतिच्छन्नां बध्नीयात्।
बिल्वकपित्थकुम्भीखर्जूरवनस्पतिशलाटुक्वाथे प्रियङ्गुमुस्तोरुपूगशकुनसुगन्धिकालोध्रमोचरसधातकीपुष्पगर्भं तैलं प्रसाधितं साधयत्याशु शल्यजां गतिम्॥
अउ35.35
अशस्त्रकृत्यां नाड्यां भेदिन्यैषिण्यान्ते समुद्भिद्य क्षाराक्तं सूत्रं प्रवेशयेत्।
तदसन्निधानेत्वितरयैषिण्या च तेनानवदीर्णायां तदनुस्यूतमन्यदन्यत् क्षारसूत्रं सञ्चारयेदा गतिभेदादयमनपायोऽभ्युपायः।
सूक्ष्मानेकगतिषु भगन्दरेषु मूलेषु च छिद्रितेषु ग्रन्थ्यर्बुदेष्विति।
भवति चात्र॥
अउ35.36
व्रणेषु दुष्टसूक्ष्मास्यगम्भीरादिषु साधनम्।
या वर्त्यो यानि तैलानि तन्नाडीष्वपि कल्पयेत्॥
अउ35.37
विभीतकाम्रास्थिवटप्रवाल हरेणुकाशाल्मलिबीजयुक्ता।
वराहविष्ठा च मषी सुदग्धा तैलप्लुता सर्वगतीर्निहन्ति॥
अउ35.38
धत्तूरकं मदनकोद्रवजञ्च बीजं कोशातकी शुकनसा मृगभोजनी च।
अङ्कोलजञ्च कुसुमं परिकल्प्य चूर्णं लाक्षोदकापहृतदोषगतौ प्रयोज्यम्॥
अउ35.39
मिश्रितं तेन तैलञ्च परमं गतिरोपणम्।
सौवहेषु च कन्देषु कृतं वज्राह्वयेषु च॥
अउ35.40
भल्लातकार्कमरिचैर्लवणोत्तमेन सिद्धं विडङ्गरजनीद्वयचित्रकैश्च।
तैलं समार्कवरसैर्विनिहन्ति कृच्छ्रां नाडीं कफानिलकृतामपचीव्रणांश्च॥
॥इति पञ्चात्रशोऽध्यायः॥