अष्टाङ्गसंग्रहः उत्तरस्थानम् अध्याय ११-१५

विकिस्रोतः तः

अष्टाङ्गसंग्रहः

अथ एकादशोऽध्यायः।

अउ11.1
अथातो वर्त्मरोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ11.2
सर्वरोगनिदानोक्तैरहितैः कुपिता मलाः।
अचक्षुष्यैर्विशेषेण प्रायः पित्तानुसारिणः॥

अउ11.3
सिराभिरूर्ध्वं प्रसृता नेत्रावयवमाश्रिताः।
वर्त्मसन्धिं सितं कृष्णं दृष्टिं वा सर्वमक्षि वा॥

अउ11.4
रोगान् कुर्युः चलस्तत्र प्राप्य वर्त्माश्रयाः सिराः।
सुप्तोत्थितस्य कुरुते वर्त्मस्तम्भं सवेदनम्॥

अउ11.5
पांसुपूर्णाभनेत्रत्वं कृच्छ्रोन्मीलनमश्रु च।
विमर्दनात् स्याच्च शमः कृच्छ्रोन्मीलं वदन्ति तमू॥

अउ11.6
चालयन्वर्त्मनी वायुर्निमेषोन्मेषणं मुहुः।
करोत्यरुङ्निमेषोऽसौ वर्त्म यत्तु निमील्यते॥

अउ11.7
विमुक्तसन्धि निश्चेष्टं हीनं वातहतं हि तत्॥

अउ11.8
कृष्णाः पित्तेन बह्व्योन्तर्वर्त्म कुम्भीकबीजवत्।
आध्मायन्ते पुनर्भिन्नाः पिटकाः कुम्भिसंज्ञिकाः॥

अउ11.9
सदाहक्लेदनिस्तोदं रक्ताभं स्पर्शनाक्षमम्।
पित्तेन जायते वर्त्म पित्तोत्क्लिष्टमुशन्ति तत्॥

अउ11.10
करोति कण्डूं दाहं च पित्तं पक्ष्मान्तमाश्रितम्।
पक्ष्मणां शतनं चानु पक्ष्मशातं वदन्ति तम्॥

अउ11.11
पोथक्यः पिटकाः श्वेताः सर्षपाभा घनाः क्कफात्।
शोफोपदेहरुक्कण्डूपिच्छिलास्रसमन्विताः॥

अउ11.12
कफोत्क्लिष्टं भवेद्वर्त्म स्तम्भक्लेदोपदेहवत्॥

अउ11.13
ग्रन्थिः पाण्डुररुक्पाकः कण्डूमान्कठिनःकफात्।
कोलमात्रः स लगणः किञ्चिदल्पस्ततोऽथवा॥

अउ11.14
रक्ता रक्तेन पिटका तत्तुल्यपिटकाचिता।

अउ11.15
उत्सङ्गाख्या तथोत्क्लिष्टं राजिमत् स्पर्शनाक्षमम्॥

अउ11.16
अर्शोऽधिमांसं वर्त्मान्तः स्तब्धं स्निग्धं सदाहरुक्।
रक्तं रक्तेन तत्स्रावि च्छिन्नं च्छिन्नं च वर्धते॥

अउ11.17
मध्ये वा वर्त्मनोऽन्ते वा कण्डूषारुग्वती स्थिरा।
मुद्गमात्रासृजा ताम्रा पिट्Aकाञ्जननामिका॥

अउ11.18
दोषैर्वर्त्म बहिः शूनं यदन्तः सूक्ष्मखाचितम्।
सस्रावमन्तरुदकं बिसाभं बिसवर्त्म तत्॥

अउ11.19
यद्वर्त्मोत्क्लिष्टमुत्क्लिष्टमकस्मान्म्लानतामियात्।
रक्तदोषत्रयोत्क्लेशात् भवत्युत्क्लिष्टवर्त्म तत्॥

अउ11.20
श्याववर्त्म मलैः सास्रैः श्यावं रुक्क्लेदशोफवत्॥

अउ11.21
श्लिष्टाख्यं वर्त्मनी श्लिष्टे कण्डूश्वयथुरागिणी॥

अउ11.22
वर्त्मान्तः पिटका रूक्षाः कर्कशाः सिकतोपमाः॥

अउ11.23
सिकतावर्त्मकृष्णं तु कर्दमं कर्दमोपमम्॥

अउ11.24
बहलं बहलैर्मांसैः सवर्णैश्चीयते समैः॥

अउ11.25
कुकूणकः शिशोरेव दन्तोत्पत्तिनिमित्तजः।
स्यात्तेन शिशुरुच्छूनताम्राक्षो वीक्षणाक्षमः।
सवर्त्मशूलपैच्छिल्यकर्णनासाक्षिमर्दनः॥

अउ11.26
पक्ष्मोपरोधे सङ्कोचो वर्त्मनोर्जायते ततः।
खरतान्तर्मुखत्वं च रोम्णामन्यानि वा पुनः॥

अउ11.27
कण्टकैरिव तीक्ष्णाग्रैर्घृष्टं तैरक्षि शूयते।
ऊष्यते चानिलादिद्विडल्पाहं शान्तिरुद्धृतैः॥

अउ11.28
कनीनके बहिर्वर्त्म कठिनो ग्रन्थिरुन्नतः।
ताम्रः पक्वोस्रपूयस्रुदलज्याध्मायते मुहुः॥

अउ11.29
वर्त्मान्तर्मांसपिण्डाभः श्वयथुर्ग्रथितोऽरुजः।
सास्रैः स्यादर्बुदो दोषैर्विषमो बाह्यतश्चलः॥

अउ11.30
चतुर्विंशतिरित्येते व्याधयो वर्त्मसंश्रयाः॥

अउ11.31
आद्योऽत्रभेषजैः साध्यो द्वौ ततोर्शश्च वर्जयेत्।
पक्ष्मोपरोधो याप्यः स्याच्छेषाञ्छस्त्रौषधैर्जयेत्॥

अउ11.32
कुट्टयेत् पक्ष्माशतनं छिन्द्यात्तेष्वपि चार्बुदम्।
भिन्द्याल्लगणकुम्भीकाबिसोत्सङ्गाञ्जनालजीः॥

अउ11.33
पोथकीश्यावसिकताश्लिष्टोत्क्लिष्टचतुष्टयम्।
सकर्दमं सबहलं विलिखेत् सुकुकूणकम्॥
॥इति एकादशोऽध्यायः॥

