अष्टाङ्गसंग्रहः उत्तरस्थानम् अध्याय १-५

विकिस्रोतः तः

अष्टाङ्गसंग्रहः

अष्टाङ्गसङ्ग्रहः

उत्तरस्थानम्

अथ प्रथमोऽध्यायः।

अउ1.1
अथातो बालोपचरणीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ1.2
अथ खलु जातमात्रमेव बालमुल्बात् सैन्धवसर्पिषा मार्जयेत्॥

अउ1.3
ततोऽस्यातिप्रबलमोहज्वरपरीतसर्वगात्रस्य क्रोशितुमपि रुजानुरूपमसमर्थस्यानवस्थिताशेषदेहधातोरसम्भाव्ययौवनाद्यवस्थस्य क्रकचस्पर्शमिव करवसनशयनसंसर्गं मन्यमानस्याविकल्पितमङ्गानि विक्षिपतः पुनरिव मरणमनुभवतो लीयमानसंज्ञस्यातिसम्बाधयोनिपुटावपीडितप्राणप्रत्यानयनाय बलातैलेन परिषेकं कुर्यात्।
कर्णमूले चाश्मनोः सङ्घट्टनम्॥

अउ1.4
यदि वाचेष्ट एव स्यात्ततः कृष्णकपालिकया शूर्पेण चैनमभिनिष्पुनीयात्।
दक्षिणकर्णमूले च मन्त्रस्योच्चारयेत्॥

अउ1.5
अङ्गादङ्गात् सम्भवसि हृदयादभिजायसे।
आत्मा वै पुत्रनामासि स जीव शरदां शतम्॥

अउ1.6
शतायुः शतवर्षोऽसि दीर्घमायुरवाप्नुहि।
नक्षत्राणि दिशो रात्रिरहश्च त्वाभिरक्षतु॥

अउ1.7
प्रत्यागतप्राणस्य च प्रकृतिभूतस्य नाभिनालं नालाभिबन्धनाच्चतुरङ्गुलस्योर्ध्वं क्षौमसूत्रेण बध्वा तीक्ष्णेन शस्त्रेण वर्धयेत्।
ग्रीवायां चैनमासज्जेत्।
नाभिं च कुष्ठतैलेन सेचयेत्॥

अउ1.8
ततः क्षीरवृक्षकषायेण सर्वगन्धोदकेन वा तप्ततपनीयरजतनिर्वापणकवोष्णेन कपित्थपत्रकषायेण वा तद्विधेन स्नापयेत्॥

अउ1.9
ततोऽस्य सुपरिलिखितनखया सुप्रक्षालितोपवानया कार्पासपिच्ववगुण्ठितया दक्षिणप्रदेशिन्या जिह्वौष्ठकण्ठमनुसुखं प्रमृज्यात्।
तालु चोन्नाम्य स्नेहपिचुनोपरिष्टादवगुण्ठयेत्॥

अउ1.10
ततश्चैन्द्रीब्राह्मीशङ्खपुष्पीवचाकल्कं मधुघृतोपेतं हरेणुमात्रं कुशाग्राभिमन्त्रितं सौवर्णेनाश्वत्थपत्रेण मेधायुर्बलजननं प्राशयेत्।
तद्वत् ब्राह्मीबलानन्ताशतावर्यन्यतमचूर्णं वा॥

अउ1.11
ततः सैन्धवोपहितेन सर्पिषा गभादकानि वामयेत्।
तथास्योरःकण्ठविशुध्या लाघवमभिलाषश्च जायते॥

अउ1.12
अथास्य जातकर्म प्राजापत्येन विधिना कुर्यात्।

अपि च॥

अउ1.13
सिराणां हृदयस्थानां विवृतत्वात् प्रसूतितः।
तृतीयेऽह्नि चतुर्थे वा स्त्रीणां स्तन्यं प्रवर्तते॥

अउ1.14
तस्मात् प्रथमेऽहन्यनन्तामिश्रिते मधुसर्पिषी मन्त्रपूते त्रिकालं प्राशयेत्।
द्वितीये लक्ष्मणासिद्धं सर्पिस्तृतीये च॥

अउ1.15
ततः प्राङ्निवारितस्तन्यस्य स्वपाणितलसम्मितं सर्पिर्द्विकालं दापयेदनन्तरं च स्तन्यमिष्टतः॥

अउ1.16
अहरहश्चास्य श्रोत्रशृङ्गाटकं स्नेहाप्लुतेन प्लोतेन प्रच्छादयेत्॥

अउ1.17
प्राक्शिरसं चैनं क्षौमनिचये संवेशयेदुच्छीर्षके चास्याभिमन्त्रितमुदकुम्भं स्थापयेत् द्वारपक्षयोश्च॥

अउ1.18
आदारीविदारीबदरीखदिरनिम्बपीलुपरूषकशाखाभिरेनं वीजयेत्।
ताभिश्च समन्ततः सूत्तिकागारं परिवारयेत्।
सर्षपातसीकणकणिकाश्चान्तर्बहिः प्रकिरेत्।
सायं प्रातश्च बलिम्॥

अउ1.19
व्रणोक्तैश्च गुग्गुल्वादिभिर्धूपं कुर्वीत।
तथा ब्राह्मणोथर्ववेदविद्दशाहं शान्तिकर्म कुर्यात्।
मायूरीं महामायूरीमार्यारत्नकेतुधारिणीं चोभयकालं वाचयेत्॥

अउ1.20
हिङ्गुवचातुरुष्करक्षोघ्नैः पोटलिकामुत्तरदेहल्यामासज्जेत्।
कुमारस्य च सह मात्रा कण्ठे उच्छीर्षके च।
तद्वदार्यापर्णशबरीमार्यापराजितां च गोरोचनाभिलिखिताम्॥

अउ1.21
द्वारे च देहलीमनुतिर्यङ्मुसलं निधापयेत्।
कणकण्डकतिन्दुकेन्धनाग्निं नक्तं दिवं च जागृयात्।
तथानुरक्ताः स्त्रियः सुहृदश्च।
प्रहृष्टजनसम्पूर्णं च तद्वेश्म कार्यम्॥

अउ1.22
अथास्य समानवर्णा मध्यमवयाः शुचिरलोलुपा निभृतानातुरा जीवद्वत्सा वत्सला दक्षिणा ब्रह्मचारिण्यव्यङ्गा बहुक्षीरा शुक्लाम्बराचरा दीर्घद्रस्वादिदेहदोषाष्टकरहिता अलम्बोर्ध्वचुचूकातिपीनहनिस्तनदोषमुक्ता युक्तचूचुका धात्री स्यात्तस्या एव स्तन्यं पिबेत्॥

अउ1.23
तच्चोदकपात्रे दुह्यमानमेकतां यदुदकेन सह गच्छति वक्ष्यमाणदोषरहितं च तच्छुद्धमारोग्यबलजननम्॥

अउ1.24
अथ धात्री स्नातानुलिप्ता नित्यमहतवासाः सुमनाः प्रजास्थापनौषधीः शिरसा बिभ्राणा प्राङ्मुखी स्तनं प्राग्दक्षिणं धौतमीषत्परिस्रुतं पाययेत्॥

अउ1.25
नानास्तन्यस्य ह्यसात्म्यत्वान्नानाविधा व्यापदो भवन्ति।
अपरिस्रुते चातिस्तन्यपूर्णस्तनपानेनोत्स्नेहनात् कासश्वासज्वरच्छर्दिषां सम्भवः॥

अउ1.26
रुक्षान्नपानकर्शनक्रोधशोककामादिभिः स्तन्यनाशः।
स्तन्यजननानि तु मद्यानि शीधुवर्ज्यान्यानूपमांसानि द्रवाः स्वाद्वम्ललवणप्रायाश्चाहाराः क्षीरिण्यश्चौषधयः क्षीरपानमनायासः सौमनस्यं च॥

अउ1.27
न तु क्षुधितशोकार्तश्रान्तक्रुद्धप्रदुष्टधातुंगर्भिणीविरुद्धाहारभुक्तानां स्तन्यं पाययेन्नाजीर्णौषधं च बालमिति।
भवति चात्र॥

अउ1.28
षष्टीं निशां विशेषेण कृतरक्षाबलिक्रियाः।
जागृयुर्बान्धवास्तस्य दधतः परमां मुदम्॥

अउ1.29
दशमे द्वादशे वाह्नि गोत्राचारैः शुभैः शुभे।
सूता स्नानोत्सवं कुर्यात् पितापत्यस्य नाम च॥

अउ1.30
दिने शततमे वाख्यां पूर्णे संवत्सरेऽथवा।
बिभ्रतोऽङ्गैर्मनोह्वालरोचनागरुचन्दनम्॥

अउ1.31
पूज्यं त्रिपुरुषानूकमादौ घोषवदक्षरम्।
अवृद्धं कृतमूष्मान्तमनरातिप्रतिष्ठितम्॥

अउ1.32
नक्षत्रदेवतायुक्तं तदेव तु न केवलम्।
मङ्गल्यमन्तरन्तस्थं न दुष्टं न च तद्धितम्॥

अउ1.33
पुंसो विसर्जनीयान्तं समवर्णं स्त्रियाः पुनः।
विषमाक्षरमक्रूरं विस्पष्टार्थं मनोरमम्।
सुखोद्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत्॥

अउ1.34
ततः प्रकृतिभेदोक्तरूपैरायुःपरीक्षणम्।
प्रागुदक्शिरसःकुर्यात् बालस्यज्ञानवान्भिषक्॥

अउ1.35
प्रशस्तवास्तुशरणं सज्जोपकरणं शुचि।
निर्वातं च प्रवातं च वृद्धस्त्रीवैद्यसेवितम्॥

अउ1.36
निर्मत्कुणाखुमशकमतमस्कं च शस्यते।
शुचिधौतोपवानानि निर्वलीनि मृदूनि च॥

अउ1.37
शय्यास्तरणवासांसि रक्षोघ्नैर्धूपितानि च।
काकोऽविशस्तः शस्तश्च धूपने त्रिवृतान्वितः।
वचाज्यकुष्ठश्रीवेष्टसर्षपैर्धूपयेत् सदा॥

अउ1.38
बोधयेत् सहसा सुप्तं नो न चैनं समुत्क्षिपेत्।
तथाह्यस्य समुत्रासो वेगरोधश्च जायते॥

अउ1.39
माक्षिकामलकव्योषबृहतीमूलसैन्धवैः।
लालापनोदरुच्यर्थं मुखमन्तः परामृशेत्॥

अउ1.40
जीवत्खड्गादिशृङ्गेषु समासक्ताञ्छुभान् मणीन्।
धारयेद्दश चैन्द्र्यादीञ्जीवकर्षभकावपि॥

अउ1.41
हस्ताभ्यां ग्रीवया मूर्ध्ना विशेषात् सततं वचाम्।
आयुर्मेधास्मृतिस्वास्थ्यकरीं रक्षोभिरक्षणीम्॥

अउ1.42
स्तन्यदोषात् गदास्तस्य यथोक्तं तत् पिबेद्यतः।
पीनोऽतिकन्धरास्तम्भं कुर्यादूर्ध्वाक्षमूर्ध्वगः॥

अउ1.43
उच्छ्वासरोधात् लंबोऽतिस्तनो जीवितसंशयम्।
न गर्भिण्याः पिबेत् स्तन्यं पारिगर्भिककृद्धि तत्॥

अउ1.44
स्तन्याभावे पयश्छागं गव्यं वा तद्गुणं पिबेत्।
मूलैःसिद्धं बृहत्याद्यैः स्थिराभ्यां वा सितायुतम्॥

अउ1.45
चतुर्थे सूतिकागारादग्निस्कन्दपुरोगमान्।
मासे निष्क्रामयेद्देवान् नमस्कर्तुं स्वलङ्कृतम्॥

अउ1.46
पञ्चमे मासि पुण्येऽह्नि धरण्यामुपवेशयेत्।
द्विकिष्कुमात्रं लिप्तायां बलिं दत्वा चतुर्दिशम्॥

अउ1.47
धरण्यशेषभूतानां माता त्वमसि कामधुक्।
अजरा चाप्रमेया च सर्वभूतनमस्कृता॥

अउ1.48
चराचराणां लोकानां प्रतिष्ठास्यव्ययासि च।
कुमारं पाहि मातेव ब्रह्मा तदनुमन्यताम्॥

अउ1.49
स्वाहेति मन्त्रेणानेन प्रत्यहं च ततः परम्।
साश्रयं सावलम्बं च कट्यादीन् मर्दयेदनु॥

