अलङ्कारसर्वस्वख्या सञ्जीवनी

विकिस्रोतः तः
Jump to navigation Jump to search

श्रीमद्विद्याचक्रवर्तिविरचिता सञ्जीवन्याख्या व्याख्या

विश्वं प्रकाशयति या जातिगुणाद्यात्मकैः निजैः प्रसरैः । संस्कारगुणसमृद्धा वाणी मामवतु सरलसन्दर्भी ।।

रुचकाचार्योपज्ञे सेयमलङ्कारसर्वस्वे । सञ्जीवनीति टीका श्रीविद्याचक्रवर्तिना क्रियते ।।

उदाहरणशेषोऽत्र ध्वनौ ग्रन्थकृताऽकृतः । तदीयन्यायसम्पनैः स्वपद्यैः पूरयामि तम् ।।

ध्वनिदर्शनानुरक्ताः सूक्ष्मेक्षिकया निरीक्ष्य टीकां मे । कवयस्सचेतना अपि वितनुत साहित्यसाम्राज्यम् ।।

किं विस्तरेण बहुना टीकां सञ्जीवनीमिमां कश्चित् । यद्यभ्यसूयति जडड्डत्ध्;ः स्वमेव पाण्डिड्डत्ध्;त्यमभ्यसूयति सः ।।

       तत्र तावदधिकृतेष्टदेवतानमस्कार पुरस्कारेण प्रकरणप्रतिपाद्यमर्थं प्रतिजानीते नमस्कृत्य परमिति । सर्वेव खल्पियं वाक् परा पश्यन्ती मध्यमा वैखरीति चतुर्भिः पदैः परिमीयते। यच्छुतिः - "चत्वारि वाक्परिमिता पदानि"इत्यादिका। तत्र परा नाम निरुपधिकं रुपम्। पश्यन्त्यादीनि त्रीणि पुनरौपाधिकानि स्थूलत्वात् विग्रहस्थानीयानि । यथा चागमः- स्वरुप ज्योतिरेवान्तः परा वागनपायिनी । यस्यां दृष्टस्वरुपायाम् त्रधिकारो निवर्तते ।। अविभागेन वर्णानां सर्वकतस्संहृतक्रमा । प्राणाश्रया तु पश्यन्ती मयूराण्डड्डत्ध्;रसोपमा ॥ मध्यमा बुद्ध्युपादाना कृतवर्णपरिग्रहा । अन्तस्सञ्जल्प रुपा सा न श्रोत्रमुपसर्पति ।। ताल्वोष्ठ व्यापृत्ति व्यङ्ग्या परबोधप्रकाशिनी । भनुष्यमात्रसुलभा बाह्या वाग्वैखरी मता ।। इति ।। 
    तत्र पश्यन्त्याद्य परवाक्त्रयापेक्षया ज्येष्ठत्वादाद्य परा। द्वितीया विश्वाभिमुखीभावात्पश्यन्ती। तृतीया नाभ्यन्तरी न च बाह्येति कृत्वा मध्यमा। तुरीया तुपरावबोधार्थं प्रवृत्तेति वैखरी । यद्वा "खं सुखं दुःखं च; तद्विशिष्य राति ददातीति विखरो देहेन्द्रियसङ्घातः तत्र भवा वैखरीति" ज्ञेयम्। तदेवाभिसन्धायोक्तम्-वाचं त्रिविधविग्रहामिति। चतुर्विधामपि। कीदृशीं देवीम्? परादिभिश्चतुर्भिः पदैः क्रीडड्डत्ध्;न्तीं नामपूर्वकत्वात् सर्वस्यैव रुपस्य जगदेतद्विजिगीषमाणां समस्तव्यवहारात्मिकां स्वरुपावबोधक्षमतया द्युतिमयीमन्यस्तुतौस्तोतव्यतायां च प्रभवन्तीमविमर्शान्धतमस ध्वंसनात् कान्तिमयीमप्रतिहतप्रसरत्वात् गत्यात्मिकाञ्चेत्यर्थः । तामिमां नमस्कृत्य । 
      नमस्कारो हि नाम पृथगहङ्कारपरित्यागेन नमस्कर्तव्यमहिमोद्घाटनं सामरस्यमिति यावत्। तथाहि-येयं परा सा शक्तत्वम्। या पश्यन्ती सोद्युक्तता । या तु मध्यमा सा प्रवृत्तता। या पुनर्वैखरी सा निर्वाहकतेति। शक्तिमतो वक्तुरेव स्वरुपं परादिशक्तयः। इत्थमिमां वाचं नमस्कृत्य निजानां स्वेनैव प्रणीतानाम् अलङ्कारसूत्राणां तात्पर्यमुच्यते। हृदयमुद्घाट्यते। केन प्रकारेण? वृत्त्या वृत्ति स्वरुपेण सन्दर्भेण। अथ ध्वनिदर्शनानुसारेण प्रकारणं प्रणिनीषुः भामहोद्भटादीनां दर्शनस्थितिं पूर्वपक्षत्वेनो पन्यस्यति-इह हि तावद्भामहोद्भटेत्यादिना । अत्रेयं दर्शनस्थिति दिक्। काव्यं हि नाम विशिष्टशब्दार्थात्मकम्। तत्रार्थो वाच्यः, प्रतीयमानश्च। यथा- भम धम्मिअ वीसत्थो सो सुणाओ अज्ज मारिओ देण । गोलाणइ कच्छ कुडड्डत्ध्;ङ्ग वासिणा दरिअ सीहेण ॥ 
      अत्र स्वैरिण्युक्तौ श्वभयनिवृत्त्या धार्मिकभ्रमणाविधिर्वाच्यत्वेन स्थितः,साक्षात्सङ्केतितत्वेना व्यवधान प्रतीतिकत्वात्; गोदावरीतीरे सिंहोपलब्ध्या भ्रमणनिषेधस्तु प्रतीयमानः, वाक्यार्थसमन्वयसमनन्तरमसङ्केतितत्वेन प्रतीतेः। इत्थं वाच्यविलक्षिणः प्रतीयमानो य#ोऽर्थः स यथायोगं रसवस्त्वलङ्कारस्वरुपेण त्रिस्कन्धः सन् सचमत्कारत्वात् कविसंरम्भ गोचरत्वात् सहृदयप्रतीति विश्रान्तिविषयत्वाञ्च काव्यात्मा । तस्य माधुर्यादयो गुणाः शौर्यादिवत्समवायवृत्त्या उपकुर्वते। उपमादयः पुनः कटकादित्संयोगतवृत्त्येति ध्वन्याचार्याः।त्रिविधोऽपि प्रतीयमानो वाच्योपस्कारकत्वादलङ्कारकक्ष्यैवेत्यन्ये । अथ ग्रन्थमवयवशो व्याकुर्मः । इह काव्यमार्गे । अलङ्कारपक्ष निक्षिप्तं मन्यन्ते,तत्त्वं पुनरन्यथेति यावत्। यन्मन्यन्ते तत्सविशेषं दर्शियितुमाह-तथाहीत्यादिना। पर्यायोक्तमप्रस्तुतप्रशंसा समासोक्ति राक्षेपः व्याजस्तुतिरुपमेयोपमा अनन्वयः इत्यादिषु वस्तुमात्रम#ेव प्रतीयते न तु रसालङ्कारौ। व्यञ्जनाव्यापारस्येह लक्षघणामूलत्वात्। लक्षणामूलत्वे रसालङ्कारयोव्र्यङ्ग्यत्वासम्भवात्। तत्र प्रतीयमानलस्यार्थस्य प्रकारान्तरेणाभिधानं पर्यायोक्तम्। यद्वक्ष्यति "गम्यस्यापि भङ्ग्यन्तरेणाभिधानं पर्यायोक्तम्" इति। यथा- स्पृष्टास्ता नन्दने शच्याः केशसंभोगलालिताः । सावघज्ञं पारिजातस्य मञ्जर्यो यस्य सैनिकैः ।। अत्र हयग्रीवस्य स्वर्गविजयः सैनिकसावघज्ञपारिजातमञ्जरी स्पर्शलक्षणेन कार्येण प्रत्याय्यते । सामान्यविशेषभावादीनां सम्बन्धेन यदप्रस्तुतात्प्रस्तुतप्रतीतिः सेयमप्रस्तुतप्रशंसा । यद्वक्ष्यति - "अप्रस्तुतात्सामान्यविशेषभावे कार्यकारणभावे सारुप्ये च प्रस्तुतप्रतीतावप्रस्तुतप्रशंसा" इति। यथा- तण्णाÏत्थ किंपि पहणो पकप्पियं जं ण णिअइ घरणीए । अणावरअगमणसीलस्स कालपहिअस्स पाहिज्जं ।। झ्र्कन्नास्ति किमपि पत्युः प्रकल्पितं यन्न नियतिगृहिण्या । अनवरतगमनशीलस्य कालपथिकस्य पाथेयम् ।। इति च्छ्राया।ट अत्र अनवरतगमनशीलस्य पत्युर्निजगृहिण्या पाथेयत्वेन यन्न कल्पितं तद्यथा नास्ति,तथा कालपथिकस्य पाथेमत्वेन यदकल्पितं तन्नास्तीत्यत्र कालस्सव ग्रसतीति सामान्यरुपादप्रस्तुतात् प्रस्तुतो विशेषात्मा प्रहस्तवधः प्रत्याय्यते। विशेषणासाम्यादप्रस्तुतोऽर्थो यदवगम्यते सा समासोक्तिः। यद्वक्ष्यति-"विशेषणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः" इति। यथा- उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्ष्यितम् ।। अत्रोपोढरागत्वादिना विशेषणसाम्येनाप्रस्तुतो नायकवृत्तान्तः प्रतीयते । उक्तस्य वक्ष्यमाणस्य वा प्राकारणिकस्य विशेषप्रतीत्यर्थम् आभासतो निषेधनमाक्षेपः। यद्वक्ष्यति उक्तवक्ष्यमाणयोः प्राकरणिकयोर्विशेषप्रतीत्यर्थं निषेधाभास आक्षेपः इति । यथा - बालग्र!णाहं दूई तीए पिओसि त्ति णाम्हवावारो । सा मरइ तुज्भ्फ अयसो एअं धम्मक्खरं भणिमो ।। झ्र्"बालक!नाहं दूति तस्याः प्रियोऽसीति नास्मद्व्यापारः । सा म्रियते तवायश एतद्धर्माक्षरं भणामः।। इति च्छ्राया "ट अत्र "नाहं दीतिति" दीतित्वनिषेधो विशिष्टास्मि दूतीत्यवगमयति । स्तुतिनिन्दयोः निन्दास्तुतिगमकत्वे व्याजस्तुतिः। यद्वक्ष्यति-"स्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः" इति। यथा - हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे! नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः । तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो भारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः ।। अत्र मरोरुपकारं करोषीति स्तुतिर्निन्दामवगमयति। उपमानोपमेययोः पर्यायेण तथात्वं चेदुपमेयोपमा। यद्वक्ष्यति- "द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा" इति। यथा-"खमिव जलं जलमिव खं हंसश्वन्द्र इव हंस इव चन्द्रः।" अत्रोपमानोपमेयभावविनिमयः तृतीय सब्रह्मचारिणां निवर्तयति। एकस्यैवोपमानोपमेय भावकत्वेऽनन्वयः। यद्वक्ष्यति-"एकस्यैवोपमानोपमेयत्वेऽनन्वय" इति। यथा -"युद्धेऽर्जुनोऽर्जुन इव प्रथितप्रभावः"-इति । अत्र द्वितीयसब्रह्मचारिनिवृत्तिः। आदि शब्दाल्लाटानुप्रासादि परिग्रहः। एषु पर्यायोक्तादुषु यदेतद्वस्तुमात्रं प्रतीयते स्वर्गविजयादिकं रसालङ्कारपरिहारेण तदिदं सर्वैरपि प्रमाणैरात्मत्वेना वभासमानमेव सद्गज निमीलिकया वाच्यापस्कारकत्वेन तैरुद्भटादिभिः प्रतिपादितम्। न्यग्भावितवाच्यस्य वाच्यकक्ष्यातिलङ्घिनः कथमस्तु वाच्योपस्कारकत्वमिति भावः। केन प्रकारेण प्रतिपादितम्? "स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणम्" इति द्विविधया भङ्ग्या । भङ्गि प्रकारः। अत्रायमाशयः । लक्षणमूलोऽयं पर्यायोक्तादिषु प्रतीयमानोऽर्थः। लक्षणा च द्विरुपा-अजहत्स्वार्थैका "कुन्ताः प्रविशन्ति" इत्यादौ। परा तु जहत्स्वार्था "गङ्गायां घोषः" इत्यादौ। तत्राजहस्त्वार्थायां कुन्तानां स्वतः प्रवेशासंभवे कौन्तिकान् आक्षिप्य प्रवेशसंभवः। अतस्स्व सिद्धये परानाक्षिपतीति तत्र लक्षणा। स्वकीय प्रवेशादेस्सिद्धये परस्य कौन्तिकस्याक्षेप इति । जहत्स्वार्थायां तु गङ्गादेर्मुख्यार्थस्यात्यन्तमनुपपत्तिरेव। अतः परार्थं स्वसमर्पणमिति लक्षणम्। परार्थं तटादेर्घोषाद्यधिकरणार्थं स्वसमर्पणं स्वस्वरुपपरित्याग इति। इत्थं च सतिस्पृष्टास्ता नन्दन" इति पर्यायोक्तोदाहरणे सैनिकानां सावज्ञपारिजातमञ्जरीस्पर्शः स्वर्गविजयमनाक्षिप्य न संभवतीति कुन्तादिनयेन स्वसिद्धये पराक्षेपः। एवम् "उपोढरागेण" इति समासोक्त्युदाहरणेऽपि ज्ञेयम्। नायकत्वाक्षेपे सति निशादेः तिमिरांशुकादियोगसंभवात् अजहत्स्वार्थत्वम्। अथ "तं णात्थी" ति अप्रस्तुतप्रशंसोदाहरणे मुख्यार्थस्याप्रस्तुतत्वात्; "बाळग्रणाहम्"इत्याक्षेपोदाहरणे दूतीत्वनिषेधस्याभासरुपत्वात् "हे हेलाजिते" ति व्याजस्तुत्युदाहरणे खजलयोद्र्वयोरपि चैकस्यानेकत्त्वलाभाभावात् मुख्यार्थस्य अत्यन्तमनुपपत्तिरेव। अतः परार्थं स्वसमर्पणामिति लक्षणम्। तमिमं विषयविभागम् अभिसन्धायोक्तम्-यथायोगं द्विविधयेति। योगो योग्यता तामनतिक्रम्येत्यर्थः। इत्थं वस्तुध्वनौ विमतिर्भामहादिषु दर्शिता । अथ रुद्रटे रसालङ्कारध्वन्योर्विमतिमुपन्यस्यति-रुद्रटेनापीत्यादिना । भावालङ्कारः प्रेयोऽलङ्कारः स द्विधैवोक्तः। तथा हि- यस्य विकारः प्रभवन्नप्रतिबन्धेन हेतुना येन । गमयति तदभिप्रायं तत्प्रति बन्धं च भावोऽसौ ।।