अष्टाङ्गसंग्रहः उत्तरस्थानम् अध्याय २१-२५

विकिस्रोतः तः

अष्टाङ्गसंग्रहः

अथ एकविंशोऽध्यायः।

अउ21.1
अथातः कर्णरोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ21.2
प्रतिश्यायजलक्रीडाकर्णकण्डूयनैर्मरुत्।
मिथ्यायोगेन शब्दस्य कुपितोन्यैश्च कोपनैः॥

अउ21.3
प्राप्य श्रोत्रसिराः कुर्याच्छूलं स्रोतसि वेगवत्।
अर्धावभेदकं स्तम्भं शिशिरानभिनन्दनम्॥

अउ21.4
चिराच्च पाकः पक्वं तु लसीकामल्पशः स्रवेत्।
श्रोत्रं शून्यमकस्माच्च स्यात् सञ्चारविचारवत्॥

अउ21.5
शूलं पित्तात् सदाहोषा शीतेच्छाश्वथथुज्वरम्।
आशुपाकं प्रपक्वं च सपीतलसिकास्रुति।
सा लसीकास्पृशोद्यद्यत्तत्पाकमुपैति च॥

अउ21.6
कफाच्छिरोहनुग्रीवागौरवं मन्दता रुजः।
कण्डूःश्वयथुरुष्णेच्छा पाकाच्छ्वेतघनस्रुतिः॥

अउ21.7
करोति श्रवणे शूलमभिघातादिदूषितम्।
रक्तं पित्तसमानार्ति किञ्चिद्वाधिकलक्षणम्॥

अउ21.8
शूलं समुदितैर्दोषैः सशोफज्वरतीव्ररुक्।
पर्यायादुष्णशीतेच्छं जायते श्रुतिजाड्यवत्।
पक्वं सितासितारक्तघनपूयप्रवाहि च॥

अउ21.9
शब्दवाहिसिरासंस्थे शृणोति पवने मुहुः।
नादानकस्माद्विविधान् कर्णनादं वदन्ति तम्॥

अउ21.10
श्लेष्मणानुगतो वायुर्नादो वा समुपेक्षितः।
उच्चैः कृच्छ्राच्छ्रुतिं कुर्यात् बधिरत्वं क्रमेण च॥

अउ21.11
वोतन शोषितः श्लेष्मा स्रोतो लिम्पेत्ततो भवेत्।
रुग् गौरवं पिधानं च स प्रतीनाहसंज्ञितः॥

अउ21.12
कण्डूशोफौ कफाच्छ्रुत्रे स्थिरौ तत्संज्ञया स्मृतौ॥

अउ21.13
कफो विदग्धः पित्तेन सरुजं नीरुजं तथा।
घनपूतिबहुक्लेदं कुरुते पूतिकर्णकम्॥

अउ21.14
वातादिदूषितं श्रोत्रं मांसासृक्लेदजा रुजम्।
खादन्तो जन्तवः कुर्युस्तीव्रां स कृमिकर्णकः॥

अउ21.15
श्रोत्रकण्डूयनाज्जाते क्षते स्यात् पूर्वलक्षणः।
विद्रधिः पूर्ववच्चान्यः शोफोर्शोर्बुदमीरितम्॥

अउ21.16
तेषु रुक्पूतिकर्णत्वं बधिरत्वं क्रमेण च॥

अउ21.17
गर्भेऽनिलात् सङ्कुचिता शष्कुली कूचिकर्णकः॥

अउ21.18
एको नीरुगनेको वा गर्भे मांसाङ्कुरः स्थिरः।
पिप्पलीपिप्पलीमानः सन्निपाताद्विदारिका॥

अउ21.19
सर्वणः सरुजः स्तब्धः श्वयघुः स उपेक्षितः॥

अउ21.20
कटुतैलनिभं पक्वः स्रवेत् कृच्छ्रेण रोहति।
सङ्कोचयति रूढा च सा ध्रुवं कर्णशष्कुलीम्॥

अउ21.21
सिरास्थः कुरुते वायुः पालीशोषं तदाह्वयम्॥

अउ21.22
कृशा दृढा च तन्त्रीवत् पाली वातेन तन्त्रिका॥

अउ21.23
सुकुमारे चिरोत्सर्गात् सहसैव प्रवर्धिते।
कर्णे शोफः सरुक्पाल्यामरुणः परिपोटवान्॥

अउ21.24
परिपोटश्चपवनात् उत्पातः पित्तशोणितात्॥

अउ21.25
गुर्वाभरणभाराद्यैः श्यावो रुग्दाहपाकवान्।
श्वयथुः स्फोटपिटकारागोषाक्लेदसंयुतः॥

अउ21.26
पाल्यां शोफोनिलकफात् सर्वतो निर्व्यथः स्थिरः।
स्तब्धः सवर्णः कण्डूमानुन्मन्थो गल्लिरश्च सः॥

अउ21.27
दुर्विद्धे वर्धिते कर्णे सकण्डूदाहपाकरुक्।
श्वयथुः सन्निपातोत्थः स नाम्रा दुःखवर्धनः॥

अउ21.28
कफासृक्कृमिजाः सूक्ष्माः सकण्डूक्लेदवेदनाः।
लिह्याख्याः पिटकास्ता हि लिह्युः पालीमुपेक्षिताः॥

अउ21.29
पिप्पली सर्वजं शूलं विदारी कूचिकर्णकः।
एषामसाध्या याप्यैका तन्त्रिकान्यांस्तु साधयेत्॥

अउ21.30
पञ्चविंशतिरित्युक्ताः कर्णरोगा विभागतः॥
॥एकविंशोऽध्यायः॥

द्वाविंशोऽध्यायः।
कर्णरोगप्रतिषेधः

अउ22.1
अथातः कर्णरोगमप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति हस्माहुरात्रेयादयोमहर्षयः॥

अउ22.2
वातजे कर्णशूले रात्रौ रात्रौ रसभोजनोत्तरं वातहरद्रव्यसिद्धं सर्पिः पिबोन्निरन्नो वा पयोनुपानम्॥

अउ22.3
ततो दशमूलसिद्धे छागे पयसि गोशृङ्गनिहितेऽग्निवर्णान् पाषाणान् सन्दंशेन गृहीत्वावपेत्।
तेनोष्मणा नाडीस्वेदेन च स्वभ्यक्तं स्वेदयेत्।
बिल्वयवकोलकुलत्थमाषार्कशिग्रुपत्रैर्वा सानूपमांसैः क्वथितैः॥

अउ22.4
स्विन्नं च पूरयेत् कुष्ठरास्नामधुकवंशावलेखशुण्ठीशिखिचन्द्रकमाषसरलपयोविपक्वेन तैलेन।
जीवकमधुककुष्ठमण्डूकीदेवदारुमहौषधकल्काष्टगुणक्षीरिसिद्धेन वा॥

अउ22.5
मयूरनालकुलत्थागरुमाषदेवदारुकल्कक्षारशुक्ताम्लसाधिताभ्यां वा तैलवसाभ्याम्।
मधुकक्षीरकाकोलीमाषशतावरीकल्कसर्वगन्धोदकक्षीरविपक्वया वा वराहवसया॥

अउ22.6
रास्नामधुककाकोलीदेवदारुकल्कपयोविपाचितया वा शिंशुमारवसया।
मांसीकुष्ठमेदासरलसुरभिमधुकक्षीरविपक्वया वा गोधावसया॥

अउ22.7
जीवकशताह्वामधुकमांसीक्षीरसिद्धां कुक्कुटमयूरवसां कर्णपूरणनस्याभ्यङ्गेषु विदध्यात्।
मधुकक्षीरकाकोलीकल्केन चतुर्गुणशिग्रुह्रस्वपञ्चमूलकैरण्डपत्ररसमष्टगुणक्षीरसाधितं तैलं वा॥

अउ22.8
घृततैलवसाभ्यक्तानि तरुणान्यश्वत्थपत्राणि पुटपाक्स्विन्नानि प्रपीड्य तद्रसेन कर्णं पूरयेत्॥