अउ1.50
षष्ठेऽन्नप्राशनं मासि क्रमात्तच्च प्रयोजयेत्।
चिरान्निषेवमाणोऽन्नं बालो नातुर्यमश्नुते॥

अउ1.51
भजेद्यथा यथाचान्नं स्तन्यं त्याज्यं तथा तथा।
षट्सप्ताष्टममासेषु नीरुजस्य शुभेऽहनि।
कर्णौ हिमागमे विघ्येद्धात्र्यङ्कस्थस्य सान्त्वयन्॥

अउ1.52
प्राग्दक्षिणं कुमारस्य भिषग्वामं तु योषितः।
दक्षिणेन दधत् सूचीं पालीमन्येन पाणिना॥

अउ1.53
मध्यतः कर्णपीठस्य किञ्चित् गण्डाशयं प्रति।
जरायुमात्रप्रच्छन्ने रविरश्म्यवभासिते॥

अउ1.54
धृतस्य निश्चलं सम्यगलक्तकरसाङ्किते।
विध्येद्दैवकृते छिद्रे सकृदेवर्जु लाघवात्॥

अउ1.55
नोर्ध्वं न पार्श्वतो नाधः सिरास्तत्र हि संश्रिताः॥

अउ1.56
कालिकामर्मरीरक्तास्तद्व्यधाद्रागरुग्ज्वराः।
सशोफदाहसंरम्भमन्यास्तम्भापतानकाः।
तेषां यथामयं कुर्याद्विभज्याशु चिकित्सितम्॥

अउ1.57
स्थानव्यधान्न रुधिरं न रुग्रागादिसम्भवः।
स्नेहाक्तं सूच्यनुस्यूतं सूत्र चानु निधापयेत्।
आमतैलेन सिञ्चेच्च बहलां तद्वदारया॥

अउ1.58
विध्येत् पालीं हितभुजः सञ्चार्याथ स्थवीयसी।
वर्ति स्त्र्यहात्ततो रूढं वर्धयेत शनैः शनैः।
स्वेदितोद्वर्तिंतं कर्णमभ्यक्तं बृंहणैः पुनः॥

अउ1.59
नाजीण न मलोद्रेके न चात्युष्णेऽपि वर्धयेत्।
सदा च युञ्ज्यादभ्यङ्गान्कर्णपालीगदोदितान्॥

अउ1.60
पुष्टिनीरुक्त्वजननानिति संवर्धिते दृढे।
कलधौतावबद्धानि कर्णे रत्नानि निक्षिपेत्॥

अउ1.61
भिन्द्यादवृद्धौ स्त्रीणान्तु पालीमन्तरपाङ्गतः।
नैव चापाङ्गयोर्बाह्यां व्यापदः स्युस्ततो ध्रुवाः॥

अउ1.62
जिह्मसूचीव्यधाद्वर्तिगाढत्वादथवा मलैः।
जाते महति संरम्भे वर्तिमाश्वपनीय तत्॥

अउ1.63
यवैरण्डजटायष्टीमञ्जिष्ठज्यैः प्रलेपयेत्।
सुरूढं च पुनर्विध्यत् त्वरया तु विवर्धनात्॥

अउ1.64
छिद्येत पाली शुद्धस्य शुद्धास्रां सन्दधीत ताम्।
कर्णामयनिषेधोक्तसन्धानविधिना भिषक्॥

अउ1.65
वर्षं स्ववसतेर्बाह्यं कुमारस्य न दर्शयेत्।
दीपमातपमग्निं च रूपमन्यच्च भासुरम्॥

अउ1.66
अथैनं जातदशनं क्रमशोऽपनयेत् स्तनात्।
पूर्वोक्तं योजयेत् क्षीरमन्नं च लघु बृंहणम्॥

अउ1.67
कुर्यादपस्तनं स्नेहसङ्क्रान्त्या स्तनलेपनैः।
बीभत्सैर्यावकासेककृत्रिमक्षतदर्शनैः॥

अउ1.68
प्रियालमज्जमधुकमधुलाजसितोपलैः।
अपस्तन्यस्य संयोज्यः प्रीणनो मोदकः शिशोः॥

अउ1.69
दीपनो बालबिल्वैलाशर्करालाजसक्तुभिः।
सङ्ग्राही धातकीपुष्पशर्करालाजतर्पणैः॥

अउ1.70
बुभुक्षा चेत् प्रबलतामपस्तन्यस्य गच्छति।
अत्यग्निजिद्धितं तस्य विधानं पारिगर्भिकम्॥

अउ1.71
अभियुक्तः सदाचारो नातिस्थूलो न लोलुपः।
कुमारधारः कतव्यस्तत्राद्यो बालचित्तवित्॥

अउ1.72
अघार्मिकं दुराचारः स्थूलो विकटगामिनम्।
करोति लोलुपो बालं घस्मरत्वेन रोगिणम्॥

अउ1.73
रोगांश्चास्य जयेत् सौम्यैर्भेषजैरविषादकैः।
अन्यत्रात्ययिकाद्व्याधेर्विरेकं सुतरां त्यजेत्॥

अउ1.74
त्रासयेन्नाविधेयं च त्रस्तं गृह्वन्ति हि ग्रहाः।
वस्त्रपातात् परस्पर्शात् पालयेल्लङ्घनाच्च तम्॥

अउ1.75
क्रीडाभूमिः समा कार्या निश्शस्त्रोपलशर्करा।
वेल्लोषणकणाम्भोभिः सिक्ता निम्बोदकेन वा॥

अउ1.76
जातुषं घोषवच्चित्रमत्रासं रमणं बृहत्।
अतीक्ष्णाग्रं गवाश्वादिमङ्गल्यमथ वा फलम्॥

अउ1.77
शक्तिमन्तं यथावर्णं विद्यामध्यापयेत्ततः।
अनुशिष्यात् सदा चैनं धर्माय विनयाय च॥

अउ1.78
यथा नेन्द्रियदुष्टाश्वैर्द्रियते यौवनागमे।
अभ्यङ्गोद्वर्तनं स्नानं प्रत्यहं च समाचरेत्।
सहदेवास्थिराकौन्तीकुमुदोत्पलचन्दनैः॥

अउ1.79
बृहतीफलतर्कारीसर्षपाकुष्ठसैन्धवैः।
अश्वगन्धाबलैरण्डतिलापामार्गतण्डुलैः॥

अउ1.80
सात्मगुप्ताफलैस्तैलं साजक्षीरं विपाचितम्।
रक्षोघ्नः पुष्टिदोऽभ्यङ्गस्तद्वदुद्वर्तनं च तैः॥

अउ1.81
दधिमाक्षिकसंयुक्तैस्त्रिगुणीकृतचिक्कसैः।
मूर्वामूलद्विरजनीयवैश्चोद्वर्तनं हितम्॥

अउ1.82
कुलत्थचूर्णमेकं वा वाजिगन्धारजोऽपि वा।
स्नाने सर्वौषधीकल्को जीवनीयाम्बु चेष्यते॥

अउ1.83
आरग्वधादिनिर्यूहे शृतं शीतवसन्तयोः।
वत्सकादिप्रतीवापं कुमारं प्राशयेत् घृतम्॥

अउ1.84
ग्रीष्मे वातातपस्वेदैर्बालः क्लाम्यत्यतो हिमम्।
प्रातरेव पिबेद्दुग्धं जीवनीयगणैः शृतम्॥

अउ1.85
सिताघृताढ्यान् सक्तूंश्च लिह्यान्नत्वेव पीतकम्।
नात्यम्बुपायी लिह्याद्वा घृतसात्म्यो घृतं शृतम्॥

अउ1.86
काकोलीशर्करामेदातुगायष्ट्याह्वजीवकैः।
कटुन्नटेन मूर्धानं लिम्पेदन्यैश्च शीतलैः॥

अउ1.87
रास्नासरलवर्षाभूहिङ्गुसैन्धवदारुभिः।
सर्पिर्विदार्यादिजले साधितं लेहयेच्छिशुम्॥

अउ1.88
प्रपौण्डरीकं मधुकं सूप्यपर्ण्यौ दुरालभा।
प्रियालमज्जाकाकोलीविदारीकट्फलामृताः॥

अउ1.89
द्राक्षाजशृङ्गी दुग्धीका क्षीरशुक्ला हयाह्वया।
शृङ्गीमधूककुसुममेदर्षभकजीवकम्॥

अउ1.90
एभिः क्षीरघृतं सिद्धं लिह्यात् बालो घनात्यये। ब्राह्मीसिद्धार्थकवचासारिवाकुष्ठसैन्धवैः॥

अउ1.91
सकणैः साधितं पीतं वाङ्मेधास्मृतिकृत् घृतम्।
आयुष्यं पाप्मरक्षोघ्नं भूतोन्मादनिबर्हणम्॥

अउ1.92
त्रिफला लक्ष्मणानन्ता समङ्गा सारिवा वचा।
ब्राह्मी पाठा द्विबृहती द्विस्थिरा द्विपुनर्नवम्॥

अउ1.93
सहदेवा रवेर्वल्ली पयस्या गिरिकर्णिका।
तोयकुम्भे पचेदेतत् पलांशं पादशेषितम्॥

अउ1.94
तेन कौन्तीवचाकुष्ठकृष्णासर्षपसैन्धवैः।
नीरुक्सरूपवत्सायाः संयुक्तं पयसा च गोः॥

अउ1.95
पुष्ययोगे घृतप्रस्थं सहेमशकलं शृतम्।
पानाभ्यञ्जनतो मेधास्मृत्यायुःपुष्टिबुद्धिदम्॥

अउ1.96
रक्षोघ्नं च विषघ्नं च सारस्वतमिदं घृतम्।
लीढं वा सघृतक्षौद्रं वचाहेमरजोऽल्पशः।
संवत्सरं परं मेध्यं रक्षोघ्नं वाग्विवर्धनम्॥

अउ1.97
वयस्था पिप्पली कुष्ठं हरिद्रा सारिवा वचा।
मांसी कैडर्यमित्येतच्चूर्णं ब्राह्मीरजःसमम्॥

अउ1.98
लीढ्वाज्येन शिशुर्वर्षं भवत्यपलितोऽव्यथः।
बलवान् श्रुतसम्पन्नः शतायुः स्थिरयौवनः।
प्रातः प्रातरिमं लेहं धात्रीं चास्यावलेहयेत्॥

अउ1.99
ब्राह्मीवद्योजयेद्दूर्वां मूर्वां ब्रह्मसुवर्चलाम्।
लक्ष्मणां श्वेततर्कारीमव्यण्डां गौरसर्षपाम्॥

अउ1.100
सहस्रवीर्यां फलिनीं पक्वं च बृंहतीफलम्।
रोहिषं चेत्यमीप्राशाः पृथग्द्वादश कीर्तिताः॥

अउ1.101
महताप्युपयोक्तव्या नरेण नियतात्मना।
नित्यं मृद्भक्षणाद्रक्षेत्तया स्युर्नियतं गदाः॥

अउ1.102
पाण्डुत्वश्वयथुश्वासकासातीसारजन्तवः।
छर्दिंमूर्छाग्निसदनस्तन्यद्वेषाङ्गरुग्भ्रमाः॥

अउ1.103
भक्षयेद्दन्तपवनं नास्थिरद्विजब्बन्धनः।
तस्य तत्घट्टनात् क्रुद्धः कुर्याद्दन्तामयान्मरुत्॥

अउ1.104
शूरैरायुधिभिर्गुप्तमधृष्यं नगरं परैः।
यथा शिशोर्वपुस्तद्वद्यथोक्तैर्विधिभिर्ग्रहैः॥
॥इति प्रथमोऽध्यायः॥

अथ द्वितीयोऽध्यायः।

अउ2.1
अथातो बालामयप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ2.2
त्रिविधो हि बालः प्रागुक्तस्तत्र क्षीरपस्य क्षीरमदुष्टं प्रयुञ्जीत।
अन्नादस्य हितमन्नम्।
उभयवृत्तेरुभयम्॥

अउ2.3
क्षीरं हि यथोक्तैर्दोषकोपनैराहारविहारैर्धात्र्या व्यापन्नं विविधामयोदयाय बालस्य प्रकल्पते॥

अउ2.4
तत्र श्यावारुणवर्णं तिक्तकषायानुरसं विशदं रूक्षमलक्ष्यगन्धं फेनिलमतृप्तिकरमाध्मानमूत्रवर्चोविबन्धकृत् कर्शनमप्सु विसर्पति विच्छिन्नं च प्लवते वातदुष्टम्॥