इति।। भावस्थितिभावशान्तिरुपेण रुद्रटो भावालङ्कारं द्विधैवोक्तवान्। तदिदम् उत्प्रेक्षावत् कृत्यमिति भावः। यतो भावासङ्कारस्य सन्धिशबलतादि लक्षणा अपि भेदाः संभवन्ति। वक्ष्यति हि - भावोदय सन्धिशबलताश्च पृथगलङ्कारा इति। रुपकादिष्वपि उत्तानदर्शितामुद्घाटयति-रुपकदीपकेत्यादि। रुपकं दीपकम् अपढद्धठ्ठड़14;नुतिस्तुल्ययोगिता। आदिशब्दान्निदर्शनादिकं च लक्षयिष्यते। तत्रोपमालङ्कारः प्रतीयमानो वाच्यशोभाहेतुत्वादुपसर्जनत्वेन नोक्तः। तदप्यसारमिति भावः। उपमालङ्कारस्य वाच्यशोभा हेतुत्वादुपन्यग्भावनेन उत्थापितस्य प्राधन्येन तेष्ववस्थानात्। अथ रसभावयोः अयथादृशमुद्घाटयति-रसवत्प्रेयऊर्जस्वीत्यादि। रसो गुणीभूतो रसवानलङ्कारो,भावस्तु प्रेयान्,रसाभास ऊर्जस्वी,भावाभासस्समाहितम्। एवं रसभावादिः वाच्यशोभा हेतुत्वेनोक्तः । तदपि मन्दमिति भावः। यतो रसादेरलङ्कारत्वं सदातनं न भवति,प्राधान्यदशायामलङ्कार्यत्वात् । उत्प्रेक्षात्विति। प्रातीयमाना स्वयमेव कथिता प्रतीयमानाप्यलङ्कार्यत्वेन कथितेत्यर्थः। तदप्य गंभीरमिति यावत्। प्रतीयमानदशायां सर्वस्यैव अलङ्कारस्यालङ्कार्यकत्वं सिद्धान्तितं यतः। त्रिविंधं वस्त्वलङ्काररसरुपमलङ्कार्यतया ख्यापितमेव। काव्यजीवितत्वेनालङ्कार्यमेव सत्तथा न चेतितमिति यावत्। इत्थं काव्यजीवितांशविचारविमुखानाम् अलंकारमात्ररसिकत्वात् उत्तानदृशां मतम् उपन्यस्य,काव्यजीवितकांशपराणां,मतानि यथावदुपन्यस्यति-वामनेन त्वित्यादिना। सादृश्यनिबन्धनाया इति वदता सादृश्यं संबन्ध-निबन्धना शब्दवृत्तिर्गौणीति वदन्त#ो दूष्यत्वेन कटाक्षिताः । ध्वन्याचार्याणां गौण्या वृत्त्या लक्षणान्तर्भावो नोष्टः। सादृश्यनिबन्धना लक्षणा वक्रोक्त्यलङ्कार "इति प्रथयता कश्चित् ध्वनिभेदो लक्षणामूलोऽत्यन्ततिरस्कृतवाच्य नामाऽलङ्कारत्वेनोक्तः काव्यात्मभूतस्सन्नलङ्कार्यत्वेन नावधारित इतियावत्। यस्त्त्वंशोऽलङ्कार्यो न भवति सोऽप्यलङ्कार्यत्वेन कथित इत्याह-केवलं गुणविशिष्टेति। केवलग्रहणाद्रसालकारनैरपेक्ष्यं कटाक्षितम् । रसालङ्कार निरपेक्षैर्माधुर्यादि भिर्गुणैर्विशिष्टा येयं संघटनाधर्मभूता वैदभ्र्यादि रुपिणी रीतिः सैव काव्यात्मेत्युक्ता। तथा च सूत्रितं तेन - "रीतिः आत्मा काव्यस्य"इति । प्रख्यापितं च - अविदितगुणाऽपि सत्कविभणितिः कर्णोषु वमति मधुधाराम् । अनधिगतपरिमलापि हि हरति दृशं मालतीमाला । इति।। इदमप्ययुक्तमिति भावः। तथाहि-काव्यस्य शरीरस्थानीयौ (शब्दार्थौ) कटकमुकुटादिकल्पा अनुप्रासोपमादयः। व्यङ्ग्यार्थस्तु आत्मभूत इति स्थिते,शब्दालंकारेभ्योषऽपि यो बाह्यो वर्णालंकारोऽनुप्रासस्तत्समकक्ष्यका एता रीतयः। यतो द्वयोरपि वर्णधर्मता । एतदभिसन्धाय वृत्त्यनुप्रासवर्णालंकारप्रस्तावे वैदभ्र्यादयो रीतयो विवेचिताः काव्यप्रकाश कृदादिभिः । ग्रन्थकारोऽपि तत्र विवेचयिष्यति। व्यञ्जकास्वेतासु व्यङ्ग्यरससन्निकर्षादात्मत्व भ्रमः उत्तान धियाम्। तदनुप्रासादावपि समानमिति मन्दमेतद्रीतिमात्रपक्षपातित्वम्।वस्तुतस्तु व्यङ#्ग्यार्थ एव आत्मा काव्यस्य । अथोद्भटादिभिः गुणालंकारयोर्भेदोऽपि नावधारित इत्याह-उद्भटादिभिस्त्विति । साम्यं सजातीयत्वमित्यर्थ-। तत्र हेतुः - "विषयमात्रेण भेदप्रतिपादनादिति"। मात्रग्रहणात्स्वरुपभेदाभावः कटाक्ष्यते । काव्यशोभाहेतुत्वलक्षणं तु स्वरुपमेकविधमेवेति तेषामाशयः। विषामाशयः। विषयभेदं दर्शयति-"सङ्घटनेत्यादि"। "सङ्घटनाधर्मागुणा, अलंकारास्तु शब्दार्थधर्माः" इति। तदिदमप्यगम्भीरमिति भावः। गुणालंकारयोश्च स्वरुपत एवातिविभिन्नत्वात् । तथाहि-अङ्गिनो रसस्य धर्मा गुणाः अङ्गयोः शब्दार्थयोस्त्वलङ्काराः। गुणास्तुनियमेनोत्कर्षहेतवः अलङ्कारास्त्वनियमेन। गुणास्समवायेन वर्तन्ते,अलङ्कारास्तु संयोगेन । यदाह- "ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । उत्कर्षहेतवस्ते स्युः अचलस्थितयो गुणाः ।। उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् । हारादिवदलङ्कारास्तेऽनुप्रासोपमादयः "।। इति ।। इत्थं च सति अलङ्कारापेक्षया गुणेष्वेव प्रकृष्टः काव्योपस्कारः यद्वदस्फुटटालङ्कारत्वेऽपि काव्यत्वाभ्युपगमः, न हि तद्वत् अस्फुटगुणत्वे। यदाह-"अनलङ्कृती पुनः क्वापीति"। यदेतदेवंविधं गुणानामलङ्काराणां च प्राधान्यं ,तत्रापि पुरातनानां दृष्टिरसमीचीनेत्याह-"तदेवं अलङ्कारा एवेति"। अथ वक्रोक्तिजीवितकारभट्टनायक योस्सं झ्र्दृष्टीट सन्निकृष्टे ध्वनिदर्शनस्येत्यभिप्रायेणाह-"वक्रोक्तिजीवितकारः पुनरित्यादिना। वैदग्ध्यभङ्गीभणितिस्वभावां वैदग्ध्यप्रकारोपेतभणितिस्वरुपामित्यर्थः। जीवितमुक्तवानित्यलङ्कारमात्रदुराग्रहाभावो द्योतितः। अन्योऽपि सारभूतः सूक्ष्मोंऽशः तेन अवधारित इत्यभिप्रायेणाह-व्यापारप्राधान्यं चेति। व्यापारो रसप्रत्यायनात्मा । तस्य प्राधान्यं प्रतिपेदे। न पुनः अप्रा#ृधानस्य अलङ्कारमात्रस्येति यावत्। अलङ्काराः पुनर्वाच्यकक्ष्यैवास्य सम्मतेत्याह-अभिधाप्रकारेत्यादि। यश्च वस्त्वलङ्काररसरुपः त्रिविधः प्रतीयमानोऽर्थः यत्र विद्यमा#ानोऽपि तत्प्रत्यायनलक्षणस्य" व्यापारस्यैव प्राधान्यमस्य मतमित्याह-सत्यपि चेत्यादि। उपचारो लक्षणाश्रयणां तद्वक्रतेति अविवक्षितवाच्यादि समस्तध्वनिः कटाक्षितः। इत्थं च सति ध्वनिदर्शना देत द्दर्शनस्याल्पकोभेद इत#्याह-"केवलमुक्तिवैचित्र्येति।" अथ भट्टनायकमतम्-भट्टनायकेनत्वित्यादि। प्रौढोक्त्याभ्युपगतस्येति। भोग इतिस्वकपोल कल्पितो व्यवहारः प्रौढोक्तिस्तयाऽङ्गीकृतस्येत्यर्थः। ईदृशस्य व्यञ्जनव्यापारस्य काव्यात्मत्वं कथयता न्यग्भावितशब्दार्थ स्वरुपोऽयं व्यापारस्तस्यैव प्राधान्यमुक्तम्। स च व्यापारो लौकिको न भवतीत्याह-तत्राप्यभिधाभावक त्वेत्यादि। तत्र तेषु व्यापारेषु मध्यादभिधाभावकत्वे इति। साक्षात्सङ्केतार्थ विषया शक्तिरभिधा। असाधारण्येन प्रतीतेष्वर्थेषु साधारणीकरणरुपा शक्तिर्भाविकत्वम्। एतद्व्यापारद्वरद्वयो त्तीर्णः साधारणीकृतेषु विभावादिषु रसचर्वणात्मां भोगापरनामधेयो व्यापारो विश्रान्तिस्थानतया प्राधन्येनाङ्गीकृतः। अत्र दर्शने भोगादिव्यावहारस्य स्वकपोलकल्पितव्यापारप्राधान्यमि झ्र्त्यंशोटध्वनिकारदर्शनविलक्षणाः। अथ सिद्धन्तः-ध्वनिकारः पुनरित्यादि। ध्वनिकारस्तु व्यङ्ग्यात्मनो वाक्यार्थस्यैव काव्यात्मत्वं सिद्धान्तितवान्। तत्रहेदतुः -व्यञ्जनव्यापारस्यावश्याभ्युपगम्यत्वादिति। कीदृशस्य ? अभिधालक्षणातात्पर्याख्य व्यापारत्रयोत्तीर्णस्य। तात्पर्य नाम पदार्थाधिगमसमनन्तरभाविनी समन्वयशक्तिः। एतत्त्रयोत्तीर्णस्येति चतुर्थकक्ष्यावस्थापियोक्ता। ध्वननद्योतनेति। ध्वननं द्योतनं प्रत्यायनं व्यञ्जनमित्यादिप्रसिद्धपर्यायसहतस्त्रस्यावश्याभ्युपगम्यत्वात् तदनभ्युपगमे व्यङ्ग्यार्थप्रतीतौ न गत्यन्तरं यतः,अतः व्यङ्ग्योऽर्थ एवात्मेत्यर्थः। ननु व्यञ्जनाव्यापारः प्रधानं किं न भवति, इत्यत आह-व्यापारस्य च वाक्यार्थत्वाभावादिति। अप्रत्यक्षत्वेन निरुक्त्यनर्हत्वाद्वाक्यार्थत्वाभावः । सर्वा एव खलु पदार्थशक्तयः कार्यादिप्रतीत्यन्यथानुपपत्त्या अभ्यूह्यन्त एव। अतो व्यापारो न प्राधानम्। यश्च हेतुः प्राधान्ये सोऽपि व्यङ्ग्य एवोपपद्यते, न तु व्यञ्जनव्यापार इत्याह-वाक्यार्थस्यैवेति। गुणालङ्कारोपस्कत्र्तव्यत्वं विश्रान्तिस्थानत्वं च प्राधान्ये हेतुः । अतो व्यङ्ग्यार्थ एव काव्यात्मेति सिद्धान्तितवन्। अथ भूयस्तरा युक्तीरभ्युच्चिनोति-व्यापारस्य विषयमुखेनेत्यादि । व्यञ्जनादेगि व्यापारस्य व्यङ्य्यार्थमुखेनैव स्वरुपसिद्धिः। अतो न वाक्यार्थत्व संभवः। यथास्वरुपोपलम्भो विषयमुखेन तथा प्राधान्यं विचारक्षमत्वमपि तन्मुखेनैवेत्याह-तत्प्राधान्येन प्राधान्यात्। स्वरुपेण विचार्यत्त्वाभावादिति च । विषय एव तु पुष्कलं वाक्यार्थं भावमर्हतीत्याह-विषयस्यैवेति। साक्षात्स्वरुप प्रतिलंभः स्वतः प्राधान्यं स्वलरुपेण विचार्यत्वं चेत्यादि समग्रे भरः। तत्सहिष्णुत्वं हि व्याङ्ग्यार्थलक्षणस्य विशषयस्यैव। अतो विषयस्यैवात्मत्वं युक#्तमित्याह-तस्माद्विषय एवेति । समग्रभर सहिष्णुत्वात् स निरवशेषवैभवमर्हतीत्यत आह-यस्य गुणालङ्कारेत्यादि । ननु रसादयो रसवदाद्यालङ्कारा एव प्राचां मताः । कथमेषामलङ्कार्यत्वमित्यत आह - रसादयस्त्विति । तत्र हेतुः - अलङ्काराणामुपस्कारकत्वात् रसादीनां च प्राधान्येनोपस्कार्यत्वाच्च इति। रसादीनां हि यदा गुणीभावः तदालङ्कारत्वं , यदा तु प्राधान्यं तदालङ्कार्यत्वमेव। यत इत्थं व्यवस्था ,अतोः व्यङ्ग्यार्थ एव काव्यात्मेति निगमयति - तस्माद् व्यङ्ग्य एवेत्यादि। वाक्यार्थीभूत इति प्राधान्यदशां कटाक्षयति, अप्राधा#्नय दशायामनात्मत्वात्। तदिदं ध्वनिकृतो दर्शनाम्। एतदनुसारित्वमात्मनो दर्शयुतुमाह -एष एव पक्ष इत्यादि। एवकारेणपक्षान्तरेष्वनुपपत्तिराविशष्क्रियते। आवर्जकः बलादात्माभिमुखीकारकः। तत्र हेतुः - व्यञ्जनव्यापारस्येत्यादि। य इच्छ्रन्ति व्यङ्ग्यार्थस्य काव्यात्मतां, ये च नेच्छन्ति , सर्वैरेव खल्वेभिः न शक्यते हि व्यञ्जनव्यापारोऽपढद्धठ्ठड़14;नोतुम्। यदि नापढद्धठ्ठड़14;नुतः किं तत इत्यत आह-तदाश्रयणे चेत्यादि। पक्षान्तरस्याप्रतिष्ठानं दर्शइतचरीभिर्युक्तिभिः सिद्धम्। यत्तु तत्र व्यक्तिविवेककारः प्रत्यवस्थइतः तदुपन्यस्यति - यत्तु व्यक्तिविवेककारः इत्यादिना। लिङ्गतया गमकतया। तादात्म्यतदुत्पत्त्यभावादिति। धर्मधर्मिणोर्लिङ्गलिङ्गिभावे तादात्म्यं नाम नियतस्सम्बन्धः । कार्यकारणायोस्तु तदभावे तदुत्पत्तिर्नामास्तीति। अनयोर्नियतसम्बन्धयोः यद्यन्यतरो न स्यात् तदा व्यभिचारान्न संभवति लिङ्गलिङ्गिभाव इति यावत्। यत इत्थमेतत् अतस्तदविचारिताभिधानं , तदेतद्व्यक्तिविवेककृतो दर्शनं वायसवाशितकल्पमिति यावत्। एवं ध्वनिदर्शनसमर्थने यद्यावदस्ति युक्तिजातं तदतिगहनम्। ध्वनिगुणीभूतव्यङ्ग्ययोरेव काव्ययोर्मीमांसायामुपयुज्यते; चित्रकाव्यमीमांसायां तु नात्युपयुज्यते इत्याशयेन निगमयिति-तदेतत् कुशाग्रीयेत्यादि। इह चित्रकाव्ये । न प्रतन्यते,यथोपयोगमनूद्यत एवेति यावत्। अथ यावानुपयोगश्चित्रप्रस्तावे ध्वनेस्तावन्मात्रमनुवदति-अस्ति तावदित्यादिना। यद्यस्ति किं तत इत्यत आह-तत्र व्यङ्ग्यस्येत्यादि। प्राधान्ये ध्वनिर्नमोत्तमः काव्यभेदः। अप्राधान्ये तु गुणीभूतव्यङ्ग्य नामा मध्यमः। चित्रस्य विषयमाह-तत्रोत्तमो ध्वनिरित्यादिना।