अउ22.9
तद्वच्च तैललवणाभ्यक्तान्यर्कोरुपूगमूलकारलुकबिल्वमहावृक्षान्यतमपत्राणि॥

अउ22.10
महापञ्चमूलसरलागरुदेवदार्व्यन्यतमकाष्ठमष्टादशाङ्गुलं त्रिभागे क्षौमेणावेष्ट्य तैलेन सिक्त्वाग्रे प्रदीपयेत्।
ततो दह्यमानाद्यः स्नेहः पतति स सद्यः कर्णरुजमपहरति॥

अउ22.11
मधूच्छिष्टकैडर्यमधुशिग्रुफलवचायवनलदैलागुग्गुलुभिः श्लक्ष्णपिष्टैः क्षौमवस्त्रं धूमवर्त्तिप्रमाणपरिणाहं लेपयेत्ततः सूत्रेणावेष्ट्य डुण्डुकनालेन धूमं पातुं दद्यात्॥

अउ22.12
डुण्डुकनालमेववानेन कल्केनाभ्यज्य विशोषयित्वा धूमं विदध्यात्॥

अउ22.13
श्रेयसीदेवदारुकाकोलीकुष्ठनिचुलबीजैः क्षीरपिष्टैस्तिलयुतैः कर्णं बहिर्लेपयेत्।
सर्वधान्यस्नेहगोक्षीरसिद्धामुत्कारिकामेरण्डपत्रावच्छादिते कर्णे स्वेदार्थं प्रणयेत्।
पुनः पुनश्च नाडीस्वेदान् पिण्डस्वेदांश्च।
वातव्याधिप्रतिश्यायार्दिताविधानं च सनिरूहानुवासनं कुर्यात्॥

अउ22.14
परिहार्याणि च परिहरेद्विशेषतः प्रवातं शीताम्बुपानं शिरःस्नानं च॥

अउ22.15
पित्तजे तु शूले प्रातः शर्करायुतं सर्पिः पाययेत्।
ततः स्निग्धं विरेचयेत्।
द्राक्षामधुकसिद्धं स्तन्यं कर्णपूरणं प्रयुञ्जीत।
माक्षिकं वा।
मधुकपद्मककल्कस्तन्य्सिद्धं वा सर्पिः।
सितामधुकखर्जूरमृद्वीकाभिर्वा सक्षीरेक्षुरसं प्रियालकतैलं पाचितमभ्यङ्गनस्यकर्णपूरणैः शूलदाहघ्नम्॥

अउ22.16
मधुककुडवं षोडशगुणेनाम्भसाष्टावशेषं साधयित्वा तेन तैलार्द्धकुडवमष्टगुणक्षीरं यष्टीसधुकोशीरसारिवाकाकोलीजीवकानन्तामृणालमञ्जिष्ठालोध्रचन्दनबिसगर्भं पचेत्।
तच्च पूर्ववत् प्रणयेत्॥

अउ22.17
एषामेव च कल्केन सघृतेन कर्ण परितो लेपयेत्।
स्वेदयेच्च।
तथा क्षीरसर्पिर्नस्यं शिरोभ्यङ्गश्च।
एवमप्यनुपशमे तु पुनर्विरेकः॥

अउ22.18
कफजे पिप्पलीविपक्वं घृतमथवा सक्षौद्रं पाययित्वा तं वामयेत्।
ततस्तीक्ष्णं धूमं पाययेत्॥

अउ22.19
कर्णं चास्य पूरयेत् सरलदेवदारुहिंस्रापटोलपत्रसुरससिद्धेन तैलेन।
देवदारुपिप्पलीमालतीपत्रक्वाथहरिद्राकुष्ठत्रिफलैलाक्वाथकल्कसिद्धेन वा।
रसाञ्जनमार्कववैजयन्तीशिग्रुलशुनार्द्रकमूलकदलीनां वा पृथक् समस्तानां वा रसेन मधुना वा रक्षोघ्नतैलेन वा।
तथा शूलशोफगौरवाणि प्रशाम्यन्ति॥

अस22.20। धान्याम्लक्वथितदशमूलबाष्पेण नाडीस्वेदमाचरेत्।
स्विन्नं कुशाम्रत्रिवृन्नलदशुण्ठीमुस्तसाधितेन तैलेन पूरयेत्।
कफघ्नांश्च गण्डूषान् धारयेत्॥

अउ22.21
रक्तजे पैत्तिकवत् सिद्धिः सिराव्यधश्च॥

अउ22.22
पक्वेषु कर्णशूलेषु पूयप्रवाहिषु यथास्वं धूमनस्यगण्डूषवमनान्याचरेत्॥

अउ22.23
उपदिग्धं च स्रोतः सायंप्रातः पिचुवर्तिभिः प्रमृज्य यवागरुमदनैः सघृतैर्गुग्गुलुना वा धूपयित्वा मधुना पूरयेत्॥

अउ22.24
पलाशधवतिनिशककुभसर्जत्वक्क्वाथ रसक्रियया स्वभ्यक्तां पिचुवर्तिं स्रोतसि दद्यात्।
बदरीसल्लकीजम्बूधातकीवटप्लक्षोदुम्बरक्वाथेनैवमेव च रसक्रियया।
हरिद्राधातकीत्रिफलाजम्बूसल्लकीकिंशुकक्वाथेन च।
तथा सौराष्ट्रिकापद्मकधातकीसमङ्गाश्वत्थधवलोध्ररसाञ्जनक्वाथेन॥

अउ22.25
एभिरेवौषधैः सूक्ष्मचूर्णीकृतैः स्रोतसोऽवकिरणमेवं क्लेदशूलगौरवाणि शाम्यन्ति।
एषामेव च कषायेण सक्षौद्रेण कपित्थस्वरसेन वा प्रक्षालनम्।
तथा सुरसादिवर्गः प्रक्षालनावचूर्णनयोः प्रयोज्यः॥

अउ22.26
नादबाधिर्ययोर्वातशूलोक्तः सर्वो विधिः।
श्लेष्मानुबन्धे तु प्राक्श्लेष्माणमपहरेद्वमननावनाभ्यां तीक्ष्णधूमैश्च॥

अउ22.27
बाधिर्यं च बालवृद्धक्षीणकासशोषिणां चिरोत्थितं च वर्जयेत्॥

अउ22.28
इतरत्तु स्नेहस्वेदनस्यशिरोबस्तिबस्तिकर्मप्रभृतिभिर्दोषानुबन्धमवेक्ष्य साधयेत्॥

अउ22.29
तत्र प्रागेव पुराणसर्पिषा वा वातहरतैलेन वा स्निग्धं स्नेहेनैव विरेचयेत्।
कृतसंसर्जनस्य पुनः स्निग्धस्य शोणितमपहरेत्।
कर्णासन्नं जलौकोभिस्ततो बस्तिकर्ममूर्धतैलनस्यधूमान् कर्णपूरणं च शीलयेत्॥

अउ22.30
तरुणबिल्वफलानि गोमूत्रेण क्वाथयेत्तेन क्वाथेन सितामधुकबीजकबीजकल्केन च पयोयुक्तं तैलं पाचयेत्।
तत्तैलमुष्णं शीते बिल्वक्वाथे प्रक्षिप्य मन्थयेत् यावत् पिण्डीभूतमुद्धृत्य चैतत्पुनरन्यत्र बिल्वोदके मन्थयेत्।
ततश्चोद्धृत्याष्टगुणे पयसि मधुकगन्धचन्दनगर्भं साधितमाशु कर्णपूरणात् बाधिर्यं नाशयति॥