अउ2.5
कृष्णनीलताम्रावभासं तिक्ताम्लकटुकानुरसं कुणपरुधिरगन्धि भृशोष्णमप्सु पीतराजिमद्विदाहकरं च पित्तदुष्टम्॥

अउ2.6
अत्यर्थशुक्लमधुरं लवणानुरसं घृततैलवसामज्जगन्धि पिच्छिलं बहलं तन्तुमत् गुरु सलिलेऽवसीदति निद्राबहुलं च श्लेष्मदुष्टम्॥

अउ2.7
तदुपयुज्यमानं यथास्वलिङ्गान् व्याधीनभिनिर्वर्तयति॥

अउ2.8
स यं प्रदेशमभीक्ष्णं स्पृशति स्पर्शं च न क्षमते तत्र रुजमुपलक्षयेत्॥

अउ2.9
निमीलिताक्षतया मूर्ध्नि रुजम्।
जिह्वौष्ठदंशश्वासमुष्टिवन्धोर्ध्वेक्षणैर्हृदये।
विण्मूत्रच्छर्द्याध्मानान्त्रकूजनस्तनदंशवेष्टनपृष्ठविनमनजठरोन्नमनैर्जठरे।
मूत्रसङ्गतृण्मूर्च्छोत्रासदिग्वीक्षणखल्लीहस्तपादस्तम्भकुब्जीभवनकेशलुञ्चनैर्बस्तौ गुह्ये च सर्वत्र च स्वभा वातिरिक्तरोदनेन मुखविकूणनेन च॥

अउ2.10
अथ यथामयं यथादोषं च धात्र्याः शमनशोधनानि प्रयुञ्जीत॥

अउ2.11
तत्र वातदूषिते स्तन्ये देवदारुसरलकटुरोहिणीवचाकुष्ठपाठाभार्ङ्गीमागधिकावृश्चिकालीचित्रकाजमोदशुण्ठीमरीचानां क्वाथं दशमूलक्वाथं वा त्रिरात्रं पाययित्वा वातव्याधिविहितानां सर्पिषामन्यतमं निगदमदिरानुपानं दद्याद्वातहरद्रव्यसिद्धं वा।
ततः स्निग्धां मृदु विरेच्य बस्तिकर्मणोपचरेत्।
वातघ्नैश्चाभ्यङ्गस्वेदोपदेहोन्मर्दनैः।
सरलरास्नाजमोदादेवदारुचूर्णं सर्पिषा बालमवलेहयेत्।
एवंविधैरेव च विपक्वं सशर्करं सर्पिः॥

अउ2.12
अपि च।
तिक्तानुरसं स्तन्यं मुद्गमाषपलाशाभ्यां काकोलीयुगलेन च शोधयेत्।
प्रियङ्गुधातकीपुष्पपद्मकदेवदारुक्षौद्रैर्वा।
कषायानुरसं हिङ्गुसैन्धववता घृतेन।
फेनिलं विच्छिन्नं प्लवमानं च बिल्वाग्निमन्थशृतेन पयसा हविषा च।
सूप्यपर्णी काकोलीबृहत्यवल्गुजफलैर्वा॥

अउ2.13
पित्तेऽमृतापटोलपत्रसारिवाशतावरीनिम्बचन्दनक्वाथं धात्री बालश्च पिबेत्।
त्रिफलाभूनिम्बकटुकामुस्तक्वाथं वा।
जीवकर्षभकद्विकाकोलीमधुककट्फलकर्कटशृङ्गीक्वाथं वा।
सक्षौद्रं पटोलादिं पद्मकादिं वा।
सारिवादिं न्यग्रोधादिं वा।
एभिरेव च द्रव्यैः सर्पीषि पित्तघ्नानि च विरेचनानि शीतांश्चाभ्यङ्गप्रदेहसेकान् कुर्यात्॥

अउ2.14
अपि च।
ताम्रावभासं पयो हृदयमुद्वेष्टयति।
तत्प्रियङ्गुमुस्ताशाबरलोद्ध्रैः शोधयेत्।
अम्लानुरसमम्लपित्तकरम्।
तत् द्राक्षामधुकपयस्याश्रीपर्णीभिः।
कटुकानुरसं छर्द्यतीसारकासश्वासकरम्।
तत् काकोलीविदारीभ्यां मधुपर्ण्या च।
भृशोष्णमनामदाहज्वरकरं विरेचनं च तच्चन्दनोत्पलकमलैः॥

अउ2.15
कफे तु सैन्धवपिप्पलीयुक्तं सर्पिर्बालं पाययेत्।
सैन्धवमधुकसंसृष्टं वा मदनपुष्पकल्केन च सक्षौद्रेण स्तनं बालस्य चोष्ठमालिम्पेत्।
तेन सुखं वमति।
धात्रीं तु तीक्ष्णैर्वामयेत्।
ततः कृतसंसर्जनां पञ्चमूलघनवचातिविषाक्वाथं पाययेत्।
तगरसुरदारुसुरेन्द्रयवपृथ्वीकावृश्चिकालीक्वाथं वा।
आरग्वधादिं मुस्तादिं वा।
रूक्षोष्णांश्च नस्यधूमगण्डूषप्रदेहपरिषेकान् शीलयेत्।
अविरुद्धं चान्नपानं योजयेत्॥

अउ2.16
अपि च।
लवणानुरसं विसर्पकोठकण्डूकरम्।
तत् पिचुमन्दपटोलीक्षीरीवृक्षैः शोधयेत्।
तन्तुमद्दौर्बल्यश्वासकासकरम्।
तत् पिप्पलीनागरचूर्णेन समधुघृतेन।
गुरु सदनात्मकं प्रतिश्यायसिङ्घाणकक्षीरालसककरम्।
तत् पाठाव्योषकल्केन पञ्चकोलचूर्णेन वा क्षौद्रघृताप्लुतेन।
दोषोपक्रमणीयं चेक्षेत॥

अउ2.17
यदा पुनर्धात्री सन्निपातप्रकोपनान्यासेवेत तदस्यास्त्रयो मला युगपद्वक्षोऽभिप्रपन्नाः क्षीरवहा रसायनीः समनुसृत्य सङ्गीर्णलिङ्गं स्तन्यमावहन्ति।
तच्चेदविज्ञानात् सततमप्रत्यवेक्षणात् प्रमादाद्वा मातुः कुमारः पिबति ततः स तेन सलिलोपममच्छं विच्छिन्नमामं दुर्गन्धि नानावर्णवेदनं फेनिलमतिसार्यते।
पीतश्वेतमूत्रताविष्टम्भतृष्णाज्वरच्छर्दिविजृम्भिकाशुष्कोद्गारारुचिभ्रमाङ्गभङ्गविक्षेपकूजनघ्राणाक्षिमुखपाकदृष्ट्युपप्लवस्वरसादादयश्चास्य प्रादुर्भवन्ति।
तं क्षीरालसकमत्ययं चाचक्षते॥

अउ2.18
तत्र धात्रीं बालं च पूर्वमेवाशु वामयेत्।
विहितसंसर्गयोश्च मुस्तापाठातिविषाकुष्ठकटुकानां क्वाथं पानाय दद्यात्।
रास्नाजमोदाप्रियङ्गुभद्रदारूणां वा।
पाठातेजोवतीपुनर्नववृश्चिकालीनां वा।
भूनिम्बामृताकुटजफलसारिवाणां वा।
वचाहरिद्रादिगणयोर्वा।
पाठादिमहाकषायस्य वा।
जम्ब्वाम्रतिन्दुककपित्थपत्राणां वा।
बिल्वभङ्गस्य वा।
अनुबन्धे च यथाव्याधि प्रतिकुर्वीत॥

अउ2.19
दन्तोद्भेदश्च सर्वरोगायतनम्।
विशेषेण तु तन्मूला ज्वरशिरोभितापतृष्णाभ्रमाभिष्यन्दकुकूणकपोथकीवमथुकासश्वासातीसारविसर्पाः॥

अउ2.20
स दीर्घायुषोऽष्टमान्मासात् परतो वा प्रवर्तते।
इतरेषां तु चतुर्थात्।
तेह्यतिबाल्ये दन्तोत्पादवेदनयातिपीडिता न सम्यक् सम्पूर्णधातुबला भवन्ति॥

अउ2.21
तत्रास्थिमज्जानौ दन्तोत्पत्तिहेतू।
तदा च तयोरसम्पूर्णवीर्यत्वात् पुनः कालान्तरेण दन्तानां पतनमापूर्यमाणधातुत्वाच्च पुनरुत्थानमत एव च वृद्धानां न पुनर्दन्तोत्पत्तिः॥

अउ2.22
बलान्निपतितानां तु सहसा तदधिष्ठानगतधातुबीजभ्रंशात् सन्ततिव्युच्छेदाच्छोणितातिप्रवृत्याभिघाताच्च निस्सारितत्वात्।
सिराणां पुनरनुत्पादः एतेन रोगच्युता अपि प्रायशो व्याख्याताः॥

अउ2.23
तौ तु धातू कालक्रमेण पच्यमानौ यदा दन्ताशयमनुप्रपद्येते तदास्य किञ्चिदुत्सेधेनोर्ध्वाधोदन्तमांससङ्घट्टनादङ्गहर्षो जायते।
तद्गतेन च श्लेष्मणा कण्डूस्तया चूचुकं दश्यते।
यद्यदालभते तत्तदास्यमानयति।
मारुतश्चास्य दन्तमूलेषु मूर्छति।
ततः स कफानुविद्धोऽस्थिमज्जस्थितः सर्वतो विसरन् सह पित्तेन धातून् मलांश्च दूषयन् विविधान्यथोदितानुपद्रवानभिनिर्वर्तयति॥

अउ2.24
यदा पुनर्दन्तमांसाश्रयी केवलो विकृतः प्रबलोऽनिलः सपित्तो वास्थिमज्जानौ शोषयति तदा द्विजानामसम्भव एवेति।
भवन्ति चात्र॥

अउ2.25
पृष्ठभङ्गे बिडालानां बर्हिणां च शिखोद्गमे।
दन्तोद्भेदे च बालानां न हि किञ्चिन्न दूयते॥

अउ2.26
यथादोषं यथारोगं यथोद्रेकं यथाबलम्।
विभज्य देशकालादींस्तत्र योज्यं भिषग्जितम्॥

अउ2.27
त एव दोषा दूष्याश्च ज्वराद्या व्याधयश्च यत्।
अतस्तदेव भैषज्यं मात्रा त्वस्य कनीयसी।
सौकुमार्याल्पकायत्वात् सर्वान्नानुपसेवनात्॥

अउ2.28
स्निग्धा एव सदा बाला घृतक्षीरनिषेवणात्।
सद्यस्तान् वमनं तस्मात् पाययेन्मतिमान्मृदु॥

अउ2.29
बस्तिं साध्ये विरेकेण मर्शेन प्रतिमर्शनम्।
युञ्ज्याद्विरेचनादींस्तु धात्र्या एव यथोचितान्॥

अउ2.30
मूर्वाव्योषवराकोलजम्बूत्वग्दारुसर्षपाः।
सपाठा मधुना लीढाः स्तन्यदोषहराः परम्॥

अउ2.31
इक्षुमूलकशेर्वाख्ययष्ट्याह्वैस्तनु शुध्यति।
सान्द्रं तु क्षौद्रकाश्मर्यगुडूचीतण्डुलाम्बुभिः॥

अउ2.32
शृतैर्वा सुरसश्वेतसर्षपाबृहतीद्वयैः।
ग्रथितं पद्मकोशीरफलिनीश्वेतचन्दनैः॥

अउ2.33
दन्तपालीं समधुना चूर्णेन प्रतिसारयेत्।
पिप्पल्या धातकीपुष्पधात्रीफलकृतेन वा॥

अउ2.34
वाध्रीणसकपोतोत्थरजस्तद्वच्च योजितम्।
लावतित्तिरिवल्लूररजः पुष्परसद्रुतम्॥

अउ2.35
द्रुतं करोति बालानां दन्तकेसरवन्मुखम्।
वचाद्विबृहतीपाठाकटुकातिविषाघनैः।
मधुरैश्च घृतं सिद्धं सिद्धं दशनजन्मनि॥

अउ2.36
भद्रदारु घनं यष्टी समङ्गा ससितोपला।
वातज्वरपरीताङ्गः पिबेदन्तरपानकम्॥

अउ2.37
सुराह्वघनयष्ट्याह्वपयस्यांशुमतीद्वयम्।
नागरं मरिचं भार्ङ्गी वृश्चिकाली शतावरी॥