स चाभिधामूलतया लक्षणामूलतया च प्रथते इत्याह-तस्य लक्षणाभिधामूलत्वेनेति। लक्षणामूलत्वे सति अविवक्षित वाच्याख्यः मुख्यार्थबाधशालिन्यां लक्षणायां वाच्यांशस्याविवक्षितत्वात्। अभिधामूलत्वे तु विवक्षितान्यपरवाच्याख्यः , अभिधायां वाच्ये बाधाभावाद् विवक्षितत्वं, व्यङ्ग्याङ्गत्वेन विवक्षणात् अन्यपरता चेति विवक्षितान्यपरत्वम् अभिधामूलस्य । इत्थं लक्षणामूलोऽभिधामूलश्चेति सामान्यतो ध्वनिर्द्विराशिकः । तत्र लक्षणामूलस्यावान्तरभेदमाह-आद्योऽर्थन्तर इति। आद्यो लक्षणा मूलस्सोऽर्थान्तरसङ्क्रमितवाच्यो अत्यन्ततिरस्कृतवाच्यश्चेति द्विधा। अजहत्स्वार्थतया स्वसिद्धये पराक्षेपे सति अर्थान्तरसङ्क्रमितवाच्यः । यथा - प्रारम्भे श्रुतिसुन्दरं परिणातौ पथ्यं जनैस्सुग्रहं । नानाशास्त्ररसैः प्रसन्नमधुरैः प्रत्यक्षरं क्षालितम् । आढद्धठ्ठड़14;लादाय न कस्य नाम विदुषां वक्त्राम्बुजादुद्गतं चित्तान्तर्विकसद्विवेक मुकुलामोदानुबिद्धं वचः ।। अत्रैवंविधवच उपदेशालक्षणे अर्थान्तरे सङ्क्रामति। वचोमात्रस्यैवं वैशिष्ट्यासंभवात्। अथ यदा जहत्स्वार्थतया परार्थं स्वसमर्पणं तदात्यन्ततिरस्कृतवाच्याख्यः। यथा - एके मूकवदासते जडड्डत्ध्;धियो जिढद्धठ्ठड़14;नेति तत्सन्निधा वन्ये दुर्विचिक्त्सितं विदधते तेभ्योऽपि बीभत्सते । अस्थाने बहुधा स्तुवन्ति कतिचित्तैरुल्कया दह्यते विद्या विक्लवते कया न विधया प्राप्यान्तिकं दुष्प्रभोः ।। अत्र विद्यायां ढद्धठ्ठड़14;लीबीभत्सादिः गङ्गादौ घोषाधिकरणतादीव सर्वथा स्वसंयोगिनो स्वार्थं परित्यज्य न संभवतीत्यत्यन्त तिरस्कृतवाच्यता। इत्थम विवक्षितवाच्यस्यार्थान्तरसंक्रमित वाच्योऽत्यन्ततिरस्कृतवाच्यश्चेति द्वौ भेदौ। अथाभिधामूल प्रभेददिक्। द्वितीयोऽपीति । द्वितीयोऽभिधामूलो विवक्षितान्यपरवाच्याख्यः । तत्र क्विचिद् व्यङ्ग्य क्रमो न संलक्ष्यते। क्वचित्संलक्ष्यते। तस्माद्विवक्षितान्यपरवाच्योऽपि असंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यक्रमव्यङ्ग्यश्चेति द्विविधः। अथानयोः सक्षणाभिधामूलध्वन्योर्वस्त्वलङ्कार रसरुपता विषयविशेषं व्यवस्थापयितुमाह-लक्षणामूल इत्यादिना। यो हि लक्षणामूलः स नियमेव शब्दशक्तिमूलो वस्तुरुपश्च भवति। यद्वि यावदस्ति जातिगुणाक#्रियाद्यात्माकं पदार्थजातं सर्वमेवैतद्वस्तु कथ्यते। तदेव कविकल्पितविच्छित्ति सध्रीचीनमलङ्कारः। रसास्तु विभावानुभावव्यभिचारिभिव्याज्यमाना रत्यादयः सहृदयप्रतीतिविशेषाः। अथ विवक्षितान्यपरवाच्यो योऽयं असंलक्ष्यक्रमव्यङ्ग्यः स नियमेनार्थशक्तिमूल उभयशक्तिमूलश#्च भवति। नियमेन वस्तुरुपोऽलङ्काररुपश्च भवति। तत्र यदा रसभावरसाभास भावाभासभावोदयभावशान्ति भावसन्धिभावशबलता व्यज्यन्ते, तदा क्रमो न संलक्ष्यत इति असंलक्ष्यक्रमत्वम्। तत्र रसेषु श्रृङ्गारस्संभोगात्मा यथा- पुष्पोद्भेदमवाप्य केलिशयनाद्दरस्थया चुम्बने कान्तेन स्फुरिताधरेण निभृतं भ्रूसंज्ञया याचिते । आच्छाद्य स्मितपूर्णा गण्डड्डत्ध्;फलकं चेलाञ्चलेनाननं मन्दान्दोलितकुण्डड्डत्ध्;लस्तबकया तन्व्या विधूतं शिरः ।। अत्र नायिकानायकवृत्तान्तलक्षणो यो वाच्योऽर्थः या च सहृदयप्रतीतेः वेद्यान्तरविगलनेन वण्र्यवस्तुतन्मयीभावलक्षणा रससंवित्, न खलु तयोः क्रमस्संलक्ष्यते। विद्यमानोऽपि पद्म पत्रशतव्यतिभेदनयेन अविद्यमानवदुपलक्ष्यते । विप्रलम्भश्रृङ्गारो यथा - नान्तः प्रवेशमरुणाद्विमुखी न चासी दाचष्टरोष परुषाणि न चाक्षराणि । सा केवलं सरलपक्ष्मभिरक्षिपातैः कान्तं विलोकितवती जननिर्विशेषम् ।। एवमादिष्वक्रमत्वं प्राग्वदनुसन्धेयम् । हास्यो यथा - पइमरणामण्डड्डत्ध्;णाज्जलवेसा पासंग एसु तरुणेसु । णिद्धसरं परुग्रंती सविब्भमं हणा इ थणावट्ठम् ।। अत्र पतिमरणामण्डड्डत्ध्;नोज्ज्वलवेषायाः तरुणेषु पाश्र्वमुपगतेषु सत्सु सद्यः स्निग्धस्वरंप्ररुदत्याः सविभ्रमं यदेतत्स्तनवृत्तहननं तत् प्रच्छन्नानुरागस्यानौचित्येन प्रवृत्तेर्हास्यमभिव्यनक्ति। करुणस्य यथा - साहित्यलक्षणकले समुपैषि नव्य वैधव्यमद्य विरते गुरुविष्णुदेवे । कर्णान्तिकप्रणायन प्रणायोत्सवाय तालीदलार्पणमितः परमक्षमं ते ।। रौद्रन्य यथा - दृप्यत्सूकर कालकण्ठ शकलव्याकीर्ण धारान्तरा क्रोधोत्ताललुलायकण्ठनलकच्छेदार्धवक्त्राननाः । श्रीबल्लाल विधाय केलि मृगयामावर्तमानस्य ते शार्दूलेन्द्रवसाभिषेकसमये जीयासुरुग्राश्शराः ।। वीरस्य यथा - आधातुर्भुवनं तदेतदखिलं चक्षुष्मदाकीटका- द्दिव्यं चक्षुरनन्यलभ्य मुभयत्रास्ते परं दुस्सहम् । फाले भूतपतेर्मनोभवमुख क्षुद्र क्षयोज्जागरं बाणे च प्रतिराजदर्पदलनं बल्लाल पृथ्वीपतेः ।। भयानकस्य यथा - गिरिकुञ्जेषु गूढानां तवारि वरयोषिताम् । असूर्यंपश्यतामात्रं भूतिचिढद्धठ्ठड़14;नेष्वशिष्यत ।। बीभत्सस्य यथा - स्वात्मानन्दं किमपि परमं साधु संभुञ्जते ये तेषामस्यां विषयविततौ जायते हेयबुद्धिः । अन्येषां तु प्रसरतितरां प्रत्युतास्वादनेच्छा छर्दिक्लिन्ने कफकलुषिते मक्षिकाणामिवान्ने ।। अद्भुतस्य यथा - आकर्णितोत्तमगुणानुगुणेति कृत्वा यामुल्लिलेख सुचिरेण मनो मदीयम् । तामाकृतिं विसदृशीमतिमात्रमस्या दास्येऽपि नास्मि विनिवेशयितुं विदग्धः ।। अत्र सुचिर मदृष्टचरनायिकारुपस्यानुगुण श्रवणानुरागिणो नायकस्य नायिकाप्रथमदर्शने आकर्णितोत्तम गुणानुगुणतया मनसा समुल्लिखितचरी या नायिकामूर्तिः, सा सम्प्रति साश्रात्कृतनायिकामूर्तेरतिमात्रं विसदृशी सती दासीत्वेनापि निवेशयितुं न शक्यत इत्युक्तिराभिरुप्यनिबन्धनस्य परां काष्ठामाविष्करोति। शान्तस्य यथा - मा भैषीः कुल मा व्यथस्व विनय क्लेशोऽस्तु मा ते श्रुत प्रध्वंसाय यतस्व मा खलु मते माहात्म्य मा मा त्यज । युष्मद्रौरवसारदारणापरान्मत्वा तृणाय प्रभून् भिक्षापर्यटनार्जितेन कलये पिण्डेड्डत्ध्;न पिण्डड्डत्ध्;स्थितिम् ।। इत्थं रसध्वनिर्दिङ्मात्रेणोदाहृतः । अथ भावध्वनिः-भावो हि नाम नायिकाव्यतिरिक्ते देवतागुरुनृपपुत्रादौ व्यज्यमाना रतिर्वाक्यार्थत्वेन व्यज्यमाना निर्वेदादयो व्यभिचारिणाश्च । यथा- अद्य स्वप्नमुपागतेन यमुनातीरे मयावस्थितं दृष्टस्तत्र च वेणुवादनिपुणो बालो गवां पालकः । तं दृष्ट्वा करणैरनन्यविषयैरन्तर्विलीनोऽभवं यावत्तावद्अहं चिरादुपचितैः पापैः प्रबोधं गतः ।। यथा च - संसारात्र्या विधुरविधुरो ब्रह्म यत्नाद्विचिन्वन् नानारुपं जगदिदमहं दृष्टवानेव पूर्वम् । हस्ते न्यस्ते सति तव गुरो सांप्रतं मस्तकेऽस्मिम् ब्रह्मैवैतत्सकलमभवन्नो जगन्नापि चाहम् ।। यथा च - काष्ठाप्रात्पिरियं परा खलु परीपाकस्य भाग्योन्नतेः श्री बल्लाल नृपाल!यद्वयमिंमौ पादौ तवोपास्महे । यस्तिष्ठेत्प्रतिहार सीम्नि भवतो रुद्धप्रवेशश्चिरं किं नासावपि चोलपाण्डड्डत्ध्;्यपृथ्वीपालैस्समं गण्यते ।। इत्थं पुत्रादिविषयो व्यभिचारिरुपश्च भावः स्वयमूह्यः । रसाभासो यथा - स्फुरन्मुखामोदविवृद्ध गन्धं, जिघ्रन्मुहुर्मीलितरक्तनेत्रः । पूर्वं प्रियाचञ्चुपुटोपयुक्तं चूताङ्कुरं चुम्बति चञ्चरीकः ।। इत्यादि ।। अत्र तिर्यग्विषयत्वाद्ररसस्याभासता । धीरोदात्तत्वाद्यभावात्। यदाह- "उत्तमप्रकृतिरुज्ज्वलवेषः श्रृङ्गारः" इति । भावाभासो यथा - क्वणादूद्विरेफावलिनीलङ्कणां प्रसार्यं शाखाभुजमाम्र वल्लरी । कृतोपगूहा कलकण्ठकूजितैः अनामयं पृच्छ्रति दक्षिणानिलम् ।। अत्र सौहार्दस्यारोपितत्वात् भाव आभासी भवति । भावोदयो यथा - केलितल्पगतमङ्घ्रियावकं,सूचयत्युषसि चक्षुषा प्रिये । भूझ्र्भ्रूट त्रिभागमुपकल्प्य भंगुरं,गूढ हास मधुरं चुकोप सा ।। अत्र लज्जाहर्षयोरुदयः । भावसन्धिर्यथा - नेत्रे जिह्यखरारुणे क्षणामथ व्यामील्यमानेक्षणां हस्तं व्यग्रगमागनं क्षणामथो दन्ते शयानं क्षणम् । सञ्चारं विषमाकुलं क्षणमथ प्रक्रान्तलीलं क्षणं धत्ते तोत्रिषु षट्पदेषु च समं दत्तावधानो गजः ।। अत्र गजस्य मदाकुलस्य यदेतत्क्षणमात्रं नेत्रयोः जिह्याखरा रुणायोः धरणां समनन्तरमेव यच्चैतदूव्यामीलनं,तथा हस्ते च यत्क्षणामत्रं व्यग्रो गमागमः यच्च समनन्तरमेव दन्ते शयनं,सञ्चारे च क्षाणामात्रं येयं विषमाकुलता,समन्तरमेव यश्चायं लीलाप्रक्रमः,तदेतत् विविधं व#िलक्षणं विचेष्टितद्वयं उद्भवाभिभवधर्मितया क्षणं क्षणामाविर्भवत् तोत्रिविषयं रोषं षट्पदशब्दलक्षितषट्पदगीतविषयं हर्ष च परस्परस्यादत्ता वसरतयासमुत्क्षुभितम् अभिव्यनक्ति। द्वन्द्व वृत्तिषु च त्रिष्वपि वाक्येषु प्रतिस्वं क्षणं क्षणमित्युपादानाद्यथा यथा समुत्क#्षुभिताब्धिकल्लोलकत्प झ्र्लटतयो तोत्रिणामुपर्युपरि