अलङ्कारसर्वस्वव्याख्या अलङ्कारविमर्शिनी
अलङ्कारसर्वस्वव्याख्या अलङ्कारविमर्शिनी जयरथः |
श्रीजयरथकृतालङ्कारविमर्शिनी |
अलङ्कारसर्वस्वम्
नमस्कृत्य परां वाचं देवीं त्रिविधविग्रहां ।
मङ्गलकामनया ग्रन्थकृन्निजेष्टदेवताप्रणामपुरःसरमभिधेयं तात्पर्वं चैकेनैव वाक्येन परामृशति-नमस्कृत्येति । परां वाङ्मयाधिदेवतां पराख्यां शब्दब्रह्मणोऽपृथग्भूतां शक्तिं परां वाचं देवीं त्रिविधविग्रहां बहिरुल्लिलासयिषया पश्यन्तीमध्यमावैखरीरूपेण प्रकारत्रयेणाधिष्टितशरीरां नमस्कृत्य निर्विघ्नचिकीर्षितग्रन्थसमात्पये तां प्रति कायवाङ्मनोभिः प्रह्वीभूय निजालङ्कारसूत्राणां वृत्त्या तात्पर्यमुच्यत इति मङ्गलान्वययोजना । तथा चात्रोक्तलक्षणार्तविस्तरः-
ऽयूयं विमर्शरूपैव परमार्थचमत्कृतिः । सैव सारं पदार्थानां परा वागभिधीयते ।।
नादाख्या सर्वभूतेषु जीवरूपेण संस्थिता । अनादिनिधना सैव सूक्ष्मा वागनपायिनी ।।
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरं । विवर्ततेर्ऽथभावेन प्रक्रिया जगतो यतः ।।
वैखरी शब्दनिष्पत्तिर्मध्यमा स्मृतिगोचरा । द्योतिकार्थस्य पश्यन्ती सूक्ष्मा ब्रह्मैव केवलम्ऽ ।।
इत्यादिशास्त्रोक्तिक्रमेण सर्वत्र सदोदितायाः सूक्ष्मायाः परायाः शब्दब्रह्मणः शक्तेर्बहिरुन्मिषन्त्याः प्रथमो विवर्तः पश्यन्ती नाम । तथा चोक्तम्-
ऽअविभागा तु पश्यन्ती सर्वतः संहृतक्रमा । स्वरूपज्योतिरेवान्तःसूक्ष्मा वागनपायिनीऽ ।।
इति । अस्यार्थः-अविभागा स्थानकारणप्रयन्तप्रकारेण वर्णानां विभागहीना अत एव संहृतक्रमा तथैवान्तःस्वरूपज्योतिः स्वयंप्रकाशा स्वस्यात्मनो रूपं ज्योतिश्च सर्वत्र हि सर्वविधायिनी शक्तिरेवेति वान्तःसूक्ष्मबीजादङ्कुरमिव बहिरुन्मिषन्ती किञ्चिदुच्छूना पराया मध्यमायाश्चावस्थां तटस्था पश्यतीति पश्यन्तीत्युच्यते । ततः परं तु-
ऽअन्तःसंकल्परूपा या क्रमरूपानुपातिनी । प्राणवृत्तिमतिक्रम्य मध्यमा वाक्प्रवर्ततेऽ ।।
एतत्कथयामीति विमर्शरूपा अन्तःसंकल्परूपा प्राणवृत्तिमतिक्रम्य श्रोत्रग्राह्यवर्णा भिव्यक्तिरहिता क्रमरूपानुपातिनी भाननसिकवर्णोच्चारणक्रमेण द्वितीयो विवर्तो मध्यमारूपोजाते ।
मध्यमा किल द्वयोर्वाग्विवर्तयोः पश्यन्तीवैखरीसंज्ञयोर्मध्ये वर्तनान्मध्यमेत्युच्यते । तदनन्तरं च-
ऽस्थानेषु विवृत्ते वायौ कृतवर्णपरिग्रहा । वैखरी वाक्प्रयोक्तृणां प्राणवृत्तिनिबन्धनाऽ ।।
इति लक्षणात्स्थानकरणप्रयत्नक्रमव्यज्यमानः श्रोत्रग्राह्यदुन्दुभिवीणादिनादपरिचयो गद्गदाव्यक्तगकारादिविलाससमुञ्चयपदवाक्यात्मकस्तृतीयो विवर्तो वैखरीत्युच्यते । विशिष्टं खमाकाशं मुखरूपं राति गृह्णातीति विखरः प्राणवायुसंचारविशिष्टो वर्णोच्चारस्तेनाभिव्यक्ता वैखरीति । विखरे शरीरे भवा वैखरीति वा किचित् । सिद्धो मङ्गलार्थः । तथा चात्र पूर्वार्ध एव पुनरावृत्त्याभिधेयपदार्थान्वययोजना-यथा परां वाचमुत्तमकाव्यरूपतया काव्यात्मध्वनिसंज्ञां अभिधातात्पर्यलक्षणोत्तीर्णामुत्कृष्टां । देवीम्ऽदिवु क्रीटाविजिगीषाद्युतिस्तुतिव्यवहारमोदमदकान्तिस्वप्नगतिषुऽ इति यथायथं धाव्तर्थानामनुस्मरणात्शक्तिमतां कवीनां श्रोतृणां च स्वभावात्स्वेच्छया समुच्छलन्तीं क्रीडन्तीं । तथा देवीं द्योतमानां द्योतनध्वननयोः शब्दं तत्संकीर्तितं चार्थमुपसर्जनीकृत्य वर्नामानां । तथा देवीं द्योतमानां द्योतनघ्वननयोः पर्यायत्वाद्ध्वनिसंज्ञां । तथा देवीं स्तुत्यां सर्वैः काव्यात्मत्वादभिवन्द्यां । तथा देवीं व्यवहरन्ती सर्वत्र प्रचरितितां न तु क्वापि स्खलितां । तथा देवीं द्योतमानां श्रुतिमात्रेणैव परमानन्ददायिनीं । तथा देवीं माद्यन्तीं कवेः सहृदयस्य च यथायथं करणावबोधघाभ्यां कमप्यहङ्कारं जनयन्तीं । तथा देवीं कमनीयां सर्वैरभिलषणीयां । त्पिविधविग्रहां त्रिविधस्त्रिप्रकारो विग्रहो व्यतिरेकेण ग्राहो व्यतिरेकमूलः प्रमाकरणप्रकारो यस्यास्तां । तथा हिऽगङ्गायां घोषःऽ इत्यादिवाक्येषु घोषस्य यच्छैत्यपावनत्वादिकं प्रतीयते तत्र नाभिधा । गङ्गादिशब्दानां शैत्याद्यर्थस्यावाचकत्वात् । न तात्पर्यात्मा । तात्पर्यशक्त्या ह्याधाराधेयभघावावगमार्थं परस्परमन्वयमात्र एव क्षीणत्वात् । न लक्षणा । मुख्यार्थबाधादिहेतुत्रितयाभावात् । तस्मादभिधातात्पर्यलक्षणाव्यतिरिक्तचतुर्थकक्ष्यानिक्षित्पो व्यञ्जनव्यापिर इत्यादि सोऽयमेवाग्रे विमृष्यति । अथ चव्यङ्गयस्य शब्दार्थोभयमूलत्वेन प्रसिद्धस्त्रिविधो विशेषणानां विग्राहो विशेषणानां भेदानां ग्रहो यस्या इति वा । एतादृशीं तां नमस्कृत्य मङ्गलाचरणरूपत्वेन मनागुद्दिश्य न तु सूत्रवृत्तिभ्यां तात्पर्यकथनादिलक्षणपरीक्षाविस्तारेण निर्णीय निजालङ्कारसूत्राणां वृत्त्या तात्पर्यमुच्यत इति । अस्याभिप्रायः-तथा च ध्वनेर्मनागुद्देशमात्रमेव करोतिऽइह हि तावद्भामह-ऽइत्यादिना । तदेवत्तावदास्तां ।
निजेति । परकीयाणां सूत्राणां सूत्रणां तात्पर्यकथनानवबोधोऽपि स्यादिति भावः । तथा न कैश्चिदपि परैरीद्दंशि सूत्राणि कृतानीत्यपि ध्वनितं । तात्पर्यमिति । संक्षित्पार्थप्रकाशनमित्यर्थः । अन्यथा हि कथनापि ग्रन्थेन पारं न यायात् । ननु -
ऽआदिवाक्ये प्रयोक्तव्यमभिधेयप्रयोजने । प्रतिपादयितुं श्रोतृप्रवाहोत्साहसिद्धयेऽ ।।
इति नीत्या श्रोतृप्रवृत्त्यर्थ सर्वत्रैवादिवाक्येऽभिधेयप्रयोजनाद्यभिधीयत्ते । तच्चेह नोक्तमिति कथमत्र श्रोतॄणां प्रवृत्तिः स्यात् । मैवं । अलङ्कारा ह्यत्राभिधेयाः । तेषामत्र साक्षादेवाभिधानात् । तदभिधायकं चेदमलङ्कारसर्वस्वाख्यं प्रकरणमित्यभिधानाभिधेययोर्नियमगर्भीकारेणार्थाक्षित्पो वाच्यवाचकभावलक्षणः संबन्धः । नह्येवंविधमेतभिधायकं प्रकरणान्तरमस्ति । तस्यान्विष्यमाणस्याप्युपलम्भयोग्यस्यानुपलम्भात् । अत एवात्रान्यालङ्कारग्रन्थवैलक्षण्योद्धोषणायऽतात्पर्यमुच्यतेऽइत्याद्युक्तं । अभिधेयाश्चात्रालङ्काराः काव्यालङ्कारा न लौकिका इत्येतेषां काव्योपस्कृतिद्वारेण पारम्पर्येण-
ऽकाव्यं यशसेर्ऽथकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजेऽ ।।
इत्याद्युक्तनीत्या तदविनाभावस्वभावत्वादर्थाक्षित्पसर्वपुरुषार्थसिद्धिरूपा चतुर्वर्गावात्पिः प्रयोजनं । तयोश्च साध्यसाधनभावलक्षणः संबन्धः । इति स्थितमेवादिवाक्यस्य श्रोतृश्रवणश्रद्धाविर्भावनिबन्धनत्वं ।
ननु यदीहालङ्कारा अभिधेयास्तर्हि तदलङ्कर्योऽप्य-भिधेयः । ऽअलङ्कारा अलङ्कार्यापेक्षाःऽ इति नीत्या स एवैषां को नाम यदुपस्कारकत्वेनैतत्स्वरूपमभिधीयत इत्याशङ्क्य तदवतरणिकामेव वक्तुमुपक्रमते-इहेत्यादिना ।
भूमिका
इह हि तावद्भामहोद्भटप्रभृतयश्चिरन्तनालङ्कारकाराः प्रतीयमानमर्थे वाच्योपस्कारकतयालङ्कारपक्षनिक्षित्पं मन्यन्ते । तथाहि-पर्यायोक्ताप्रस्तुतप्रशंसासमासोक्त्याक्षेपव्याजस्तुत्युपमेयोपमानन्वयादौ वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेनऽस्वसिद्धये पराक्षेपःपरार्थे स्वसमर्पणम्ऽ इति यथायोगं द्विविधया भङ्ग्या प्रतिपादितं तैः ।
प्रभृतिना दण्ड्यादयः । तावच्छब्दो विप्रतिपत्त्यभावद्योतकः । चिरन्तनेत्यादि । ध्वनिकारमतमेभिर्न दृष्टमिति भावः । प्रतीयमानमिति । वाच्यव्यतिरिक्तत्वेन स्वसंवेदनसिद्धमपीकत्यर्थः ।
अर्थमिति । विश्रान्तिस्थानतया परमोपादेयतालक्षणं । वाच्योपस्कारकतयेतिष । वाच्योपस्कारकत्वं ह्यलङ्काराणामात्मभूतं । अलङ्कारपक्षनिक्षित्पमिति । समग्रालकारान्तर्भूतं न पुनस्तद्व्यतिरिक्तमित्यर्थः ।
मन्यन्त इति । तथात्वेन मन्यन्ते न पुनस्तथा संभवतीत्यर्थः । नह्यभिमननमात्रेणैव भावानामन्यथाभावो भवतीति भावः । एतदेव दर्शयति-तथाहीत्यादिना । तैर्वस्तुमात्रं गभ्यमानं वाच्योपस्कारकत्वेन प्रतिपादितमिति संबन्धः । वस्तुमात्रं न पुनरलङ्कारा रसश्च । स्वसिद्धय इति । ऽकुन्ताः प्रविशन्तिऽ इत्यादौ कुन्तैरात्मनः प्रवेशसिद्ध्यर्थं स्वसंयोगिनः पुरुषा आक्षिप्यन्ते । तैर्विना तेषां प्रवेशासिध्देः । ऽगङ्गायां घोषःऽ इत्यादौ तु गङ्गाशब्दः परत्रतटे घोषाधिकरणतासिद्धये स्वात्मानमर्पयति । स्वयं तस्य घोषाधिकरणत्वासंभवात् । यथायोगमिति । क्वचिद्धि वाच्योर्ऽथः स्वसिद्धये परं प्रतीयमानमर्थमाक्षिपति । क्वचिच्च स्वयमनुपपद्यमानः सन्प्रतीयमान एवार्थे स्वं समर्पयति । तेन यत्र यादृत्कत्र तादृगेव योज्यमित्यर्थः ।
तत्र पर्यायोक्तं यथा-
ऽअधाक्षीन्नो लङ्कामयमयमुदन्वन्तमतरद्विशल्यां सौमित्रेरयमुपनिनायौषधिवनात् ।
इति स्मारं स्मारं त्वदरिवलभीचित्रलिखितं हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः ।।
ऽअत्र राक्षसगणवृत्तान्तो वाच्यः सन्स्वसिद्धये परं कारणरूपमरिपलायनाद्याक्षिपति । तत्पलायनाद्यन्तरेण राक्षसवृत्तान्तस्यासंगतेः । अप्रस्तुतप्रशंसा यथा-
ऽप्राणा येन समर्पितास्तव वलाद्येन त्वमुत्थापितः
स्कन्धे यस्य चिरं स्थितोऽसि विदधे यस्ते सपर्यामपि ।
तस्यास्य स्मितमात्रकेण जनयन्प्राणापहारक्रियां
भ्रातः प्रत्युपकारिणां धुरि परं वेताललीलायसेऽ ।।
अत्र वेतालचरितमप्रस्तुतं प्रकरणादिवशेन स्वयमनुपपद्यमानं सत्प्रस्तुते कृतघ्नवृत्तान्ते स्वं समर्पयति । समासोक्तिर्यथा-
ऽदन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे ।
दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानिऽ ।।
अत्र बोधिसत्त्वे नायकव्यवहारे न संभवतीति स्वसिद्ध्यर्थं नायकत्वमाक्षिपति । आक्षेपो यथा-
ऽकिं भणिमो भण्णै कित्ति अध किं वा इमेण भणिएण ।
भण्णिहिसि तहवि अहवा भणामि किं वा ण भणिओसिऽ ।।
अत्र वक्ष्यमाणविषयो भणननिषेधो वाच्यः सन्वक्तुमेवोपक्रान्तस्य निषेधानुपपत्तेः स्वयमविश्राम्यन्स्वात्मसमर्पणेन त्वां प्रति मरिष्यामि अथवा म्रिये यद्वा मृता यावदहमिति विधित्रयमर्थानतरमाक्षिपति । यत्त्वत्रान्यैःऽवाच्योर्ऽथः स्वसिद्धयेर्ऽथान्तरमाक्षिपतिऽइत्युक्तं तदयुक्तमेव । तथात्वे हि निषेध एव पर्यवसितः स्यान्न निषेधाभास इत्याक्षेपालङ्कार एव न स्यात् । ऽआमुखावभासमानो हि निषेधऽ आक्षेपलक्षणं । न च विधिनिषेधयोर्विरोधात्साध्यसाधनभावो युक्तः । व्याजस्तुतिर्यथा-
ऽइहिणं पदुणोपहुणो पहुत्तणं किं चिरन्तनपहूण ।
गुणदोसा दोसगुणा एहिं कऽ णहु कऽ तेहिंऽ ।।
अत्र चिरन्तनानां निन्दा वाच्या सती स्वयमनुपपद्यमाना स्तुतावात्मानमर्पयति । तद्गतत्वेन वस्तुदर्शिताया निन्दाया असंभवात् । एवमद्यतनानामपि स्तुतिर्निन्दायामात्मानमर्पयति । तस्या अपि विपरीततया तद्गतत्वेनासंभवात् । यत्पुनरत्रान्यैः स्वसिद्धये पराक्षेपो व्याख्यातस्तदुपेक्ष्यमेव । यतोऽत्र चिरन्तनानां स्युत्याक्षेपेण एव पर्यवसितः स्यादिति नैतद्युक्तं । किं च लक्षणायामपि स्वसिद्धये पराक्षेपो न युक्तः । तथात्वे हिलक्षणायाः स्वरूपहानिः स्यात् । वाच्यलक्षणस्यैव स्वस्य सिद्धत्वान्मुख्यार्थबाधाभावात् । न चैकदा एकस्य बाधः सिद्धिश्चेति वक्तुं युक्तं । विप्रतिषिद्धं ह्येतत् । वाच्यस्यैव यद्यत्रसिद्धिस्तदभिधैव स्यान्न लक्षणा । तस्या हि मुख्यार्थबाध एव जीवितं । ऽकुन्ताः प्रविशन्तिऽ इत्यादौ च कुन्तानां स्वयं प्रवेष्टुमसंभवान्मुख्यार्थबाध एवेति परस्य कुन्तवद्रूपस्य लक्ष्यस्यैवार्थस्य प्राधान्यं । अतश्च लक्षणायां बाधितः सन्मुख्योऽर्थः परत्र लक्ष्य एव स्वं समर्पयतीत्येव युक्तं । ननु यद्येवं तत्पर्यायोक्तादौ वाच्यसिध्यर्थं परस्य लक्ष्यस्याक्षेपः प्रतीयत यतीत्येव युक्तं । ननु यद्येवं तत्पर्यायोक्तादौ वाच्यसिध्यर्थः परत्र लक्ष्य एव स्वं समर्पयतीत्येव युक्तं । ननु यद्येवं तत्पर्यायोक्तादौ वाच्यसिध्यर्थं परस्य लक्ष्यस्याक्षेपः प्रतीयत इति तत्र किं प्रतिपत्तव्यं । इदं प्रतिपत्तव्यम्-अत्र हि लक्षणाया एव नावकाशः । तत्र हि कथमहं स्यामिति वाच्यं सत्कार्यं तदविनाभावात्परं कारणमाक्षिपतीत्याक्षेपेणैव सिद्धेस्तस्या अनुपयोगः । ऽगौरनुबन्ध्यःऽइत्यत्र यथा कथं मे श्रुतिचोदितमनुबन्धनं स्यादिति जात्या व्यक्त्यविनाभावाद्व्यक्तिराक्षिप्यते नतु लक्ष्यते तथैवात्रापि कार्चकारणयोर्ज्ञेयं । एवं समासोक्तावपि नायकव्यवहारस्तदविनाभावित्वादेव नायकत्वमाक्षिपतीत्चत्रापि लक्षणामूलत्वं नाशाङ्कनीयं । अन्थकृता पुनरेतञ्चिरन्तनमतानुवादपरतयोक्तं । अस्माभिस्तु प्रसङ्गाद्वस्तु पर्यालोचितमित्यलं बहुना ।
उपमेयोपमा यथा-
ऽरजोभिः स्यन्दनोद्धतैर्गजैश्च घनसंनिभैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम्ऽ ।।
अत्र द्वयोः परस्परमुपमानोपमेयत्वं वाच्यं सत्स्वयमनुपपद्यमानमुपमानान्तरविहलक्षणे परत्र वस्त्वन्तरे स्व समर्पयति । अनन्वयो यथा -
ऽभवानिव भवानेव भवेद्यदि परं भच । स्वशक्तिव्यूहसंव्यूढत्रैलोक्यारम्भसंहृतिःऽ ।।
अत्रैकस्यैवोपमानोपमेयभावो वाच्यः सन्द्वितीयमब्रह्मचजार्यभावे परत्र वस्त्वन्तरे स्वं समर्पयति । आदिशब्दः प्रकारे । तेनानिष्टविध्याभासाक्षेपादेर्ग्रहणं । यथा-
ऽभवतु विदितं व्यर्थालापैरलं प्रिय गम्यतां तनुरपि न ते दोषोऽस्माकं विविस्तु पराङ्मुखः ।
तव यदि तथा रुढं प्रेम प्रपन्नमिमां दशां प्रकृतितरले का नो व्रीडा गते हतजीवितेऽ ।।
अत्र कान्तप्रस्थानविधिर्वाच्यः सन्निषेद्धमेवोपक्रान्तत्य विधानानुपपत्तेः स्वयमविश्रान्तः स्वसमर्पणेन निषेधमाक्षिपति । एवं द्विविधया भङ्ग्या गम्यमानं वस्तुमात्रं वाच्योपरस्कारकमेवोत्युक्तं ।
एवमपि प्रतीयमानस्यार्थस्य विविक्तविषयान्तरोपालम्भादलङ्कारान्तर्भावो न सिध्यतीत्याशङ्क्याह-रुद्रटेनेत्यादि । द्विधेति । गुणीभूतागुणीभूतवस्तुविषयत्वेनेत्यर्थः । यदाह-
ऽयस्य विकारः प्रभवन्नप्रतिबद्धेन हेतुना येन ।
गमयति तदभिप्रायं तत्प्रतिबन्धं च भावोऽसौ ।।
ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरं ।
पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ।।
अभिधेपमभिदधानं तदेव तदसदृशगुणदोषं ।
अर्थान्तरमवगमयति यद्वाक्यं सोऽपरो भावः ।।
एकाकिनी यदबला तरुणी तथाहमस्मद्गृहे गृहपतिः स गते विदेशं ।
कं याचसे तदिह वासमियं वराकी श्वश्रूर्ममान्धबधिरा ननु मूढ पान्थऽ ।। इति ।।
यद्वा द्विधेति पूर्ववदेव लक्षणाद्वयाश्रयेण व्याख्येयं । तेनाद्ये स्वसिद्धये पराक्षेपः, परत्र तु अपरार्थं स्वसमर्पणं । यत्त्वत्रान्यैर्भावैर्निर्वेदादिभिरुपलक्षितो वाच्यप्रतीयमानत्वेन द्विविधा भावालङ्कारो व्यख्यातस्तुदुत्सूत्रमेव । रुद्रटेन तथात्वेन तस्याप्रतिपादनात् । तत्रापि च वस्तुमात्रस्य वाच्योपस्कारकत्वाभिधानसमये वक्तुमुचितत्वात् । तदेवं गुणीभूतागुणीभूतत्वेन द्विप्रकारं वस्तु तावद्वाच्योपस्कारकत्वेन प्रतिपादितं ।
इदानीमलङ्कारस्यापि प्रतीयमानस्य वाच्योपस्कारकत्वं प्रतिपादयति-रूपकेत्यादिना ।
तत्र रूपक यथा -
ऽभूमभ्रुकुटिपन्नगीफणमणिः कायस्य चण्डं चिता-
कुण्डं कुण्डलितेन्दुनालवलयप्रभुंशि रक्तोत्पलं ।
घ्राणस्फाटिकमल्लिकापरिचिते भालाग्रशालाजिरे-
दीप्रा दीपशिखा शिवस्य नयनं कार्शानवं पातु नःऽ ।।
अत्र नयनादीनां मणिप्रभृतीनां चोपमा वाच्योपस्कारायावगम्यते । तां विना सादृश्याप्रतिपत्तेः ।
दीपकं यथा-
ऽपाउअबन्धं पढिउंवन्धेउं तहा कुज्जकुसुमाइ । पोढमहिलं अ रमिउं विरलच्चिअ के वि जाणन्तिऽ ।।
अत्रक प्राकृतबन्धपाठादेरुपमा वाच्योपस्कारायावगम्यते । प्रकृतस्य प्रौढमहिलारमणादेः सादृश्योपादानायैवोभयोरुपनिबन्धनात् । अपह्नुतिर्यथा-
ऽद्वगुणितादुपधानभुजाच्छिरः पुलकितादुरसः स्तनमण्डलं ।
अधरमर्धसमर्पितमाननाद्व्यघटयन्त कथञ्चन योषितःऽ ।।
अत्र भुजादीनां सादृश्यावगमादुपमा वाच्योपस्कारायावगम्यते । तुल्ययोदितादावित्यादिशब्दान्निदर्शनादेर्ग्रहणं । उपमादीत्यादिशब्दादुपमेयोपमादीनां । तत्तु यथा -
ऽप्रवातनीलेत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्या ।
तया गृहीतं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनाभिःऽ ।।
अत्र वाच्याया निदर्शनाया उपस्कारत्वेनोपमेयोपना गम्यते । तामन्तरेणासंभवद्वस्तुसंबन्धत्वेन वाच्यस्याविश्रान्तेः । अतश्चात्रालङ्कारो गम्यमानः स्थितो न वस्तुमात्रं । तेन पूर्वत्र यदादिग्रहणं सफलयितुमन्यैरेतदुदाहृतं तदयुक्तमेव । तत्र वस्तुमात्रस्य वाच्योपस्कारकत्वेन प्रतिपिपादयिषितत्वात् । वाच्योपस्कारकत्वेनोत्प्रेक्षा कथितेतिसमन्वयः । सा तु -
ऽमहिलासहस्सभरिए तुय हिअए सुहा सा अमायन्ती ।
दिअहं अणण्णाम्मा अङ्गं तणुअं पि तणुएइऽ ।। इति ।
तदित्थमलङ्कारोऽपि प्रतीयमानो वाच्यशोभाहेतुत्वेनोक्तः ।
अधुना रसस्यापि वाच्योपस्कारकत्वं दर्शयितुमाह-रसवदित्यादि । प्रभृतिशब्दादूर्जस्व्यादयः । आदिशब्दाच्च तदाभासादयः । तत्र रसवदलङ्कारो यथा-
ऽकृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले
मध्येऽस्यास्त्रिवलीतरङ्गविषमे निस्पन्दतामागता ।
मद्दृश्टिस्तृषितेव संप्रति शनैरारुह्य तुङ्गौ स्तनौ
साकाङ्क्षं मुहुरीक्षते जललवप्रस्यन्दिनी लोचनेऽ ।।
अत्र वत्सराजस्य परस्परास्थाबन्धरूपो रत्याख्यः स्थायिभावो विभावानुभावव्यभिचारिसंयोगाद्रसीभूतः सन्वाच्योपस्कारकः । तत्संवलितत्वेन वाच्यस्य सचमत्कार प्रतिपत्तेः ।
प्रेयोलङ्कारो यथा-
ऽतिष्ठोत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति
स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः ।
तां हर्तुं विवुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनीं
सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिःऽ ।।
अत्र वितर्काख्यो व्यभिचारिभावो वाच्यशोभाधायक एव ।
ऊर्जस्व्यलङ्कारो यथा-
ऽहग्लीलासु सकौतुकं यदि मनस्तन्मे दृशां विंशति-
र्निःसंधौ परिरम्भणे रतिरथो दोर्मण्डली दृश्यतां ।
प्रीतिश्चेत्परिचुम्बने दशमुखी वैदेहि!सज्जा पुरः
पौलस्त्यस्य च राघवस्य च महत्पश्योपचारान्तरम्ऽ ।।
अत्र सीतां प्रति रावणस्य रतिरनोचित्येन प्रवृत्तेति रसाभासो वाच्योपस्कारकः । अन्यत्तु स्वयमभ्यूह्यं ।
एतदेवोपसंहरति-तदित्थमित्यादिना । त्रिविधमिति । पर्यायोक्तादौ वस्तु, रूपकादावलङ्कारः, रसवदादौ रसः । तदेवं चिरन्तनैः प्रतीयमानस्यालङ्कारान्तर्भाव एव तावदुक्तः । तदुपस्कार्यः पुनरात्मा कैश्चिदपि नाभ्युपगतः ।
वामनेन तु सादृश्यनिबन्धनाया लक्षणाय वक्रोक्त्यलङ्कारत्वं ब्रुवता कश्चिद्ध्वनिभेदोऽलङ्कारतयैवोक्तः । केवलं गुणविशिष्टपदरचनात्मिका रीतिः काव्यात्मकत्वेनोक्ता ।
वामनेन प्रतीयमानस्यालङ्कारान्तर्भावमभिदधतापि तदुपस्कार्यं आत्मा कश्चिदुक्त इत्याह-वामनेनेत्यादि । तुशब्दः पूर्वेभ्यो व्यतिरेकद्योतकः । आत्मनोऽपि प्रतिपादकत्वात् । ब्रुवतेति । यदाह-ऽसादृश्याल्लक्षणा वक्रोक्तिःऽ इति । एतदेवोदाजहार चऽउन्मीमीलकमलं सरसीनां कैरवं च निमिमील मुगुर्तम्ऽ इति । कश्चिद्ध्वनिभेद इति । ऽअविवक्षितवाच्यादिःऽ । केवलमिति । यदि परमित्यर्थः । गुमेति । यदाह-ऽविशिष्टा पदरचना रीतिःऽ इति । काव्यात्मकत्वेनेति । यदाह-ऽरीतिरात्मा काव्यस्येऽति काव्यत्वेभ्युपगताया रीतेःऽतदतिशयहेतवस्त्वलङ्काराःऽ इत्याद्युक्त्यान्तर्भावितध्वनयोऽलंङ्कारा उपस्कारका इत्येतन्मतं ।
अन्यैः पुनरेतदपि प्रत्युक्तमित्याह-उद्भटादिभिरित्यादिना । प्रायश इति । बाहुल्येनेत्यर्थः । विषयमात्रेणेति । भिन्नकक्ष्याणां ह्युपस्कार्योपस्कारकत्वस्यानुपपत्तेः । तथात्वे चालङ्कारामपि गुणोपस्कार्यत्वं प्रसज्यते । समानन्यायत्वात् । तद्गुणालङ्काराणां तुल्यत्ववादिन एवौद्भटाः । इत्थमनेन वाच्याश्रयाणामलङ्काराणां मध्य एव ध्वनेरन्तर्भावादिभिधाव्यापारगोचर एव ध्वनिः, न पुनस्तद्व्यतिरिक्तः कश्चिद्ध्वनिर्नामेतिचिरन्तनानां मतमित्युक्तं ।
इदानीं यदप्यन्यैरस्य भक्त्यन्तर्भूतत्वमुक्तं तदपि दर्शयितुमाह-वक्रोक्तीत्यादि ।
वैदग्ध्येत्यनेन वक्रोक्तेः स्वरूपमुक्तं । यदाह-ऽवक्रोक्तिरेव वैदग्ध्यभङ्गीभणितिरुच्यत्ऽ इति । एवकारोऽन्यस्य काव्यजीवितत्वव्यवच्छेदकः । काव्यजीवितमिति काव्यस्यानुप्राणकं । तां विना काव्यमेव न स्यादित्यर्थः । यदाह-विचित्रो यत्र वक्रोक्तिवैचित्र्यं जीवितायतेऽइति । व्यापारस्येति कविप्रतिभोल्लिखितस्य कर्मणः । कविप्रतिभानिर्वर्तितत्वमन्तरेण हि वक्रोक्तिरेव न स्यादिति कस्य जीवितत्वं घटत इति तदनुषक्तमेवान्वास्यात्र प्राधान्यं विवक्षितं । अतश्च द्वयोः प्राधान्यस्य दुर्योजत्वमत्र नाशङ्कनीयं ।
अलङ्कारा इति । तेनोक्त इति शेषः । एवकारश्चिरन्तनोक्तध्वनिप्रकारविशेषन्यवच्छेदकः । सत्यपीति । सदपि प्रतीयमानमनादृत्येत्यर्थः । व्यापाररूपेति वक्रस्वभावेत्यर्थः । भणितिरित्युक्तिः कवीति । तत्रैव कविः संरब्ध इत्यर्थः । तत्संरम्भमन्तरेण हि वक्रोक्तिरेव न चारेत्यादि । उपचारवक्रतादीनामेव मध्ये ध्वनिरन्तर्भूत इति तात्पर्यार्थः । यदाह-
ऽयत्र दूरान्तरेऽन्यस्मात्सामान्यमुपचर्यते । लेशेनापि भवेत्कर्तुं किञ्चिदुद्रिक्तवृत्तिताम्ऽ ।।
यन्मूला सरसोल्लेखा रूपकादिरलङ्कृतिः । उपचारप्रधानासौ वक्रता काचिदिष्यतेऽ ।। इति ।
एतामेवोदाजहार च-
ऽगाणं च मत्तमेहं धारालुलिअज्जुणाइं अ वणाइं ।
निरहङ्कारमिअङ्को हरन्ति नीलॉं अ णिसॉऽ ।।
अत्र मदनिरहङ्कारत्वे औपचारिके इत्युपचारवक्रता । आदिपदेन क्रियावक्रतादीनामपि ग्रहणं । एवं सर्वोऽपि ध्वनिप्रपञ्चो वक्रोक्तिभिरेव स्वीकृतः सन्स्थित एव । यदि परं तस्य प्राधान्यमेव नास्तीत्याह-कवेलमित्यादि । तदीयमिति । वक्रोक्तिजीवितकारसंबन्धीत्यर्थः । तदित्थं लक्षणामूलवक्रोक्तिमध्यान्तर्भावाद्ध्वनेरेव तत्त्वं प्रतिपादितं ।
कैश्चिदप्यस्य वागविषयत्वादलक्षणीयत्वमुक्तमित्याह- भट्टनायकेत्यादि ।
प्रौढोक्त्येति । न पुनर्लक्षणकरणेन । अत एवोक्तेः प्रौढत्वं यल्लक्षयितुमशक्यैस्तस्याप्यभ्युपगमः । काव्यांशत्वमिति न पुनः काव्यात्मत्वं । यदाह-
ऽध्वनिर्नामापरो योऽपि व्यापारो व्यञ्जनात्मकः ।
तस्य सिद्धेऽपि भेदे स्यात्काव्यांशत्वं न रूपिताऽ ।। इति ।
व्यापारस्येति । कविकर्मणः । अन्यथा शब्दप्रधानेभ्यो वेदादिभ्योर्ऽथप्रधानेभ्यश्चेतिहासादिभ्यः काव्यस्य वैलक्षण्यं न स्यात् । तदुक्तम्-
ऽशब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः ।
अर्थतत्त्वेन युक्तं तु वदन्त्याख्यानमेतयोः ।।
द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यधीर्भवेत्ऽ ।। इति ।
तत्रापीति । कविकर्मरूपस्य व्यापारस्य प्राधान्ये सत्यपीत्यर्थः । ऽअभिधा भावना चान्या दद्भोगीकृतिरेव चऽ इति काव्यं तावत्त्र्यंशं तेनोक्तं । तत्रापि-
ऽतात्पर्याशक्तिरभिधा लक्षणानुमिती, द्विधा ।
अर्थापत्तिः क्वचित्तन्त्रं समासोक्त्याद्यलङ्कृतिःऽ ।।
ऽरसस्य कार्यता भोदो व्यापारान्तरबाधनं ।
द्वादशेत्थं ध्वनेरस्य स्थैता विप्रतिपत्तयःऽ ।। इति ।
नीत्या बहवो विप्रतिपत्तिप्रकाराः संभवन्ति, तथापि
ऽकाव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्व-
स्तस्याभावं जगदुरपरे भाक्तमाहुस्तमन्ये ।
केचिद्वाचां स्थितमविषये तत्त्वमूचुस्तदीयम्ऽ-
इत्युक्तनीत्यैव ध्वनेर्विप्रतिपत्तिप्रकारन्नयमिह प्राधान्येनोक्तं ।
एवमिदानीमेतद्विप्रतिपत्तिप्रकारत्रयं निराकुर्वन्ध्वनेरेव काव्यात्मत्वं साधयति- ध्वनिकार इत्यादिना ।
ध्वनिकारः पुनरभिधातात्पर्यलक्षणाख्यव्यापारत्रयोत्तीर्णस्य ध्वननद्योतनादिशब्दाभिधेयस्य व्यञ्जनव्यापारस्यावश्याभ्युपगम्यत्वाद्व्यापारस्य च वाक्यार्थत्वाभावाद्वाक्यार्थस्यैव च व्याङ्ग्यरूपस्य गुणालङ्कारोपस्कर्तव्यत्वेन प्राधान्याद्विश्रान्तिधामत्वादात्मत्वं सिध्दान्तितवान् ।
समयापेक्षार्थावगमशक्तिरभिधा । सामान्यानां परस्परान्वितत्वेन विशेषार्थावबोधनशक्तिस्तात्पर्यं । मुख्यार्थबाधादिसहकार्यपेक्षार्थंप्रतिभासनशक्तिर्लक्षणा । एतद्व्यापारत्रयादुत्तूर्णस्य तदतिरिक्तस्येत्यर्थः । तथा चऽगङ्गायां घोषःऽ इत्यत्र गङ्गाशब्दो घोषशब्दश्च सामान्यात्मके जलप्रवाहे गृहनिकुरम्बे च संकेतितौ । सामान्य एवोद्योगात् । विशेषस्य हि संकेतकरणे आनन्त्यं व्यभिचारश्च स्यात् । ततश्चाभिधया जलप्रवाहमात्रं गृहनिकुरम्बमात्रं च प्रतीतिमित्येका कक्ष्या । एतत्प्रतिपाद्यान्यप्रतिपादनायाप्यभिधा न समर्था । ऽविशेष्यं नाभिधा गच्छेत्क्षीणशत्किर्विशेषं गमयन्ति हिऽ इति न्यायात्तात्प्रर्यशक्त्या सामान्यान्याधाराधेयभावेनावस्थितं विशिष्टं गङ्गाघोषाद्यागूरयन्तीति तात्पर्येण परस्परान्वितत्वमात्रमेव प्रतीयत इति द्वितीया । जलप्रवाहस्य च घोषाधिकरणत्वमयुक्तमिति प्रमाणान्तरबाधितः सन्गङ्गाशब्दस्तदधिकरणयोग्यं तटं लक्षयतीति तृतीया । तत्र तावत्
मुख्यार्थबाधे तद्योगे रुढितोऽथ प्रयोजनात् ।
अन्योर्ऽथो लक्ष्यते यत्सा लक्षणाऽरोपिता क्रियाऽ ।। इति ।।
नीत्या लक्षणा त्रितयसंनिधावेव भवति । तत्र मुख्यार्थबाधा तावत्प्रत्यक्षादिप्रमाणान्तरमूला । यश्च सामीप्यादिसंबन्धः स च प्रमाणान्तरावगम्य एव । यत्पुनरिदं घोषस्य शेत्तयपावनत्वादिलक्षणं प्रयोजनं प्रतीयते तच्छब्दान्तरानुक्तं प्रमाणान्तराप्रतिपन्नं च कुत आगतं । न तावत्प्रत्यक्षादेव तत्प्रतीतिः, अस्मादेव शब्दादवगमासिद्धेः । शब्दार्थे च तस्याप्रवृत्तेः । नाप्यनुमानात् । सामीप्येऽपि शैत्यपावनत्वादेरसंभवादनैकान्तिकत्वात् । न स्मृतिः । तदनुभवाभावात् । सत्यमपि वा तस्यां नियमस्मरणं न स्यात् । अस्मादेव च शब्दादेतदेव बुध्यत इति को हेतुः । तस्मादस्यैव शब्दस्यैष व्यापारोऽभ्युपगन्तव्यः । निर्व्यापारस्यार्थप्रतीतिकारित्वाभावात् । स तावन्नाभित्मा । समयाभावात् । न तात्पर्यात्मा । तस्यान्वयप्रतीतावेव परिक्षयात् । न लक्षणात्मा । मुख्यार्थबाधाद्यभावात् । तस्मादभिधातात्पर्यलक्षणाव्यक्तिरिक्तश्चतुर्थकक्ष्यानिक्षित्पो व्यङ्ग्यनिष्टोव्यञ्जनाव्यपारोऽभिहितान्वयवादिनावश्याभ्युपगन्तव्यः । अन्विताभिधानवादिनापि यत्परः शब्दः स शब्दार्थ इति शरवदभिधाव्यापारमेव दीर्घदीर्घमिच्छतापि नैमित्तिकार्थानुसारेण निमित्तानि कल्प्यन्त इति निमित्तपरिकल्पनेऽपि समग्रैवेयं प्रक्रियानुसारणीयेवेत्युभयथापि सिद्ध एव व्यञ्जनव्यापारः । एवच्च गहनगहनमिति मनगेव सिद्धरसन्यायेनेहोक्तं ।
आदिशब्दात्प्रत्यायनावगमनादीनामपि ग्रहणं । अवश्येति । तेन विना व्यङ्ग्यस्यार्थत्त्यासंग्रहणात् । व्यापारस्येति । व्यञ्जनात्मिकायाः क्रियाया इत्यर्थः । सा खलु साध्यमानत्वेन पूर्वापरीभूतावयवत्वान्न स्वरूपेणोपलभ्यत इति विचारपदविमेव स्वयमुपारोढुं नोत्सहत इति कथं नाम तस्या वाक्यार्थत्वं स्यादिति भावः । यद्वक्ष्यति-ऽव्यापारस्य विषयमुखेन स्वरूपप्रतिलम्भात्तत्प्राधान्येन प्राधान्यात्स्वरूपेण विचार्यत्वाभावाद्विषयस्यैव समग्रभरसहिष्णुत्वम्ऽ इति । उपस्कर्तव्यत्वेनेति । तत्परतयावस्यानेनेत्वथः । यदुक्तम्-
ऽवाच्यवाचकचारुत्वहेतूनां विवधात्मनां ।
रसादिपरता यत्र स ध्वनेर्विषयो मतःऽ ।। इति ।।
अत एव विश्रान्तिधामत्वादित्युक्तुं । आत्मत्वमिति । सारभूतत्वमित्यर्थः । आतश्च तेन विना काव्यं काव्यमेव न स्यादिति तात्पर्यं । नहि निर्जीवं शरीरं क्वाप्युपयुक्तं । ननु यद्येवं दर्हिऽगङ्गायां घोषःऽ इत्यत्रापि व्यङ्ग्यस्य सद्भावात्काव्यत्वं प्रसज्यते । नैतत् । इह यद्वदात्मनो व्यापकत्वाच्छरीरे घटादौ वर्तमानत्वेऽपि करणादिविशिष्टे शरीरे एव जीवव्यवहारो न घटादौ, तद्वदस्यापि विवधगुणालङ्कारौचित्यचारुशब्दार्थशरीरगतत्वेनैवात्मत्वव्यवहारो नान्यत्रेति न कश्चिद्दोषः । ननु च सर्वत्र क्रियाया एव प्राधान्यं प्रसिद्धम्,इह पुनर्विषयस्योक्तमिति किमेतदित्याशङ्कक्याह-व्यापारस्येत्यादि । विषयमुखेनेति । यथा द्योदनादेर्विक्लित्त्यामिति किमेवदित्याशङ्कायाह-व्यपारस्येत्यादि । विषयमुखेनेति । यथा ह्योदनादेर्विक्लित्त्यययादिमुखेन पाकादेः क्रियायाः स्वरूपोपल्लम्भः । तत्प्राधान्येनेति । विषयप्रधानत्वेनेत्यर्थः । तेन व्यापारस्य प्राधान्यमुपचरितमिति भावः । स्वरूपेणोति । स्वरूपं हि तस्य साध्यमानत्वादि विचारवितुमशक्यं । सिध्दस्य हि विचारा भवतीति भावः । एवकारो व्यञ्जनव्यापारव्यवच्छेदकः । समग्रेति । समग्रस्य भरस्यात्मेति व्यवहारादेः सहनशीलत्वमित्यर्थः । एतदेवोपसंहरति-तत्सादित्यादिना । यस्येति । व्यङ्ग्यनाम्नो रसाच्चामनो विषयस्य । गुणालङ्कार कृत-रुत्वेति । गुणानां-
ऽये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः ।
उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाःऽ ।। [का. प्र. ८]
इत्यादिनीत्या साक्षादेव तद्धर्मत्त्वात् । अलङ्कारणामपि-
ऽउपकुर्वन्तु तं सन्तं येऽङ्गद्वारेण जातुचित् ।
हारादिवदलङ्कारास्तेऽनुप्रासोपमादयःऽ ।। [का. प्र. ८]
इत्यादिनीत्या शब्दार्थलक्षणाङ्गातिशयद्वारेण तदुपस्कारकत्वात् । अलङ्काराणां च रसादिरूपं ध्वञ्ज्यमर्थमलङ्कुर्वतां मुख्यया वृत्त्यालङ्काकरत्वम्,अलङ्कार्यसद्भावनिबन्धनत्वात्तस्य, रसाद्यात्मन एव च व्यङ्ग्यस्यालङ्कार्यत्वेन प्रतिष्ठानात् । अत एव च यत्रस्फुटव्यङ्ग्यार्थरहितत्वं तत्रऽगुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मताऽ[का.प्र.८] इत्यादिनीत्या शब्दार्थमात्रनिबन्धनत्वेनोक्तिवैचित्र्यमात्रपर्यवसितत्वादेषां गौणमलङ्कारत्वं । यदभिप्रायेणैव च चित्राख्यकाव्यभेदप्रकारत्वमलङ्काराणां निरूपयिष्यते । अत एवानुप्रासादयोऽलङ्काराश्चित्रभित्याद्यन्यैरुक्तं । स च प्रतीयमानोर्ऽथो यद्यपि वस्त्वलङ्काररसत्वेन त्रिविधः, तथापि [तेन विना काव्यात्मत्वाभावात्] मुख्यत्वेन रसत्यैवात्मत्वं युक्तं । अतश्च वस्त्वलङ्कारयोक्यदलङ्कारपक्षनिक्षित्पत्वमन्यैरुक्तं तत्तावदास्ताम्, काव्यात्मनो रसस्य पुनरलङ्कारत्वमत्यन्तमेवावाच्यमित्याह-रसादय इत्यादि । आदिग्रहणाद्भावतदाभासादीनां ग्रहणं । न वाच्या इति । वस्तुमयुक्ता एवेत्यर्थः । अलङ्कार्यंस्यालङ्कारत्वानुपपत्तेः । तस्य चालङ्कारत्वकथनेऽलङ्कार्यान्तरं प्रसज्यते । तेन विनालङ्काराणामनुपपत्तेः । एतदेवोपसंहरति-तस्मादित्यादिना । व्यङ्ग्य इति रसादिरूपः । तस्यैवोपक्रान्तत्वात् । वाक्यार्थीभूत इति । अवाक्यार्थीभूतस्तु रसादिरलङ्कारोऽपि स्यात् । यदुक्तं -
ऽप्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिःऽ ।। इति ।।
एतच्च रसवदाद्यलङ्कारप्रस्ताव एव निर्णेष्यामः । इतिशब्दः प्रमेयपरिसमात्पौ । एतदेव युक्तमित्याह-एष एवेत्यादि । सर्वैरिति । अवाक्यार्थविद्भिरसहृदयप्रायैरित्यर्थः । पक्ष्यान्तरस्येति । तत्र तावद्वाच्यवाचकमात्राश्रयिणामलङ्काराणां मध्ये व्यङ्ग्यव्यञ्जकभावसमाश्रयेण व्यवस्थितत्वादस्यान्तर्भावो न युक्तः । यदुक्तम्-
ऽवङ्ग्यव्यञ्जकसंबन्धनिबन्धनतया ध्वनेः ।
वाच्यवाचकचारुत्वहेत्वन्तः पतिता कुतःऽ ।। इति ।।