अथ द्वादशोऽध्यायः।

अउ12.1
अथातो वर्त्मरोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ12.2
कृछ्रबोधे पुराणं घृतं द्राक्षाकल्कक्वाथसिद्धं शर्करावचूर्णितं रात्रौ पाययेत्।
स्निग्धांश्च नस्यधूमाञ्जनतर्पणपुटपाकान् प्रयोजयेत्।
वातहरद्रव्यकल्पितांश्च बस्तीन् क्षीरस्विन्नैरेरण्डपल्लवैः स्वेदं च वर्त्मनाम्॥

अउ12.3
एवमशान्तौ मुद्गमात्रान्तरैः पदैरग्निना त्वग्दाहं बिन्दुभिराचरेत्॥1Aष्.Uत्त्.12.4। कुम्भीकापिटकासु वर्त्म लिखित्वा सैन्धवेनानुप्रतिसार्य पटोलामलकमधुकक्वाथेन सेचयेत् घृतेन च॥

अउ12.5
पित्तरक्तोक्लिष्टयोर्मधुरौषधसिद्धेन सर्पिषा स्निग्धस्य सिरां विध्येत्।
विरेचयेच्चैनं त्रिवृत्क्वाथवता त्रिफलाकल्केन।
त्रिफलाक्वाथयुक्तेन वा ब्राह्मीचूर्णेन।
चन्दनोशीरमधुकमृद्वीकापुनर्नवबृहतीमूलसिद्धं तैलं नावयेत्।
लिखिते च वर्त्मनि स्रुतरक्ते यष्ट्याह्वनिर्यूहेण प्रक्षालनम्।
चन्दनशृतं पयः परिषेकः।
शीतस्निग्धाश्च शिरोवक्त्रलेपाः॥

अउ12.6
पक्ष्मशाते रोमकूपान् सूच्यग्रेण कुट्ट्Aयेज्जलौकोभिर्वा ग्राहयेत्।
पयसेक्षुरसेन वा वमनम्।
स्वादुशीतस्कन्धसाधितं सर्पिर्नावनम्।
काकजङ्घा रोहित मत्स्यमांसं च काकशोणितभावितमन्तर्धूमं दग्धं चूर्णाञ्जनं कुर्यात्॥

अउ12.7
सञ्चूर्ण्य पुष्पकासीसं भावयेत् सुरसारसैः।
ताम्रे दशाहं परमं पक्ष्मशाते तदञ्जनम्॥

अउ12.8
पोथकीर्विलिख्य शुण्ठीसैन्धवमागधिकाचूर्णैः प्रतिसार्य प्रक्षाल्य चोष्णाम्भसा खदिरसाराढकीशिग्रुपत्रकषायेण सेचयेत्।
ततश्चाम्रजम्बूप्रवालक्वाथेनाश्च्योतनम्।
त्रिफलाखदिरसारोदकेन वा मधुसंयुक्तेन।
विडङ्गलाक्षादार्वीत्वग्गैरिकालमनोह्वाचूर्णः क्षौद्रान्वितोऽञ्जनम्॥

अउ12.9
एवमप्यनुपशमे जलौकसो योजयेत्।
पुनः पुनर्वा लेखयेत्।
परिषेकं च त्रिफलामधुकद्विहरिद्राकषायेण मधुयुक्तेन कुर्यात्।
मुस्तशर्कराकपित्थपत्राम्बुना वा॥

अउ12.10
कफोत्क्लिष्टं वर्त्म लिखित्वा सैन्धवकासीसपिप्पलीमनश्शिलारसाञ्जनचूर्णैर्मधुमद्भिः प्रतिसारयेत्।
कफघ्नानि च वमनधूमनावनाञ्जनान्याहारविधिश्च।
वर्त्मापक्लेदे कासीसलवणसुमनोमुकुलरसाञ्जनैर्वर्तिरञ्जनम्॥

अउ12.11
लगणं कफोत्क्लिष्टवत् साधयेत्।
अशाम्यत्यग्निना दाहो वमनं विरेचनं च। पिप्पलीमधुकनिम्बज्योतिष्मतीदेवदारुविडङ्गप्रियङ्गुत्रिफलाकुष्ठशताह्वासैधवैः सिद्धं तैलं नावयेत्।
तीक्ष्णावपीडाञ्जनकवलांश्च विदध्यादुष्णोपचारं च॥

अउ12.12
उत्सङ्गपिटकामञ्जननामिकां च भित्वा निष्पीड्य चोल्लिखितां तगरैलासैन्धवनेपालीचूर्णेन सक्षौद्रेण प्रतिसारयेत्।
हरिद्रामधुकपटोललोध्रः समाक्षिकः परिषेकः॥

अउ12.13
बिसवर्त्मादिषु बहलवर्त्मान्तेषु सैधवं प्रतिसारणम्।
बिसश्लिष्टवर्त्मनोस्तथानुपशमेऽग्निना क्षारेण वा दहनम्॥

अउ12.14
कुकूणके निम्बपत्रत्रिफलाखदिरमूलकल्कविपक्वं सर्पिर्धात्रीं पाययित्वा सैन्धवसर्षपोपकुल्यायष्ट्याह्ववतोष्णाम्भसा वामयेत्।
पिप्पलीद्राक्षाभयानिर्यूहेण विरेचयेत्।
स्तनौ चास्या मागधिकामुस्ताद्विरजनःकल्केनालिप्योद्वर्तयेत्।
धूपयेच्च सघृतैः सिद्धार्थकः।
पाययेच्चैनां पटोलमुस्तमृद्वीकागुडूचीत्रिफलाकषायम्॥

अउ12.15
बालस्य वर्त्मनी लिखित्वा मधुसैन्धवरसाञ्जनैः प्रतिसार्यामलक्यश्मन्तकजम्बूपल्लवक्वाथेन प्रक्षालयेत्।
जलौकोभिर्वा ग्राहयेत्।
वेदनायां तु कुष्ठगुडूचीकल्कोदकेन सगुडक्षौद्रेण परिषेको मूर्धानं चास्यकटुतैलेनाभ्यज्य पाठाकल्केन प्रलिप्यार्जुनबिल्वनिर्गुण्डीमार्कवतर्कारीसैर्यककार्पासीमालतीपत्रनिर्यूहेण सेचयेत्॥

अउ12.16
मरिचविडङ्गहरिद्राकल्कसिद्धं तैलं प्रतिमर्शः।
मूर्वाताम्ररजसी स्तन्यपिष्टे पिण्डाञ्जनम्।
शङ्खमनश्शिलासैन्धवरसाञ्जनक्षौद्रैर्वा रसक्रिया।
लोहशिवाटिकामृदः कपालेऽनेकशः प्रतप्ताः स्तन्येननिर्वापिताः श्लक्ष्णचूर्णमञ्जनम्।
लाक्षावेल्लमनश्शिलालगैरिकदार्वीत्वग्भिर्वा।
पुनः पुनश्च धात्रीं वमनविरेचनैरुपपादयेत्॥