विनिपात जन्मानो रोषावेशमहावेगाः तथा तथा तदभिभवक्षमाणां षट्पदगीताकर्णानसुखाभिनिवेशविकासानां मध्ये प्रादुर्भाव इति प्रत्याय्यन्ते। धत्त इति वर्तमाननिर्देशेन प्रारब्धापरिसमात्पभावादेकतरस्यां कोटावनिष्ठेति द्योत्यते। तथा जिढद्धठ्ठड़14;वाखरारुणत्वव्यग्रगमागमत्वविषमाकुलत्वलक्षणाधर्मयोगाद्व्यालयमानत्वदन्तेशयनत्वप्रकान्तलीलत्वलक्षणाधर्मयोगाच्चानुक्षणामाकुलीभावमापाद्यमानैर्नैत्रहस्तसञ्चारैर्लिङ्गैर्यदेतद्वोध्यते,तोत्रिषुषट्पदेषु च तुलितमवधानदानं तदप्येक तरस्यां कोटा वनिष्टाम#ेव व्यनक्ति। अतो रोषहर्ष भावयोरयं सन्धिः । भावशबलता यथा - मध्येसखीजनमुपढद्धठ्ठड़14;वरवृत्तजातं वाचा प्रकाशयति मय्युपदेशवृत्त्या । सासूयसप्रणायसत्रप सप्रसादैः सा मां विलोकितवती चटुलैः कटाक्षैः ।। अत्रासूयादीनां कटाक्षेषु समारोपाद्वाच्यता न मन्तव्या। अतो हृद्येवं भावशबलता व्यज्यते । भावशान्तिर्यथा तौ सम्मुखप्रचलितौ सविधे गुरुणां मार्गप्रदानरभसस्खलितावधानौ । पाश्र्वापसर्पणामुभावपि भिन्नदिक्कं कृत्त्वा मुहुर्मुहुरपासरतां सलज्जौ ।। अत्र मतिविबोध योरुपशमः । एषु रसादिध्वनिषु प्रपञ्चोऽन्यतो ज्ञेयः। चित्रकाव्यप्रपञ्चनपरेण ग्रन्थकृतौवातिसङ्कोचितत्वात् अस्माभिर्दिङ्मात्रमुदाहरणैः प्रदर्शितम्। अथ संलक्ष्यक्रमे शब्दशक्तिमूलोऽलङ्काररुपो वस्तुरुपश्च नियमेन भवति। तत्रालङ्काररुपो यथा - प्राप्याधरद्वयधुरां परिचुम्बतीव लीलोत्तरं विलिखतीव नखत्वमेत्य । तस्याः कटाक्षवलनं गुरुसन्निधौ मामाश्र्लिष्यतीव समवाप्य च बाहुभावम् ।। अत्रोत्प्रेक्षालङ्कारेण चुम्बनादिकारणा भावेऽपि संभोगसुखा वात्पिलक्षणाकार्योत्पत्तिरुपा विभावना व्यज्यते । वस्तुध्वनिर्यथा - दृष्टिः कातरतामुपैति सहसा तस्मिन्पुरोऽवस्थिते, नर्मालापिनि तत्र न प्रतिवचो जिढद्धठ्ठड़14;वाग्रमारोहति । संस्पर्शं च न तस्य वेत्युपचितस्तम्भं ममैतद्वपुः संवृत्तस्सखि सङ्गमोऽपि विरहप्रायो विधातास्मि किम् ।। अत्र वस्तुनि अवस्तुत्वभ्रमात् मौग्ध्यलक्षणं वस्तु प्रत्याय्यते । अथार्थशक्तिमूलोव्यञ्जकोऽर्थः स्वतः संभवी कविप्रौढोक्तिनिष्पादितः कविर्निबद्धवक्तृप्रौढोक्तिनिष्पादितश्चेति त्रिरुपः। स चालङ्काररुपो वस्तुरुपश्चेति प्रत्येकं द्वैविध्ये षोढा। षड्ड्डित्ध्;वधस्य च व#्यङ्ग्योऽर्थो वस्तुरुपोऽलङ्काररुपश्चेति द्वादशंभेदोऽयम्। तथा हि - स्वतस्संभविना वस्तुना वस्तु स्वतस्संभविना वस्तुना अलङ्कारः। स्वतस्संभविनालङ्कारोण वस्तु,तेन अलङ्कार इति चतुर्धा। तथा कविप्रौढोक्तिनिष्पादितेन वस्तुना वस्तु,तेनालङ्कारः कविप्रौढोक्तिनिष्पादितेन अलङ्कारेण वस्तु तेन अलङ्कारः इत्यपि चतुर्धा। इत्थंकविनिबद्धवक्तॄप्रौढोक्तिनिष्पादितेऽपि विषयेचातुर्विध्यमनुसन्धेयम्। अत्र प्रपञ्चः संप्रदायप्रकाशिन्यां काव्यप्रकाशटोकायां अस्माभिः वितत्योप दर्शित इति ततोऽवधार्यः। इह तु ग्रन्थगौरवभयात् प्रस्तावानुपयोगाच्च न प्रतन्यते। दिङ्मात्रन्तूदाढिद्धठ्ठड़14;लयते- तत्र स्वतस्संभविना वस्तुना वस्तु यथा - अद्यापि लोके न कविर्न सोऽस्ति प्राचां तुलां यः प्रबलोऽधिरोढुम् । पुरातनो नायमितीय देव तथापि निन्दा यदि किं करोतु ।। अत्र स्वतस्संभविना वस्तुना अहम् एवंविध इति वक्तुः स्वमाहात्म्यप्रख्यापनलक्षघणं वस्तु प्रत्याय्यते ।। कविनिबद्धेनालङ्कारेण वस्तु यथा - दृष्टिर्निष्ठुर बद्धसारखदिरांगार स्फुलिङ्गोपमा जिढद्धठ्ठड़14;वे सज्जनतर्जनोल्बणाबलत्कालाङ्गुलीचञ्चले । दन्ताश्चान्तककेलिकाननविषां (?)कूरानुकारस्सखे जङ्घे द्वे यदि तेभुजङअगभुवनं वल्मीकशेषं भवेत् ।। अत्र कविप्रौढोक्तिनिष्पादितेन अप्रस्तुतप्रशंसालङ्कारेण विधिविहितमनार्याणां क्विचिदंशे दौर्बल्यं विश्वमभिरक्षतीति वस्तु। कविनिबद्धवक्तृप्रौढोक्तिनिष्पादितोऽलंकारेणालंकारो यथा - अणिवारओवगूहण संछ्रंदालावसोअ ववसजणा । बंधवमरणामहूसव दिअहे दिअहे समो अरसु ।। छाया-अनिवारितोपगूहनस्वच्छ्रन्दालापशोकविवशजनः । बान्धवमरणमहोत्सवः दिवसे दिवसे समवतरतु ।। इति ।। कविनिबद्धायाः स्वैरिण्याः प्रौढोक्तिनिष्पादितेन रुपकालङ्कारेण उपगूहनादिनिवारणाशालिभ्योऽस्य बान्धवमरणमहोत्सवस्य अतिशयप्रत्यायनात्मा व्यतिरेकालङ्कारः प्रत्याय्यते । इत्थमन्यदप्यूह्यम् । अथ गुणीभूतव्यङ्ग्यस्वरुपदिक्। गुणीभूतव्यङ्ग्यं वाच्याङ्गेत्यादि। वाच्याङअगत्वमगूढत्वमपराङ्गत्वमस्फुटत्वम्,सन्दिग्धप्राधान्यं तुल्यप्राधान्यं काक्काक्षित्प मसुन्दरत्वम् इति वाच्याङ्गत्वादयो भेदाः। समासोक्त्यादौ प्रदर्शितमिति। ध्वनिकारादिभिरिति शेषः । तत्र वाच्याङ्गत्वं यथा - शून्ये त्वद्रिपुराजधाम्नि सुदृशां चित्रार्पिता नां करं सँल्लापस्पृहया पतन्नपि मुहुः कीरस्समारोहति । श्रीबल्लालनृपाल! शिञ्जितरसान्मञ्जीररेखामुखं चञ्च्वग्रेण च हन्त हंसपृथुकस्सञ्चालयन्क्रन्दति ।। अत्र शून्यीकृतरिपुराजवेश्मा नायकप्रभावातिशयः प्रतीयमानोऽपि शुकहंसवृत्तान्तोपपादकत्वेन स्थित इति वाच्याङ्गत्वम्। इत्थमगूढत्वादयोऽपि भेदा ज्ञेयाः । इत्थं ध्वनिगुणीभूतव्यङ्ग्ययोः काव्ययोस्स्वरुपमुपोद्गधातत्वेन यथायोगमुपन्यस्य प्रकरणा प्रतिपिपादयिषितं चित्राख्यं काव्यमधिकीर्षुराह-चित्रं त्विति। ध्वनिगुणीभूतव्यङ्ग्यापेक्षया भेदबाहुल्यं तरबर्थः । अथादिसूत्रमवतारयितुमाह-तथाहीति-अथ सूत्रम्। इहार्थपौनरुक्त्यं शब्दपौनरुक्त्यं शब्दार्थपौनरुक्त्यं चेति त्रयः पौनरुक्त्यप्रकाराः । ननु चित्रमित्युपक्रम्य पौनरुक्त्यप्रकारकथने का सङ्गतिः इत्यत आहआदौ पौनकुक्त्येत्यादि। पौनरुक्त्यप्रकाराणाम् एषां यदेतदादौ वचनंतिन्निरुपयिष्यमाणानां शब्दार्थोभयाश्रयतया कक्ष्याविभागं घटयितुं कक्ष्याविभागस्यैव च स्फुटीकाराय प्रत्येकं पौनरुक्त्यग्रहणम्। अत#ोऽनुप्रासयमकादयः शब्दालङ्काराः । उपमारुपकादयोऽर्थालङ्काराः । लाटानुप्रासादयस्तूभयालङ्काराः इति कक्ष्याविभागोऽनुसन्धेयः । ननु शब्दप्रतीतिपूर्वकत्वादर्थप्रतीतेः प्रथमं अर्थपौनरुक्त्यनिर्देशो न युज्यत इत्यत आह-अर्थापेक्षयेत्यादि। अन्तरङ्गत्वं प्राथमिकत्वं,अर्थगतनिर्देशः अर्थविषयक पौनरुक्त्य निर्देश इत्यर्थः। चिरन्तनप्रसिद्ध्या भामहोद्भटादिपूर्वाचार्यप्रसिद्ध्यनुसारेण। ते हि पुनरुक्तवदाभासाख्यमर्थालङ्कारमेव पूर्वं लक्षितवन्तः। निर्दिष्टस्य च पौनरुक्त्यत्रयस्य सम्पब्रतिपन्नतामभिसन्धायाह-शाब्दे प्रस्थान इत्यादि। इतिशब्दं योग्येऽर्थे व्यवस्थापयति -इतिशब्दः प्रकार इति। ननु त्रय एवेतिसमाप्त्यर्थता किं नेष्यत इत्यत आह-त्रिशब्दाद#ेवेत्यादि । अत्रायमाशयः। विभागेनैव त्रित्वमवगतम्। त्रिशब्दात्तु परिसमात्पिस्सिद्धा,"सिद्धे सत्यारम्भो नियमाय" इति न्यायात्। अत इतिशब्दः प्रकारे विवक्ष्यते। न च मन्तव्यं सति प्रकारशब्दे पौनरुक्त्यं प्रसजेदिति। प्रकारशब्दो हि पौनरुक्त्यप्रकारमाबह-स च पौनरुक्त्यप्रकार#ः केन प्रकारेण त्रिप्रकार इति जिज्ञासायाम् इतिशब्दः तत्प्रकार वचन इति सर्वमवदातम् । विभावाधिगगतं त्रित्वं त्रिशब्देन समाप्यते । त्रिप्रकारत्व वचनः इति शब्दस्ततो मतः ।। इति ।। अथैषु पौनरुक्त्येषु हेयांशं विभक्तुं सूत्रम्-तत्रार्थपौनरुक्त्यं प्ररुढंदोषः। प्ररुढग्रहणस्य व्यावत्र्यमुद्घाटयति-प्ररुढाप्ररुढत्वेनेति। उपादेये विश्रान्त्यर्थमिति। उपादेये प्रतियेग्यन्तरे प्रसृतायाः प्रतिपत्तॄ प्रतीतेः अव्याक्षेपाय इत्यर्थः। हेयांशैर्हि विविच्य त्यक्तके स्वरसा भवत्युपादेयमीमांसा। त्रयनिर्धारण इति। भावानयने द्रव्यानयनमिह अनुसर्तव्यं निर्धारिते पौनरुक्त्यत्रय इत्यर्थः। ननु प्ररुढं दोष इत्युच्यते। कोऽयं प्ररोह इत्यत आह-यथावभासनमित्यादि। यच्छ्रवणसमनन्तरं यथावदवभातं तत्तथैव चेत्प्रतीतिःविश्रान्त्यन्तं निर्बाधम् अवतिष्ठेत स प्ररोह इत्यर्थः। यथोद्देशं पौनरुक्त्यमधिकृत्य सूत्रम्-आमुखाव भासनं पुनरुक्तवदाभासम्। आमुखम् आरम्भः । पर्यवसानान्यथात्व इत्यनेन हेयात् वैधम्र्यं दर्शितम्। ननु लक्ष्यपदे पुनरुक्तवदाभास इति स्वरुपप्राधान्येन निर्देशो न्याय्यः, न तु पुनरुक्तवदाभासमिति काव्यपरतन्त्रतया इत्यत आह-लक्ष्यनिर्देश इत्यादिना। नापुंसकः संस्कारः पुनरुक्तवदाभासो यत्रेति बहुब्रीहिसमासाश्रयणेनालङ्कार्यपारतन्त्र्यध्वननार्थः इति लौकिकालङ्कारवन्न काव्यालङ्काराणां अलङ्कार्यपृथग्भावेनाप्यवस्थानसंभवः। अपि तु नियमेन काव्यपारतन्त्र्यमेवेति। अतिगम्भीरेंऽशे वृथ#ाप्राथनभीरुतामाविश्रिकीर्षुराह-प्रभेदास्त्विति। अवान्तरभेदाः प्रभेदाः। मङ्खीये मङ्खाख्यकविकर्तृके । अहीनेति। इनस्स्वामी अहीनाम् इनो भुजङ्गानामधीशश्चेति । वलयं कङ्कणाञ्चेति आमुखे पौनरुक्त्या वभासनं, पर्यवसानेषु अहीनस्य महतो भुजङ्गाधीशस्य वपुर्वलयं कङ्कणमस्येत्यन्यथात्वम्। इत्थं शिलादेरपत्यं शैलादिः शैलादेः नन्दिन इव चरितमस्येति,शैलादिं नन्दयति चरितमस्य#ेति च । तया क्षतः कन्दर्पो दर्पश्चेति,क्षतः कन्दर्पदर्पो येनेति च। तथा वृषः पुंरुपो गौश्चेति, वृषश्श्रेष्ठ इति च । तथा शिखी पावकश्च लोचने यस्येति च शिखिपावकलोचन इति च। तथा सर्वमङ्गलासहितः पार्वतीश इति च सर्वैर्मङ्गलैस्महितश्तेति पौनरुक्त्यं चामुखाभासनं,पर्यवसानान्यथात्वं च अनुसन्धेयम्। अथ व्यस्ततया समासान्तरायश्रयतया च दर्शियितुमुदाहरणान्तरं-दारुण इति। पौनरुक्त्यापेक्षया दारुणा इति पञ्चम्यन्तम्। पर्यवसाने तु प्रथमान्तम्। इत्थं भस्म च भूतिश्चेति भस्मवनोऽभिवृद्दिरिति च । तथा रक्तं च शोणां चेति च रुधिरवच्छ्रेणमिति चावगन्तव्यम्ष। इत्थं स#ुबन्तापेक्षया द्विधोदाहृतम्। अथ तिङन्तापोक्षया-भुजंगेति। कुण्डड्डत्ध्;ली सर्पो भुजंगश्च कुण्डड्डत्ध्;ली चेति भुजंगकुण्डड्डत्ध्;लवानिति च । शशी शुभ्राशुः,शीतगुश्चेति। शं शिवः शुभ्रैः अंशुभिः शीतं चक्षुरिन्द्रियमिति च। हरश्शिव इति चेतो हर इति च योजनीयम्। शशिशुभ्रांशुशीत गुरिति त्रुषु पौनरुक्त्यं दर्शितम्। प#ायादव्याच्चेति तु तिङन्तापेक्षया इत इत्यपायविशेषणत्वेन पर्यवसाने पञ्चम्यन्ततया पायादव्यादित्यन्यथात्वम् । पुनरुक्तवदाभासो यत्रेत्येवं हि संस्क्रिया । अलङ्कार्यैकनिध्नत्वव्यक्त्ये समुपाश्रिता ।। अथ शब्दपौनरुक्त्यप्रस्तावाय सूत्रम्-शब्दपौनरुक्त्यं व्यञ्जनमात्रपौनरुक्त्यं स्वरव्यञ्जनसमुदायपौनरुक्त्यं च। अत्राद्यं पदमुद्देश्यं चरमं तु द्वयं विधेयम्। शब्दपौनरुक्तयं व्यञ्जनमात्रनिष्टतया,स्वरव्यञ्जनसमुदायनिष्ठतया च द्विप्रकारमित्यर्थः। ननु केवलस्वरपौनरुक्त्यस्य किं वृत्तमित्यत आह-अलङ्कारप्रस्ताव इत्यादि। अलङ्कारो हि विच्छ्रित्तिः, तत्प्रस्तावे केवलस्वरपौनरुक्त्यम चारुत्वात् न गणनामर्हतीति भावः । तत्र व्यञ्जनमात्रमधिकृत्य सूत्रम्-सङ्ख्यानियमे पूर्वं छेकानुप्रासः। कोऽयं सङ्ख्यानियम इत्यत आह-द्वयोव्र्यञ्जनेत्यादि। युग्मशोऽवस्थितानां व्यञ्जनसमुदायानां परस्परमनेकधासादृश्यम् इह सङ्ख्यानियमः । किन्नामेति। दर्दुरो भेकः । कायं निपीडड्डत्ध्;्य वपुरायास्य । सितच्छ्रदाः हंसाः ।