अउ22.31
तिलान् नवप्रलूनान् वस्त्रबद्धान् वहन्तीष्वप्सु रात्रिमुषितान् दिवा शोषयेत् पञ्चरात्रम्।
एवं गते पञ्चरात्रे मधुयष्टिकाक्षीरकाकोलीमहापञ्चमूलदेवदारुशताह्वाजीवकक्वथिते पयसि पञ्चाहमेवं वासयेच्छोषयेच्च।
ततोनेनैव क्षीरेणैषामेव च द्रव्याणां चूर्णमात्रया युक्तान् प्रपीडयेत्।
तत्तैलं नीलोत्पलानन्ताचन्दनागरुमधुकजीवककाकोलीसुनिषण्णकमूलकल्कैरष्टगुणेन पयसा पचेत्।
एतन्नस्ये कर्णपूरणे शिरसि चाभ्यञ्जने प्रणीतमाशु शूलनादबाधिर्याणि सर्ववातविकारांश्च पित्तानुबन्धानपोहति भग्नास्थिसन्धानजननं च॥

अउ22.32
शुष्कमूलकभस्मक्षारद्वयहिङ्गुशुण्ठीमिसिवचाकुष्ठमरदारुसौभाञ्जनभूर्जग्रन्थिमुस्तालवणत्रयैः सोद्भिदैस्तैलं शुक्तकदलीबीजपूरकरससंयुक्तं सिद्धं शूलनादबाधिर्यकण्डूशोफक्लेदोपदेहकृमिपूतिकर्णेषु॥

अउ22.33
अथ कर्णौ सुप्ताविव भवतस्तत्समीपे यथोक्तां सिरां मोक्षयेत्।
सश्वयथुपरिस्रावे मन्दश्रुतेर्वमनमाचरेत्॥

अउ22.34
प्रतीनाहे स्नेहस्वेदक्लिन्नं कर्णं कर्णशोधनेन विशोध्य तैलस्य पूरयेन्मातुलुङ्गरसस्य वा सशुक्तक्षौद्रसैन्धवस्य॥

अउ22.35
शोध्यमाने वेदना रक्तागमो वा यदि भवेत्ततो घृतमण्डेन पूरयेन्नस्यं च शीलयेत्।
मलपूर्णेप्येष एव विधिः॥

अउ22.36
कण्ड्वां तीक्ष्णनस्यधूमादीन् कफघ्नान्वितरेत्।
रूक्षतिक्तकटुश्चाहारः।
शोफेप्येवमेव विधिः।
कटुतीक्ष्णोष्णाश्च प्रदेहपरिषेकाः॥

अउ22.37
पूतिकर्णे कर्णस्रावोक्तो विधिः कृमिकर्णे च।
विशेषतश्चात्र कृमिघ्नः।
तथा सर्षपतैलेन पूरणम्।
हरितालचूर्णवता गोमूत्रेण वा।
वार्ताकबीजेन धूपनम्॥

अउ22.38
कर्णविद्रधिं वमनपूर्वं विद्रधिवदामं पक्वं च चिकित्सेत्।
क्षतविद्रधिं पित्तकर्णशूलवदर्शांसि नासार्शोवदर्बुदानि च॥

अउ22.39
विदारिकामामां कर्णविद्रधिवद्यथादोषोदयं च साधयेत्॥

अउ22.40
पालीशोषे वातशूलवन्नस्यमालेपं स्वेदंच कुर्यात्।
स्विन्नमुद्वर्त्तयेत्तिलप्रियालबीजमधुकयवाश्वगन्ध्हाकल्केन॥

अउ22.41
उद्वर्तितं च मधुकपयस्याशतपुष्पाश्वगन्धाकल्काष्टगुणवाजिगन्धाबृहत्यभीरुक्वाथक्षीरसाधितेन तैलेनाभ्यज्यात्।
शतावर्यश्वगन्धैरण्ड्Aपयस्याजीवकक्षीरसिद्धेन वा॥

अउ22.42
गोधाप्रतुदविष्किरानूपौदकमांसवसामज्जानं सर्पिस्सर्षपतैलं च यथालाभं सङ्गृह्यार्कालर्कबलातिबलानन्ताविदारिगन्धाजलशूकमधुरवर्गप्रतीवापं विपचेदयमभ्यङ्गः पाल्याः परं मांसजननः॥

अउ22.43
एवमपि तु या क्षीयते पाली तस्या यद्दुष्टं तच्छित्वा विधिवत् सन्धाय यथोक्तेन क्रमेणोपचरेत्॥

अउ22.44
तन्त्रिकामपि चैवमेव नस्याभ्यङ्गादिभिर्यापयेत्॥

अउ22.45
परिपोटकेप्ययमेव विधिः।
तथा मधुकखरमञ्जरीसैन्धवाश्वगन्धादेवदारुमूलकावल्गुजफलमूलमधूच्छिष्टैः सक्षीरैर्महास्नेहः सिद्धोभ्यङ्गः।
तिलमधुकप्रपौण्डरीकसिद्धार्थकघृतक्षीरकृतयोत्कारिकयोपनाहः॥

अउ22.46
उत्पाते जलौकोभिरपनीतरक्ते शीतैः प्रदेहः।
तिलमधुकसारिवोत्पललोध्रकदम्बबलाम्रजम्बूपल्लवैस्सधान्याम्लं तैलं साधितमभ्यङ्गः।
तथा क्षीरसर्पिर्विसर्पोक्तानि च घृतानि॥

अउ22.47
उन्मन्थे तीक्ष्णैः शिरोविरेकः।
तिलसर्षपलोध्रहरिद्राद्वयैरुद्वर्तितायाः कर्णपाल्यास्तालीसतमालैलाकट्फलरसाञ्जनैर्लेपः तालपत्र्यश्वगन्धार्कसैन्धवावल्गुजबीजसुरसलाङ्गलिकाभिर्गोधाकुलीरवसायुक्तं तैलं विपक्वमभ्यञ्जनम्।
तैलमेव वा पटोलकटुरोहिणीरसाञ्जनीशरीषैः॥

अउ22.48
दुःखवर्द्धने जम्ब्वाम्राश्मन्तकपत्रक्वाथपरिषिक्तां कर्णपालीं तैलेनाभ्यज्य यष्टीमधुकहरिद्राप्रपौण्डरीकमञ्जिष्ठाचूर्णेनावचूर्णयेत्।
लाक्षाविडङ्गपक्वेन तैलेनाभ्यञ्जयेत्॥

अउ22.49
लेहिकापिटकासु कर्णपालीं बहुशो गामयापण्डस्विन्नामुरभ्रीमूत्रपिष्टैः कृमिघ्नैरालिम्पेत्।
कुटजकरञ्जेङ्गुदबीजारग्वधत्वग्भिर्वा।
एभिरेव च सर्वैस्समरिचनिम्बपत्रमधूच्छिष्टैस्सर्षपतैलं सिद्धं लेहिकाव्रणघ्नोऽभ्यङ्गः परिदहने जलजाभिरसृक् स्रावयेत्।
शीतैश्च प्रदिह्यात्॥

अउ22.50
सर्वेषु च पालीरोगेषु स्नेहस्वेदशोधनाभ्यङ्गप्रदेहनस्यास्रविस्रवणानि यथार्हं प्रयुञ्जीत।
प्रकोपकारणानि च परिहरेत्॥

अउ22.51
उत्पच्यमानायां तु पाल्यां सर्जरसापामार्गपटोलनिम्बनिचुलत्वग्भिरालेपः।
उत्पुटन्त्यां शिग्रुशम्याकपूतीकगोवराहपित्तगोधावसासपिर्भिः।
श्यावायां गौरीसुगन्धाश्यामानन्तातण्डुलीयकमूलैः।
कण्डूमत्यां पाठानन्तातार्क्ष्यशैलेयमाक्षिकैः।
दह्यमानायां क्षीरिवृक्षजीवनीयकल्कमधुघृतैः।
व्रणितायां क्षौद्रजीवनीयैः।
कृशायां गोधावराहवसाभिः।
ग्रथितायां ग्रन्थिं पाटयित्वा विलिख्य च कृष्णासैन्धवमधुभिः प्रतिसारयेत्।
स्नाववत्यां मधुमधुकमधूकमधुपर्णीभिर्लेपः।
एभिरेव च यथास्वं स्नेहानभ्यङ्गार्थं प्रकल्पयेत्॥