अउ12.17
पक्ष्मोपरोधे समुपचितं वर्त्म लेखनेनोत्क्लिष्टं रक्तं विस्रावणेन सशोफं शिरोविरेककवलवमनैर्यापयेत्॥

अउ12.18
प्रवृद्धेषु तु रोमसु विशुद्धदेहस्य सहिष्णोर्भ्रुवोधस्ताद्द्वौ भागौ पक्ष्मान्तात् भागमेकं समुत्सृज्य यवमात्रं तदाकृति तिर्यक् छेदयेदार्द्रवाससा च रक्तं गृह्णीयात्॥

अउ12.19
तत्स्तनुभूते रक्ते क्षौमसूत्रेण बालेन वा धनुर्वक्रया सूच्या मुद्गमात्रान्तरैः पदैः सीव्येत्।
ततोऽस्य ललाटे पट्टं बध्वा तत्सीवनसूत्रं तत्र सूचीपदैर्नातिगाढश्लथमासज्जेत्।
शतधौतघृतेन चास्य सक्षौद्रेण कवलिकां दद्यात्॥

अउ12.20
न चैतत् बध्नीयात्।
व्रणवेदनायां वस्त्रबद्धेन यष्टीमधुकचूर्णेन संस्कृतं सर्पिः परिषेको वटादिक्वषायाश्च सक्षीराः।
पञ्चमे षष्ठे वाहनि स्थिरीभूतेषु शस्त्रपदेषु सीवनसूत्रमवलम्बकाच्छित्वापनयेत्।
व्रणं च स्वर्णगैरिकरजसावचूर्णयेत्।
तीक्ष्णनस्याञ्जनानि चावचारयेत्॥

अउ12.21
अत्युत्क्षिप्ते तु सूत्रे श्वयथुः स्यात्।
तत्र मृदुः स्वेदः स्नैहिकं च नस्यम्॥

अउ12.22
निर्भुज्य वा वर्त्मदोषोपहतां वलीं विलिख्य तुम्बुरुवक्रकुशाभयाबीजान्यतमकल्केन प्रतिसारयेत् क्षारेण वा दहेत्तप्रया वा शलाकया॥

अउ12.23
उपपक्ष्माणि तु लाक्षारसेन लक्षयित्वा सन्दंशेनोद्धृत्य तनुसूच्यग्रेणाग्निवर्णेन रोमकूपान् दहेत्।
ततश्च पूर्ववत् परिषेको नावनं च॥

अउ12.24
बाह्यालजेर्भिन्नालिखितस्य क्षारेणाग्निना वा दाहो व्रणवच्चोपचारः।
अर्बुदस्य च स्विन्नस्यामूलच्छिन्नस्य लिखितप्रतिसारितस्य चेति।
भवन्ति चात्र॥

अउ12.25
निवातेऽधिष्ठितस्याप्तैः शुद्धस्योत्तानशायिनः।
बहिः कोष्णाम्बुतप्तेन स्वेदितं वर्त्म वाससा॥

अउ12.26
निर्भुज्य वस्त्रान्तरितं वामाङ्गुष्ठाङ्गुलीधृतम्।
न स्रंसते चलति वा वर्त्मैवं सर्वतस्ततः॥

अउ12.27
मण्डलाग्रेण तत्तिर्यक् कृत्वा शस्त्रपदाङ्कितम्।
लिखेत्तेनैव पत्रैवा शाकशेफालिकादिजैः।
फेनेन तोयराशेर्वा पिचुना प्रमृजन्नसृक्॥

अउ12.28
स्थिते रक्ते सुलिखितं सक्षौद्रैः प्रतिसारयेत्।
यथास्वमुक्तैरनु च प्रक्षाल्योष्णेन वारिणा॥

अउ12.29
घृतेन सिक्तमभ्यक्तं बध्नीयान्मधुसर्पिषा।
ऊर्ध्वाधःकर्णयोर्दत्वा पिण्डीं च यवसक्तुभिः॥

अउ12.30
तृतीयेऽहनि मुक्तस्य परिषेकं यथायथम्।
कुर्याच्चतुर्थे नस्यादीन् मुञ्चेदेवाह्नि पञ्चमे॥

अउ12.31
समं नखनिभं शोफकण्डूघर्षाद्यपीडितम्।
विद्यात् सुलिखितं वर्त्म लिखेद्भूयो विपर्यये॥

अउ12.32
रुक्पक्ष्मवर्त्मशतनस्रंसनान्यतिलेखनात्।
स्नेहस्वेदादिकस्तस्मिन्निष्टो वातहरः क्रमः॥

अउ12.33
अभ्यज्य नवनीतेन श्वेतलोध्रं प्रलेपयेत्।
एरण्डमूलकल्केन पुटपाकं पचेत्ततः॥

अउ12.34
स्विन्नं प्रक्षालितं शुष्कं चूर्णितं पोट्टलीकृतम्।
स्त्रियाः क्षीरे छगल्या वा मृदितं नेत्रसेचनम्॥

अउ12.35
शालितण्डुलकल्केन लिप्तं तद्वत् परिष्कृतम्।
कुर्यान्नेत्रेऽतिलिखिते मृदितं दधिमस्तुना।
केवलेनापि वा सेकं मस्तुना जाङ्गलाशिनः॥

अउ12.36
मेद्यांस्तु व्रीहिवक्त्रेण विभिद्य कठिनोन्नतान्।
निष्पीडयेदनु विधिः शेषः स्यातत्र पूर्ववत्॥
॥इति द्वादशोऽध्यायः॥

अथ त्रयोदशोऽध्यायः।

अउ13.1
अथातः सन्धिसितासितरोगविज्ञानीयं नामा ध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ13.2
वायुः क्रुद्धः सिराः प्राप्य जलाभं जलवाहिनीः।
अश्रु स्रावयते वर्त्मशुक्लसन्धेः कनीनकात्।
तेन नेत्रमरुग्रागशोफं स्यात् स जलास्रवः॥

अउ13.3
कफात् कफास्रवे श्वेतं पिच्छिलं बहलं स्रवेत्॥

अउ13.4
कफेन शोफस्तीक्ष्णाग्रः क्षारबुद्बुदकोपमः।
पृथुमूलश्चलः स्निग्धः सवर्णो मृदुपिच्छिलः।
महानपाकः कण्डूमानुपनाहः स नीरुजः॥