अउ2.38
घृतं तत्क्वाथदुग्धाभ्यां सिद्धं हन्त्यनिलज्वरम्।
बालस्य पानाभ्यङ्गाभ्यामेभिश्चोन्मर्दनं हितम्॥

अउ2.39
हरिद्राकुष्ठषङ्ग्रन्थाशतपुष्पाहरेणुभिः।
भार्ङ्ग्येलासुषवीरास्नावर्षाभूनतसर्षपैः॥

अउ2.40
अक्षांशैः साम्बुसौवीरैर्मस्तुपिष्टैर्मरुज्ज्वरे।
तैलप्रस्थं सुरामण्डतुल्यमभ्यञ्जनं पचेत्॥

अउ2.41
लाजनीलोत्पलकणामधुकाञ्जनशर्करम्।
पित्तज्वरमतीसारं मधुलीढं निवर्तयेत्॥

अउ2.42
लाजद्विपिप्पलीक्वाथः शर्करामधुसंयुतः।
पीतो ज्वरमतीसारं तृष्णां छर्दिं च नाशयेत्॥

अउ2.43
आमातिसारे रक्ते च कल्कितां गजपिप्पलीम्।
पाययेच्छर्करोपेतां चूर्णं वा देवदारुजम्॥

अउ2.44
शिरोभितापे सघृतैः शिरः शीतैः प्रलेपयेत्।
पत्रैः कपित्थचाङ्गेरीबदरीकाकमाचिजैः॥

अउ2.45
शिरोरुक्च्छर्द्यतीसारनाशनं मूर्धलेपनम्।
गवादनीं दाडिमं च तृड्वान् कोष्णाम्भसा पिबेत्॥

अउ2.46
कुर्यात् कुकूणपोथक्योर्यथोक्तं स्वं स्वमौषधम्।
मनश्शिलाशङ्खनाभिः पिप्पल्यो मधुयष्टिका॥

अउ2.47
क्षौद्रेण घृष्टा गुलिका शिशोः सर्वाक्षिरोगजित्।
पिप्पलीतण्डुलैर्मुद्गैः सुमनःकोरकैर्यवैः।
नीलोत्पलस्य पत्रैश्च श्रेष्ठा वर्तिः शतोन्मितैः॥

अउ2.48
प्रियङ्ग्वञ्जनमुस्तानां चूर्णस्तण्डुलवारिणा।
तृष्णातीसारवमथून् हन्ति पीतः समाक्षिकः॥

अउ2.49
पटोलनिम्बकुटजसप्तपर्णं सदीप्यकम्।
देवदारुविडङ्गानि सरलो माक्षिकं घृतम्॥

अउ2.50
लीढं ज्वरमतीसारं कासं पाण्ड्वामयं वमिम्।
हन्याच्च मातृकादोषान् रोगानन्यांश्च तद्विधान्॥

अउ2.51
मधुकव्योषषड्ग्रन्थाग्रन्थिकास्पृष्टरोदिकाः।
क्षीरिणां च प्रवालानि पाठा च विपचेत् घृतम्।
तत् पीतं समधु श्लेष्मज्वरघ्नं दीपनं परम्॥

अउ2.52
रास्नैलानततर्कारीमधुशिग्रुसुराह्वयैः।
सबिल्वकुष्ठवरणरेणुकामिसिभिः कृतः॥

अउ2.53
श्लेष्मज्वरहरो लेपस्तैलमभ्यञ्जनं च तैः।
मण्डलानि तु साज्येन गजमूत्रेण लेपयेत्॥

अउ2.54
रजनी दारु सरलश्रेयसी बृहतीद्वयम्।
पृश्निपर्णी शताह्वा च लीढं माक्षिकसर्पिषा।
ग्रहणीदीपनं श्रेष्ठं मारुतस्यानुलोमनम्॥

अउ2.55
अतीसारज्वरश्वासकामलापाण्डुकासजित्।
बालस्य सर्वरोगेषु पूजितं बलवर्णदम्॥

अउ2.56
बिल्वपेशीगजकणाधातकीलोध्रवालकम्।
हन्ति लीढमतीसारं शिशोः क्षौद्रद्रुतं द्रुतम्॥

अउ2.57
त्रिफलाधातकीपुष्पपद्मबिल्वशलाटुभिः।
सक्ट्वङ्गैर्घृतं सिद्धमुदरामयनाशनम्॥

अस2.58। पथ्यासौवर्चलक्षारवेल्लव्योषाग्निहिङ्गुभिः।
तिक्तया च घृतं सिद्धं समक्षीरं व्यपोहति।
शूलानाहगुदभ्रंशश्वासकासविलम्बिकाः॥

अउ2.59
समङ्गाधातकीलोध्रकुटन्नटबलाद्वयैः।
महासहाक्षुद्रसहामुद्गबिल्वशलाटुभिः॥

अउ2.60
सकार्पासीफलैस्तोये साधितैः साधितं घृतम्।
क्षारमस्तुयुतं हन्ति शीघ्रं दन्तोद्भवोद्भवान्।
विविधानामयानेतद्वृद्धकाश्यपनिर्मितम्॥

अउ2.61
दन्तोद्भेदोत्थरोगेषु न बालमतियन्त्रयेत्।
स्वयमाप्युपशाम्यन्ति जातदन्तस्य यत् गदाः॥

अउ2.62
यावन्मासस्य यो जातस्तावद्वर्षस्य स द्विजः।
पतति प्रायशोऽष्टानां तेषां पूर्वेषु सम्भवः॥

अउ2.63
अत्यहःस्वप्नशीताम्बुश्लैष्मिकस्तन्यसेविनः।
शिशोः कफेन रुद्धेषु स्रोतस्सु रसवाहिषु॥

अउ2.64
अरोचकः प्रतिश्यायो ज्वरः कासश्च जायते।
कुमारः शुष्यति ततः स्निग्धशुक्लमुखेक्षणः॥

अउ2.65
सैन्धवव्योषशाअर्ङ्गेष्ट्Aअपाठागिरिकदम्बकान्।
शुष्यतो मधुसर्पिर्भ्यामरुच्यादिषु योजयेत्॥

अउ2.66
अशोकरोहिणीयुक्तं पञ्चकोलं च चूर्णितम्।
बदरीधातकीधात्रीचूर्णं वा सर्पिषा द्रुतम्॥

अउ2.67
अश्वलिण्डरसक्षौद्रयुक्तां वा मधुयष्टिकाम्।
द्विवार्ताकीफलरसं केवलं वाश्वविड्रसम्॥

अउ2.68
मधुना वा घनव्योषपाठा मूर्वा शतावरी।
सपयस्या पृथक्पर्णी घृतं वा माक्षिकान्वितम्।
स्थिरामरतरुव्योषद्विपुनर्नवसाधितम्॥

अउ2.69
स्थिरावचाद्विबृहतीकाकोलीपिप्पलीनतैः।
निचुलोत्पलवर्षाभूभार्ङ्गीमुस्तैश्च कार्षिकैः॥

अउ2.70
सिद्धं प्रस्थार्धमाज्यस्य स्रोतसां शोधनं परम्।
सिंह्यश्वगन्धासुरसकणागर्भं च तद्गुणम्॥

अउ2.71
यष्ट्याह्वपिप्पलीलोध्रपद्मकोत्पलचन्दनैः।
तालीससारिवाभ्यां च साधितं शोषजित् घृतम्॥

अउ2.72
रास्नामधूलिकाभार्ङ्गीपिप्पलीदेवदारुभिः।
अश्वगन्धाद्विकाकोली शृङ्ग्यर्षभकजीवैकः॥

अउ2.73
सूप्यपर्णीविडङ्गैश्च कल्कितैः साधितं घृतम्।
शशोत्तमाङ्गनिर्यूहे शुष्यतः पुष्टिकृत् परम्॥

अउ2.74
वचावयस्थातगरकायस्थाचोरकैः शृतम्।
बस्तमूत्रसुराभ्यां च तैलमभ्यञ्जने हितम्॥

अउ2.75
द्वे बले तुम्बुरुच्छल्ली वचा गिरिकदम्बकः।
सुरापिष्टः प्रदेहः स्यादधःकाये विशुष्यताम्॥

अउ2.76
सिंहस्कन्दीसिंहवल्लीकरमर्दीत्रिकण्टकैः।
भङ्गैः क्वाथः कुमाराणां शुष्यतां परिषेचनम्॥

अउ2.77
साशोकरोहिणीं कृष्णां मध्वाज्येन लिहन्जयेत्।
शिशुः शोषं शरीरस्य ससितच्छागदुग्धभुक्॥

अउ2.78
शुष्ककासे कुमारस्य धात्र्याः स्तन्यविशोधनः।
माषयूषः प्रयोक्तव्यः सकृष्णो घृतभर्जितः॥

अउ2.79
मधुनातिविषाशृङ्गीपिप्पलीर्लेहयेच्छिशुम्।
एकांवातिविषां कासज्वरच्छर्दिरुपद्रुतम्॥

अउ2.80
कासतृट्च्छर्द्यतीसारैरर्दितं लाजतर्पणम्।
लाजतालीसपत्रं वा बीजानि कमलस्य वा॥

अउ2.81
लोध्रप्रियङ्गुकल्कं वा पाययेत्तण्डुलाम्भसा।
शर्करामधुसंयुक्तं लाजकुस्तुम्बरीरजः॥

अउ2.82
बृहतीफलमूलत्वक्पिप्पलीग्रन्थिकैः कृतः।
तवक्षीरीयुतैः क्वाथो मधुना हन्ति शीलितः॥

अउ2.83
छर्दिमूर्छाज्वरश्वासकासातीसारपीनसान्।
पञ्चकोलद्विवार्ताकीमूलभार्ङ्गीतुगाह्वयाः॥

अउ2.84
क्षौद्राज्यलीढाः श्वसनकासपीनसरुक्च्छिदः।
श्यामातिमुक्तातर्कारीकुसुमक्वाथसाधितम्।
यष्टीगर्भं घृतं तृष्णाहिध्माश्वासास्रपित्तनुत्॥

अउ2.85
पीतं पीतं वमति यः स्तन्यं तं मधुसर्पिषा।
द्विवार्ताकीफलरसं पञ्चकोलं च लेहयेत्॥

अउ2.86
पिप्पलीपञ्चलवणं कृमिजित् पारिभद्रकम्।
तद्वल्लिह्यात्तथा व्योषं मषीं वा रोमचर्मणाम्।
लाभतःशल्यकश्वाविड्गोधर्ष्यशिखिजन्मनाम्॥

अउ2.87
खदिरार्जुनतालीसकुष्ठचन्दनजे रसे।
सक्षीरं साधितं सर्पिर्वमथुं विनियच्छति॥

अउ2.88
क्षीरीप्रवालमधुकदर्भमूलबिसोत्पलैः।
तृष्णादाहज्वरहरः कषायः ससितामधुः॥

अउ2.89
शर्करादाडिमकणानागकेसरजीवकम्।
लिहन् कुमारः क्षौद्रेण तृट्च्छर्दिभ्यां विमुच्याते॥

अउ2.90
लाजैः सचन्दनोशीरयष्टीमधुकपद्मकैः।
लिप्तो धौतः स्तनः पीतो भ्रमतृड्दाहमोहहा॥

अउ2.91
अस्नेहलवणं पीत्वा संस्कृतं लावजं रसम्।
सशर्करं विजयते बालो लङ्घनजान् गदान्॥

अउ2.92
विसर्पस्तु शिशोः प्राणनाशनो बस्तिशीर्षजः।
पद्मवर्णो महापद्मनामा दोषत्रयोद्भवः॥

अउ2.93
शाखाभ्यां हृदयं याति हृदयाद्वा गुदं व्रजेत्।
सदन्तो जायते यस्तु दन्ताः प्राग्यस्य चोत्तराः॥

अउ2.94
कुर्वीत तस्मिन्नुत्पाते शान्तिं तं च द्विजतये।
दद्यात् सदक्षिणं बालं नैगमेषं च पूजयेत्॥

अउ2.95
वत्सस्य मधुलाजानामापूर्यप्राङ्मुखो मुखम्।
चुम्बेत्कुमारस्त्रीन् वारान् प्रायश्चित्तमिदं परम्॥

अउ2.96
नावमारोहयेत् बालं स्नातं स्कन्धं गजस्य वा।
भोजयेत् ब्राह्मणांश्चात्र पायसं मधुसर्पिषा॥

अउ2.97
मातुः कुमारो गर्भिण्याः स्तन्यं प्रायोऽपिबन्नपि।
कासाग्निसादवमथुतन्द्राकार्श्यारुचिभ्रमैः॥