अउ22.52
अथ रोगतो बलाद्वा विच्छिन्नं कर्णमनुसन्दध्यात्॥

अउ22.53
समासतस्तु पञ्चदश कर्णसन्धयः प्रायो नामानुगतसंस्थानस्थानविशेषतया सम्भवन्ति॥

अउ22.54
तद्यथा।
पृथुलायतसमोभयपालीश्चक्रनेभिः॥

अउ22.55
वृत्तायतसमोभयपालिरुत्पलभेदकः॥

अउ22.56
अभ्यन्तरदीर्घपालिः कवाटः॥

अउ22.57
विपरीतोर्द्धकवाटः॥

अउ22.58
ह्रस्ववृत्तसमोभयपालिर्वल्लूरकः॥

अउ22.59
अणुस्थूलसमविषमपालिर्व्यायोजिमः॥

अउ22.60
बाह्यपालिर्गण्डाधारः॥

अउ22.61
अतोविपरीतस्त्वासङ्गिमः॥

अउ22.62
अपालिराहार्यः।
स एव मांसलपीठो निर्वेधिमः॥

अउ22.63
शुष्कशष्कुलिरुत्सन्नपालिः॥

अउ22.64
इतराल्पपालिः सङ्क्षिप्तः॥

अउ22.65
अनधिष्ठानपालिः पर्यन्तयोश्च क्षीणमांसो हीनः॥

अउ22.66
तनुविषमपालवाल्लः॥

अउ22.67
ग्रथितनिर्मांसस्तब्धसिरावृतसूक्ष्मपालिर्यष्टी॥

अउ22.68
निर्मांससङ्क्षिप्ताग्राशोणितपालिः काकौष्ठ इति॥

अउ22.69
एषामाद्या दश सिध्यन्ति।
न त्वितरे॥

अउ22.70
तत्र बाह्यायां पाल्यां दीर्घायामाभ्यन्तरः सन्धिः।
तथेतरायां बाह्यः।
समः समयोश्च॥

अउ22.71
अण्वादिविषमयोस्तु परस्परविपर्ययौ॥

अउ22.72
या त्वेकैव पाली स्थूला पृथ्वी स्थिरा च स्यात् तां द्विधा पाटयित्वोपरि छित्वा सन्दध्यात्॥

अउ22.73
गण्डोत्कृत्तेन वा सशोणितेन सानुबन्धेन मांसेन पालीं कल्पयेत्।
यस्य पालीद्वयमपि नास्ति तस्याप्येष एव विधिः।
अथवा समानवयोदोषादेः सञ्चार्य कर्णपीठं समं मध्य निवेश्य वर्द्धयेत्॥

अउ22.74
सन्धानविधिः पुनरातुरे ग्रथितकेशान्ते बन्धनमुपघारिते छेद्यभेद्यलेख्यैरुपपन्नैरुपपाद्य कर्णं शोणितमवेक्षेत दुष्टमदुष्टं वेति॥

अउ22.75
ततो वातदुष्टे धान्याम्लोष्णोदकाभ्यां पित्तदुष्टे क्षीरशीतोदकाभ्यां श्लेष्मदुष्टे वारुणीसलिलाभ्यां प्रक्षाल्य पुनश्चावलिख्यानुन्नतमहीनविषमं सन्धिं निवेश्य ततो मधुघृताभ्यामभ्यज्य पिचुप्लोतयोरन्यतरेणावगुण्ठ्य सूत्रेण नातिगाढमशिथिलं च बध्वा सिराव्यथोक्तेन कपालस्य वा चूर्णेनावकीर्याचारिकमुपदिशेत्॥

अउ22.76
सन्धिमश्लिष्यन्तं क्षौमसूत्रेण सीव्येत्।
अतिक्षीणपालिकं वा शोणिताक्तेन पिचुना वेष्टयेत्।
व्रणवच्चैनमुपाचरेत्।
त्र्यहाच्चतुरहाद्वा सलिलेन परिषिच्य पिचुं सूत्रं चापनयेत्।
न चाशुद्धरक्तमतिप्रवृत्तरक्तं क्षीणरक्तं वा कर्णं सन्दध्यात्॥

अउ22.77
तस्य हि स्वयमपि सन्धिर्विश्लिष्यते आध्मायते श्यावतामुपैति पच्यते शुष्यति चिराद्रोहति रूढोप्याभरणं न क्षमते।
सशोफकण्डूसन्तापो ग्रन्थिमांश्च भवति।
तत्र च यथास्वं प्रतिकुर्वीत।
दुष्टरक्ते च रक्तमवसेचयेत्।
क्षीणरक्तं स्नेहपाननस्यमांसरसाशनाभ्यङ्गैर्बृंहयेत्॥

अउ22.78
सर्वत्र चैवमपि सोपद्रवसन्धौ सन्धिं विमुच्य पूर्वापचारोपस्थापितस्मृतिः सम्यक्सन्दधीतेति।
भवति चात्र॥

अउ22.79
न कर्णे शोफरागादियुक्ते सन्धानमाचरेत्।
न घस्मरस्य नात्युष्णे नाविशुद्धतनोरपि॥

अउ22.80
सुरूढं जातरोमाणं श्लिष्टसन्धिं समं स्थिरम्।
सुवर्ष्माणमरोगं च शनैः कर्णं विवर्द्धयेत्॥

अउ22.81
अन्यथा दाहरुक्तोदशोफाः स्युस्तत्र कारयेत्।
शीतान्प्रदेहसेकादीन् शुद्धिं च क्लेदनाशिनीम्॥

अउ22.82
स्नेहावानूपजौ तैलं सर्पिर्लाक्षारसं समम्।
साधयेन्मधुरस्कन्धहयगन्धामयूरकैः॥

अउ22.83
पिष्टैर्दशगुणक्षीरे तत्परं कर्णवर्द्धनम्।
कठिनाः सरुजः क्षामाः पाल्यः स्वेदितमर्द्दिताः।
अभ्यक्तास्तेन जायन्ते मृदवो नीरुजः स्थिराः॥

अउ22.84
बृहत्यौ कच्छुरां वारिशूकमर्कजटां घृतम्।
माक्षिकं शङ्खिनीं तैलं सप्ताहं ताम्रभाजने।
थापयेत् तत्परं कर्णमालेपात् पोषयेत् कृशम्॥

अउ22.85
चर्मचटिका जलौको हयबन्धा शबरकन्दकं तुल्यम्।
माहिषनवनीतयुतं कपित्थगं कर्णवर्धनं साक्षात्।
कुर्याच्चाभ्यञ्जनालेपान् पलिशोषे प्रकीर्तितान्॥

अउ22.86
अथ कुर्याद्वयस्थस्य च्छिन्नां शुद्धस्य नासिकाम्।
छिन्द्यान्नासासमं पत्रं तत्तुल्यं च कपोलतः॥

अउ22.87
त्वङ्मांसं नासिकासन्ने रक्षस्तत्तनुतां नयेत्।
सीव्येत् गण्डं ततः सूच्या सीवन्या पिचुयुक्तया॥

अउ22.88
नासाच्छेदेथ लिखिते परिवर्त्योपरि त्वचम्।
कपोलवध्रं सन्दध्यात् सीव्येन्नासां च यत्नतः॥

अउ22.89
नाडीभ्यामुत्क्षिपेदन्तः सुखोच्छ्वासप्रवृत्तये।
आमतैलेन सिक्त्वानु पतङ्गमधुकाञ्जनैः॥

अउ22.90
शोणितस्थापनैश्चान्यैः सुश्लक्ष्णैरवचूर्णयेत्।
ततो मधुघृताभ्यक्तं बध्वाचारिकमादिशेत्॥

अउ22.91
ज्ञात्वावस्थान्तरं कुर्यात् सद्योव्रणविधिं ततः।
छिन्द्याद्रूढेधिकं मांसं नासोपान्ताच्च चर्म तत्।
सीव्येत्ततश्च सुश्लक्ष्णं हीनं संवर्धयेत् पुनः॥