अउ13.5
रक्ताद्रक्तास्रवे ताम्रं बहूष्णं चाश्रु संस्रवेत्॥

अउ13.6
वर्त्मसन्ध्याश्रया शुक्ले पिटका दाहशूलिनी।
ताम्रा मुद्गोपमा भिन्ना रक्तं स्रवति पर्वणी॥

अउ13.7
पूयास्रावे मलाः सास्रा वर्त्मसन्धेः कनीनकात्।
स्रावयन्ति मुहुः पूयं सासृक् त्वङ्मांसपाकतः॥

अउ13.8
पूयालसो व्रणः सूक्ष्मः शोफसंरम्भपूर्वकः।
कनीनसन्धावाध्मायी पूयास्रावी सवेदनः॥

अउ13.9
कनीनस्यान्तरलजी शोफो रुक्तोददाहवान्॥

अउ13.10
अपाङ्गे वा कनीने वा कण्डूषापक्ष्मपोटवान्।
पूयास्रावी कृमिग्रन्थिः ग्रन्थिः कृमियुतोऽर्तिमान्॥

अउ13.11
उपनाहकृमिग्रन्थिपूयालसकपर्वणीः।
शस्त्रेण साधयेत् पञ्च सालजीनास्रवांस्त्यजेत्॥

अउ13.12
पित्तं कुर्यात् सिते बिन्दूनसितश्यावपीतकान्।
मलाक्तादर्शतुल्यं वा सर्वं शुक्लमदाहरुक्।
रोगोऽयं शुक्तिकासंज्ञः सशकृद्भेदतृड्ज्वरः॥

अउ13.13
कफाच्छुक्ले समं श्वेतं चिरवृध्यधिमांसकम्॥

अउ13.14
शुक्लार्मशोफस्त्वरुजः सवर्णो बहलो मृदुः।
गुरुः स्निग्धोम्बुबिन्द्वाभो बलासग्रथितः स्मृतः॥

अउ13.15
बिन्दुभिः पिष्टधवलैरुत्सन्नैः पिष्टकं वदेत्॥

अउ13.16
रक्तराजीततं शुक्लमूष्यते यत् सवेदनम्।
सशोफाश्रूपदेहं च सिरोत्पातः स शोणितात्॥

अउ13.17
उपेक्षितः सिरोत्पातो राजीस्ता एव वर्धयन्।
कुर्यात् सास्रं सिराहर्षं तेनाक्ष्युद्वीक्षणाक्षमम्॥

अउ13.18
सिराजालं सिराजालं बृहद्रक्तं घनोन्नतम्॥

अउ13.19
शोणितार्म समं श्लक्ष्णं पद्माभमाधिमांसकम्॥

अउ13.20
नीरुक्श्लक्ष्णोर्जुनो बिन्दुः शशलोहितलोहितः॥

अउ13.21
मृद्वाशुवृध्यरुङ्मांसं प्रस्तारि श्यावलोहितम्॥

अउ13.22
प्रस्तार्यर्म मलैः सास्रैः स्नावर्म स्नावसन्निभम्॥

अउ13.23
शुष्कासृक्पिण्डवच्छ्यावं यन्मांसं बहलं पृथु॥

अउ13.24
अधिमांसार्म तत् दाहघर्षवत्यः सिरावृताः।
कृष्णासन्नाः सिरासंज्ञाः पिटकाः सर्षपोपमाः॥

अउ13.25
शुक्तिहर्षसिरोत्पातपिष्टकग्रथितार्जुनम्।
साधयेदौषधैः षट्कं शेषं शस्त्रेण सप्तकम्॥

अउ13.26
नवोत्थं तदपि द्रव्यैरर्मोक्तं यत्तु पञ्चधा।
तच्छेद्यमसितप्राप्तं मांसस्नावसिरावृतम्।
चर्मोद्दालवदुच्छ्रायि दृष्टिप्राप्तं तु वर्जयेत्॥

अउ13.27
पित्तं कृष्णेऽथवा दृष्टौ शुक्लं तोदाश्रुरागवत्।
छित्वा त्वचं जनयति तेन स्यात्कृष्णमण्डलम्॥

अउ13.28
पक्वजम्बूनिभं किञ्चिन्निम्नं च क्षतशुक्रकम्।
तत् कृच्छ्रसाध्यं याप्यं तु द्वितीयपटलव्यधात्॥

अउ13.29
तत्र तोदादिबाहुल्यं सूचीविद्धाभकृष्णता।
तृतीयपटलच्छेदादसाध्यं निचितं व्रणैः॥

अउ13.30
शङ्खशुक्लं कफात्साध्यं नातिरुक् शुद्धशुक्रकम्॥

अउ13.31
आताम्रपिच्छिलास्रस्रुदातास्रपिटकातिरुक्।
अजाविट्सदृशोच्छ्रायकार्ष्ण्या वर्ज्यासृजाजका॥

अउ13.32
सिराशुक्रं मलैः सास्रैस्तज्जुष्टं कृष्णमण्डलम्।
सतोददाहताम्राभिः सिराभिरवतन्यते॥
अनिमित्तोष्णशीताच्छघनास्रस्रुच्च तत्त्यजेत्॥

अउ13.33
दोषैः सास्रैः सदृक्कृष्णं नीयते शुक्लरूपताम्।
धवलास्रोपलिप्ताभं निष्पावार्धदलाकृति॥

अउ13.34
अतितीव्ररुजारागदाहश्वयथुपीडितम्।
पाकात्ययेन तच्छुक्रं वर्जयेत्तीव्रवेदनम्॥

अउ13.35
यस्य वा लिङ्गनाशोऽन्तःश्यावं यद्वा सलोहितम्।
अत्युत्सेधावगाढं वा सास्रनाडीव्रणावृतम्॥

अउ13.36
पुराणं विषमं मध्ये विच्छिन्नं यच्च शुक्रकम्।
पञ्चेत्युक्ता गदाः कृष्णे साध्यासाध्यविभागतः॥
॥इति त्रयोदशोऽध्यायः॥

अथ चतुर्दशोऽध्यायः।

अउ14.1
अथातः सन्धिसितासितरोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ14.2
उपनाहं भिषक् स्विन्नं व्रीहिमुखेन भित्वा मण्डलाग्रेण समन्ताल्लेखयेत्।
ततः सैधवपिप्पलीचूर्णेन सक्षौद्रेण प्रतिसारयेत्।
पूर्ववच्च बध्नीयात्।
पटोलपत्रामलकक्वाथेनाश्च्योतयेत्॥