अत्र दर्दुरदुरध्यवसाय इत्यादौ सङ्ख्यानियमः । ननु सायं कायमित्यत्र कोऽलङ्कार इत्यत आह-अत्र सायं शब्देत्यादि। यकारमात्रसादृश्यापेक्षया हि साय सायेतिच्छ्रेकानुप्रासः। सायं कायमिति तुसानुस्वार यकारमात्रापेक्षया वृत्त्यनुप्रासः। इत्थं च सति सायं शब्दे द्वयोरेकाभिधानलक्षणास्सङ्करः अभिधत्त इत्यभिधानं वाचक शब्दः एकवाचकानुप्रवेशलक्षणा इत्यर्थः। लक्ष्यपदं निर्विवक्षुराह-छ्रेका विदग्धाः इति। छेकोपलालितत्वाच्छेकानुप्रास इत्यर्थः । अथानुप्रासान्तराय सूत्रम्-अन्यथा तु वृत्त्यनुप्रासः। अनयथात्वं त्रिधा संभवतीत्याह-केवलव्यञ्जनेत्यादि। केवलव्यञ्जनसादृश्यं समुदायत्वाभावादन्यथात्वम्। एकधा समुदायसादृश्यं त्वनेकधात्वविरहात्। त्र्यादीनां पुनस्समुदायानां द्वयातिरिक्तत्वादन्यथात्वम् अनुसन्धेयम्। लक्ष्यपदं निर्वक्ति-वृत्तिस्त्विति। श्रृङ्गारादिरसविषयो योऽयं प्रतिनियमभाजां वर्णानां व्यञ्जनव्यापारः स वृत्तिरुच्यते। सोऽयं वर्णव्यापारोऽस्मिन् वर्णारचनात्मके कविव्यापारेऽस्तीत्युपचारेण वर्णरचनावृत्तिरित्याह-तद्वती पुनरित्यादि। तस्यास्त्रैविध्य#ं दर्शयति - सा च परुषेत्यादि। श्रुतिप्रतिकूलता वर्णानां परुषत्वम्। या परुषवर्णारब्धा सा गौडड्डत्ध्;ीयी रीतिः। या तु कोमलवर्णारब्धा सावैदर्भी। मध्यमवर्णारब्धा तु पाञ्चाली। एता रीतयो वामनादिभिः काव्यात्मत्वेन सिद्धि#ान्तिताः । उपपत्तिपर्यालोचनायां तु काव्यात्मकथा त#ावदास्ताम्। यावता शब्दालङ्कारेष्वपि यो बहिरङ्गो वृत्त्यनुप्रासात्मा वर्णालङ्कारः तद्धर्मत्वात् तच्छ्रेषभूता एता इत्यलमप्रासङ्गिकवैदद्ध्य प्रवचनेन । सह्या इति। विषद्रवमुच इति। किरणापेक्षया दुस्सहत्वम्। वाय्वपेक्षया तु गरलकल्पजलकणायोगः। सरला अनरालपातिन्यः। सितासितरुचेः उत्तरलतारकत्वात् अनवस्थितवर्णसन्निवेशाः साचीकृताः अपाङ्गान्निर्गन्तुम् इवेहमानास्सालसा रसानुशयं निवर्तमानाः । यदुक्तं भावप्रकाशे-"आलस्यं तदभीष्टार्थात् व्रीडड्डत्ध्;ादेर्यन्निवर्तनम्" इति। साकूता भवतु पश्याम इतीव व्याहरन्त्यः सरसाः । रसो रागे विषे वीर्ये तिक्तादौ पारदे द्रवे । रोषारुणिम्ना विषयं विंलिंपन्त्यः मानानुविद्वाः दृष्टश्रुताद्यपराधजन्मा रोषोमानस्तेन सम्मूÐच्छताः ज्वलत्कल्पा इत्यर्थः। अत्र केवलव्यञ्जनपौनरुक्त्यलक्षणामन्यथात्वम्। वृत्तिस्तु रोषवर्णनात्परुषा । आटोपेनेति। यद्यपि कवेर्वाणी प्रबलेन शब्दाडड्डत्ध्;म्बरेण खेलन्ती प्रारम्भे प्रथते,तथापि सतां मानोरञ्जनं न कुरुते अमन्दैः सुन्दरैश्च गुणालङ्कारैः मुखरीकृतः सनिष्पन्दं विलसद्रसायन रसा सारानुसारी श्रृङ्गारादिको रसो यावन्न स्यादित्यत्र केवलवर्णा साम्यञ्चतुष्र्वपि प#ादेष्वलङ्कारः। भ्फङ्कारितेत्यादावेकधा समुदायसादृश्यं रसायन रसेत्यत्र तु रसेति समुदायत्रयस्य परस्परसादृश्यमित्यनुसन्धेयम्। तथा च "आटोपे" त्यादौ गौडड्डत्ध्;ीया "अमन्दसुन्दरे" त्यादौ वैदर्भी,"गुणालङ्कारे"त्यादौ पाञ्चालीया च तत्तदर्थानुसारेण द्रष्टव्या। प्रकृष्टो वर्णविन्यासो रसाद्यनुगतो हि यः । सोऽनुप्रासस्स च छेक वृत्त्यु पाधिव शाद्रूद्विधा ।। समुदायद्वयं यत्र विविधं साम्यमृच्छति । सच्छेकलालनात्प्रौढैः छ्रेकानुप्रास ईरितः ।। व्यञ्जनव्यापृतिर्वृत्तिः वर्णानां रसगोचरा । तत्संयोगदियं वर्णरचना वृत्तिरिष्यते ।। सा वैदभ्र्यादिभेदेन त्रिधा पूर्वैर्निरुपिता । तयोपलक्षितत्त्वात्तु वृत्त्यनुप्रास इष्यते ।। इत्थं वर्णालङ्कारो द्विधा दर्शितः ।। अथ शब्दालङ्कारप्रस्तावः। तत्र यमकलक्षणाय सूत्रम्। स्वरव्यञ्जनसमुदायपौनरुक्त्यं यमकम्।। स्वरव्यञ्जनात्मकस्य शब्दसमुदायस्य यत्तेनैव रुपेण पुनर्वचनं तद्यमनाद्यमकम्। तस्य पादावृत्त्यर्धावृत्तादयो भेदाश्चिरन्तनैरेव बहुधा प्रपञ्चिताः। ते काव्यगडुड्डत्ध्;भूता इति नेहप्रतन्यन्ते। किन्तु सर्वेषामेवैषां भेदानामेतद्वैचित्र्यत्रयम् आवहतीति अभिप्रायेणाह-अत्र कचिद्भिन्नार्थेत्यादि। यम्यमानयोः समुदाययोद्र्वयोरपि कचिद्भिन्नार्थता,क्वचिदनर्थकतका,क्वचिदेकसस्यार्थ वत्त्वमपरस्य अनर्थकत्वमिति क्रोडड्डत्ध्;ीकृतसकलविशेषमेतद्भेदत्रयम्। यो य इति। रुचिरे रम्ये वनजायते पद्मदलवत् दीर्घे तस्याः नेत्रे यो यः पश्ययति,तस्य तस्यान्यनेत्रेषु अभिरतिरेव न जायते। इदं द्वयोस्सार्थकत्वे अनर्थकत्वे द्वैरुप्ये यथा- त्वं रावण! जगत्पुण्यैर्लङअकालङ्कारभूरभूः । वाल्मीकेर्येन ववृधे सारस्सारस्वतस्स्वतः ।। अत्र "रभूरभूरि" ति अनर्थकता। "लङ्कालङ्कारे"त्यादौद्वैरुप्यम्। इत्थमर्थपौनरुक्त्ये पुनरुक्तवदाभासं शब्दपौनरुक्त्ये तु अनुप्रासयमकालङ्कारौ च विवेचितौ। अयोभयपौनरुक्त्ये हेयांशं विभक्तुं सूत्रम्। शब्दार्थपौनरुक्त्यं प्ररुढं दोषः । प्ररुढग्रहणस्य प्रयोजनमाह-प्ररुढग्रहणमित्यादि।। अप्ररुढपौनरुक्त्यं वक्ष्यमाणो भेदः। तस्य प्ररुढाद्वैलक्षण्यमदोषात्मककत्वम्। तदेवादोषात्मकत्वमभियुक्तसंवादेन द्रढयति-यदाहुरित्यादि। शब्दस्यार्थस्य च पुनर्वचनमनुवादादतिरिक्ते विषये दोषः इत्यर्थः। अथोपादेयांशमधिकृत्य सूत्रम्। तात्पर्यभेदवत्तु लाटानुप्रासः। यत्र पौनरुक्त्ये शब्दार्थौ तावेव, तात्पर्यमात्रं त्वन्यत्। सोऽयं लाटोपलालनात् लाटानुप्रासः।तस्मादसार्वजनीनत्वात् ग्राम्यानुप्रास इति केचित्। ताला जाग्रन्तीति। तदा जायन्ते गुणाः यदा ते सहृदयैर्गृह्यन्ते । रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ।। अत्र द्वितीययोर्गुण कमलशब्दयोः श्लाघाद्या श्रयत्वं तात्पर्यभेदः । ननु यत्र प्रकृतिमत्रं तदर्थश्च पुनरुच्यते,न प्रत्ययतदर्थौ,अत्र कोऽलङ्कार इत्यत आह-अत्राब्ज पत्रेत्यादि। विभक्त्यादेरिति। आद्योहि नयनशब्दो बहुव्रीहिवर्तित्वात् अन्यपदार्थलिङ्ग वचनविभक्तिकः। द्वितीयस्तु स्वलिङ्गवचनविभक्तिकः। अतो नेह विभक्त्यादेः पुनरुक्त#ि#ः। नापि लाटानुप्रासत्वहानिः। कुत इत्यत आह-बहुतरशब्दार्थपौनरुक्त्यादिति। इत्थं च सति पदनुबन्धनतया प्रातिपदिक मात्रनिबन्धनतया च लाटानुप्रासो द्विधा मन्तव्यः । अनन्वयाद्विशेषमस्य दर्शयति-काशाः काशा इवेत्यादि। अनन्वये ह्येकस्यैवोपमानोपमेयत्वम्। तत्र यद्यपि अर्थपौनरुक्त्यं लक्षणम्,अथापि शब्दपौनरुक्त्यं दोषभयादङ्गीक्रियत एव। "यथोद्देशस्तथैव प्रतिनिर्देश" इति न्यायोल्लङ्घने पर्यायप्रक्रमभेददोषप्रसङ्गात्। लाटानुप्र#ासे तु शब्दपौनरुक्त्यमपि लक्षणमिति विशेषः। तदेतदाह-अन्योन्यापेक्षेत्यादि। परस्परव्यपेक्षिणोः शब्दार्थयोः पौनरुक्त्यं लाटानुप्रासः। अनन्वये त्वर्थमात्रपौनरुक्त्यमित्यर्थः। अत्रार्थे सङ्ग्रहश्लोकः - अनन्वये तु इत्यादि। औचित्यादुद्देशप्रतिनिर्देशयोः ऐकरुप्यसमाश्रयणलक्षणात्।। यत्र तावेव शब्दार्थौ तात्पर्यं तु विभिद्यते । तत्पौनरुक्त्यमाचार्यैर्लाटानुप्रास इष्यते ।। दोषापत्तिभयादेव शब्दैक्यं स्यादनन्वये । अÏस्मस्तु लाटानुप्रासे साक्षादेव हि लक्षणम् ।। अथ पौनरुक्त्यनिबन्धनानामलङ्काराणां नियमनाय सूत्रम्। तदेवं पौनरुक्त्ये पञ्चालङ्काराः । यथैवं पौनरुक्त्यं व्यपाश्रित्य वर्गशोऽवतिष्ठन्ते। तथोपमादयोऽपि साधम्र्या#ादिव्यपाश्रयेण वर्गशोऽवस्थायिन इत्यव बोधितं मन्तव्यम्। तदिदं न्यायविदामवगतमेवेत्यभिप्रायेणाह-निगदव्याख्यातमिति। निगदशब्दोच्चारणं तन्मात्रेण प्रतीतार्थत्वात् व्यख्यातकल्पमित्यर्थः । अथ चित्रार्थं सूत्रम्। वर्णानां खङ्गाद्याकृतिहेतुत्वे चित्रम्।। सङ्गतिमाह-पौनरुक्त्य - प्रस्ताव इत्यादि। स्थानविशेषेषु खङ्गाद्यवयवविशेषेषु विन्यासक्रमेणश्लिष्टानां वर्णानां यत्पाठे पौनरुक्त्यं तदात्मकस्य खङ्गबन्धादिचित्रस्य कथनं पौनरुक्त्यप्रस्तावे सङ्गच्छ्रत इत्यर्थः। ननु कथमयं शब्दालङ्कारः? लिपिसन्निविष्टानांवर्णानां वाचकत्वाभावात् इत्यत आह-यद्यपीत्यदि। खङ्गादिसन्निवेशो हि लिप्यक्षराणाम् एव न श्रोत्राकाश समवायिनाम्ष। वाचकत्वं तु श्रोत्राकाशसमवायिनामेव न पुनर्लिपि सन्निवेशिनाम्। इत्थं च सति खङ्गादिबन्धगतानां यद्यपि वाचकशब्दालङ्कारता नोपपद्यते,तथापि लौकिकानां लिप्यक्षरेशष्वपि वाचकत्वप्रतीतेवचिकशब्दालङ्कारत्वमुपचर्यत इति भावः। अतः