लक्षणायामप्यस्यान्तर्भावो न युक्तः । तदसद्भावेऽस्य सद्भावात्तत्सद्भावे चास्यामद्भावात् । यदुक्तम्-ऽअतिव्यात्पेरथाव्यात्पेर्न चासौ लक्ष्यते तयाऽ इति । नाप्यस्यालक्षणीयत्वं युक्तं -
ऽयत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ ।
व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितःऽ ।। इति ।।
तदित्थमेतद्विप्रतिपत्तित्रयस्याप्रतिष्टानमुपपादितं ।
इदानीमन्येऽपि यः कश्चिद्विप्रतिपत्तिप्रकारः कैश्चिदुक्तः सोऽपि नोपपद्यते इत्याहुयत्त्वित्यादि ।
ध्वनिकारानन्तरभावी व्यक्तिविवेककार इति तन्मतमिह पश्चान्निर्दिष्टं यद्यपि वक्रोक्तिजीवितहृदयदर्पणकारावपि ध्वनिकारान्तरभानावेव, तथापि तौ चिरन्तरमतानुयायिनावेति तन्मतं पूर्वमेवोद्दिष्टं ।
अनेन पुनरेतत्स्वोपज्ञमेवोक्तं । अनुमानन्तर्भावमिति । अनुमानरूपत्वमेवेत्यर्थः । आख्यदिति । यदाह-
ऽवाच्यस्तदनुमतो वा यत्रार्थोर्ऽथान्तरं प्रकाशयति ।
संबन्धतः कुतश्चित्सा काव्यानुमितिरित्युक्ताऽ ।। इति ।।
अविचारिताभिधानमिति । इह लिङ्गलिङ्गिनोस्तादात्म्यतदुत्पत्तिभ्यामेव तावत्प्रतिबन्धो निश्चीयते । तन्निश्चयेनैव च साध्यसिद्धिः । अन्यथा हि साध्यसिद्धिर्नस्याद्व्यभिचारात् । तत्र तादात्म्यं यथा कृतकत्वानित्यत्वयोः । तदुत्पत्तिर्यथा वह्निधूमयोः । वाच्यप्रतीयमानयोःपुनस्तादात्म्यतदुत्पत्ती न स्तः । तथाहि-
ऽनिःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो
नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः ।
मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपूडागमे
वापूं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम्ऽ ।।
इत्यत्र विधिना निषेधो निषेधेन वा विधिः प्रतीयते । न तस्य वाच्येन सह तादात्म्यं । विरुद्धत्वात् । नह्यभावो भावात्मा भावोऽप्यभावात्मा । नापि तदुत्पत्तिः । अभावस्य जन्यजनकत्वानुपपत्तेः । नापि निःशेषच्युतचन्दनादीनां विशेषणानां तदन्तिकगमनानुमापकत्वं युक्तम्, तेषां स्नानादावपि सद्भावादनैकान्तिकत्वात् । एतच्च ध्वनिकारेणादूषितत्वाद्ग्रन्थकृता स्वकण्ठेन दूषितं । अत एवानेनान्या विप्रतिपत्तये न दूषिताः । एतदिति । वाच्यस्य प्रतीयमानेन तादात्म्यतदुत्पत्त्यभावादि नेह प्रतन्यत इति व्यक्तिविवेकविचारे हि मयैवैतद्वितत्य निर्णीतमिति भावः ।
तदित्थं परपरिकल्पितसमारोपापसारप्रत्याख्यानेन प्रात्पप्रतिष्ठानो ध्वनिरित्याह-अस्तीप्यादि ।
तावच्छब्दो विप्रतिपत्त्यभावद्योतकः । अस्यैव भेदनिर्देशं कर्तुमाह-तत्रेत्यादि । व्यङ्ग्यनिष्ठे व्यञ्जनव्यापारे सत्यपीत्यर्थः । प्राधान्याप्राधान्येति । यदुक्तम्-
ऽतत्परावेव शब्दार्थौ तत्र व्यङ्ग्यं प्रति स्थितौ ।
ध्वनेः स एव विषयो मन्तव्यः संकरोज्झितःऽ ।। इति ।।
यथा-
ऽप्रकारोऽन्यो गुणीभूतव्यङ्ग्यः काव्यस्य दृश्यते ।
तत्र व्यङ्यान्वये वाच्यचारुत्वं स्यात्प्रकर्षवत्ऽ ।। इति ।।
अस्फुटत्व इति । व्यङ्ग्यस्याविवक्षितत्वे सतीत्यर्थः । यदुक्तम्-
ऽरसभावादिविषयविवक्षाविरहे सति । अलङ्कारनिबन्धो यः स चित्रविषयो मतःऽ ।।
इति । तत्रेति । त्रयनिर्धारणे । तस्येति,उत्तमस्य ध्वनेः । आद्य इति अविवक्षितवाच्यः । न केवलं ध्वनिर्द्विविधः यावत्तत्प्रभोदोऽप्ययं द्विविध इत्यपिशब्दार्थः । यदुक्तम्-
ऽअर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतं ।
अविवक्षितवाच्यस्य ध्वनेर्वाच्यं द्विधा मतम्ऽ ।। इति ।।
द्वितीय इति विवक्षितान्यपरवाच्यः । यदुक्तम्-
ऽअसंलक्ष्यक्रमोद्द्योतः क्रमेण द्योतितः परः ।
विवक्षिताभिधेयस्य ध्वनेरात्मा द्विधा मतःऽ ।।
इति । अत्रैव वस्तुरसालङ्काराणां ध्वन्यमानत्वं दर्शयितुमाह-लक्षणेत्यादि । लक्षणामूल इत्यविवक्षितवाच्यः । शब्दशक्तिमूल इति न पुनरर्थशक्तिमूलः । यद्यपि शब्दशक्तिमूलेर्ऽथशक्तिरप्यस्ति तथापि तत्र तस्याः सहकारितया व्यवस्थानमिति प्राधान्याच्छब्दशक्तिमूलत्वमुक्तं । एवमर्थशक्तिमूलत्वेऽपि ज्ञेयं । वस्तुध्वनिरिति । रसालङ्कारव्यतिरिक्तस्य वस्तुमात्रस्य ध्वन्यमानत्वात् । तत्रार्थान्तरसंक्रमितवाच्यो वस्तुध्वनिर्यथा-
ऽस्निग्धश्यामलकान्तिलित्पवियतो वेल्लद्बलाका घना
वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः ।
कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे
वैदेही तु कथं भविष्यति हहा हा देवी धीरा भवऽ ।।
अत्र रामशब्दो राज्यनिर्वासनाद्यसंख्येयदुःखभाजनत्वस्वरूपं वस्तु ध्वनति । अत्यन्ततिरस्कृतवाच्योऽपि यथा-
ऽरविसंक्रान्तसौभाग्यस्तुषारावृतमण्डलः ।
निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशतेऽ ।।
अत्रान्धशब्दः स्वार्थं निमित्तीकृत्यादर्शनसाधारणविच्छायात्वादिधर्मजातं वस्तुरूपंव्यनक्ति । रसादीति । आदिशब्दाद्भावतदाभासादयः । तत्र रसध्वनिर्यथा -
ऽत्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया-
मात्मानं ते चरणपतितं यावदिच्छामि कर्तुं ।
अस्त्रैस्तावन्मुहुरुपचितैर्द्दष्टिरालिप्यते मे क्रूरस्त-
स्मिन्नपि न सहते संगमं नौ कृतान्तःऽ ।।
अत्र विभावानुभावव्यभिचारिभिरभिव्यक्त एव रसः ।
भावध्वनिर्यथा-
ऽजाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया
मा मां संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता ततः ।
नो यावत्परिरभ्य चाटुकशतौराश्रासयामि प्रियां
भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतःऽ ।।
अत्र विधिं प्रत्यसूयाख्यो व्यभिचारिभावः । रसाभासध्वनिर्यथा-
ऽस्तुमः कं वामाक्षि क्षणमपि विना य न रमसे
विलेभे कः प्राणान्पणमखमुखे यं मृगयसे ।
सुलग्ने को जातः शशिमुखि यमालिङ्गसि बलात्
तपःश्रीः पस्यैषा मदननगरि ध्यायसि तु यम्ऽ ।।
अत्रानेककामुकविषयोऽभिलाष इति रसाभासः ।
भावाभासध्वनिर्यथा-
ऽराकासुधाकरमुखी तरलायताक्षी सा स्मेरयौवनतरङ्गितविभ्रमाङ्गी ।
तत्किं करोमि विदधे कथमत्र मैत्त्रीं तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः ।।
ऽअत्रानौचित्यप्रवृत्ता चिन्तेति भावाभासः । भावप्रशमो यथा-
ऽएकस्मिच्छयने पराङ्मुखतया वीतोत्तरं ताम्य-
तोरन्योन्यं हृदयस्थितेऽप्यनुनये संपक्षतोर्गौरवं ।
दंपत्योः शनकैरपाङ्गवलनामिश्रीभवच्चक्षुषीर्-
भग्नो मानकलिः सहासरभसव्यावृत्तकण्डग्रहःऽ ।।
अत्रासूयायाः प्रशम इति भावप्रशमध्वनिः । वस्तुध्वनिरलङ्कारध्वनिश्चेति । तत्रशब्दशक्तिमूलो वस्तुध्वनिर्यथा-
ऽनिर्वाणवैरदहना प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन ।
रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याःऽ ।।
अत्र कौरवाणां क्षतशरीरादिकत्वं वस्तुरूपं शब्दशक्त्यैव प्रतीयते । स एवार्थशक्तिमूलो यथा-
ऽअलससिरोमणि धुत्ताणं अग्गिमो पुत्ति धणसमिद्धिमओ ।
इह भणिएण णाङ्गी पप्फुल्लविलोअणा जाआऽ ।।
अथार्थशक्त्या ममैवोपभोग्योऽप्यमिति वस्तु व्यज्यते । स एवोभयशक्तिमूलो यथा-
ऽपन्थिअ ण एत्थ सत्थरमत्थि मणं पत्थरत्थले ग्गामे ।
उग्गापओहरं पेक्खिऊण जै वससि ता वससुऽ ।।
अत्र यद्युपभोगक्षमोऽसि तदा आस्स्वेति वस्तु वक्रौचित्यमाश्रित्य शब्दार्थशक्त्याभिव्यज्यत इत्युभयशक्तिमूलत्वं ।
शब्दशक्तिमूलोऽलङ्कारध्वनिर्यथा-
ऽउन्नतः प्रोल्लसद्धारः कालागुरुमलीयसः ।
पयोधरभरस्तच्व्याः कं न चक्रेऽभिलाषिणम्ऽ ।।
अत्र शब्दशक्त्या मेघलक्षणमर्थान्तरं प्रतीयते । प्रकृताप्रकृतयोश्चार्थयोरसंबद्धाभिधायित्वं मा प्रसाङ्क्षीदिति तयोरौपम्यं कल्प्यत इत्यलङ्कारध्वनिः । स एवार्थशक्तिमूलो यथा-
ऽतं ताण सिरिसहोअरराणाहरणम्मि हिआमेक्करसं ।
बिंबाहरे पिआणं णिवेसिअं कुसुमबाणेनऽ ।।
अत्र कौस्तुभबिम्बाधरयोः केवलयैर्वाथशक्त्यौपम्यं गम्यत इत्यर्थशक्तिमलोऽलङ्कारध्वनिः । उभयशक्तिमूलो यथा-
ऽजणहिआविदारणए धारासलिलल्लुलिए ण रमै तहा ।
तव दिट्वी चिउरभरे विआण जह वैरिखग्गाम्मिऽ ।।
अत्रोभयशक्त्या चिकुरभरखङ्गयोरौपभ्यं गम्यते । इति शब्दः प्रमेयपरिमसात्पौ । एवं ध्वनेः प्रभेदजातं प्रदर्श्य क्रमप्रात्पं गुणीभूतव्यङ्यस्याप्यन्यतो योजयति-गुणीभूतेत्यादिना । दर्शित इति ध्वनिकारेण । यदाह-
ऽव्यङ्गस्य यत्राप्राधान्यं वाच्यमात्रानुयायिनः ।
समासोक्त्यादयस्तत्र वाच्यालङ्कृतयः स्फुटाःऽ ।। इति ।।
एवं गुणीभूतव्यङ्ग्यस्याप्यन्यतो भेदजातं योजयित्वा चित्रस्यापि प्रभेदजातं दर्शयितुमाह-चित्रमित्यादि ।
चित्रं तु शब्दार्थांलकारस्वभावतया बहुतरप्रभेदं । तथा हि-
आदौ पौनरुक्त्यप्रकाररवचनं वक्ष्यमाणालङ्काराणां कक्षाविभागघटनार्थं । अर्थापेक्षया शब्दस्य प्रतीतावन्तरङ्गत्वेऽपि प्रथममर्थतधर्मनिर्देशश्चिरन्तनप्रसिद्ध्या पुनरुक्तकवदाभासस्य पूर्वं लक्षणार्थः । इहशब्दः प्रत्थाने । इतिशब्दः प्रकारे, त्रिशब्दादेव संख्यापरिसमात्पिसिद्धेः ।
तुशब्दः काव्यप्रकारद्वयादस्य वैलक्षण्यद्योतकः । अत एव बहुतरप्रभेदमित्युक्तं । शब्दार्थेत्येक शेषः । तेनोभयालङ्काराणामपि ग्रहणं । तदेव दर्शयितुमाह-तथाहीत्यादि । चित्राख्यकाव्यभेदनिरूपणावसरे किं पौनरुक्त्यप्रकारवचनेनेत्याशङ्क्याह-आदावित्यादि । वक्ष्यमाणालङ्काराः पुनरुक्तवदाभासादयः पञ्च । शब्दप्रतीतिपुरःसरीकारेणार्थप्रतीतिरिति प्रथमं शब्दगत एव धर्मनिर्देशो न्याय्यो नार्थगत इत्याशङ्क्याह-अर्थेत्यादि । चिग्तंन प्रसिद्धेति । न पुनर्युज्यमानतयेति भावः । ऽपुनरुक्तवदाभासं छेकानुप्रास एव चऽ इति चिरन्तनप्रसिद्धिः । अर्थालङ्कारत्वादर्थालङ्कारप्रकरणे पुनरस्य युज्यमानत्वं । नन्वादौ शब्दगतो, धर्मनिर्देशः कार्यः पश्चादर्थगत इति क्रमस्य न किञ्चित्प्रयोजनमुत्पश्याम इति किं तेनेति यदन्यैरुक्तं तदयुक्तं । शब्दार्थयोः क्रमेणैव प्रतीताववभासनात्तथात्वेनैव धर्मनिर्देशस्योपपत्तेः किं चऽवर्धमानोत्कर्षाणि शास्त्राणि प्रथन्तेऽ इति नीत्या परिमितचमत्काराणामर्थालङ्काराणां पश्चान्निर्देशः कार्य इति सप्रयोजन एव क्रमः । चिरन्तनमतानुल्लङ्घनेन च वयं प्रवृत्ता इत्ययुक्तमपि ग्रन्थकृता तन्मतमाश्रितं । अग्रेऽप्यनेनाशयेन तन्मताश्रयणं करिप्यत्येव । तेन वयंयच्चिरन्तनमताश्रयणं व्याख्यास्यामस्तद्युक्तमेव ।
एतदेव यथोद्देशं निर्णेतुमाह-तत्रेत्यादि ।
प्ररुढाप्ररुढत्वेन द्वैविध्यं । प्रथमं हेयवचनमुपादेये विश्रान्त्यर्थं । तत्रेति त्रयनिर्धारणे । यथावभासनविश्रान्तिः प्ररोहः ।
किमलङ्कारप्रस्तावे दोषकथनेनेत्याशङ्क्याह-प्रथममित्यादि । उपादेय इत्यलङ्कारस्वरूपे । यथेति । यथैव दृष्टस्तथैव पर्यवसित इत्यर्थः । यथा-
ऽहरिणनयनां सारङ्गाक्षीं कुरङ्गविलोचनां कमलवदनां राजीवास्यां सरोजसमाननां ।
विलुलितकचां चञ्चत्केशीं चलच्चिकुरोत्करां सुरतविरतौ संभोगान्ते विलोकय कामिनीम्ऽ ।।
अत्र सारङागाक्षीमित्यादिषु पुनर्वचनं प्ररुढं । अप्ररुढं पुनरलङ्कारः ।
न चैतावतैव दोषाभावमात्रेणालङ्कारत्वमस्याशङ्क्यम्, वक्ष्यमाणनीत्यालङ्कारत्वोचितस्य विच्छित्तिविशेषस्यापि भावात् । तदेवाह-आमुग्वेत्यादि ।
आमुखग्रहणं पर्यवसानेऽन्यथात्वप्रतिपत्त्यर्थं । लक्ष्यनिर्देशे नापुंसकः संस्कारो लौकिकालङ्कारवैधर्येण काव्यालङ्कारणामलङ्कार्यंपारतन्त्र्यध्वननार्थः । अर्थपौनरुक्त्यादेवार्थीश्रितत्वादर्थालङ्कारत्वं ज्ञेयं ।
प्रभेदास्तु विस्तरभयान्नोच्यन्ते । उदाहरणं मदीये श्रीकण्ठस्तवे यथा-
"अहीनभुजगाधीशवपुर्वलयकङ्कुणं ।
शैलादिनन्दिचरितं क्षतकन्दर्पदर्पकं ।।
वृषपुङ्गवलक्ष्माणं शिखिपावकलोचनं ।
ससर्वमङ्गलं नौमि पार्वतीसखमीश्वरम्" ।।
ऽदीरुणः काष्ठतो जातो भस्मभूतिकरः परः ।
रक्तशोणार्चिरुच्चण्डः पातु वः पावकः शिखीऽ ।।
भुजङ्गकुण्डली व्यक्तशाशिशुभ्रांशुशीतगुः ।
जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः" ।।
अन्यथात्वेति । यथावभातस्यार्थस्य पर्यवसाने तथात्वेनैवाविश्रान्तिरित्यर्थः । अन्यथा ह्यक्तनीत्या दोषः स्यात् । ननु पुनरुक्तवदाभासशब्दस्यालङ्कारशब्दसामानाधिकरण्यादुपमादिवदजहल्लिङ्गत्वयोगाच्च पुंल्लिङ्गत्वे किमितीह नापुंसकः संस्कारः कृत इत्याशङ्क्याह-लक्ष्येत्यादि । लक्ष्यस्य लक्षणीयस्य पुनरुक्तवदाभासस्य पुनःशब्दापेक्षया निर्देशो वचनमित्यर्थः । अलङ्कार्यपारतन्त्रेति । काव्यसामानाधिकरण्येन निर्देशात् । लौकिका हारादयः । एषां ह्यलङ्कार्येण सह संयोगः संबन्धः । अत एवैषां तत्परतन्त्रतापि न स्यात् । काव्यालङ्काराणां पुनरलङ्कार्येण सह समवायः संबन्धः । अत एवैषामयुतसिद्धत्वादलङ्कार्यपारतन्त्र्यमेवेति लैकिकालङ्कारवैधर्म्यमेव न्याय्यं । आश्रयाश्रयिभावेनालङ्कार्यालङ्करणभावोपपत्तेः किमाश्रयमस्यालङ्कारत्वमित्याशङ्कायाह-अर्थेत्यादि । एवकारः शब्दपौनरुक्त्यावच्छेदद्योतकः ।
तेन शब्दस्यापौनरुक्त्यान्न शब्दालङ्कारो नाप्युभयालङ्कारोऽयमित्यर्थः । पर्यवसाने वस्तुतोर्ऽथस्यासत्त्वात्धर्म्यंभावे च धर्मंस्य निर्विषयत्वात्पौनरुक्त्यं कस्य धर्मः स्यादिति न वाच्यं । आमुखेर्ऽथस्यावभासमानत्वेन सत्त्वाद्धर्मिधर्मभावस्य नैवानिष्टेरर्थगतयोः सत्त्वासत्त्वयोरनुपयोगात् । आमुखावगतैव च प्रतीतिरलङ्कारबीजं न पार्यवसानिकी । तथात्वे ह्युपमारूपकादीनामप्यविशेषः स्यात् । पर्यवसानेऽप्यर्थस्यऽदारुणः काष्टतो जातःऽइत्यादाविन्धनार्थस्य सत्त्वादनैकान्तिकत्वाभावाच्छ्रशशृवदभावो न वाच्यः । पर्यवसानेऽप्यत्रन्धनार्थः सन्नपि नालङ्कारत्वप्रयोजक इतिऽअरिवधदेहशरीरःऽ [काव्य प्रकाश ९१३८९]इत्यादाप्यसता कायार्थेनाविशेषात्समानः । किं व इतो न पर्यवसानेर्ऽथस्यासत्त्वं । इह हि प्रतीतिमात्रसारत्वात्कव्यस्य यद्यथैव प्रतीयते तत्तथैव भवतीत्याविवादः । तद्वाधोत्पत्तावपि तैमिरिकद्विचन्द्रप्रतीतिवत्पुनरुक्ततयावभातस्यार्थस्यावभासमानत्वात्सत्त्वमेव । नहि शतशीपि क्रूराद्यर्थोपलम्भे काष्ठादेरर्थस्यापुनरुक्ततया भानमस्ति । बाधोत्पत्तेः पुनर्द्विचन्द्रप्रतीतिवत्पौनरुक्त्यप्रतीतेरनुपपद्यमानत्वं भवति, नतु शुक्तिकायामिव रजतप्रत्ययस्य स्वरूपत एवाभावः । अत एवाभातपौनरुक्त्यापि प्रतीतिरपौनरुक्त्यपर्यवसायिन्यस्य स्वरूपं । एवमपि वस्तुतः कायाद्यर्थाभावस्तदवस्थ इति चेत्,सत्यं । किं तु तथा वस्तुतो बहिरसंभवन्नपि द्वितीयश्चन्द्रः प्रतीतौ कञ्चन विशेषमाधातुं नोत्सहते तथेहापि वस्तुवृत्तेन कायादेर्थस्यासंभवेऽपि प्रतीतौ न कश्चिद्विशेष इति दिण्डिकाराग एव वास्तवत्वान्वेषणं । तस्मादत्रावभासमानत्वमेवार्थस्य सत्त्वप्रतीष्ठापकं प्रमाणं ।
ननु अवभासमानत्वं प्रमातृधर्म इति कथं तदाश्रयो धर्मः काव्यालङ्कार इति चेत्, असदेतत् । अवभासमानत्वस्यावभास्यनिष्टतया प्रतीतेरर्थधर्मत्वात् । तथा हि केषाञ्चन प्रतीतिवादिनां-
ऽतथाहि वेद्यता नाम भावस्यैव निजं वपुः ।
चैत्रेण वेद्यं वेद्मीति किं ह्यत्र प्रतिभासतेऽ ।।
इत्याद्युक्तयुक्त्या कौमारिलवन्नीलतया इव वेद्यताया अप्यर्थधर्मत्वभेवेष्टं । इह च तदुपक्रम एवेति न वस्तुवादसंस्पर्शो न्याय्यः । आमुखतुल्यार्थत्वस्य च शब्दधर्मत्वेन शब्दाश्रयत्वात्शब्दालङ्कारत्वं यद्यस्योच्यते तथापि पर्यवसाने वस्तुतस्तुल्यार्थत्वस्यासंभवात्शशशृङ्गवद्धर्मधर्मिभावो दुष्टः स्यात् । सत्त्वेऽपि दोष एवेत्यस्मत्पक्षोक्तसमग्रचोद्यवकाशः । अत्रापि यद्यामुख एवैकार्थत्वेनावभासनं समाधिस्तदास्मत्पक्षेण किमपराद्धं । एवं च विरोधेऽपि वस्तुतो विरुद्धस्यासंभवाद्विरुद्धार्थत्वस्य च शब्दधर्मत्वात्शब्दालङ्कारत्वं प्रसज्यते । अत्र विरुद्धस्यार्थस्यासंभवेपि कर्त्रादिभिर्वाच्यतयाध्यवसायः,इह तु पौनरुक्त्याश्रयस्यानन्वितत्वेन न वाच्यतेति चेत्,नैतत्,यतःऽदारुणः काष्टतो जातःऽ इत्यादौ तावत्पौनरुक्त्याश्रयस्य काष्टादेरर्थस्य जातत्वादिना सहानवितत्वावगमादस्त्येव मुख्यया वृत्त्या वाच्यत्वं । ऽअरिवधदेहशरीरःऽ इत्यादौ तु वस्तुतः कायादेरवाच्येऽप्यवभातपौनरुक्त्याश्रयत्वादकृत्रिमार्थशोभापर्यावसायि त्वेन वाच्यतयास्त्येव विवक्षितत्वं । अत्र झकृत्रिमोर्ऽथोऽलङ्कृतकृत्रिमार्थोपस्कृतो यथा चमत्कारकृत्न तथा तदुपस्कृतयोच्यमानः स्यात् । ऽस्त्रीणां हि कण्ठाभरणानि हाराः पयोधरानप्यभिभूषयन्तिऽ इत्यादिदृशा च हारस्य कण्ठालङ्कारत्वेऽपि सामीप्यात्तावतिशोभातिशयाधायकत्वाद्यथा पयोधरादावप्यलङ्कारत्वं तथैव कृत्रिमार्थाश्रयत्वेऽप्यवभासमानस्य पौनरुक्तस्याकृत्रिमार्थोपस्कारकत्वमपि प्रतीयत एवेति नानुभघवापह्नवः कार्यः । एवं च पौनरुक्त्याश्रयस्यार्थस्य यत्रैव वात्त्यत्वेन विवक्षितत्वं तत्रैवास्यालङ्कारत्वं नान्यत्र ।
ऽअकृष्णपक्षेन्दुमुखी बन्धुजीवाधरद्युतिः ।
इयं विलासिनी कस्य न नेत्रोत्सवकारिणीऽ ।।
ऽअत्राकृष्णत्यर्थपौनरुक्त्यस्य संभवेऽपि वाच्यत्वेनाविवक्षितत्वान्नायमलङ्कारः । एवं वक्ष्यमाणानामप्यलङ्काराणां कविविवक्षैव स्वरूपप्रतिष्ठापकं प्रमाणं ज्ञेयं । किं बहुना, सर्वेषामप्यलङ्काराणामुपमितार्थत्वादेः शब्दधर्मत्वाच्छब्दालङ्कारत्वं स्यात् । तदर्थालङ्कारत्वमस्य ज्यायः, यावता ह्यर्थस्यामुख एव पुनरुक्ततयावभासोऽस्य जीवितं । अत एव पुनरुक्तवदाभासमित्यन्वर्थसंघज्ञा । अर्थस्य च पौनरुक्त्यप्रतीतौ न कस्यचिद्विवादः , तामेवाश्रित्तय शब्दालङ्कारस्य भवद्भिरुक्तत्वात् । एवं च प्रत्यासत्तेस्तदाश्रयत्वमेवास्यालङ्कारत्वंयुक्तं । अन्यथा तुल्यार्थशब्दतापि वाक्यधर्मं इति तदाश्रयोऽपि स्यादित्यनवस्थाप्रसङ्गः ।
अथात्र शब्दस्वरूपवैशिष्ट्यनिबन्धनं चमत्कारकारित्वमिति तदलङ्कारत्वमिति चेत्, किं नाम शब्दस्य स्वरूपे वैशिष्टं । किं पौनरुक्त्यम्, उत पुनरुक्तार्थंवाचित्वम्,उतसभङ्गाभङ्गपदेन श्लिष्टत्वं । तत्र न तावदाद्यः पक्षः । शब्दस्य द्विरुच्चारणाभावात्तथात्वाप्रतिभासनात् । नापि द्वितीयः । वाच्यवाचकभावेनालङ्करणभावात्तस्याश्रयाश्रयिभावे, नोपपत्तेः । अत एव सर्वेषामेवार्थालङ्काराणामुपमितार्थादिवाचित्वाच्छब्दस्य तदलङ्कारत्वं स्यादित्युक्तं । नापि तृतीयः । पुनरुक्तवदाभासमित्यन्वर्थसंज्ञाश्रयणात् । पौनरुक्त्याख्यधर्मप्रयोजकीकारेणालङ्कारस्योपक्रान्तत्वात्श्लिष्टत्वस्येहानौपयितकत्वात् । तत्पुनरत्रार्थेपौनरुक्त्यावगमे निमित्तमात्रां । निमित्तनिमित्तभावश्च नालङ्कारत्वप्रयोजक इत्यविवादः । तस्मादर्थाश्रयत्वात्पौनरुक्त्यस्य तदलङ्कारत्वमेति युक्तं । एवं वक्त्रलङ्कारतापि निरस्ता । सर्वेषामपि नक्त्रतिशयरूपत्वात्तथात्वोपपत्तेः ।
विस्तरभयादिति । न तु चित्रत्वाभावात् । नोच्यन्त इति । वस्तुतस्तु संभवन्त्येवेत्यर्थः । अतश्चायं प्रायो वाक्यार्थपदार्थाश्रयत्वात्प्रथमं द्विधाभवन्समस्तासमस्तपदत्वेन चतुर्विधः । क्रमेण यथा-
ऽतुहिनक्षितिभृद्युष्मान्पातात्सर्वत्र[-]ख्यातः ।
हिमवानवतु सदा वो विश्वत्र समागतः ख्यातिम्ऽ ।।
ऽनदीप्रकरमुल्लिङ्गितवन्तं मनोहरहस्तमत्यजन्तं च, सपर्याणां रुचिं वहन्तं रसर्वत्र पूजनीयं च,सकुभ्भं सकलशञ्चरन्तं च, सदानदन्तं मदपर्याविलदशनं च, करटं कमपि बिभ्रतं कवाटविभ्रममुञ्चन्तं च, कुञ्जराजिवर्धितरुचि वारणरणरणरणिकाकुलितं च, राजमानविसंधायिनं विराजमानं च, शारीभूतं मदसलिलेन शबलीभूतं च, इति पुनरुक्ताश्रयम्ऽ इत्यनङ्गलेखायां हस्तिवर्णने ।
ऽबतहन्तासितः कालो गोविभावसुदीधितीः ।
क्षिपास्य पक्षावसितश्चेतराजयशोभयऽ ।।
असमस्तपदं तु ग्रन्थकृतौवोदाहृतं ।
अलंकारप्रस्तावे केवलं स्वरपौनरुक्त्यमचारुत्वान्न गण्यते इति द्वैविध्यमेव ।
केवलस्वरूपौनरुक्त्यं किं न गणितमित्याशङ्क्याह-अलङ्कारेत्यादि । यथा-
ऽइन्दीवरम्मि इन्दम्मि इन्दऽलम्मि इन्दिअगणम्मि ।
इन्दिदिरम्मि इन्दमि जोइण्णो सरिससंकप्पोऽ ।।
अत्र स्वरपौनरुक्त्यस्य चारुत्वाभावान्नालङ्कारत्वं ।
तत्र केवलव्यञ्जनस्वरव्यञ्जनसमुदाश्रितमलङ्कारद्वयं लक्ष्ययति-संख्यादिना ।
द्वयोर्व्यञ्जनसमुदाययोः परस्परमनैकधा सादृश्यं संख्यानियमः । पूर्वं व्यञ्जमसमुदायाश्रितं यथा-
ऽकिं नाम दर्दुर दुरध्यवसाय सायं
कायं निपीड्य निनदं कुरुषे रुषेव ।
एतानि केलिरसितानि सितच्छदाना
माकर्ण्य कार्णमधुराणि न लज्जितोऽसिऽ ।।
अत्र सायंशब्देनास्यालङ्कारस्य यकारमात्रसादृश्यापेक्षया वृत्त्यनुप्रासेन सहैकाभिधानलक्षणः संकरः । छेका विदग्धाः ।
एकवचनस्य जात्या बहुत्वप्रसङ्गाद्वहुवचनस्य च त्र्यादीनां स्वयमेव बहुत्वात्संख्यानियमो द्वित्व एव संभवतीति द्वयोरित्युक्तं । द्वयोरप्येकधा सादृश्यं वृत्त्यनुप्रास एवेत्याशङ्क्याह-अनेकधेति । यकारमात्रेत्यनेन द्वयोरेव सादृश्यमस्य जीवितमिति ध्वनितं ।
यद्यपि चायं व्यञ्जनमात्रपौनरुक्त्याख्यस्य सामान्यलक्षणस्य संभवादनुप्रास एवान्यैरन्तर्भावितः तथाप्यस्य ग्रन्थकृता उद्भटमतानुरोधादिह लक्षणं कृतं -अन्यथेत्यादि ।
केवलव्यञ्जनमात्रसादृश्यमेकधा समुदायसादृश्यं त्र्यादीनां च परस्परसादृश्यमान्यथाभावः । वृत्तिस्तु रसविषयो व्यापारः । तद्वती पुनर्वर्णरचनेहवृत्तिः । स च परुषकोमलमध्यमवर्णारब्धत्वात्त्रिधा । तदुपलक्षितोऽयमनुप्रासः । यथा-
ऽआटोपेन पटीययसा यदपि सा वाणी कवेरामुखे
खेलन्ती प्रथमे तथापि कुरुते नो सन्मनोरञ्जनं ।
न स्याद्यावदमन्दसुन्दरगुणालङ्कारझङ्कारितः
सप्रस्यन्दिलसायनरसासारानुसारी रसःऽ ।।
यथा वा-
ऽसह्याः पन्नगफूत्कृतानलशिखा नाराचपाल्योऽपि वा
राकेन्दोः किरणा विषद्रवमुचो वर्षासु वा वायवः ।
न त्वेताः सरलाः सितासितरुचः साचीकृताः सालसाः
साकूताः समदाः कुरङ्गकदृशां मानानुविध्दा दृशःऽ ।।
एतदेव भेदनिर्देशं कुर्वन्व्याचष्टे केवलेत्यादि । समुदायः पारिशेष्याद्व्यञ्जनद्वयरूपः । एकधेति चात्रैव संबद्धव्यं । केवलस्य त्र्यादीनां चानेकधापि सादृश्यस्यानेन व्यात्पत्वात् । एवञ्च समस्तासमस्ताक्षरत्वेन संभवतीत्यस्य प्रायः षट्प्रकाराः । क्रमेण यथा-
ऽयया ययाय्यया यूयं यो यो यं येययायया ।
ययुयायि ययेयाय ययेयायाय याययुक्ऽ ।।
असमस्ताक्षरं तु ग्रन्थकृतैवोदाहृतं ।
ऽदीनादीनां ददौ दानं निननाद दिने दिने ।
निदिन्द नन्दनानन्दानदुनोदिननन्दनम्ऽ ।।
ऽरुच्याभिः प्रचुराभिस्तरुशिखरापाचिताभिरुचिताभिः ।
अचिररुचिरुचिररुचिभिश्चिराच्चिराभिश्चमत्कृतं चेतःऽ ।।
ऽततः सोमसिते मासि सततं संमतं सतां ।
अतामसोत्तममतिः सती सुतमसूत साऽ ।।
ऽकमलदृशः कमलामलकोमलकमनीयकान्तिवपुरमलं ।
कमलङ्कुरुते तावत्कमलापतितोऽपि यो विमलःऽ ।।
आदिशब्दाच्चतुरक्षरादेर्ग्रहणं । यथा -
ऽस ददातु वासवादिदेवतासंस्तवस्तुतः ।
सदा सद्वसतिं देवः सविता विततां सताम्ऽ ।।
वर्णरचनेह वृत्तिरिति । उपचारादिति भावः । त्रिधेति । यदुक्तं -
ऽशषाभ्यां रेफसंयोगैष्टवर्गेण च योजिता ।
परुषा नाम वृत्तिः स्याध्लह्वह्याद्यैश्च संयुताऽ ।।
ऽसरूपसंयोगयुतां मूर्धवर्गतान्त्ययोगिभिः ।
स्पर्शैर्युतां च मन्यन्ते उपनागरिकां बुधाःऽ ।।
ऽशेषवर्णैर्यथायोगं रचितां कोपलाख्यया ।
ग्राम्यां वृत्तिं प्रशंसन्ति काव्येष्वादृतबुद्धयःऽ ।। [उद्भट काव्या. सं. ९१४-६]
यथा-
ऽनिरर्गलविनिर्गलद्गलगुलाकरालैर्गलैरमी तडिति ताडितोड्डमरिडिण्डिमोडुमराः ।
मदाचमनचञ्चुरप्रचुरचञ्चरीकोच्चयाः पणः परिणतिक्षणक्षततटान्तरा दन्तिनःऽ ।।
अत्र लकाराद्यावृत्त्या मध्यमत्वमिति वृत्तित्रैविध्यं ।
एवं व्यञ्जनमात्राश्रयमलङ्कारद्वयं लक्षयित्वा स्वरव्यञ्जनाश्रयं यमकं लक्षयति-स्वरेत्यादि ।
अत्र क्वचिद्भिन्नार्थत्वं क्विचिदभिन्नार्थत्वं कचिदेकस्यानर्थकत्वमपरस्य सार्थकत्वमिति संक्षेपतः प्रकारत्रयं । यथा-
ऽयो यः पश्यति तन्नेत्रे रुचिरे वनजायते ।
तस्य तस्यान्यनेत्रेषु रुचिरेव न जायतेऽ ।।
इदं सार्थकत्वे । एवमन्यज्झेयं ।
एकस्येत्याद्युपलक्षणपरं । अतो बहुनां यमकानां क्वचित्सार्थकत्वं निरर्थकत्वं च स्थितं संगृहीतमेव । ऽक्वचित्सार्थकत्वं क्वचिन्निरर्थकत्वम्ऽइति तु पाठे प्रथममेव भेदद्वयमुक्तं स्यान्न तृतीयः प्रकारः । अतश्च भेदनिर्देशग्रन्थो यथास्थित एव ज्यायान् । संक्षेपत इति । एवञ्च काव्यात्मभूतरसचर्वणाप्रत्यूहकारित्वात्प्रपञ्चयितुं योग्यमिति चिरन्तनालङ्कारवन्न विभज्य लक्षितमिति भावः । एवं चित्रेऽपि ज्ञेयं । अन्यदिति । प्रकारद्वयं । तत्रानर्थकं यथा-
ऽसरसमन्थरतामरसादरभ्रमरसज्जलया नलिनीं मधौ ।
जलधिदेवतया सदृशीं श्रियं स्फुटतरागतरागरुचिर्दधौऽ ।।
अत्र तरागेत्यनर्थकं । अनर्थकत्वसार्थकत्वयोर्यथा -
ऽसाहारं साहारं साहारं मुणै सज्जसाहारं ।
सं ताणं संताणं संताणं मोहसंताणम्ऽ ।।
अत्र सज्जसाहारमित्यनर्थकं । अन्यानि तु सार्थकानीति न कश्चिद्दोषः ।।
इदं च स्थाननियममन्तरेण न भवति । यदुक्तम्-ऽपदमनेकार्थमक्षरं चावृत्तं स्थाननियमे यमकम्ऽ इति । अत एव स्थाननियमाद्यमकमित्यस्यान्वर्थमभिधानं । स च स्थाननियमो वैवक्षिको न वास्तवः । यथा-
ऽमधुपराजिपराजितमानिनीजनमनःसुमनः सुरभि श्रियं ।
अभृत वारितवारिजविप्लवां स्फुटितताम्रतताम्रवणं जगम्ऽ ।।
अत्राक्षरद्वये यमकविन्यासात्स्थानस्य नियतत्वं । यथा वा-
ऽछिन्द्याद्भयार्तिं तव कार्तिकेयः शशी जितो येन स कार्तिके यः ।
उत्खातदन्तो गणनायकस्य स्वामी यदन्यो गणनाय कस्यऽ ।।
अत्र चार्थद्वये यमकद्वयमिति स्थाननियमो द्विधैवेति नास्यालङ्कारस्य क्षतिः काचित् । अतश्च -
ऽश्रु तरसिकलरुकतरसिकलितरुजालहरि जालहरिणतमः ।
हरिणतमश्च ततस्तव ततस्तवः स्याद्यशोराशिःऽ ।।
इत्यत्र सत्त्वेऽपि स्वरव्यञ्जनसमुदायपौनरुक्त्यास्य स्थाननियमाभावाद्यमकाभासोऽयं वृत्त्यनुप्रासः ।
प्ररुढग्रहणं वक्ष्यमाणप्रभेदवैलक्षण्यार्थं । यदाहुः-ऽशब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात्ऽ । इति ।
प्ररुढमिति । तथाभासनं विश्रान्तेः । यथा-
ऽतदन्वये शुद्धमति प्रसूतः शुद्धिमत्तमः ।
दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविवऽ ।।
अत्रेन्दुरिति । अत्रिनेत्रक्षीरोदजन्मत्वादिन्दोर्द्वित्वान्नैतत्प्ररुढमिति न कार्यम्, कविसमये तथात्वस्याप्रतीतेः । आहुरित्याक्षपादाः । अन्तत्रानुवादिति । अनुवादे हि शब्दार्थयोः पुनर्वचनं क्रियमाणं न दोषाय । अक्रियमाणं पुनर्देषाय भवतीति भावः । यथा -
ऽउदेति रक्तः सविता रक्त एवास्तमेति च ।
संपत्तौ च विपत्तौ च महातामेकरूपताऽ ।।
अत्र रक्त इति ।
ऽशिरः शार्वं स्वर्गात्पशुपतिशिरस्तः क्षितिधरं महीध्रादुत्तुङ्गादवनिमवनेश्रापि जलधिं ।
अधोधो गङ्गावदूयमुपगता नूनमथवा विवेकभ्रष्टानां भवति विनिपातः शतमुखःऽ ।।
अत्रार्थपौनरुक्त्येऽपि शब्दस्यापुनर्वचनं प्रतीत्यन्तरजनकत्वाद्दोषः ।
तदेवाप्ररुढमलङ्कार इत्याह-तात्पर्येत्यादि ।
तात्पर्यमन्यपरत्वं । तदेव भिद्यते, न शब्दार्थ-स्वरूपं । यथा-
ऽताला जान्ति गुणा जाला दे सहिअएहिं घेप्पन्ति ।
रैकिरणाणुगाहिआइं हाएन्ति कमलाइं कमलाइंऽ ।।
ऽब्रूमः कियन्नय कथञ्चन कालमल्पं
अत्राब्जपत्रनयने नयने निमील्य ।
हेमाम्बुजं तरुणि तत्तरसापहृत्य
देवद्विषोऽयमहमागत इत्यवेहिऽ ।।
इत्यादौ विभक्त्तयादेरपौनरुक्त्येऽपि बहुतरशब्दार्थपौनरुक्त्याल्लाटानुप्रासत्वमेव ।
ऽकाशाः काशा इवाभान्ति सरांसीव सरांसि च ।
चेतांस्याचिक्षिपुर्यूनां निम्रगा निम्रगा इवऽ ।।
इत्यादावनन्वयेन सहास्यैकाभिधानलक्षणो न संकरः । अन्योन्यापेक्षया शब्दार्थगतत्वेनार्थमात्रगतत्वेन च व्यवस्थिकेर्भिन्नविषयत्वात् ।
ऽअनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकं ।
अस्मिंस्तु लाटानुप्रासे साक्षादेव प्रयोजकम्ऽ ।।
निगदव्याख्यातमेतत् ।
अन्यपरत्वमिति । एकस्य वाच्यविश्रान्तत्वेऽन्यस्य लक्ष्ये व्यङ्ग्ये वार्थेवाच्यविश्रान्तिरित्यर्थः । भिद्यत इति पर्यवसाने । आमुखे हि शब्दवदर्थस्याप्येकत्वेनैवावभासः । अत एवाह-न शब्दार्थस्वरूपमिति । एवं च नायं द्वयोर्वाच्यविश्रान्तत्वेऽनुवादमात्रमलङ्कारः । नहि दोषाभावमात्रमलङ्कारस्वरूपं । एवं हि सत्प्रपशब्दाद्यभावस्याप्यलङ्कारत्वप्रसङ्गः । यत्परमादावुक्तं तत्परमेव पुनर्नोच्यते इत्येव सामान्येन यद्यन्यपरत्वमुच्यते तद्विरोधादिवत्ऽउदेति रक्तिः सविता-ऽ इत्यादौ दोषाभावमात्रत्वेप्यलङ्कारत्वोचितस्यान्यपरत्वाख्यस्यातिशयस्यापि भावालङ्कारत्वप्रसङ्गः । न चैतावतैव कश्चिदतिशयप्रतीयते इति यथोक्तमेव युक्तं । एकः कमलशब्दो वाच्यपर्यवसितः अन्यश्च सौरभबन्धुरत्वाद्यनेकधर्मनिष्ठ इति तात्पर्यभेदः ।
ब्रुमः कियदिति । अत्र अब्जशब्दस्याप्यपौनरुक्त्यात्लाटानुप्रासत्वमेवेति चिन्त्यं । अत्र हि द्वयोरपि नयनशब्दयोर्वाच्यविश्रन्तत्वादन्यपरत्वाभावान्नास्ति तात्पर्यभेदः । स एव ह्यस्य जीवितं । अन्यथा ह्यनुप्रासमात्रत्वं स्यान्नालङ्कारत्वं । अथापि केवलनयनशब्दस्यस्वार्थविश्रान्तिः संसर्गपदान्तर्गतस्तय पुनः स्वार्थमुपसर्जनीकृत्य संज्ञिनमभिगधमश्च स्वार्थत्यागात्परार्थेच वृत्तिरस्त्येव लक्ष्यनिष्टत्वमिति चेत्, नैतत् । लक्षणासामग्रधभावात् । अत्र ह्यन्यपदार्थप्रधानत्वान्नयनशब्दस्य गुणीभावः, न मुख्यार्थबाधः । स्वार्थ एव विश्रान्तेः । न च गुणीभावमुख्यार्थबाधयोर्कत्वं । सतो हि मुख्यार्थस्य कञ्चिदपेक्ष्य गुणीभावः । बाधः पुनः स्वस्मिन्नेवाविश्रान्तिरित्यनयार्महान्भेदः । नाप्यत्र किञ्चित्प्रयोजनं न वा रुढिरियमित्येतत्पौनरुक्त्यमात्रं । एवम्-
ऽसितकरकररुचिरविभा विभाकराकार धरणिधर कीर्तिः ।
पौनषकमला कमला सापि तवैवास्ति नान्यस्यऽ ।।
इत्यादावपि घज्ञेयं । चमत्कारस्त्वत्रानुप्रासकृतोऽवसेयः । नन्वनन्वयेऽपि शब्दपौनरुक्त्यं दृश्यत इति तत्रापि किमयमेवालङ्कारः किमु स एवेत्याशङ्क्यह-अनन्वय इत्यादि । आनुषङ्गिकमिति । न पुनः साक्षात्प्रयोजकमित्यर्थः । शब्दैक्यं विनाप्यनन्वयस्य प्रतिपादनात् । अत्र हि शब्दैक्यं क्वचिदक्रियमाणमनौचित्यमावहति क्वचिन्नेति भावः । तत्त यथा-
ऽयच्चक्षुर्जगतां सहस्त्रकरवद्धाम्नां च धामार्कव-
न्मोन्नद्वारमपावृत्तं च रविवद्ध्वान्तान्तकृत्सूर्यवत् ।
आत्मा सर्वशरीरिणां सवितृवत्तिग्मांशुवत्कालकृत्
साध्वीं नः स गिरः ददातु दिनकृद्योन्यैरतुल्योपमःऽ ।।
अत्र सहस्त्रकरादयोऽन्य इवाभासमाना अनन्वयप्रतीतिं विघ्नयन्तीति शब्दैक्याभावोऽनौचित्यमावहति, न पुनरनन्वयस्याभावं ।
ऽस्थैर्याद्भूर्व्यापकत्वाद्वियदखिलजगत्प्राणभावान्नभस्वान्
भास्वान्विश्वप्रकाशाद्युगपदपि सुधासूतिराह्लादनाच्च ।
वह्निः संहारकत्वाज्जलमखिलजनाप्यायनाच्चोपमानं
सत्यात्मत्वेऽपि यस्य प्रभवतु भवतां सोऽष्टमूर्तिः शिवायऽ ।।
अत्र निर्विघ्नमेवानन्वयस्य प्रतीतेः शब्दैक्यभावो नानैचित्यावहः । तुशब्दो व्यतिरेके । शाक्षादिति । शब्दैक्यं विनास्यानुत्थानात् ।
एतदेवोपसंहरति-तदेवमित्यादि । पुन रुक्तवदाभासमर्थपौनरुक्त्याश्रितं,छेकानुप्रासादयस्त्रयः शब्दपौनरुक्त्याश्रयाः । लाटानुप्रासस्तूभयाश्रितं इति पञ्च पौनरुक्त्याश्रिता अलङ्काराः । यद्यप्युक्तेः शब्दार्थगतत्वेनोच्चरणाभिधानतया भेदात्सामान्याभावात्कस्य पञ्चप्रकारत्वं तथापि तस्या द्वयोरप्यनुगमादेकत्वेन प्रतीतेरुक्तिसामान्यनिबन्धनमेव प्रकारिप्रकारभाववचनं । यच्चार्थभेदेन शब्दस्यापि भिन्नत्वं तदवास्तवं । प्रतीतावेकतयैवावभासात् । अत एवानेकार्थवर्गादिष्वपि तथात्वेनैव व्यवहारः ।