अउ14.3
पर्वणामुत्तरसन्धित्रिभागे बडिशेनावलम्ब्य वृद्धिपत्रेणार्धमात्रे छिन्द्यात्।
अन्यथाश्रुनाडी स्यात्।
मधुसैन्धवप्रतिसारितां चार्मवच्चिकित्सेत्॥

अउ14.4
पूयालसे सिरां विध्येत्ततस्तमुपनाहयेदक्षिपाकोक्तं चक्षेत।
सैन्धवार्द्रककासीसायस्ताम्रैः सुसूक्ष्मैः सक्षौद्रैरञ्जनम्॥

अउ14.5
कृमिग्रन्थिं करीषेण स्विन्नं भित्वा विलिख्य च कासीससैन्धवत्रिफलामाक्षिकैः प्रतिसारयेत्॥

अउ14.6
शुक्तिकां पित्ताभिष्यन्दवत् साधयेत्॥

अउ14.7
बलासग्रथितं पिष्टकं च सिराव्यधवर्जं कफाभिष्यन्दवत्॥

अउ14.8
विशेषतस्तिलनालान् यवनालान् वा हरितशलाकानर्धमासमजाक्षीरेण भावयित्वा शोषयित्वा च दाहयेत्।
ततस्तद्भस्म क्षारकल्पेन परिस्राव्यादर्वीप्रलेपाद्विपचेत्।
रसक्रियेयं बलासग्रथितशोफोपदेहहरा।
अयमेव च कल्पः फणिज्जाअर्जकास्फोतबिल्वकपित्थनिर्गुण्ड्येरण्डकुमुदोत्पलजातीकुसुमेषु पृथक् कार्यः॥

अउ14.9
सैन्धवालमरिचकट्फलशङ्खसमुद्रफेनैर्वर्तिः पिष्टकेऽञ्जनम्।
शुण्ठीशिग्रुफलपिप्पलीसैन्धवचूर्णो बीजपूरकरसाप्लुतोऽञ्जनं पिष्टकमपहरति।
तद्वत्त्रिकटुककट्फलचूर्णो बलासग्रथितं च॥

अउ14.10
बृहतीफलं पिप्पलीतण्डुलपूरितं पुटपाकेन पचेत्।
तैस्तण्डुलैश्चूर्णाञ्जनं बलासग्रथितपिष्टकघ्नम्।
अत्यर्थशोफे हरितालसैन्धवशुण्ठीदेवदारुपुनर्नवैर्बिडालकः॥

अउ14.11
सिरोत्पातहर्षजालार्जुनेषु रक्ताभिष्यन्दवत् प्रतिकुर्यात्।
विशेषेण सिराहर्षे स्वर्णगैरिको मधुयुक्तोऽञ्जनम्।
स्तन्यान्वितं वा कासीसं क्षौद्रद्रुतं वा कासीससैन्धवमर्जुने मातुलुङ्गरसेन सशर्करेणाश्च्योतनं मस्तुना वा॥

अउ14.12
शङ्खनाभिर्माक्षिकेण युक्ता सितया वा समुद्रफेनकोञ्जनम्।
स्फटिककुङ्कुमशङ्खनाभिमधुयष्टिका वा क्षौद्रार्द्रास्तद्वद्वा रसाञ्जनं कासीसं वा॥

अउ14.13
अर्म तु पञ्चविधमपि यत्तनुरक्तं धूमाविलं दधिनिभं वा तच्छुक्रवत् कायशिरोविरेकलेखनाञ्जनैरुपाचरेत्॥

अउ14.14
अथेतरस्मिन् स्निग्धस्यातुरस्य पेयाविलेपिजाङ्गलरसान्यतमाशितस्य कृतस्वस्त्ययनस्य सुखशयनगतस्योत्तानदेहस्य किञ्चिदवाक्शिरसः सुखोष्णाम्बुप्लुततान्तवस्विन्ननयनस्य सैन्धवेन सबीजपूरकरसेनाञ्जयित्वाङ्गुष्ठकेन निमीलितमक्षि विमृद्गीयादाबलासग्रथितरूपोत्पत्तेः।
इत्थं च संरोषिताक्षस्य प्रचलितेऽर्माधिमांसके निश्चलं परिचारकः शिरोधारयेत्॥

अउ14.15
अन्यश्च वामदक्षिणान्यतरपार्श्वेऽनुकूलं स्थितो दृढवस्त्रगर्भाभ्यामङ्गुष्ठाभ्यां वर्त्मनी निक्षिपेत्।
अथ वैद्यः कनीनकात् प्रवृद्धेऽर्मण्यपाङ्गमक्षिमाणस्य यत्र यत्र वली जायते तत्र तत्रार्म बडिशेन मुचुट्या वा नात्यायतं गृहीत्वा किञ्चिदुन्नम्य कृष्णशुक्लमण्डलाभ्यां सर्वतः सूच्यग्रेण मोक्षयित्वा किञ्चिदाञ्छेत्।
अथ तीक्ष्णेन मण्डलाग्रेण वृद्धिपत्रेण वा विलिख्य कनीनकं चोपानीय कनीनकसममेव चतुर्भागशेषं छिन्द्यात्।
वर्जयेच्च कनीनकं सिराश्चाश्रुवहाः।
तथा हि नाक्षि व्यापद्यते॥

अउ14.16
यत्तु जालवदर्म व्यापि तदेषिण्या यावत्कनीनकमनुसरन्नुन्मोच्योन्नमय्य पूर्ववत् छिन्द्यात्।
तद्वदपाङ्गात् प्रवृद्धे कनीनकमीक्षमाणस्य यावदपाङ्गं चोपनीयापाङ्गसममेव तथा यावद्वर्जयेदपाङ्गं सिराश्चेत्यादि।
ततः प्लोतेन रक्तं विशोध्य सम्यक् छिन्नमवेक्ष्य सैन्धवचूर्णेन पुनः पुनः प्रतिसारयेद्यवनालभस्मना वा प्लोतशुद्धं च पुनर्मधुना।
ततः शीताम्बु परिषिक्तं सर्पिषा सुखोष्णेन परिषिच्य मधुघृताक्तं पूर्ववत् बध्नीयात्।
मूर्ध्नि पादयोश्चास्मै शतधौतघृतं शीतांश्च प्रदेहान् दद्यात्॥

अउ14.17
स्नेहोक्तं चाचारमादिशेत्।
द्वितीये चाह्नि सायं प्रातर्मधुकसर्पिषा कोष्णेन शिरस्तथावबद्धमेव चाक्षि सिञ्चेत्।
पञ्चाहं चोष्णोदकानुपानं सर्पिः पीत्वा जीर्णे पथ्यमश्नीयात्॥