अउ2.98
युज्यते कोष्ठवृध्या च तमाहुः पारिगर्भिकम्।
रोगं परिभवाख्यं च युञ्ज्यात्तत्राग्निदीपनम्॥

अउ2.99
पिप्पलीपिप्पलीमूलकटुकादेवदारुभिः।
क्षारद्वयबिडाजाजीबिल्वमध्याग्निदीप्यकैः॥

अउ2.100
दधिसौवीरकसुरामण्डैश्च विपचेत् घृतम्।
हन्ति प्रयुक्तं तत् काले रोगान् पारिभवाश्रयान्॥

अउ2.101
अन्नेनोपहितं स्तन्यं पिबतो विहितात् परम्।
इमानेव गदान् कुर्यात् कुर्यात्तेष्वेतदेव च॥

अउ2.102
पीतं पीतं च यः स्तन्यं सवातमतिसर्यते।
तस्याप्येतत् परं पथ्यं दीपनं बलवर्णकृत्॥

अउ2.103
अत्युद्रिक्तक्षुधं बालं परिभूतं तु लेहयेत्।
विदारीयवगोधूमकणाचूर्णं घृताप्लुतम्॥

अउ2.104
पाययेदनु च क्षीरं शृतं समधुशर्करम्।
अक्षमज्जाद्विकाकोलीयष्टीमधुकमोरटैः॥

अउ2.105
श्रपयेत् क्षीरमाज्यं वा बीजैरिक्षुरकस्य च।
तत् प्रयोज्यं गुरु स्निग्धं यच्चात्यग्नौ पुरेरितम्॥

अउ2.106
श्ववायसबिडालानामुच्छिष्टेन जलेन च।
स्नापयेत्तं नचेदेवं क्षुत्तस्य प्रशमं वरजेत्॥

अउ2.107
क्षीरिपादपमूलस्थं विधिना स्नापितं ततः।
वस्त्ररत्नाद्यलङ्कारैः कुमारं भूषयेत् सितैः॥

अउ2.108
वृक्षं चानु ततः कुर्यात् भूषणव्यत्ययं तयोः।
एतदायुःप्रदं धन्यं स्नपनं सर्वरोगजित्॥

अउ2.109
जटीभूतकचाक्ष्यादिपक्ष्माणमतिलोलुपम्। गोमूत्रगन्धिं स्नपयेतीर्थे गव्यशकृद्रसैः॥

अउ2.110
वचापुष्पशिलाकुष्ठवयस्थाहिङ्गुकट्फलैः।
सबस्तमूत्रमदिरैस्तैलमभ्यञ्जनं पचेत्॥

अउ2.111
बलाविदारीत्रिकटुककुष्ठोशीरकुचन्दनैः।
सिद्धं पीतं हविर्हन्ति तं विकारमशेषतः॥

अउ2.112
शिरः पृष्ठं ततो मुष्कौ ततः पादौ च यो रुजेत्।
हस्ताभ्यामुत्थितो वायुः सपर्वानुप्लवः स्मृतः॥

अउ2.113
गौरीवचासदापुष्पीहयगन्धाकटुत्रयैः।
सक्ट्फलद्विवार्ताकीवयस्थाहिङ्गुरोहिषैः॥

अउ2.114
बस्तमूत्रसुरायुक्तैः साधितं तस्य योजयेत्।
तैलमभ्यञ्जने शेषं वातव्याधिवदाचरेत्॥

अउ2.115
तालुमांसे कफः क्रुद्धः कुरुते तालुकण्टकम्।
तेन तालुप्रदेशस्य निम्नता मूर्ध्नि जायते॥

अउ2.116
ताल्पातः स्तनद्वेषः कृच्छ्रात् पानं शकृद्द्रवम्।
तृडास्यकण्ड्वक्षिरुजा ग्रीवादुर्धरता वमिः॥

अउ2.117
तत्रोत्क्षिप्य यवक्षारक्षौद्राभ्यां प्रतिसारयेत्।
तालु तद्वत् कृअणाशुण्ठीगोशकृद्रससैन्धवैः॥

अउ2.118
शृङ्गिवेरनिशाकुष्ठं कल्कितं वटपल्लवैः।
बध्वा गोशकृता लिप्तं कुकूले स्वेदयेत्ततः॥

अउ2.119
रसेन लिम्पेत्ताल्वास्यं नेत्रे च परिषेचयेत्।
हरीतकीवचाकुष्ठकल्कं माक्षिकसंयुतम्।
पीत्वा कुमारः स्तन्येन मुच्यते तालुकण्टकात्॥

अउ2.120
मस्तुलुङ्गक्षयाद्यस्य वायुस्ताल्वस्थि नामयेत्।
तस्य तृड्दैन्ययुक्तस्य सर्पिर्मधुरकैः शृतम्।
पानाभ्यञ्जनयोर्योज्यमुद्वेगश्चहिमाम्बुना॥

अउ2.121
मलोपलेपात् स्वेदाद्वा गुदे रक्तकफोद्भवः।
ताम्रो व्रणोऽन्तः कण्डूमान् जायते भूर्युपद्रवः॥

अउ2.122
केचित्तं मातृकादोषं वदन्त्यन्ये तु पौतनम्।
पृष्ठारुर्गुदकुट्टं च केचिच्च तमनामकम्॥

अउ2.123
तत्र धात्र्याः पयः शोध्यं पित्तश्लेष्महरौषधैः।
सितशीतं च शीताम्बुयुक्तमन्तरपानकम्॥

अउ2.124
सक्षौद्रतार्क्ष्यशैलेन व्रणं तेन च लेपयेत्।
त्रिफलाबदरीप्लक्षत्वक्वाथपरिषेचितम्॥

अउ2.125
कासीसरोचनातुत्थमनोह्वालरसाञ्जनैः।
लेपयेदम्लपिष्टैर्वा चूर्णितैर्वावचूर्णयेत्॥

अउ2.126
सुश्लक्ष्णैरस्थवा यष्टीशङ्खसौवीरकाञ्जनैः।
सारिवाशङ्खनाभिभ्यामसनस्य त्वचाथ वा॥

अउ2.127
रागकण्डूत्कटे कुर्याद्रक्तस्रावं जलौकसा।
सर्वं च पित्तव्रणजिच्छस्यते गुदकुट्टके॥

अउ2.128
अनामस्थौल्यपित्तास्रकण्डूगण्डगलामये।
उदरात्युन्नतौ चेष्टं तार्क्ष्यमन्तरपानकम्॥

अउ2.129
गृह्णाति सूतिकागारे न स्तनं चेत् स्पृशेत्ततः।
पथ्याधात्रीफलकणैर्जिह्वां सघृतमाक्षिकैः॥

अउ2.130
पिप्पलीत्रिफलाचूर्णं घृतक्षौद्रपरिप्लुतम्।
रुदते त्रस्यते वापि लेहं दद्यात् सुखावहम्॥

अउ2.131
प्रदीप्ताङ्गाररजसा प्रशान्तेनावचूर्णयेत्।
पञ्चमेऽह्न्यपातन्नालं लेपयेद्वा गुडाम्भसा॥

अउ2.132
सान्द्रेण भूमौ घृष्टेन नालपातेऽपि चोन्नताम्।
नाभिं छागेन शकृता दग्धेनान्तर्विचूर्णयेत्॥

अउ2.133
अश्वगन्धाज्जनाजाविविड्यष्टीमधुकादिभिः।
रोपयेच्चूर्णितैर्नाभिं स्नेहयुक्तैरनुन्नताम्॥

अउ2.134
यष्टीलोध्रनिशाश्यामाकल्कपक्वेन सेचयेत्।
नाभिं पाके तु तैलेन तच्चूर्णेश्चावचूर्णयेत्॥

अउ2.135
वातेनाध्मापितां नाभिं सरुजां तुण्डिसंज्ञिताम्।
मारुतघ्नैः प्रशम्येत् स्नेहस्वेदोपनाहनैः॥

अउ2.136
असम्यक्कल्पनान्नाभेः स्याद्विनामो विजृम्भिका।
वातपित्तहरं कर्म तत्रान्तर्बहिराचरेत्॥

अउ2.137
गर्भाम्भसामवमनाच्श्लेष्मणः कण्ठगस्य वा।
सम्पर्काद्धृदये दुष्टो मार्गानावृणुते रसः॥

अउ2.138
बद्धमुष्टिस्ततो मुह्यन्रोगैर्बालोऽभिभूयते।
हृद्रोगाक्षेपकश्वासकासच्छर्दिज्वरादिभिः।
उल्बकं सहजं व्याधिमम्बुपूर्णं च तं वदेत्॥

अउ2.139
स्रोतोविशोधनं प्रातस्तस्मिन्नन्तरपानकम्।
विदध्याच्छागलं मूत्रं स्नानाभ्यङ्गौ च वर्जयेत्॥

अउ2.140
बिल्वादिमूलबृहतीपञ्चकोलं पलांशकम्।
धन्वमांसपलान्यष्टौ शशमूर्ध्नः पलाष्टकम्॥

अउ2.141
साधयेत् षोडशगुणे सलिलेऽष्टांशशेषितम्।
तेन क्वाथेन कर्षांशैर्घृतप्रस्थं विपाचयेत्॥

अउ2.142
छगलीमूत्रमदिरादधिक्षीरसमांशकम्।
विडङ्गसैन्धवाजाजीचविकादेवदारुभिः॥

अउ2.143
सहिंस्राहिङ्गुलशुनैः सव्योषैः श्लक्ष्णकल्कितैः।
तत् पानाद्धन्ति सहजगुल्महिध्मानिलामयान्।
पाण्डुरोगं च वातोत्थं स्वस्थवृत्ते च पुष्टिदम्॥

अउ2.144
परिदग्धच्छविं बालं दिह्याद्दूर्वातिलोत्पलैः।
शमीपत्रशिरीषत्वक्सारिवामधुकाभयैः॥

अउ2.145
मूर्वाधात्रीनिशाचूर्णं मूत्रेण मधुमत् पिबेत्।
पाण्डुरोगी शृतं सर्पिर्वराभृङ्गरसेन वा॥

अउ2.146
पाठावेल्लद्विरजनीमुस्ताभार्ङ्गीपुनर्नवैः।
सबिल्वत्र्यूषणैः सर्पिर्वृश्चिकालीयुतैः शृतम्।
लिहानो मात्रया रोगैर्मुच्यते मृत्तिकोद्भवैः॥

अउ2.147
व्याधेर्यद्यस्य भैषज्यं स्तस्तेन प्रलेपितः।
स्थितो मुहूर्तं धौतोऽनु पीतस्तं तं जयेत् गदम्॥

अउ2.148
ग्रहैरपि हि जायन्ते प्रच्छन्नैर्व्याधयः शिशोः।
कर्म शस्तमतस्तेषु दैवयुक्त्याश्रयं सदा॥
॥इति द्वितीयोऽध्यायः॥

अथ तृतीयोऽध्यायः।

अउ3.1
अथातो बालग्रहविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ3.2
पुरा गुहस्य रक्षार्थं निर्मिताः शूलपाणिना।
मनुष्यविग्रहाः पञ्च सप्त स्त्रीविग्रहा ग्रहाः॥

अउ3.3
स्कन्दो विशाखो मेषास्यः श्वग्रहः पितृसंज्ञितः।
शकुनिः पूतना शीतपूतनादृष्टिपूतना।
मुखमण्डितिका तद्वद्रेवती शुष्करेवती॥

अउ3.4
ते कामरूपिणः स्कन्दमुपचेरुः समाहिताः।
स्कन्दस्य बालधारत्वात्तेषां स्कन्दोऽग्रणीरभूत्॥

अउ3.5
स्कन्देऽथ यौवनं प्राप्ते सेनापत्यं च तान् ग्रहान्।
रौद्रान् रुद्रोऽनुजग्राह प्रह्वान् वृत्त्यभिलाषिणः॥

अउ3.6
न तिथिष्वप्यतिथयो देवताः पितरोऽपि वा।
येषु वेश्मसु पूज्यन्ते निवृत्ताचारवर्त्मसु॥

अउ3.7
उत्सन्नबलिहोमेषु भिन्नकांस्योपभोजिषु।
हरध्वं तेषु बालानामारोग्यं धारि शर्म च॥

अउ3.8
शूलिनेति नियुक्तास्ते बलिपूजाभिकाङ्क्षिणः।
क्रुद्धान् भीतान् विमनसः शून्यस्थानैकचारिणः॥