पौनरुक्तक्यप्रस्तावे स्थानविशेषश्लिष्टवर्णपौनरुक्त्यात्मकं चित्रवचनं । यद्यपि लिप्यक्षराणां खङ्गादिसंनिवेशविशिष्टत्वं तथापि श्रोत्राकाशसमवेतवर्णात्मकशब्दाभेदेन तेषां लोके प्रतीतेर्वाचकशब्दालङ्कारोऽयं । आदिप्रहणाद्यथाव्युत्पत्तिसंभवं पद्मबन्धादिपरिग्रहः । यथा-
ऽभासते प्रतिभासार रसाभाता हताविभा ।
भावितात्माशुभावादे देवाभा बत सभाऽ ।।
एषोऽष्टदलपद्मबनधः । अत्र दिग्दलेषु निर्गमप्रवेशाभ्यां श्लिष्टाक्षरत्वं । विविग्दलेषु त्वन्यथा । कर्णिकाक्षरं तु श्लिष्टमेव ।
वर्णानामित्यादि । उच्चारणकाले स्थानविशेषश्लिष्टवर्णात्मकखङ्गदिसंनिवेशस्या भावात्पोनरुक्त्यप्रतीतिर्नात्रेति किमाश्रयोऽयमलङ्कार इत्याशङ्क्याह-यद्यपीत्यादि । लिप्यक्षराणां मषीबिन्दुरूपाणां श्रूयमाणतासतत्त्ववर्णशब्दाभेदप्रतिपत्त्या औपचारिकोऽयं शब्दालङ्कार इति तात्पर्यार्थः । आदिग्रहणं सफलयितुं पद्मबन्धेनोदाहरति-भासतेत्यादि । खङ्गबन्धः पुनर्यथा-
ऽस पात्रीभविता मोक्ष्क्षणलक्ष्म्या भवारसः ।
समस्तजनतायाससमुद्राभिन्नताभिदःऽ ।।
श्लिष्टमेवेति । अष्टदिक्कमपि निर्गमप्रवेक्षयोः ।
अर्थालङ्कारप्रकरणमिदं । उपमानोपमेययोरित्यप्रतीतोपमानोपमेयनिषेधार्थं । साध्र्म्ये त्रयः प्रकाराः । भेदप्राधान्यं व्यतिरेकादिवत् । अभेदप्राधान्यं रूपकादिवत् । द्वयोस्तुल्यत्वं यथास्यां । यदाहुः-ऽयत्र किञ्चित्सामान्यं कश्चिञ्च विशेषः स विषयः सदृशतायाःऽ इति । उपमैवनेकप्रकारवैचित्र्येणानेकालङ्कारबूजभूतेति प्रथमं निर्दिष्टा । अस्याश्च पूर्णालुत्पात्वभेदाञ्चिरन्तनैर्बहुविधन्वमुक्तं । तत्रापि साधारणधर्म्स्य क्वचिदनुरागामितयैकरूप्येण निर्देशः, क्वचिद्वस्तुप्रतिवस्तुभावेन पृथङ्निर्देशः । पृथङ्निर्देशे च संबन्धिभेदमात्रं प्रतिवस्तूपमावत्, बिम्बप्रतिबिम्बभावो वा दृष्टान्तवत् । क्रमेणोदाहरणं -
ऽप्रङामहत्या शिखयेव दीपस्त्रिमार्गेव त्रिविदस्य मार्गः ।
संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्चऽ ।।
ऽयान्त्या मुहुर्वलितकन्धरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या ।
दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षःऽ ।।
अत्र वलुतत्वावृत्तत्वे संबन्धिभेदाद्भिन्ने । धर्म्यभिप्रायेण तु बिम्बप्रतिबिम्बत्वमेव ।
ऽपाण्ड्योऽयमंसार्पितलम्बहारः क्ल्त्पाङ्गरागो हरिचिन्दनेन ।
आभाति बालातपरक्तसानुः सनिर्झरोद्गर इवाद्रिराजःऽ ।।
अत्र हाराङ्करागयोर्निर्झरबालातपौ प्रतिबिम्बत्वेन निर्दिष्टौ ।
उपमानेत्यादि । अर्थेति । शब्दालङ्कारनिर्णयानन्तरमवसरप्रात्पमित्यर्थः । ननूपमानोपमेययोरेव साधर्म्यं संभवति न कार्यकारणादिकयोरिति किं तदुपादानेनेत्याशङ्क्याह-उपमानेत्यादि । तत्रोपमानस्याप्रतीतत्वं लिङ्गभेदादिना प्राच्यैरुक्तं । यथा-
ऽकटु कणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव ।
मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इवऽ ।।
अत्र कणनादेर्धर्मस्योपमानेऽन्यतां करोतीति लिङ्गभेदो दुष्टः । यद्यपि साधारणधर्मस्योभयसंबन्धसंभवेऽपि सिद्धत्वादुपमाने तत्संबन्धस्य स्वयमेवावगमात्तस्य न शाब्दता युक्तेत्युपमानपारतन्त्र्येण लिङ्गादिविपरिणामो न कार्यं इति न लिङ्गभेदादेर्दुष्यत्वम्,तथाप्युपमानवाक्यस्य साकाङ्क्षत्वात्प्रतीतिविश्रान्तेः शाब्दस्तत्संबन्ध उपयुक्त एव । नहि प्रभामहत्यादावुपमानवाक्ये पूतत्वादिसंबन्धं विना समन्वयविश्रान्तिः स्यात् । केवलं समानधर्मस्योपमेये विधीयमानत्वमुपमाने चानूद्यमानत्वमितीयानेव विशेषः । तदुभयत्रापि तत्संबन्धस्यावश्योपयोगादुपपद्यत एव समानधर्मस्यानुगामित्वं । तल्लिङ्गभेदादेरपि दुष्टत्वं युक्तं । उपमेयस्याप्रतीतत्वमवर्णनीयस्यापि वर्णनीयत्वं । यथा-
ऽगौरः सुपीवराभोगो रण्डाया मुण्डितो भगः ।
मेरोरर्कहयोल्लीढ-शष्प-हेम-तटायतेऽ ।।
अत्र तन्वङ्ग्या रूपवर्णने भगवर्णनमनौचित्यावहमित्युपमेयस्याप्रतीतत्वं ।
भेदाभेदतुल्यत्वं व्याख्यातुं साधर्म्यस्य विषयविभागेण व्यवस्थितिं दर्शयति-साधर्म्य इत्यादिना । एतैनेव च त्रिभिः प्रकारैः साधर्म्याश्रयः समग्र एवालङ्कारवर्गः संगृहीतः । तेन व्यतिरेकवदित्यनेन सहोक्त्यादयः संगृहीताः रूपकवदित्यनेन परिणामोत्प्रेक्षादयः । किन्तु रूपकोत्प्रेक्षयोरभेदप्राधान्यसद्भावेऽप्यारोपाध्यवसायकृत एव विशेषः । यद्वक्ष्यति-ऽआरोपादभेदेऽध्ववसायः प्रकृष्यतेऽ इति । अतश्चाध्यवसायगर्भेष्वलङ्कारेषु शुद्धाभेदरूपश्चतुर्थः प्रकारो न कश्चिदाशङ्कनीयः । तत्राप्यभेदाप्राधान्यस्यैव भावात् । अनयाप्युपमेयोपमादयः संगृहीताः सामान्यमित्यभेदहेतुकं । विशेष इति भेदहेतुकः । एवं च भेदाभेदतुल्यत्वविषये यः सादृश्यप्रत्ययो जायते तस्योपमाविषयत्वमुक्तं । ननु च सत्स्वप्यनेकेष्वर्थालङ्कारेषु प्रथममियमेव किं निर्दिष्टेत्याशङ्क्याह-उपमैवेत्यादि । अनेकेऽलङ्काराः साधर्म्याश्रयाः तत्रैवास्य बीजत्वात् । उक्तमिति ।
ऽसाधर्म्यमुपमा भेदे पूर्णा लुत्पा च साग्रिमा ।
श्रौत्यार्थीं च भवेद्वाक्ये समासे तद्विते तथाऽ ।। इत्यादिना ।।
अतश्च किमस्माकं तदाविष्कारणेनेति भावः । एवं च तेषां गणने तथा न वैचित्र्यं किञ्चिदिति सूचितं ।
तत्रापीति । चिरन्तनोक्ते पूर्णत्वादिभेदनिर्देशे सत्यपीत्यर्थः । साधारणधर्मस्येति । धर्मः पराश्रितः, तस्य च तदतद्गामित्वात्साधारणत्वं । तदेव चोपमाद्यत्थाने निमित्तं । स च चतुष्टयी शब्दानां प्रवृत्तिःऽ इति महाभाष्यप्रक्रियया जातिगुणक्रियाद्रव्यात्मकेषु धर्मिष्वेवंरूप एव भवति । न चैतद्विरुध्यते । धर्मिधर्मभावस्य न वास्तवत्वं । जात्याद्यात्मनो धर्मिणोऽपि कदाचिदन्याश्रितत्वे धर्मत्वात् । एवं च तदतिरिक्तं धर्ममात्रमपि साधारणं न किञ्चिद्वाच्यं । चतुष्टय्या एव शब्दानां प्रवृत्तेरुक्ततत्वात् ।
ऽसदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति ।
अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूमिवऽ ।।
इत्यादावुपमानादौ क्रियारूपत्वादेर्योजयितुं शक्यत्वात्तस्य एव च समग्रविषयावगाहनसहिष्णुत्वात् । ननु जातेः साधारणधर्मत्वे तज्जातीयत्वात्तत्त्वं न स्यात्, न सदृशत्वमिति कथमुपमाङ्गत्वमस्याः स्यादिति चेत्, न । बिम्बप्रतिबिम्बभावाश्रयेण तथात्वाभावात् । तत्र ह्यसकृन्निर्देशाद्द्वयोर्हारादिकयोर्जात्योः श्वैत्याद्यभेदनिमित्तावलम्बनेनैकत्वमाश्रित्य सादृश्यनिमित्तं साधारण्यं स्यात् । एतच्च सविस्तरमुपरिष्टाद्वक्ष्यामः ।
तत्र धर्मिणो जात्यादिरूपता यथा-
ऽघनोद्यानच्छायामिव मरुपथाद्, दावदहनात्
तुषाराभ्भोवापीमेव विषविपाकादिव सुधां ।
प्रवृद्धादुन्मादात्प्रकृतिमिव निस्तार्यविरहा-
ल्लभेय त्वद्भक्ति निरूपमरसां शङ्कर कदाऽ ।।
अत्र च्छायावापीसुधाप्रकृतीनामुपमानानां जातिगुणद्रव्यक्रियात्वं । छायायस्तु जातिरूपत्वाद्गुणत्वं नाशङ्कनीयं । उपमेयस्य पुनरेतत्स्वयमेवाभ्यूह्यं ।
धर्माणां तु यथा-
ऽवैदेहि पश्या मलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिं ।
छायापथेनेव शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम्ऽ ।।
अत्र विभक्तमित्यस्य क्रियात्वं रामसेतुच्छायापथयोर्द्रव्यत्वं फेनतारकाणां जातित्वं प्रसादस्य च गुणत्वं द्रव्यात्मकाकाशाम्बुराशिगत्तत्वेनोपनिबद्धं । एवं प्रकृतामेव महाभाष्यप्रक्रियामपहाय निनिमित्तमेव प्रक्रियान्तरमाश्रित्य यदन्यैरुक्तं तदयुक्तमेवेत्यलं बहुना । एवंविधस्य चास्य भावाभावरूपतया द्वैविध्यं । एतच्च न तथावैचित्र्यावहमिति ग्रन्थकृता नोक्तं ।
ऐकरूप्येणोति । सकृत् । यद्वक्ष्यति-ऽतत्र सामान्यधर्मस्येवाद्युपादाने सकृन्तिर्देश उपमाऽ इति । पृथङ्निर्देश इति । असकृदित्यर्थः । यद्वक्ष्यति-ऽवस्तुप्रतिवस्तुभावेनासकृन्निर्देशेऽपि सैवऽ इति । साधारणधर्मस्येत्यत्रापि संबन्धनीयं । वस्तुप्रतिवस्तुभावेऽपि द्वैविध्यमित्याह-पृथङ्निर्देशे इत्यादि । सम्बन्धिभेदमात्रमिति । न पुनः स्वरूपभेदः कश्चिदित्यर्थः । यद्वक्ष्यति-असकृन्निर्देशे शुद्धसामान्यरूपत्वं बिम्बप्रतिबिम्बभाव ए वाऽ इति । एतच्च भेदत्रयं प्रायः सर्वेषामेव सादृश्याश्रयाणामलङ्काराणां जीवितभूतत्वेन संभवतीत्यग्रत एव तत्र तत्रोदाहरिष्यामः । क्रमेणेति यथोद्देशं । सम्बन्धिभेदादिति । संबन्धिनोः कन्धरावृन्तयोर्भेदात् । न तु हारनिर्झरादिवत्स्वरूपतो भेदः । वस्तुत एकत्वाद्वलितत्वावृत्तत्वयोरभेदः । ननु यदि वलितत्वावृत्तत्वाख्यो धर्म आननशतपत्त्रयोः शुद्धसामान्यरूपतयोपात्तस्तद्धर्मी कन्धरावृन्तरूपः पुनः किंरूपतयेत्याशङ्क्याह-धर्म्यभिप्रायेणेत्यादि । एवकारः शुद्धसामान्यरूपत्वव्यवच्छेदकः । कन्धरावृन्तयोश्च यथोक्ते धर्मित्वेऽप्याननशतपत्र्तापेक्षया धर्मत्वमेव युक्तं । आश्रयाश्रयिभावेन धर्मिधर्मभावस्य भावात् । अत एवास्यावास्तवत्वं पूर्वमुक्तं । अतश्चाननशतपत्र्तापेक्षया इति न व्याख्येयं । तयोरुपमानोपमेयभाववाचोयुक्तेरेव युक्तत्वात् । एवं च सति कन्धरावृन्तयोः स्वरूपमनभिमतं स्यात् । अनेनैव च बिम्बप्रतिबिम्बभावस्य स्वरूपे दर्शितेऽप्यसंकीर्णप्रकटनाशयेन पुनःऽपाण्ड्योऽयम्ऽ इत्याद्युदाहृतं ।
हाराङ्गरागयोरिति । स्वरूपयोरिति शेषः । न चात्र बिम्बप्रतिबिम्बभावस्य विषयान्तरं प्रदर्श्य वाक्यार्थङ्गतामुपमाशङ्क्य गुणसाम्यनामा चतुर्थः प्रकारो वाच्यः । यावता हि साधारणधर्मनिबन्धनमुपमास्वरूपम्, स चात्र धर्मो निर्दिष्टानिर्दिष्टत्वेन द्विविधः । निर्देशपक्षे चास्य त्रैविध्यमुक्तं । अनिर्देशपक्षे चास्य न वैचित्र्यं किञ्चिदिति न तदाश्रयं भेदजातमुक्तं । अतश्चात्र निर्दिष्टः साधारणधर्मो व्यवस्थित इति का नाम चतुर्थप्रकारकल्पना । वाक्यार्थोपमागन्धोऽप्यत्र नास्ति । स ह्यनेकेषां धर्मिणां परस्परावच्छिन्नानां तादृशेरेव धर्मिभिः साम्ये भवति । यथा-
ऽजनयिच्याः कुलाल्याश्च रक्षित्र्या विदितोऽभयं ।
रत्नसूतेर्भुजङ्ग्याश्च प्रच्छन्न इव शेवधिःऽ ।।
अत्र जनयित्र्यादीनां रत्नसूत्यादीन्युपमानान्युपात्तानि । एतेषां धर्मित्वं च स्फुटमेव । बिम्बप्रतिबिम्बभावः पुनर्धर्मिविशेषप्रतिपादनोन्मुखानां धर्माणां भवति । परस्परावच्छिन्नत्वं यथात्रेव । अत्र हि हाराङ्गरागयोः पाण्ड्यस्य विशिष्टतापादनायैवोपादानं । इन्दुमतीं प्रति तस्य विशिष्टालम्बनविभावत्वेन विवक्षितत्वात् । अतश्च तयोः परस्परोन्मुखत्वात्स्वात्मन्येवाविश्रान्तिरिति का कथोपमेयतायाः । एवं पाण्ड्यस्याद्गिराजेन हारनिर्झरादिधर्मनिमित्तैवोपमा, तावन्मात्रेणैव सादृश्यपर्यवसानात् । तच्च हारादेः साधारणधर्मस्य बिम्बप्रतिबिम्बत्वाद्दृष्टान्तन्यायस्यैतत्सूदाहरणमेव ।
ननु हारनिर्झरयोस्तदतद्गामित्वाभावात्कथं साधारणधर्मतेति चेत्,उच्यते-
अस्यास्तावद्धर्मस्य साधारण्यं जीवितं । तच्च धर्मस्यैकत्वे भवति । न च वस्तुतोऽत्र धर्मस्यैकत्वं । नहि य एव मुखगतो लावण्यादिर्धर्मः स एव चन्द्रादौ, तस्यान्वयासंभवात् । अपि तु तज्जातीयोऽत्रान्योऽस्ति धर्मः । एवं धर्मयोर्भेदात्साधारणत्वाभावादुपमायाः स्वरूपनिष्पत्तिरेव न स्यात् । अथ धर्मयोरपि सादृश्यमभ्युपगम्यते तत्तत्रापि सादृश्यनिमित्तमन्यदन्वेष्यं । तत्राप्यन्यदित्यनवस्था स्यात् । ततश्च धर्मयोर्वस्तुतो भेदेऽपि प्रतीतावेकतावसायाद्भेदेऽप्यभेद इत्येतन्निमित्तमेकत्वमाश्रयणीयं । अन्यथा ह्यपमाया उत्थानमेव न स्यात् । एवमिहापि हारनिर्झरादीनां वस्तुप्रतिवस्तुतयोपात्तानां वस्तुतो भेदेऽप्यभेदविवक्षेत्येकत्वं ग्राह्यं । अन्यथा ह्येषां पाण्ड्याद्रिराजयोरौपभ्यसमुत्थाने निमित्तत्वमेव न स्यात् । न चैषामौपम्यं युक्तमिति समनन्तरमेवोक्तं । अत एवात्र बिम्बप्रतिबिम्बभावव्यपदेशः । लोको हि दर्पणादौ बिम्बात्प्रतिबिम्बस्य भेदेऽपि मदीयमेवात्र वदनं संक्रान्तमित्यभेदेनाभिमन्यते । अन्यथा हि प्रतिबिम्बगदर्शने कृशोऽह स्थूलोऽहमित्याद्यभिमानो नोदियात्भूषणविन्यासादौ च नायिका नाद्रियेरन् । प्रच्यैरपि-
ऽस मुनिर्लाच्छितो मौव्ज्या कृष्णाजिनपटं वहन् ।
व्यराजन्नीलजीमूतभागश्लिष्ट इवांशुमान्ऽ ।। इति ।।
तथा -
ऽस पीतवासाः प्रगृहीतशार्ङ्गो मनोघज्ञभीमं वपुराप कृष्णः ।
शतह्लदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघःऽ ।।
इत्यत्र मौञ्जीतडितोः शङ्खशशिनोश्च वस्तुतो भेदेऽप्यभेदविवक्षामेवाश्रित्यसाधारणधर्मस्य हीनत्वमाधिक्यं चोक्तं । अत एव चात्र पूर्वं ग्रन्थकृता वस्तुप्रतिवस्तुभाववद्वस्तुद्वयस्य प्राच्योक्तमेव व्यवहारं दर्शयितुं प्रतिवस्तूपमावद्दृष्टान्तवच्चेति तदुक्तमेवदृष्टान्तद्वयं दत्तं । एवं चात्राभेदविवक्षैव जीवितं ।
एषा च लक्ष्ये सुप्रचुरैव । यथा -
ऽविद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः
संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषं ।
अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः
प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैःऽ ।।
अत्र विद्युद्वनितादीनां मेघप्रासादविषिष्टताधायकतया धर्मत्वेनैवोपादानं । अत एव तैस्तैर्विशेषैरित्युक्तं । तेषां सकृन्निर्देशाभावान्नानुगामिता । एकार्थत्वाभावान्न शुध्दसामान्यरूपत्वमिति पारिशेष्याद्विम्बप्रतिबिम्बभाव एव । एतेषां चाभेदेनैव प्रतीतेः साधारणत्वं । एवं हारादेरपि ज्ञेयं । अभेदप्रतीतिश्चात्र सादृश्यनिमित्ता । न चैतावतैवैपामुपमानोपमेयत्वं वाच्यं । तथात्वाविवक्षणात् । सादृश्यस्य च सितत्वादिगुणयोगित्वं नाम निमित्तं । एवमभेदप्रतीतिमुखेनात्र हारादेः समानधर्मत्वं । क्वचिन्निमित्तान्तरेणाप्यभेदप्रतीतिर्भवति । यथा-
ऽद्वेप्योऽपि संमतः शिष्टस्तस्यार्तस्य यथैषधं ।
त्याज्यो दुष्टः प्रियोऽप्यासीद्दष्टोऽद्दगुष्ट इवाहिनाऽ ।।
अत्रोत्ररार्धे दष्टदुष्टयोर्देषकारित्वादिना एककार्यकारित्वमभेदकारणमित्यलं बहुना ।
इयं च द्वयोपरि प्रकृतयोरप्रकृतयोश्चौपम्ये समुच्चिता भवति । क्रमेण यथा-
’सदयं बुभुजॆ महाबः’ इत्यादि । अत्र वधूमेदिन्योरचिरोपनतत्वात्प्रकृतत्वेन सदयोपभोगे समुञ्चितत्वम् यथा-
ऽस्वरेण तस्याममृतस्त्रुतेव प्रजल्पितायामभिजातवाचि ।
अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव ताड्यमानाऽ ।।
अत्र भगवत्यपेक्षयान्यपुष्टावितन्त्र्योरप्रकृतयोः प्रतिकूलशब्दत्वे समुच्चितत्वं ।
इयमेकदेशविवर्तिन्यपि । यथा -
ऽकमलदलैरधरैरिव दशनैरिव केसरैर्विराजन्ते ।
अलिवलयैरलकैरिव कमलैर्वदनैरिव नलिन्यःऽ ।।
अत्र नलिनीनां नायिका उपमानत्वेन नोपात्ता इत्येकदेशविवर्तित्वं । इयं च सादृश्यदाढर्यार्थं कविप्रतिभाकल्पिते साधर्म्ये कल्पिता भवति । तच्च क्वचिदुपमेयगतत्वेन क्वचिदुपमानेनापि कल्पितमिति द्विधात्वमस्याः । यदुक्तम्-
ऽउपमेयस्य वैशिष्ट्यमुपमानस्य वा क्वचित्ऽ इति । वैधर्म्येणापि साधर्म्यमिति तृतीयः प्रकारः पुनरस्या न वाच्यः । अस्योपमायामेव संभवाद्दाढर्यप्रतिपादनप्रतीतेश्च ।
क्रमेण यथा-
ऽतं णमह णाहिणलिनं हरिणो गाणङ्कणाहिरामस्स ।
छप्पाछम्पिअगत्तो मलो व्व चन्दम्मि जत्थ विहीऽ ।।
अत्रोपमेयस्य षट्पदाच्छादितत्वं कल्पितं ।
"आवर्जिता किञ्चिदिव स्तनाभ्यां वासो वसानातरुणार्ककागं ।
संजातपुष्पस्तबकाभिनम्रा संचारिणी पल्लविनी लतेव ।। "
अत्रोपमानगतत्वेन संचारिणीत्वं कल्पितं । न चास्याः पृथग्लक्षणं वाच्यम्,द्वयोरौपम्यप्रतीतेः । सामान्यलक्षणस्यात्राप्यनुगमात् । अथात्र कल्पनास्तीति चेत्, न । एवं हि प्रतिभेदं लक्षणकरणप्रसङ्गः । समुच्चितत्वादेर्विशेषान्तरस्यापि भावात् । अथोपमानगुणविशिष्टोपमेयावगमफलत्वेनोपमायाः प्रतिभटभूतवस्त्वन्तराभावप्रयोजनत्वेन चास्याः पृथगलङ्कारत्वमिति चेत्, न । अत्रोपमेयस्योपमानोपमानगुणविशिष्टतयैव प्रतीतेः फलभेदाभावात् । तथा हिऽआवर्जिताऽ इत्यादौ भगवत्या लतायाः सादृश्यस्य संचारिणीत्वेनाभावो मा प्रसाङ्क्षीदिति तयोः साधर्म्यंमेव द्रुडयितुं कविना लतायाः संचारिणीत्वं कल्पितं । नन्वत्र भगवत्या अन्यदुपमानं नास्तीति प्रतीयते । अनन्वयादिवदुपमानान्तरनिषेधस्य वाक्यार्थत्वात् । मैवं । एवमुपमेयस्यापि वैशिष्ट्यकल्पने उपमेयान्तरनिषेधफलत्वं वाच्यं । समानन्यायत्वात् । तद्यथा दृढरोपे रूपके विषयविषयिणोरभेदमेव द्रढयितुं कस्यचिद्धर्मस्य हानिराधिक्यं वा कल्प्यते, तथेहापि सामान्यदार्ढ्ययैव कल्पितत्वं ज्ञेयं । अत्राप्यभेदालङ्काराख्यालङ्कारान्तरत्वं न वाच्यं । रूपकेणैवास्या विच्छ्रित्तेः संगृहीतत्वात् । विषयविषयिणोरभेदो हि रूपकसतत्त्वं । स एव चात्र दार्ढ्येन प्रतीयत इति को नामास्य रूपकात्पृथग्भावः । अभेदमात्रप्रतीतौ रूपकम्, नियतधर्महानावन्यतः सर्वतोऽप्यभेदप्रतीतावभेद इति प्रतीतिभेदोऽप्यस्तीति चेत्, न । एवं ह्यस्ति तावदभेदप्रतीतिरत्रानुगता । यस्तु वशेषः स पृथग्भेदत्वे व्यवस्थापकोऽस्तु न पृथगलङ्कारत्वे । नहिशाबलेयतामात्रेण गोत्वमश्चत्वव्यपदेश्यं भवति । एवं च-
ऽगृहीतविग्रहः कामो वसन्तः सार्वकालिकः ।
जहार हृदयं कामी नित्यपूर्णः सुधाकरःऽ ।।
इत्यादौ गृहीतविग्रहत्त्वादेर्नियतस्य धर्मस्याधिक्येऽप्यलङ्कारान्तरप्रसङ्गः । इयं च मालात्वादिनानन्तभेदेति तद्ग्रन्थविस्तरभयान्न प्रपञ्चितं ।
वाच्याभिप्रायेण पूर्वंरूपानुगमः । एकस्य तु विरुद्धधर्मसंसर्गो द्वितीयसव्रह्यचारिनिवृत्त्यर्थः । अत एवानन्वय इति योगोऽप्यत्र संभ्रवति । यथा-
ऽयुद्धेऽर्जुनोऽर्जुन इव प्रथितप्रतापो
भीमोऽपि भीम इव वैरिषु भीमकर्मा ।
न्यग्रोधवर्तिनमयाधिपतिं कुरुणा-
मुत्प्रासनार्थमिव जग्मतुरादरेणऽ ।।
एकस्यैवेत्यादि । ननु सादृश्याश्रयाणामलङ्काराणां लक्षयुतुं प्रस्तुतत्वात्सादृश्यस्योभयनिष्ठत्वेनैव संभवादेकस्य च तदभावात्कथमिहातदाश्रयस्याप्यस्य वचनमित्याशङ्क्याह-वाच्याभिप्रायेणेत्यादि ।
पूर्वरूपेति । सादृश्याश्रयत्वस्येत्यर्थः । अस्त्वेव ह्यत्र शाब्दी सादृश्यप्रतीतिः । मुखं चन्द्र इवेत्यादिवदेवात्रोपमानोपमेयत्वस्य वाच्यतयोपनिबन्धनात् । अत एवाह-वाच्याभिप्रायेणेति । न पुनर्वस्त्वभिप्रायेणेत्यर्थः । वस्तुतो ह्येकस्यैव साध्यसिद्धधर्मरूपत्वासंभवादुपमानोपमेयत्वेऽपि विरोधः स्यात् । इत्थं शाब्दमेव सादृश्यानुगममाश्रित्येहास्य लक्षणं । ननु यद्येवमेकस्योपमानोपमेयत्वं विरुध्यते तत्किं वस्तुविरुद्धेन निष्फलेन चैतेनेत्याशङ्क्याह-एकस्येत्यादि ।
एवं चास्य द्वितीयसब्रह्मचारिनिवृत्तिरेवालङ्कारत्वप्रतिष्ठापकं प्रमाणं । अन्यथा पुनर्नास्यालङ्कारत्वं । यथा-
ऽतस्याज्ञयैव परिपालयतः प्रजा मे कर्णोपकण्ठपलितङ्करिणी जरेयं ।
यद्गर्भरूपमिव मामनुशास्त सोऽयमद्यापि तन्मयि गुरोर्गुरूपक्षपातःऽ ।।
अत्र यथैव गर्भरूपं मां गुरुरन्वशात्तथैवाद्याप्यनुशास्तीति सत्यप्येकस्योपमानोपमेयत्वे द्वितीयसब्रह्मचारि निवृत्तिप्रतिपत्त्यभावान्नायमलङ्कारः । एकस्यैवास्थाभेदेन च सिद्धसाध्यधर्मसंभवान्नोपमानोपमेयत्वरूपविरुद्धधर्मसंसर्गः । अत एवेति । विरुद्धधर्मंसंयोगात् । एकस्यैव सिद्धसाध्यरूपेणोपमानोपमेयत्वेनाविद्यभानोऽन्वयः संबन्धो यत्र स तथोक्तः । अर्जुनादन्यो युद्धे प्रथितप्रतापो नास्तीति द्वितायसब्रह्मचारिनिवृत्तिरत्र जीवितभूता प्रतीयत एव । अत एव कार्तवीर्यहिंस्त्रमत्त्वयोरुपमानरूपयोरप्रतीतेः शुद्धमेवैतदुदाहरणं ।
ऽइत्तिअमेतुम्मि जए सुन्दरमहिलासहस्सभरिअम्मि ।
अणुहरै णवरं तिस्सा,वामाद्धं दाहिणद्धस्सऽ ।।
इत्यादौ चानन्वयोदाहरणत्वं न वाच्यं । अत्रान्याधनान्यार्धस्योपमीयमानत्वेनोपमाया अभिधीयमानत्वात् । अस्य ह्युपमानान्तरनिषेधपर्यवसाय्यभिधीयमानमेकस्यैवोपमानोपमेयत्वं स्वरूपं । न च तदत्र शब्देनाभिधीयतेऽपि तु व्यज्यत इति प्रतीयमानतैव युक्तेति न वाच्यत्वमस्येतिवाच्यं । एवं ह्यलङ्कादध्वनेर्विषयापहारः स्यात् । एवम्-
ऽगन्धेन सिन्धुरधुरन्धर वक्त्कमैत्त्रीमैरावणप्रभृतयोऽपि न शिक्षितास्ते ।
तत्त्वं कचत्र्तिनयनाचलरत्नभित्तिस्वीयप्रतिच्छ्रविषु यूथपतित्वमेषऽ ।।
इत्यत्राप्यनन्वयो न वाच्यः । स्वीयप्रतिबिम्बैरेव सादृश्यप्रतीतेस्तद्गन्धस्याप्यभावात् । यदि नाम चैतत्प्रतीयेत तदप्यस्य प्रतीयमानत्वं स्यान्न वाच्यत्वं । यथोक्तन्यायात् । एवं च तदेकदेशेनावसितभेदेन वेत्यपास्य उपमानतया कल्पितेन तेनैव सादृश्यमनन्वय इत्येव त्वया सूत्रणीयं ।
ऽग्रसमानमिवौजांसि सदस्यैर्गौरवेरितं ।
नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान्पुमान्ऽ ।।
इत्यत्र पुंसः पुंस्त्वारोपादनन्वयरूपकमिति यदन्यैरुक्तं तदयुक्तं । एकस्यैव विध्यनुवादभावेनावस्थानादारोपाभावात् ।
तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्शः । पर्यायो यौगपद्याभावः । अत एवात्र वाक्यभेदः । इयं च धर्मस्य साधारण्ये वस्तुप्रतिवस्तुनिर्देशे च द्विधा । आद्ये यथा-
ऽखमिव जलं जलमिव खं हंसश्चन्द्र इव हंस इव चन्द्रः ।
कुमुदाकारास्तारास्ताराकाराणि कुमुदानिऽ ।।
द्वितीये यथा-
ऽसच्छायाभ्भोजवदनाः सच्छायवदनाम्बुजा ।
वाप्योऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गनाःऽ ।।
द्वयोरित्यादि । द्वयीरित्युपमानोपमेययोः, न पुनर्द्धिसंख्याकयोः । तेन,
ऽकान्ताननस्य कमलस्य सुधाकरस्य पूर्वं परस्परमभूदुपमानभावः ।
सद्यो जरातुहिनराहुपराहतानामन्यः परस्परमसावरसः प्रसूतःऽ ।।
इत्यत्र त्रयाणामप्युपमानोपमेयत्वं स्थितमस्या एवाङ्गं । तच्छब्देनेति तस्मिन्नित्यनेन । यौगपद्याभाव इति क्रमरूपत्वात् । अत इति यौगपद्याभावात् । स च वाक्यभेदः शाब्द आर्थश्च । तत्र शाब्दो यथा -
ऽरजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसंनिभैः ।
भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम्ऽ ।।
अत्र भुवस्तलं व्योमेव कुवंन्निति वाक्यपरिनिष्पत्तेः स्फुट एव शाब्दो वाक्यभेदः । ओआर्थो यथा -
ऽभवत्पादाश्रयादेव गङ्गा भक्तिश्च शाश्वती ।
इतरेतरसादृश्यसुभगामेति वान्द्यताम्ऽ ।।
अत्र स्फुटेऽपि शाब्दे एकवाक्यत्वे गङ्गाभक्तिवद्भक्तिश्च गङ्गावद्वन्द्येत्यस्त्येवार्थो वाक्यभेदः । अस्याश्चो पमानान्तरतिरस्कार एव फलं । अत एवोपमेयेनोपमा इत्यस्या अन्वर्थाभिधानं । यत्र पुनरुपमानान्तरतिरस्कारो न प्रतीयते तत्र नायमलङ्कारः । यथा-
ऽसविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः ।
यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसिऽ ।।
न ह्यत्र विधुसवित्रादीनामुपमानान्तरतिरस्करणं विवक्षितं किं तु सुखदुःखवशीकृतमनसामेवं विपरीतं भवतीति ।
साधारण्य इति । एतच्च धर्मस्य निर्देशानिर्देशरूपपक्षद्वययागूरकत्वेनोक्तं । तत्र निर्देशपक्षेसाधारण्यमस्ति तथाप्यत्र सकृन्तिर्देशेनैवानुगतत्वात्तदुपलम्भः स्फुट इत्यत्र भावः । अनिर्देशपक्षे तु वास्तवमेव साधारण्यं । यदनुसारं खमिव जलमित्याद्यदाहृतं । धर्मस्यानुगामित्वे तु यथा-
ऽकमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः ।
धरणीव धृतिर्धृतिरिव धरणी सततं विभाति बत यस्यऽ ।।
अत्र विभातीति सकृन्निर्दिष्टं । वस्तुप्रतिवस्तुनिर्देशश्च पूर्ववदिहापि शुद्धसामान्यरूपत्वबिम्बप्रतिबिम्बभावाभ्यां द्विधा । तत्र बिम्बप्रतिबिम्बभावो ग्रन्थकृतैवोदाहृतः । तत्र ह्यभ्भोजवदनयोर्बिम्बप्रतिबिम्बभावः । शुद्धसामान्यरूपत्वं यथा-
ऽतद्वल्गुना युगपदुन्मिषितेन तावत्सद्यः परस्परतुलापधिरोहतां द्वे ।
प्रस्पन्दमानपरुषेतरतारमन्तश्चक्षुस्तव प्रलचितभ्रमरं च पद्मम्ऽ ।।
(अत्र) प्रत्पन्दमानप्रचलितत्वेन शुद्धसामान्यरूपत्वं । तारकभ्रमरयोस्तु बिम्बप्रतिबिम्बभावः । उन्मेषाभिप्रायेण चानुगामितेति भेदत्रयस्याप्येतदुदाहरणं ।
वस्त्वन्तरं सदृशमेव । अविनाभावाभावान्नानुमानं । यथा-
ऽअतिशयितसुरासुरप्राभावं शिशुमवलोक्य तथैव तुल्यरूपं ।
कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामिऽ ।।
सादृश्यं विना तु स्मृतिर्नायमलङ्कारः । यछा-
ऽअत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः ।
रहस्त्वदुत्सङ्गनिषण्णामूर्धा स्मरामि वानीरगृहेषु सुत्पःऽ ।।
अत्र च कर्तृविशेषणानां स्मर्तव्यदशाभावित्वे स्मतृदशाभावित्वमसमीचीनं ।
१५ ।। ।
सदृशेति । वस्त्वन्तरमिति स्मर्यमाणं । सदृशमेवेति । सादृश्यस्योभयनिष्ठत्वात् । अतश्च स्मर्यमाणेनानुभूयमानस्य,अनुभूयमानेन वा स्मर्यमाणस्य सादृश्यपरिकल्पनमयमलङ्कारः । यदुक्तं -
ऽयथा दृश्येन जनिता साम्यधीः स्मर्यमाणगा ।
स्मर्यमाणकृताप्यस्ति तथेयं दृश्यगामिनीऽ ।। इति ।।
तत्राद्यः प्रकारो ग्रन्थकृदुदाहरणे । तत्र हि शिशोरेव रघुनन्दनेन सादृश्यं विवक्षितं । द्वितायस्तु यथा -
ऽतस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः ।
मङ्गेहिन्याः प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामिऽ ।।
अत्रानुभूयमानेन मेघेन स्मर्यमाणस्य क्रीडाशैलस्य सादृश्यपरिकल्पनं । एवं चात्र सादृश्यस्योभयसंबन्धेऽप्यनुभूयमानेनैव पुनः स्मर्यमाणप्रतीतिर्भवतीत्यवसेयं ।
ननु यद्येवं तत्परस्मात्परप्रतिपत्तेः किं नेदमनुमानमित्याशङ्क्याह-अविनाभावित्यादि । अविनीभावस्तादात्म्यान्नित्यसाहचर्याहुः । अनुभूयमानस्मर्यमाणयोश्च तदभावः । शिशुरघुनन्दनयोः सादृश्यपरिकल्पने चातिशचितसुरात्पुरभावत्वादिधर्मोऽनुगामितया निर्दिष्टः । वस्तुप्रतिवस्तुभावेनापि धर्मस्यायं भवति । तत्र शुद्धसामान्यरूपत्वेन यथा-
ऽसान्द्रां मुदं यच्छतु नन्दको वः सोल्लासलक्ष्मीप्रतिबिम्बगर्भः ।
ऽकुर्वन्नाजस्त्रं यमुनाप्रवाहसलीलराधास्मरणं मुरारेःऽ ।।
अत्र सोल्लाससलीलत्वयोरेकत्वं । बिम्बप्रतिबिम्बभावेनापि यथा -
ऽपूर्णेन्दुना मघलवाङ्कितेन द्यां मुद्रितां सुन्दरि वीक्षमाणः ।
विवाहहोमानलधूमलेखामिलत्कपोलां भवतीं स्मरामिऽ ।।
अत्र मेघलवधूमलेखादीनां बिम्बप्रतिबिम्बभावः । एतदेव सादृश्यनिमित्तत्वं द्रढयितुं प्रत्युदाहरति-सादृश्यमित्यादिना । सदृशानुभवाभावात्तत्स्मृतेर्न सादृश्यहेतुकत्वं । स्मर्तव्यदशाभावित्व इति । स्मर्तव्यदशाभावित्वं वाच्यं सदनादृश्येत्यर्थः । अत एव वाच्यस्यावचनं । स्मर्तृदशाभावित्वमित्यत्यवाच्यस्य वचनं । यद्यपि स्मर्तृदशायामतीतत्वात्कर्तृविशेषणानां मृगयानिवृत्तित्वादीनामप्यतीतकालावच्छिन्नानां तद्भावित्वं तथापि वर्तमानकालावच्छिन्नस्य स्मर्तुर्विशेषणभावेनोपनिबन्धात्तेषां तदवच्छिन्नतैव प्रतीयत इति यथोक्तमेव दूषणद्वयं युक्तमिति सहृदया एव प्रमाणं ।
१५ । १ ।
प्रेयोलङ्कारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिर्विषयः । यथा ऽअहो कोपेऽपि कान्तं मुखम्ऽ इति । तत्रापि विभावाद्यागूरितत्वेन स्वशब्दमात्रप्रतिपाद्यात्वे यथा-ऽअत्रानुगादम्ऽ इत्यादि ।
ऽयैर्दृष्टोऽसि तदा ललाटपतितप्रासप्रहारो युधि
स्फीतासृक्स्त्रुतिपाटलीकृतपुरोभागः परान्पातयन् ।
तेषां दुःसहकामदेहदहनप्रोद्भतनेत्रानल-
ज्वालालीभरभास्वरे स्मरिपावस्तं गतं कौतुकम्ऽ ।।
इत्यादौ सदृशवस्त्वन्तरानुभवेऽशक्यवस्त्वन्तरकरणात्मा विशेषालङ्कारः, कारणस्य क्रियासामान्यात्मनो दर्शिनेऽपि संभवात् । मतान्तरे काव्यलिङ्गमेतत् । तदेते सादृश्याश्रयेण भेदाभेदतुल्यत्वेनालङ्कारा निर्णीताः" ।
प्रत्युदाहरणान्तरमपि दर्शयति-प्रेयोलङ्कारस्येत्यादिना । तुशब्दश्चार्थे । सादृश्यव्यतिरिक्तं संस्कारादिनिमित्तं । तत्रापीति । एवं स्थितेऽपि सतीत्यर्थः । विभावाद्यागूरितत्वे प्रेयोलङ्कारस्य सादृश्यव्यतिरिक्तनिमित्ततोत्थापिता स्मृतिर्विषय इति संबन्धः । तत्र विभावाद्यागूरितत्वे स्मृतिर्यथा-ऽअहो कोपेऽपि कान्तं मुखम्ऽ इति । स्वशब्दमात्रप्रतिपाद्यत्वे यथोदाहृतम्ऽअत्रानुगोदम्ऽ- इत्यादौ ।
अत्र च यथा प्रेयोलङ्कारो भावध्वनेश्चास्य यथा भिन्नविषयत्वं तथाग्र एव वक्ष्यामः । एवं च प्रत्युदाहरणद्वयस्यापि प्रयोजनं भिन्नविषयत्वात् ।
क्वचिच्च सादृश्यनिमित्तापि स्मृतिरवाक्यार्थत्वान्नास्मिन्पर्यवस्यतीत्याह-ऽयैर्दृष्टोऽसि-ऽ इत्यादि । वस्त्वत्र जयापीडदर्शनं । वस्त्वन्तरं तु भगवल्लक्षणं । अत्र त्वद्दर्शनमभिलषतां जनानां न त्वद्दर्शनावात्पिरेवाभूद्यावत्तेषामसंभाव्यं भगवद्र्शनमपि जातमित्यशक्यवस्त्वन्तरकरणं ।
विशेषालङ्कारस्य ह्यशक्यवस्त्वन्तरकरणं रूपम्, इह पुनरशक्यवस्त्वन्तरदर्शनं स्थितमिति कथमत्र विशेषालङ्कार इत्याशङ्क्याह-करणस्येत्यादि । एतच्च गम्यगमकभावमाश्रित्यान्यैः काव्यलिङ्गत्वेनाभ्युपगतमिति दर्शयितुमाह-मतान्तर इत्यादि । एतदिति स्मरणं । मतान्तर इत्यौद्भटे । यदुक्तम्-
ऽश्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा ।
हेतुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यतेऽ ।। इति ।।
इह पुनर्गम्यगमकभावादनुभूयमानस्मर्यमाणव्यवहारोऽपि विशिष्यत इति पृथगलङ्कारतयैतदुक्तं । एतदुसंहरन्नन्यदवतारयति-तदेत इत्यादि । एत इत्युपमाद्याश्चत्वारोऽलङ्काराः ।
अभेदस्य प्राधान्याद्भेदस्य वस्तुतः सद्भावः । अन्यत्रान्यावाप आरोपः । तस्य विषयविषय्यवष्टब्धत्वाद्विषयस्यापह्नवेऽपह्नुतिः । अन्यथा तु विषयिणा विषयस्य रूपवतः करणाद्रूपकं । साधर्म्ये त्वनुगतमेव । यदाहुः-ऽउपमैव तुरोभूतभेदा रूपकमिष्यतेऽ इति आरोपादभेदेऽध्यवसायः प्रकृष्यते इति पश्चात्तन्मूलालङ्कारविभागः ।
संप्रतीति । भेदाभेदतुल्यत्वाश्रयालङ्कारानन्तरमभेदप्रधानं लक्षयितुमुचितत्वादवसरप्रात्पावित्यर्थः । तत्र तावत्प्रथमं रूपकं लक्ष्यति-अभेदप्राधान्य इत्यादि । वस्तुत इति । न तु प्रतीतितः । सद्भाव इति । प्रधानाप्राधानयोः संबन्धिशब्दत्वात् । अन्यत्रान्यावाप आरोप इति । अन्यत्रेति प्रकृते मुखादौ । अन्यस्येत्यप्रकृतस्य चन्द्रादेः । स च सामानाधिकरण्येन वैयाधिकरण्येन च निर्देशे भवति । न तु सामानाधिकरण्येन निर्देश एव सः । एवं हि-ऽयाताः कणादतां केचित्ऽ इत्यादावारोपसद्भावेऽपि न सामानाधिकरण्यमस्तीत्यव्यात्पिः स्यात् । आर्यं सामानाधिकरण्यमस्तीति नाव्यात्पिरित चेत्, न । भिन्नयोः सामानाधिकरण्येन निर्देशो[अ. र. सू.२६]ह्यारोपलक्षणं । न च तदत्र निर्दिष्टं । वैयधिकरण्येन निर्देशात्तस्यार्तावसेयत्वात् । अर्थावसायो निर्देशश्च नैकं रूपं । विप्रतिषेधात् । नीलरोपः प्रसज्यत इत्यतिव्यात्पिः स्यात् । न चारोपे भिन्नयोः सामानाधिकरण्येन निर्देश उच्यत इत्यसंभवोऽपि । इति न निरवद्यमेतदापरोपलक्षं । यद्येवं तत्किं शब्दे शब्दान्तरमर्थे वार्थान्तरमारोप्यत इति चेद्ब्रुमः । तत्र न शब्दे शब्दान्तरारोपः । मुखशब्दादेश्चन्द्रशब्दादिरूपत्वेनाप्रतीतेरन्योन्यविविक्तस्वान्तरूपोलम्भादिति भवद्भिरेवोक्तत्वात् । किं त्वर्थेर्ऽथान्तरारोपः । स च प्रयोजनपरतया तथा निर्देश्यते न भ्रान्त्या । अत एव ह्युक्तिकायामिव रजतारोपो न मुखे चन्द्रारोपः । तस्य स्वरसत एवोत्थानेन भ्रमरूपत्वात् । अत एव तत्रारोपविषयस्यारोप्यमाणेनाच्छ्रादितत्वेन प्रतीतिः । इह पुनर्जानान एव कश्चिचन्द्रविविक्तंमुखं तत्र प्रयोजनपरतया चन्द्रार्थमारोपयति । अत एवोक्तमारोपविषयानपह्नव इति । भवद्भिरप्यनेनैवाशयेनऽप्रतिपादनभ्रामोऽयं न भ्रान्ता प्रतिपत्तिरित्याद्युक्तं । तस्येत्यारोपस्य विषयः प्रकृतः विषयी चाप्रकृतः । ताभ्यामवष्टब्धत्वं युक्तत्वं । यदुक्तम्-ऽसारोपान्या तु यत्रोक्तौ विषयी विषयस्तथाऽ इति ।