स्थूलबुद्धिलालनीयत्वात् वाचकशब्दबहिर्भावाच्च नात्र कविभिरादरः कार्य इति मन्तव्यम्। आदिशब्दार्थमाह-आदिग्रहणादित्यादि। यथाव्य#ुत्पत्तिसंभवं,यथा शब्दः प्रत्येकमभिसंबध्नाति। अतो यथाव्युत्पत्ति यथासंभवं च पद्ममुरज गोमूत्रिकादिबन्धानां परिग्रहोऽभ्यनुज्ञायत इति शेषः । भासत इति । प्रतिभया सारभूत सभा ते भासते। बतेत्याश्चर्ये। रसाभाताश्रृङ्गारादिना समन्तादुपशोभिता । हताविभा निर्णाशितव्यामोहा। भावितात्मातत्संस्कारैः आत्मानं भावितवती। शुभा वादे तत्त्वबुभुत्सा(सया?) तु (वा?) विजिगीषया वा वादमात्रे विदग्धा। अत एव देवाभासुधर#्मासदृशीत्यर्थः। अत्रोद्धारप्रकारमुपदिदिक्षु - एषोऽष्टदल इत्यादि। दलानि दिक्षु चत्वारि चत्वारि च विगिक्षु, प्रथमाक्षरं कर्णिकायाम्। अथ दलेषु द्वयं द्वयमक्षराणां प्राग्दलात् प्रादक्षिण्येन पाठः। दिग्दलेषु प्रवेशनिर्गमौ। अत्रायं निष्कर्षः- कर्णिकायां लिखेदेकं द्वौ दिक्षु विविक्षु च । प्रवेशनिर्गमौदिक्षु पद्मबन्धो भवेदयम् ।। आरोप्यलिपिवर्णानां साम्याद्वाचकवर्णताम् । खङ्गबन्धादिकं चित्रं काव्यालङ्कार इष्यते ।। इति ।। इति श्रीविद्याचक्रवर्तिकृतौ अलंकारसर्वस्वसञ्जीवन्यां शब्दालङ्कारप्रकरणम् ।। ।। अर्थार्थालङ्काराः ।। तत्र सादृश्यविच्छ्रत्तिविशेषैः नानालङ्कारबीजभूतामुपमामादौ लक्षयितुं सूत्रम्। उपमानोपययोस्साधम्र्येभेदाभेदतुल्यत्वे उपमा। उपमीयते साधम्र्यं नयतीत्युपमानम् अप्राकरणिकोऽर्थः तच्च नियमेन अधिकगुणमेव भवति गुणाधावृत्वात्। उपमीयते साधम्र्यं नीयते इत्युपमेयं प्राकरणिकोऽर्थः तच्च नियमेनाधेयगुणत्वात् न्यूनगुणामेवं भवति।तयोर्यस्तुलित भदाभेदांशः समानधर्माभिसम्बन्धः , स उपमालङ्कार इति सूत्रार्थः। तदेतद् व्याचिख्यासुः प्रकरणाविभागायाह-अर्थालङ्कारेति । ननु साधम्र्यं नामैतदुपमानोपमेययोरेव भवति। न कार्यकारणादिकयोः । इत्थमपर्यवसानसिद्धयोरनयोः किं शब्दोपादानेनेत्यत आह-उपमानोपमेययोरितीत्यादि। सुद्धे सत्यारम्भोऽयं, प्रसिद्धयोरेवोपमानोपमेययोरलंकारत्वमिति नियमाय। अतो मेरुसर्षपादौ विवक्षया परिकल्पयितुं शक्यो।#़पि उपमानोपमेयभावो नालङ्कारविषयः। अप्रतीतत्वादित्यनुसन्धेयम्। भेदाभेदेत्यस्य व्यावत्र्य दर्शयितुं साधम्र्यं प्रकारान्विविनक्ति साधम्र्ये यत्र इत्यादि। व्यकिरेकवदिति। "तत्र तस्येवेति"वतिः। व्यतिरेकालङ्कारे यथेत्यर्थः। यथास्यामिति । उदाहरिष्यत इति शेषः । भेगाभेदतुल्यत्व एवोपमा स्यादिति यदुक्तं तत्प्रामाणिकसंवादेन द्रढयितुमाह-यदाहुरित्यादि। भाष्यकृदादय इति शेषः । सामान्यं साधम्र्यम्। विशेषोवैधम्र्यम्। सदृशतायाः उपमाया; साधम्र्यवैधम्र्ययोः तुलया वृत्तावुपमा स्यादिति यावत्। यदेतदस्या उद्देशे प्राथम्यं तत्र प्रयोजनं दर्शयति-उपमैव चेति। प्रकारवैचित्र्येणेति। तथाहि-मुखं चन्द्र इवेत्युपमा। मुखं मुखमिवेत्यनन्वयः। मुखं चन्द्र इव सतदिवेत्युपमेयोपमा। दृष्ट्वा मुखं चन्द्रमनुस्मरामीति स्मरणम्। मुखमेव चन्द्र इति रुपकम्। मुखचन्द्रेण तापः शाम्यतीति परिणामः। किं चन्द्र आहोस्विन्मुखम् इति सन्देहः। मुखं चन्द्र इतिचकोरा नन्दन्तीति भ्रान्तिमान्। चन्द्र एव न मुखम् इति अपढद्धठ्ठड़14;नुतः। नूनं चन्द्र इवेत्युत्प्रेक्षा। चन्द्रं पश्येत्यतिशयोक्तिः । अस्यां प्रावृषि मुखं चन्द्रबिम्बञ्च विच्छ्रायमित्येका तुल्ययोगिता। शरदि रम्यमितित्वन्य#ा। इदं च तच्च रम्यमिति दीपकम्। मुखमेव रम्यं चन्द्र एव हृद्य इति प्रतिवस्तूपमा। भुविमुखं दिवि चन्द्र इति दृष्टान्तः। मुखदूषणं चन्द्रमसो मलिनीकरणमिति निदर्शना। चन्द्रादधिकं मुखं,मुखादधिकश्चन्द्र इति व्यतिकेकः। चन्द्रेण सह मुखमिति सहोक्तिः। न मुखेन विना चन्द्र स्समीचीना इतिविनीक्तिः। कलाभिरामं मुखमिति समासोक्तिः। कलाभिरामौ मुखचन्द्राविति श्लेषः। नमस्ते चन्द्र प्रसन्नोऽसि इत्यप्रस्तुतप्रशंसा। मुखे रोषो न दोषाय नहीन्दो र्निन्दायै कलङ्करेखेत्यर्थान्तन्यासः। इत्थं स्वप्रकारवैचित्र्येण सादृश्यविच्छ्रित्तिविशेष#ात्मना यतो नानालङ्कारनिदानभूता,अतोऽर्थालङ्कारेषु प्रथमं निर्दिष्टेति यावत् । स्थूलप्रभेदप्रथनभीरुता माविश्चिकीर्षुराह-अस्याश्च पूर्णेत्यादि। पूर्णालुत्पात्वेत्यत्र भाषितपुंस्कत्वाभावात् न पुंवद्भावः। संज्ञे हि खलूपमाया एते पूर्णालुत्पाचेति। तत्रोपमानोपमेयसाधारणधर्म उपमाप्रतिपादकानां चतुर्णामपि शब्दो पादानेपूर्णा। एकस्य द्वयोस्त्रयाणां वा लोपे लुत्पा। अनयोर्भेदप्रभेदवैचित्र्यसहस्त्रमस्माभिः संप्रदायप्रकाशिन्यां काव्यप्रकाशबृहट्टीकायां वितत्य दर्शितम्। लघुटौकायां च यथोपयोगमिति ततोऽवधार्यम्। अयं पुनराचार्यः सर्वस्यैवोपमाप्रपञ्चस्य अन्यैः अनुपपादितचर वैचित्र्यत्रयमुपपादयिषुराह-तत्रापि साधारणाधर्मस्येत्यादि। अनुगामितया उभयाभिसंबन्धार्हतया । मुखं चन्द्र इव हृद्यमित्येकेनैव रुपेण हृद्य त्वादेस्साधारणधर्मस्य निर्देशः क्रियते इत्येकं वैचित्र्यम्। अथ वस्तुप्रतिवस्तुभावेन पृथङ्निर्देश इति द्वितीयम्। एकोऽर्थो वस्तुत्वेनोपमेयगतः प्रतिवस#्तुत्वेन निर्दिश्यत इति यावत्। यदैवं पृथङ्निर्देशः,तदावान्तरभेदोऽस्तीत्याह-पृथङ्निर्देशेचेत्यादिना। सम्बन्धिभेदमात्रमिति। "वलितकन्धरमाननमावृत्तवृन्तशतपत्रनिभम्" इत्यादौ हि येन सह संबध्नाति साधारणो धर्मः स सम्बन्धी,केवलं भिन्नः एकत्र कन्धरा अपरत्र वृन्तं तद्भेदोपाधिना स्वयमभिन्नोऽपि अभेदोधर्मोभेदेन निर्दिष्टः। इदमेकं वैचित्र्यम्। प्रतिवस्तूपावदिति। यथा प्रतिवस्तूपमायाम्। अभिन्न धर्मस्य भेदेन निर्देशे न्यायोयस्स इहापि संभवतीति यावत्। यदा प्रतिवस्तूपमायाम्। अभिन्नधर्मस्य भेदेन निर्देशे न्यायोयस्स इहापि स#ंभवतीति यावत्। यदा पुनरंसार्पित हारोऽयं सनिर्झरोद्गार इवेत्यादौ साधम्र्यं धर्मिद्वारकं,तदा द्वयोरैकात्म्यभावात् न वस्तुप्रतिवस्तुभावः। अपि तु बिम्बप्रतिबिम्बभावनय इत्याह-बिम्बप्रतिबिम्बभावो वेति। प्रतिबिम्बं प्रतिमा। हारनिर्झरादौ हि बिम्बप्रतिबिम्बनयेनसाधम्र्यावगतिः । अत्र नये दृष्टान्तालङ्कारं दृष्टान्तयति-दृष्टान्तवदिति। अत्रैतदाकूतम्। या यावती संभवत्युपमापूर्णा लुत्पा च सप्रभेदप्रपञ्चा सा सर्वैवास्मदुपदर्शितेन वैचित्र्यत्रयेण त्रिधा प्रथत इति। प्रभामहत्येति। प्रभापेक्षया महतीति कथनात् स्वापेक्षया तन्वीति विवक्ष्यते। तदेतत्प्रभामहत्त्वं दीपशिखापेक्षया देव्याः साधारणो धर्मः। उभे हि खलु एते स्वापेक्षया तनीयस्यौ प्रभापेक्षया तु महत्यौ। एवं संस्कारवत्त्वं वागपेक्षया। तत्र वाचिसंस्कारो व्याकृतिः,द#ेव्यां तु निसर्गसिद्धदिव्यानुभाववासनानुवृत्तिः। त्रिमार्गयेत्यत्र तु साधारणधर्मः प्रतीयमानः। न चात्र प्रक्रमभेदः शङ्क्यः। जगत्पावनत्वादेस्साधारणधर्मस्य उभयत्रापि सुप्रसिद्धतमस्य शब्दोपादाननिरपेक्षत्वात्। इत्थं च सत्यनुपात्तस्यापि साधारणधर्मस्यानु गामितयैकरुप्येण निर्देश उदाहृतो मन्तव्यः। यद्वा त्रिमार्गयेत्येतदेव तन्त्रेण न्यायेन देवीविशेषणतयापि सङ्गच्छ्रते। तथाहि-त्रिवृत्करणादिवैदिकप्रक्रियानुसारेण वा, त्रैपुरादितान्त्रिकप्रक्रियानुसारेण वा देव्यास्त्रिमार्गत्वं प्रसिद्धमेव। हिमगिरेस्तु दीपत्रिदिवमार्गमनीषिभिस्सह साधारणो धर्मः पूतत्वम्। विभूषितत्वं या आद्यन्तवाक्यापेक्षया पूर्णोपमा । मध्यमवाक्यापेक्षया लुत्पसाधारणधर्मा। तत्रापि सा पूर्णैव वा। सा च मालारुपेणावस्थानान्मालोपमेत्यादि वैचित्र्यमनुसन्धेयम्। अथ वस्तुप्रतिवस्तुभावेनोदाहरति-यान्त्येति। मालतीविलाससाक्षात्कारोत्क्षुभितमन्मथस्य माधवस्येयमुक्तिः। यान्त्या उपवनात्पुरं प्रति करेणुकया गच्छन्त्यासहचरीसँल्लापादिव्यपदेशेन वारंवारमपवृत्तशिरोधरा,अत एव आवृत्तवृन्तस्य कलहंसकर्णकण्डूड्डत्ध्;यनादिना विवलितबन्धनस्य क#ुशेशयस्य सदृश्यम् आननम् वहन्त्याः कटाक्षो मे हृदये निखातः। अपाङ्गे निक्षित्पा चक्षुःप्रभा स कटाक्षः, सः कीलित इव। केन प्रकारेण? गाढं परिचाल्याऽपि उत्कीलयितुं न शक्यते,यथा तथेति यावत्। कीट्टक्कटाक्षः? अमृतेन दिग्धः लित्पः,यतस्तदा जीवातुरभूत्। विषेण च दिग#्धः यतस्संप्रति दहति। अत्रैक एव धर्मस्सम्बन्धिभेदेन वलितावृत्तशब्दाभ्यां वस्तुप्रतिवस्तुभावेन निर्दिष्टः । वस्तुप्रतिवस्तुभावोऽयं धर्मापेक्ष एव। बिम्बप्रतिबिम्बभावस्तु धम्र्यपेक्ष इति व्यवस्थार्थमाह-धम्र्यंभिप्रायेणेत्यादि। पाण्डड्डत्ध्;्योऽयमिति। हारनिर्झरादीनां धर्मित्वाद्विम्बप्रतिबिम्बभावः । भेदाभेदतुलावृत्तौ साधम्र्यमुपमोच्यते । धर्मविच्छित्तिवशतः त्रैविध्यमुपयाति सा ।। अनन्वयं सूत्रयति-एकस्यैवोपमानोपमेयत्वे अनन्वयः। ननु उपमेयत्वमुपमानत्वं च कथमेकत्रैव सङ्गच्छ्त इत्याह-वाच्याभिप्रायेणोत्यादि। पूर्वं रुपमुपमेयत्वं तदनुगमो वाच्याभिप्रायेण यत्पुनरपूर्वं रुपमुपमानत्वं तदनुगमो व्यङ्ग्याभिप्रायेणेति यावत्। नन्वेकत्र विरुद्धधर्मोपनिबन्धलभ्यः कोऽर्थ इत्यत आह-एकस्य तु विरुद्धेत्यादि। सब्रह्मचारी सदृशः। एकस्यैवोपमानोपमेतत्वक्लृत्पिः सदृशान्तरसम्बन्धनिवृत्त्यर्थमित्यर्थः। यत इत्थं सदृशान्तरस्यानन्वयः अतस्संज्ञेयमन्वर्थेत्याह-अत एवानन्वय इत्यादि। योगः प्रवृत्तिनिमित्तम्। अपि शब्देन सदृशान्तरनिवृत्तिस्समुञ्चीयते। यद्धेऽर्जुन इति। उत्प्रासनमभिप्रायपरिज्ञानम्। अत्र प्रथमार्जुनभीमशब्दौ वाच्यपरौ,चरमौ तु व्यङ्ग्यपरौ । विरुद्धधर्मसंसर्गस्तुल्यान्तरनिवृत्तये । अतस्तदन्वयाभावात् भवेदयमनन्वयः ।। अथ तृतीयसब्रह्मचारिनिवृत्तिफलीमुपमेयोपमां सूत्रयति-द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा। द्वयोरुपमानोपमेयभावविनिमये