अउ3.9
परोपभुक्तकुसुमवस्त्राभरणधारिणः।
बालान्कश्मलधात्रीकान्सन्ध्यासु रुदतोऽशुचीन्॥

अउ3.10
ऋक्षोलूकबिडालादिरूपैरन्यैस्तथाद्भुतैः।
सन्त्रासयन्तःशयितान्कदाचिज्जाग्रतोऽपि वा।
प्रायः पर्वसु गृह्णन्ति ग्रहाश्छिद्रप्रहारिणः॥

अस3.11। आविशन्तश्च लक्ष्यन्ते केवलं शास्त्रचक्षुषा।
शुद्धेन देहं बालानां गन्धर्वा इव योषिताम्॥

अउ3.12
तेषां ग्रहिष्यतां रूपं प्रततं रोदनं ज्वरः॥

अउ3.13
सामान्यं रूपमुत्रासजृम्भाभ्रूक्षेपदीनताः।
फेनस्रावोर्ध्वद्ष्ट्योष्ठदन्तदंशप्रजागराः॥

अउ3.14
रोदनं कूजनं स्तन्यविद्वेषः स्वरवैकृतम्।
नखैरकस्मात् परितः स्वधात्र्यङ्गविलेखनम्॥

अउ3.15
तत्रैकनयनस्रावी शिरो विक्षिपते मुहुः।
हतैकपक्षः स्तब्धाङ्गः सस्वेदो नतकन्धरः॥

अउ3.16
दन्तखादी स्तनद्वेषी त्रस्यन्रोदिति विस्वरम्।
वक्रवक्त्रो वमन्लालां भृशमूर्ध्वं निरीक्षते॥

अउ3.17
वसास्रगन्धिरुद्विग्रो बद्धमुष्टिशकृच्छिशुः।
चलितैकाक्षिगण्डभ्रूः संरक्तोभयलोचनः।
स्कन्दार्तस्तेन वैकल्यं मरणं वा भवेद्ध्रुवम्॥

अउ3.18
संज्ञानाशो मुहुः केशलुञ्चनं कन्धरानतिः।
विनम्य जृम्भमाणस्य शकृन्मूत्रप्रवर्तनम्॥

अउ3.19
फेनोद्वमनमूर्ध्वेक्षा हस्तभ्रूपादनर्तनम्।
स्तनस्वजिह्वासन्दंशसंरम्भज्वरजागराः।
पूयशोणितगन्धश्च स्कन्दापस्मारलक्षणम्॥

अउ3.20
आध्मानं पाणिपादस्य स्पन्दन फेननिर्वमिः।
तृण्मुष्टिबन्धातीसारस्वरदैन्यविवर्णताः॥

अउ3.21
कूजनं स्तननं छर्दिः कासहिध्माप्रजागराः।
औष्ठदंशांससङ्कोचस्तम्भबस्ताभगन्धताः॥

अउ3.22
ऊर्ध्वं निरीक्ष्य हसनं मध्ये विनमनं ज्वरः।
मूर्छैकनेत्रशोफश्च नैगमेषग्रहाकृतिः॥

अउ3.23
कम्पो हृषितरोमत्वं स्वेदश्चक्षुर्निमीलनम्।
बहिरायामनं जिह्वादंशोऽन्तःकण्ठकूजनम्।
धावनं विट्सगन्धत्वं क्रोशनं च श्ववच्छुनि॥

अउ3.24
रोमहर्षो मुहुस्त्रासः सहसा रोदनं ज्वरः।
कासातिसारवमथुजृम्भातृट्च्छवगन्धिताः॥

अउ3.25
अङ्गेष्वाक्षेपविक्षेपशोषस्तम्भविवर्णताः।
मुष्टिबन्धः स्रुतिश्चाक्ष्णोर्बालस्य स्युः पितृग्रहे॥

अउ3.26
स्रस्ताग्गत्वमतीसारो जिह्वातालुगले व्रणाः।
स्फोटाःसदाहरुक्पाकाःसन्धिषु स्युः पुनःपुनः॥

अउ3.27
निश्यह्नि प्रविलीयन्ते पाको वक्त्रे गुदेऽपिवा।
भयं शकुनिगन्धत्वं ज्वरश्च शकुनिग्रहे॥

अउ3.28
पूतनायां वमिः कम्पस्तन्द्रा रात्रौ प्रजागरः।
हिध्माध्मानं शकृद्भेदः पिपासा मूत्रनिग्रहः।
स्रस्तहृष्टाङ्गरोमत्वं काकवत् पूतिगन्धिता॥

अउ3.29
शीतपूतनया कम्पो रोदनं तिर्यगीक्षणम्।
तृष्णान्त्रकूजोऽतीसारो वसावद्विस्रगन्धिता।
पार्श्वस्यैकस्य शीतत्वमुष्णत्वमपरस्य च॥

अउ3.30
अन्धपूतनया च्छर्दिर्ज्वरः कासोऽल्पनिद्रता।
वर्चसो भेदवैवर्ण्यदौर्गन्ध्यान्यङ्गशोषणम्॥

अउ3.31
दृष्टिसादोऽक्षिरुक्कण्डूः पोथकीजन्म शूनता।
हिध्मोद्वेगः स्तनद्वेषवैवर्ण्यस्वरतीक्ष्णताः।
वेपथुर्मत्स्यगन्धित्वमथवा साम्लगन्धिता॥

अउ3.32
मुखमण्डितया पाणिपादास्यरमणीयता।
सिराभिरसिताभाभिराचितोदरता ज्वरः।
अरोचकोऽङ्गग्लपनं गोमूत्रसमगन्धिता॥

अउ3.33
रेवत्यां श्यावनीलत्वं कर्णनासाक्षिमर्दनम्।
कासहिध्माक्षिविक्षेपवक्त्रवक्रत्वरक्तताः॥

अउ3.34
बस्तगन्धो ज्वरः शोषः पुरीषं हरितं द्रवम्।
जायते शुष्करेवत्यां क्रमात् सर्वाङ्गसङ्क्षयः॥

अउ3.35
केशशातोऽन्नविद्वेषः स्वरदैन्यं विवर्णता।
नानावर्णपुरीषत्वमुदरे ग्रन्थयः सिराः।
रोदनं गृद्ध्रगन्धित्वं दीर्घकालानुवर्तनम्॥

अउ3.36
उदरे ग्रन्थयो वृत्ता यस्य नानाविधं शकृत्।
जिह्वाया निम्नतामध्ये श्यावं तालु च तं त्यजेत्॥

अउ3.37
भुञ्जानोऽन्नं बहुविधं यो बालः परिहीयते।
तृष्णागृहीतः क्षामाक्षो हन्ति तं शुष्करेवती॥

अउ3.38
हिंसारत्यर्चनाकाङ्क्षा ग्रहग्रहणकारणम्॥

अउ3.39
तत्र हिंसात्मके बालो महान् वा स्रुतनासिकः।
क्षतजिह्वः क्वणन् बाढमसुखी सास्रलोचनः॥

अउ3.40
दुर्वर्णो हीनवचनः पूतिगन्धिश्च जायते।
क्षामो मूत्रपुरीषं स्वं मृद्नाति न जुगुप्सते॥

अउ3.41
हस्तौ चोद्यम्य संरब्धो हन्त्यात्मानं तथापरम्।
तद्वच्च शस्त्रकाष्ठाद्यैरग्निं वा दीप्तमाविशेत्॥

अउ3.42
अप्सु मज्जेत् पतेत् कूपे कुर्यादन्यच्च तद्विधम्।
तृट्दाहमोहान् पूयस्य छर्दनं च प्रवर्तयेत्।
रकं च सर्वमार्गेभ्योऽरिष्टोत्पत्तिं च तं त्यजेत्॥

अउ3.43
रहःस्त्रीरतिसंल्लापगन्धस्रग्भूषणप्रियः।
हृष्टः शान्तश्च दुःसाधो रतिकामेन पीडितः॥

अउ3.44
दीनः परिमृशन् वक्त्रं शुष्कौष्ठगलतालुकः।
शङ्कितं वीक्षते रौति ध्यायत्यायाति भीतताम्॥

अउ3.45
अन्नमन्नाभिलाषेऽपि दत्तं नाति बुभुक्षते।
गृहीतं बलिकामेन तं विद्यात् सुखसाधनम्॥

अउ3.46
हन्तुकामं जयेद्धोमैः सिद्धमन्त्रप्रवर्तितैः।
इतरौ तु यथाकामं रतिबल्यादिदानतः॥
॥इति तृतीयोऽध्यायः॥

अथ चतुर्थोऽध्यायः।

अउ4.1
अथातो बालग्रहप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ4.2
ग्रहेषु साध्येषु शिशुं विविक्ते शरणे स्थितम्।
त्रिरह्ना मृष्टसंसिक्ते सदा सन्निहितानले॥

अउ4.3
विकीर्णभूतिकुसुमबीजपत्रान्नसर्षपे।
रक्षोघ्नतैलज्वलितप्रदीपहतपाप्मनि॥

अउ4.4
व्यवायमद्यपिशितनिवृत्तपरिचारके।
पुराणसर्पिषाभ्यक्तं परिषिक्तं सुखाम्बुना॥

अउ4.5
साधितेन बलानिम्बवैजयन्तीनृपद्रुमैः।
पारिभद्रककट्वङ्गजम्बूवरणकत्तृणैः॥

अउ4.6
कपोतवङ्कापामार्गपाटलीमधुशिग्रुभिः।
काकजङ्घामहाश्वेताकपित्थक्षीरिपादपैः॥

अउ4.7
सकदम्बकरञ्जैश्च धूपं स्नातस्य चाचरेत्।
द्वीपिव्याघ्राहिसिंहर्क्षचर्मभिर्घृतमिश्रितैः॥

अउ4.8
पूतीदशाङ्गसिद्धार्थवचाभल्लातदीप्यकैः।
सकुष्ठैः सघृतैर्धूपः सर्वग्रहविमोक्षणः॥

अउ4.9
सर्षपा निम्बपत्राणि मूलमश्वखुराद्वचा।
भूर्जपत्रं घृतं धूपः सर्वग्रहनिबर्हणः॥

अउ4.10
अनन्ताम्रास्थितगरं मरिचं मधुरो गणः।
शृगालविन्ना मुस्ता च कल्कितैस्तैर्घृतं पचेत्।
दशमूलरसक्षीरयुक्तं तद् ग्रहजित् परम्॥

अउ4.11
रास्नाद्व्यंशुमतीवढ्रपञ्चमूलबलाघनात्।
क्वाथे सर्पिः पचेत् पिष्टैः सारिवाव्योषचित्रकैः॥

अउ4.12
पाठाविडङ्गमधुकपयस्याहिङ्गुदारुभिः।
सग्रन्थिकैः सेन्द्रयवैः शिशोस्तत् सततं हितम्।
सर्वरोगग्रहहरं दीपनं बलवर्णदम्॥

अउ4.13
सारिवासुरभिब्राह्मशिङ्खिनीकुष्ठसर्षपैः।
वचाश्वगन्धासुरसायुक्तैः सर्पिर्विपाचयेत्॥

अउ4.14
तन्नाशयेद् ग्रहान् सर्वान् पानेनाभ्यञ्जनेन च। योजयेद् भूतविद्यायां यान्युक्तानि घृतानि च॥

अउ4.15
हस्तमात्रं शुचौ देशे गोमयेनोपलेपयेत्।
तत्राक्षतानां चोक्षाणां स्थाप्यं पात्रं सदक्षिणम्॥

अउ4.16
निर्धूमश्चानलस्तोयं गुग्गुलुः सर्पिराहुतिः।
शुक्लं पुष्पं बलिर्धूपो दूर्वा श्वेताश्च सर्षपाः॥

अउ4.17
प्राङ्मुखोऽथ शुचिर्वैद्यस्त्रिवर्णामथवा सिताम्।
उपविष्टः प्रतिसरां गृहीत्वा वेष्टयेत्तया॥

अउ4.18
भूर्जे रोचनया विद्यां लिखितामपराजिताम्।
विधिना साधितां भूतैः सर्वैरप्यपराजिताम्॥

अउ4.19
लक्ष्मणादिपरीवारां नित्यानुस्मृतिसेविताम्।
लक्ष्मणा सहदेवाख्या नागदन्ती कटम्भरा॥

अउ4.20
मर्कटी कर्कटी लम्बा बृहती कण्टकारिका।
खरनासा मृगोर्वारुर्महाश्वेता शतावरी॥