अन्यथेति । अनपह्नवे । एवमनेनापह्नुतिरूपकयोर्भेदोऽप्युक्तः । आहुरिति दण्ड्यादयः । अतश्च साधर्म्यसद्भावात्तदनुयायुभेदत्रयानुप्राणितत्वमप्यस्य ज्ञेयं । यथा-
ऽकन्दर्पद्विपकर्णकम्बुमसितैर्दानाम्बुभिर्लाञ्छितं
संलग्नाञ्जनपुञ्जकालिकलं गण्डोपधानं रतेः ।
व्योमानोकहपुष्पगुच्छमलिभिः संछाद्यमानोदरं
पश्यैतच्छ्रशिनः सुधासहचरं बिम्बं कलङ्काङ्कितम्ऽ ।।
अत्र कलङ्कस्य दानाम्ब्वादिभिः प्रतिबिम्बनं । लाच्छ्रितत्वाङ्कितत्वयोः शुद्धसामान्यरूपत्वं । सुधारहचरत्वस्यानुगतत्वादनुगामितेति भेदत्रयानुप्राणितत्वं । अनेन च सादृश्यनिमित्त एवारोपो रूपकमित्युक्तं भवति । केषाञ्चिदपि संबन्धान्तरहेतुरप्यारोपो रूपकाङ्गमेवेति मतं । यदाहालङ्कारभाष्यकारः-ऽलक्षणापरमार्थं यावता रूपकस्वरूपम्ऽ इत्युपक्रम्यऽसारोपान्या च सादृश्याद्वा संबन्धान्तराद्वाऽ इत्यादि । स तु यथा-
ऽअमृतकवलः शोभाराशिः प्रमोदरसप्रपा
सितिमशकटं ज्योत्स्नावापी तुषारधरट्टिका ।
मनसिजवृसी शृङ्गारश्रीविमानमहो नु भो
निरवधिसुखश्रद्धा दृष्टेः कृती मृगकेतनःऽ ।।
अत्रेन्दुरूपे कारणे कार्यपुपायाः श्रद्धाया आरोपः । ग्रन्थकृताप्यलङ्कारानुसारिण्या-अत्रऽश्रद्धाहेतुत्वाच्छ्रद्धेऽ त्यभिधायऽविशेषणैकस्मिन्ननेकवस्त्वारोपान्मालारूपकमित्यभिदधतायमेव पक्षः कटाक्षितः । ननु चाध्यवसायगर्भाणामप्यलङ्काराणामभेदप्राधान्ये सति प्रथमारोपगर्भा अलङ्काराः किमिति लक्षिता इत्याशङ्क्याह-आरोपादित्यादि ।
इदं तु निरवयवं सावयवं परम्परितमिति त्रिविधं । आद्यं केवलं मावारूपकञ्चते द्विधा । द्वितीयं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विधैव । तृतीयं श्लिष्टशब्दनिबन्धनत्वेन द्विविधं सत्प्रत्येकं केवलमालारूपकत्वाच्चतुर्विधं । तदेवमष्टौ रूपकभेदाः । अन्ये तू प्रत्येकं वाक्योक्तसमासोक्तादिभेदाः संभवन्ति तेऽन्यतो द्रष्टव्याः ।
चशब्दोऽन्यालङ्कारापेक्षया भेदसमुच्चार्थः । विषयद्योतकस्तुशब्दः । अवयवेभ्यो निष्क्रान्त आरोप्यमाणो यत्र तत्तथोक्तं । सहावयवैरारोप्यमाणो वर्तते यत्र तत्तथोक्तं । परम्परयैकस्य माहात्म्यादपरस्यारूपणात्वमायातं यत्र तत्तथोक्तं । आद्यमिति निरवयवं । माला चैकस्यानेकस्य वानेकारोपाद्भवति । एवं परम्परितत्वेन मालारूपकं ज्ञेयं । द्वितीयमिति सावयवं । समस्तमारोप्यमाणात्मकं वस्त्वभिधाया विषयो यत्र तत्तथोक्तं । एकदेश आरोपविषयाणाम्; अर्थस्तदात्मक एवारोप्यमाणप्रयोजनप्रतिपादनाय तद्रूपतया विवर्तते परिणमति यत्र तत्तथोक्ंर । तृतीयमिति परम्परितं । यद्यपि श्लेषनिबन्धनेऽस्मिन्गुणक्रियात्मकधर्मनिबन्धनस्य सादृश्यस्यासंभव एव तथापि शब्दमात्रकृतमेवाभेदाध्यवसायतः सादृश्यं ग्राह्यं । अन्य इति एतद्भेदाष्टकव्यतिरिक्ताः । संभवन्तीति चिरन्तनालङ्कारग्रन्थेष्वेव । न पुनर्लक्ष्यन्त इति भावः । तत्र हि तेषां तत्त्वेऽप्येतद्भेदाष्टककृतमेव वैचित्र्यं प्रतीयते । यथा च-
ऽपादः कूर्मोऽत्र यष्टिर्भुजगपतिरयं भाजनं भूतधात्री
तैलापूराः समुद्राः कनकगिरिरयं वृत्तवर्तिप्ररोहः ।
अर्चिश्चण्डांशुरुच्चैर्गगनमलिनिमा कज्जलं दह्यमाना
वैरिश्रेणी पतङ्गा ज्वलति नरपते त्वत्प्रतापप्रदीपःऽ ।।
इत्यत्र सत्वपि वाक्यार्थोक्तत्वे समस्तवस्तुविषयकृतमेव वैचित्र्यं ।
क्रमेण यथा-
ऽदासे कृतागासि भवत्युचितः प्रभूणां
पादप्रहार इति सुन्दरि नास्मि दूये ।
उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रैर्-
यत्खिद्यते तव पदं ननु सा व्यथा मेऽ ।।
ऽपीयूषप्रसृतिर्नवा मखभुजां दात्रं तमोलूनये
स्वर्गङ्गाविमनस्ककोकवदनस्त्रस्ता मृणालीलते ।
द्विर्भावः स्मरकार्मुकस्य किमपि प्राणेश्वरीसागसा-
माशातन्तुरुदञ्चति प्रतिपदि प्रालेयभानोस्तनुःऽ ।।
ऽविस्तारशालिनि नभस्तलपत्त्रपात्रे
कुन्दोज्ज्वलप्रभ-भ संचयभूरिभक्तं ।
गङ्गातरङ्गघनमाहिषदुग्धदिग्धं
जग्धं मया नरपते कलिकालकर्णऽ ।।
ऽआभाति ते क्षितिभृतः क्षणदाप्रभेयं
निस्त्रिंशमांसलतमालवनान्तलेखा ।
इन्दुत्विषो युधि हठेन तवारिकीर्ती-
रानीय यत्र रमते तरुणः प्रतापःऽ ।।
क्षितिभृत इत्यत्र श्लिष्टं पदं । परम्परितम्-
ऽकिं पद्मम्य रुचिं न हन्ति नयनानन्दं विधत्ते न वा
वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किं ।
वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्गतो
दर्पः स्यादमृतेन चिदिह तदप्यस्त्येव बिम्बाधरेऽ ।।
अत्र वक्त्रेन्दुरूपणहेतुकमधरामृतस्य पीयूषेण श्लिष्टशब्दं रूपणं ।
ऽविद्वन्मानसहंस वैरिकमसासंकोचदीत्पद्युते
दुर्गामार्गणनीललोहित समित्स्वीकारवैश्वानर ।
सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो
साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाःऽ ।।
अत्र त्वमेव हंस इत्यारोपणपूर्वको मानसमेव मानसमित्याद्यारोप इति श्लिष्टशब्दं मालापरम्परितं ।
ऽयामि मनोवाक्कायैः शरणं करुणात्मकं जगन्नाखथं ।
जन्मजरामरणार्णवतरणतरण्डं हराङ्घ्रियुगम्ऽ ।।
ऽपर्यङ्को राजलक्ष्म्या हरितमणिमयः पौरुषाब्धेस्तरङ्गो
भ्रग्नप्रत्यर्थिवंशोल्वणविजयकरिस्त्यामदानाम्बुपट्टः ।
सङ्ग्रामत्रासताम्यन्मुरलपतियशोहंसनीलाम्बुवाहः
खङ्गः क्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्यऽ ।।
अत्र क्ष्मासौविदल्ल इति परम्परितमप्येकदेशविवर्ति । एवमादयोऽन्येऽपि भेदा लेशतः सूचिता एव ।
क्रमेणेति यथोद्देशं । द्विर्भावः स्मरकार्मुकस्येत्यत्र च वाक्यार्थपर्यालाचनयेन्दोः स्मरकार्मुत्वारोपप्रतीतेः कुटिलत्वाद्यनेकधर्मनिमित्तं सादृश्यमेव संबन्धः । इन्दोश्चैकस्य बहव आरोपा इति मालारूपकं । अनेकस्य तु यथा-
ऽबाहू बालमृणालिके कुचितटी माणिक्यहर्म्यं रतेर्-
मुक्ताशैलशिला नितम्बफलकं हासः सुधानिर्झरः ।
वाचः कोकिलकूचितानि चिकुराश्चेतोभवश्चामरं
तस्यास्त्रस्तकुरङ्गशावकदृशः किं किं न लोकोत्तरम्ऽ ।।
अत्रानेकेषामनेकारोपाद्रूपकमाला । इयं च श्लेषनिबन्धनापि दृश्यते । यथा -
ऽनेत्रे पुष्करसोदरे मधुमती वाणी विपाशा मति-
श्चेतो याति नदीनतां कलयते शोणत्वमस्याधरः ।
चारित्रं ननु पापसूदनमहो मामेष तीर्थाश्रयः
स्नातुं वाच्छति भूपतिः परमितीवोष्णोदकं वस्त्रगतिऽ ।।
अत्रानेकेषां श्लिष्टा अनेक आरोपिती इति श्लिष्टार्थरूपकमाला ।
आभातीत्यत्र समासोक्तिमन्ये मन्यन्त इत्युदाहरणान्तरेणोहाहियते ।। यथा -
ऽभवत्संवित्पुष्पश्रियमनुपमामोदमधुरां समुच्चिन्वन्नाविषयवनराजीविकसितां ।
भवोद्याने भक्त्या तव सह विशेषोल्लसितया विहर्त्तु व्यग्रः स्यामनुसृकतविवे कप्रियसखःऽ ।।
भक्तेर्नायिकारोपस्याशाब्दत्वादेशविवर्तित्वं ।
ऽपूयूषस्याधरामृतेन श्लिष्टशब्दनिरूपणम्ऽ इति लेखककल्पितोऽयमपपाठो ज्ञेयः । अधरामृतस्य हि पूयूषेण निरूपणमत्र स्थितं । अतश्च ऽअधरामृतस्य पीयूषेण श्लिष्टशब्दनिरूपम्ऽ इति पाठो ग्राह्यः । अत्र च पीयूषवदमृतशब्दस्याधररसावाचकत्वमन्ये मन्यन्त इत्युदारहणान्तरमुदाह्रियते । यथा-
ऽअलौकिकमहालोकप्रकाशितजगत्त्रय । स्तूयते देव सद्वंशमुक्तारत्नं न कैर्भवान्ऽ ।।
अत्र मुक्तारत्नमित्तयरोपपूर्वको वंश एव वंश इत्यारोप इति श्लिष्टशब्दं केवलपरम्परितं ।
विद्वदित्यादो हंसरूपणामहात्म्यान्मानसरूपेणेति परम्परितं । एवमर्णवरूपणा तरण्डारोपस्य हेतुरिति परम्परितं । पर्यङ्क इत्यत्रैकस्य बहव आरोपा इति मालापरम्परितं । अनेकस्य तु यथा-
ऽश्रीः श्रीः धरोरःस्थलखेन्दुलेखा श्रीकण्ठकण्ठाभ्रतिडिच्च गौरी ।
शक्राक्षिपश्वाकरराजहंसी शची च वो यच्छ्रतु मङ्गलानिऽ ।।
अत्र बहूनामनेकारोपात्परम्परितमाला । एवमादय इति । परम्परितमप्येकदेशविवर्तीत्त्येवंप्रकारः । सूचिता इति । एतत्प्रदर्शनादेव । ततश्च सावयवं द्विविधमपि श्लिष्टं दृश्यते । तत्र समस्तवस्तुविषयं यथा-
ऽविहढन्तोठ्ठदलौडं फुरन्ताकारबहलकेसरपारं ।
पहरिसचन्दालोए हसिअं कुमुएण सुरहिगन्धोग्गारम्ऽ ।। [सेतुबन्धे ४१६]
अत्र कुमुदस्य श्लिष्टत्वं । एकदेशविवर्ति यथा-
ऽयत्तारामौक्तिकार्धप्रकरपुलकितं चन्द्रिकाचन्दनाम्भो-
दिग्धं सत्पर्षिहस्तस्थितकरकपयोधौतमाकाशलिङ्गं ।
तोयाधारे प्रतीचि च्युतवति दिनकृद्विम्बनिर्माल्यपद्मे
तस्यार्चाण्डरीकं व्यधित हिमकरं सत्वरं मूर्ध्नि कालःऽ ।।
अत्र कालविषये पूजकादिरारोप्यमाणो न शाब्द इत्येकदेशविवर्तित्वं । तोयाधारस्य समुद्रनिर्माल्योदकभाण्डवाचकत्वाकत्वाच्छ्रिलष्टत्वं ।
क्वचिच्चाभेदमेव द्रढयितुं विर्षायणो निषेधपूर्वमारोप्यमाणत्वेन तदीयस्य वा भेदहेतोर्धर्मस्य हानिकल्पनेनाधिक्येन वा दृढारोपत्वेनापीदं दृश्यते । क्रमेण यथा -
ऽकलिप्रिया शश्चदपालितावज्ञां गुरुज्ञातिषु दर्शयन्ती ।
जाया निजा या ननु सैव कृत्या कृत्या न कृत्या सरलस्य धार्मेःऽ ।।
अत्र कृत्या निषेधपूर्वं जायायामारोपिता । तन्निषेधेन हि जायाया कृत्यया दाढर्येन साम्यं प्रतीयते । कृत्या तथा न स्वकर्मणि व्याप्रियते यथेयं तत्कर्मणीति ह्यत्र वाक्यार्थः । अत्र च यदन्ये विशेषालङ्कारमाहुस्तदभेदालङ्कारनिराकणादेव निराकृतमिति न पुनरायस्यते । हान्यायथा -
ऽवनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः ।
भवन्ति यत्रैषधयो रजन्यामतैलपूराः सुरतप्रदीपःऽ ।।
अत्रातैलपूरेण हानकल्पनं । आधिक्येन यथा-
ऽतुरीयो ह्येष मेध्योऽग्निराम्नायः पञ्चमोऽपि वा ।
अपि वा जङ्गमं तीर्थं धर्मो वा मूर्तिसंचरःऽ ।।
अत्र तुरीयत्वादेर्धर्मस्याधिक्यं ।
ऽदृढतरनिबद्धमुष्टेः कोषनिषण्णस्य सहजमलिनस्य ।
कृपणस्य कृपाणस्य च केवलमाकारतो भेदःऽ ।।
इत्यत्रापि दृढरोपमेव रूपकं ज्ञेयं । अत्र हि कृपाणस्येति समुच्चीयमानत्वेननिर्देशाच्छ्राब्दस्यारोपस्याप्रतीतेरप्याकारमात्रेण भेदस्योक्तेर्वाक्यार्थपर्यालोचनमाहात्म्यात्वरिशिष्टसमस्तधर्मान्तरसद्भावाभ्यनुज्ञानाप्यर्यवसाने दाढर्येन विषयविषयिणोरभेदप्रतिपत्तिः । सैव च रूपकसतत्त्वमिति पूर्वमेवोक्तं । अन्येऽपि भेदाः स्वयमेवाभ्यह्योदाहार्याः ।
इदं वैधर्म्येणापि दृश्यते । यथा-
ऽसौजन्याम्बुमरुस्थली सुचरितालेख्यद्युभित्तिर्गुण-
ज्योत्स्नाकृष्णचतुर्दशी सरलतयोगश्वपुच्छच्छटा ।
यैरेषापि दुराशया कलियुगे राजावली सेविता
तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम्ऽ ।।
अत्र चारोप्यमाणस्य धर्मित्वादाविष्टलिङ्गसंख्यात्वेऽपि क्वचित्स्वतोऽसंभवत्संख्यायोगस्यापि विषयसंख्यात्वं प्रत्येकमारोपात् । यथा -ऽक्वचिज्जटावल्कलावलम्बिनः कपोला दावाग्रयःऽ इत्यादौ । न हि कपिलमुनेर्बहुत्वं ।
ऽभ्रमिमरतिमलसहृदयतां प्रलयं मूर्च्छे तमः शरीरसादं ।
मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम्ऽ ।।
इत्यत्र नियतसंख्याककार्यविशेषोत्थापितो गरलार्थप्रभावितो विषशब्दे श्लेष एव । जलदभुजगजमिति रूपकसाधकमिति पूर्वे सिद्धत्वाभावान्न तन्निचन्वनं विषशब्दे श्लिष्टशब्दं परम्परितमिति श्लेष एवात्रेत्याहुः ।
वैधर्म्येणापीति । न केवलं साधर्म्येणेत्यर्थः । अस्य च विच्छित्तिविशेषान्तरं दर्शयितुमाह-अत्रेत्यादि । आविष्टलिङ्गत्वेऽपीत्यनेन धर्मिणः स्वरूपमात्रपर्यवसितत्वेऽपि धर्म्यन्तरसंबन्धिनः संख्यात्मनो धर्मान्तरस्यापि स्वीकार इत्यावेदितं । असंभवत्संख्यायोगत्येति । यद्यप्येकादिव्यवहारहेतुः संख्येति नीत्या एकस्मिन्नपि द्रव्ये तद्योगः संभवति तथाप्यनेकद्रव्यवर्तित्वाद्यभिप्रायेणैतदुक्तं । प्रत्येकमारोपादिति अयमग्निः कपिलोऽयमग्निः कपिल इत्येवंरूपात् । अतश्चारोप्यमाणस्य कृपिलमुनेर्बहुत्वायोगाद्विषयसंख्यत्वं । श्लिष्टतानिबन्धनस्य परम्परितस्य श्लेषाद्वैलक्षण्यं द्योतयितुमाह-भ्रमिमिति । प्रभावित इति । प्रथममेव प्रतीतिगाचरीकृत इत्यर्थः ।
पूर्वं सिद्धत्वाभावादिति । रूपकस्य श्लेषहेतुत्वात् । तन्निबन्धनिमिति रूपकनिबन्धनं । इति शब्दो हेतौ । अतश्च श्लेष एवात्रालङ्कारो न परम्परितं रूपकमित्यत्र तात्पर्यं । चिन्त्यं चैतत् । यतः श्लेषस्तावद्वाच्चयोर्द्वयोः प्रकृतयोरप्रकृतयोः प्रकृताप्रकृतयोश्च भवति । अत्र च न द्वयोः प्रकृतत्वं नाप्यप्रकृतत्वं । वर्षासमये जलदस्येव जलस्य वर्णनीयत्वात् । प्रकृताप्रकृतयोश्च विशेषणसाम्य एव श्लेषो भवति इह तु विशेष्यस्यापि साम्यमिति शब्दशक्त्युत्थितस्य ध्वनेरयं विषयो न श्लेषस्य । अतश्च नात्र श्लेषालङ्कारः । नापि ध्वनिः । जलदभुजगजमिति रूपकमाहात्म्याच्छब्दशक्या गरलार्थस्याभिधानात् । एवमत्र श्लिष्टशब्दनिबन्धनं [रूपकमेवालङ्कारः] जलदभुजगजमिति रूपकान्तरेणापि गरलार्थो यदि प्रतीयते तत्स ध्वनेर्वषयः स्यादित्युक्तंं । स्थिते तु जलदभुजगजमिति रूपके तन्माहात्म्यादेव विषशब्दे श्लिष्टशब्दनिबन्धनं रूपकं । अन्यथा हि जलदभुजगजमिति रूपकं व्यर्थं स्यात् । तेन विना हि गरलार्थः प्रतीयतत इत्यलं बहुना ।
आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः ।। १७ ।।
आरोप्यमाणं रूपके प्रकृतोपयोगित्वाभावात्प्रकृतोपरञ्जकत्वेनैव केवलेनान्वयं भजते परिणामे तु प्रकृतात्मतया आरोप्यमाणस्योपयोग इति प्रकृतमारोप्यमाणरूपत्वेन परिणमिति । आगमानुगमविगमख्यात्यभावात्सांख्यीयपरिणामवैसक्षण्यं । तस्य सामानाधिकरण्यवैयधिकरण्यप्रयोगाद्द्वैविध्यं । आद्यो यथा-
ऽतीर्वा भूतेशमौलिस्त्रजममरधुनीमात्मनासौ तृतीय-
स्तस्मै सौमित्रिमैत्रीमयमुपहृतवानातरं नाविकाय ।
व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्षं
कृच्छ्रादन्वीयमानस्त्वरितमय गिरिं चित्रकूटं प्रतस्थेऽ ।।
अत्र सौमित्त्रिमैत्त्री प्रकृता आरोप्यमाणसमानाधिकरणातररूपत्वेन परिणता । आतरस्य मैत्त्रीरूपतया प्रकृते उपयोगात् । तदत्र यथा समासोक्तावारोन्यमाणं प्रकृतोपयोगि तच्चारोपविषयात्मतया तत्र स्थितम्, अत एव तत्र तद्व्यवहारसमारोपः एवमिहापि ज्ञेयम्, केवलं तत्र विषयस्यैव प्रयोगः, विषयिणो गम्यमानत्वात् । इह तु द्वयोरप्यभिधानम्, तादात्म्यात्तु तयोः परिणामित्वं । द्वितीयो यथा-
ऽअथ पक्त्रिमतामुपेयिवद्भिः सरसैर्वक्रपथाश्रितैर्वचोभिः ।
क्षितिभर्तुरुपायानं चकार प्रथमं तत्परतस्तुरङ्गमाद्यैःऽ ।।
राजसंघटने तूपायनमुचितं । तच्चात्र वचोरूपमिति वचसां व्यधिकरणोपायनरूपत्वेन परिणामः ।
आरोप्यमाणस्येत्यादि । आरोप्यारोपविषयभावसाम्येऽपि रूपकाद्वैलक्षण्यं दर्शयन्नेतदेव व्याचष्टे-आरोप्यमाणमित्यादिना । प्रकृतोपरञ्जकत्वेनेति । यदुक्तम्-विषयिणा विषयस्य रूपवतः कारणाद्रूपकमिति । प्रकृतात्मतयेति । प्रकृताङ्गतयेत्यर्थः । उपयोग इति । तेन विना प्रकृतार्थस्यानिष्पत्तेः । परिणमतीति । प्रकृतमप्रकृतव्यवहारविशिष्टतयावतिष्टते । प्रकृतस्वरूपमात्रावस्थाने प्रकरणार्थानिष्पत्तेः । एवमत्र प्रकरणोपयोगित्वाभावादित्यारोप्यमाणस्योपयोग इति चान्वयव्यतिरेकाभ्यां प्रकृतोपयोगित्वस्यासाधारणत्वं दर्शितं । असाधारणत्वस्य हि धर्मस्य तत्तव्यवस्थापकत्वाल्लक्षणत्वं । अतश्च नास्त्येवालङ्कारान्तरेषु प्रकृतयोगित्वं । एवम्-
ऽआशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते ।
पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेवऽ ।।
इत्यत्रोपमायां । ऽअत्रान्तरे सरस्वत्यवतरणवार्तामिव कथयितुमवततार मध्यमं लोकमंशुमालीऽ इत्यादावुत्प्रेक्षायां ।
ऽमन्दरमेहक्खोहिअससिकलहंसपरिअ(मु) क्वसलिलोच्छ्रङ्गं ।
मरगासेवालोवरिणिगण्णतु हिक्कमीणचक्काअजुअमऽ ।।
इत्यत्र च रूपके तथान्यालङ्कारेष्वौचित्यमेव नोपयोगः । ओचित्यं हि सिद्धस्य सतः प्रकृतार्थोपलम्भकं भवति । उपयोगः पुनः सिद्धावेव प्रकृतार्थहेतुतां भजते इत्यनयोर्महान्भेदः । तथा हि-
ऽअनन्वये च शब्दैक्मौचित्यादानुषङ्गिकं ।
अस्मिंस्तु लाटानुप्रासे साक्षादेव प्रयोजकम्ऽ ।।
इत्यत्रैकस्यैव शब्दैक्यस्यौचित्योपयोगाभ्यां भेद उक्तः । अतश्चौचित्योपयोगयोर्भेदभजानुद्भिः सर्वत्रैव प्रकृतोपयोगित्वमन्यैर्यदुक्तं तदयुक्तं । तस्माद्रूपकादन्य एव परिणामः । इह पुनः अप्रकृतार्थस्य प्रकृतार्थारोपमन्तरेण सिद्धिरेव न भवतीति प्रकृतोपयोगितैव जीवितं ।
ऽदाहोऽम्भः प्रसृतिपचः प्रचयवान्बाष्पः प्रणालेचितः
श्वासाः प्रेङ्खितदीप्रदीपलतिकाः पाण्डिम्नि मग्नं वपुः ।
किं वान्यत्कथयामि रात्रिमखिलां त्वन्भार्गवातायने
हस्तच्छ्रत्त्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्ततेऽ ।।
अत्र हि च्छ्रत्र्तारोपमन्तरेण चन्द्रातपरोध एव न भवतीति तस्य प्रकृतोपयोगित्वं । अतश्च प्रकृतमप्रकृततया परिणमतीति परिणामः । यद्येवं तर्हि सांख्यीयपरिणामादस्य को विशेष इत्याशङ्क्यह-आगमेत्यादि ।
ऽजहद्धरम्रान्तरं पूर्वमुपादत्ते यदा ह्ययं ।
तत्त्वादप्रच्युतो धर्मी परिणामः स उच्यतेऽ ।।
इति सांख्यीयपरिणामलक्षणं । मैत्र्तीरूपतयेति । मैत्र्यात्मतयेत्यर्थः । उपयोगादिति । आतरमन्तरेण तरणायोगात् । अतश्च प्रकृते यत आतरस्योपयोगस्ततश्च प्रकृताया एव मैत्र्यास्तत्कार्यकारित्वात्तद्व्यवहारारोपः । एतदेव दृष्टान्तमुखेनापि प्रतिपादयति-तदत्रेत्यादिना । अत्रेति परिणामे । समासोक्तौ चारोप्यमाणस्य प्रकृतोपयुक्तत्वं । प्रकृतसिद्ध्यर्थमेवाप्रकृतस्याक्षेपात् । आरोप्यमाणमपि तत्र प्रकृतावच्छेदकत्वेन स्थितं न पुनराच्छादकत्वेनेत्याह-तच्चेत्यादि । अत एवेति । आरोपविषयात्मकत्वादेव । तत्रेति समासोक्तौ । एतदेव प्रकृते योजयति-एवमित्यादि । यद्येवं तर्हि समासोक्तिपरिणामयोः को विशेष इत्याशङ्क्याह-केवलमित्यादि । तयोरित्यांभधीयमानयोर्द्वयोः । उचितमिति । उपयुक्ततयेति शेषः ।
विषयस्य संदिह्यमानत्वे संदेहः ।। १८ ।।
ऽअभेदप्राधान्ये आरोप इत्येव । विषयः प्रकृतोऽर्तः, यद्भित्तित्वेनाप्रकृतः संदिह्यते । अप्रकृते संदेहे विषयोऽपि संदिह्यत एव । तेन प्रकृताप्रकृतगतत्वेन कविप्रतिभोत्थापिते संदेहे संदेहालङ्कारःऽ ।
विषयस्येत्यादि । विषयविषयिणोः संबन्धिशब्दत्वाद्विषयस्योक्तेर्विषयिणोऽप्याक्षेपादत्र ग्रहणं । तेन विषयस्य विषयिणश्च संदेहप्रतीतिविषयत्व सूत्रार्थः । ननु विषयशब्देन विषयिशब्दस्य संबन्धिशब्दत्वादाक्षेपेऽपि विना वचनमाक्षेपमात्राद्विषयिणः कथं संदिह्यमानता लभ्यत इति चेत्, न । अनियतोभयांशावलम्बिविमर्शरूपत्वाद्विपयमात्रगतत्वेनासंभवात्संदेहस्यान्यथानुपपत्त्या विषयिणस्तत्संबन्धित्वं लभ्यत एवेति यथासूत्रितमेव ज्यायः । एतदेव विभज्य व्याचष्टे-विषय इत्यादिना । यद्भित्तित्वेनेति । अन्यथा ह्यप्रकृतस्य निर्विषयत्वमप्रन्तुताभिधानलक्षणो वा दोषः स्यादिति भावः । तेन विषयभित्तितया विपयिणामेव तथामावो भवतीत्याशङ्क्याह-अप्रकृतेत्यादि । विषयोऽपीति । न केवलं विषयिण एव संदिह्यमानत्वं यावद्विषयस्यापात्यपिशब्दाथः । तेन क्वचिद्विषयिणामेव संदिह्यमानत्वे क्वचिच्च विषयविषयिणोरप्यलङ्कारो भवेत् । उभयत्रापि सामान्यलक्षणानुगमात् । अनियतोभयांशावलम्बी हि विमर्शः संशयः । स च विषयिणामेव भवति । विषयविपयिणोरेव संदिह्यमानत्वात् । अत एव च प्रकृताप्रकृतगतत्वेनेति यथासंभवं योज्यं । प्रतिभोत्यापित इति । न पुनः स्वरसोत्यापितः, स्थाणुर्वा पुरुषो वेत्येवमादिरूप इत्यर्थः ।
स च त्रिविधः । शुद्धो निश्चयगर्भो निश्चयान्तश्च । शुद्धो यत्र संशय एव पर्यवसानं । यथा-
ऽकिं तारुण्यतरोरियं रसभरोद्भिन्ना नवा वल्लरी
लीलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधेः ।
उद्गाढोत्कलिकावतां स्वसमयोपन्यासविस्त्रम्भिणः
किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणःऽ ।।
निश्चयगर्भो यः संशयोपक्रमो निश्चयमध्यः संशयान्तश्च । स यथा--
ऽअयं मार्तण्डः किं स खलु तुरगैः सत्पभिरितः
कृशानुः किं साक्षात्प्रसरति दिशो नैष नियतं ।
कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरात्
समलोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाःऽ ।।
निश्चयान्तो यत्र संशय उपक्रमो निश्चये पर्यवसानं । यथा--
ऽइन्दुः किं क्व कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतं ।
ललितसविलासवचनैर्मुखमिति हरिणाक्षि निश्चितं परतःऽ ।।
कचितारोप्यमाणानां भिन्नाश्रयत्वेन दृश्यते । यथा--
ऽरञ्जिता नु विविधास्तरुशैला नामितं तु गगनं म्थगितं नु ।
पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेणऽ ।।
अत्रारोपविषये तिमिरे रागादि तर्वादिभिन्नाश्रयत्वेनारोपितं । केचित्त्वध्यवसायाश्रयत्वेन संदेहप्रकारमाहुः । अन्ये तु नुशब्दस्य संभावनाद्योतत्वादुत्प्रेक्षाप्रकारमिममाचक्षते ।
एतदेव भेदत्रयं विवृण्वन्नुदाहरति-शुद्ध इत्यादि । अत्र प्रकृतायास्तन्व्याः संदेहप्रतीतिविषयत्वाभावाद्विषयिणां मञ्जर्यादीनामेव संदेहः । विषयविषयिणोर्यथा -
ऽकिं पङ्कजं किमु सुधाकरबिम्बमेतक्तं वा मुखं क्लमहरं मदिरेक्षणायाः ।
यद्द्दश्यते मधुकराभकुरङ्गकान्तिनेत्रद्वयानुकृति कार्ष्ण्यममुष्य मध्येऽ ।।
अत्र क्लमहरत्वादिः समानो धर्मोऽनुगामित्वेनोपात्तः । क्वचिद्वस्तुप्रतिवस्तुभावेनापि भवति यथा-
ऽकिमिदमसितालिकलितं कमलं किं वा मुखं सुनीलकचं ।
इति संशेते लोकस्त्वयि सुतनु सरोचतीर्णायाम्ऽ ।।
अत्रासितत्वसुनीलत्वयोः शुद्धसामान्यरूपत्वं । अलिकचानां च बिम्बप्रतिबिम्बभावः । एवं चास्य सादृश्यनिमित्तत्वात्समानधर्मानेकधर्मनिमित्तत्वेन द्विभेदत्त्वं न व्याकार्यं । सादृश्यनिमित्तत्वेनैवास्य संग्रहसिद्धेः । विप्रतपत्त्यादिनिमित्तान्तरवच्चारुत्वाभावाच्च । भिन्नाश्रयत्वेनेति वैयधिकरण्येन ।
अवौत्रपक्षन्तरमाह-केचित्यादि । अनेन च संदेहस्याध्यवसायमूलत्वमपि ग्रन्थकृतैवोक्तं । तेनाध्यवसायाश्रयोऽप्ययं स्वरूपहेतुफलानां संदिह्यमानत्वेन त्रिधा भवति । तत्र स्वरूपसंदेहो यथा-ऽरञ्जिताऽ इत्याद्येव । यथा व -
ऽएतत्तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ
दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषापरत्विषि ।
कर्पूरैः किमपूरि किं मलयजैरालेपि किं पारदै-
रक्षालि स्फटिकोपलैः किमघटि द्यावापृथिव्योर्वपुःऽ ।।
अत्र कौमुदीधवलिम्नः कर्पूरपूरणादिनाध्यवसितत्वादध्यवसायमूलत्वं । हेतुसंदेहो यथा -
ऽदिवि त्वक्षरणाम्बुजस्मृतिविधौ गाढावधानस्पृशां
धन्यानां प्रसरन्ति संतततया ये बाष्पधाराभराः ।
किं ते स्युश्चिरकालभावितभवाप्रश्नक्रियावेगतः
किं वासादितमुक्तिचन्द्रवदनासंदर्शनानन्दतःऽ ।।
अत्राश्रुहेतोरानन्दस्य संसारवियोगो मुक्तिसांमुख्यं चेति हेतुद्वयमध्यवसितं । फलसंदेहो यथा -
ऽनृत्तान्ते पारिजातं किमु विघटयितुं स्प्रष्टुमाकाशगङ्गां
किंस्विद्वा चन्द्रसूर्यौ किमु विदलयितुं श्चेतरक्ताब्जबुद्धथा ।
लब्धुं नक्षत्रमालाभरणभरमुत स्वर्गजं वाभियोद्धुं
दूरोदस्तः समस्तस्तव गणपतिना स्वस्तये सोऽस्तु हस्तःऽ ।।
अत्र करिणो निष्पादनस्य विघटनादिफलमध्यवसितं । अत्रैवादिशब्दवन्नुशब्दस्य संभावनाद्योतकत्वात्पक्षान्तरमपि दर्शयितुमाह-अन्य इत्यादि । अतश्च रञ्जिता इवेत्यर्थः । पूर्वत्रार्थे तु नुशब्दो वितकंमात्र एवम्याख्येयः ।
सादृश्याद्वस्त्वन्तरप्रतीतिर्भ्रान्तिमान् ।। १९ ।।
असम्यग्ज्ञानत्वसाधर्म्यात्संदेहानन्तरमस्य लक्षणं । भ्रान्तिश्चित्तधर्मः । स विद्यते यस्मिन्भणितिप्रकारे स भ्रान्तिमान् । सादृश्यप्रयुक्ता च भ्रान्तिरस्य विषयः । यथा-
ऽओष्ठे बिम्बफलाशयालमलकेषूत्पाकजम्बूधिया
कर्णोलङ्कृतिभाजि दाडिमफलभ्रान्त्या च शोणे भणौ ।
निष्पत्त्या सकृदुत्पलच्छददृशामात्तक्लमानां मरौ
राजन्गृर्जरराजपञ्जरशुकैः सद्यस्तृषा मूर्च्छितम्ऽ ।।
गाढमर्मप्रहारादिना तु भ्रान्तिर्नास्यालङ्कारस्य विषयः । यथा--
ऽदामोदराघातचूर्णिताशेषवक्षसा ।
दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम्ऽ ।।
सादृश्यहेतुकापि भ्रान्तिर्विच्छित्त्यर्थे कविप्रतिभोत्थापितैव गृह्यते,यथोदाहृतम्, न स्वरसोत्थापिता शुक्तिकारजतवत् । एवं स्थाणुर्वा स्यात्पुरुषो वा स्यादिति संशयेऽपि बोद्धव्यं ।
सादृश्यप्रयुक्तेति । असम्यग्ज्ञानत्वसाधर्म्यादिति न पुनरारोपगर्भत्वसाजात्याल्लक्षितमिति भावः । आरोपो हि विषयविषियिणोर्युगपदेकप्रमातृविषयीकृतत्वे भवतीति नारोपगर्भो भ्रमः क्वचिदपि संभवति, शुक्तिकादीनां शुक्तिकादिरूपतयावगमे रजताद्यभिमानाभावात् ।
ननु भ्रान्तिश्चित्तधर्मः स यस्यास्ति स भ्रान्तिमानिति वक्तुं न्याय्यं तत्कथमलङ्कारस्यैतदभिधानमित्याशङ्क्याह - भ्रान्तिरित्यादि । स इति भणितिप्रकारः अतशाचालङ्कारे भ्रान्तिमच्छ्रब्द उपचरित इति भावः । न तु-
ऽप्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा
पर्यङ्के सा दिशि दिशि च सा तद्वियोगातुरस्य ।
हंहो चेतः प्रकृतिरपरा नास्ति ते कापि सा सा
सा सा सा सा जगति सकले कोऽयमद्वैतवादःऽ ।।
इत्यत्रैकस्या एव परिमिताया अपि योषितो गाढानुरागहेतुकं तन्मयतानुसंधानं प्रासादादावनेकत्र युगपत्प्रतीतौ निमित्तमिति भ्रान्तिमदलङ्कारः । स हि प्रासादादेर्वल्लभारूपत्वेन प्रतीतौ स्यात् । अन्यस्यान्यर्वल्लभात्वेन प्रतीयत इति स्फुट एवायं विशेषालङ्कारस्य विषयः । अथप्रासादादावभूताया अपि वल्लभाया दर्शनाद्भ्रान्तिरिति चेत्,नैतत् । एवं ह्यत्र भ्रान्तिमात्रं स्यान्नालङ्कारः । गाढानुरागात्मकनिमित्तसामर्थ्यात्स्वरसत एव प्रासादादावसत्या अपि युवत्याः प्रतीतिसमुल्लासाः । कविप्रतिभानिर्वर्तित्वाभावात् । ऽदेवमपि हर्षं पितृशोकविह्नलीकृतं श्रियं शाप इति महीं महापातकमिति राज्यं रोग इति भोगान्भुजगा इति निलयं निरय इत्यादि मन्यमानम्ऽ इत्यादावपि न भ्रान्तिमदलङ्कारः । तत्र शुक्तिकादिरूपतयावगमे रजताद्यभिमानानुदयादिति समनन्तरमेवोक्तत्वात् । इह पुनर्विषयरूपां श्रियमवगम्यापि श्रीहर्षेण पितृशोकविह्वलीकृतत्वाच्छापत्वेन भाम्यत इति विषमालङ्कारो ञ्यायान् ।
ऽदुतुं वाच्छति दक्षिणेऽपि नयने वामः करः कज्जलं
भौजङ्गं च भुजोऽङ्गदं घटयितुं वामेऽपि वामेतरः ।
इत्थं स्वं स्वमशिक्षितं भगवतोरर्धं वपुः पश्यतोः
साधारस्मितलाच्छितं दिशतु नो वक्त्रं मनोवाच्छितम्ऽ ।।
इत्यत्रापि संस्कार एवालङ्कारो न भ्रान्तिमान् । अत्र हि भगवत्या नेत्रद्वयाञ्जनदानसतताभ्यासाद्वामनेत्राञ्जनदानानन्तरं दक्षिणनेत्राञ्जनदानवासनानुरोधो जायत इति संस्कारस्यैव वाक्यार्थत्वं । अथात्र संस्कारप्रबोधं विना तदभावादञ्जनदाननैतत् । प्रत्युतात्र हि भगवदर्धस्य तथात्वेनैवावगमादञ्जनसंस्कारो न प्ररोहमुपागत इति कारस्यैव स्खलद्गतित्वात्तत्कार्थस्य भ्रमस्योत्पाद एव न संभवतीति न भ्रान्तिमतोऽवकाशः । प्ररुढ एव हि संस्कारो भ्रमः । स्वात्ममात्रावस्थितस्तु संस्कारालङ्कारः । अत एव दातुं वाच्छ्रतीत्युक्तं । एवं चात्र नेत्रद्वयाब्जनदानसतताभ्यासहेतुकः संस्कार एव प्रतीयते न तु तन्निमित्तकोऽपि भ्रमः परमः । परमेश्वरार्धस्य तथात्वेनैवावगमात्तद्गन्धस्याप्यभावात् । अत एवाशिक्षितं स्मितलाच्छितं चेत्युक्तं । अवान्तर एवानयोर्विशेषोऽलङ्कारभाष्य एवोक्त इति तत एवानुसर्तव्य इति । एवं चसादृश्यनिमित्तैवभ्रान्तिरलङ्कारविषयो न निमित्तान्तरोत्थापितेति न लक्षणस्याव्यापकत्वं वाच्यं ।
एवं सादृश्यनिमित्तकत्वादस्य साधारणधर्मस्यापि त्रयी गतिः । तत्रानुगामिता यथा-
ऽनीलोत्पलमिति भ्रान्त्या विकासितविलोचनं ।
अनुधावति मुग्धाक्षि पश्य मुग्धो मधुव्रतःऽ ।।
अत्र विकासित्यनुगामित्वेन निर्दिष्टो धर्मः । शुद्धसामान्यरूपत्वं तु यथा -
ऽअयमहिमरुचिर्भजन्प्रतीचीं कुपितवल्लीमुखतुण्डाम्रबिम्बः ।
जलनिधिमकरै रुदीक्ष्यते द्राङ्नवरुधिरारुणमांसपिण्डलोभात्ऽ ।।
अत्र ताम्रत्वारुणत्वयोः शुद्धसामान्यरूपत्वं । बिम्बप्रतिबिम्बभावो यथा -
ऽपुसिआ कण्णाहरणेन्दणीलकिरणाहऽ ससिमऊहा ।
माणिणिवाणम्मि सकज्जलं सुसङ्काए दैएणऽ ।।
अत्र सकज्जलत्वेन्द्रलकिरणाहतत्वयोर्बिम्बभावः । सादृश्यनिमित्तकत्वमेव चास्य द्रढयितुं प्रत्युदाहरति-गाढेत्यादिना । सादृश्यनिमित्तकत्वेऽपि कविप्रतिभोत्थापितैव भ्रान्तिरस्यैव विषयो न पुनर्वास्तवीत्याह-सादृश्येत्यादि । उदाहृतमिति । ओष्ठेबिम्बफलाशयेत्यादि । एतदेव संदेहेऽपि योजयति-एवमित्यादि । संशय इति । अर्थादारोपगर्भ एव । तत्रैव ह्यस्य सादृश्यं निमित्तं । अध्यवसायमूले हि संदेहे सादृश्यात्सम्बन्धान्तराद्वा विषयविषयिणोः संदिह्यमानत्वं स्यात्यथोदाहृतं प्राक् । एवमारोपगर्भत्व एव सादृश्यं विना नायमलङ्कार इत्यवगन्तव्यं । तस्मादविशेषेणैव साधर्म्यं विहायापि निमित्तान्तरमवसम्ब्य नास्यालङ्कारत्वं वाच्यं । सादृश्येऽपि कविप्रतिभोत्थापितस्यैवालङ्कारत्वं न पुनः स्वारसिकस्येति ।
एकस्यापि निमित्तवशादनेकधा ग्रहणमुल्लेखः ।। २० ।।
यत्रैकं वस्त्वनेकधा गृह्यते स रूपबाहुल्योल्लेखनादुल्लेखः । न चेदं निर्निमित्तमुल्लेखमात्रम्, अपि तु नानाविधधर्मयोगित्वाख्यनिमित्तवशादेतत्क्रियते । तत्र रुच्यर्थित्वव्युत्पत्तयो यथायोगं प्रयोजिकाः । तदुक्तम्-
ऽयथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते ।
आभासोऽप्यर्थ एकस्मिन्ननुसंधानसाधितेऽ ।। इति ।।
यथा-ऽयस्तपोवनमित्.इ मुनिभिः कामायतनमिति वेश्याभिः संगीतशालेति लासकैःऽ इत्यादि हर्षचरिते श्रीकण्ठाख्यजनपदवर्णने । अत्र ह्येक एव श्रीकण्ठाख्योजनपदस्तत्तद्गुणयोगात्तपोवनाद्यनेकरूपतया निरूपितः । रुच्चर्थित्वव्युत्पत्तयश्च प्रायशः समस्तव्यस्ता योजयितुं शक्यन्ते । नन्वेतन्मध्येऽवज्रवञ्जरमिति शरणागतैरसुरविवरमिति वातिकैःऽ इत्यादौ रूपकालङ्कारयोग इति कथमयमुल्लेखालङ्कारविषयः । सत्यं । अस्ति तावत्ऽतपोवनम्ऽ इत्यादौ रूपकविविक्तोऽस्य विषयः । यत्र वस्तुतस्तद्रूपतायाः संभवः । यत्र तु रूपकं व्यवस्थितं तत्र चेदियमपि भङ्गिः संभाविनी तत्संकरोऽस्तु । न त्वेतावतास्याभावः शक्यते वक्तुं । ततश्च न दोषः कश्चित् । एवं हि तत्र विषये भ्रान्तिमदलङ्कारोऽस्तु अतद्रूपस्य तद्रूपताप्रतीतिनिबन्धनत्वात् । नैतत् । अनैकधाग्रहणाख्यस्यापूर्वस्यातिशयस्याभावात्, तद्धेतुकत्वाच्चास्यालङ्कारस्य । संकरप्रतीतिस्त्वङ्गीकृतैव यद्येवम्, अभेदे भेद इत्येवंरूपातिशयोक्तिरत्रास्तु । नैषा दोषः । ग्रहीतृभेदाख्येन विषयविभागेनानेकधात्वोट्टङ्कनात्तस्य च विच्छित्त्यन्तररूपत्वात्सर्वथा नास्यान्तर्भावः शक्यक्रिय इति निश्चयः । यथा वा-