अउ22.92
निवेशिते यथान्यासं सद्यःच्छिन्नेप्ययं विधिः॥

अउ22.93
नाडीयोगाद्विनौष्ठस्य नासासन्धानवद्विधिः॥
इति द्वाविंशोऽध्यायः॥

अथ त्रयोविंशोऽध्यायः।

अउ23.1
अथातो नासारोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ23.2
अवश्यायानिलरजोभाष्यातिस्वप्नजागरैः।
नीचात्युच्चोपधानेन पीतेनान्येन वारिणा॥

अउ23.3
अत्यम्बुपानरमणच्छर्दिबाष्पग्रहादिभिः।
क्रुद्धा वातोल्बणा दोषा नासायां स्त्यानतां गताः।
जनयन्ति प्रतिश्यायं वर्धमानं क्षयप्रदम्॥

अउ23.4
तत्र वातात् प्रतिश्याये मुखशोषो भृशं क्षवः।
घ्राणोपरोधनिस्तोददन्तशङ्खशिरोव्यथाः॥

अउ23.5
कीटका इव सर्पन्ति मन्यते परितो भ्रुवौ।
स्वरसादश्चिरात् पाकः शिशिराच्छकफस्रुतिः॥

अउ23.6
पित्तात्तृष्णाज्वरघ्राणापिटकासम्भवभ्रमाः।
नासाग्रपाको रूक्षोष्णताम्रपीतकफस्रुतिः॥

अउ23.7
कफात् कासोरुचिः श्वासो वमथुर्गात्रगौरवम्।
माधुर्यं वदने कण्डूः स्निग्धशुक्लकफस्रुतिः॥

अउ23.8
सर्वजो लक्षणैः सर्वैरकस्माद्वृद्धिशान्तिमान्॥

अउ23.9
दुष्टं नासासिराः प्राप्य प्रतिश्यायं करोत्यसृक्।
उरसः सुप्तता ताम्रनेत्रत्वं श्वासपूतिता।
कण्डूः श्रोत्राक्षिनासासु पित्तोक्तं चात्र लक्षणम्॥

अउ23.10
सर्व एव प्रतिश्याया दुष्टता यान्त्युपेक्षिताः।
यथोक्तोपद्रवाधिक्यात् स सर्वेन्द्रियतापनः॥

अउ23.11
साग्निसादज्वरश्वासकासोरःपार्श्ववेदनः।
कुप्यत्यकस्माद् बहुशो मुखदौर्गन्ध्यशोषकृत्॥

अउ23.12
नासिकाक्लेदसंशोषशुद्धिरोधकरो मुहुः।
पूयोपमासितारक्तग्रथितश्लेष्मसंस्रुतिः।
मूर्च्छन्ति चात्र कृमयो दीर्घस्निग्धसिताणवः॥

अउ23.13
पक्वलिङ्गानि तेष्वङ्गलाघवं क्षवथोः शमः।
श्लेष्मा सुचिक्कणः पीतो ज्ञानं च रसगन्धयोः॥

अउ23.14
तीक्ष्णाग्राणोपयोगार्करश्मिसूत्रतृणादिभिः।
वातकोपिभिरन्यैर्वा नासिकातरुणास्थनि॥

अउ23.15
विघट्टितेऽनिलः क्रुद्धो रुद्धः शृङ्गाटकं व्रजम्।
निवृत्तः कुरुतेऽत्यर्थं क्षवथुं स भृशक्षवः॥

अउ23.16
शोषयन् नासिकास्रोतः कफं च कुरुतेऽनिलः।
शूकपूर्णाभनासात्वं कृच्छ्रादुच्छ्वसनं ततः।
स्मृतोऽसौ नासिकाशोषः नासानाहे तु जायते॥

अउ23.17
नद्धत्वमिव नासायाः श्लेष्मरुद्धेन वायुना।
निश्वासोच्छ्वाससंरोधात् स्रोतसी संवृते इव॥

अउ23.18
पचेन्नासापुटे पित्तं त्वङ्मांसं दाहशूलवत्।
स घ्राणपाकः स्रावस्तु तत्संज्ञः श्लेष्मसम्भवः॥

अउ23.19
अच्छो जलोपमोऽजस्रं विशेषान्निशि जायते॥

अउ23.20
कफः प्रवृद्धो नासायां रुध्वा स्रोतांस्यवीनसम्।
कुर्यात् सघुर्घुरश्वासं पीनसाधिकवेदनम्॥

अउ23.21
अवेरिव स्रवत्यस्य प्रक्लिन्ना तेन नासिका।
अजस्रं पिच्छिलं शीतं पक्वं सिङ्घाणकं घनम्॥

अउ23.22
रक्तेन नासा दग्धेव बाह्यान्तः स्पर्शनासहा।
भवेद्धूमोपमोच्छ्वासा सा दीर्प्तिदहतीव च॥

अउ23.23
तालुमूले मलैर्दुष्टे मारुतो मुखनासिकात्।
श्लेष्मा च पूतिर्निर्गच्छेत् पूतिनासं वदन्ति॥

अउ23.24
निचयादभिघाताद्वा पूयासृङ्नासिका स्रवेत्।
तत्पूयरक्तमाख्यातं शिरोदाहरुजाकरम्॥

अउ23.25
पित्तश्लेष्मावरुद्धोन्तर्नासायां शोषयेन्मरुत्।
कफं स शुष्कः पुटतां प्राप्नोति पुटकं तु तत्॥

अउ23.26
अर्शोर्बुदानि विभजेद्दोषलिङ्गैर्यथायथम्॥

अउ23.27
सर्वेषु कृच्छ्रोच्छ्वसनं पीनसं प्रततं क्षुतम्।
सानुनासिकवादित्वं पूतिनासः शिरोव्यथा।
अष्टादशानामित्येषां यापयेद्दुष्टपीनसम्॥
इति त्रयोविंशोऽध्यायः॥

अथ चतुर्विंशोऽध्यायः॥

अउ24.1
अथातो नासारोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ24.2
सर्वेष्वादौ पीनसेषु स्नेहस्वेदवमनधूमगण्डूषस्निग्धोष्णभोजननिवातशयनासनानि सेवेत॥

अउ24.3
पाचनार्थं च गुडार्द्रकक्षीरत्रिकटुकाजमांसमद्याम्लभोजनानि॥

अउ24.4
रोहिषाजाजीवचाचोरकोपकुञ्चिकातर्कारीचातुर्जातकरजो वस्त्रावबद्धं मुहुर्मुहुरुपजिघ्नेत्।
घृताक्तसक्तून् मल्लकसम्पुटे कृत्वा धूमं च पिबेत्॥

अउ24.5
पक्वे तु शिरोविरेचनमवपीडं च युञ्ज्यात्॥

अउ24.6
निदानोक्तानि च वर्जयेत्।
विशेषेण शीताम्बुस्नानपानात्युच्चोपधानानुपधानक्रोधशोकान्॥

अउ24.7
अथ वातप्रतिश्याये पूर्वमेव वातहरद्रव्यविपक्वं ससैन्धवं प्रातः सर्पिः पिबेन्महाषट्पलं वा॥

अउ24.8
दशमूलकुलत्थकोलयवशुष्कमूलकव्योषलवणपञ्चकैः सदधि धान्याम्लं सर्पिः सिद्धमाहारे पाने च प्रणीतं प्रतिश्याययक्ष्माकासश्वासग्रहणीगुल्मविबन्धघ्नम्॥

अउ24.9
जीर्णस्नेहं जाङ्गलरसेन व्योषदाडिमसैन्धववता बालमूलकरसेन सर्वधान्ययूषेण वा भोजयेत्।
नागरं वा पयसा पिबेत्॥

अउ24.10
कृष्णादशमूलशुण्ठीयवैरण्डमूलक्काथासिद्धेन पयसोत्तमाङ्गं स्वेदयेत्।
तदेव च पानभोजनयोर्विदध्यात्।
अर्दितोक्तांश्च स्वेदान्।
एवमपरिपच्यमाने पुनः पुनर्नाडीस्वेदं वातहरं चास्थापनमनुवासनं शिरोबस्तिं च॥