सत्युपमेयोपमालङ्कार इत्यर्थः। तदेतद्व्याचष्टे-तच्छब्देनेत्यादि। तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्श इति वदता सन्निहितानन्वयप्रत्यवमर्शशङ्का निवार्यते। अनन्वयाद्वैधम्र्यान्तरं दर्शयितुमाह-पर्याय इत्यादि। यौगपद्यमिहैकवाक्यानुप्रवेशः। तदभावाद्भिन्नवाक्यत्वमेवेत्याह-अतएवत्विति। अत्रायमाशयः। उपमेयमुद्देश्यम्,उपमानं तु विधेयम्। इत्थं च सत्युपमानोपमेयभावव्यत्ययो वाक्यैकवाक्यतामन्तरेण न संभवति। अनन्वये तु पदैकवाक्यतैवेति। अत्र बिम्बप्रतिबिम्बभावो न संभवति। भिन्नवाक्यत्वेन तन्निबन्धनवैचित्र्यप्रतीतेः। साधम्र्यनिबन्धनमन्यत्। वैचित्र#्यद्वयं संभवतीत्याह-इयं तु धर्मस्येत्यादि। साधारण्यमैक्यरुप्येण निर्देशः। वस्तुप्रतिवस्तुभावस्तु प्रतीतचरः। खमिवेति। अत्र प्रतीयमानस्य नैर्मल्यधर्मस्यानुगामित्वेन साधारण्यम्। सच्छ्रायेति। छ्राया,शोभा अत्र सच्छायत्वं सम्बन्धिभेदाद्भिन्नम्। उपमानोपमेयत्वव्यत्ययो न क्रमं विना । उपमेयोपमा तेन वाक्यभेदैकगोचरा ।। अथ स्मरणं सूत्रयति-सदृशानुभावाद्वस्त्वन्तरस्मृतिस्स्मरणम्। सदृशानुभवात् सदृशान्तरस्मरणं स्म्रणालङ्कारः। व्याचष्टे-वस्त्वन्तरमिति। सदृशं समभिव्याहाराद्वस्त्वन्तरसदृशमेवेति भावः । द्विष्ठस्य धर्मस्य एकत्र स्थास्नोः प्रतियोग्यपेक्षामन्तरेण अनुपरमादनुमानवैम्र्यायाह-अवनाभावेत्यादि। अविनाभावो व्यात्पिः। नहि गवादिदर्शने नियमेन गवयादिसदृशान्तरस्मरणमस्ति। तादात्म्यवदुत्पत्त्योरन्यतराभावेनालिङ्गत्वात्। अतिशयितेति। इयं योद्धुकामं लवमालोक्य सकौतुकस्य सूतस्य चन्द्रकेतुं प्रत्युक्तिः। तदैव तुल्यरुपमिति सदृशानुभावोद्गघाटनम्। असादृश्यहेतुका स्मृतिर्नस्मरणालङ्कार इत्याह-सादृश्यं विना त्विति। प्रत्युदाहरति-अत्रानुगोदमिति। अत्र हि पूर्वानुभूतार्थदर्शनादेव स्मृतिः न तु सदृशानुभवात्। प्रसङ्गात् गूढमभवन्मतयोगदोषमुद्घाटयति-अत्र च कर्तृविशेषणानामित्यादि। मृगयादशाभाविकर्तृविशेषणानां स्मरामीति स्मरणक्रियाकर्तृर्दाशरथेर्विशेषणानां मृगयनिवृत्त्यादीनां स्मर्तव्यदशाभावित्वेऽनुभूतचरत्वात्। स्मर्तव्यमृगयादशभावित्वे युक्ते स्मर्तृदशाभावित्वं मृगयानिवृतिं्तस्मरामीति स्मरणकालभावित्वमसमीचीनम्। नहि मृगयानिवृत्त्यपनीतखेदत्वादिविशिष्टस्मृतिः। किन्तु मृगयानिवृत्त्यादिकं स्मर्तव्यसुत्पिविशेषणमत इष्टार्थोऽपि न भवतीत्यभवन्मतयोगाख्योऽयं दोषः । ननु यदि प्रेयोऽलङ्कारो रतिभावात्मकः, न तदा स्मृतिः। यदा तु व्यभिचारिभावात्मकस्तदा स्मृतिरुपोऽपि कदाचित्संभवति। ततोऽस्य स्मरणालङ्कारस्य किं वैधम्र्यमित्यत आह-प्रेयोऽसङ्कारास्य त्वित्यादि। उदाहृत्य दर्शयति-अहो कोपेऽपि कान्तं मुखमित्यादि। अत्राभिनिविष#्टस्य नायकस्य प्रियानुरागसंस्काराणां सस्कारान्तराभिभाव कतयाभूयोभूयस्समुद्धुध्यमानानां महिम्नैव स्मृतिः, नहि सदृशानुभावात्। वैधम्र्यान्तरमुद्धावयति-तत्रापि विभावेत्यादि। विभावानुभावादिभिः यदा स्मृतिव्र्यज्यते,तदैव हि भावालङ्कारः । यैर्दृष्टोऽसीति। प्रासप्रहारनेत्रयोरसृक्स्त्रुत्यनलज्वालयोः परपातनकालदहनयोः नायकस्मररिप्वोश्च सादृश्यं विवक्ष्यते। अत्र योऽयं सदृशवस्त्वन्तरानुभावोयैर्दृष्टोऽसीति निर्दिष्टः। नासौ स्मररिपुस्मरणजननात्स्मरणालङ्कारः किन्त्वशक्यस्मररिपुदर्शनकौतुकास्तमयरुपार्थान्तरकरणात्मा विशेषालङ्कारः। एतद्दर्शनेन तदपि सिद्धमिति प्रतीतेः। नन्वशक्यवस्त्वन्तरकरणं विशेषालङ्कारस्य लक्षणं,इह तु करणं नोपलभामह इत्यत आह-करणास्येत्यादि। कृञ्भ्वस्त्यर्थानां सर्वधात्वनुयायित्वात् क्रियायास्सामान्यात्मा करोत्यर्थः दर्शनेऽपि संभवत#ि। यदुक्तमस्माभिः प्रयोगदीपिकायाम् । "तेऽस्त्यर्था धातवोज्ञेया य उदासीनकर्तृकाः । विकुर्वाणप्रयुञ्जानकर्तृका भूकृञर्थकाः "।। इति ।। येषां कर्तारः उदासतेतेऽस्त्यर्थाः। येषां विकुर्वते ते भवत्यर्थाः। येषां तु प्रयुञ्जते ते करोत्यर्थाः। अतोदृशिः प्रयुञ्जानकर्तृकत्वात् करोत्यर्थ एवेति सिद्धम्। ननु स्मररिपुदर्शनकौतुकास्तमये प्रकृतनायकदर्शनं हेतुरिति काव्यलिङ्गं किं न स्यादित्यत आह-मतान्तर इत्यादि। अस्मद्दर्शने विशेषालङ्कारः,मतान्तरे काव्यलिङ्गं,स्मरणं तु सर्वत्र न भवतीति भावः। काव्यलिङ्गत्वाभावे अशक्यकरणात्मा विच्छित्तिविशेषहेतुः । स्मृतिस्सा स्मर्यते यत्र सदृशात्सदृशान्तरम् । असादृश्यादवाच्यत्वादितः प्रेयान्विभिद्यते ।। इत्थं भेदाभेदतुल्यत्वेऽलङ्कारान्विविच्य अभेदप्राधान्यमधिचिकीर्षुराह-तदेते सादृश्येत्यादि। तत्राप्यारोपमूललङ्काराणां बीजभूतं रुपकमादौ सूत्रयति-अभेदप्राधान्य आरोप आरोपविषयानपढद्धठ्ठड़14;नवे रुपकम्। "मुखमेव चन्द्र" इत्यादौ हि साधम्र्यमभेदप्राधान्यम्। चन्द्रत्वाद्यारोपस्य यो विषयो मुखादिः तस्यानपढद्धठ्ठड़14;नवश्च रुपकालङ्कार इति सूत्रार्थः। तदेतद्व्याचष्टे-अभेदस्येत्यादि। भेदस्य वस्तुतस्सद्भाव इत्यातिशयोक्तितो वैधम्र्यदर्शितम्। अथारोप शब्दार्थं विवृण्वन् व्युदसनीयविषयविवेचनपुरस्कारेण विषयमस्य विवेचयति-आरोपोऽन्यत्रान्येति। अन्यत्र हि मुखादौ अन्यस्य चन्द्रादेरध्यवसानमारोपः। स च द्विष्ठत्वात् विषयिणा विषयेण चावष्टभ्यते। इत्थं द्वौ शब्दौ सिद्धौ। यदा चन्द्र एव न मुखमिति विषयस्यापह#्नवः तदापढद्धठ्ठड़14;नुत्यलङ्कारः। अनपढद्धठ्ठड़14;नवे तु रुपकमिति विभागः । लक्ष्यपदं निर्वक्ति-विषयिणा विषयस्य रुपवतः करणादिति। विषयी विषयं स्वेन रुपेण रुपवन्तं करोतीति रुपकमित्यर्थः । उपमातः प्रभृति साधम्र्याधिकारम् अनुस्मारयति-साधाम्र्यं त्वित्यादि। तत्रार्थे संवादायाह-उपमैवेत्यादि। तिरोभूतभेदा नत्वपढद्धठ्ठड़14;नुतभेदा। आरोपमूलस्याध्यवसायमूलेभ्य उत्प्रेक्षादिभ्यो निर्देशप्राथम्यंन्यायतोऽवस्थापयति-आरोपादभेदेनेत्यादि। प्रकृष्यते । अतिसादृश्यप्रत्यायनाद्रसस्य प्रत्यासन्नोपकारी भवतीत्यर्थः। इतिर्हेतौ । यत इत्थमभेदेनाध्यवसायः प्रकृष्यते, अतस्तन्मूलालङ्काराणां विभजनं पश्चात्करिष्यत इति शेषः। अत्रेदमनुसन्धेयम्। इह यावानलङ्कारवर्गो विवेचयिष्यते, विवेचितचरश्च, स सर्वश्चैव(तस्य सर्वस्यैव?) अत्र रसं(प्रति?)प्रत्यासन्नोपकारिता पुनरारादुपकारिता। तत्र यद्यपि प्रत्यासन्नोपकारिणां प्राधान्यं,तथापि तेषां सूक्ष्मतरत्वात् स्थूलालङ्कारपुरस्कारेण व्युत#्पादनमिति । तद्भेतानाह-इदञ्च निरवयवमित्यादि। परम्परितं परम्परायातम्। प्रथमग्रहणं प्रभेदान्तरप्रथनोपोद्घातः। निरवयवस्य द्वैविध्यं दर्शयति-आद्यमित्यादि। केवलं सहचररुपकान्तररहितं मालारुपकं नानारुपकसाहचर्यावस्थम्। सावयवस्य द्वैविध्यमाह-द्वितीयं समस्तेत्यादि। वस्तुशब्दोऽत्र पदार्थवचनः। समस्तानि निरवशेषाणि विशेषण विशेष्यात्मकानि वस्तूनि विषयो यस्य तत् समस्तवस्तुविषयम्। यत्पुनः विशेषणांशे क्वचिन्न क्रियते विशेषणांशान्तरे विशेष्ये च क्रियते तदेकदेश एव विशिष्य वर्तनादेकदेशविवर्ति। परम्परितं तु चतुर्धेत्याह-तृतीयं तु श्लिष#्टाश्लिष्टेत्यादि। श्लिष्टशब्दम् अश्लिष्टशब्दं चेति द्वैरुप्यमनुप्रपद्य प्रतिस्वं केवलं मालारुपं चेति प्रतम इत्यर्थः। भेदचर्चां निगमपति-तदेवमष्टाविति। केवलनिरवयवं,मालानिरवयवं,समस्तवस्तुविषयं सावयवम्,एकदेशविवर्ति सावयवं,श्लिष्टशब्द केवलपरम्परितं,श्लिष्टशब#्दमालापरम्परितम्, अश्लिष्टशब्दकेवलपरम्परितम्,अश्लिष्टशब्दमालापरम्परितंचेति। यदा तु विशेषणांश रुपणबलादेव विशेष्ये रुपकमर्थादवगम्यते,तदा समासोक्तिरुपकम्। यद्वा समासेनोक्तम्। एवमादिभेदाः स्थूलतया न प्रतन्यन्त इति आह-अन्येत्वित्यादि । दास इति। अस्मीत्यहमर्थे निपातः। अत्र पुलकाङ्कुराणां कण्टकत्वेन निरवयवरुपणं । तच्च रुपकान्तर-साहचर्याभावात् केवलम्। पीयूषप्रसृतिरिति। दात्रं लवित्रं,लूनिर्लवनं। विमनस्कत्वं निशि विरहेणद्विर्भावो द्विरुदयः एतन्मालानिरवयवम्। विस्तारशालिनीति। पत्रपात्रं पलाशोपरचितममत्रं,भानिताराः । भक्तम् अन्नं,धनं श्रृतम्। अत्र ग्राम्यजनोक्तौ समस्तपदार्थविषयत्वात् समस्तवस्तुविषयं सावयव#ं रुपकम्। आभातीति। क्षितिभृद्राजा स एव क्षितिभृत् शैलः । निÏस्त्रशः खङ्गः स एव तमालवनान्तलेखा । अत्र कीर्तीनां हठहृतमहिलात्वमर्थात् प्रतीयत इति एकदेश विवर्ति सावयवम्। क्षितिभृत इत्यंशे तु संकरः इत्यभिप्रायेणाह-क्षितिभृत इत्यत्रेत्यादि। किं पद्मस्येत्यादि। अत्र न हन्ति किमित्यादौ नाञा प्रथमतो हननादिनाषेधः किमिति काक्वा निराक्रियते। अतो हन्त्येवेत्याद्यर्थः सम्पद्यते। अत्र वक्त्रेन्दुरिति रुपणम् यस्येन्दुनिष्ठस्य पीयूषस्य हेतुः तदधरामृतेन सह श्लिष्टम्। इतरथा तदपीहास्तीत्युपन्यासः कथं सङ#्गच्छ्रते। अत इन्दुरुपणद्वारा भातत्वात् परंपरितं केवलं च। तदेतद्दर्शयितुमाह-अत्र वक्त्रेन्दुरुपणेत्यादि । विद्वन्मानसहंस इति। विदुषां मानसमेव मानसं तत्र हंसः , वैरिणां कमलायाः लक्ष्म्याः सङ्कोच एव कमलानामसङ्कोचः । तत्र दीत्पद्युते गभस्तिमालिन्। दुर्गाणां नदीशैलादि परिक्षेपवतामावासानां मार्गणमन्वेषणम्। तदभाव एव दुर्गायाः कात्यायिन्या मार्गणं तत्र नीललोहितः।समितः संग्रामाः ता एव समिध एधांसि तत्स्वीकारे वैश्वानरः । सत्ये प्रीतिरेव। सत्यां दाक्षायिण्याम्। अप्रीतिस्तद्विधाने। दक्षः दक्षप्रजापतिः विजये प्राग्भावोऽग्रेसरता स एव विजयादर्जुनात्प्राग्भावः पुरोजन्म तत्र भीम!