ऽणाराअणोत्ति परिणावऽहिं सिरिवल्लहोत्ति तरुणीहिं ।
बालाहिं उण कोदूहलेण एमे अ सच्चविओऽ ।।
एवं ऽगरुर्वचसि पृथुरुरसि अर्जुनो यशसिऽ इत्यादाववसेयं । इयांस्तु विशेषः-पूर्वत्र ग्रहीतृभेदेनानेकधात्वोल्लेखः, इह तु विषयभेदेन । नन्वनेकधात्वोल्लेखने गुर्वादिरूपतया श्लेष इति कथमलङ्कारान्तरमत्र स्थाप्यते । सत्यं । अनेकधात्वनिमित्तं तु विच्छित्त्यन्तरमत्र दृश्यते इति तत्प्रतिभोत्पत्तिहेतुः श्लेषोऽत्र स्यात् । न तु सर्वथा तदभावः । अतश्चालङ्कारान्तरं यदेवंविधे विषये श्लेषाभावेऽपि विच्छित्तिसद्भावः । तस्मादेवमादावुल्लेख एव श्रेयान् । एवमलङ्कारान्तरविच्छित्त्याश्रयेणाप्ययमलङ्कारो निदर्शनीयः ।
एकस्यापीति । अनेकधा ग्रहणमिति । न पुनरनेकधा कल्पनं । ग्रहणं हि स्वारसिक्यामुत्पादितायां च प्रतीपत्तौ संभवति न तु स्वारसिक्यामेव । यदाहुः -
ऽअतः शब्दानुसंधानवन्ध्यं तदनुबन्धि वा ।
जात्यादिविषयग्राहि सर्वं प्रत्यत्तमिष्यतेऽ ।। इति ।।
कल्पनं पुनरुक्ताद्यं प्रतिपत्त्येकगामिति स्वारसिक्यां प्रतिपत्तौ न संभवतीत्युभयत्रापि व्यापकत्वाद्यथासूत्रितमेव युक्तं । रूपबाहुल्येति । अत एवामुखे वस्त्वन्तरप्रतीतिरस्त्येव । अन्यथा ह्येकस्यानेकधाग्रहणमेव न स्यात् । अत एव चास्य भ्रान्तिमदनन्तरमेव लक्षणं । एकस्य च न स्वातन्त्र्येणानेकधाग्रहणम्, अपि तु ततत्त्त्प्रयोजनवशादित्याह-न चेदमित्यादि । एतदिति । अनेकधा ग्रहणं एकस्यैव नानाविधधर्मयोगिन आखण्ड्येन प्रतीतिगोचरीभावात्कथमेकैकधर्मविषयमनेकधाग्रहणं युक्तमित्याशङ्क्याहतत्रेत्यादि । तत्रेत्यनेकधाग्रहणे । स्वातन्त्र्येण विकल्पनं रुचिः । अर्थक्रियाभिलाषपरत्वमर्थित्वं । वृद्धव्यवहारशरणता व्युत्पत्तिः । उक्तमिति श्रीप्रत्यभिज्ञायां । तत्तद्गुणयोगादिति विविक्तत्वादिनानाविधधर्मसंबन्धात् । मनीनां तपोवनविषयमर्थित्वं । वेश्यानां च कामायतनविषयमर्थित्वं । एवं लासकानां तु संगीतशालविषया व्युत्पत्तिरर्थित्वञ्च । प्रायश इति अनेन रुचिरत्र नास्तीति सूचितं । ननु योऽयं श्रीकण्ठाख्यजनपदवर्णनग्रन्थखण्ड उदाहरणात्वेनानीतस्तत्रालङ्कारान्तरसंबन्धोऽप्यस्तीति कथमेतद्विषय एवोत्याह-नन्वित्यादिना । एतदेवाभ्युपगम्य प्रतिविधत्ते-सत्यभित्यादिना । तावच्छ्रब्दो रूपकाभावविप्रतिपत्तिद्योतनार्थं । तद्रूपताया इति तपोवनादिरूपतायाः । अत्रापि यदन्यैरवयविभावसंबन्धात्सारोपाया लक्षणायाः सत्त्वाद्रपकालङ्कारमाशङ्क्य विविक्तत्वस्य चिन्त्यत्वमुक्तं तदयुक्तं । अवयवावयत्रिभावसंबन्धाभावाल्लक्षणाया एवासत्त्वात् । नहि श्रीकण्ठाख्ये जनपदे तपोवनमवयवन्यायेन कुत्राप्येकदेशेऽस्ति यत्तत्रावयविनि मुनिभिरारोपितं । किं तु तत्तद्गुणयोगिनः श्रीकण्ठस्य विविक्तत्वादितपोवनादिगुणमुखेन निजनिजवासनानुसारेणार्थित्वादिना मुनिप्रभृतीनामीदृगाभासः । अथापि यद्यस्त्वत्रयवावयविभावविवक्षा तल्लक्षणमात्रं न रूपकं । तस्य लक्षणापरमार्थत्वेऽपि विषयस्य रूपवतः करणादलङ्कारत्वं । अन्यथा तु लक्षणामात्रमेव । नहि लक्षणापि रूपकपरमार्था । इह च तपोवनाद्यारोपेणारोपविषयस्य नातिशयः कश्चित् । वस्तुत एव तद्रूपतायाः संभवात् । अतश्च स्थित एवात्र रूपकविविक्तोऽस्य विषयः, न केवलमन्यालङ्कारविविक्तोऽयमेवास्यविषयो यावदे यत्रापि रूपकालङ्कारयोगोऽस्ति तत्राप्ययं संभवत्येवेति दर्शयितुमाह-यत्रेत्यादि । इयमपिभङ्गिरिति एकस्यानेकधाग्रहणरूपा । एतावतेति रूपकप्रयोगमात्रेण । ततश्चेति रूपकोल्लेखयोः संकरात् । ननु यत्र रूपकयोगो नास्तितदलङ्कारान्तरयोगः संभवतीत्याह-एवं हीत्यादि । अतद्रूपस्येति । अतपोवनरूपस्यापि तपोवनरूपत्वोपनिबन्धनात् । अतस्मिंस्तद्ग्रहे भ्रमैत्येतदेव हि भ्रमसतत्त्वं । अपूर्वस्येति भ्रान्तिमदसंभविनः । तद्धेतुकत्वादिति अनेकधाग्रहणाख्यातिशयनिमित्तकत्वात् । यदि चात्र भ्रान्तिमानप्यस्ति तत्तेन सहाश्य संकर एवास्त्वित्याह-संकरेत्यादि । यद्येवमिति । भ्रान्तिमानप्यस्ति तत्तेन सहास्य संकर एवास्त्वित्याह-संकरेत्यादि । यद्येवमिति । भ्रान्तिमतोऽस्य विशेषस्तेन सहास्य संकरो वेत्यर्थः । एष इति अतिशयोक्तिसद्भावः । तस्तैति ग्रहीतृभेदाल्यत्य विभागस्य । विच्छित्त्यन्तरत्वमेव हि सर्वेषामलङ्काराणां भेदहेतुः । तदेवं तत्तच्छ्रक्कानिरासपूर्वममुमेव सिद्धान्तीकृत्य पुनरप्युदाहरति-णापाअणो त्तीति । अत्र च नारायणत्वाद्युल्लेखनेवृद्धाप्रभृतीनां यथाक्रम व्युप्तत्त्यर्थवाचित्वात् । तत्प्रतिभोत्त्पत्तिहेतुरिति । श्लेषमन्तरेणात्राल्लेखानिष्पत्तेः । तदभाव इति, उल्लेखाभावः । अतश्तेति, श्लेषाबावेऽप्येतद्दिच्छित्तिसंभवात् । एवंविध इति विषयभेदरूपे । तत्तु यथा-
ऽसव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे
सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि ।
सेर्ष्या जह्वसुतावलोकनविधौ दीना कपालोदरे
पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वःऽ ।।
अत्रैकस्या एव दृष्टेस्तत्तद्विषयभेदेन नानात्वोल्लेखनं ।
तदयं । द्विप्रकारोऽपि रूपकाद्याश्रयवदन्यालङ्काराश्रयोऽपि संभवतीत्याह-एवमलङ्कारान्तरेत्यादि । तत्राद्यः प्रकारः संदेहाश्रयो यथा-
ऽकिं भानुः किमु चित्रभानुरिति यं निश्चिन्वते वैरिणः
किं चिन्तामणिरेष कल्पविटपी किं वेति चाशागताः ।
किं पुष्पाकर एष पुष्पविशिखः किं वेति रामाजनः
किं रामः किमु जामदग्न्य इति वा यं धन्विनो मन्वतेऽ ।।
अत्राकस्यैव संदिह्यमानानेकधात्वोल्लेखनं । अतिशयोक्त्याश्रयश्चायमेव यथा-
ऽवज्रं सौराज्यसाक्षी परिकलितमहाः शक्तिमार्द्रापराधो
दण्डं खड्गं रिपुस्त्रीप्रसभहरणवित्कूपवाप्यादिदृश्वा ।
पाशां पाणावपश्यन्ध्वजमपि बलवित्कोषवेदी गदां च
स्वाच्छ्रन्द्यज्ञस्त्रिशूलं लिखति करतले देव चित्राकृतेस्तेऽ ।।
अत्र त्वमेदेन्द्र इत्याद्यतिशयोक्त्या लोकपालाभेदो राज्ञ उपलभ्यते इत्येकस्यानेकधात्वोल्लेखनं । विषयभेदेन च रूपकाश्रयो यथा-
ऽमूर्घ्न्यद्रेधर्तुरागस्तरुषु किसलयं विद्रुमौधः समुद्रे
दिङ्मातङ्गोत्तमाङ्गेष्वभिनवनिहितः सान्द्रसिन्दूररेणुः ।
सीम्नि व्योग्नश्च हेन्मः सुरशिखरिभुवो जायते यः प्रकाशः
शोणिम्नासौ खरांशोरुषसि दिशतु वः शर्म रश्मिप्रतानःऽ ।।
अत्रैकस्यैव विषयभेदेन रूपकाश्रयं नानात्वं । ऽकारकान्तरऽ इत्यपपाठः । प्रकृतेकारकविच्छ्रित्त्याश्रयस्यैवानुक्तत्वात् । अयं स्वरूपहेतुफलोल्लेखनरूपत्वात्त्रिधा । तत्र स्वरूपोल्लेखः समनन्तरमेवोदाहृतः । हेतूल्लेकस्तु यथा -
ऽसर्गहेतोः सदा धर्मः स्थितिहन्तोरपि प्रजाः ।
द्विषः संहारहेतोश्च विदुस्त्वां जातमात्मनःऽ ।।
अत्रैकस्यैव जन्मनो हेतूनामनेकधात्वोल्लेखनं । फलोल्लोखस्तु यथा -
ऽधर्मायैव विदन्ति पार्थिव यथाशास्त्रं प्रजाः पालिता
अर्थायैव च जानतेऽन्तरविदः कोषैकदेशत्य ये ।
कामायैव कृतार्थतामुपगता नार्थश्च निश्चिन्वते
मोक्षायैव च वेद जन्म भवतः कश्चिद्विपश्चिज्जनःऽ ।।
अत्रैकस्यैव जन्मनः फलानामनेकधात्वोल्लेखनम्ऽ ।
विषयस्यापह्नवेऽपह्नुतिः ।। २१ ।।
वस्त्वन्तरप्रतीतिरित्येव प्रक्रान्तापह्नववैधर्म्येणेदमुच्यते । आरोपप्रस्तावादारोपविषयापह्नुतावारोप्यमाणप्रतीतावपह्नुत्याख्योऽलंङ्कारः । तस्य च त्रयी बन्धच्छाया, अपह्नवपूर्वक आरोपः, आरोपपूर्वकोऽपह्नवः । छलादिशब्दैरसत्यत्वप्रतिपादकैर्वापह्नवनिर्देशः । पूर्वोक्तभेदद्वये वाक्यभेदः । तृतीयभेदे त्वेकवाक्यत्वं । आद्यो यथा--
ऽयदेतच्चन्द्रान्तर्जलदलवलीलां प्रकुरुते
तदाचष्टे लोकः शशक इति नो मां प्रति तथा ।
अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणी
कटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुम्ऽ ।।
अत्रैन्दवस्य शशस्यापह्नवे उपक्षित्पे शशकप्रतिवस्तुकिणवत इन्दोरारोपो नान्वयघटनां पुष्यतीति न निरवद्यं । तत्तु यथा
ऽपूर्णेन्दोः परिपोषकान्तवपुषः स्फारप्रभाभास्वरं
नेदं मण्डलमभ्ययुदेनि गगनाभोगे जिगीषोर्जगत् ।
भारस्योच्छ्रितमातपत्रमधुना पाण्डुप्रदेषश्रिया
मानोन्नद्धजनाभिमानदलनोद्योगैकहेवाकिनःऽ ।।
द्वितीयो यथा-
ऽविलसदमरनारीनेत्रनीलाब्जषण्डा-
न्यधिवसति सदा यः संयमाधःकृतानि ।
न तु रुचिरकलापे वर्तते यो मयूरे
वितरतु स कुमारो ब्रह्मचर्यश्रियं वःऽ ।।
तृतीयो यथा--
ऽउद्भ्रान्तोज्झितगेहगूर्जरवधूकम्पाकुलोच्चैः कुच-
प्रेङ्खोलामलहारवल्लिविलन्मुक्ताफलच्छझना ।
सार्धं त्वद्रिपुभिस्त्वदीयशसां शून्ये मरौ धावतां
भ्रष्टं राजमृगाङ्कं! कुन्दमुकुलस्थूलैः श्रमाम्भःकणैःऽ ।।
अत्र शून्य इत्यस्य स्थाने मन्येशब्दप्रयोगे सापह्नवोत्प्रेक्षा इत्तयपि स्थापयिष्यते,ऽ अहं त्विन्दुं मन्येऽ इति तु वाक्यभेदे मन्येशब्दप्रयोगेनोत्प्रेक्षेति च वक्ष्यते । एतस्मिन्नपि भेदोऽपह्नवारोपयोः पौर्वापर्यप्रयोगविपर्यये भेदद्वयं सदपि न पूर्ववच्चित्रतावहमिति न भेदत्वेन गणितं । तत्रापह्नुवपूर्वके आरोपे निरन्तरमुदाहृतं । आरोपपूर्वके त्वपह्नवे यथा--
ऽज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी
न्यन्तर्धानव्यसनरसिका कात्रिकापालिकीयं ।
द्वीपाद्द्वीपं भ्रमति दधती चन्द्रमुदाकापाने
न्यस्तं सिद्धाञ्जनपरिमलं लाञ्चनस्य च्छलेनऽ ।।
कचित्पुनरसत्यत्वं वस्त्वन्तररूपताभिधायि-वपुः-शब्दादिनिबन्धनं यथा-
ऽअमुष्मिंल्लावण्यामृतसरसि नूनं मृगदृशः
स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः ।
यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे
खिखा धूमस्येयं परिणमति रोमावलिवपुःऽ ।। इति ।
विषयस्येत्यादि । वस्त्वन्तरेति । भ्रान्तिमतांऽनुवर्तत इति शेषः । अत एव केचन मण्डूकप्लुतिन्यायेनानुवर्तनस्यानुचितत्वाद्भ्रान्तिमदनन्तरमपह्नुतिर्ग्रन्थकृता लक्षिता उल्लेखश्चतिशयोक्त्यनन्तरमिति ग्रन्थं विपर्यासितवन्तः । न चैतत् । यत उल्लेखस्तावदतिशयोक्त्यनन्तरं ग्रन्थकृता न लक्षितः । यद्वक्ष्यति-ऽएवमध्यवसायाश्रयेणालङ्कारद्वयमुक्त्वा गम्यमानौपम्याश्रया अलङ्कारा इदानीमुच्यन्ते । तत्रापि पदार्थवाक्यार्थगतत्वेन तेषां द्वैविध्यैऽपि पदार्थगतमलङ्कारद्वयं क्रमेणोच्यतेऽ इति । तस्माद्वस्त्वन्तरप्रतीतेर्भावाद्भ्रान्तिमदनन्तरमेवास्य ग्रन्थकृता लक्षणं कृतं । अत एव चोल्लेखेऽपि तत्संभवाद्वस्त्वन्तरप्रतीतेर्निरन्तरमेवानुवर्तनादिहैवास्या लक्षणमुचितमिति यथास्थित एव ग्रन्थः साधुः । यद्येवं तर्धुल्लेखापह्लत्योरिहैव विपर्ययेण किं न लक्षणं कृतमित्याशङ्क्याह-प्रक्रान्तेत्यादि । इदमित्यपह्नुतिलक्षणं । तदेवव्याचष्टे - आरिपेत्यादिना । विषयस्यापह्नवेविषयिणोऽन्यस्य विधिरित्यर्थः । तेन-
ऽन विषं विषमित्याहुर्ब्रह्यस्त्वं विषमुच्यते ।
विषमेकाकिनं हन्ति ब्रह्मस्वं तु ससंततिम्ऽ ।।
इत्यत्र विषयस्य निषेधपूर्वं ब्रह्मस्वविषय आरोप्यमाणत्वाद्दृढारोपं रूपकमेव नापह्नुतिः । अपह्नुतेर्हि निषेध्यविषयभित्तितयैवान्यस्य विषयिणो विधानं लक्षणं । अत्र तु निषेध्यस्यैव विषस्य ब्रह्मस्वविषये आरोप्यमाणत्वाद्विधानं । अथ ऽअत्र मुख्यस्य विषस्य निषेधेआरोप्यमाणत्वात्ब्रह्मस्वविषस्य गौणस्य विधानम्ऽ - [अलङ्काररत्नाकरे पृ.४२] इति चेत्, तत्र ब्रह्यस्वविषस्य गौणस्य विधानमिति भणितेः कोर्ऽथः । किं ब्रह्मस्येति । तत्र नाद्यः पक्षः । विषादिन्यायेन ब्रह्मस्वविषात्मनः कस्यचिद्वस्तुनो बहिरसंभवात् । तत्राप्यस्य ब्रह्मस्वं विषं चेति न भेदेनोक्तिः स्यात् । नापि गौणता स्वार्थ एव प्रवृत्तेः । अन्यदन्यत्र वर्तमानां गौणमित्युच्यते । न चात्र ब्रह्मस्वविषमन्यत्र कुत्रचिद्वर्तते येनास्य गौणता स्यात् । एवं द्वितीयेऽपि पक्षे न गौणत्वं युक्तं । नाप्यत्रोभयविधिः । ब्रह्मस्ववृत्त्यभावान्मुख्यार्थबाधाद्गुणेषु वर्तनात् । तृतीयेऽपि न गौणस्य सतो विषस्य विधानं । ब्रह्मस्ववृत्त्यभावान्मुखायार्थबाधाधाद्गुणेषु वर्तनात्विहितस्य तस्तय गौणत्वात् । एवं ब्रह्मस्वत्य दाढर्येन विषसाभ्यप्रतीतिप्रतिपिपादयिषया तत्र निषेधपूर्वं विषमारोपितमिति दृढारोपमेव रूपकं युक्तं । न ब्रह्मस्वं विषमिदमिति पुनरुच्यमानेऽपह्नुतिः स्यात् । तस्मात्ऽमुख्यस्य वेऽ त्यपास्त विषयस्यापह्नुवेऽन्यविधिरपह्नुतिरित्येव लक्षणं कार्यं ।
तस्येत्यपह्नुत्याख्यस्यालङ्कारस्य । वाक्यभेद इति एकवाक्यमिति चानेन यथासंभवं भेदत्रयस्य स्वरूपनिर्देशः कृतः । न निरवद्यमिति । यथोक्तक्रमनिर्वाहाभावात् । अत एवोदाहरणान्तरमाह-पूर्णेन्दोरित्यादि । मन्येशब्दस्य प्रयोग इति संभावनाद्योतकत्वात् । नोत्प्रेक्षेति । साध्यवसायाद्युत्प्रेक्षासामग्रयभावात् । वक्ष्यत इति । उत्प्रेक्षायां । तया चास्या इवादिशब्दवन्मन्येशब्दोऽपि प्रतिपादकः । किन्तूत्प्रेक्षासामग्रयभावे मन्येशब्दप्रयोगो वितर्कमेव प्रतिपादयतीति । अतश्चात्रऽअवात्पः प्रागल्भ्यम्-इत्यादावपह्नत्यतुदाहरणत्वमभिदधतःसमानेऽपि न्यायेऽनो मां प्रति तथाऽ इत्यनेन शशकपक्षस्य निराकृतत्वादन्यस्यान्यरूपतया संभावनाया अभावान्मन्य-इत्यनेन किणपक्षस्यैव निश्चितत्वादतिशयोक्तित्वमेवेति मन्यन्ते (अलङ्काररत्नकरकारादयः) । तेषां पूर्वापरविचारकुशलानां किमभिदध्मः । एवमन्यैरत्रान्यत्र चोदाहरणादौ बहुप्रकारं स्खलितं तत्पुनर्ग्रुन्थविस्तररभयाद्,अस्मद्दर्शनदत्त्दूषणोद्भरणस्यैव प्रतिघज्ञातत्वात्,अस्माभिः प्रतिपद्येन न दूषितं ।
एतस्मिन्निति छलादिशब्दप्रतिपाद्ये । संभावमात्रं पुनर्दर्शयितुमेतदुदाहृतं । वस्त्वन्तररूपताभिधायीति । वपुःशब्दस्य शरीरार्थाभिधायित्वात् । अत्र पुनरुपमानस्योपमेयरूपतापरिणतौ परिणाम इति परिणमालङ्कारत्वं स्यात् । इह पुनः शर्वप्लुष्टमदननिपतनानुमापकत्वेन रोमावल्यपह्नवे धूमशिखाया एवं प्राधान्यं विवक्षितमिति न परिणामः नापि रूपकं । व्याजार्थपर्यवसायिवपुः शब्दबलादारोपविषयापह्नुतावारोप्यमाणस्य प्रतीतेः । आरोपविषयानपह्नवे हि रूपकमिति पूर्वमेवोक्तं । अथात्रापि भिन्नयोः सामानाधिखरण्यायोगादेकतरस्य निषेधप्रात्पवारोप्यमाणस्य च निषेधानुपपत्तेरारोपविषयस्यैव पर्यवसाने निषेधः प्रतीयत इति चेत्, नैतत् । अत्र हि मुखादौ चन्द्रादेर्वृत्यभावाद्बाधितः संश्चन्द्रार्थः स्वात्मसहचारिणो गुणांल्लक्षयति न तु मुखादेर्विषयस्य निषेधः प्रतीयते । मुखशब्दादेः स्वार्थ एव प्रवृत्तेः । पर्यवसाने ह्यत्र मुखादि चन्द्रदिगुणविषिष्टं प्रतीयते । न तु मुखादेर्बाधः । न मुखमित्येवमादेः प्रत्यवमर्शाभावात् । नापि निदर्शना । संबन्धविघटनाद्यभावात् ।
आदिशब्दाच्च तृतीययापि क्वचिदसत्यत्वं प्रतिपाद्यते । यथा-
ऽमद्धाह्वोर्व्यवहारमुज्झतु लता कण्ठस्थले तावके
मा कार्षीरतिसाहसं प्रियतमे दासस्तव प्राणिति ।
नीता वृद्धिममी त्वयैव कुसुमैर्बाष्पायमाणा द्रुमा
गृह्णन्ति क्षुरिकामिवालिपटलव्याजेन पाशच्छिदेऽ ।।
अत्र कुसुमैरिति तृतीययापह्णवनिबन्धनं । आरोपगर्भत्वाच्चेयं सादृश्याद्वा भवति संबन्धान्तराद्वा । सादृश्येऽप्यस्याः साधारणधर्मस्य त्रयी गतिः । तत्रानुगामिता यथा-
ऽतरुणतमालकोमलकोमलीमसमेतदयं कलयति चन्द्रमाः किल कलङ्कमिति ब्रुवते ।
ऽ तदनृतमेव निर्दयविधुन्तुददन्तपदव्रणविवरोपदर्शितमिदं हि विभाति नभः ।।
अत्र तमालमलीमसत्वमनुगामित्वेनोपात्तं । शुद्धसामान्य रूपत्वं यथा-
ऽअय सुरेन्द्रोपवनाद्धरित्रीं स पारिजातो हरिणोपनीतः ।
न प्रातितोऽयं सुमनः प्रवर्हः कश्मीरदेशोद्भवताभिमानम्ऽ ।।
अत्रापनयनप्रापणयोः शुध्दसामान्यरूपत्वं । बिम्बप्रतिबिम्बभावो यथा -
ऽन स्योत्स्माभरणं नभो न मिलितच्छायापथो वाम्बुदो
नो ताराप्रकारो न चेदममृतज्योतिष्मतो मण्डलं ।
क्षीरक्षोभमयोऽप्यपांनिधिरसौ नेत्राहिना मन्दरः
पृक्तोऽयं मणिपूग एष कलशश्चायं सुधानिर्झरःऽ ।।
अत्र ज्योत्स्नाभरणत्वस्य क्षीरक्षोभमयत्वं प्रतिबिम्बत्वेन निर्दिष्टं । संबन्धान्तराद्यथा-
ऽहेलोदञ्चन्मलयपवनाडम्बरेणाकुलासु
प्रेङ्खाकेलिं कमपि भजतां चृतशाखालतासु ।
वाचालत्वं ननु यदभवत्कानने कोकिलानां
मौनित्वं तत्पथिकहरिणीलोचनानां वबल्गऽ ।।
अत्र कोकिलवाचालत्वस्य कारणस्य निषेधे पथिकस्त्रामौनित्वस्य कार्यस्य विधिः । एवमारोपगर्भेयं सप्रपञ्चं दर्शिता । अध्यवसायगर्भा पुनर्दर्श्यते यथा-
ऽन लक्ष्मीसौदर्यान्न च सुरशरण्यीकृतसुरा-
सुधादिज्येष्ठत्वान्न मुकुटमणित्वाद्भगवतः ।
यदेवं बालेन्दोर्दिशि विदिशि वन्द्यत्वमुदितं
स्फुटं त्वेतत्कान्तामुखकमलदास्यादुपनतम्ऽ ।।
अत्र वन्द्यत्वस्य प्रभावादिहेतुकत्वे निगीर्य हेत्वन्तरमध्यवसितं । यथा वा-
ऽकलाभिस्तृप्त्यर्थं सुरपितृनृणां पञ्चदशभिः
सुधासूतिर्देवः प्रतिदिनमुदेतीत्यतसदिदं ।
परिभ्राम्यत्येष प्रतिफलनमासाद्य भवती-
कपोलान्तर्युक्त्या त्वदधरसुधासंग्रहपरःऽ ।।
अत्रोदयादौ तत्तद्राश्युपभोगलक्षणं निमित्तं निगीर्य तत्फलभूतं निमित्तान्तरमध्यवसितं ।
एतदुपसंहरन्नन्यदवतारयति । एवमित्यादि ।
एवमभेदप्राधान्ये आरोपगर्भानलङ्कारांल्लक्षयित्वा अध्यवसायगर्भांल्लुक्षयति- तत्र
अध्यवसाये व्यापारप्राधान्ये उत्प्रेक्षा ।। २२ ।।
विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः ।
आरोपगर्भानिति । अत्राध्यवसायगर्भत्वस्यापि विद्यमानत्वान्मल्लग्राम इत्यादिवदारोपगर्भस्य प्राधान्यादेवं व्यपदेशः । तत्र तावदुत्प्रेक्षां लक्षयति-अध्यवसाय इत्यादि ।
अध्यवसाय इति न पुनः संदेह इति । इह हि निश्चयानिश्ययरूपत्वेन प्रत्ययानां द्वैविध्यं । निश्चयश्चार्थाव्यभिचारी सम्यक्,अम्यक्,अन्यथा त्वसम्यगिति भेदो न ग्राह्यः । प्रतीतिवृत्तिमात्रस्यैवेह विचारयितुमुपक्रान्तत्वात् । तस्य च प्रामाण्यविचारे उपयोगात् । अनिश्चयश्च संशयतर्करूपत्वेन द्विविधः । अतश्चानिश्चितं च संदग्धमेवेति न वाच्यं । तर्कात्मनः संभावनाप्रत्ययस्याप्यनिश्चयात्मकत्वे सदिग्धत्वाभावात् । उत्प्रेक्षा संभावनादिशब्दाभिधेयतर्कंप्रतीतिमूलेति नास्याः संदेहमूलत्वं । तस्य भिन्नलक्षणत्वात् । अथानवधारणघज्ञानं संशयैत्यनवधारणज्ञानत्वाविशेषात्संशयान्नार्थान्तराभावस्तर्कस्येत्यस्याः संशयमूलत्वमिति चेत्, नौतत् । अनवधारणज्ञानत्वाविशेषेऽरि संशतर्कयोभिंन्नरूपत्वात् । तथाहि-स्थाणुर्वा पुरुषो वेति सामान्येन पक्षद्वयोल्लेखः संशयः । पुरुषेणानेन भवितव्यमित्येकतरपक्षानुकूलकारणदर्शनेन पक्षान्तरबाधनमिव तर्कः । पुरुष एवायमिति पक्षान्तरासंस्पर्शेनैकतरपक्षनिर्णयो निश्चय इत्यस्ति सहृदयसाक्षिकं प्रत्ययानां त्रैविध्यं ।
बाढमस्त्येव प्रत्ययानां त्रैविध्यम्,किं त्वनवधारणज्ञानत्वाविशेषात्सशयप्रकारस्तर्कं इति चेत्,नौतत् । एवं ह्यसम्यग्ज्ञानत्वाविशेषाद्भ्रमोऽपि संशयप्रकारः स्यात् । अर्थनिश्चयानिश्चयस्वभावत्वादिना अस्त्यनयोर्विशेष इति चेत्,इह पुनर्नास्त्यत्र किं प्रमाणं । संशयो ह्यनियतोभयांशावलम्बित्वेनोदेति,तर्कः पुनरंशान्तरबाधनेनेत्र वाहकेलिदर्शनाद्यनुकूलकारणौचित्यादंशान्तरावलम्बनेन चेत्यस्त्यनयोर्विशेषः । देशान्तरे हि यथा स्पर्धमान एव स्थाणुपक्ष आस्ते न तथा वाहकेलिभूमौ,अपि तु शिथिलीभवति,संभवत्प्रमादत्वाच्च सर्वात्मना न निवर्तत इति अत एव निश्चयः साधकप्रमाणाभावेऽप्यस्योपपत्तः । नहि सर्वात्मना न निवर्तत इति अत एव निश्चयः साधकप्रमाणाभावेऽप्यस्योपपत्तः । नहि प्रतिपक्षबाधादेव निश्चयो भवति । साधाकबाधकप्रमाणसद्भावेन तदुत्पादात् । तेनानियतोभयपक्षावलम्बी किंस्विदिति विमर्शः सदेहः । एकतरपक्षावलम्बी तु तर्क इति ।
अथ कास्यऽफलस्योपायविशेषःऽ इत्येकतरपक्षावलम्बेनापि संदेहः संभवतीति चेत्,नैतत् । किमथनानियतपक्षान्तरस्वीकारादेकतरपक्षावलम्बनस्याप्रतिष्ठानात् । बाह्यालीदर्शनाच्च यथा पुरुषविशेषाः स्मरणपथं समवतरन्ति न तथा स्थाणुविशेषा इत्युभयविशेषस्मरणजन्मनः संदेहादेकतरविशेषस्मरणजन्मा विशिष्यते तर्क इत्याद्यवान्तरमतिगहनमनयोरन्तिभेदसाधनं तत्पुनः प्रकृतानुपयोगादिह नोक्तं । तेन संदेहनिश्चयान्तरालवतीं तान्द्वलक्षणः संभावनाप्रत्ययस्त्रिशङ्कुरिव लम्बमानोऽवश्याभ्युपगन्तव्यः ।
एवमप्यनिश्चयात्मकसंभावनाप्रत्ययमूलत्वादुत्प्रेक्षायाः कथमध्यवसायमूलत्वं । तस्य हि विषयनिगरणं विषयिनिश्चयश्च स्वरूपं । न चात्रैकमपि संभवति । विषयोपादानान्निश्चयाभावाच्चेति । अत्रोच्यते - इह द्विधास्त्यध्यवसायः-स्वारसिक उत्पादितश्च । तत्र स्वारसिके विषयानवगत एव निमित्तं तत्सामर्थ्यात्स्वरसत एव विषयिप्रतीतेरुल्लासात् । न ह्यवगतशुक्तिकास्वरूपन्य प्रमातुः कदाचिदपि रजतमिदमिति प्रत्ययोत्पादः स्यात् । इतरत्र तु विषयमवगम्यपि तदन्तःकारेण प्रतिपत्तौ स्वात्मपरतन्त्रविकल्पबलाद्विषयप्रतिपत्तिमुत्पादयेत् । जानान एव हि विषयिविविक्तं विषयं तत्र प्रयोजनपरगता स्वारसिक्येव तथाविधा प्रतिपत्तिर्वक्त्रानूद्यते न तूत्पाद्यते । यदाहुः- ऽप्रमात्रन्तरधीर्भान्तिरूपा यस्मिन्ननूद्यते । स भ्रान्तिमान्ऽ इति । स्वारसिकत्वं पुनरत्र कविप्रतिभानिर्वतितमेवेष्टं । अन्यथा हि भ्रान्तिमात्रं स्यादिति पूर्वमेवोक्तं । इतरस्तूत्प्रेक्षाविषयः । स च द्विविधः-सिद्धः साध्यश्च । सिद्धो यत्र विषयस्यानुपात्ततया निगीर्णत्वादध्यवसितप्राधान्यं । सिध्यो यत्रेवाद्युपादानात्संभावनाप्रत्ययात्मकत्वाद्विषयस्य निगीर्णत्वादध्यवसितप्राधान्यं । साध्यो यत्रेवाद्युपादानात्संभावनाप्रत्ययात्मकत्वाद्विषयस्य निगीर्यत्वादध्यवसितप्राधान्यं । साध्यो यत्रेवाद्युपादानान्त्संभावनाप्रत्ययात्मकत्वाद्विषयस्य निगीर्यमाणत्वादध्यवसायक्रियाया एव प्राधान्यं । अत एवाह-ऽव्यापारप्राधान्यऽ इति । अत एव चात्र क्विचिद्विषयानुपादानं । वाच्योपयोग्यध्यवसायस्य साध्यमान वेनोपक्रान्तत्वात् । क्विचिच्च विषयस्यानुपादानेऽपि न सिद्धत्वं । इवाद्यलपादानान्निगीर्यमाणत्वादारोपगर्भत्वं न वाच्यं । तत्र विषयस्य विषयितया प्रतीतिः । इह पुनर्वषयस्य निगीर्यमाणत्वेन विषयिण एव प्रतीतिः । ननु विषयनिगरणमध्यवसायस्य लक्षणं । इह पुनर्विषयस्य निगीर्यमाणतेति कथमत्राध्यवसायतेति चेत्,नैतत् । विषय्यन्तःकृतेऽन्यस्मिन्सा स्यात्साध्यवसानिकाऽ इत्याद्यक्त्याध्यवसायस्य विषयिणा विषयस्यान्तःकरणं लक्षणं । तच्च विषयस्य निगरणेन निगीर्यमेणत्वेन वा भवतीति न कश्चिद्विशेषः । निगीर्यमाणत्वमपि पूर्वोक्तनीत्या विषयस्योपात्तस्यानुपात्तस्य वा भवतीतिन कश्चिद्विशशेषः । एवं सिध्देऽध्यवसायेऽध्यवसितप्राधान्य साध्ये च स्वरूपप्राधान्यमितिसिद्धं । एवच्च ग्रन्थकृदेव विभज्याग्रे वक्ष्यतीति तत एवावधायंं । यदेव साध्यवसायस्य साध्यत्वं तदेव संभावनात्मकत्वं । संभावना ह्येकतरपक्षशिथिलीकारेण पक्षान्तरदार्ढ्येन च प्रादुर्भवतीत्यस्याः साध्याध्यवसायतुल्पकक्षत्वं । तस्यापि विषयशिथिलीकारेण विषयिदार्ढ्येन चोत्पत्तेः । अत एव विषयिणोऽपि शब्देन वृत्तेन सत्यन्त्वं । विषयिदार्ढ्येनैव साध्याध्यवसायत्वरूपप्रादुर्भावात् । यदुक्तं भवद्भिरेवऽसंभावनायां च संभाव्यमानस्य दार्ढ्यादपरस्य न शौथिल्यात्ऽ इति । इह संभाव्यमानस्य विषयिणो दार्ढ्यादत्र संशयाद्वैलक्षण्यं । तस्य ह्यनियतोभयांशावलम्बी किंस्विदिति विमर्शो लक्षणं संभावनाविषयस्य च शौथिल्यान्निश्चयादपि भेदः । विषये हि बाधकसद्भावादेकस्य शैथिल्येन वा साधकसद्भावाच्च पक्षान्तरस्य सिद्धिः स्यात् । अतिशयोक्तिश्च निश्चयात्मिकेति ततोऽस्या भेदः । यत्तुऽसाध्यो यत्र विषयिणोऽसत्यतया प्रतीतिःऽ इत्यादि ग्रन्थकृद्वक्ष्यति तद्वस्तुवृत्ताभिप्रायेणावगन्तव्यं । तदेवं विषयस्य निगीर्यमाणत्वाद्विषयिणश्च निश्चयात्सिद्धमध्यवसायमूलत्वमस्या इति यथोक्तमेव लक्षणं पर्यालोचिताभिधानं । तस्मात्-
ऽइवादौ निश्चयाभावाद्विषयस्य परिग्रहात् ।
क्वचिदध्यवसायेन नोत्प्रेक्षापि तु संशयात्ऽ ।।
इत्याद्युक्तमयुक्तमेवेत्यलं बहुना ।
स च द्विविधः - साध्यः सिद्धश्च । साध्यो यत्र विषयिणोऽसत्यतया प्रतीतिः । असत्यत्वं च विषयिगतस्य धर्मस्य विषय उपनिबन्धे विषयिसंभावित्वेन विषयासंभावित्वेन च प्रतीतेः । धर्मो,गुणक्रियारूपः तस्य संभवासंभवप्रतीतौ संभवाश्रयस्य तत्रापरमार्थतया असत्यत्वं प्रतीयते, इतरस्य तु परमार्थतया सत्यत्वं । यस्यासत्यत्वं, तस्य सत्यत्वप्रतीतावध्यवसायः साध्यः । अतश्च व्यापारप्राधान्यं । सिद्धो यत्र विषयिणो वस्तुतोऽसत्यस्यापि सत्यताप्रतीतिः । सत्वत्वं च पूर्वकस्यासत्यत्वनिमित्तस्यभावात् । अतश्चाध्यवसितप्राधान्यं । तत्र साध्यत्वप्रतीतौ व्यापारप्राधान्येऽध्यवसायः संभावनमभिमानस्तर्क ऊहृ उत्प्रेक्षेत्यादिशब्दैरुच्यते । तदेवमप्रकृतगतगुणक्रियाभिसंबन्धादप्रकृतत्वेन प्रकृतस्य संभावनमुत्प्रेक्षा । सा च वाच्या इवादिभिः प्रदर्श्यते । प्रतीयमानायां पुनरिवाद्यप्रयोगः । सा च जातिक्रियागुणद्रव्यताणामप्रकृतानामध्यवसेयत्वेन चतुर्था । प्रकृतस्यैतद्भेदयोगेऽपि न वैचित्र्यमिति न ते गणिताः । प्रत्येकं च भावाभावाभिमानरूपतया द्वैविध्येऽष्टविवत्वं । भेदाष्टकस्य च प्रत्येकं निमित्तस्य गुणाक्रियारूपत्वे षोडश भेदाः । तेषां च प्रत्येकं निमित्तस्योपादानानुपादनाभ्यां द्वात्रिंशत्प्रभेदाः, तेषु च प्रत्येकं हेतुस्वरूपफलोत्प्रेक्षणरूपत्वेन षण्णवतिर्भेदाः । एषा गतिर्वाच्योत्प्रेक्षाया । तत्रापि द्रव्यस्य प्रायः स्वरूपोत्प्रेक्षणमेवेति हेतुफलोत्प्रेक्षाभेदास्ततः पातनीयाः । प्रतीयमानायास्तु यद्यप्युद्देशत एतावन्तोभेदाः, तथापि निमित्तस्यानुपादानं तस्यां न संभवतीति तैर्भेदैर्यूनोऽयं प्रकारः । इवाद्यनुपादाने निमित्तस्यत चाकीर्तने उत्प्रेक्षणस्य निष्पमाणत्वात् । प्रायश्च स्वरूपोत्प्रक्षाया यथासंभवं भेदनिर्देश ।
एषा चार्थाश्रयति धर्मविषये श्लिष्टशब्दहेतुका क्वचित्पदार्थान्वयवेलायां सादृश्याभिवानादुपक्रान्ताप्युपमावाक्यार्थतात्पर्यसामर्य्थाभिमन्तृव्यापारोपारोहक्रमेणोत्प्रेक्षायां पर्यवस्यति । क्वचिच्छलादिशब्दप्रयोगे सापह्नवात्प्रेक्षा भवति । अतश्चोक्तवक्ष्यमाणप्रकारवैचित्र्येणानन्त्यमस्याः ।
एतदेव व्याचष्टे - विषयेत्यादिना । अभेदप्रतिपत्तिरिति विषयान्तःकरणात् । संभावनाप्रत्ययात्मकत्वेऽपि साध्याध्यवसायस्य वस्त्वभिप्रायेण तद्वैलक्षण्यं प्रदर्शयितुमाह-साध्य इत्यादि । विषयपरिशोधनद्वारेण प्रमाणानुग्राहकत्वात्संभावनाप्रत्ययस्य पुरुषेणनेन भवितव्यमित्यत्र वस्तुवृत्तेन पुरुषस्य सत्यत्वं । इह पुनस्तत्र तस्य प्रयोजनपरतयाध्यवसीयमानत्वात्संवनाविषये संभाव्यमानस्य वस्तुतो न सत्यत्वमित्याह-असत्यतया प्रतीतिरिति । अत्रैव निमित्तमाह-असत्यत्वं चेत्यादिष । विषय उपनिबन्ध इति । तद्गतधर्माभेदेनाध्यवसित इत्यर्थः । अनेनसप्रयोजनत्वमेवोपोद्वलितं । धर्म इति विषयिगतः । स एव चोत्प्रेक्षणे निमित्तं । तस्येति धर्मस्य । संभावनाश्रयस्येति विषयिणः । तत्रेति संभावनाश्रये विषये । इतरस्येति असंभवाश्रयस्य विषयस्य । यस्येति विषयिणः । अतंश्चेति । अध्यवसायस्य साध्यमानत्वात् । असत्यस्यापीति । वस्तुतो विषयिणस्तत्रासंभवात् । सत्यताप्रतीतिरिति । निश्चयस्वभावत्वादतिशयोक्तेः । असत्यत्वनिमित्तस्यन्ति धर्मसंचारादेः । अतश्चेति धर्मसंचारात्रिगीयमाणतायाः प्राधान्याभावात् । अध्यवसितप्राधान्यमिति विषयस्य निगीर्णत्वाद्विषयिण एव प्राधान्यमित्यर्थः । साध्यत्वसिद्धत्वयोश्च समनन्तरमेवस्वरूपमुपपादितमितीह न पुनरायस्तं । तत्रेति द्वयनिर्धारणे । अध्यवसाय इत्यादिशब्दैरुच्चत इति संबन्धः । एतदेवोपसंहरति-तदेवमित्यादि । यदाहुः-ऽविवयित्वेन संभावनमुप्रेक्षाऽ इति । प्रतीयमानायामिति । इवाद्यप्रयोगाच्छब्दानुक्तत्वादूह्यायां न व्यङ्गयायाम्,अलङ्कारप्रभेदानां प्रतिपिपादयिषितत्वाद्व्यङ्ग्यभेदाभिधानस्याप्रस्तुतत्वात् । एवं वाच्या प्रतीयमाना चोत्प्रेक्षा भवतीत्यनुवादद्वारेण विधिः । सा चेति । वैचित्र्यमिति । तस्य निगीर्थमाणत्वेनाप्राधान्यात् । प्रत्येकमिति जात्यादीनां । निमित्तस्येति धर्मस्य । तद्वशादेव हि प्रकृतगतत्वेनाप्रकृतोपनिबन्धः । हेतुस्वरूपफललक्षणमेवास्या भेदत्रयं जीवितभूतमिति तदेव विश्रान्तिधामतया पश्चादुद्दिष्टं । जात्यादिभेदगणनं पुनरवैचित्र्यावहमपि चिरन्तनानुरोधात्कृतं । अत एव ग्रन्थकृता प्रातिपद्येन नोदाहृतं । अस्माभिश्च नोदाहरिष्यते । एषेति । समनन्तरोक्ता । तत्रापीति । सत्यामपि समनन्तरोद्दष्टायां भेदगणमायां । प्रायःशब्देन च हेतुफलयोः कुत्रापि संभवोऽस्तीति दर्शितं । अत एवालङ्कारानुसारिण्यां ग्रन्थकृतानयोरपि संभवो दर्शितः । तदेवं द्रव्यस्य हेतुफलयोः संभवे प्रागुक्तैव संख्या ज्यायसी । अन्यथा त्वेतद्भेदषोडशकत्याभावादशीतिर्भेदाः । अस्याश्च वक्ष्यमाणनीत्या हेतुफलयोर्निमित्तानुपादानासंभवाच्चतुःषष्टिरेव भेदाः संभवन्ति । एतावन्त इति षण्णवतिः । अयं प्रकार इति । प्रतीयमानोत्प्रेक्षालक्षणः । प्राय इति । वाच्या यथा स्वरूपोत्प्रेक्षा लक्षयेषु प्रचुरा तथेयं न भवतीत्यर्थः । न पुनरत्यन्तमेवास्या अभावो श्चाष्टचत्वार्रिशद्भेदाः संभवन्ति । तदुक्तमलङ्कारानुसारिण्याम्-ऽप्रतीयमानोत्प्रेक्षाभेदा अष्चत्वारिंशत्ऽ इति । अर्थाश्रयापीति । अर्थाश्रयस्य यद्यपि शब्दहेतुकत्वं न क्वाप्युपयुक्तं तथापि श्लिष्टशब्दहेतुकत्वमस्याः क्वचिद्वैचित्र्यमावहतीत्यर्थः । उपमा उत्प्रेक्षायां पर्यवस्यतीति संबन्धः । आनन्त्यमिति बहु प्रकारत्वं ।
साप्रतं त्वियं दिड्व्रात्रेणोदाह्नियते । तत्र जात्युत्प्रेक्षा यथा-
ऽस वः पायादिन्दुर्नवबिसलताकोटिकुटिलः-
स्मारारेर्यो मूर्ध्नि ज्वलनकपिशो भाति निहितः ।
स्त्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा
कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इवऽ ।।
अत्राङ्कुरशब्दस्य जातिशब्दत्वाज्जातिरुत्प्रेक्ष्यते ।
क्रियोत्प्रेक्षा यथा--
ऽलिम्पतीव तमोङ्गानि वर्षतीवाञ्जनं नभःऽ ।
अत्र लेपनवर्षणक्रिये तमोनभोगतत्वेनोत्प्रेक्ष्येते ।
उत्तरार्धे तुऽअसत्पुरुषसेवेव दृष्टिर्निष्फलतां गताऽ ।।
इत्यत्रोपमैव नोत्प्रेक्षा ।
गुणोत्प्रेक्षा यथा-
ऽसैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्यां ।
अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्ऽ ।।
अत्र दुखं गुणः ।
द्रव्योत्प्रेक्षा यथा-
ऽपातालमेतन्नयनोत्सवेन विलोक्य शून्यं मृगलाञ्छनेन ।
इहाङ्गनाभिः स्वमुखच्छलेन कृताम्बरे चन्द्रमयीव सृष्टिःऽ ।।
अत्र चन्द्रस्यैकत्वाद्द्रव्यत्वं । एतानि भावाभिमाने उदाहरणानि ।
सांप्रतमिति प्रात्पावसरं । दिङ्मात्रेणेति । अनेन जात्यादिभेदानामनवक्लत्पिर्ध्वनिता । तमोगतत्वेनेति । तमोगतव्यापनादिधर्मनिगरणेनेत्यर्थः । अत्र हि तमसो धर्मिणोऽन्यधर्मधर्मित्वं निगीर्यान्यधर्मधर्मित्वमवस्थापितमित्यग्र एव वक्ष्यामः । द्रव्योत्प्रेक्षेति । द्रव्यस्य स्वरूपेणोत्प्रेक्षणं । तस्यैव हि हेतूत्प्रेक्षा यथा -