अउ14.18
तृतीये दिवसे विमुच्य करञ्जबीजसिद्धेन क्षीरेणाक्षि स्वेदयेत्।
लोध्रमधुककिंशुकपटोलद्विहरिद्राकोरण्डमुकुलक्वाथेन मधुमिश्रेणाश्च्योतयेत्। सप्तमेऽहनि सर्वथा मुञ्चेत् आतपाकाशदर्शनं च परिहरेत्॥

अउ14.19
सशोफे तु नेत्रे धूमः शिरोविरेचनं च।
अनुपशान्तरागे सिराविस्रावणम्।
सास्रावे नस्यम्॥

अउ14.20
तिलान् सुलिखितान् मधुककाकोलीसुनिषण्णकपञ्चमूलशर्कराश्रुतशीते पयसि सप्ताहं भावितांस्तेनैव पयसा पीडयेत्।
मधुकशताह्वासारिवानन्तागरुकाकोलीहरेणुकैलावालुकचूर्णं च पीड्यमानेषु षोडशभागेन प्रक्षिपेत्।
तत्तैलमेभिरेवौषधैः पयसा चाष्टगुणेन सिद्धं नावनादश्रुरागघ्नं दृष्टिप्रसादनं च कृष्णगते तु व्रणे व्रणशुक्रवत् क्रिया।
अर्मशेषे च लेखनाञ्जनानि॥

अउ14.21
तत्र सम्यक्छिन्ने वर्णविशुद्धिः।
स्वस्थता च।
हीनच्छेदात् पुनर्वृद्धी रागाश्रुपातप्रकाशदर्शनाक्षमत्वादि च।
अतिच्छेदादक्षिपाकस्तम्भस्फुरणास्रस्रुतितिमिरसंरम्भविबद्धवर्त्मानि।
तेषु यथास्वं दोषोद्रेकात् प्रतिकुर्यात्।
नागरमनश्शिलालैलासैन्धवशर्कराभिरर्धकर्षांशाभिर्युक्तं रसाञ्जनार्धपलं क्षौद्रद्रुतमञ्जनादर्मशेषश्लेष्मतिमिरपिल्लामयघ्रम्॥

अउ14.22
सिराजाले सिरा यास्तु स्थूलाः कठिनाश्चता बडिशेन गृहीत्वा मण्डलाग्रेणोल्लिखेत्॥

अउ14.23
सिरापिटकाः सूच्यग्रेणावलम्बिताः कृष्णमनुपघ्नन् छिन्द्यात्।
सूक्ष्मास्त्ववलिखेत्।
अर्मवच्चैतयोः शेषमाचरेत्॥

अउ14.24
शुक्रकेषु यथास्वदोषानुसारेण त्रिफलाघृतपानरक्तमोक्षविरेचनाश्च्योतनमुखालेपनस्यतर्पणपुट।
पाकान् प्रयुञ्जीत॥

अउ14.25
तत्र व्रणशुक्रे त्रिवृन्निर्यूहेण त्रिर्विपक्वं सर्पिः पाययेत्।
सिरां च विध्येत्।
दुष्टशेषं च पिण्डितमक्षिगमसृक् जलौकोभिरपहरेत्।
मधुककाकोलीमृद्वीकोत्पलविदारीक्वाथेन मञ्जिष्ठाक्षीरकाकोलीमधुकक्वथिताजक्षीरेण वा सशर्करेणाश्च्योतयेत् शीतैश्चास्य शिरोवक्त्रं दिह्यात् सिञ्चेच्च।
एवमप्यनुबद्धवेदनं शताह्वायष्ट्याह्ववता घृतमण्डेनानुवासयेत्॥

अउ14.26
अश्रुरागरुजाशान्तिं यदा यस्योपलक्षयेत्।
तदातदाञ्जनैः शुक्रं लेखनीयैरुपाचरेत्॥

अउ14.27
वैडूर्यस्फटिकशङ्खमुक्ताविद्रुमरूप्यायस्त्रपुत्ताम्रसीसालमनश्शिलाकुक्कुटाण्डत्वक्समुद्रफेनरसाञ्जनसैन्धवैरजापयःपिष्टैर्वर्तयश्छ्यायाशुष्काः क्षौद्रघृष्टाः प्रातः सायं च प्रयुक्ता व्रणशुक्रनुदः।
करिवराहगोगर्दभाश्वाजोष्ट्रदशनाःशङ्खमुक्तासमुद्रफेनाश्च मरिच चतुर्थांशयुता जलपिष्टा वर्तयः क्षतशुक्रहराः।
लाक्षासुवर्णगैरिकचन्दनजातीमुकुलैर्वर्तिरसृकूपित्तप्रसादनी व्रणशुक्रहरा च॥

अउ14.28
निम्नं च शुक्रं सरुजमुन्नमयेत् स्नेहपाननस्यजाङ्गलरसैः।
नीरुजं तर्पणपुटपाकाभ्याम्॥

अउ14.29
तत्र तर्पणं मृगविष्किरपिशितं काश्मर्यसुनिषण्णोत्पलमृणालशृङ्गाटकशेरुद्राक्षाक्षीरविदारीजीवनीयांश्च क्षीरेण पाचयेत् तस्मान्नवनीतमुद्धृत्य चन्दनमधुशर्करानन्तानीलोत्पलकल्कैरष्टगुणेन च पयसा विपक्वं पूर्ववद्योजयेत्॥

अउ14.30
पुटपाकं च कुक्कुटमुद्धृतान्त्रं वेशवारीकृत्य चन्दनसारिवामधुकशर्करानन्तानीलोत्पलप्रपौण्डरीक जीवनीयकल्कैः समधुघृतैः संसृज्य प्रागिव कल्पयेत्।
द्वित्वक्छिन्नमेवं यापयेत्॥

अउ14.31
शुद्धशुक्रे हरिद्रामधुकसारिवालोध्रनिर्यूहेणाश्च्योतनम्।
लोध्रचूर्णेण वा तान्तवबद्धेनोष्णाम्बुमृदितेन।
शुद्धकोष्ठस्य च दन्तीज्योतिष्मतीकल्कोऽवपीडकः।
शिरोविरेचनद्रव्यविपक्वं वा तैलं मर्शः प्रतिमर्शो वा॥