अउ24.11
पक्वे तु तैलं क्षवकचूर्णयुक्तं ससैन्धवं सर्पिर्वा शिरोविरेचनम्॥

अउ24.12
पित्तप्रतिश्याये पद्मकोशीरपटोलसारिवाविदारीशतावरीक्षीरिद्रुमशुङ्गशठीकर्कटाख्यादुरालभानामर्द्धढकमष्टगुणेम्भासि विपाच्य पादावशेषे मधुकमृद्वीकाचन्दनशृङ्गाटककशेरुकश्वेतपाकान्यक्षमात्राणि दत्वा घृतप्रस्थं पयसा सह साधयेत्।
तत् प्रातः पानाय युञ्ज्यात्।
जीर्णे सुखोष्णतोयपरिषिक्तं ससैन्धवेन रसेन भोजयेत्।
सुस्निग्धं विरेचयेत् द्राक्षापटोलश्रीपर्णीमूर्वात्रिवृत्क्वाथेन त्रिवृत्पथ्यापूगफलचूर्णान्वितेन॥

अउ24.13
विरिक्तभुक्तस्य शीतैः शिरोवक्त्रलेपपरिषेककवलग्रहान् वितरेत्॥

अउ24.14
व्यजनपवनविधूयमानश्च नीलशाद्वलोपवनशिशिरकरकिरणधारागृहाणि सेवेत॥

अउ24.15
तत्र च पक्वे दोषे शिरोविरेकं पुराणघृतेन ससैन्धवेन घृतमण्डेन वा कट्फलान्वितेन कुर्यात्।
विशुद्धस्रोतसश्च जाङ्गलरसेन क्षीरेण वा शीतेन भोजनम्॥

अउ24.16
कफजे तु यवक्षारावचूर्णितमुष्णोदकानुपानं घृतं पाययेत्।
जीर्णे च तिलमाषपललवतीं यवागूम्।
ततो वामनीयौषधक्वाथसिद्धया ससर्पिष्कया सैन्धवमाषचूर्णप्रगाढया पेययोष्णाम्भसा च वामयेत्॥

अउ24.17
ततस्तीक्ष्णधूमकवलयवान्नचणकप्रायाहारनाडीस्वदेरुपाचरेत्।
अरुचिगौरवयोस्तु विशोधयेत्॥

अउ24.18
पक्वे क्षवकविडङ्गसैन्धवादीभिर्नस्यम्।
तैलाप्लुतो नागरचूर्णानुविद्धो मुद्ग आहारो यथासात्म्यं च रूक्षतीक्ष्णोष्णम्॥

अउ24.19
शुद्धघ्राणपथस्य देवदारुसरलकाकोलीजीवकमधुकपिप्पल्यनन्ताक्षीरविपक्वं तैलं नस्यम्॥

अउ24.20
सान्निपातिके दोषबलतः प्रतिकुर्यात्।
रसाञ्जनातिविषामुस्तभद्रदारुसाधितं चात्र तैलं नावनम्॥

अउ24.21
रक्तजे पैत्तिको रक्तपित्तोक्तश्च विधिः॥

अउ24.22
दुष्टप्रतिश्याये व्योषचित्रकयवक्षारबीजकविडङ्गपूतीकरञ्जत्वग्लवणत्रयैर्मांसरसप्रतीवापविपक्वं सक्षौद्रं सर्पिः पाययेत्।
जीर्णे घृते जाङ्गलरसेन तलोपसेकं भोजयेत्।
स्निग्धं च कफप्रतिश्यायवदुपाचरेत्॥

अउ24.23
पक्वेऽवपीडं व्योषेन्द्रयवविडङ्गसारजीरकसैन्धवैर्बस्तमूत्रपिष्टैर्दद्यात्।
विशुद्धघ्राणस्रोतसं च पुनरुपस्नेह्य विरेचयेत्।
भृष्टान्यवान् भूस्तृणकाम्रातकजीरकत्रिवृतायुक्तान् गोमूत्रेण क्वाथयेत्।
तं क्वाथमभयानागरमरिचक्रमुकसैन्धवयावशूकचूर्णयुक्तं सबीजपूरकरसं पाययेत्।
कोष्णोदकं चानुकण्ठयेत्॥

अउ24.24
विरिक्तं च काले मुस्तहरिद्रानागरयवक्षारपूतीकरञ्जरेणुकाभिरजाविगोत्रदधिभिश्च सिद्धं सर्पिरुपयोजयेत्।
तीक्ष्णानि च निरूहानुवासनानि।
अरिष्टांश्च पानार्थम्॥

अउ24.25
एवमप्यशान्तौ हिङ्गुक्षारामरदारुविपक्वं घृतं मांसरसानुपानं पिबेत्॥

अउ24.26
कोशाम्रपल्लवमूर्वा तर्कारीङ्गुदीफलफणिज्जकमहापञ्चमूलकण्टकारिकासारिवोरुपूगहिंस्रानिम्बशिग्रुफलरक्षोघ्नकृमिघ्नदन्ती पूतिकरञ्जपिप्पलीवार्ताकबीजाहिमारकमूलत्वक्पत्रपुष्पफलैरजामूत्रपिष्टैरजाश्वशकृद्रसयुक्तैर्धूमवर्तिं कृत्वा घृताभ्यक्तां पातुं प्रयच्छेत्॥

अउ24.27
पिप्पलीवर्धमानं चोपयुञ्जीत।
कृमिघ्नैश्च योगैर्यापयेत्॥

अउ24.28
भृशक्षवथौ पुटके च निम्बकट्फलकुष्ठमरिचचूर्णैः क्लेदनाय प्रधमनम्।
पिप्पलीकुष्ठशुण्ठीविडङ्गमृद्वीकाकषायकल्कविपक्वं तैलं घृतं वा नावनम्॥

अउ24.29
नासाशोषे बलातैलं पाने शिरोबस्तौ च।
स्निग्धस्य स्वेदः।
क्षीरसर्पिर्नस्यं मधुरवर्गसाधितं वा तैलम्।
स्नेहिको धूमः।
तथा नासानाहेऽपि।
एवमनुपशमे शिरोविरेकः॥

अउ24.30
नासापाके दीप्तौ च जालौकोभिरस्रविस्रावणम्।
शीतैरूर्ध्वाधोविरेकलेपसेकाः।
नासास्रावे तीक्ष्णं नस्यं धूमश्च॥

अउ24.31
अवीनसे पूतिनासे च गुडमरिचहिङ्गुशिवाटिकाविडङ्गैरजामूत्रपिष्टैर्नस्यम्।
कफप्रतिश्यायवच्च स्नेहस्वेदवमनानि॥

अउ24.32
वमितवतो निर्गुण्डीशिग्रुतर्कारीफणिज्जकक्षवकसुरसार्जकपत्रस्वरसेन सार्षपं पीलुजं वा तैलं विपाच्य नस्यं विदध्यात्॥

अउ24.33
लाक्षाविडङ्गपिप्पलीलवङ्गक्षवकनिशाकुष्ठवचाकरञ्जिकाकल्कैर्वा तिलतैलम्।
शिग्रुबृहतीदन्तीमूलबिल्वव्योषसुरससैन्धवैर्वा॥

अउ24.34
उत्पन्नमात्रं पूयरक्तं रक्तप्रतिश्यायवच्चिकित्सेत्।
प्रवृद्धं नाडीव्रणवत्।
कृतवमनस्य चास्य नस्यधूमौ प्रयोजयेत्॥

अउ24.35
अर्शांसि विधिवत् क्षारेणाग्निना वा दहेत्।
स्थूलानि तु शस्त्रेण स्पृष्ट्वा दाहानन्तरं शीतां क्रियां योजयेत्॥

अउ24.36
वर्तिं च नासायां कुम्भनिकुम्भाग्निकसैन्धवपिप्पलीमनश्शिलालकल्कमधुघृतप्रदिग्धाम्॥