अउ4.21
उदङ्मुखस्य बालस्य बध्नीयात्तां ततो गले।
तदभावे दृढं क्षौमसूत्रं मन्त्रमिदं जपन्॥

अउ4.22
बध्नाम्यहं प्रतिसरां नमस्कृत्वा स्वयम्भुवे।
बालानां रक्षणार्थाय शिवां पूर्वर्षिनिर्मिताम्॥

अउ4.23
इन्द्रोऽनुमन्यतां तुभ्यं ये च तस्यानुचारिणः।
वज्राशनिधरा भूता मेघवृन्दानुसारिणः॥

अउ4.24
ऐरावतस्कन्धगतं येऽनुयान्ति पुरन्दरम्।
यमो वैवस्वतो राजा ये च तस्यानुचारिणः॥

अउ4.25
मेषसूकरसिंहोष्ट्रखरवाजिसमाननाः।
काला कालायसैःपाशैःस्तब्धाक्षा भ्रुकुटीमुखाः॥

अउ4.26
शक्तिमुद्गरहस्ताश्च खड्गपाशधराश्च ये।
पाशभृद्वरुणो राजा तोयभूः सागरालयः॥

अउ4.27
शारदाभ्रघनाकारा ये च तस्यानुचारिणः।
महोर्मिमन्तं वेगेन क्षोभयन्ति सरित्पतिम्॥

अउ4.28
धनाधिपो वैश्रवणः सर्वयक्षाधिपो विभुः।
नानाकाराश्च ये भूतास्तस्यैवानुचराः सदा॥

अउ4.29
आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि।
एते सर्वेऽनुमन्यन्तामिमां प्रतिसरक्रियाम्॥

अउ4.30
दीर्घमायुररोगं च तव दास्यन्ति स्वस्ति ते।
स्वस्ति ते भगवान् ब्राह्मा स्वस्ति नारदपर्वतौ॥

अउ4.31
स्वस्ति वेदाश्च यज्ञाश्च अग्नीषोमौ च स्वस्ति ते।
स्वस्ति ते श्रीर्धृतिःकीर्तिर्लक्ष्मीर्मेधा क्षमा द्युतिः॥

अउ4.32
स्वस्ति तुष्टिश्च पुष्टिश्च वपुर्द्रीर्बुद्धिरेव च।
स्वस्ति रुद्रो विशाखश्च स्कन्दः शक्तिधरश्च ते॥

अउ4.33
स्वस्ति धाता विधाता च सुपर्णश्च महाबलः।
स्वस्ति देवाश्च यक्षाश्च मा च ते पापमागमत्॥

अउ4.34
दुर्व्यादृतानि दुस्वप्नं मनसा चिन्तितानि च।
दुष्टादीनां भयकृतो वाचः प्रतिहता मया॥

अउ4.35
रक्षा प्रतिसरा तुभ्यं बद्धेयं पापघातिनी।
निर्वृतस्त्वं निरुद्वेगो जीव वर्षशतं सुखी॥

अउ4.36
अपूपपूपसंयावस्वस्तिकालोपिकादयः।
पायसो मिश्रकः सिद्धो गुडपूरो हरिद्रकः॥

अउ4.37
कृसरो यावकः क्षौद्रं पललं लवणं हविः।
दधिकुल्माषनिष्पावो रक्तो भूतौदनः पयः॥

अउ4.38
पक्वाममांसरुधिरमत्स्यसक्तु सुरासवाः।
गन्धं माल्यं फलं हेम धूपः सपुरकुन्दुरुः॥

अउ4.39
सुरसार्जकनिर्गुण्डीकुसुमं च सपल्लवम्।
बलिः सुशस्तैर्देयः स्याद् भवनस्य चतुर्दिशम्॥

अउ4.40
चतुष्कचैत्यत्रिपथदेवायतनगोपुरे।
रेखावृक्षोदपाने च सन्ध्ययोर्दीपवान् निशि॥

अउ4.41
अथापतितगोवर्चः प्रलिप्ते दर्भसंस्तृते।
वृत्ते वा चतुरस्रे वा मण्डले कुसुमोज्वले॥

अउ4.42
नानाग्रहपरीवारं भिषग्भूतपतिं लिखेत्।
तं प्रति प्राङ्मुखो विद्यां पठन्नुपहरेत् बलिम्॥

अउ4.43
नमोविमारकस्य।
नमः कुमारङ्गाय।
नमः सप्तानां मातॄणाम्।
नमः स्कन्दाय।
एष परिग्रहमन्त्रः।
मातॄणामावाहनं च।
हिलिहिलिनिमापटलिनि स्वाहा।
अनेन सप्तकृत्वः परिजपितेन पानीयचलुकेनात्माभ्युक्षयितव्यः।
एवमात्मरक्षा कृता भवति॥

अउ4.44
ग्रहाणां सन्निधानाय बलेश्च प्रतिपत्तये।
सत्यसाधनसंयुक्तमिमं मन्त्रं पठेदनु॥

अउ4.45
प्रजापतौ च यत् सत्यं यत् सत्यममरेश्वरे।
धर्मराजे च यत् सत्यं यच्च सत्यं तपस्विषु॥

अउ4.46
धनाधिते च यत् सत्यं यच्च सत्यं जलाधिते।
यत् सत्यमग्निहोत्रेषु सत्यं यच्छ्रोत्रियेषु च॥

अउ4.47
पतिव्रतासु यत्सत्यमीश्वरे च महात्मनि।
एतैस्तु सत्यसमयैर्गुह्यकाः सत्यवादिनः॥

अउ4.48
दर्शयध्वं स्वरूपाणि सत्यं रक्षत सर्वतः।
आमन्त्रिता मया सौम्याः सौम्यरूपाः प्रतीच्छता॥

अउ4.49
बलिं चोपहृतं सर्वं सर्वे कौमारका ग्रहाः।
दर्शयध्वं स्वरूपाणि बलिश्च प्रतिगृह्यताम्॥

अउ4.50
ततश्चानु पठेदेनां कुलविद्यां समाहितः।
औला नीला खला काला नकुला ग्रहकारिका॥

अउ4.51
सेना सुसेना माता च महासेना यशस्विनी।
कृतमालाक्षतशिरा एतास्तु ग्रहमातरः॥

अउ4.52
कुमारवचनाच्छीघ्रं प्रमुञ्चन्तु शिशुन्त्विमम्।
कालकल्पा ज्वलच्छक्तिः किङ्किणीजालभूषिता॥

अउ4.53
कुमारवचनाद्दूती सम्प्राप्ता मुच्यतां शिशुः।
पताका कुक्कुटः छत्रं घण्टाबर्हधरः शिखी॥

अउ4.54
शरस्तम्भश्च ते मुद्रा मुच्यतां मातरः शिशुः।
गन्धं धूपं च माल्यं च कुमारस्ते प्रयच्छति॥

अउ4.55
न स्थातव्यं तदाघ्राय स्वां गतिं गच्छ मा चिरम्।
धात्र्यः सर्वाः कुमारस्य सङ्गता गन्धमादने॥

अउ4.56
रक्तध्वजपताकस्य रक्तांशुकनिवासिनः।
कुमारस्यालयं तत्र यात बालं विमुञ्चत॥

अउ4.57
षम्मुखो द्वादशाक्षो वै तस्मिन् काले वृतो वरम्।
वीरः कुमाराधिपतिस्तव पुत्रोऽभिषिच्यताम्॥

अउ4.58
ब्राह्मणो ब्राह्मणानान्तु सर्ववेदविदां वरः।
यक्षराक्षसनागानां गन्धर्वासुरयोरपि॥

अउ4.59
पिशाचभूतसङ्घानां व्याधीनां च स ईश्वरः।
आज्ञापयति वः स्कन्दो गम्यतां गन्धमादनम्॥

अउ4.60
ग्रहो यः कोपयेदाज्ञां कुमारस्य यशस्विनः।
स्थानात् च्युतः स वै क्षिप्रं बाह्यः परिषदो भवेत्॥

अउ4.61
बलेरनन्तरं कुर्याद्धोममभ्यर्च्य पावकम्।
पुष्पैर्भक्ष्यैश्च विविधैश्चरुणा लोहितैस्तथा॥

अउ4.62
गन्धैर्गुग्गुलुधूपैश्च समिधः खदिरादथ।
शतमष्टोत्तरं हव्यमथवा चन्दनद्रुमात्॥

अउ4.63
अग्निदण्डं प्रवक्ष्यामि सर्वग्रहविमोक्षणम्।
ब्रह्मण्यन्त्वनलं देवं हव्यकव्यप्रतीच्छकम्॥

अउ4.64
देवानां प्राङ्मुखं स्वस्तिस्वाहापहरतिद्रुतम्।
सहस्रविद्यो दहनः पावकः सर्वभक्षणः॥

अउ4.65
त्वं हि यज्ञश्च यूपश्च त्वं हि धर्मवतां गतिः।
हिरण्यरेता देवस्त्वं त्वं हि वेदविदां गतिः॥

अउ4.66
दुर्वृत्तानां विनाशाय त्वं समुत्पादितः सुरैः।
दहसङ्ग्रहदेवत्वमिदं दुष्टस्य निग्रहम्॥

अउ4.67
अग्नये स्वाहा।
महाग्नये स्वाहा।
त्वं हि शान्तिकरो वह्निस्त्वं मारुतहरोदनः।
हरिप्रधानगतिरासीदिमं निगृह्य गुह्यकमुत्सादय तेजसा त्वं मम वश्यं च तं कुरु दुष्टग्रहनिवारणं सर्वोपद्रवेषु च॥

अउ4.68
त्वया कृतेन होमेन शीघ्रं शान्तिः प्रजायते।
आयाहि वह्ने देवानां त्वं हि वक्त्रं पुरातनम्।
तेन सत्येन देवेश इमं साधय मे ग्रहम्॥

अउ4.69
नमोऽस्तुते हव्यवाहन दण्डं प्रदर्शय दह दह दर्श दर्श तेज तेज मोटय मोटय अपस्मारमुद्घाटय कुमार पिशाचरेवतीरोदनत्रासन वित्रासन कम्पन उत्कम्पन विजृम्भण देवयक्षगन्धर्वभूतनागराक्षससन्तजन दण्डनाविधूसारयभगवन्नग्निदण्ड अग्निवीर्य नमस्तेजसास्वेनत्यक्तमुत्सादय स्वाहा।
भूर्भुवस्स्वः स्वाहा।
दीप्ततेजसे स्वाहा।
हव्यवाहनाय स्वाहा।
यमाय स्वाहा।
नश्यन्त्यनेन होमेन समस्ता बालकग्रहाः॥

अउ4.70
तत्राग्नावरुणे ताम्रे तप्तहेमसमार्चिषि।
तारावैदूर्यसदृशे शशिविद्युत्समप्रभे॥

अउ4.71
घृतमण्डाभवर्णे वा गन्धेन च घृतोपमे।
केतकोत्पलदध्याभे द्रुवमारोग्यमादिशेत्।
अनारोग्यं तु नीलेऽग्नौ कपिले भस्मनिष्प्रभे॥

अउ4.72
कृष्णे कपोते दुर्गन्धे मत्स्यपूयास्रगन्धिके।
वचालशुनगन्धाभे विस्रे कर्दमगन्धिके॥
॥इति चतुर्थोऽध्यायः॥

अथ पञ्चमोऽध्यायः।

अउ5.1
अथातः स्नपनाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ5.2
सरित्सङ्गमगोतीर्थगजेन्द्रस्कन्धगोकुले।
चतुष्पथे च स्नपयेद् बालं सस्तन्यमातरम्।
श्मशाने दीर्घरोगार्तं मृतापत्यां च योषितम्॥

अउ5.3
दूर्वाक्षीरिद्रुमवती प्रागुदक्प्रवणा मही।
स्निग्धनीरुजपुष्पाढ्यपादपा स्नपने शुभा॥

अउ5.4
रेवतीश्रवणस्वातीप्राजापत्योत्तरैन्दवे।
पुष्ये मूले च बालस्य स्नानं पर्वदिनेषु च॥

अउ5.5
चतुर्हस्ताष्टहस्तं वा द्वात्रिंशद्धस्तमेव वा।
नल्वमात्रप्रमाणं वा त्रिवर्णं मण्डलं लिखेत्॥

अउ5.6
गोचर्मचापेषुमितस्त्रिविधो नल्व उच्यते।
चतुरस्रं चतुर्द्वारं पताकाभिरलङ्कृतम्।
आकीर्णं परितो दूर्वासिद्धार्थकयवाङ्कुरैः॥