ऽजयति शिशिरतायाः कारणं सा हिमाद्रे-
स्त्रिपुरहरकिरीटादापतन्ती द्युसिन्धुः ।
सततसहनिवासी क्षीरसिन्धोः प्रसूतो-
हिमकर इव हेतुः श्वैत्यशैत्यस्य यस्याःऽ ।।
अत्रेन्दोर्द्रष्यस्य हेतुत्वेनोत्प्रेक्षणं । फलोत्प्रेक्षा यथा -
ऽमध्येसलिलमादित्यसंमुखं धूलिधूसराः ।
कुमुदिन्यस्तपस्यन्ति चन्द्रायेव दिने-दिनेऽ ।।
अत्र चान्द्रस्य द्रव्यत्वं । एषामेव भावाभिमानोदाहरणत्वमतिदिशति-एतानीत्यादिना ।
अभावाभिमाने यथा-
ऽकपोलफलकावस्याः कष्टं भूत्वा तथाविधौ ।
अपश्यन्ताविवान्योन्यमीदृक्षां क्षमतां गतौऽ ।।
अत्रापश्यन्ताविति क्रियाया अभावाभिमानः । एवं जात्यादावप्यूद्यं ।
गुणस्य निमित्तत्वं यथा-ऽनवबिसलताकोटिकुटिलःऽ इत्यत्रोदाहृते कुटिलत्वस्य । क्रियाया यथा- र्ऽइदृक्षां क्षामतां गतौऽ इत्यत्र क्षामतागमनस्य । निमित्तोपादानस्यैते उदाहरणे । अनुपादानेऽलिम्पतीव तमोऽङ्गानिऽ इत्याद्युदाहरणं ।
हेतूत्प्रेक्षा यथा -
ऽविश्लेषदुःखादिव बद्धमौनम्ऽ इत्यादौ ।
स्वारूपोत्प्रेक्षा यथा -
ऽकुबेरजुष्टां दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घ्य ।
दिग्दक्षिणा गन्धवहं मुखेन व्यलीकनिः श्वासमिवोत्ससर्जऽ ।।
फलोत्प्रेक्षा यथा -
ऽचोलस्य यद्भीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः ।
अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणिऽ ।।
एवं वाच्योत्प्रेक्षाया उदाहरणदिग्दत्ता । प्रतीयमानोत्प्रेक्षा यथा -
ऽमहिलासहःसभरिए तुह हिअए सुहा सा असाअन्ती ।
अणुदिणमणण्णाम्भा अङ्गं तणुअंपि तणुएइऽ ।।
अत्र-अमाअन्तीत्यवर्तमानेवेति तनूकरणहेतुत्वेनोत्प्रेक्षितं ।
एवं भेदान्तरेष्वपि ज्ञेयं ।
अभ्यूह्यमिति अभावाभिमानोदाहरणं । निमित्तोपादानस्येति । कुटिलत्वस्य क्षामतागमनस्य च साक्षान्निर्देशात् । अनुपादान इति । तिरोधायकत्वादेर्निमित्तस्य गम्यमानत्वात् । भेदान्तरेष्विति स्वरूपफलादिकेषु । ज्ञेयमिति प्रतीयमानत्वात् । तत्र स्वरूपोत्प्रेक्षा यथा -
ऽमलासमीरसमागमसंतोसपणिच्चाराभिसव्वत्तो ।
विध्याइह चलकिसलजकराहि साहाहि महुलच्छ्रीऽ ।।
अत्र मधुलक्ष्मीगतत्वेन चलकिसलयकरत्वादि निगीर्य व्याहरणक्रिया स्वरूपेनोत्प्रेक्षिता । तदौन्मुख्योत्पादकत्वादि च निमित्तमनुपात्तं । यत्पुनरुद्देशे प्रतीयमानोत्प्रेक्षायां निमित्तानुपादानं न संभवतीत्युक्तं तत्र प्रायस्तस्याः स्वरूपोत्प्रेक्षणस्यासंभवो निमित्तं । ग्रन्थकृतो हि प्रतीयमानोप्रेक्षा हेतुफलरूपैव भवतीत्यभिप्रायः । हेतुफलोत्प्रेक्षणयोश्चवक्ष्यमाणनीत्या निमित्तानुपादानं न संभवतीत्याशयेनैतदुक्तं । तेन प्रतीयमानापि स्वरूपोत्प्रेक्षा निमित्तोपादानानुपादानाभ्यामेव भवति । तत्र निमित्तानुपादाने उदाहृता । उपादाने तु यथा -
ऽप्रसारि सर्वतो विश्वं तिरोदधदिदं तमः ।
सर्वाङ्गं लिम्पति जनं सान्द्रैरमृतकूर्चकैःऽ ।।
अत्र प्रसारित्वादि निगीर्य तमागतत्वेन लेपनक्रिया स्वरूपेणेत्प्रेक्षिता तिरोधायकत्वादि च निमित्तं ।
ऽतुरीयो ह्येष मेध्योऽग्निराम्नायः पञ्चमोऽपि वा ।
अपि वा जङ्गमं तीर्धं धर्मो वा मूर्तिसंचरःऽ ।।
इत्यादौ तु वामनतमते विशेषोक्तिः-ऽभूतलकार्तिकेयःऽइतिवत् । ग्रन्थकृन्मते तु दृढारोपं रूपकं । यद्वक्षति-या त्वेकहानिकल्पनायां साम्यदाढर्थं विशेषोक्तिरिति विशेषोक्तिर्लक्षिता सास्मद्दर्शने रूपकभेद एवेति । अत एवात्र तत्सामग्रबभावादुत्प्रेक्षोदाहरणत्वं न वाच्यं । एवम्ऽअपरः पाकशासनो राजाऽ इत्यत्रापि दृढारोपमेव रूपकं । एतच्चालङ्कारानुसारिण्यामुत्प्रेक्षाविचारे ग्रन्थकृतैव दर्शितं । फलोत्प्रेक्षा यथा-
ऽगिज्जन्ते मङ्गलगाहिआहि वरगोत्तकरण्णए ।
सोत्तं विणिग्गओ उऐ हाएन्तबहुआहि रोमङ्क्षोऽ ।।
अत्र श्रोतुमिवेति फलमुत्प्रेक्षितं ।
श्लिष्टशब्दहेतुर्यथा -
ऽअनन्यसामान्यतया प्रसिद्धस्त्तयागीति गीतो जगतीतले यः ।
अभूदहंपूर्विकया गतानामतीव भूमिः स्मरमार्गणानाम्ऽ ।।
अत्र धर्मविषये मार्गणशब्दः श्लिष्टः ।
श्लिष्ट इत्यथिशरवाचकत्वात् ।
उपमोपक्रमोत्प्रेक्षा यथा -
ऽकस्तूरीतिलकन्ति भालफलके देव्या मुखाम्भोरुहे
रोलम्बन्ति तमालबालमुकुलोत्तंसन्ति मौलावपि ।
याः कर्णे विकचोत्पलन्ति कुचयोरङ्के च कालागुरु-
स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विशषःऽ ।।
अत्र यद्यपिऽसर्वप्रातिपदिकेभ्यः क्किप्ऽ इत्युपमानात्क्किब्विधावामुखे उपमाप्रतीतिस्तथाप्युपमानस्य प्रकृते संभवौचित्यात्संभावनोत्थने उत्प्रेक्षायां पर्यवसानं । यथा वा विरहवणंनेऽकेयूरायितमङ्गदैःऽ इत्यादौ । एषापि समस्तोपमाप्रतीपादकविषयेऽपि हर्षचरितवार्तिते साहित्यमीमांसायां च तेषु तेषु प्रदेशेषुदाहृता, इह तु ग्रन्थविस्तरभयान्न प्रपञ्चिता ।
आमुख इति न पुनः पर्यवसाने । उपमाप्रतीतिरिति । तदर्थमेव क्विपः प्रवृत्तेः । अत एवात्र वाचकाभावान्नोत्प्रेक्षात्वमिति न वाच्यं । नहि वाचकसंभवासंभवासंभवमात्रमेवालङ्काराणां भावाभावप्रयोजकं । एवं हि व्याजस्तुतौ निन्दादेर्वाच्यत्वेऽप्यवाच्यस्य स्तुत्यादेः प्रतीतिरलङ्कारत्वपर्यवसायिनी न स्यात् । तस्माद्वाक्यार्थ एव प्ररुढोऽलङ्काराणां स्वरूपप्रतिष्टापकं प्रमाणं । वाक्यार्थस्य च पदार्थान्वयवेलातोऽन्यैव प्रतिपत्तिः । संभवौचित्यादिति । कस्तूरीतिलकादेर्विषयिणो भालफलकादौ संभवे यथौचित्यं न तथाकण्ठत्विडादेर्विषयस्येत्यर्थः । अत एवात्रोपमायाः प्रकृतस्याप्रकृतकस्तूरीलिलकादिरूपतया परिणामात्परिणामगर्भत्वं यदन्यैरुक्तं तत्तेषां परिणामस्वरूपानभिज्ञात्वं । न औचित्यमेव तस्य स्वरूपं किं तु यथोक्तं प्रकृतोपयोगित्वं । औचित्यं च नोत्प्रेक्षायां विरुद्धं । तस्य सर्वत्रैव भावात् । उत्प्रेक्षायां पर्यवसानमिति । कण्ठत्विषामेव कस्तूरीतिलकत्वादिप्रतीतेर्विषयिणो विषयनिगरणेनाभेदप्रतिपत्तेः सादृश्यावगमाभावात् । सादृश्यं झुभयनिष्टं । न चात्र प्रकृताप्रकृतयोः संल्पधितया प्रतीतिः । यथा वेत्यनेनास्या लक्ष्ये प्राचुर्यं दर्शितं । समस्तोपमाप्रतिपादकविषये दृश्यमाना । सा तु यथा-
ऽस दण्डपादो भवदण्डपादमुत्खण्डयन्रक्षतु चण्डीकायाः ।
यस्येन्दुलेखा पुरतः स्फुरन्ती त्रुट्यत्तुलकोटितुलामुपैतिऽ ।।
अत्र सत्यपि तुलाशब्दे चन्द्रलेखाया एव तुलाकोटित्वप्रतीतेरुत्प्रेक्षात्वं ।
सापह्नवोत्प्रेक्षा यथा-
ऽगतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु ।
यत्रोल्लसत्फेनततिच्छलेन मुक्ताट्टहासेव विभाति सिप्राऽ ।।
अत्रेवशब्दमाहात्म्यात्संभावनं छलशब्दप्रयोगाच्चापह्नवो गम्यते । एवं छद्मादिशब्दप्रयोगेऽपि ज्ञेयं । ऽअपर इव पाकशासनःऽ इत्यादावपरशब्दाप्रयोगे उपमैवेयं । तत्प्रयोगे तु प्रकृतस्य राज्ञः पाकशासनत्वप्रतीतावध्यवसायसंभावादिवशब्देन च तस्य साध्यत्वप्रतीतेरुत्प्रेक्षैवेयं । इवशबादाप्रयोगे सिद्धत्वादध्यवसायस्यातिशयोक्तिः । इवापरशब्दयोरप्रयोगे तु रूपकं । तदेवं प्रकारवैचित्र्येणावस्थिताया उत्प्रेक्षाया हेतूत्प्रेक्षायां यस्य प्रकृतसंबन्धिनो धर्मस्य हेतुरुत्प्रेक्षते स धर्मोऽध्यवसायवशादभिन्न उत्प्रेक्षायां निमित्तत्वेनाश्रीयते । स च वाच्य एव नियमेन भवति । अन्यथा कं प्रति हेतुः स्यात् । यथा-ऽअपश्यन्ताविवान्योन्यम्ऽ इत्यादौ । अत्र कपोलयोः प्रकृतयोः संबन्धित्वेनोपात्तस्य क्षामतागमनस्य हेतुरदर्शनमुत्प्रेक्षितं । हेतुफलं च क्षामतागमनं तत्र निमित्तं । एवम्ऽअदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्ऽइत्यत्र नूपुरगतस्य मौनित्वस्य हेतुर्दुःखित्वं । तदुत्प्रेक्षणे मौनित्वमेव निमित्तं ज्ञेयं । एवं सर्वत्र ।
छद्मशब्दप्रयोगेण यथा -
ऽस्वेदोदबिन्दुसंदोहच्छ्रदमना तव राजते ।
स्मरेणावैम्यनर्घापि दत्तार्घेव कुचस्थलीऽ ।।
अस्याश्च तत्तच्छ्रब्दप्रयोगाप्रयोगाभ्यां प्रतीतिभेदादलङ्कारैः सह विभागं दर्शियितुमाह-
अपर इत्यादि । तत्प्रयोग इत्यपरशब्दप्रयोगे । इवशब्दस्य संभावनाद्योतकस्याप्रयोगात्सिद्धत्वं । अत एव चात्र विषयस्यानुपादानमेव । तदुपादाने हि दृढारोपं रूपकमिति समनन्तरमेवोक्तं । अन्यत्र पुनः सर्वत्र विषयोपादानमेव न्याय्यं ।
तदित्थं भेदवैचित्र्येणावस्थिताया उत्प्रेक्षाया हेतुस्वरूपफलानां यथासंभवंस्वरूपं दर्शयति-तदेवमित्यादिना । स धर्म इति यं प्रत्येव हेतुरुत्प्रेक्ष्यते । अध्यवसायवशादिति भेदेऽप्यभेदाश्रयणात् । अभिन्न इत्यप्रकृतसंबन्धिना धर्मेण । स इति निमित्तत्वेनाश्रितो धर्मः । नियमेनेति । अवाच्यः पुनर्न कदाचिद्भवतीत्यर्थः । अन्यथेति अवाच्यत्वे । कं प्रतिहेतुरिति । तस्यैव फलरूपत्वात् । नहि य प्रत्येव हेतुरुत्प्रेक्ष्यते तस्यैवावाच्यत्वं युक्तं । साध्यमन्तरेण साधनस्य निर्विषयत्वापत्तेः । यदि चास्य निमित्तमात्रत्वमेव स्यातद्वाच्यत्वमवाच्यत्व स्यात् । एवमेक एव धर्मो हेतोरुत्प्रेक्ष्यमाणस्य निमित्तं फलञ्चेति सिद्धं । एतदेव दर्शयति-अपश्यन्तावित्यादिना । तत्रेतिहेतूत्प्रेक्षणे । निमित्तमिति तद्विनोत्प्रेक्षणस्यानिष्पत्तेः । द्विविधमत्र क्षामतागमन तपोजनितमदर्शनजनितं च । तयोरध्यवसायवशादभिन्नत्वेनाश्रयणं । अतश्च हेतोरेक एव धर्मो निमित्तं फलं च । वस्तुतस्तु तपोजनितस्य निमित्तत्वमन्यस्य तु हेतुफलरूपत्वं । अत एव नेतरेतराश्रयदोषः । द्वयोरपि भिन्नत्वात् । मौनित्वमेवेति । न पुनरन्यत्किञ्चिदित्यर्थः । अतश्च निश्चलत्वादिजनितस्य दुःखजनितस्य च मौनित्वस्याभेदेनाश्रयणं । सर्वत्रेत्यनेन समस्तलक्ष्याविरुद्धत्व हेतूत्प्रेक्षास्वरूपकथनस्योक्तं ।
एवं हेतूत्प्रेक्षाया यथासंभवं स्वरूपं प्रदर्श्य स्वरूपोत्प्रेक्षाया अपि दर्शियति-स्वरूपोत्प्रेक्षायाभिमित्यादिना ।
स्वरूपोत्प्रेक्षायां यत्र धर्मी धर्म्यन्तरगतत्वेनोत्पेक्ष्यते तत्रापि निमित्तभूतो धर्मः क्कचिन्निर्दिश्यते । यथा-ऽस वः पायादुन्दुःऽ इत्यादौ । अत्र कुटुलत्वादि निर्दिष्टमेव । ऽवेलेव रागसागरस्यऽ इत्यादौ संक्षोभकारित्वादि गम्यमानं । यत्र च धर्म एव धर्मिगतत्वेनोत्प्रेक्ष्यते तत्रापि निमित्तस्योपादानानुपादानाभ्यं । उपादाने यथा-
ऽप्राप्याभिषेकमेतस्मिन्प्रतिष्ठासति द्विषां ।
चकम्पे लोप्यमानज्ञा भयविह्ववलितेव भूःऽ ।।
अत्र भूगतत्वेन भयविह्वलितत्वाख्यधर्मोत्प्रेक्षायां कम्पादिनिमित्तमुपात्तम । अनुपादाने यथा-ऽलिप्मतीव तमोऽङ्गानिऽ इत्यादौ । अत्र तमोततत्वेन लेपनक्रियाकर्तृत्वोपेक्षायां व्यापनादि निमित्तं गम्यमानं । व्यापनादौ तूत्प्रेक्षाविषये निमित्तमन्यदन्वेष्यं स्यात् । न च विषयस्य गम्यमानत्वं युक्तं । तस्योत्प्रेक्षिताधारत्वेन प्रस्तुतस्याभिधातुमुचितत्वात् । तस्माद्यथोक्तमेव साधु ।
यद्यप्युद्देशत एवैतत्स्वरूपोत्प्रेक्षायां निमित्तोपादानत्वानुपादानत्वमवगम्यते तथापि हेतूत्प्रेक्षायां यथा निमित्तोपादानमेव संभवति तथात्रापि न संभाष्यमित्याशयेन पुनरिहैतदुक्तं ।
यदा चात्र धर्मो धर्म्यन्तरगतत्वेनोत्प्रेक्ष्यते तदा तत्र निमित्तस्य कीदृग्रपत्वं भवतीत्याशङ्क्याह-यत्रेत्यादि । धर्म एवेति । न पुनर्धर्मी धर्मिगतत्वेनेति । धर्मिभित्तितयेत्यर्थः । अत्र हि धर्मिणोऽन्यधर्मधर्मित्वं निगीर्यान्तधर्मधर्मित्वमवस्थाप्यते । अत एवात्र धर्मीभित्तिभूततया विषयः । धर्मिणं विना केवलस्यैव धर्मस्यव्यवस्थापयितुमशक्यत्वाद्वथवस्याप्यमानत्वे वा धर्मित्वमेव स्यात् । वस्तुतस्तु धर्मं एवोत्प्रेक्षाविषयः । यन्निगरणेनाभेदप्रतिपत्तिर्विषयिणोऽवसीयते । स च निगीर्यमाणोधर्मः क्वचिदुपात्तो भवति क्वचिच्चानुपात्तः ।
ऽप्राप्याभिषेकम्ऽ इत्यादावन्ये हेतूत्प्रेक्षात्वं-मन्यन्ते इत्युदाहरणान्तरेणोदाह्रियते -
ऽनवरोसदलिअ-घणनिरवलंब-संघडिअ-तडिकडप्यव्व ।
नरहरिणो जाइ कडारकेसरे कन्धराबन्धोऽ ।।
अत्र कन्धराबन्धधर्मिणि सकेसरत्वं निगीर्य सतडित्कटप्रत्वमुत्प्रेक्षितं । कडारत्वं च निमित्तमुपात्तं । निगीर्यमाणश्च धर्मो धर्मिगतत्वेनोपात्तः । लेपनक्रियाकर्तृत्वोत्प्रेक्षायामिति,अर्थादाशङ्कितायां ।
एवं हि तमोलेपनमिवेति प्रतीतिः स्यात् । न चात्र तथेत्याशङ्क्याह-व्यापनादावित्यादि । निमित्तमन्यदिति तिरोधायकत्वादि । तेन तमसि धर्मिणिव्यापनाद्विधर्मं निगीर्य लेपनक्रियाकर्तृत्वरूपो धर्मं उत्प्रेक्षित इत्यर्थः । यदाह श्रीमम्मटः- ऽव्यापनादि लेपनादिरूपतया संभावितम्ऽ इति । यत्र च धर्मान्तरनिगरणेन धर्म एव धर्मिभित्तितयोत्प्रेक्ष्यते तत्र भित्तिभूतत्वाद्विषयरूपस्य धर्मिणः समनन्तरोक्तनीत्त्या गम्यमानत्त्वं न युज्यं इत्याह-न चेत्यादि । विषयस्येति । निगीर्यमाणोत्प्रेक्ष्यमाणयोर्धर्मयोभित्तिभूतस्य धर्मिण इत्यर्थः । न तु निगीर्यमाणस्येति व्याख्येयं । तस्य ह्युपादानानुपादानाभ्यां द्वैविध्यं भवतीति समनन्तरमेवोक्तं । तच्चोदाहृतं । यथा वा -
ऽयत्पुण्डरीक इव पावण एव वेन्दाविन्दीवरद्वयमिवोदितमेकनालं ।
तत्पह्मरागनिधिमूलमिवाधिगम्य सम्यग्जितं नयनयोर्मम भाग्यशक्त्याऽ ।।
अत्र मुखादीनामुत्प्रेक्षाविषयाणामनुपादानाद्गम्यमानत्वं । तस्येति धर्मिरूपस्य विषयस्य । उत्प्रेक्षिताधारत्वेनेति । उत्प्रेक्षिताधारत्वेनेति । उत्प्रेक्षितस्य लेपनार्धर्मस्य व्यापनादिधर्मनिगरणेनोत्प्रेक्षाविषयीकृतस्याधारत्वेन भित्तिभूतयेत्यर्थः । धर्मिणमन्तरेण धर्मस्याविश्रान्तेः । प्रस्तुतस्येति । अवश्याभिधेयस्येत्यर्थः ।
एवं हेतुफलोत्प्रेक्षयोरपि धर्मिगतत्वेनैवान्यधर्महेतुकत्वं निगीर्यान्यधर्महेतुत्वमन्यधर्मफलत्वं चाध्यवसीयते । अतश्च स धर्मी वाच्य एव भवति । यथोक्तोपपत्तेः । निगीर्यमाणः पुनर्धर्म एवोपादानानुपादानाभ्यां द्विधा । तत्तु यथा- एषा स्थलीत्यादि । अत्र नूपुरस्य धर्मिणो बद्धमौनत्वे निश्चलत्वादि धर्महेतुकत्वं निगीर्यमाणश्चानुपात्तो धर्मः । उपात्तस्तु यथा -
ऽमृणालसूत्रं निजवल्लभायाः समुत्सुकश्चाटुषु चक्रवाकः ।
अन्योन्यविश्लेषणयन्त्रसूत्रभ्रान्त्येव चञाचुस्थितमाचकर्षऽ ।।
अत्र चक्रवाकस्यावर्षणे चाटुसमुत्सुकहेतुत्वं निगीर्यं भ्रान्तिहेतुत्वमध्यवसितं । निगीर्यमाणश्च धर्म उपात्तः । अनुपात्तस्तु यथा -
ऽकुमुदिन्यः प्रमोदिन्यस्तदानीमुदमीमिलन् ।
नलिन्या भर्तृविरहान्म्लानिमानमिवेक्षितुम्ऽ ।।
अत्र कुमुदिनीनामुन्मीलने चन्द्रोदयहेतुकत्वं निगीर्य दर्शनं फलत्वेनोत्प्रेक्षितं । निगीर्यमाणश्च धर्मोऽनुपात्तः ।
तदेवं हेतुस्वरूपयोर्यथासंभवं स्वरूपं दर्शयित्वा फलोत्प्रेक्षाया अपि दर्शयतिफलोत्प्रेक्षायामित्यादिना ।
फलोत्प्रेक्षायां यदेव तस्य कारणं तदेव निमित्तं । तस्यानुपादाने कस्य तत्फलत्वेनोक्तं स्यात् । तस्मात्तत्र तस्य निमित्तस्योपादानमेव न प्रकारान्तरं । यथा--
ऽरथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम्ऽ ।
उत्पत्तिभूमौ तुरगात्तमानां दिशि प्रतस्थे रविरुत्तरस्याम्ऽ ।।
अत्राश्वपरिवर्तनस्य फलस्योत्तरदिग्गमनं कारणमेव निमित्तमुपात्तं ।
तस्येति फलस्य । एवच्च हेतूत्प्रेक्षघाविचारग्रन्थविवृतेरवगतार्थमिति ग्रन्थविस्तरभयान्न पुनरायस्यते । तदेवं ग्रन्थकृदात्मनः श्लाघां कटाक्षयन्नेतदुपसंहरति ।
तदसावुत्प्रेक्षायाः कक्ष्याविभागः प्रचुरतया स्थितोऽपि लक्ष्ये दुरवधारत्वादिह न प्रपञ्चितः । तस्याश्चेवादिशब्दवन्मन्येशब्दोऽपि प्रतिपादकः । किं तूत्प्रेक्षासामग्रथभावे मन्येशब्दप्रयोगो वितर्कमेव प्रतिपादयति । यथोदाहृतं प्राक्ऽअहं त्विन्दुं मन्ये त्वदरिविरहऽ इत्यादि ।
तदसावित्यादि । अस्याश्च वाचकव्यवस्थां दर्शयति-तस्याश्चेत्यादि । उत्प्रेक्षायामग्रथभाव इति संभावनाप्रत्ययात्मकत्वाभावात् । प्रागिति,अपह्णुतौ ।
एवनिवशब्दोऽपि क्वचिद्वितर्कमेव प्रतिपादयति । यथा -
ऽवृत्तानुपूर्वे च न चातिदीर्घे जड्घे शुमे सृष्टवतस्तदीये ।
शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य इवास यत्नःऽ ।।
इयं च भेदेऽभेद इत्याद्यतिशयोक्तिभेदमय्यपि दृश्यते । तत्र भेदेऽभेदो यथा- पृथ्वीराजविजये --
ऽगृह्णद्भिः परया भक्त्या बाणलिङ्गपरम्पराः ।
अनर्मदेव यत्सैन्यैर्निरमीयत नर्मदाऽ ।।
अत्र नर्मदाया अभेदेऽपि भेदः । संबन्धेऽसंबन्धो यथा --
ऽअद्वैतं तद्भवतु भवतां संविदद्वैतपुष्ट्यै माभृत्पुत्रीपरिवृढरमाकान्तदेहद्वयस्य ।
यत्राकार्ष्ण्यं निज इव विदन्दक्षिणार्धप्रभाभिर्देहेऽन्येषामपि पुररिपुः कार्ष्ण्यमन्तः प्रमार्ष्टिऽ ।।
अत्र कार्ष्ण्यसंबन्धेऽप्यसंबन्धः । असंबन्धे संबन्धो यथा -
ऽक्षीरक्षालितचन्द्रेव नीलिधौताम्बरेव च ।
टङ्कोल्लिखितसूर्येव वसन्तक्षीरजृम्भतऽ ।।
अत्र क्षीरघक्षालितत्वाद्यसंबन्धेऽपि संबन्धः । कार्यकारणयोस्तुल्यकालत्वे यथा-
ऽयशसेव सहोद्भूतः श्रियेन सह वर्धितः ।
तेजसेव सहोद्भूतस्त्यागेनेव सहोत्थितःऽ ।।
पौर्वापर्यविपर्यये यथा -
ऽशराः पुरस्तादिव निष्पतन्ति कोदण्डमारोपयतीव पश्चात् ।
अन्वक्प्रहारा इव संघटन्ते प्राणान्द्विषः पूर्वमिव त्यजन्तिऽ ।।
कार्यकारणयोर्विपर्ययेऽपीयं दृश्यते यथा -
ऽसेयं संततवर्वमानभगवद्वाणार्यनैकाग्रताव्यग्रोपान्तलताविमुक्तकुसुमा चन्द्रप्रसूतिर्नदी ।
यस्याः पाण्डुरपुण्डरोकपटलव्याजेन तीरद्वये शश्चत्पार्वणचन्द्रमण्डलशतानीव प्रसूते जलम्ऽ ।।
अत्र नर्मदातश्चन्द्रस्योत्पत्तितेः कार्यकारणविपर्ययः । क्रमिकविपर्ययेणापीयं दृश्यते यथा -
ऽअखर्वगर्वस्मितदन्तुरेण विराजमानोऽधरपल्लवेन ।
समुत्थितः क्षीरविपाण्डुराणि पीत्वेव सद्यो द्विषतां यशांसिऽ ।।
अत्र समुत्थानानन्तरभाविनो यशः पानस्य पूर्वनिर्द्देशात्क्रमिकविपर्ययः । अत्रैवऽपिबन्निवोच्चैःऽ इति पाठे तु क्रमिकयोः समकालभावित्वं ।
एवमध्यवसायस्य साध्यतायामुत्प्रेक्षां निर्णीय सिद्धत्वेऽतिशयोक्तिं लक्षयति-
अध्यवसितप्राधान्ये त्वतिशयोक्तिः ।। २३ ।।
अध्यवसाने त्रयं संभवति- स्वरूपं विषयो विषयी च । विषयस्य हि विषयिणान्तर्निगीर्णत्वेऽध्यवसायस्य स्वरूपोत्थानं । तत्र साध्यत्वे स्वरूपप्राधान्यं । सिद्धत्वे त्वध्यवमितप्राधान्यं । विषयप्राधान्यमध्यवसाये नैव संभवति । अध्यवसितप्राधान्ये चातिशयोक्तिः । अन्याश्च पञ्चप्रकाराः । भेदेऽभेदः । अभेदे भेदः । संबन्धेऽसंबन्धः । असंबन्धे संबन्धः । कार्यकारणपौर्वापर्यविध्वंसश्च ।
एतदुपसंहरन्नन्यदवतारयति -
एवमित्यादि । तामेव लक्षयुतुमाह-अध्यवसितेत्यादि । एतदेव व्याख्यातुमध्यवसायस्य तावद्यथासंभवं स्वरूपं दर्शयति-अध्यवसान इति । परस्परनिष्ठत्वानुपपत्तेरध्यवसायस्य किं विषयविषयिभ्यामित्याशङ्क्याह-विषयस्य हीत्यादि । विषयविषयिभ्यामन्तरेणाध्यवसाय एव न भवतीत्यर्थः । एषामेव विषयविभागं दर्शयति-तत्रेत्यादिना । तत्रेति त्रयनिर्धारणे । स्वरूपप्राधान्यमिति अध्यवसायप्राधान्यं । अध्यवसितप्राधान्यमिति विषयिप्राधान्यं । साध्यत्वं चोप्रेक्षायामेव निर्णीतं । नैव संभवतीति-अध्यवसायस्वरूपानुदयात् । तदेवं विषयिणः प्राधान्यविवक्षायामलङ्कारे भवतीत्याह-अध्यवसितेत्यादि । उक्तं चान्यत्र-
ऽअध्यवसायसाध्यत्वप्रतीतावियमिष्यते ।
तत्सिद्धताप्रतीतौ तु भवेदतिशयोक्तिधीःऽ ।। इति ।।
पञ्चेति न्यूनाधिकसंख्यानिरासार्थं । अत एव कार्यकारणपौर्वापर्यविध्वंसत्य चतुर्थभेदान्तर्भावो न वाच्यः । एवं हि भेदान्तराणामपि तदन्तर्भाव एव स्यात् । अभेदाद्यसंबन्धेऽपि संबन्धोपनिबन्धनात् । अथ भवत्वेतदिति चेत् । न । ऽअत्र च यद्यपि सर्वत्रभेदेऽभेदादौ वस्तुतो । आसबन्धे संबन्ध एव वर्णयितुं शक्यते तथाप्यवान्तरभेदविवक्षयान्यैर्लक्षितत्वाद्विविक्तस्यासंबन्धे संबन्धस्य दर्शितत्वाच्च विभागेननिर्देशः कृतःऽ इति भवद्भिरेवोक्तत्वात् । तत्समानन्यायत्वात्कथमस्यापि चतुर्थभेदान्तर्भावो न्याय्यः । अथऽयदि कार्यकारणयोः पौर्वापर्यविध्वंसात्समानकालताद्यभावेऽपि तथोपनिबन्धे पञ्चमोऽत्र प्रकार इष्यते तद्देशकालयोः पदार्थसंबन्धे विशेषाभावाद्भिन्नदेशत्वाभावेऽपि तथोपनिबन्धे षष्टोऽपि भेदः परिगणनीय इति निर्विषयत्वादसंगतेरभावः प्रसज्यतऽ इति चेत् । नौतत् । यस्मादतिशयोक्तावतिशयाख्यप्रयोजनप्रतिपिपादयिषया विषयनिगरणेन विषयिप्राधान्यं विवक्षितम्, असगतौ तु विरुद्धत्वप्रत्यायनाय कार्यकारणयोभिन्नदेशत्वमित्युभव्राप्यस्ति तावन्निर्विवादो लक्षणभेदः । कार्यकारणपौर्वापर्यविध्वंसे च वल्लभकर्तृकस्य हृदयाधिष्टानस्य कारणस्य स्मरकर्तृकस्य च कार्यस्य पूर्वापरीभावं निगीर्यऽत्वद्दर्शनेनैव विषयान्तरवैमुख्येन त्वनभिलाषपरैव जातेत्यतिशयप्रयोजनप्रतिपादनार्थमन्यथात्वमध्यवसितमित्यति शयोक्तिभेदत्वमेवास्य न्याय्यं न त्वसंगतिभेदत्वं । ऽ तत्र हि -
ऽबबन्ध धम्मिल्लमधीरदृश्टेः चमानायकश्चम्पकमालिकाभिः ।
चित्तेषु मन्युः स्थिरतां जगाम विपक्षसारङ्गविलोचनानाम्ऽ ।।
इत्यादौ धम्मिल्ले बन्धश्चित्तेषु च मन्युस्थैर्यमिति कार्यकारणयोर्भिन्नदेशत्वं । यत्रैव बन्धस्तत्रैव तत्कार्यस्य स्थैर्यस्योपपत्तेर्विरुद्धत्वप्रत्यायकं । विरोधस्य चात्राभासमानत्वं । धम्मिल्लबन्धमन्युस्थैर्ययोर्वस्तुतोऽपि कायकारणभावसद्भावाख्यस्य बाधकप्रत्ययस्योल्लासात् । न च बाधोदयेऽपि विरोधाप्रतीतिः । द्विचन्द्रप्रतीतिवदनुपपद्यमानतया स्खलद्गतित्वेन तत्प्रतीतेरवस्थानात् । न चातिशयोक्तौ स्खलद्गतित्वं । निश्चयस्वभावत्वादस्या अनुपपद्यमानत्वशङ्काया अप्यभावात् । नहि कार्यकारणयोः पौर्वापर्यविध्वंस उपपद्यत इत्यत्र विवक्षितं किन्त्वेवं फलमेतदिति । अत एवासंगतेरतिशयाक्तेश्च स्वरूपभेदोऽपीति कार्यकारणयोः पौर्वापर्यविध्वंसेनासंगतिर्भिन्नदेशत्वं चातिशयोक्तिरिति यथोक्तमेव युक्तं । अत एव च
ऽपौर्वापर्यविपर्याससमकालसमुद्भवौ ।
कार्यकारणयोर्यौ तौ विरोधाभासपल्लवौऽ ।।
इत्याद्यपि यदन्यैरुक्तं तदयुक्तमेवेति न न्यूनप्रकारत्वं । केचिच्च सर्वालङ्कारणामप्यतिशयोक्तेरेव प्रभेदत्वादस्या बहुप्रकारतामाचक्षते । तथा ह्युपमायामप्यस्त्येतद्भेदत्वं । न्यूनगुणस्य मुखादेरधिकगुणेन चन्द्रादिना साभ्येऽतिशयानतिपातात्,अतिशयं विना च गौरिव गवय इत्यादावनलङ्कारत्वात् । अतश्चातिशयस्यैव सर्वालङ्कारबीजभूतत्वात्ऽएकैवातिशयोक्तिश्च काव्यस्यालङ्कृतिर्मताऽ इत्युक्तं । नैतत् । इह ह्यतिशयस्य द्वयी गतिः यदयं कविप्रतिभानिवर्तितः सामान्यात्मा भवति,भेदेऽप्यभेद इत्येवमादिरूपो विशेषात्मा वा । तत्राद्यः सर्वैरेवालङ्कारबीजतयाभ्युपगतः । अन्यथा हि गौरिव गवय इत्यादावलङ्कारत्वं स्यात् । तावता पुनरेतत्प्रभेदत्वं सर्वालङ्काराणां न युक्तं । तत्त्वे हि विशेषोक्युल्लेखादीनामपि तत्प्रसङ्गः । सर्वालङ्काराणमपि विशेषोक्त्युल्लेखरूपत्वात् । अथ द्वितीयपक्षाश्रयेणैतदुच्यते तदप्युक्तं । अस्या ह्यध्यवसितप्राधान्यं लक्षणं । तच्चालङ्काराणां न संभवति । तथात्वानवगमात् । अतश्चैषामसंभवत्तत्सामान्यत्वात्कथं तद्विशेषत्वमिति बहुप्रकारत्वमस्या निरस्तं ।
तत्र भेदेऽभेदो यथा--
ऽकमलमनभ्भसि कमले च कुवलये तानि कनकलतिकायां ।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम्ऽ ।।
अत्र मुखादीनां कमलाद्यैर्भेदेऽभेदः ।।
मुखादीनामिति । न तु वास्तवस्य सौन्दर्यस्य कमलाद्यैरिति । न तु कविसमर्पितेनसौन्दर्येण । अत एव च,ऽअत्रातिशयाख्यमित्यादिःऽ तदभिप्रायेणैवाध्यवसितप्राधान्यम्- इत्यन्तश्चोत्तरकालिको ग्रन्थः स्वमतिजाह्याल्लेखकैरन्यथा लिखित इति निश्चिनुमः । अयं हि ग्रन्थकृतः पश्चात्कैश्चिद्विपश्चिद्भिः पत्रिकाभिर्लिखित इत्यवगीता प्रसिद्धिः । ततश्च तैरनवधानेन ग्रन्थान्तरप्रसङ्गत्वादनुपयुक्तत्वाद्वा पत्रिकान्तरादयमसमञ्जसप्रायो ग्रन्थखण्डो लिखित इति । न पुनरेकत्रैव तदैव मुखादीनां कमलाद्यैर्भेदेऽप्यभेद इत्युक्त्वापिऽन तु वदनादीनाङ्कमलादिभिरभेदाध्यवसायो योजनीयऽ इत्यादि वचनं पूर्वापरपराहतमस्य वैदुष्यशालिनोग्रन्थकारस्य संभाव्यं ।
अभेदे भेदो यथा-
ऽअण्णं लडहत्तणां अण्णाविअ कावि वत्तणच्छाआ ।
सामा सामण्णापऽवैणो रेहञ्चिअ ण ह्वोइऽ ।।
अत्र लडहत्वादीनामभेदेऽप्यन्यत्वेन भेदः । यथा वा--
ऽमग्गिअलद्धंमि वलामोडिअचुंबिएं अप्यणा अ उवणमिए ।
एक्कंमि पिआहरए अण्णोण्णा हाएन्ति रसभेआऽ ।।
अत्राभिन्नस्यापि प्रियाधररसस्य विषयविभागेन भेदेनोपनिबगन्धः । संबन्धेऽसंबन्धो यथा-
ऽलावण्यद्रविणव्ययो न गणितः क्लेशो महान्स्वीकृतः
स्वच्छन्दं चरतो जनस्य हृदये चिन्ताज्वरो निर्मितः ।
एषापि स्वगुणानुरूपरमणाभावाद्वराकी हता
कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वताऽ ।।
अत्र लावण्यद्रविणस्य व्ययसंबन्धेऽप्यसंबन्धस्तन्वीलावण्यप्रकर्षप्रतिपादनार्थे निबद्धः । यथा वा--
ऽअस्याः सर्गविधौ प्रजापतिपभूच्चन्द्रो नु कान्तिप्रदः
शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्काकरः ।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिःऽ ।।
अत्र पुराणप्रजापतिनिर्माणसंबन्धेऽप्वसंबन्ध उक्तः ।
असंबन्धे संबन्धो यथा-
ऽपुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थं ।
ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्यऽ ।।
अत्र संभावनया संबन्धः यथा वा-
ऽदाहोऽम्भःप्रसृतिंपचः प्रचयवान्बाष्पः प्रणालोचितः
श्वासाः प्रेङ्खिकतदीप्रदीपकलिकाः पाण्टिम्नि मग्नं वपुः ।
किं ताम्यत्कथग्रामि रात्रिमखिलां त्वन्मार्गवाताग्रने
हस्तच्छत्त्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्ततेऽ ।।
अत्र दाहादीपामभ्भः प्रसृत्याद्यैरसंबन्धेऽपि संबन्धः सिद्धत्वेनोक्तः ।
लडहत्वादीनामिति,आदिशब्दाद्वर्तनच्छायाया एव ग्रहणं । तत्रैवाभेदेऽपि भेदविवक्षणात् । उत्तरार्धे हि संबन्धेऽप्यसंबन्धः । ऽलावण्यद्रविणव्ययो न गणितःऽ इत्यस्य पादत्रयी तन्वीलावण्यप्रकर्षप्रतिपादनार्थमित्येतत्प्रयोजनदर्शनं सर्वोदाहरणोपलतणपरं । संभावनयेति । नतु वस्तुतः । अत एव संबन्धस्यावास्तवत्वादुदाहरणान्तरमाह-दाहोऽम्भ इत्यादि । वाशब्दः समुच्चयार्थः ।
कार्यकारणपौर्वापर्यविध्वंसः पौर्वापर्यविपर्ययात्तुल्यकालत्वाद्वा । विपर्ययो यथा-
ऽहृदयमधिष्टितमादौ मालत्याः कुसुमचापबाणेन ।
चरमं रमणीवल्लभ! लोचनविषयं त्वया भजताऽ ।।
तुल्यकालत्वं यथा--
ऽअविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः ।
अयमायातः कालो हन्त हृताः पथिकगेहिन्यःऽ ।।
अत्र च कार्यकारणपौर्वापर्यविध्वंस इत्यनेन प्रसिद्धयोः कार्यकारणयोर्विध्वंसो विपर्ययस्तथा पौर्वापर्यस्यादिपश्चात्कालभावित्वेन प्रसिद्धस्य क्रमत्य विध्वंसो व्यत्ययः सहभावो वेत्यपि भेदत्रयं तन्त्रेणोक्तं । एवं च कार्यकारणविध्वंसस्यापि पञ्च प्रकाराः । अवान्तरप्रकारत्वात्पुनरेषां पञ्चप्रकारत्वं नियमगर्भीकारेण पूर्वं व्याख्यातं । तत्र कार्यकारणयोर्विपर्ययो यथा -
ऽएअत्तं अवात्तं सकोआरं मिअङ्ककान्तीइं ।
सहस्सपं अरैन्दस्स कारणं भणै सरस्सऽ ।।
अत्रेन्दुकान्तेः संकोचे विपर्ययेण शतपत्रस्य कारणत्वमध्यवसितं । अत्र भेदेऽभेद इत्येवंरूपातिशयोक्तिर्हेतुत्वेन स्थिता । उत्तरे त्वर्धे सैव श्लिष्टशब्दनिबन्धना हेतुः । तथाभावोपनिबन्धश्चात्र वक्त्रस्य लावण्यप्रकर्षप्रतिपादनार्थं । क्रमविपर्ययो यथा-ऽकुपितस्यप्रथममन्धकारी भवति विद्या ततो भ्रुकुटिः, आदाविन्द्रियाणि रागः समास्कन्दति, चरमं चक्षुः,आकम्भे तपो गलति पश्चात्स्वेदसलिलम्,पूर्वमयशः स्फुरत्यनन्तरमधरऽ इति । अत्र कोपकार्ये विद्याभ्रुकुट्यादीनामन्धकारीभवनादौ क्रमं निगीर्य तद्विपर्ययोऽध्यवसितः । तस्यैव सहभावे यथा -
ऽरैभवणाहि परिअणो मसणं मणिमेहला णिअंबाहिं ।
लज्जा हिऽहि समोसरन्ति समं ससिमुहीणम्ऽ ।।
अत्र परिजनादीनामपसरणे क्रमिकत्वेऽपि समकालत्वमध्यवसितं । एवमेषां सर्वेषामेव भेदानां लोकासभवद्विषयत्वं दर्शयितुमाह ।
एषु पञ्चसु भेदेषु भेदेऽभेदादिवचनं लोकातिक्रान्तगोचरं । अतश्चात्रातिशयाख्यं यत्फलं प्रयोजकत्वान्निमित्तं तत्राभेदाध्यवसायः । तथा हिऽकमलमनम्भसिऽ इत्यादौ वदनादीनां कमलाद्यैर्भेदेऽपि वास्तवं सौन्दर्यं कविसमर्पितेन सौन्दर्येणाभेदेनाध्यवसितं भेदेऽभेदवचनस्य निमित्तं । तत्र च सिद्धोऽध्यवसाय इत्यध्यवसितप्राधान्यं । न तु वदनादीनां कमलादिभिरभेदाध्यवसायो योजनीयः, अभेदे भेद इत्यादिषु प्रकारेष्वष्याप्तेः । तत्र हिऽअण्णं लडहृत्तणांऽ इत्यादौ सातिशयं लडहत्वं निमित्तभूतभेदेनाध्यवसितं । एवमन्यत्रापि ज्ञेयं । तदभिप्रायेणैवाध्यवसितप्राधान्यं । प्रकारपञ्चकमध्यात्कार्यकारणभावेन यः प्रकारः स कार्यकारणताश्रयालङ्कारप्रस्तावे प्रपञ्चार्थं लक्षियिष्यते ।
एष्वित्यादि । एष्विति विषयसत्पमी । एष चावयवनिर्देशः । लोकातिक्रान्तेति । कविप्रतिभानिर्मितमेव सातिशयं वस्त्वेषां विषय इत्यर्थः । अत्रेति भेदपञ्चके । चशब्दः प्रमेयान्तरसमुच्चयार्थः । फलमिति । तस्यैव प्रतिपिपादयिषितत्वात् । तत्रेति । वान्तवस्य स्गैन्दर्यस्य कविसमर्पितेन सौन्दर्येणाभेदवचने । ननु चात्र वदनादीनां कमलाद्यध्यवसायः प्रतीयत इति कथमेतदुक्तमित्याशङ्क्याह-न त्वित्यादि । कुतश्च तेष्वव्यात्पिरित्याशङ्कयाह-तत्र हीत्यादि । कमलमनम्भसीत्यत्र हि यदि वदनादीनां धर्मिणामभेदाध्यवसाययोजनं क्रियते तत्तस्य धमिगतत्वेनैवेष्टेरिह धर्माणां न स्यादव्यात्पिः । अतश्च पूर्वत्र धर्माणाभेवाध्यवसायो योजनीयो येन सर्वत्रैक एव पक्षः स्यादिति तात्पर्यार्थः । उपलक्ष्यं चैतत् । यावता ह्यध्यवसितप्राधान्यमस्या लक्षणं । तच्च धर्मिणामस्तु धर्माणां वेति को विशेषो येनाव्यात्पिः स्यात् । प्रत्युतधर्मयोरभेदाध्यवसायाभ्युपगमे उपमादीनामप्यतिशयोक्तिप्रसङ्गः स्यात् । तत्रापि धर्माणामेव भेदेऽभेदविवक्षणात् । एवं चविजातीयत्वेन भेदे धर्मयोरप्यभ्यात्पिः प्रसज्यत इत्यलमसङ्गतग्रन्थार्थोदीरणेन । प्रपञ्चार्थमिति । न तु निर्णयार्थं । इहैव तस्य विश्चितत्वात् । प्रपञ्चश्च तत्रैव दर्शियिष्यते ।
एतदुपसंहरन्नन्यदवतारयति ।
एवमध्यवसायाश्रयमलङ्कारद्वयमुक्त्वा गम्यमानौपम्याश्रया अलङ्कारा इदानीमुच्यन्ते । तत्रापि पदार्थवाक्यार्तगतत्वेन तेषां द्वैविध्ये पदार्थगतमलङ्कारद्वयं क्रमेणोच्यते-
औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तुतानां वा समानधर्माभिसंबन्धे तुल्ययोगिता ।। २४ ।।
इवाद्यप्रयोगे ह्यौपन्यस्य गम्यत्वं । तत्र प्राकरणिकानामप्ररणिकानां वार्थानां समानगुणक्रियासंबन्धे अन्वितार्था तुल्ययोगिता । यथा-
ऽसज्जातपत्रप्रकाराञ्चितानि समुद्वहन्ति स्फुटपाटलत्वं ।
विकस्वराण्यर्ककरप्रभावाद्दिनानि पद्मानि च वृद्धिमीयुःऽ ।।
अत्र ऋतुवर्णनस्य प्रकान्तत्वाद्दिनानां पद्मानां च प्रकृतत्वाद्वृद्धिगमनं क्रिया । एवं गुणेऽपि । यथा-
ऽयोगपट्टो जटाजालं तारवी त्वङ्मृगाजिनं ।
उचितानि तवाङ्गेषु यद्यमूनि तदुच्यताम्ऽ ।।
उचितत्वं गुणः । अप्राकरणिकानां यथा-