अउ24.37
तुवरिकाबिभीतकहरिद्रालोध्रप्रियङ्गुकरञ्जिकाकल्कगुडोदकविपक्वं तैलं नावनम्।
करञ्जकलोध्रोत्पलमधुकतिन्दुकास्थित्रिफलाखदिरसारविपक्वं॥

अउ24.38
यथादोषं च स्नेहवमनविरेकादीन् प्रणिदध्यात्॥

अउ24.39
अर्बुदं बडिशेन गृहीत्वा मण्डलाग्रेण मूले समं छिन्द्यात्।
छिन्नं चोच्छिङ्खयेत्।
चलप्रमृष्टं च व्रणं शलाकया दहेत्तैलेन वा।
अग्निदग्धं म्रङ्क्षयेत्ततः शिशिरैः प्रदेहैः॥

अउ24.40
उपरूढव्रणस्य लोध्रावापं तीक्ष्णोष्णलवणद्रव्यगोमूत्रयुक्तं सार्षपं कारञ्जं वा तैलं नावनम्।
पित्तजे रक्तजे वार्बुदे गोदन्तसैन्धवालकासीसकांस्यनीलैरम्बुपिष्टैरालेपः।
ततश्च शीताः प्रदेहसेकाः।
शीतैरेव च साधितानि घृतान्यभ्यङ्गनस्यपानानि॥

अउ24.41
मांसमेदः सन्निपातार्शोर्बुदानि चैवं साधयेदिति।
भवति चात्र॥

अउ24.42
उपसंहरति।
हीनच्छेदात् पुनर्बृद्धिरतिच्छेदात् स्वरक्षयः।
गन्धाज्ञानं च वीसर्पो मूर्च्छा छिन्द्यादतः समम्॥
इति चतुर्विंशोऽध्यायः॥

अथ पञ्चविंशोऽध्यायः।

अउ25.1
अथातो मुखरोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ25.2
मात्स्यमहिषवाराहपिशितामकमूलकम्।
माषसूपदधिक्षीरशुक्तेक्षुरसफाणितम्॥

अउ25.3
अवाक्शय्यां च भजतो द्विषतो दन्तधावनम्।
धूमच्छर्दनगण्डूषानुचितं च सिराव्यधम्।
क्रुद्धाः श्लेष्मोल्बणा दोषाः कुर्वन्त्यन्तर्मुखं गदान्॥

अउ25.4
तत्र खण्डौष्ठ इत्युक्तो वातेनौष्ठो द्विधाकृतः॥

अउ25.5
ओष्ठकोपे तु पवनात् स्तब्धावोष्ठौ महारुजौ।
दाल्येते परिपाट्येते परुषासितकर्कशौ॥

अउ25.6
पित्तात्तीक्ष्णासहौ पीतौ सर्षपाकृतिभिश्चितौ।
पिटकाभिर्बहुक्लेदावाशुपाकौ #

अउ25.7
कफात् पुनः।
शीतासहौ गुरू शूनौ सवर्णपिटकाचितौ॥

अउ25.8
सन्निपातादनेकाभौ दुर्गन्धास्रावपिच्छिलौ।
अकस्मान्म्लानसंशूनरुजौ विषमपाकिनौ॥

अउ25.9
रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ।
खर्जूरसदृशं चात्र क्षीणे रक्तेर्बुदं भवेत्॥

अउ25.10
मांसपिण्डोपमौ मांसात् स्यातां मूर्च्छत्कृमी क्रमात्॥

अउ25.11
तैलाभश्वयथुक्लेदौ सकण्ड्वौ मेदसा मृदू॥

अउ25.12
क्षतजाववदीर्येते पाट्येते चासकृत् पुनः।
ग्रथितौ च पुनः स्यातां कण्डूलौ दशनच्छदौ॥

अउ25.13
जलबुद्बुदवद्वातकफादोष्ठे जलार्बुदम्॥

अउ25.14
गण्डालजी स्थिरः शोफो गण्डे दाहरुजान्वितः॥

अउ25.15
वातादुष्णासहादन्ताः शीतस्पर्शाधिकव्यथाः।
दाल्यन्त इव शूलेन शीताख्यो दालनश्च सः॥

अउ25.16
दन्तहर्षे प्रवाताम्लशीतभक्षाक्षमा द्विजाः।
भवन्त्यम्लाशनेनैव सरुजश्चलिता इव॥

अउ25.17
दन्तभेदे द्विजास्तोदभेदरुक्स्फुटनान्विताः।
चालश्वलद्भिर्दशनैर्भक्षणादधिकव्यथैः॥

अउ25.18
करालस्तु करालानां दशनानां समुद्भवः॥

अउ25.19
दन्तोधिकोधिदन्ताख्यः स चोक्तः खलवर्द्धनः।
जायमानेऽतिरुग्दन्ते जाते तत्र तु शाम्यति॥

अउ25.20
अधावनान्मलो दन्ते कफो वा वातशोषितः।
पूतिगन्धिः स्थिरीभूतः शर्करा #

अउ25.21
साप्युपेक्षिता।
शातयत्यणुशो दन्तकपालानि कपालिका॥

अउ25.22
श्यावः श्यावत्वमायातो रक्तपित्तानिलैर्द्विजः।

अउ25.23
समूलं दन्तमाश्रित्य दोषैरुल्बणमारुतैः।
शोषिते मज्ज्ञि सुषिरे दन्तेन्नमलपूरिते॥

अउ25.24
पूतित्वात् कृमयः सूक्ष्मा जायन्ते जायते ततः।
अहेतुतीव्रार्तिशमः ससंरम्भोसितश्चलः।
प्रलूनः पूयरक्तस्रुत् स चोक्तः कृमिदन्तकः॥

अउ25.25
श्लेष्मरक्तेन पूतीनि वहन्त्यस्रमहेतुकम्।
शीर्यन्ते दन्तमांसानि मृदुक्लिन्नासितानि च।
शीतादोसौ #

अउ25.26
उपकुशः पाकः पित्तासृगुद्भवः।
दन्तमांसानि दह्यन्ते रक्तान्युत्सेधवन्त्यतः॥

अउ25.27
कण्डूमन्ति स्रवन्त्यस्रमाध्मायन्तेसृजिस्थिते।
चला मन्दरुजो दन्ताः पूतिवक्त्रं च जायते॥

अउ25.28
दन्तयोस्त्रिषु वा शोफो बदरस्थिनिभो घनः।
कफास्रात्तीव्ररुक् शीघ्रं पच्यते दन्तपुप्पुटः॥

अउ25.29
दन्तमांसे मलैः सास्रैर्बाह्यान्तः श्वयथुर्गुरुः।
सरुग्दाहः स्रवेत् भिन्नः पूयास्रं दन्तविद्रधिः॥

अउ25.30
श्वयथुर्दन्तमूलेषु रुजावान्रक्तपित्तजः।
लालास्रावी स सुषिरो दन्तमांसप्रशातनः॥

अउ25.31
स सन्निपातज्वरवान् सपूयरुधिरस्रुतिः।
महासुषिर इत्युक्तो विशीर्णद्विजबन्धनः॥

अउ25.32
दन्तान्ते कीलवच्छोफो हनुकर्णरुजाकरः।
प्रतिहन्त्यभ्यवहृतिं श्लेष्मणा सोधिमांसकः॥

अउ25.33
घृष्टेषु दन्तमांसेषु संरम्भो जायते महान्।
यस्मिंश्चलन्ति दन्ताश्च स विदर्भोभिघातजः॥

अउ25.34
दन्तमांसाश्रितान्रोगान् यः साध्यानप्युपेक्षते।
अन्तस्तस्यास्रवन् दोषः सूक्ष्मां सञ्जनयेद्गतिम्।
पूयं मुहुः सा स्रवति त्वङ्मांसास्थिप्रभेदिनी॥