अउ14.32
शुण्ठीसैन्धवमधुयष्टिकाबृहतीमूलताम्ररजोभिरामलकरसपिष्टैस्ताम्रपात्रं प्रलेपयेत्।
तच्च सघृतैर्यवैरामलकपत्रैश्च बहुशो धूपयेत्।
वर्तिरेषा महानीला मधुतोयघृष्टा शुद्धशुक्रं नाशयति।
पूर्वोक्ता च दन्तवर्तिः।
अशाम्यति तु शुक्रे सर्वत्र पुनः पुनर्यथोक्तमेव पर्यायेण योजयेत्।
अन्तरान्तरा च रक्तं विस्रावयेत्।
अभिष्यन्दप्रतिषेधं चेक्षेत॥

अउ14.33
अथोत्सादनार्थं शुद्धशुक्रे सम्प्रहर्षणानि दद्यात्।
त्रिफलारसेन त्र्यहं भावितेन सैन्धवेनाञ्जयेत्।
तद्वत् पिप्पलीभिर्वा।
मरिचपिप्पलीशिरीषबीजबलासग्रथितोक्तक्षाराञ्जनैर्वा॥

अउ14.34
सम्प्रहर्षणाद्रागाश्रुवेदनासु सन्धावाञ्जनानि युञ्ज्यात्।
शङ्खं ताम्रे स्तन्येन घृष्टं सघृतैर्यवैः शमीपत्रैश्च धूपयेत् अनेन सन्धावाञ्जनेनाञ्जयेत्।
तद्वत् सुवर्णं रूप्यमयो व घृष्टं सघृतैर्बदरीपत्रैर्धूपितमञ्जनम्।
शङ्खो निस्तुषाश्च हरितमुद्गाः पिष्टा वर्तिश्रूर्णो वा मधुयुक्तोऽञ्जनं शुक्रघर्षणम्।
मधूकसारश्च मधुना बिभीतकास्थिमज्जा वा॥

अउ14.35
मसूरा निस्तुषाः स्तन्यपिष्टास्तरुणदर्भाङ्कुरा घृतमाजं गोक्षीरं शरश्चायसे ताम्रेण घृष्टं प्रत्यञ्जनं वेदनाघ्नम्।
यवगोधूमजीवनीयमांसीचूर्णेन सघृतशर्करोत्कारिका स्वेदोपनाहे प्रणीता वेदनामपनयति शुक्रं चोत्सादयति।
तद्वदानूपमांसवेशवारो वसापयः सर्पिर्विमिश्रः सिद्धः॥

अउ14.36
अथैवमुपनाहप्रचलितस्याञ्जनम्।
गोखराश्वोष्ट्रदन्ताः समुद्रफेनः शङ्खश्चार्जुनकषायपिष्टा वर्तिर्लेखनी।
समुद्रफेनशङ्खखर्परशुकास्थिखरनागाश्वगोबालास्तिन्दुककषायपिष्टा वा॥

अउ14.37
प्रत्यञ्जनं च तरुणबदरखदिरतिन्दुकास्थ्नामन्तर्धूमदग्धानां चूर्णम्।
उत्सन्नं वा सशल्यं वा शुक्रं बालादिभिर्लिखेत् पुटपाकेन वा।
बलासग्रथितोक्तक्षाररसक्रियया वा॥

अउ14.38
सिराशुक्रे त्वदृष्टिघ्ने तरुणे व्रणशुक्रवत् कुर्यात्॥

अउ14.39
अञ्जनं चास्य प्रपौण्डरीकमधुकहरिद्रालोहरजोञ्जनबृहतीक्षीरकाकोलीरजापयःपिष्टा यवैर्घृतयुक्तैरामलकीपत्रैश्च पर्यायेण धूपिता वर्तिः॥

अउ14.40
अप्रशान्तमेव मर्मवत् साधयेत्।
समाक्षिकं तु रसाञ्जनं प्रतिसारणम्।
सप्तमे दिवसे कुक्कुटाण्डकपालस्फटिकचन्दनमनश्शिलालैरश्ववराहदशनैश्च वर्तिं कृत्वाञ्जयेत्।
उदधिकफशङ्खचन्दनैरजापयःपिष्टैर्वर्तिर्मधुघृष्टा प्रत्यंजनं सिराशुक्रजित्।
अनुपशमे पश्यति चातुरे किञ्चिदिदमेवासकृत् कुर्वीत॥

अउ14.41
अजकामदृष्ट्युपघातिनीं कृष्णान्तजामस्रविस्रावणैर्मधुरविरेचनैः क्षीरबस्तिभिञ्च साधयेत्।
सिराशुक्रवच्च शस्त्रकर्मादिविधिनेति।
भवति चात्र॥

अउ14.42
अजकायामसाध्यायां शुक्रेऽन्यत्र च तद्विधे।
वेदनोपशमं स्नेहपानासृक्स्रावणादिभिः।
कुर्यात् बीभत्सतां जेतुं शुक्रत्वोत्सेधसाधनम्॥

अउ14.43
नारिकेलास्थिभल्लाततालवंशकरीरजम्।
भस्माद्भिः स्रावयेत्ताभिर्भावयेत् करभास्थिजम्॥

अउ14.44
चूर्णं शुक्रेष्वासाध्येषु तद्वैवर्ण्यघ्रमञ्जनम्।
साध्येषु साधनायालमिदमेव च शीलितम्॥

अउ14.45
अजकां पार्श्वतो विध्वा सूच्या विस्राव्य चोदकम्।
समं प्रपीड्याङ्गुष्ठेन वसार्द्रेणानु पूरयेत्॥

अउ14.46
व्रणं गोमांसचूर्णेन बद्धं बद्धं विमुच्य च।
सप्तरात्राद्व्रणे रूढे कृष्णभांगे समे स्थिते॥

अउ14.47
स्नेहाञ्जनं च कर्तव्यं नस्यं च क्षीरसर्पिषा।
तथापि पुनराध्माते भेदच्छेदादिकां क्रियाम्।
युक्त्या कुर्याद्यथा नातिच्छेदेन स्यान्निमज्जनम्॥

अउ14.48
नित्यं च शुक्रेषु शृतं यथास्वं पाने च मर्शे च घृतं विदध्यात्।
न हीयते लब्धबला तथान्तस्तीक्ष्णाञ्जनैर्दृक् प्रततं प्रयुक्तैः॥
॥इति चतुर्दशोऽध्यायः॥

अथ पञ्चदशोऽध्यायः।

अउ15.1
अथातो दृष्टिरोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ15.2
सिरानुसारिणि मले प्रथमं पटलं श्रिते।
अव्यक्तमीक्षते रूपं व्यक्तमप्यनिमित्ततः॥