ऽधावत्त्वदश्वपृतनापतितं मुखेऽस्य
निनिन्द्रनीलनलिनच्छदकोमलाङ्ग्या ।
भग्नस्य गूर्जरनृपस्य रजः कयापि
तन्व्या तवासिलतया च यशः प्रभृष्टम्ऽ ।।
अत्र गूर्जरं प्रति नायिकासिलतयोरप्राकरणिकत्वे मार्जनं क्रिया । गुणो यथा-
ऽत्वदङ्गमार्दवं द्रष्टुः कस्य चित्ते न भासते ।
मालतीशशभृल्लेखाकदलीनां कठोरताऽ ।।
कठोरत्वं गुणः । एवमेषा चतुर्विधा व्याख्याता ।
[सू]ऽसादृश्य यदि गम्य [शब्दतः अकथित] हो ओर [केवल] प्रस्तुर्तो अथवा [केवल] अप्रस्तुतों का पदार्थस्तर पर समानधर्म-सम्बन्ध हो तो तुल्ययोगिता [होती है]ऽ ।। २४ ।।
एवमित्यादिना । गम्यमानौपभ्याश्रया इति इवाद्यप्रयोगात् । पदार्थमिति । वाक्यार्थापिक्षया पदार्थप्रतीतेरन्तरङ्गत्वात् । तत्र प्रथमं तुल्ययोगितामाह - औपम्येत्यादि । एतदेव व्याचष्टे - इवेत्यादिना । तत्रेत्यौपम्यस्य गम्यत्वे सति । प्राकरणिकानामिति द्वयोः समानधर्मसंबन्धस्य संभवादेव ग्रहणसिद्धेर्बहुवचननिर्देशो बहूनां ग्रहणार्थं । अत एव च बहूनामौपम्यग्रहणायेति न वाच्यं । वक्ष्यमाणोदाहरणेषु द्वयोरौपम्यस्योद्भासमानत्वात् । एवं दीपकेऽपि ज्ञेयं । अन्वितार्थेति । समानधर्मसंबन्धिनामत्र भावात् । अनेनैव चास्याः प्रकृतानामप्रकृतानां च गुणक्रियात्ममकधर्मयोगाद्द्वैविध्येन चतुष्प्रकारत्वमत्युक्तं । न चास्यातिशयोक्तिरनुप्राणकतया वाच्या । तां विनापि वक्ष्यमाणोदाहरणेष्वस्याः संभवात् । औपम्याभावेऽपि गुणसाम्योदाहरणद्वयं प्राच्योदाहृतत्वाद्ग्रन्थकृतोदाहृतं । यत्र पुनरौपम्यं प्रतीयते तदुदाह्रियते यथार्-
ऽइर्ष्याविकारावसरे तवोचितमिदं प्रिये ।
स्खलद्गतित्वं वचसां लीलाचङ्क्रमणस्य चऽ ।।
अत्रोचितत्वं गुणः । अप्रकृतवोस्तु यथा -
ऽभूभारोद्दहमव्यग्रे सुचिरं त्वयि तिष्टति ।
देवाद्य फणिनामग्रथः कूर्मश्च सुखिनौ परम्ऽ ।।
अत्र सुखित्वं गुणः ।
केचिच्च नायिकामिलितग्रोः प्राकरणिकत्वं मन्यन्त इत्युदाहरणान्तरेणोदाह्रियते यथा -
ऽशंभोर्यन्नखरश्मिभिः प्रणमतश्चूडामणित्वे स्थिता
गङ्गा चन्द्रकला च सर्वजगतां वन्द्यत्वमापादिता ।
युक्तायाः परतापदावविपदः कन्यापितॄणामसौ
दूरीकार्यहिमालया कथमुमापादद्वयी प्राप्यतेऽ ।।
अत्र भगवतीपादद्वयस्यैव वर्णनीयत्वाद्गङ्गाचन्द्रकलयोरप्रकृतत्वं । आपादनं च क्रिया ।
ऽबिम्बप्रतिबिम्बभावेनापीयं भवति । यथा -
ऽक्षिपन्त्यचिन्त्यानि पदानि हेलया स्वराजहंसानधिरुह्य च स्थिता ।
कवीन्द्रवक्त्रेषु च यत्र शारदा सहस्त्रपत्रेषु रमा च रज्यतिऽ ।।
अत्र वक्त्रपद्मयोर्बिम्बप्रतिबिम्बभावः । अनेनैव चाशयेनात्रालङ्कारवार्तिके ग्रन्थकृता वैशिष्ट्यमस्याः दर्शितं । शुद्धसामान्यरूपत्वेन यथा -
ऽआस्तां तालस्य संनिद्धे द्वे धात्र्यी तस्य वृद्धये ।
एका पयःप्रस्त्रविणी सर्वसंपत्प्रसूः पराऽ ।।
अत्र प्रस्त्रवणस्य शुद्धसामान्यरूपत्वं ।
एवं इत्यादिना ।
एतदुपसंहरन्नन्यदवतारयति ।
प्रस्तुताप्रस्तुतयोर्व्यस्तत्वे तुल्ययोगितां प्रतिपाद्य समस्तत्वे दीपकमुच्यते -
प्रस्तुताप्रस्तुतानां तु दीपकं ।। २५ ।।
औपम्यस्य गम्यत्व इत्याद्यनुवर्तते । प्राकरणिकाप्राकरणिकयोर्मध्यादेकत्र निर्दिष्टः समानो धर्मः प्रसङ्गनान्यत्रोपकाराद्दीपनाद्दीपसादृश्येन दीपकाख्यालङ्कारोत्थापकः । तत्रेवाद्यप्रयोगादुपमानोपमेयभावो गम्यमानः । स च वास्तव एव । पूर्वत्र शुद्धप्राकरणिकत्वे शुद्धाप्राकणिकत्वै वा वैवक्षिकः, प्राकरणिकत्वनिर्वर्तितत्वादुपमानोपमेयभावस्य । अनेकस्यैकक्रियाभिसंबन्धादौचित्यात्पदार्थत्वोक्तिः । वस्तुतस्तु वाक्यार्थत्वे आदिमध्यान्तवाक्यगतत्वेन धर्मस्य वृत्तावादिभमध्यान्तदीपकाख्यास्त्रयोऽस्य भेदाः ।
प्रस्तुताप्रस्तुतानामिति । एकत्रेति प्राकरणिकेऽप्राकरणिके वा । अन्यत्रेति प्राकरणिकादौ दीपकेतिऽसंज्ञायाम्ऽ इत्यनेन कन् । सादृश्येन समुदायगम्यायाः संज्ञाया अभावात् । तत्रेति दीपके । वास्तव इति । प्रकृताप्रकृतयोरुपमानोपमेयरूपत्वात् । पूर्वत्रेति तुल्ययोगितायां । इयानेव च दीपकतुल्ययोगितयोर्विशेषोऽस्तीत्यप्यनेन दर्शितं । न चैतावतैवानयोः पृथग्लक्षणं युक्तं । औपम्यगर्भत्वाख्यस्य सामान्यस्य द्वयोरप्यनुगमात् । एवं च समुचितोपमादेरपि पृथग्लक्षणं स्यात् । ग्रन्थकृता पुनश्चिरन्तनानुरोधात्कृतं । वैवक्षिक इति । यत्रैव वक्तुरुपमानत्वमुपमेयत्वं वा वक्तुमिष्टं तत्रैव प्रकरणादिबलादाश्रयणीयमित्यर्थः । अतश्चऽप्रस्तुतस्य तु नान्येन व्यभिचारस्य दर्शनात्ऽ इति नीत्याप्रस्तुताप्रस्तुतत्वमात्रनिबन्धन एवोपमानोपमेयभावो न भवतीति भावः । एवंऽप्रसिद्धेनाप्रसिद्धस्य सादृश्यमुपमा मताऽइत्यादिदृशा प्रसिद्धाप्रसिद्धत्वमात्रनिबन्धनोऽप्युपमानोपमेयभावो न वाच्यः । ऽखमिव जलं जलमिव खम्ऽ इत्यादौ द्वयोरपि तुल्यत्वात्प्रसिद्धगुणत्वाद्यभावेऽप्युपमानोपमेयभावस्येष्टेर्व्यभिचारस्य दर्शसनात् । ननु चात्र साधर्म्य वाक्यार्थगतत्वेनैव प्रतीयत इति कथं तस्य पदार्थगतत्वमुक्तमित्याशङ्क्याह-अनेकस्येत्यादि । एवं पूर्वत्रापि ज्ञेयं ।
क्रमेणोदाहरणं -
ऽरेहै मिहिरेण णहं रसेण कव्वं सरेण जोव्वणां ।
अमएण धुणीधवओ तुमए णरणाह भुवणमिणंऽ ।।
ऽसंचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुं ।
प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनश्च धेनुःऽ ।।
ऽकिवणाण धणं णाआणं फणमणी केसराइं सीहाणं ।
कुलवालिआण थणऽ कुत्तो छेप्पन्ति अमुआणंऽ ।।
एवमेकक्रियं दीपकत्रयं निर्णीतं । अत्र च यथानेककारकगतत्वेन्नैकक्रिया दीपकं तथानेकक्रियागतत्वेनैककारकमपि दीपकं । यथा-
ऽसाधूनामुपकर्तुं लक्ष्मीं धर्त्तुं विहायसा गन्तुं ।
न कुतूहलि कस्य मनश्चरितं च महात्मनां श्रोतुम्ऽ ।।
अत्रोपकरणाद्यनेकक्रियाकर्तृत्वेन कुतूहलविशिष्टं मनो निर्दिष्टं । छायान्ररेण तु मालादीपकं प्रस्तावान्तरे लक्ष्ययिष्यते ।
धेनुसंध्ययोः प्रकृतत्वादत्रान्ये तुल्ययोगितां मन्यन्त इत्युदाहरणान्तरेणोदाह्रियते-
ऽधम्मज्जणेणम काण वि काणवि अत्थज्जणेण बोलेरि ।
कामज्जणेण काण वि काण वि एमेअ संसारोऽ ।।
एकक्रियमित्यनेनैवकगुणमपि दीपकं स्वयमेवोदाहार्यमिति सूचितं । तत्तु यथा-
ऽफणासहस्त्रभृदधो दिवि नेत्रसहस्त्रभृत् ।
अद्वितीयः पृथिव्यां च भवान्नामसहस्त्रभृत्ऽ ।।
अद्वितीयत्वङ्गुणः । एवमेकां क्रियां गुणं वानेककारकगतत्वेनाभिधाय तदेव च दृष्टान्तीकृत्यैककारकमप्यनेकक्रियागतत्वेन दीपकं भवतीत्याह-अत्रेत्यादि । अत्र चोच्छ्रवासवर्णनीयं भैरवाचार्यादिसक्तमुपकारकारणादिविशेषरूपं प्रस्तुतं श्रोतॄनवबोधयितुं कविकर्तृकमिदं साधूपकारकरणादीनां सामान्यानामप्रस्तुतानां प्रशंसनं । तेषां च सामान्यानां परस्परमौपम्यप्रतीतेरेककारकगतत्वेनेयं कारकतुल्ययोगिता । अतश्च नेदं कारकदीपकस्योदाहरणं । तत्त यथा -
ऽआलिङ्गितुं शशिमुखीं च सुधां च पातुं कीर्ति च साधयितुमर्जयितुं च लक्ष्मीं ।
त्वद्भक्तिमद्भतरसां हृदये च कर्तुं मन्दादरं जनमहं पशुमेव जानेऽ ।।
अत्रालिङ्गनाद्यनेकक्रियाकर्तृत्वेनैक एव जनो निर्दिष्टः । प्रस्तुताप्रस्तुतं स्फुटमेव ।
स्विद्यति कूणति वेल्लति विवलति निमिषति विलोकयति तिर्यक् ।
अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणीता वधूः शयने ।।
इत्यत्र तु स्वैदनादिक्रियाणां प्रस्तुतानामेकाधारगतत्वेन समुच्चीयमानत्वाच्च समुच्चयालङ्कारो न तु कारकदीपकं । तद्धि प्रस्तुताप्रस्तुतानां क्रियाणामौपम्यसद्भावे भवति । एवं सर्धक्रियाणां प्रस्तुतत्वेऽपि समुच्ययस्योपम्याभावादेव तुल्ययोगितातोऽपि भेदः । औपम्यसद्भावेऽपि तुल्ययोगितैव । यथा -
ऽचकार दुर्बलानां यः क्षमामागरिबनामपि ।
जह्रे निरपराधानामपि यश्च बलीयसाम्ऽ ।।
अत्र करणहरणयोः प्रकृतत्वं । द्वयोरपि राजगतत्वेन वर्णनीयत्वात् ।
इदं बिम्बप्रतिबिम्बभावेनापि भवति । यथा -
ऽमणिः शाणेल्लीढः समरविजयी हेतिनिहतः कलशेषश्चन्द्रः सुरतमृदिता बालल्लना ।
मदक्षीणो नागः शरदि सरिदाश्यानपुलिना तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु जनाःऽ ।।
अत्र शाणोल्लीढत्वादीनां बिम्बप्रतिबिम्बभावः । शुद्धसामान्यरूपत्वं यथा -
ऽफणराणराइअङ्गो भुअङ्गणाहो धरं समुव्वहै ।
णहदप्यणोवसोहिअसिहो अ तुह णाह भुअदण्डोऽ ।।
अत्र राजितत्वशोभितत्वयोः शुद्धसामान्यरूपत्वं । नन्वेतदनन्तरमेव मालादीपकमन्यैर्लक्षघितं तदिहापि किं न लक्ष्यत इत्याशङ्क्याह-छायेत्यादि । छायान्तरेणेति शृङ्कलारूपेण । प्रस्तावान्तर इति । शृङ्कलाबन्धोपचितरूपत्वात् ।
वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथङ्निर्देशे प्रतिवस्तूपमा ।। २६ ।।
पदार्थारब्धो वाक्यार्थ इति पदार्थगतालङ्कारानन्तरं वाक्यार्थगतालङ्कारप्रस्तावः । तत्र सामान्यधर्मस्येवाद्युपादाने सकृन्निर्देशे उपमा । वस्तुप्रतिवस्तुभावेनासकृन्निर्देशेऽपि सैव । इवाद्यनुपादाने सकृन्निर्देशे उपमा । वस्तुप्रतिवस्तुभावेनासकृन्निर्देशे तु शुद्धसामान्यरूपत्वं बिम्बप्रतिबिम्बभावो वा । आद्यः प्रकारः प्रतिवस्तूपमा । वस्तु-शब्दस्य वाक्यार्थवाचित्वे प्रतिवावाक्यार्थमुपमा साम्यमित्यन्वर्थाश्रयणात् । केवलं काव्यसमयात्पर्यायान्तरेण पृथङ्निर्देशः । द्वितीयप्रकाराश्रयेण दृष्टान्तो वक्ष्यते । तदेवमौपम्याश्रयेणैव प्रतिवस्तूपमा । यथा -
ऽचकोर्य एव चतुराश्चन्द्रिकाचामकर्मणि ।
आवन्त्य एव निपुणाः सुदृशो रतनर्मणिऽ ।।
अत्र चतुरत्वं साधारणे धर्मं उपमानवाक्ये, उपमेयवाक्ये तु निपुणपदेन निर्दिष्टः । न केवसमियं साधर्म्येण यावद्वैधर्म्येणापि । यथात्रैवोत्तरस्थानेऽविनावन्तीर्न निपुणाः सुदृशो रतनर्मणिऽ इति पाठे ।
वाक्यार्थेत्यादि । एतदेव व्याख्यातुमलङ्कारान्तरैः सहास्या विभागं दर्शयति-तत्रेत्यादिना । ऽतया स पूतश्च विभूषितश्चऽ इत्यत्रोपमायां सकृन्निर्देशः । ऽपाण्ड्योऽयमंसार्पितलम्बहारःऽ इत्यादावपि चासकृन्निर्देशः । तदेवभिवाद्युपादाने साधारणधर्मस्य यथासंभवं स्वरूपं निरूप्येवाद्यनुपादानेऽपि निरूपयति-इवादीत्यादिना । यद्यपि दीपकतुल्ययोगितयोः सामान्यस्यासकृन्निर्देशोऽपि संभवति, तथापि सकृन्निर्देशं विना तयोरनुत्थानात्तदेवेह प्राधान्येनोक्तं । असकृन्निर्देशश्च द्विधा भवतीत्याह-असकृदित्यादि । आद्यः प्रकार इति शुद्धसामान्यरूपत्वं । यदि चात्र सामान्यस्यैकरूपत्वमेवास्ति तर्त्कि पर्यायान्तरेण पृथङ्निर्देशः क्रियत इत्याशङ्क्याह-केवलमित्यादि । यदुक्तम्-ऽनैकं पदं द्विः प्रयोज्यं प्रायेणऽ इति । बिम्बप्रतिबिम्बभावो द्वितीयः प्रकारः ।
एवमेतदुपसंहरन्प्रकृतमेव सिद्धान्तयति-तदेवमित्यादिना । औपम्याश्रयेणेति । एतदभिदधता ग्रन्थकृता प्रतिवस्तूपमाया दृष्टान्ताभेदो दर्शितः । यतोऽस्याः प्रकृतार्थस्य विशेषाभिधित्सया सादृश्यार्थमप्रकृतमर्थान्तरमुपादीयते,अत एव चात्र प्रकृताप्रकृतयोरुपमानोपमेयभावः । दृष्टन्ते पुररेतादृशो वृत्तान्तोऽन्यत्रापि स्थित इति प्रकृतस्यार्थस्याविस्पष्टा प्रतीतिर्भा भूदिति प्रतीतिविशदीकरणार्थमर्थान्तरमुपादीयते । अत एवात्रार्थान्तरोपादानं प्रकृतस्य न क्वाप्युपयुक्तमपि तु प्रतिपत्तः प्रकृतार्थप्रतीतेरविस्पष्टतानिरासात् । केचिच्च दृष्टान्ते द्वयोः समर्थ्यसमर्थकभावेनानयोर्भावेनानर्भेदमाहुः । तदसत् । यतः स्वरूपयोर्वशेषयोः समर्थ्यसमर्थकभावो न भवति । वस्त्वन्तरेण वस्त्वन्तरसिद्ध्यनुपपत्तेः । स हि सामान्यविशेषयोरेव भवति । सामान्यस्य नियमेन विशेषनिष्टत्वाद्विशेषस्य च नियमेन सामान्याश्रयत्वात् । यदि चात्र समर्थ्यसमर्थकभावः स्यादर्थान्तरन्यासादस्य पृथगलङ्कारता न स्यात् । समर्थ्यसमर्थकभावात्मनः सामान्यस्योभयत्राप्यनुगमात् । अन्ये पुनरुभयत्राप्यार्थमौपम्यमाश्रित्य सामान्यस्य शुद्धसामान्यरूपत्वबिम्बप्रतिबिम्बभावाभ्यां व्यवस्थितेरनयोर्भेदमाहुः । तदप्यसत् । एतावतैवौपम्याख्यस्य सामान्यलक्षणस्यानुगतत्वादुपमाभेदवदनयोः पृथगलङ्कारत्वानुपपत्तेः । तदेवं वाक्यनैरपूक्ष्येऽपि वक्तृप्रतिपत्त्रोरेव विशेषादयोर्भेदः सिद्धः । वैधर्म्येणापीति । भवतीति शेषः ।
तस्यापि बिम्बप्रतिबिम्बभावतया निर्देश दृष्टान्तः ।। २७ ।।
तष्णापीति न केवलमुपमानोपमेययोः । तच्छब्देन सामान्यधर्मः प्रत्यवमृष्टः । अयमपि साधर्म्यवैधर्म्याभ्यां द्विविधः । आद्यो यथा-
ऽअब्धिर्लङ्घित एव वानरभटैः किं त्वस्य गम्भीरता-
मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः ।
देवीं वाचमुपासते हि बह्यवः सारं तु सारस्त्वतं
जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविःऽ ।।
अत्र यद्यपि ञ्चानाख्य एको धर्मो निर्दिष्टस्तथापि न तन्निबन्धनमौपभ्यं विवक्षितं । यन्निबन्धनं च विवक्षितं तत्राब्धिलङ्घनादावस्त्येव दिव्यवागुपासनादिना प्रतिबिम्बनं । द्वितीयो यथा-
ऽकृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नोऽरयः ।
तमांसि तिष्टन्ति हि तावदंशुमान्न यावदायात्युदयाद्रिमौलिताम्ऽ ।।
अत्र निहतत्वादेः स्थानादिना वैधर्म्येण प्रतिबिम्बनं ।
तस्यापीति [सामान्यधर्मस्यापीत्यर्थः] उपमानोपमेययोरिति । प्रकृताप्रकृतयोर्धर्मिणोरित्यर्थः । अतश्च धर्माणां धर्मिणां च बिम्बप्रतिबिम्बभावेन निर्देशोऽयमलङ्कारः । यदुक्तमन्यत्रापि-ऽदृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम्ऽ इति । उपमानोपमेययोरिति तु स्वार्थएव न व्याख्येयम्,अर्थान्तरस्य प्रकृतदार्ढ्यायोपादानात्सादृश्याविवक्षणात् । आद्य इति साधर्म्येण । यथा वा--
ऽस्थानेषु शिष्यनिवहैः प्रतिपाद्यमाना विद्या गुरुं हि गुणवत्तरमातनोति ।
आदाय शुक्तिषु बलाहकविप्रकीर्णै रत्नाकरो भवति वारिभिरम्बुराशिःऽ ।।
अत्र स्थानादीनां शुक्त्यादिभिः प्रतिबिम्बनं । यन्निबन्धनं चेति । अर्थालङ्कारत्वं न पुनरौपम्यं । तस्य च समनन्तरोक्तयुर्क्त्यासंभवात् ।
संभावतासंभवता वा वस्तुसंबन्धेन गम्यमानं प्रतिबिम्बकरणं निदर्शना ।। २८ ।।
प्रतिबिम्बकरणप्रस्तावेनास्या लक्षणं । तत्र क्कचित्संभवन्नेव वस्तुसंबन्धः स्वसामर्थ्याद्धिम्बप्रतिबिम्बभावं कल्पयति । क्वचित्पुनरन्वयबाधादसंभावता वस्तुसंबन्धेन प्रतिबिम्बनमाक्षिप्यते । तत्र संभवद्वस्तुसंबन्धा यथा-
ऽचूडामणिपदे धत्ते यो देवं रविमागतं ।
सतां कार्यातिथेयीति बोधयन्गृहमेधिनःऽ ।।
अत्र बोधयन्निति णिचस्तत्समर्थाचरणे प्रयोगात्संभवति वस्तुसंबन्धः ।
असंभवद्वस्तुसंबन्धा यथा-
ऽअब्यात्स वो यम्य निसर्गवक्रः स्पृशत्यधिज्यस्मरचापलीलां ।
जटापिनद्धोरगराजरत्नमरीचिलीढोभयकोटिरिन्दुःऽ ।।
अत्र स्मरचापसंबन्धिन्या लीलाया वस्त्वन्तरभूतेनेन्दुना स्पर्शनमसंभवल्लीलासदृशीं लीलामवगमयतीत्पदूरविप्रकर्षात्प्रतिबिम्बकल्पनमुक्तं ।
संभवतेत्यादि । बिम्बप्रतिबिम्बभावमिति उपमानोपमेयत्वमित्यर्थः । धर्मधर्मिणोरभेदोपक्षारात् । एवं चात्र निदर्शतायां सादृश्याविनाभावः । तेन -
ऽप्रभाते पृच्छ्रन्तीरनुरहसवृत्तं सहचरीर्नवोढा न व्रीडामुकुलितमुखीयं कथयति ।
लिखन्तीनां पत्त्राङ्कुरमनिशमस्यास्तु कुचयोश्चमत्कारो गूढं करजपदमासां प्रथयतिऽ ।।
इत्यादौ संभवत्यपि वस्तुसंबन्धे प्रथनस्यौपम्याभावान्न निदर्शनालङ्कारत्वम्ष । अनेनैव वस्तुसंबन्धस्य संभवासंभवाभ्यामस्या भेदद्वयमप्युक्तं । तदेवोदाहरति-चूडामणीत्वादिना । तत्समर्थाचरणे प्रयोगादितिऽकारीषोऽध्यापयतिऽ इत्यादिवत् । अभ्यागतस्य रवेर्गिरिणा शिरसा धारणं तत्समर्थाचरणं । अत एवात्र बोधयन्निति णिचस्तत्समर्था चरणे प्रयोगान्मयेव भवद्विभरप्यतिथिसपर्या कार्येति संभवत्संबन्धमूलमत्रार्थमौपम्यं । एवं च पर्वतस्य बोधनक्रियाकर्तृत्वासंभवादेवादेवाभिमन्तृव्यापारोपारोहाभावान्नात्र प्रतीयमानोत्प्रेक्षा । नापि स्मृत्यलङ्कारः । गृहमेधिनां पर्वतकर्तृकस्य सद्विषयातिथ्यबोधकत्वस्यवाक्ष्यार्थत्वात् । तत्र हि सदृशदर्शनाद्वस्त्वन्तरस्य स्मृतिर्भवति । नचात्र गृहमेधिनां रविदर्शनादतिथिस्मृतौ कर्तृत्वं । तेषां सदातिथ्यकर्तव्यताया बोध्यत्वात् । नाप्यत्र रविणातिथेरतिथिना वा रवेः साम्यंविवक्षितं । अपि तु मयेव गृहमेधिभिरपि सतामातिथ्यङ्कार्यमिति । अत एव नात्र वस्त्वन्तरकरणात्मापि विशेषालङ्कारः । तपानावगमेऽतिथ्यादेरसंभाव्यस्यावगमो जात इत्येवमात्मिकायाः प्रतिपत्तेरभावात् । अतश्च सत्यसति वा संबन्धे निदृशंनेति वाच्यं । तेन यथोक्तमेव भेदद्वयं स्यात् । असंभवदिति । धर्म्यन्तरसंबन्धिनो धर्मस्य धम्यन्तरेऽन्यदायोगात् । अद्रविप्रकर्षादिति । धर्ममुखेनसादृश्यस्य किञ्चित्प्रत्यासच्चत्वात् । यथा वा -
ऽअङ्गे पुलां अहरं सवेपिअं जंपिअं ससिक्कारं ।
सव्वं सिसिरेण कां जं काअव्वं पिआमेणऽ ।।
अत्र वल्लभकार्यस्य पुलकादेर्धर्मस्य वस्त्वन्तरभूतेन शिशिरेण कारणमसंभवत्तस्य साम्यमवगमयतीति शिशिरस्य बल्लभतुल्यताप्रतीतेरौपम्यं । अतश्चात्र धर्माणामसंबन्धात्निदर्शनेत्युक्त्वा प्रतिमालङ्कारत्वं न वाच्यं । प्रतिभायाश्चान्योदाहरणेष्वलङ्कारान्तरावियोगः स्फुट एवेति न पृथगलङ्कारत्वं वाच्यं । एवमन्येषामपि समग्राणामभिनवालङ्काराणां चान्यैरन्यालङ्कारयोगो योजयितुं शक्य एवेति ग्रन्थविस्तरभयादस्मदर्शने तद्दूक्षणोद्धारस्यैव च प्रतिज्ञातत्वादस्माभिः प्रातिपद्येन न दूषितं । न पुनरेतावतैव परमतमप्रतिषिद्धमनुमतमेवेति दृशा एषामपि पृथगलङ्कारत्वं युक्तं मन्तव्यं ।
एषापि पदार्थवाक्यार्थवृत्तिभेदाद्द्विविधा पदार्थवृत्तिः समनन्तरमुदाहृता । वाक्यार्थवृत्तिर्यथा-
ऽत्वत्पादनखरत्नानां यदलक्तकमार्जनं ।
इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोःऽ ।।
केचित्तु दृष्टान्तालङ्कारोऽयमित्याहुस्तदसत् । निरपेक्षयोर्वाक्यार्थयोर्हि बिम्बप्रतिबिम्बभावो दृष्टान्तः । यत्र च प्रकृते वाक्यार्थे वाक्यार्थान्तरमारोप्यते सामानाधिकरण्येन तत्र संबन्धानुपपत्तिमूला निदर्शनैव युक्ता, न दृष्टान्तः । एवं च -
ऽशुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य ।
दूरीकृताः खलु गुणैरुद्यानलता बनलताभिःऽ ।।
इत्यत्र दृष्टान्तबुद्धिर्न कार्या । उक्तन्यायेन निदर्शनाप्रात्पेः ।
एषेत्यसंभवद्वस्तुसंबन्धनिबन्धना । न केवलं निदर्शना यावत्तद्भेदोऽप्ययं द्विविध इत्यपिशब्दार्थः । उदाहृतेतिऽअव्यात्स वःऽ इत्यादिना । केचिदिति श्रीमम्मटादयः । १८ अ. स. तदिति दृष्टान्तालङ्कारवचनं । एतदन्यत्रापि योजयति-एवमित्यादिना । उक्तन्यायेनेति,प्रकृतवाक्यार्थे वाक्यार्थान्तरस्य सामानाधिकरण्येनाध्यारोप्यमाणत्वात् । अतश्चान्यैर्वाक्यार्थयोः सामानाधिकरण्यनिदशाच्छ्रौतारोपसद्भावेन वाक्यार्थरूपकं यदुक्तं तत्तावदास्ताम्,यत्पुत्रः प्रतिवस्तूपमोदाहरणत्वमुक्तं तदयुक्तमेव । निरपेक्षयोर्वाक्यार्थयोर्धर्मस्य शुद्धसामान्यरूपत्वे प्रतिवस्तूपमा ।
न चात्रैकमपि संभवति । वाक्यार्थयोः सापेक्षत्वाच्छुद्धसामान्यरूपत्वाभावाच्च अर्थापत्त्युदाहरणत्वमप्यत्रायुक्तं ।
ऽजाग्रतः कमलाल्लक्ष्मीं यज्जग्राह तदद्भुतं ।
पादद्वन्द्वस्य मत्तेभगतिस्तेये तु का स्तुतिःऽ ।।
इत्यत्र तु प्रतिवस्तूपमोदाहरणत्वं पापात्पापीयः । अत्र हि वाक्यार्थयोः परस्परं सादृश्यमात्रमपि नास्तीति का कथा प्रतिवस्तूपमायाः । एवंविधमेव चान्यत्र सर्वालङ्कारोदाहरणेष्वासमञ्जस्यं संभवदपि समनन्तरोक्तहेतुद्वयाश्च दर्शितं । तथा च -
ऽआज्ञाधरः पञ्चशरः पुरस्तात्सुधा पुनः कर्मकरी मुखस्य ।
स चापि सौन्दर्यविशेषबन्दी यत्रेन्दुरिन्दीवरलोचनानाम्ऽ ।।
इत्यत्र विषयविषयिणोर्द्वयोरप्युपादानात्स्फुटेऽपि रूपकत्वेऽतिशयोक्त्युदाहरणत्वमुक्तं तत्र चातिशयोक्तित्वमेव नास्तीति किं कार्यकारणभावपूर्वकत्वनिदर्शनेननेत्यलं बहुना । असंभवद्वस्तुसंबन्धनिबन्धनायाश्च यद्यपि वस्तुसंबन्धस्याविशेषेण संभव उक्तस्तथापि समनन्तरोक्तोदाहरणेषु यथोपमानसंबन्धी धर्म उपमेयगतत्वेनैव संभवति तथैवोपमेयसंबन्धी धर्मः क्वचिदुपमानेऽपीत्याह-इयमित्यादि ।
इयं चोपेमेय उपमानवृत्तस्यासंभवात्प्रतिपादिता पूर्वैः वस्तुतस्तूपमेयवृत्तस्योपमानेऽसंभवादपि भवति । उभयत्रापि संबन्धविघटनस्य विद्यमानत्वात् । तद्यथा -
ऽवियोगे गौडनारीणां यो गण्डतलपाण्डिमा ।
अलक्ष्यत स खर्जूरीमञ्जरीगर्भरेणुषुऽ ।।
अत्र गण्डतलं प्रकृतं । तद्धर्मस्य पाण्डिम्नः खर्जूरीरेणुष्वसंभवादौपम्यप्रतीतिः । एष च प्रकारः शृङ्खलान्यायेनापि भवति । यथा-
ऽमुण्डसिरे बोरफलं बोरोवरि बोरां थिरं धरसि ।
विग्गुच्छाऐ अप्पा णालिअछेआ छलिज्जन्तिऽ ।
उभयत्रेत्युपमेये उपमाने वा । वसन्तवर्णनस्य प्रक्रान्तत्वाद्द्वयोः प्रकृतत्वेऽपि गण्डतलस्योपमेयत्वं । तद्भतत्वेनैव पाण्डिम्नः सिसाधयिषितत्वात् । सिध्दसाध्यधर्मत्वमेव क्षोपमानोपमेयत्वम्ष । यथा वा -
ऽत्वद्वक्त्रलावण्यमिदं मृगाक्षि संलक्ष्यते पत्युरपि क्षपायाः ।
कथं त्वनेनाहृतमेतदद्य कलावतां वा किमसाध्यमस्तिऽ ।।
अत्र चाटुषु नायिकायाः प्रस्तुतत्वाद्वक्त्रमुपमेयं । तद्धर्मस्य च लावण्यस्योपमाने शशिन्यसंभवः । एष इति असंभवद्वस्तुसंबन्धनिबन्धनो वा वाच्यः ।
इयमपि क्वचिन्मालयापि भवन्ती दृश्यते । यथा-
ऽअरण्यरुदितं कृतं शवशरीरमुद्वर्तितं
स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितं ।
श्वपुच्छमवनामितं बधिरकर्णजापः कृतः
धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितःऽ ।।
क्वचित्पुनर्निषेधसामर्र्थ्यादाक्षित्पायाः प्रात्पेः संबन्धानुपपत्त्यापि भवति । यथा-
ऽउत्कोपे त्वयि किञ्चिदेव चलति द्राग्गूर्जरक्ष्माभृता
मुक्ता भूर्न परं भयान्मरुजुषां यावत्तदेणीदृशां ।
पद्भ्यां हंसगतिर्मुखेन शशिनः कान्तिः कुचाभ्यामपि
क्षामाभ्यां सहसैव वन्यकरिणां गण्डस्थलीविभ्रमःऽ ।।
अत्र मुक्तेन निषेधपदं तदन्यथानुपपत्त्या पादयोर्हसगतिप्रात्पिराक्षिप्यते । सा च तयोरनुपपन्ना सादृश्यं गमयतीति असंभवद्वस्तुसंबन्वनिबन्धना निदर्शना ।
आक्षित्पाया इति । प्रात्पिपूर्वकत्वान्निषेधस्य । सेति प्रात्पिः सादृश्यमिति पादयोर्हसगतितुल्याया गतेः प्रतीतेः ।
इयं च सामान्यस्यानुगामितया । यथा- अव्यात्म व इत्यादि । अत्र निसर्गवक्रताक्ष्यधर्मस्यानुगामित्वं । शुद्धसामान्यरूपत्वेन यथा -
ऽहारेणामलकस्थूलमुक्तेनामुक्तकुन्तलः ।
फणीन्द्रबद्धजूटस्य श्रियमाप स धूर्जटेःऽ ।।
अत्रामुक्तबद्धयोः शुद्धसामान्यरूपत्वं । बिम्बप्रतिबिम्बभावेन यथा -
ऽउह सरसदन्तडलकपोलपडिमागओ माच्छ्रीइ ।
अन्ते सिंदूरिअसंखवत्तकराणं वहै चन्दोऽ ।।
अत्र दन्तमण्डलसिन्दूरितत्वयोर्बिम्बप्रतिबिम्बभावः ।
भेदप्राधान्ये उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः ।। २९ ।।
अधुना भेदप्राधान्येनालङ्कारकथनं । भेदो वैलक्षण्यं । स च द्विधा भवति, उपमानादुपमेयस्याधिकगुणत्वे विपर्यये वा भावात् । विपर्ययो न्यूनगुणत्वं ।
भेदप्राधान्य इत्यादि । अधुनेति प्रात्पावसरं । भेदस्य चात्र प्राधान्यादभेदस्य वस्तुतः सद्भावः । सादृश्य एव पर्यवसानात् । अत एव सादृश्यव्यतिरेकेण संभवन्नपि भेदो नास्य विषयः । यथा -
ऽदिव्योत्तरीयभृति कौस्तुभरन्नभाजि देवे परे दधतु लुब्धधियोऽनुबन्धं ।
रूपं दिगम्बरमखण्टनृमुण्डचूडं भावत्कमेव तु बतेश मम स्पृहायैऽ ।।
अत्र वैष्णवेभ्यः स्वात्मनि विष्णोर्वा परमेश्वरे भेदमात्रं विवक्षितं न तु केनापि कस्यचिदौपम्यं । स इति भेदः । तस्याधिक्यविपर्ययाभ्यां वैविध्याद्वयतिरेकोऽपि द्विविधः । तदाश्रयत्वादस्य ।
क्रमेणोदाहरणं -
ऽदिद्दक्षवः पक्ष्यलताविलासमक्ष्णां सहस्रस्य मनोहरं ते ।
वापीषु नीलोत्पलिनी-विकासरभ्यासु नन्दन्ति न षट्पदौधाःऽ ।।
ऽक्षीणः क्षोणोऽपि शशी भूयो भूयो विवर्धते सत्यं ।
विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तुऽ ।।
अत्र विकस्वरनीलोत्पलिन्यपेक्षया अक्षिसहस्रस्य पक्ष्मलतया अधिकगुणत्वं । चन्द्रापेक्षया च यौवनस्य न्यूनगुणत्वं । शशिवैलक्षण्येन तस्यापुनरागमात् ।
चन्द्रापेक्षयेति । शशियौवनयोर्हि समानेऽपि गत्वरत्वे शशिनः पुनरागमनमपि संभवति न तु यौवनस्येति ततोऽस्य न्यूनगुणवत्त्वं ।
नन्वत्र विपर्ययमेवेति सूत्रितं भेदान्तरमयुक्तं । उपमानादुपमेयस्य न्यूनगुणत्वे वास्तवत्वात्,तत्त्वे चालङ्कारत्वानुपपत्तेः । यौवनस्य चात्रास्थिरत्वे प्रतिपाद्ये प्रतिपाद्ये चन्द्रापेक्षयाधिकगुणत्वमेव विवक्षितं । यदेतञ्चन्द्रवद्यातं सन्न पुनपायातीति । असदेतत् । यतोऽत्र चन्द्रवद्गतं सद्यौवनं यदि पुनरप्यागच्छ्रेत्तत्प्रियं प्रति चिरमीर्ष्यानुबन्धो युज्येत । कालान्तरेऽपि ह्यस्य तदवलोकनादुना सफलीकारः स्यात् । इदं पुनर्हतयौवनं यातं सत्प्रुनर्नागच्छ्रतीतीर्ष्याद्यन्तरायपरिहारेण निरन्तरतयैव प्रियेण सह सफलयितव्यमिति धिगीर्ष्याम्,त्यज प्रियं प्रति मन्युम्,कुरु प्रसादमित्यास्मिन्प्रियवयस्योपदेशे प्रियं प्रति कोपोपशमाय चन्द्रापेक्षया यौवनस्यापुनरागमनं न्यूनगुणत्वेनैव विवक्षितमिति वाक्यार्थविद एव प्रमाणं । न चैतद्वास्तवमुपमेयस्य न्यूनगुणत्वं । तस्यैव सातिशयत्वेनप्रतिपाद्यत्वात् । प्रकृतार्थोपरञ्जकत्वे हि सर्वथा कवेः संरम्भः । तच्चाधिकगुणमुखेन भवतु,इतरथा वा को विशेषः । तस्माद्युक्तमेव विपर्यये वेति सूत्रितं । प्रत्युत प्रतित्पत्वात् । वतःऽस्वरेण तस्या अभृतस्त्रुतेवऽ इत्यादावन्यष्टालापस्य प्रतिकूलत्वोक्तेः कर्णकटुकत्वादिना न्यूनत्वावगतेरुपमेयभूताया भगवत्याः संबन्धिनः स्वरस्यामृतस्त्रतेवेत्यभिधानादानन्दातिशयदातिशयदायित्वादेश्चाधिक्यमेवावगम्यत इत्यलं बहुना । अस्यापि सादृश्याश्रयत्वात्सामान्यस्य त्रयी गतिः । तत्रानुगामिता यथा -
नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः ।
लब्ध्वापि लोके परिणाहि रूपं जातास्तद्वर्वोरुपमानबाह्याः ।।
अत्र परिणाहिरूपत्वस्यातुगामित्वं । वस्तुप्रतिवस्तुभावे पुनर्ग्रन्थकृतैवोदाहृतं - दिदृक्षव इत्यादि । अत्र मनोहरत्वरम्यत्वयोः शुद्धसामान्यरूपत्वं । पक्ष्यलताविलासविकस्वरयोश्च बिम्बप्रतिबिम्बभावः ।
उपमानोपमेययोरेकस्य प्राधान्यनिर्देशेऽपरस्य सहार्थसंबन्धे सहोक्तिः ।। ३० ।।
भेदप्राधान्य इत्येव । गुणप्राधानभावनिमित्तकमत्र भेदप्राधान्यं । सहार्थप्रयुक्तश्च गुणप्राधानभावः । उपमानोपमेयत्वं चात्र वैवक्षिकम्, द्वयोरपि प्राकरणिकत्वादप्राकरणिकरणिकत्वाद्वा । सहार्थसामर्थ्याद्धि तयोः तुल्यकक्षत्वं । तत्र तृतीयान्तस्य नियमेन गुणत्वादुपमानत्वं । अर्थाच्च परिशिष्टस्य प्रधानत्वादुपमेयत्वं । शब्दश्चात्र गुणप्राधानभावः । वस्तुतस्तु विपर्ययोऽपि स्यात् । तत्र नियमेनातिशयोक्तिमूलत्वमस्याः । सा च कार्यकारणप्रतिनियमविपर्ययरूपा अभेदाध्यवसायरूपा च । अभेदाध्यवसायश्च श्लेषभित्तिकोऽन्यथा वा । साहित्यं चात्र कत्रादिनानाभेदं ज्ञेयं । तत्र च -
ऽकार्यकारणप्रतिनियमविपर्ययरूपा यथा -
ऽभवदपराधैः सार्धं संतापो वर्धतेतरामस्याःऽ ।
अत्रापराधानां संतापं प्रति हेतुत्वेऽपि तुल्यकालत्वेनोपनिबन्धः ।
श्लेषभित्तिकाभेदाध्यवसायरूपा यथा -
ऽअस्तं भास्वान्प्रयातः सह रिपुभिरयं संह्नियन्तां बलानिऽ ।
अत्रास्तं गमनं श्लिष्टं । अस्तमित्यस्योभयार्थत्वात् ।।
उपमानेत्यादि । किंहेतुकं चात्र भेदप्राधान्यमित्याशङ्क्याह-गुणेत्यादि । गुणप्राधानभावोऽपि किंहेतुक इत्याह-सहार्थेत्यादि । एकस्य प्रधान्यभूतविभक्तिनिर्देशादन्यस्य च विधिविभक्तिनिर्देशात् । वैवक्षिकमिति न पुनर्वास्तवं । उपमानोपमेयत्वं हि द्वयोस्तुल्यकक्षत्वेभवति तच्चात्र किंनिमित्तकमित्थाशङ्क्याह-सहार्थेत्यादि । परिशिष्टस्येति प्रथमान्तस्य । शाब्द इति न पुनरार्थः , वस्तुतो विपर्ययस्यापि संभवात् । एवं गुणप्रधानभावनिमित्तकं भेदप्राधान्यमपि शाब्दमेवात्र ज्ञेयं । वस्तुतो हि सादृश्यैव पयवसानाद्भेदाभेदयोस्तुल्यत्वेनैव प्रतीतिः । तस्माच्छ्राब्दमेव भेदप्राधान्यमाश्रित्येहास्या वचनं । विपर्यय इति । प्रधानविभक्त्या निर्दिष्टस्याप्राधान्यं गुणविभक्त्या च निर्दिष्टस्य प्राधान्यं । नियमेनेति । अनेनातिशयोक्त्यानुप्राणनमन्तरेणालङ्कारत्वमेवास्या न भवतीति ध्वनितं । सेत्यतिशयोक्तिः । कार्यकारणयोः प्रतिनियमस्य क्रमस्य विपर्ययस्तुल्यकालत्वादिनोक्तेः । अन्यथेति अश्लेषरूपः । तदेवमस्या अतिशयोक्तिभेदचतुष्टयमनुप्राणकं । कत्रादीति आदिशब्दात्कर्मादयः । तत्रेति निर्धारणे । [कार्यकारणप्रतिनियमविपर्ययरूपेति] । अस्यामनुप्राणकत्वेन स्थितेति शेषः । अत्रापराधानां शाब्दो गुणभावः । वस्तुतस्तु प्राधान्यं तेषामेव,प्रतिपाद्यत्वात् । एवमन्यत्र ज्ञेयं । ऽक्षयमेति सा वराकी स्नेहंन समं त्वदीयेनऽ इत्यस्यार्धं । ऽकुर्वन्त्वात्पा हतानां रणशिरसि जना वह्णिसाद्देहभारानश्रून्मिश्रं कथञ्चिद्वदतु जलममी बान्धवा बान्धवा बान्धवेभ्यः । मार्गन्तां ज्ञातिदेहान्हतनरगहने खण्डितान्गृध्रकङ्कैःऽ इत्यस्याद्यं पादत्रयं ।
तदन्यथारूपा यथा -
ऽकुमुदवनैः सह संप्रति विघटन्ते चक्रवाकमिथुनानिऽ ।
अत्र विघटनं संबन्धिभेदाद्भिन्नं न तु श्लिष्टं ।
एतद्विशेषपरिहारेण सहोक्तिमात्रं नालङ्कारः । यथा-
ऽअनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषुऽ इत्यादौ । एतान्येव कर्तृसाहित्ये उदाहरणानि ।
कर्मसाहित्ये यथा -
ऽद्युजनो मुत्युना सार्धं यस्याजौ तारकामये ।
चक्रे चक्राभिधानेन प्रेष्येणात्पमनोरथःऽ ।।
अत्र करोतिक्रियापेक्षया द्युजनस्य मृत्योश्च कर्मत्वं ।
एषा च मासयापि भवन्ती दृश्यते । यथा-
ऽउत्क्षित्पं सह कौशिकस्य पुलकैः सार्धं मुखैर्नामितं
भूपानां जनकस्य संशयधिया साकं समास्फालितं ।
वैदेह्या मनसा समं च सहसाकृष्टं ततो भार्गव-
प्रौढाहङ्कृतिकन्दलेन च समं तद्भग्नमैशं धनुःऽ ।।
सह कमलैर्ललनानां मानः संकोचमायाति इत्यस्यार्धं । एतद्विशेषपरिहारेणेति अतिशयोक्त्यनुप्राणनमन्तरेण । ऽद्वीपान्तरानीतवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिःऽ इति द्वितीयमर्धं । एतानीति समनन्तरोक्तानि । यमापेक्षया द्युजनस्यानन्तरमात्पमनोरथत्वमिति आदिपश्चाद्भावेन क्रमिकयोस्तुल्यकालत्वेनोक्तिः । यथा वा -
ऽभाग्यैः समं समुत्पन्नं प्रजाभिः सह लालितं ।
वर्धितं सुकृतैः सार्धमर्णोराजमसूत साऽ ।।
अत्र समुत्पत्त्यनन्तरं तद्भाग्यानामुत्पत्तिरिति क्रमिकयोः समकालत्वं । अस्याश्च शुद्धसामान्यरूपत्वं यथा -
ऽमलऽणिलेण सह सोरहवासिएण दैआणं ।
वड्ढन्ति बहलसोमालपरिमला सासणिउरंबाऽ ।।
अत्र सौरभपरिमलयोः शुद्धसामान्यरूपत्वं । बिम्बप्रतिबिम्बभावो यथा -
ऽदिनारारणिउरंबा कणऽअलकडारेणिविप्फुरिआ ।
विअशन्ति परिमलभरोब्भडेहिं कमलकिरहिं समंऽ ।।
अत्र कनकाचलकटकरेणुविच्छुरितत्वस्य परिमलभरोद्भटत्वं बिम्बप्रतिबिम्बत्वेन निर्दिष्टं ।
सहोत्किप्रतिभटभूतां विनोक्तिं लक्षयति -
विना किञ्चिदन्यस्य सदसत्त्वाभावो विनोक्तिः ।। ३१ ।।