अउ25.35
ताः पुनः पञ्च विज्ञेया लक्षणैः स्वैर्यथोदितैः॥

अउ25.36
शाकपत्रखरास्रस्ता स्फुटिता वातदूषिता।
जिह्वा पित्तात् सदाहोषा रक्तैर्मांसाङ्कुरैश्चिता।
शाल्मलीकण्टकाभैस्तु कफेन बहला गुरुः॥

अउ25.37
कफपित्तादधः शोफो जिह्वास्तम्भकृदुन्नतः।
मत्स्यगन्धिर्भवेत् पक्वः सोलसो मांसशातनः॥

अउ25.38
प्रबन्धनेऽधो जिह्वायाः शोफो जिह्वाग्रसन्निभः।
साङ्कुरः कफपित्तास्रैर्लालोषास्तम्भवान् खरः।
अधिजिह्वः सरुक्कण्डूवाक्याहारविघातकृत्॥

अउ25.39
तादृगेवोपजिह्वस्तु जिह्वाया उपरि स्थितः॥

अउ25.40
तालुमांसेनिलाद्दुष्टे पिटकाः सरुजाः खराः।
बह्व्यो घनास्रावयुतास्तास्तालुपिटकाः स्मृताः॥

अउ25.41
तालुमूले कफात्सास्रान्मत्स्यबस्तिनिभो मृदुः।
प्रलम्बः पिच्छिलः शोफो नासयाहारमीरयन्।
कण्ठोपरोधतृट्कासवमिकृत् गलशुण्डिका॥

अउ25.42
तालुमध्ये निरुङ्मांसं संहतं तालुसंहतिः॥

अउ25.43
पद्माकृतिस्तालुमध्ये रक्ताच्छ्वयथुरर्बुदम्॥

अउ25.44
कच्छपः कच्छपाकारश्चिरवृद्धिः कफादरुक्॥

अउ25.45
कोलाभः श्लेष्ममेदोभ्यां पुप्पुटो नीरुजः स्थिरः॥

अउ25.46
पित्तेन पाकः पाकाख्यः पूयास्रावी महारुजः॥

अउ25.47
वातपित्तज्वरायासैस्तालुशोषस्तदाह्वयः॥

अउ25.48
जिह्वाप्रबन्धजाः कण्ठे दारुणा मार्गरोधिनः।
मांसाङ्कुराः शीघ्रचया रोहिणी शीघ्रकारिणी॥

अउ25.49
कण्ठास्यशोषकृद्वातात् सा हनुश्रोत्ररुक्करी।
पित्ताज्ज्वरोषातृण्मोहकण्ठधूमायनान्विता॥

अउ25.50
क्षिप्रजा क्षिप्रपाकातिरागिणी स्पर्शनासहा।
कफेन पिच्छिला पाण्डुरसृजा स्फोटकाचिता॥

अउ25.51
तप्ताङ्गारनिभा कर्णरुक्वरी पित्तजाकृतिः।
गम्भीरपाका निचयात् सर्वलिङ्गसमन्विता॥

अउ25.52
दोषैः कफोल्बणैः शोफः कोलवत् ग्रथितोन्नतः।
शूककण्टकवत् कण्ठे शालूको मार्गरोधनः॥

अउ25.53
वृन्दो वृत्तोन्नतो दाहज्वरकृत् गलपार्श्वगः॥

अउ25.54
हनुसन्ध्याश्रितः कण्ठे कार्पासीफलसन्निभः।
पिच्छिलो मन्दरुक्शोफः कठिनस्तुण्डिकेरिका॥

अउ25.55
बाह्यान्तःश्ववथुर्घोरो गलमार्गार्गलोपमः।
गलौघो मूर्द्धगुरुतातन्द्रालालाज्वरप्रदः॥

अउ25.56
वलयं नातिरुक्शोफस्तद्वदेवायतोन्नतः॥

अउ25.57
मांसकीलो गले दोषैरेकोनेकोथवाल्परुक्।
कृच्छ्रोछ्वासोभ्यवहृतिः पृथुमूलो गिलायुकः॥

अउ25.58
भूरिमांसाकुङ्रवृता तीव्रतृङ्ज्वरमूर्द्धरुक्।
शतघ्नी निचिता वर्तिः शतघ्नीवातिरुक्करी॥

अउ25.59
व्याप्तसर्वगलः शीघ्रजन्मपाको महारुजः।
पूतिपूयनिभास्नावी श्वयथुर्गलविद्रधिः॥

अउ25.60
जिह्वावसाने कण्ठादावपाकं श्वयथुं मलाः।
जनयन्ति स्थिरं रक्तं नीरुजं तद्गलार्बुदम्॥

अउ25.61
पवनश्लेष्ममेदोभिर्गलगण्डो भवेत् बहिः।
वर्द्धमानः स कालेन मुष्कवल्लम्बते निरुक्॥

अउ25.62
कृष्णारुणो वा तोदाढ्यः स वातात् कृष्णराजिमान्।
वृद्धस्तालुगले शोषं कुर्याच्च विरसास्यताम्॥

अउ25.63
स्थिरः सवर्णः कण्डूमान् शीतस्पर्शो गुरुः कफात्।
वृद्धस्तालुगले लेपं कुर्याच्च मधुरास्यताम्॥

अउ25.64
मेदसा श्लेष्मवद्धानिवृध्योः सोनुविधीयते।
देहं वृद्धस्य कुरुते गले शब्दं स्वरेऽल्पता॥

अउ25.65
श्लेष्मरुद्धानिलगतिः शुष्ककण्ठो हतस्वरः।
ताम्यन् प्रसक्तं श्वसिति येन स स्वरहानिलात्॥

अउ25.66
करोति वदनस्यान्तर्व्रणान् सर्वसरोऽनिलः।
सञ्चारिणोऽरुणान्रूक्षानो ष्ठौ ताम्रौ चलत्वचौ॥

अउ25.67
जिह्वा शीतासहा गुर्वी स्फुटिता कण्टकाचिता।
विवृणोति च कृच्छ्रेण मुखं पाको मुखस्य सः॥

अउ25.68
अधः प्रतिहतो वायुरर्शोगुल्मकफादिभिः।
यात्यूर्ध्वं वक्त्रदौर्गन्ध्यं कुर्वन्नूर्ध्वगुदस्तु सः॥

अउ25.69
मुखस्य पित्तजे पाके दाहोषे तिक्तवक्त्रता।
क्षारोक्षितक्षतसमा व्रणास्तद्वच्च रक्तजे॥

अउ25.70
क्वफजे मधुरास्यत्वं कण्डूमत्पिच्छिला व्रणाः॥

अउ25.71
अन्तः कपोलमाश्रित्य श्यावपाण्डु कफोर्बुदम्।
कुर्यात्तत् घट्टितं छिन्नं मृदितं च विवर्धते॥

अउ25.72
मुखपाको भवेत् सास्रैः सर्वैः सर्वाकृतिर्मलैः॥

अउ25.73
पूत्यास्यता च तैरेव दन्तकाष्ठादिविद्विषः॥

अउ25.74
औष्ठे गण्डे द्विजे मूले जिह्वायां तालुके गले।
वक्त्रे सर्वत्र चेत्युक्ता पञ्चसप्ततिरामयाः॥

अउ25.75
एकादशैको दश च त्रयोदश तथा च षट्।
अष्टावष्टादशाष्टौ च क्रमात् तेष्वनुपक्रमाः॥

अउ25.76
करालो मांसरक्तोष्ठावर्बुदानि जलाद्विना।
कच्छपस्तालुपिटका गलौघः सुषिरो महान्॥

अउ25.77
स्वरघ्नोर्ध्वगुदश्यावशतघ्नीवलयालसाः।
नाड्योष्ठकोपौ निचयाद्रक्तात् सर्वैश्च रोहिणी॥

अउ25.78
दशने स्वरभ्रंशी कृच्छ्रोच्छवासोऽतिवत्सरः।
याप्यस्तु हर्षो भेदश्च शेषान् शस्त्रौषधैर्जयेत्॥

इति पञ्चविंशोऽध्यायः।