अउ15.3
प्राप्ते द्वितीयं पटलमभूतमपि पश्यति।
भूतं तु यत्नादासन्नं दूरे सूक्ष्मञ्च नेक्षते॥

अउ15.4
दूरान्तिकस्थं रूपञ्च विपर्यासेन मन्यते।
दोषे मण्डलसंस्थाने मण्डलानीव पश्यति॥

अउ15.5
द्विधैकं दृष्टिमध्यस्थे बहुधा बहुधा स्थिते।
दृष्टेरभ्यन्तरगते द्रस्ववढ्रविपर्ययम्॥

अउ15.6
नान्तिकस्थमधस्संस्थे दूरगं नोपरिस्थिते।
पार्श्वे पश्येन्न पार्श्वस्थे तिमिराख्योयमामयः॥

अउ15.7
प्राप्तोति काचतां दोषे तृतीयपटलाश्रिते।
तेनोर्ध्वमीक्षते नाधस्तनुचैलावृतोपमम्।
यथावर्णञ्च रज्येत दृष्टिर्हीयेत च क्रमात्॥

अउ15.8
तथाप्युपेक्षमाणस्य चतुर्थं पटलं गतः।
लिङ्गनाशं मलः कुर्वन् छादयेद्दृष्टिमण्डलम्॥

अउ15.9
तत्र वातेन तिमिरे व्याविद्धमिव पश्यति।
चलाविलारुणाभासं प्रसन्नञ्चेक्षते मुहुः॥

अउ15.10
जालानि केशान् मशकान्नश्मींश्चोपोक्षितेत्र च।
काचीभूते दृगरुणा पश्यत्यास्यमनासिकम्॥

अउ15.11
चन्द्रदीपाद्यनेकत्वं वक्रमृज्वपि मन्यते।
वृद्धः काचो दृशं कुर्याद्रजो धूमावृतामिव॥

अउ15.12
स्पष्टारुणाभां विस्तीर्णां सूक्ष्मां वा हतदर्शनाम्।
सलिङ्गनाशो वाते तु सङ्कोचयति दृक्सिराः।
दृङ्मण्डलं विशत्यन्तर्गम्भीरा दृगसौ स्मृता॥

अउ15.13
पित्तजे तिमिरे विद्युत्खद्योतोद्योतदीपितम्।
शिखितित्तिरिपत्राभं प्रायो नीलञ्च पश्यति॥

अउ15.14
काचे दृक्कांस्यनीलाभा तादृगेव च पश्यति।
अर्केन्दुपरिवेषाग्निमरीचीन्द्रधनूंषि च॥

अउ15.15
भृङ्गनीला निरालोका दृक्स्निग्धा लिङ्गनाशतः।
दृष्टिः पित्तेन द्रस्वाख्या सा द्रस्वा द्रस्वदर्शिनी।
भवेत् पित्तविदग्धाख्या पीता पीताभदर्शना॥

अउ15.16
कफेन तिमिरे प्रायः स्निग्धं श्वेतञ्च पश्यति।
शङ्खेन्दुकुन्दकुसुमैः कुमुदैरिव चाचितम्॥

अउ15.17
काचे तु निष्प्रभेन्द्वर्कप्रदीपाद्यैरिवाचितम्।
सिताभासा च दृष्टिस्स्याल्लिङ्गनाशे तु दृश्यते॥

अउ15.18
मूर्तः कफो दृष्टिगतः स्निग्धो दर्शननाशनः।
बिन्दुर्जलस्येव चलः पद्मिनीपुटसंश्रितः॥

अउ15.19
उष्णे सङ्कोचमायाति च्छायायां परिसर्पति।
शङ्खकुन्देदुकुमुदस्फटिकोपमशुक्लिमा॥

अउ15.20
रक्तेन तिमिरे रक्तं तमोभूतञ्च पश्यति।
काचेन रक्ता कृष्णा वा दृष्टिस्तादृक् च पश्यति।
लिङ्गनाशेपि दृक् तादृङ्निष्प्रभा हतदर्शना॥

अउ15.21
संसर्गसन्निपातेषु विद्यात् सङ्कीर्णलक्षणान्।
तिमिरादीनकस्माच्च तैः स्याद्व्यक्ताकुलेक्षणः।
तिमिरे शेषयोर्दृष्टौ चित्रो रागः प्रजायते॥

अउ15.22
द्योतते नकुलस्येव यस्य दृङ्निचिता मलैः।
नकुलान्धःस तत्राह्नि चित्रं पश्यति नो निशि॥

अउ15.23
अर्केऽस्तमस्तकन्यस्तगभस्तौ स्तम्भमागताः।
स्थगयन्ति दृशं दोषा दोषान्धः स गदोपरः॥

अउ15.24
दिवाकरकरस्पृष्टा भ्रष्टा दृष्टिपथान्मलाः।
विलीनलीना यच्छन्ति व्यक्तमत्राह्नि दर्शनम्॥

अउ15.25
उष्णतप्तस्य सहसा शीतवारिनिमज्जनात्।
त्रिदोषरक्तसंपृक्तो यात्यूष्मोर्ध्वं ततोक्षिणी।
दाहोषे मलिनं शुक्रमहन्याविलदर्शनम्॥

अउ15.26
रात्रावान्ध्यं च जायेत विदग्धोष्णेन सा स्मृता॥

अउ15.27
भृशमम्लाशनाद्दोषैस्सास्रैर्या दृष्टिराचिता।
सक्लेदकण्डूः कलुषा विदग्धाम्लेन सा स्मृता॥

अउ15.28
शोकज्वरशिरोरोगसन्तप्तस्यानिलादयः।
धूमाविलां धूमदृशं दृशं कुर्युः स धूमरः॥

अउ15.29
सहसैवाल्पसत्वस्य पश्यतो रूपमद्भुतम्।
भास्वरं भास्करादिं वा वाताद्या नयनाश्रिताः॥

अउ15.30
कुर्वन्ति तेजः संशोष्य दृष्टिं मुषितदर्शनाम्।
वैडूर्यवर्णां स्तिमितां प्रकृतिस्थामिवाव्यथाम्।
औपसर्गिक इत्येष लिङ्गनाशः अत्र वर्जयेत्॥

अउ15.31
विना कफाल्लिङ्गनाशान् गम्भीरां द्रस्वजामपि॥

अउ15.32
षट्काचा नकुलान्धश्च याप्याश्शेषांस्तु साधयेत्।
द्वादशेति गदा दृष्टौ निर्दिष्टाः सप्तविंशतिः॥

॥इति पञ्चदशोऽध्यायः॥