सत्त्वस्य शोभनत्वस्याभावोऽशोभनत्वं । एवमसत्त्वस्याशोभनत्वस्याभावः शोभनत्वं । तेद्वे सत्त्वासत्त्वे यत्र कस्यचिदसंनिधानान्निबध्येते सा द्विधा विनोक्तिः । अत्र च शोभनत्वाशोभनत्वसत्तासत्तायामेव वक्तव्यायामसत्तामुखेनाभिधानमन्यनिवृत्तिप्रयुक्ता तन्निवृत्तिरिति ख्यापनार्थं । एवं चान्यानिवृत्तौ विधिरेव प्रकाशितो भवति । आद्या यथा -
ऽविनयेन विना का श्रीः का निशा शशिना विना ।
रहिता सत्कवित्वेन कीदृशी वाग्विदग्धताऽ ।।
प्रतिभटभूतामिति प्रतिपक्षभूतां । अत एवैतदनन्तरमेतल्लक्षणं । तदेवाह-विनाकिञ्चिद्त्यादि । एतदेव व्याचष्टे-सत्त्वस्येत्यादिना ।
कस्यचिदिति यत्र यादृशो विवक्षितस्तस्येति । ननु चात्र सत्त्वासत्त्वयोर्विधिमुखेनैव वाच्यत्वे किमिति प्रतीतिवैषम्यदायिना निषेधमुखेन निर्देशः कृत इत्याशद्वयाह-अत्र चेत्यादि ।
तच्छब्देन सत्त्वासत्त्वयोः प्रत्यवमर्शः । अन्यनिवृत्तिप्रयुक्तेन तन्निवृत्तिल्यापनेनापि किं भवतीत्याशङ्क्याह-एवं चेत्यादिना ।
अन्यस्य कस्यचिदनिवृत्तौ सत्तमसत्त्वमेव वा भवतीत्यर्थः । आद्येति असत्त्वनिबन्धनोक्तिः । का श्रीर्न काचिच्छ्रीरिति श्रियो विरहोऽसद्भावः । विनयासद्भावेऽपिश्रियोऽसद्भावोऽस्तीत्येतदभिधानं श्रियोऽसत्त्वे पर्यवस्यतीति विनयनिवृत्तिप्रयुक्तं श्रियोऽसत्त्वमुक्तं । एवं विनयस्यानिवृत्तौ श्रियः सत्त्व एव विधिः प्रकाशितो भवतीति विनय एवं भरबन्धः कार्यः । एवमन्यत्रापि ज्ञेयं । अन्ये चात्र वास्तवत्वंमन्यमानाः-
ऽतस्याः शैत्यं विना ज्योत्स्ना पुष्पर्द्धिः सौरभं विना ।
विनोष्णत्वं च हुतभुक्त्वां विना प्रतिभासतेऽ ।।
इत्यत्र विनोक्त्यलङ्कारत्वमाहुः । अत्र हि ज्योत्स्त्रादीनां शैत्यादिना नित्यमविभावेऽपि विनाभाव उपनिबद्धः । यदाहालङ्कारभाष्यकारः-"नित्यसंबद्धानामसंबन्धवचन विनोक्तिः" इति विनोक्तिरूपसंख्यास्यतेऽ इति । ग्रन्थकृता पुनरियं चिरन्तनलक्षितत्त्वाल्लक्षिता ।
अत्र विनाशब्दमन्तरेणापि विनार्थविवक्षा यथाकथञ्चिन्निमित्तीभवति यथा सहोक्तौ सहार्थविवक्षा । एवं च -
ऽनिरर्थकं जन्म गतं नलिन्या यथा न दृष्टं तुहिनांशुबिम्बं ।
उत्पत्तिरिन्दोरपि निष्फलैव न येन दृष्टा नलिनी प्रबुद्धाऽ ।।
इत्यादौ विनोक्तिरेव । तुहिनांशुदर्शनं नलिनीजन्मनोऽशोभनत्वप्रतीतेः ।
इयं च परस्परविनोक्तिभङ्ग्या चमत्कारातिशयकृत् । यथोदाहृते विषये ।
यथाकथञ्चिदिति । यद्यपि यथा सहशब्दं विनापि सहार्ये तृतीयास्ति तथा विनाशब्दंविनापि द्वितीयादीनां विनार्थे सद्भावोऽस्ति, तथापि वाक्यार्थपर्यालोचनसामर्थ्यात्तदर्थः पर्यवस्यतीत्यस्य भावः । सहशब्दं विनापि सहार्थविवक्षा यथा -
ऽविवृण्वता सौरभरोरदोषं बन्दिव्रतं वर्णगुणैः स्पृशन्त्या ।
विकस्वरे कस्य न कर्णिकारे घ्राणेन दृष्टेर्ववृधे विवादःऽ ।।
अत्र घ्राणेन सहेति तत्प्रयोगं विना तत्प्रतीतावेव विश्रान्ते । एवं चेति । यस्माद्विनाशब्दं विनापि तदर्थविवक्षा भवतीत्यर्थः । यथोदाहृत इति निरर्थकमित्यादौ । यथा वा -
ऽहंसण सरेहिं विणा सराण सोहाविणा ण हंसेहिं ।
अण्णोण्णं चिअ ई अप्पाणं णवरं गरुएन्तिऽ ।।
द्वितीया यथा -
ऽमृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः ।
अमृतद्युतिसुन्दराशयोऽयं सुहृदा तेन नरेन्द्रसूनुःऽ ।।
अत्राशोभनत्वाभावः शोभनपदार्थप्रक्षेपभङ्ग्योक्तः । शैषा द्विधा विनोक्तिः ।
द्वितायेति शोभनत्वनिबन्धनोक्तिः ।
अधुना विशेषणविच्छित्त्याश्रयेणालङ्कारद्वयमुच्यते । तत्रादौ विशेषणसाम्यावष्टम्भेन समासोक्तिमाह-
विशेषणानां साम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः ।। ३२ ।।
इह प्रस्तुताप्रस्तुतानां क्वचिद्वाच्यत्वं क्वचिद्गम्यत्वमिति द्वैविध्यं । वाच्यत्वं च श्लेषनिर्देशभङ्ग्या पृथगुपादानेन वेत्यपि द्वैविध्यं । एतद्द्विभेदमपि श्लेषालङ्कारस्य विषयः । गुम्यत्वं तु प्रस्तुतनिष्ठमप्रस्तुतप्रशंसाविषयः अप्रस्तुतनिण्ठं तु समासोक्तिविषयः । तत्र च निमित्तं विशेषणसाम्यं । विशेष्यस्यापि साम्ये श्लेषप्रात्पेः । विशेषणसाम्याद्धि प्रतीयमानप्रस्तुतं प्रस्तुतावच्छेदकत्वेन प्रतीयते । अवच्छेदकत्वं च व्यवहारसमारोपः । रूपसमारोपे त्ववच्छादितत्वेन प्रकृतस्य तद्रूपित्वाद्रूपकमेव ।
तत्रेत्यलांरद्वयमध्यात् । आदाविति प्रधानतया । अस्या हि विशेषणमात्रावष्टभ्भात्परिकराद्विशेषणसाम्यावष्टम्भत्वेन विशिष्टत्वं । विशेषणेत्यादि । अत्त्याश्चालङ्कारान्तरेभ्यो विभागं दर्शयितुमुपक्रमते-इहेत्यादिना । वाच्यत्वं चात्र द्वयोः प्रस्तुतयोरप्रस्तुतयोः प्रस्तुताप्रस्तुतयोश्च भवति । गम्यत्वं पुनः क्वचित्प्रस्तुतस्य क्वचिच्चाप्रस्तुतस्य । प्रस्तुताप्रस्तुतयोस्तु न भवति । ताद्रूप्येण वस्तुसद्भावाभावात् । श्लेषनिर्दिशभङ्ग्येति । प्रस्तुतयोरप्रस्तुतयोश्च । पृथगुपादानेनेति । प्रस्तुतयोरप्रस्तुतयोः प्रस्तुताप्रस्तुतयोश्चैतदिति वाच्यं । अत्र चाप्रस्तुतस्य किंहेतुकं गम्यत्वमित्यङ्क्याह-तत्र चेत्यादि । तत्रेति अप्रस्तुतस्य गम्यत्वे । विशेषणानां चात्र बहुत्वमेव विवक्षितमिति न वाच्यं ।
ऽश्वसनविषमा रार्त्रिर्ज्योत्स्त्ना तरङ्गितविभ्रमा शशिमणिभुवो वाष्पायन्तेनिमीलति पद्मिनी ।
उपचिततमोनोहा भूमिर्व्यनक्ति विवर्णतां तदिति गहने दर्शं दर्शं कथं सखि जीव्यतेऽ ।।
इत्यत्र विशेषणबहुत्वाभावेऽपि समासोक्तेः सद्भावात् । अतश्च विशेषणानां साम्यादीति न सूत्रणीयम । अबहुत्वे तस्याव्याप्तेः । विशेषणसाम्यमपि कस्मादत्र हेतुत्वं भजत इत्याशङ्क्याह-विशेषेणेत्यादि । अप्रस्तुतमिति न पुनरप्रस्तुतधर्मा एव । नह्यन्यधर्मिसंबन्धिनो धर्माःस्वधर्मिणमन्तरेणान्यत्रावतिष्टन्ते । नह्यनायके नायकधर्माणामन्वयो युज्यते । अन्यधर्माणामन्वयत्रान्वयासंभवात् । अत एवान्यरोप्यमाणोऽन्यवहारोऽन्यत्र न संभवतीति तदविनाभावात्स्वव्यवहारिणमाक्षिपतीत्याक्षिप्यमाणेनाप्रस्तुतेन धर्मिणैव प्रस्तुतो धर्म्यवच्छ्रिद्यतेन पुनराच्छ्राद्यते । तथात्वे ह्यप्रस्तुतेन प्रस्तुतस्य रूपरूपितत्वाद्रूपसमारोपः स्यान्न व्यवहारसमारोपः । अत एवाह-प्रस्तुतस्य रूपरूपितत्वाद्रूपसमारोपः स्यान्न व्यवहारसमारोपः । अत एवाह-प्रस्तुतावच्छेदकत्वेनेति । अत एवाप्रस्तुतस्य गम्यत्वे इति सूत्रितं । एवं समासोक्तौ व्यवहारसमारोपादप्रस्तुतेन प्रस्तुतस्य वैशिष्टम्लक्षणमवच्छ्रेदकत्वं विधयते । रूपके तु रूपसमारोपाद्रूपितत्वाख्यमाच्छ्रादकत्वमित्यनिर्भेदः । तेनऽविशेषणानां साम्यादप्रस्तुतधर्मावच्छ्रेदऽ इत्यपास्यास्मल्लक्षणानुगुण्येनैव विशेषणसाम्यादप्रस्तुतावच्छेदः समासोक्तिरित्येव सूत्रणीयं । अतिशयोक्त्याशङ्का पुनरत्र निष्प्रमाणिकैव । विषयस्योपादानाद्विषयिणश्चानुपादानात् ।
तच्च विशेषणसाम्यं श्लिष्टतया साधारण्येनौपम्यगर्भत्वेन च भवत्त्रिधा भवति तत्र श्लिष्टतया यथा -
ऽउपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखं
यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम्ऽ ।।
अत्र निशाशशिनोः श्लिष्टविशेषणमहिम्ना नायकव्यवहारप्रतिपत्तिः । अपरित्यक्तस्वरूपयोर्निशाशशिनोर्नायकताख्यधर्मविशिष्टयोः प्रतीतेः । साधारण्येन यथा -
ऽतन्वी मनोरमा बाला लोलाक्षी पुष्पहासिनी ।
विकासमेति सुभग भवद्दर्शनमात्रतःऽ ।।
अत्र तन्वीत्यादिविशेषणसाम्याल्लोलाक्ष्या लताव्यवहारप्रतीतिः । तत्र च लतैकगामिविकासाख्यधर्मससारोपः कारणं । अन्यथा विशेषणसाम्यमात्रेण नियतलताव्यवहारस्याप्रतीतेः । विकासश्च प्रकृते उपचरितो ज्ञेयः । एवं च कार्यसमारोपेऽपि ज्ञेया । इयं च समासोक्तिः पूर्वापेक्षयास्पष्टा ।
तदिति अप्रस्तुतस्य गम्यत्वे निमित्तं । तत्रेति निर्धारणे । नायकेति सरूपयोरेकशेषः । अपरित्यक्तस्वरूपयोरिति । रूपरूपितत्वे हि परित्यक्तं स्वस्वरूपं स्यात् । तत्रेति । लताव्यवहारप्रतीतौ । ननु यदि लतैकगम्येव विकासाख्यो धर्मस्तत्कथं प्रकृते संगच्छत इत्याशङ्क्याह-विकास इत्यादि । एतदेवान्यत्रापि योजयति-एवमित्यादिना । तदेवं साधारण्येन समासोक्तेर्विशेषणसाम्ये सत्यप्यप्रकृतसंबन्धि धर्मकार्यंसमारोपमन्तरेण तद्वयवहारप्रतीतिर्न भवतीति सिद्धं ।
औपम्यगर्भत्वेन यथा-
ऽदन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी ।
केशपाशालिवृन्देन सुवेषा हरिणेक्षणाऽ ।।
अत्र दन्तप्रभा पुष्पाणीवेति सुवेषत्ववशादुपमागर्भत्वेन कृते समासे पश्चाद्दन्तप्रभासदृशैः पुष्पैश्चितेति समासान्तराश्रयणेन समानविशेषणमाहात्म्याल्लताव्यवहारप्रतीतिः । अत्रैवऽपरीता हरिणेक्षणाऽ इति पाठे उपमारूपसाधकबाघकाभावात्संकरसमाश्रयेण कृते योजने पश्चात्पूर्ववत्समासान्तरमहिम्ना लताप्रतीतिज्ञंया । रूपकगर्भत्वेन तु समासान्तराश्रयणात्समानविषेषणत्वं भवदपि न समासोक्तेः प्रयोजकं । एकदेशविवर्तिरूपकमुखेनैवार्थान्तरप्रतीतेस्तस्या वैयर्थ्यात् । न च पूर्वदर्शितोपमासंकरविषये एष न्यायः । उपमासंकरयोरेकदेशविवर्तिनोरभावात् । तच्चैकदेशविवर्तिरूपकमश्लेषेण श्लेषेण च भवतीति द्विविधं । अश्लिष्टं यथा-
ऽनिरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः ।
धारानिपातैः सह किं नु वान्तश्चन्द्रोऽयमित्पार्ततरं ररासऽ ।।
अत्र निरीक्षणानुगुण्याद्विद्युन्नयनैरिति रूपके पयोदस्य द्रष्टृपुरुषनिरूपणमार्ततरं ररासेत्यत्र प्रतीयमानोत्प्रेक्षाया निमित्तत्वं भजते । श्लिष्टं यथा-
ऽमदनगणनास्थाने लेख्यप्रपञ्चमुदञ्चयन्विचकिल-
बृहत्पत्त्रन्यस्तद्विरेफमषीलवैः ।
कुटिललिपिभिः कं कायस्थं न नाम विसूत्रयन्
व्यधित विरहिप्राणेष्वायव्ययावधिकं मधुःऽ [श्री. च. ६७०] ।।
अत्र हि पत्त्रलिपिकायस्थशब्देषु श्लेषगर्भे रूपकं द्विरेफमषीलवैरित्येतद्रूपकनिमित्तं । अस्य च प्रचुरः प्रयोगविषय इति न समासोक्तिबुद्धिः कार्या ।
सुवेषत्वं प्रकृतार्थं एवानुगुणमित्युपमायाः साधकं अतश्च तत्समासाश्रयः । समासान्तराश्रयणेनेति । यद्यप्यत्रोपमासमास एव स्थितस्तथाप्युपमानोपमेययोर्व्यत्ययादेव समासान्तरत्वमुक्तं । पूर्वापेक्षवास्यान्ययात्वात् । अत्रैवेति दन्तप्रभेत्यादौ । उपमारूपकसाधकबाधकाभावादिति । पर्रीतत्वस्य हि प्रकृताप्रकृतयोस्तथा नानुगुण्यमिति साधकत्वाभावः । तथा च न विगुणत्वमिति बाधकत्वाभावः । अतश्चैकपक्षाश्रयाभावादुपमारूपकयोः संदेहसंकरः । तस्य समाश्रय उभयसमासग्रहणं । तच्चैकस्मिन्नेव वाक्ये न संभवतीति कामक्षारेण तयोर्ग्रहणं ।
संकरसमाश्रयेणाप्युपमासमासयोच्चने कृते यद्वदयमेवालङ्कारस्तद्वद्रूपकसमासयोजजनेऽपि किमथमेव किमुतालङ्कारान्तरमित्याशङ्क्याह-रूपकेत्यादि । एवच्च साक्षादपि रूपकगर्भे समासे योज्यम्, समानन्यायत्वात् । यद्येवं तर्झुपमासमाश्रयेऽप्येकदेशविवर्त्युपमामुखेनैवार्थान्तरप्रतीतेः किं नैतद्भवतीत्याशङ्क्याह-न चेत्यादि । एष इति रूपकोक्तः । अभावादिति उद्भटमतेन । यदाहुः - ऽन च रुद्रटस्येवोद्भटस्यैकदेशविवर्तिरूपकवदुपमासंकरावेकदेशिनौ स्तःऽ अतश्चैतत्तन्मताभिप्रायेणोक्तं । ग्रन्थकृन्मते हि वक्ष्यमाणनीत्या तयोः संभवः । ननु यदि तयोर्ग्रन्थकृन्मते संभवस्तदौपम्यगर्भविशेषणोत्थापितः समासोक्तिप्रकारस्तर्हि न संभवति । तस्यैकदेशविवर्तिरूपकवदेकदेशविवर्तिभ्यामुपमासंकराभ्यामेवार्थान्तरप्रतीतिसिद्धेर्वैयर्थ्यात् । नैतत् । यतोऽस्त्येव तावदौपम्यगर्भविशेषणहेतुकत्वं समासोक्तेः । किन्त्वेतदन्यभेदसहचरितमेवास्या निमित्ततां भजते न पुनः केवलं । तथात्वे हि विशेषणानामौपम्यगर्भत्वे एकदेशविवर्तिन्या उपमायाः प्रात्पिः । तत्र श्लिष्टत्वसहचरितमेतद्यथा -
ऽपरिपिञ्जरितासिताम्बरैर्निबिडैः कं न हरन्ति हारिभिः ।
अयि सायमिमाः पयोधरैः स्फुटरागाश्चलतारका दिशःऽ ।।
अत्रऽस्फुटसंध्यातपकुङ्कुमैःऽ इति पाठे संध्यातपकुङ्कुमैरित्यौपम्यगर्भं विशेषणं । साधारण्यसहचरितं यथा -
ऽतन्वी मनोरमा बाला लोलाक्षी स्तबकस्तनी ।
विकासमेति सुभग भवद्दर्शनमात्रतःऽ ।।
अत्र स्तबकस्तनीत्यौपम्यगर्भं विशेषणं । शुद्धकार्यसमारोपसहचरितं यथा -
ऽसमारुरोहोपरिपादपानां लुलोठपुष्पोत्कररेणुपुञ्जे ।
लताप्रसूनांशुकमाचकर्षं क्रीडन्वने किं न चकार चैत्रःऽ ।।
अत्र प्रसूनांशुकमित्यौपभ्यगर्भविशेषणं । केवलत्वे पुनरेतेषामेकदेशविवर्तिन्युपमैव यथा -
ऽबभौ लोलाधरदलस्फुरद्दशनकेसरं ।
भ्रूविलासालिवलयं ललितं ललनामुखम्ऽ ।।
अत्र ललितत्वमुपमासाधकं । समासान्तराश्रयात्समानविशेषणत्वं भवदपि नात्र समासोक्तेः प्रयोजकं । एकदेशविवर्त्युपमामुखेनैवार्थान्तरप्रतीतेस्तस्या वैचथ्यात् । एवं दन्तप्रभेत्यादावपि ज्ञेयं । दन्तप्रभाः पुष्पाणीवेत्येव समासे कृते उपमानभूताया लतायाः प्रतीतिसिद्धेः समासान्तराश्रयेणागतायास्तत्प्रतीतेर्व्यर्थत्वात् । अप्रकृतागूरणे हि कवेः संरम्भः तच्चानयैव सिद्धमिति किं समासोक्त्या । चिरन्तनानुरोधात्पुनरत्र ग्रन्थकृतासमासोक्तिरुक्ता । यत्तुऽयत्र समासोक्तायामुपमायां समासान्तरेण विशेषणसाम्यं योजयितुं शक्यं तत्रौपम्यगर्भविशेषणप्रभाविता समासोक्तिरुक्ताऽ इति वक्ष्यति तदपि चिरन्तनानुरोधपरमेव । अन्यथा हि समानन्यायत्वादेकदेशविवर्तिनि रूपकेऽपि यत्र समानविशेषणत्वं योजयितुं शक्यं तत्रापि समासोक्तिरिति किं नोक्तं । यत्तु नोक्तं तद्युक्तं । रूपकमाहात्म्यात्प्रथममेव तत्प्रतीतिसिद्धेरन्तरं समासोक्तिमुखेनाप्रकृतीतेर्वैयर्थ्यात् ।
ऽआह्लादिचन्द्रवदना स्फुरत्तारकमौक्तिका ।
घनान्धकारधम्मिल्ला राजते गगनस्थलीऽ ।।
इत्यादौ पुनरुपमायाः साधकाभावादेकदेशविवर्ति रूपकमेवेति न समासोक्तिभ्रमः कार्यः । न चैवमादावुपमारूपकयोः संदेहसंकरो न्याय्यः । तस्यालङ्कारसारकारादिभिनिराकृतत्वात् । समासोक्तिलक्षणावलसरे किं रूपकनिरूपणेनेत्याशङ्क्याह-अस्या इत्यादि ।
अस्याश्च यथोपरादितान्भेदान्संकलयति-तदेवमित्यादिना ।
तदेवं श्लिष्टविशेषणसमुत्थापितैका । साधारणविशेषणसमुत्थापिता तु धर्मकार्यसमारोपाभ्यां द्विभेदा । औपम्यगर्भविशेषणसमुत्थापितोपमासंकरसमासाभ्यां द्विभेदा । रूपकसमाश्रयेण तु भेदद्वयमस्या न विषयः । तदेवं पञ्चप्रकारा समासोक्तिः ।
इयं च शुद्धकार्यसमारोपेण विशेषणसाम्येनोभयमयत्वेन प्रथमं त्रिधा समासोक्तिः । विशेषणसाम्यं च पञ्चप्रकारं निर्णीतं ।
सर्वत्र चात्र व्यवहारसमारोप एव जीवितं । स च लौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः । शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः । लौकिके वा शास्त्रीयवस्तुव्यवहारसमारोपः । शास्त्रीये वा लौकिकवस्तुव्यवहारमारोप इति चतुर्धा भवति । तदेवं बहुप्रकारा समासोक्तिः ।
भेदद्वयमिति साक्षात्संदिह्यमानत्वेन वा । न विषय इति । यथोक्तोपपत्ते रूपक एव विश्रान्तेः । प्रथममिति । एतद्भेदत्रयमस्या मूलभूतमित्यर्थः । उक्तं पुनः प्रकारपञ्चकमस्या अवान्तरभेदरूपं । विशेषणसाम्यस्यैतद्भेदत्वात् । यद्यपि शुद्धकार्यसमारोपेऽपि विशेषणसाम्यभेवास्ति तथाप्यत्र शुद्ध एव कार्यसमारोप उद्भिक्ततया प्रतीयत इति तस्य पृथग्मेदत्वमुक्तं । सर्वत्रेति भेदसत्पके । बहुप्रकारेति । लौकिकादीनां व्यवहाराणामानन्त्यात् ।
तत्र शुद्धकार्यसमारोपेण यथा-
ऽविलिखति कुचावुच्चैर्गाढं करोति कचग्रहं
लिखति ललिते वक्त्रे पत्त्रावलीमसमञ्जसां ।
क्षितिप खदिरः श्रोणीबिम्बाद्विकर्षति चांशुकं
मरुभुवि हठात्त्रस्यन्तीनां तवारिमृगीदृशाम्ऽ ।।
अत्र पत्त्रावलीविलेखनादिशुद्धकार्यसमारोपात्खदिरस्य हठकामुकत्वप्रतीतिः विशेषणसाम्येनोदाहृता ।
उदाहृतमिति-उपोढरागेणेत्यादिना ।
उभयमयत्वेन यथा -
ऽनिर्लूनान्यलकानि पाटितमुरः कृत्स्नोऽधरः खण्डितः
कर्णे रुग्जनिता कृतं च नयने नीलाब्जकान्ते क्षतं ।
यान्तीनामतिसंभ्रमाकुलपदन्यासं मरौ नीरसैः
किं किं कण्टकिभिः कृतं न तरुभिस्त्वद्वैरिवामभ्रुवाम्ऽ ।।
अत्र नीरसैः कण्टकिभिरिति विशेषणसाम्यं । निर्लूनान्यलकानीत्यादिषु कार्यसमारोपः ।
व्यवहारसमारोपप्रकारचतुष्टये क्रमेणोदाहरणं । यथा-
ऽद्यामालिलिङ्ग मुखमाशु दिशां चुचुम्ब
रुद्धाम्बरां शशिकलामलिखत्कराग्रैः ।
अन्तर्निमग्रचरपुष्पशरोऽतितापात्
किं किं चकार तरुणो न यदीक्षणाग्निःऽ ।।
लौकिकं च वस्तु रसादिभेदान्नानाभेदं स्वयमेवोत्प्रेक्ष्यं ।
ऽयैरेकरूपमखिलास्वपि वृत्तिषु त्वां
पश्यद्भिख्ययमसंख्यतया प्रवृत्तं ।
लोपः कृतः किल परत्वजुषो विभक्ते-
स्तैर्लक्षणं तव कृतं ध्रुवमेव मन्येऽ ।।
अत्रागमशास्त्रप्रसिद्धे वस्तुनि व्याकरणप्रसिद्धवस्तुसमारोपः ।
ऽसीमानं न जगाम यन्नयनयोर्नान्येन यत्संगतं
न स्पृष्टं वचसा कदाचिदपि यद्दृष्टोपमानं न यत् ।
अर्थादापतितं न यन्न च न यत्तत्किञ्चिदेणीदृशां
लावण्यं जयति प्रमाणरहितं चेतश्चमत्कारकम्ऽ ।।
अत्र लावण्ये लौकिके वस्तुनि मीमांसाशास्त्रप्रसिद्धवस्तुसमारोपः । एवं तर्कायुर्वेदज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपो बोद्धव्यः ।
यथा-
ऽस्वपक्षलीलाललितैरुपोढहेतौ स्मरे दर्शयतो विशेषं ।
मानं निकारर्तुमशेषयूनां पिकस्य पाण्डित्यमखण्डमासीत्ऽ ।।
अत्र तर्कशास्त्रप्रसिद्धवस्तुसमारोपः । पाण्डित्यशब्दः प्रकृते लक्षणया व्याख्येयः ।
ऽमन्दमग्रिमधुरर्यमोपला दर्शितश्वयथु चाभवत्तमः ।
दृष्टयस्तिमिरजं सिषेविरे दोषमोषधिपतेरसंनिधौऽ ।।
अत्रायुर्वेदप्रसिद्धवस्तुसमारोपः ।
ऽगण्डान्ते मददन्तिनां प्रहृरतः क्ष्मामण्डले वैधृते
रक्षामाचरतः सदा विदधतो लाटेषु यात्रोत्सवं ।
पूर्वामत्यजतः स्थितिं शुभकरीमासेव्यमानस्य ते
वर्धन्ते विजयश्रियः किमिव न श्रेयस्विनां मङ्गलम्ऽ ।।
अत्र ज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपः ।
ऽप्रसर्पत्तात्पर्यैरपि सदनुमानैकरसिकै-
रपि ज्ञेयो नो यः परिमितगतित्वं परिजहृत् ।
अपूर्वव्यापारो गुरुवर! बुधैरित्यवसितो
न वाच्यो नो लक्ष्यस्तव सहृदयस्यो गुणगणःऽ ।।
अत्र भरतादिशास्त्रप्रसिद्धवस्तुसमारोपः । तथा ह्यत्र गुणगणगतत्वेन शृङ्गारादिरसव्यवहारः प्रतीयते । यतो रसो न तात्पर्यशक्तिज्ञेयः । नाप्यनुमानविषयः । न शब्दैरभिधाव्यापारेण वाच्यीकृतः । न लक्षणागोचरः । किं तु विगलितवेद्यानतरत्वेन परिहृतपारिमित्यो व्यञ्जनलक्षणापूर्वव्यापारविषयीकृतोऽनुकार्यानुकर्तृगतत्वपरि हारेण सहृदयगत इति प्रसर्पत्तात्पर्यैरित्यादिपदै रस एव प्रतीयते । एव प्रतीयते । एवमन्यदपि ज्ञेयं ।
क्रमेणेति यथोद्देशं । मीमांसेत्यत्रोत्तरमीमांसा विवक्षिता । तत्र कहि निखिलप्रमाणागोचरं परमात्मस्वरूपं दर्शितं । तद्व्यवहारसमारोपोऽत्र कृतः ।
न तात्पर्येति । यदुक्तम्-
ऽनाभिधैवं न तात्पर्यं लक्षणानुमितिर्नं वा ।
ध्वन्यन्तर्भावने शक्ता भेदेन विषयस्थितेःऽ ।। इति ।।
अनुकार्यो रामादिः । अनुकर्ता नटादिः । तद्गचरश्च न रसः प्रतीयते । यदुक्तम्-ऽनानुकार्येऽपि रामादौ नटादौ नानुकर्तरि । रसः सचेतसां किं तुऽ इति । अन्यदिति । अन्यशास्त्रप्रसिद्धवस्तुसमारोपलक्षणं ।
ऽपश्यन्ती त्रपयेव यत्र तिरयत्यात्मानमाभ्यन्तरे
यत्र त्रुट्यति मध्यमापि मधुरध्वन्युज्जिहासारसात् ।
चाटूच्चारणचापलं विदधतां वाक्तत्र बाह्या कथं
देव्या ते परया प्रभो सह रहःक्रीडादृढालिङ्गनेऽ ।।
अत्रागमप्रसिद्धे वस्तुनि लौकिकवस्तुव्यवहारसमारोप । लौकिकवस्तुव्यवहारश्च रसादिभेदाद्बहुभेद इत्युक्तं प्राक् ।
तत्र शुद्धकार्यसमारोपे कार्यस्य विशेषणत्वमौपचारिकमाश्रित्य विशेषणसाम्यादिति लक्षणं पूर्वशास्त्रानुसारेण विहितं यथाकथञ्चिद्योज्यं ।
तदित्थं सप्रपञ्चां समासोक्तिं प्रतिपाद्य पुनरपि सहृदयानां हृदयङ्गमीकर्तुं ग्रन्थकृदेतत्प्रतीर्ति विभागेन लक्ष्ये योजयति-इह त्वित्यादिना ।
इह तु--
ऽऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभं ।
प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकारऽ ।।
इत्यत्रास्ति तावद्रविशशिनोर्नायकत्वप्रतीतिः । न चात्र विशेषणसाम्यमिति सा कुतस्त्या । प्रसादयन्ती सकलङ्कमिन्दुमिति विशेषणसाम्याच्छरदोनायिकात्वप्रतीतौ तदुनुगुण्यात्तयोः समासोक्त्या नायकत्वप्रतीतिरिति चेतार्द्रनखक्षताभमैन्द्रं धनुर्दधानेत्येतद्विशेषणं कथं साम्येन निर्द्रिष्टं । न चैकदेशविवर्तिन्युपमोक्ता यत्सामर्थ्यान्नायकत्वप्रतीतिः स्यात् । तत्कथमत्र ध्यवस्था । अत्रोच्यते-एकदेशविवर्तिन्युपमा यदि प्रतिपदं नोक्ता तत्सा केन प्रतिषिद्धा । सामान्यलक्षणद्वारेणायातायास्तस्या अत्रापि संभवात् । अथात्र नोपमानत्वेन नायकः स्वस्वरूपेण प्रतीयते अपितु रविशशिनोरेवनायकत्वप्रतीतिः । तयोरत्र नायकत्वात् । तदत्रार्द्रनखक्षताभमित्यत्र स्थितमपि श्रुत्योपमानत्वं वस्तुपर्यालोचनया ऐन्द्रे धनुषि संचारणीयम्, इन्द्रचापाभं नखक्षतं दधानेति प्रतीतेः, यथाऽदध्ना जुहोतिऽ इत्यादौ दध्नि संचर्यते विधिः । एवमियमुपमानुप्राणिता समासोक्तिरेव ।
इह पुनः
’नेत्रैरिवोत्पलैः पद्मैर्मुखैरिव सरःश्रियः ।
पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव ॥’
इत्यत्र सरःश्रियां नायिकात्वप्रतीतिर्न समासोक्त्या, विशेषणसाम्याभावात् । तस्मान्नायिकात्रोपमानत्वेन प्रतीयते न तु सरःश्रीधर्मत्वेन नायिकात्वप्रतीतिरित्येकदेशविवर्तिन्युपमैवाभ्युपगम्या,गत्यन्तरासंभवात् । यैस्तुनोक्ता तेषामप्युपसंख्येयैव । यत्र तुऽकेशपाशालिवृन्देनऽ इत्यादौ समासोक्तायामुपमायां समासन्तरिण विशेषणसाम्यं योजयितुं शक्यं तत्रौपम्यगर्भविशेषणप्रभाविता समासोक्तिरेवेति न विरोधः कश्चित् ।
अविप्रतिपत्तिद्योतनार्थस्तावच्छ्रब्दः । कुतस्त्येति । किमस्या निमित्तमितिभावः । तदानुगुण्यादिति । शरदो नायिकात्वप्रतीत्यनुगुणत्वात् । तयोरिति रविशशिनोः । कथमिति । अप्रकृतार्थाननुगुणत्वात्साम्यायोगात् । कथमत्र व्यवस्थेति । विशेषणसाम्यायोगात्समासोक्तेरप्रात्पेरेकदेशविवर्तिन्या उपमाया अनुक्तत्वात् । सामान्यलक्षणेति । उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्यत्वे उपमेति । एवमेकदेशविवर्त्युपमासामर्य्थादेवात्र नायककत्वप्रतीतिरिति भावः । अथेति पक्षान्तरे । यदि चात्र पूर्वोक्तयुक्त्यैवानुगुण्याद्रविशशिनोः समासोक्तिमुखेन नायकत्वप्रतीतिस्तदार्द्रनखक्षताभमिति विशेषणं कथं साम्येन योजयितुं शक्यमित्याशङ्क्याह-तदत्रेत्यादि । एतदेव शास्त्रान्तरप्रसिद्धदृष्टान्तमुखेन हृदयङ्गमीकरोति-यथेत्यादिना । अग्निहोत्रं जुहुयादित्यनेनोत्पत्तिविधिवाक्येन हि होमो विहितः । तस्य च पुनर्विधानमदग्धदहनन्यायेन यावदप्रात्पं तावद्विधेर्विषय इत्यभ्युपगमात्र युज्यत इति तत्राप्युक्तत्वादुपपदे दध्नि संचार्यत इत्यर्थः । उपमानुप्राणितेति । औपम्यगर्भविशेषणोत्थापितेत्यर्थः । समासोक्तिरेवेति । न पुनरेकदेशविवर्तिन्युपमा । गत्यन्तरमलङ्कारान्तरं । यैरित्युद्भटादिभिः । यत्रत्वित्यादेर्ग्रन्थस्य पूर्वमेवास्माभिरभिप्राय उक्तः ।
सा च समारोक्तिरर्थान्तरन्यासे कचित्समर्थ्यगतत्वेन कचित्समर्थकगतत्वेन च भवति । क्रमेण यथा-
ऽअथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा ।
कासां न सौभाग्यगुणोऽङ्गनानां नष्टं पिरभ्रष्टपयोधराणाम्ऽ ।।
ऽअसमात्पजिगीषस्य स्त्रीचिन्ता का मनस्विनः ।
अनाक्रम्य जगत्सर्वे नो संध्यां भजते रविःऽ ।।
अत्रोपगूढत्वेन शान्ततडित्कटाक्षत्वेन च शशाङ्कशरदोर्नायकव्यवहारप्रतीतौ समासोक्त्यालिङ्गित एवार्थो विशेषरूपः सामान्याश्रयेणार्थान्तरन्यासेन समर्थ्यते । सामान्यस्य चात्र श्लेषवशादुत्थानं । शान्ततडित्कटाक्षेत्यौपम्यगर्भे विशेषणं समासान्तराश्रयेणात्र समानं । असमात्पेत्यादौ तु स्त्रीशब्दस्य सामान्येन स्त्रीत्वमात्राभिधानात्सामान्यरूपोऽर्थो लिङ्गविशेषनिर्देशगर्भेण कार्यापनिबन्धनेनोत्थापितया समासोक्त्या समारोपितनायकव्यवहारेण रविसंध्यावृत्तान्तेन विशेषरूपेण समर्थ्यते ।
ऽआकृष्टिवेगविगलद्भुजगेन्द्रभोगनिमोकपट्टपरिवेषतयाम्बुराशेः ।
मन्थव्यथाव्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरवेष्टत पादमूलेऽ ।।
अत्र निर्मोकपट्टापह्नवेन समारोपिताया मन्दाकिन्या यद्वस्तुवृत्तेन पादमूले वेष्टनं तच्चरणमूले वेष्टनत्वेन श्लेषमूलयातिशयोक्त्याध्यवसीयते । तत्तथाध्यवसितं मन्थव्यथाव्युपशमार्थमिवेत्युत्प्रेक्षामुत्थापयति । सोत्थाप्यमानैवाम्बुराशिमन्दाकिन्योः पतिपत्नीव्यवहाराश्रयां समासोक्तिं गर्भीकरोति । एवं चोत्प्रेक्षासमासोक्त्योरेकः कालः ।
एवंऽनखक्षतानीव वनस्थलीनाम्ऽ इत्यत्रापि वनस्थलीनां नायिकाव्यवहार उत्प्रेक्षान्तरानुप्रविष्टसमासोक्तिमूल एव ।
एवमियं समासोक्तिरनन्तप्रपञ्चेत्यनया दिशा स्वयमुत्प्रेक्ष्या ।
सेत्युक्तप्रपञ्चा । सामान्यस्येत्यङ्गनाशब्दस्य स्त्रीत्वमात्राभिधानात् । श्लेषदवशादिति, पयोधराणां हि श्लिष्टत्वं । लिङ्गविशेषेति,रविसंध्ययोः पुंस्त्रीरूपेण कार्यं भजनाख्यं । एवमन्यालङ्कारसंमिश्रत्वमप्यस्या दर्शियति-आकृष्टीत्यादिना । सेत्युत्प्रेक्षा । एकः काल इति । ज्ञत्पौ समासोक्तिगभीङ्कारेणैव्रोत्प्रेक्षाया उत्थानात् । एवमिति । यथोक्तगत्येत्यर्थः ।
विशेषणसाभिप्रायत्वं परिकरः ।। ३३ ।।
विशेषणवैचित्र्यप्रस्तावादस्येह निर्देशः । विशेषणानां साभिप्रायत्वं प्रतीयमानार्थगर्भीकारः । अत एव प्रसन्नगम्भीरपदत्वान्नायं ध्वनेर्विषयः । एवं च प्रतीयमानांशस्य वाच्योन्मुखत्वात्परिकर इति सार्थकं नाम ।
ऽराज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः
प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च ।
पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः
कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसःऽ ।।
अत्र राज्ञ इत्यादौ सोत्प्रासत्वपरं प्रसन्नगम्भीरपदत्वं ।
एवम्-
ऽअङ्गाज सेनापते राजवल्लभ द्रोणोपहासिन्कर्णं, सांप्रतं रक्षैनं भीमाद्दुःशासनम्ऽ इत्यादौ ज्ञेयं ।
विशेषणेत्यादि । इहेति समासोक्त्यानन्तरं । विशेषणानां चात्र बहुत्वमेव विवक्षितं । अन्यथा ह्यपुष्टार्थस्य दोषत्वाभिधानात्तन्निराकरणेन स्वीकृतस्य पुष्टार्थस्यायं विषयः स्यात् । एवमेवंविधानेकविशेषणोपन्यासद्वारेण वैचित्र्यातिशयः संभवतीत्यालङ्कारत्वं । प्रतीयमानार्थस्य वाच्योन्मुखत्वेन प्राधान्याभावाद्गभीङ्कारस्तदन्तः कृतत्वं । अत एवेति प्रतीयमानार्थस्य प्राधान्याभावात् । प्रसच्चत्वं वाच्यस्यैव प्राधान्येन निर्देशात् । गम्भीरत्वं प्रतीयमानस्याप्यर्थस्य गुणीभावेन गर्भीकारात् । यत्र च प्रतीयमानं प्रति उपसर्जनीकृतस्वर्थयोः शब्दार्थयोरवस्थानां स ध्वनेः स एव विषयःऽ इति । अत्र च न तथात्वमित्युक्तं नायं ध्वनेर्विषय इति । अत एव नामाप्यस्य यौगिकमित्याह-एवं चेत्यादि । सोत्प्रासत्वपरमिति । तथा च राज्ञो जगद्रक्षितव्यमस्य पुनरनुजमात्ररक्षणासिद्धेरन्यदेव नाममात्रेण राजात्वमित्युपहासपरत्वं । एवमन्येषामपिस्वयमेवैतदवगन्तव्यं । आदिशब्देन-
ऽयस्यैकस्यैव दोष्णां जयति दशशती सान्वयो द्वारि रुद्रः
कारागारे सुराणां पतरपि च शची चामरव्यग्रहस्ता ।
कन्या तस्येयमेका रजनिचरपतेरेष शुद्धान्तमेको
बालो निःशङ्कमस्याः प्रविशति च नमस्तेऽसे वैष्णवायऽ ।।
इत्यादावपि विशेषणानां प्रसच्चगम्भीरत्वं ज्ञेयं ।
विशेष्यस्यापि साम्ये द्वपौर्वोपादाने श्लेषः ।। ३४ ।।
केवलविशेषसाम्यं समासोक्तावुक्तन् । विशेष्ययुक्तविशेषणसाम्यं त्वधिकृत्येदमुच्यते । तत्र द्वयोः प्राकरणिकयोरप्राकरणिकयोः प्राकरणिकाप्रकरणिकयोर्वा श्लिष्टपदोपनिबन्धे श्लेषः । तत्राद्यं प्रकारद्वयं विशेषणविशेष्यसाम्य एव तृतीयस्तु प्रकारो विशेषणसाम्य एव भवति । विशेष्यसाम्ये त्वर्थप्रकरणादिना वाच्यार्थनियमेऽर्थान्तरगतध्वनेर्विषयः स्यात् । आद्ये तु प्रकारद्वये द्वयोरप्यर्थयोर्वाच्यत्वं । अत एवात्र -ऽद्वयोर्वोपादानेऽ इति तृतीयप्रकारविषयत्वेनोक्तं । ऽविशेष्यस्यापि साम्येऽ इति तु शिष्टप्रकारद्वयविषयं ।
विशेष्यस्यापीत्यादि । इदमिति श्लेषलक्षणं । आद्यमिति । प्राकरणिकगतत्वेनाप्राकरणिकगतत्वेन च । एवकारश्चात्र भिन्नक्रमो द्रष्टव्यः । तेन प्रकारद्वयमेवेति व्याख्येयं । अतश्च तृतीयः प्रकारो विशेषणसाम्य एव भवतीति व्यावच्छ्रेदफलं । अन्यथा हि प्रकारद्वयस्यास्य विशेष्यसाम्याभावेऽपि दर्शनादव्यात्पिः स्यात् । तद्यथाऽसंचारपूतानि निगन्तराणिऽ इत्यादि । अत्र प्रभाधेन्वोर्द्वयोः प्रकृतयोर्विशेष्ययोः साम्याभावः ।
ऽआबहूतमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः
सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः ।
उत्सृत्ष्टाम्बरदृष्टविग्रहभरा यस्य स्मराग्रेसरा
योधा दैववधूस्तनाश्च न दधुः क्षोभं स वोऽव्याज्जिनःऽ ।।
अत्र स्तनयोधयोरप्रकृतयोर्विशेष्ययोः साम्याभावः । विशेषणसाम्य एवेति न पुनर्विशेष्यसाम्ये । एतदपि विशेष्यसाम्ये किं न भवतीत्याशङ्क्याह-विशेष्यसाम्ये त्वित्यादि । यथा -
ऽलङ्कालऽणं पुत्ता वसंतमासम्मि लद्धपसराणं ।
आपीअलोहिआणं वीहेइ जणो पलासणम्ऽ ।।
अत्र पलाशानामिति विशेष्यस्यापि श्लिष्टत्वं । प्रकरणवशाच्च वृक्षविशेषणमेववाच्यत्वनियमात्प्रस्तुतत्वेन निशाचराणामप्रस्तुतानां व्यङ्ग्यत्वं । अत्र चोपमाया एव व्यङ्ग्यत्वं युक्तं नातिशयोक्तेरिति प्रकृतानुपयोगादिह नोक्तं । ननु च यथैवायं ध्वनिर्विषयस्तथैवाद्यमपि भेदद्वयं किं न भवतीत्याशङ्क्याह-आद्य इत्यादि । वाच्यत्वमिति,अत एव न ध्वनेर्विषयः । तस्य वाच्यातिरिक्तन्वरूपत्वात् । तृतीयप्रकारविषयत्वेनेति प्राधान्यादुक्तं । आद्यस्यापि प्रकारद्वयस्य द्वयोरुपादानसंभवात् ।
क्रमेण यथा-
ऽयेन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो
यश्चोद्वृत्तभुजङ्गहारवलयो गङ्गा च योऽधारयत् ।
यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः
पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवःऽ ।।
ऽनीतानामाकुलीभावं लुब्धैर्भुरिशिलीमुखैः ।
सदृशे वनवृद्धानां कमलानां तदीक्षणेऽ ।।
ऽस्वेच्छोपजातविषयोऽपि न याति वक्तुं
देहीति मार्गणशतैश्च ददाति दुःखं ।
मोहात्समाक्षिपति जीवितमप्यकाण्डे
कष्टं मनोभव इवेश्वरदुर्विदग्धःऽ ।।
अत्र हरिहरयोर्द्धयोरपि प्राकरणिकत्वं । पद्मानां मृगाणां चोपमानत्वादप्राकरणिकत्वरं । इश्वरमनोभवयोः प्राकरणिकाप्राकरणिकत्वं । एवं च शब्दार्थोभयगतत्वेन वर्तमानत्वात्त्रिविधः । तत्रोदात्तादिस्वरभेदात्प्रयन्तभेदाच्च शब्दान्यत्वे शब्दश्लेषः । यत्र प्रायेण पदभङ्गो भवति । अर्थश्लेषस्तु यत्र स्वरादिभेदो नास्ति । अत एव न तत्र सभङ्गपदत्वं । संकलनया तूभयश्लेषः । यथा-
ऽरक्तच्छदत्वं विकचा वहन्तो नालं जलैः संगतमादधानाः ।
निरस्य पुष्पेषु रुचिं समग्रां पद्मा विरेजुः श्रमणा यथैवऽ ।।
अत्र रक्तच्छदत्वमित्यादावर्थश्लेषः । नालमित्यादौ शब्दश्लेषः । उभयघटनायामुभयश्लेषः । ग्रन्थगौरवभयात्तु पृथङ्नोदाहृतं ।
(प्. ३५२)