अउ5.7
क्रमात् प्राच्यादिषु लिखेद् गजारूढं पुरन्दरम्।
धर्मराजं महिषगं चक्राह्वस्थमपां पतिम्॥

अउ5.8
धनदं च गदापाणिं यमस्थानमतीत्य च।
मातृस्थानं लिखेत्तस्मिन् सवृषं नन्दिकेश्वरम्।
सवध्वनुचरं चादौ मृन्मयं च विनायकम्॥

अउ5.9
अतीत्य वरुणावासं सहस्रारं निवेशयेत्।
विष्णुप्रहरणं चक्रं सर्वविघ्ननिवारणम्॥

अउ5.10
सुरयक्षेशयोर्मध्ये पद्महस्तालयां श्रियम्।
नन्द्यावर्ताङ्कुशादर्शमत्स्यस्वस्तिकतोरणम्॥

अउ5.11
शङ्खं च दक्षिणावर्तं श्रीवत्सं माल्यदाम च।
इन्द्रादीनां परीवारमैशान्यादि विदिक्षुच॥

अउ5.12
लम्बोदरी लम्बभुजा लम्बकर्णी च राक्षसी।
इन्द्रद्वारे निवेश्याः स्युर्यमद्वारे प्रलम्बिनी।
लम्बकेश्यप्पतिद्वारे कौबेरे लम्बनासिका॥

अउ5.13
षट्कीलानायसान्कुर्यात्सप्त त्रैलोहिकान् भिषक्।
द्वौ चात्र खादिरौ शङ्कू चन्दनाम्बुसमुक्षितौ॥

अउ5.14
अष्टौ घटाः षोडश वा द्वात्रिंशद्विगुणा अपि।
स्वस्तिकाङ्काः प्रवालाभा रङ्गैरश्लेषकैः कृताः॥

अउ5.15
यथार्हौषधसंयुक्तशुचितोयप्रपूरिताः।
क्षीरिवृक्षपलाशाब्जगन्धमाल्योपशोभिताः।
मण्डलस्य चतुर्द्वारे कर्तव्याः सुनिवेशिताः॥

अउ5.16
पूर्वेषु प्रक्षिपेद्धेम ततश्च मणिमौक्तिकम्।
अपरेष्वौषधीबीजानुदक्ष्वक्षतसर्षपान्॥

अउ5.17
मृदः पवित्रा रक्षोघ्नीराहरेत सुरालयात्।
हस्तिशालाश्वशालाभ्यां शृङ्गाटकचतुष्पथात्॥

अउ5.18
वल्मीकाग्रान्नदीतीराद्वेश्याकोशनृपालयात्।
गुप्तिद्वारात् समुद्राच्च समिद्धं चाग्निमाहरेत्॥

अउ5.19
समिधः क्षीरिवृक्षाणां गन्धमाल्यं घृतं मधु।
अक्षतांस्तण्डुलानलाजान्पञ्चवर्णौदनंतिलान्॥

अउ5.20
ततो मध्यस्थिते पद्मे सह धात्र्योपवेशयेत्।
बालमौदुम्बरे पीठे पालाशे वाप्युदङ्मुखम्।
आस्तृते हरितैर्दर्भैर्न तु प्राच्यादिदिङ्मुखम्॥

अउ5.21
उदाहरिष्यते मन्त्रो यः स्कन्दबलिकर्मणि।
जुहुयात्तेन तत्राग्निमुदीच्यां स्थापितं दिशि॥

अउ5.22
त्रिरात्रोपोषितो वैद्यः शुक्लवासा जितेन्द्रियः।
सर्षपाक्षतयुक्ताभिर्मृद्भिर्गात्राणि मार्जयन्॥

अउ5.23
यथोदिताभिःस्नपयेत्घटैःप्राच्यादिदिक्स्थितैः।
क्रमात् प्रदक्षिणोत्क्षिप्तैः तत्र मन्त्रं प्रयोजयेत्॥

अउ5.24
अमृतात् पूर्वमुत्पन्नमिमं ते कलशं शुभम्।
ददातु भगवानिन्द्रो विजयं नाम नामतः॥

अउ5.25
रक्तपीताम्बरधरैर्भूतैर्बहुभिरन्वितः।
राक्षसोरगगन्धर्वपिशाचैश्चानुसेवितः॥

अउ5.26
वज्रघण्टाशनिधरैर्मेघैश्च विविधस्वनैः।
देवसङ्घैः परिवृतो गजेन्द्रस्कन्धसंश्रितः॥

अउ5.27
एभिः सार्धं महानिन्द्रः स्नपनं तेनुमन्यताम्।
पूर्वद्वारे स्थितं दिव्यं वज्रमिन्द्राज्ञया शुभम्॥

अउ5.28
तव सर्वाणि पापानि निहन्ता चापराजितः।
इन्द्राय नमः स्वाहा।
इन्द्राण्यै नमः स्वाहा।
अपराजिताय स्वाहा।
मेघाधिपतये स्वाहा।
देवाधिपतये स्वाहा।
शतक्रतवे स्वाहा॥

अउ5.29
द्वितीयं कलशं पुण्यमादित्यसदृशप्रभम्।
यमो ददातु भगवान् वैजयन्तं तु नामतः॥

अउ5.30
कृष्णाञ्जननिभिर्घोरैः कृष्णाम्बरधरैस्तथा।
वृतः करालैर्विकृतै राक्षसैरुग्रविक्रमैः॥

अउ5.31
श्मशानारण्यनिलयैर्मृतवस्त्रान्त्रभूषणैः।
त्वगस्थिमज्जमांसादैः प्रेतैर्बहुभिरावृतः॥

अउ5.32
धर्मराजो यमः श्रीमान् सत्यसन्धो महातपाः।
दिव्यं महिषमारुह्य स्नपनं तेनुमन्यताम्॥

अउ5.33
दक्षिणद्वारसंस्थस्ते यमदण्डः प्रतापवान्।
दुःस्वप्नं दुष्कृतं पापं सर्वमद्य हनिष्यति॥

अउ5.34
यमाय नमः स्वाहा।
यमदण्डाय नमः स्वाहा।
महिषवाहनाय स्वाहा।
प्रेताधिपतये स्वाहा।
धर्माधिपतये स्वाहा।
वैजयन्ताय स्वाहा॥

अउ5.35
जयन्तं जयवृध्यर्धं तृतीयं कलशं शुभम्।
ददातु मधुराजस्ते भगवान् वरुणः स्वयम्॥

अउ5.36
श्वेतमाल्याम्बरधरैः श्वेतगन्धानुलेपनैः।
गन्धर्वैः पन्नगेन्द्रैश्च भगवाननुशोभितः॥

अउ5.37
तीर्थकूपनदीवृक्षनिष्कुटोद्यानवासिभिः।
प्रबलैः कापिलैर्मुण्डैर्विकटैर्वामनैस्तथा॥

अउ5.38
वृतः परिषदैर्भूतैः पाशमुद्गरपाणिभिः।
एभिः सहाद्य भगवान् वरुणस्त्वाभिषिञ्चतु॥

अउ5.39
वरुणस्य महापाशोप्यपरद्वारमाश्रितः।
तव पापं निहन्त्वाशु सर्वविघ्ननिवारणः॥

अउ5.40
वरुणाय नमः स्वाहा।
श्वेताम्बरधराय स्वाहा।
मकरवाहनाय स्वाहा।
जयन्ताय स्वाहा॥

अउ5.41
चतुर्थं कलशं पुण्यं प्रधानमपराजितम्।
धनेश्वरो महाबाहुः प्रयच्छत्वलकाधिपः॥

अउ5.42
चित्रमाल्याम्बरधरौश्चित्रगन्धानुलेपनैः।
चित्रमद्यमदोन्मत्तैर्यक्षैः समुपसेवितः॥

अउ5.43
मुदितोद्गीतगन्धैर्वैः सेवितश्चाप्सरोगणैः।
स ते वैश्रवणः श्रीमान् स्नपनन्त्वनुमन्यताम्॥

अउ5.44
सर्वव्याधिहरा दीप्ता द्वारमुत्तरमाश्रिता।
गदा ते नाशयत्वद्य सर्वपापं दिशो दश॥

अउ5.45
धनाधिपतये स्वाहा।
गदापाणये स्वाहा।
अपराजिताय स्वाहा।
चित्राम्बरधराय स्वाहा॥

अउ5.46
आपः पवित्रं लोकेस्मिन्नापो वै परमं शुचिः।
आपो वै देवताः सर्वा आपस्त्वामभिषिच्यताम्।
ब्रह्माब्रह्मर्षिभिः सार्धं भगवांस्त्वाभिषिञ्च तु॥

अउ5.47
स्वाहा।
साङ्गोपाङ्गास्तथा वेदाः कीर्तिर्लक्ष्मीः सरस्वती।
बाला दाक्षायणी सीता सावित्री सरमा द्युतिः।
आकाशगङ्गा गङ्गाद्या महानद्यो महोदधिः॥

अउ5.48
नदीनां सङ्गमास्तीर्था निर्झराः सागरास्तथा।
मेरुर्महेन्द्रो हिमवान् जगच्च स्थावरत्रयम्॥

अउ5.49
स्कन्दादयो ग्रहाश्चैव तोषिता बलिकर्मणा।
अद्य त्वामभिषिञ्चन्तु नीरुजो भव दारक॥

अउ5.50
नमो भगवते पितामहाय।
ओं मं ओं मं ल्मि ल्मि लिभुक् लिभुक् लिपिभवनेभ्यः स्वाहा॥

अउ5.51
नमो भगवते रुद्राय हिलिमिलि, मेल्लि, मेल्लि, वेल्लि वेल्लि, म्मिलिम्मिलि स्वाहा॥

अउ5.52
राक्षसाच पलायन्तु भूताश्च त्रस्तमानसाः।
मृताशना महाजिह्वास्तथा विघ्नविनायकाः॥

अउ5.53
नमो भगवते कुमाराय पिलि, पिलि, खिल्लि, खिल्लि, खिणि, खिणि, स्वाहा॥

अउ5.54
पुष्करं पुष्करारण्यं नैमिषं च तथा गया।
प्रभासं प्रवरं तीर्थं तथा पिण्डारकाह्वयम्।
तीर्थान्येतानि सर्वाणि अभिषिञ्चन्तु स्वस्ति ते॥

अउ5.55
नमो भगवतीभ्यो महायोगीश्वरीभ्यो।
निमिनिमि मेनुमेनु तुरुतुरु स्वाहा॥

अउ5.56
याश्च जातापहारिण्यो राक्षस्यो विकृताननाः।
अपि ता निहताः सर्वा याश्चान्याः पापचिन्तकाः॥

अउ5.57
सतीनां कपिलानां च सिद्धानां चैव तेजसा।
तेजसा चर्षिविप्राणां मयाद्य स्नपितो भवान्॥

अउ5.58
प्रभुर्मृत्युरलक्ष्मीश्च कालरात्रिश्च सारथिः।
लम्बा च लोहशङ्कुश्च पूतना कूटपूतना।
अशुभं यच्च ते किञ्चित् सर्वं प्रतिहतं मया॥

अउ5.59
आदित्या वसवो रुद्रा अश्विनावौषधीगणाः।
गावोन्तरिक्षं सन्ध्ये च नक्षत्रग्रहवत्सराः॥

अउ5.60
विश्वावसुश्च हाहा च नारदस्तुम्बुरुस्तथा।
धन्वन्तरिरगस्त्यश्च सुस्नातं प्रदिशन्तु ते॥

अउ5.61
स्नातो द्विजभिषग्भृत्यान्यथाविभवमर्चयेत्।
मांसव्यवायाहःस्वप्नान् पञ्चरात्रं विवर्जयेत्॥

अउ5.62
स्नपनं पाप्मजित् पुण्यं नीरुजामपि पुष्टिकृत्।
रोगिणां सर्वरोगघ्नं वन्ध्यानामपि पुत्रदम्॥

अउ5.63
विधिना विधिहीनन्तु सवैद्यं हन्ति बालकम्।
नैतदश्रद्दधानाय योज्यं नानुपसीदते॥

अउ5.64
पूतीकरञ्जत्वक्पत्रं क्षीरिभ्यो बर्बरादपि।
तुम्बीविशालारलुकशमीबिल्वकपित्थतः॥

अउ5.65
स्थाल्यामुत्क्वाथ्य तत्तोयं बालानां स्नपनं शिवम्।
रात्रौ प्रसुप्तलोकायां पुष्टिदं सर्वरोगजित्॥

॥इति पञ्चमोऽध्यायः॥