वत्सरशतमित्यन्तसंयोगे द्वितीया। क्रियाः क#ुरु। अत्र विदुषां मानसेत्वं हंस इति प्रतीतौ कथमस्य हंसत्वमिति विमर्शो जातो,मानसपदे श्लेषमवगमयति। तथाऽवगमितेन श्लेषेण हंसत्वमेव व्यवतिष्ठत इति श्लिष्टशब्द परंपरितम्ष। तच्च मालारुपम्। तदिदमभिसन्धायाह-अत्र त्वमेवेत्यादि। समर्थत्वभयावहत्वलक्षणयोरर्थयोराभासनमात्रमेवेति न विरोधः। यद्वा तत्र अंशे श्लेष एवास्तु। दक्षभीमपदयोः श्लेष एव प्रतीतिविश्रान्तः अंशान्तरमिहोदाहरणमिति सर्वमवदातम्। यामीति। तरण्डंड्डत्ध्;ल्पवः । अत्र तरण्डड्डत्ध्;त्वरुपणसिद्धिः। जन्मजरामरणानां अर्णवत्वरुपणायत्तेत्यश्लिष्टशब्दरुपणं केवलं परम्परितम्। पर्यङ्क इति। पर्यङ्को विष्टरः। वंशः कुलम्,वेणुश्च। स्त्यानं घनम्। मुरलोदेशविशेषः । सौविदल्लः कञ्चुरी। इदं स्पष्टमेवाश्लिष्टशब्दमालापरम्परितम्। ननुक्ष्मासौविदल्ल इत्यत्र भूमेः महिष्यादिरुपणमशाब्दमित्यत आह-अत्र क्ष्मेत्यादि। किमनेनांशविषमोदाहरणेन प्रयोजनमित्यत आह-एवमादयोऽपीत्यादि। तथापि अत्र समासोक्त्यादिभेदो निरुदाहरणं सूचितम्। आभातिक्षितिभृत इत्यत्र सङ्करः। क्ष्मासौविदल्लइत्यत्र परंपरितमप्येकदेशविवर्तीत्येवमादयो भेदा इति यावत्। न केवलमिदं परंपरितं रुपकम् अन्वयमुखेनैव यावता व्यतिरेकमुखेनापि संभवतीत्याह-इदं चेत्यादि। सौजन्येति। सौजन्यरुपस्याम्बुनो मरुस्थली अत्यन्तम् असंभवात्। सुचरत रुपस्य चित्रकर्मणो गगनभित्तिरनधिष्ठानत्वादित्यनुसन्धेयम्। दुराशया दुरभिप्राया दुष्टया लिप्सया च । ननु रुपके यस्यारोपस्तस्य धर्मित्वादाविशष्टलिङ्गसङ्ख्याकत्वं युक्तम्। तत्राविष्टलिङ्गत्वं व्यात्पम् आविष्टसङ्ख्यात्वं तु क्वचिद्व्यभिचरति। तत्र का गतिरित्यत आह - अत्र चारोप्यमाणस्येत्यादि। सत्यम्,आविष्टलिङ्गसङ्ख्याकत्वं धर्मिणो युक्तं,तत्र लिङ्गान्यथा करणो गतिरस्ति काचित्। सङ्ख्यान्यथाकारस्तु प्रत्येकमारोपादुपपद्यते। तदेतदुदाहृत्य हृदयं गमयति-यथाक्वचिदित्यादि। दावाग्निषु प्रत्येकमारोपात्। कपिलमुनावसत्यपि बहुत्वसङ्ख्योपपत्स्यत इति यावत् ।। निपवकाशत्वाद्वली श्लेशस्सर्वालङ्कारबाध इति सिद्धान्तयिष्यते। तेन श्लेषेणरुपकबाध इति सोदाहरणमाह-भ्रमिमरतिमित्यादि। भ्रमिः शिरोघूर्णि ररतिरनवस्था। आलस्यम् अभीष्टतानिवृत्तिः । प्रलय इन्द्रियोपरतिः ,मूच्छ्र्रा तेषामान्ध्यं तमोऽन्तर्धूमायमानता,शरौरसादः अङ्ग#ानामप्रभविष्णुता, मरणं प्रतीतम्। तैरेतैः निमित्तैरष्टभिः विषकार्यैरेव गरलरुपोऽर्थं उद्भाव्यत इति नेह विषशब्दश्लेषो रुपकहेतुकः। यथा विद्वन्मानस इत्यादौ। किन्तु श्लेषे पूर्वसिद्धे रुपकहेतुः इति। एवंविधे विषये श्लेष एव न तु रुपकमित्याहुः । न्यायविद इति शेष#ः। यत्त्वभेदप्रधानं स्यात्साधम्र्यं तद्द्विधा मतम् । आरोपाध्यवसानाभ्यामारोपे रुपकं भवेत् ।। वस्तुतो भेदसद्भावाच्छ्रङ्क्या नातिशयोक्तिता । विषयस्याना पढद्धठ्ठड़14;नुत्या न चैतत्स्यादपढद्धठ्ठड़14;नुतिः ।। ततो विषयिरुपेण रुपवान् विषये मतः ।। आरोपणेन क्रियते तेनैतद्रूपकं मतम् ।। भेदस्तृतीयो यस्तत्र परंपरितसंज्ञकः । साधाम्र्येणापि तत्सिद्विर्वैधम्र्येणापि दृश्यते ।। विषय्यारोप्यते येन प्रतिस्वं विषयेषु तत् । भवेद्विषयसङ्ख्यात्वं सङ्ख्याभेदेऽपि धर्मिणोः ।। रुपकं पूर्वसंसिद्धं श्लेषमुत्थापद्यदि । तदा रुपकमेव स्यादन्यथा श्लेष इष्यते ।। अथ रुपकात्प्रकृतोपयोगलक्षणवैधम्र्यशालिने परिणामालङ्काराय सूत्रम्-आरोप्यमाणास्य प्रकृतोपयोगित्वे परिणामः ।। प्रकृतोपयोगित्वं विविच्य दर्शयितुमाह-आरोप्यमाणं रुपकम् इत्यादि। आरोप्यमाणं चन्द्रत्वादि । प्रकृतोपयोगित्वाभावादिति। प्रकृतं मुखादि,तत्रोपयोगित्वं वाक्यार्थानुप्रवेशपर्यन्तमारोपणविवक्षायां स्यात्। तद्वि रुपके न्स्ति।"मुखमेव चन्द्र"इत्येतावतैव रुपकत्वसिद्धिः। तस्मादारोप्यमाणं चन्द्रत्वादिमुखादौ प्रकृतार्थे ताद्रूप्यप्रतीत्याधानरुपेण उपरञ्जकत्वेनैव रुपकालङ्कारेऽन्वयं भजते। परिणामेत्विति। परिणामालङअकारे पुनः आरोप्यमाणं न केवलं प्रकृतोपरञ्जकं यावता प्रकृतरुपमपढद्धठ्ठड़14;नुवानं सत्तदात्मत्वेनोपयुज्यते । अत इह वाक्यानुप्रवेशान्तम् आरोपविवक्षा। सा चाप्रकृतस्य प्रकृतरुपापत्तावेवोपयुज्यते । न पुनः रुपकवत् प्रकृतस्य अप्रकृतरुपापत्तौ। तदेतदाह-प्रकृतमारोप्यमाण रुपत्वेनेत्यादि । अत्रैतदुपढद्धठ्ठड़14;वरम्। आरोपस्य द्विष्ठत्वेऽपि प्रकृताप्रकृतयोर्नैकविधा वृत्तिः । विषय विषयित्वेन विवक्षा नियमात्। विषयः खलु आधेयगुण एव भवति। विषयी पुनर्गुणाधात्तैव भवति। इत्थं च सति विषयित्वारोपणं विषये ताद्रूप्यप्रतीतिमात्रं चेद्विवक्ष्यते,तदा ताद्रूप्यप्रत#ीति जनकत्व मात्रमु परञ्जकत्वम् इत्ये तावतैव आरोपणस्य चरितार्थता। अतस्ताद्रूप्यप्रतीतिमात्र प्रसिद्ध्यर्थं प्रकृतम् (अ)प्रकृत रुपापान्नं भवति रुपके । परिणामे तु प्रकृतोपयोगान्तमारोपविवक्षयेति। स्वरुपादप्रच्युतस्यैव प्रकृतस्याप्रकृतरुपो पग्राहित्वलक्षणावस्थान्तरापत्तिरेव। इतरथा रुपकन्यायेन प्रकृतस्य स्वरुपस्थगनेन प्रकृतमेव न प्रतीयेत। का तत्र प्रकृतोपयोगिता? तदभावे च का रुपकस्य विविक्तविषयता? प्रायेणात्र प्राचामाचार्याणाम् अपि व्यामोहकलानुवृत्तिरिति रहस्यमुद्धाटितम्। रुपकपरिणामविषयविवेचनस्यात्र संङ्ग्रहाय#ावान्तरश्लोकौ- विषय्याकारमारोप्य विषयस्थगनं यदा । रुपकत्वं तदा तत्र रञ्जनेन समन्वयः ।। यदा तु विषयो रुपात्स्वस्मादप्रच्युतो भजेत् । उपयुक्त्यै पराकारं परिणामस्तदा मतः ।। इति ।। नन्वयं लक्षणपरिणामः साङ्ख्यैरप्युपवर्णितः। तथाहि-धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्चेति त्रिधा परिणामः सङ्ख्यातः। तत्र लक्षणपरिणामत्किमस्य वैधम्र्यमित्यत आह-आगमानुगमेत्यादि। आप्तोक्तिरागमः । अनुगमो व्यात्पिः। व्यावृत्तिर्विगमः। तदभावात्तद्वैलक#्षण्यम्। न खल्वयं काव्ये लक्षणपरिणामः आगमरुपेण वा अनुमानरुपेण वा ख्या (त इ)त्यलं प्रसंगेन बहुना । तत्रापि साङ्ख्ययोगादिशास्त्रविषयेण प्रतिज्ञातं खल्वस्माभिः श्रीगुरुप्रसादसमनन्तरं शैशव एव यथा - "शैवं विष्णुनिबद्धमौपनिषदं साङ्ख्यं सपातञ्जलं । शास्त्रं स्वात्महिताय वेद सकलैस्साकं पुराणादिभिः ।। भूतानां तु विनोदनाय भरतं नीर्ति च वात्स्यायनं । षड्ड्डत्ध्;भाषाकवितां च लक्षणवतीं श्रीचक्रवर्ती कविः "।। इति ।। स्पर्धया सिसाधयिषु (षून्)दुस्तार्किकजरद्गवान् प्रत्यापहालपरस्य ममायमन्यः श्लोकः- साङ्ख्यं वेश्मनि वेश्मनि श्रुतिशिरः कक्ष्यासु कक्ष्यासु च द्वारि द्वारि शिवागमाः पथि पथि प्राचां कवीनां गिरः । पठ्यन्ते यदसूयिभिर्जडड्डत्ध्;दरप्रज्ञैर्जरत्तार्किकैः तत्सर्वं खलु चक्रवर्तिकवितुर्विद्यायशोडिड्डत्ध्;ण्डिड्डत्ध्;मः ।।इति।। महाराज वीरबल्लालास्थानजुषां विदुषां प्रसादाशिषो हि मय्येताः प्रथन्ते। कास्ताः? संस्कृतसार्वभौमः ,प्राकृत पृथ्वीश्वरः शौरसेनी शिरोमणि मगिधीमकरध्वजः षैशाचीपरमेश्वरोऽपभ्रंशराजहंसोऽलङ्कारचक्रवर्ती ध्वनिप्रस्थानपरमाचार्यः सहजसर्वज्ञ(#ः)परमयोगीश्वरः शैववैष्णवयोगसाङ्ख्यप्रमुखसमस्तस्वात्मविद्यातत्त्वनिष्णा(तः)श्रुताधिगतसमस्तविद्याकलापोऽद्वैतविद्याविद्वेषिवनदावानल(#ः) कलियुगस्कन्द (#ः)अभिनवभट्टाचर्यवैदिकविद्याप्रतिष्ठापनपरमाचार्य (#ः)काव्यमीमांसाप्राभाकरवादिमृगेन्द्र(#ः) वेशष्याभुजङ्ग इत्याद्या महाराजहोसलराज कुलद्वारि प्रशस्ति शिलाशासनप्रभृतिभिः वयमुपशान्तरभसाः। अत्र तु ग्रन्थे काव्यमीमां(स#ा)निकषतां ममोपयान्तु वत्सलास्सचेतसः । प्रकृतमनुसरामः । सा चायं परिणामालङ्कारो द्विरुप इति व्युत्पादयति-तस्य सामानाधिकरण्येत्यादि। तीत्र्वेति। धुनी सरित् । आत्मना तृतीय इत्यनेन सीतासौमित्रिव्यतिरिक्तपरिजनविसर्जनं प्रत्याय्यते। आतरस्तरणपण्यम्। तस्मै नाविकाय गुहाय। व्यामशब्देन तत्परिमाणामुच्यते तदिह बाहुद्वयं लक्षयति। तद्ग्राह्यस्तनीत्वेन तु कृच्छ्रानुयाने हेतुरुपन्यस्तः। अत्रातरस्या प्रकृतस्या न केवलं मैत्रीताद्रूप्यप्रतीतिमात्रं विवक्ष्यते,अपि तु नदीतरणप्रत्युपकरणात्मकं प्रकृतोपयोगित्वमपि। अतः अप्रकृतस्य प्रकृतरुपापन्नस्य प्रकृतोपयोग इति प्रकृतस्य स्वरुपादप्रच्युतेः परिणामत्वम्। तदेतद्दर्शयितुमाह-अत्र सौमित्रिमैत्रीत्यादि। समानाधिकरणग्रहणं प्रथमप्रकारत्वप्रथनाय। प्रकृतरुपापन्नस्य प्रकृतोपयोग इति परिणामबीजभूतं उपयोगित्वमुद्धाटयितुमाह-भ्रातसस्य मैत्रीत्यादि। यत इत्थं सामानाधिकरण्यप्रयोगे परिणामालङ्कारस्य विषयव्यवस्थातस्मात् समासोक्तिसाधम्र्यमस्तीति व्युत्पिपादयुषुरुपक्रमते-तवत्र यथ#ेत्यादिना। विशेषणासाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिर्वक्ष्यते । उपोढरागेण विलोलतारकं तथा गृहीतं शशिना नसामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ।। अत्रोपोडड्डत्ध्;रागत्वविलोलतारकत्वादिहेतुना नायिकानायकयोः धर्मविशेषः गृहीतः। न लक्षित झ्र्मिट ति वाक्यानुप्रेशान्तं विवक्षित इति प्रकृतोपयोगी। स चारोपविषयभूतसन्ध्यारागनक्षत्रादिरुपेणैवास्ते। अनेन प्रकृतस्य स्वरुपादप्रच्युतिर्दर्शिता। अतो व्यवहारान्तमारोपः। न तु रुपकन्यायेन रुपसमारोपमात्रमित्यंशे परिणामसमासोक्त्योः साधम्र्यमवगन्तव्यमित्यत आह-एवमिहापीति। तर्हि किमनयोर्मिथो वैलक्षण्यमित्याह-केवलं तत्रेत्यादि। प्रयोगः शब्देनोपादानम्। ननु यदि द्वयोः प्रयोगस्तर्हि परिणामत्वमेव कथमित्यत आह-तादात्म्यात्त्विति। न खलु तादात्म्ये सति "क्षीरं दधीति" प्रयोगमात्रात् परिणामत्वहानिः । वैधम्र्येणोदाहरति-अथ पक्त्रिमतामिति । पाको झ्र्विक्लित्तिःट। पक्त्रिमता प्रयोजनवत् लक्षणप्राचुर्यम्। वक्रः पन्थाः। तदिश्रितैस्तदवलम्बिभिः । तत्परतः तदनन्तरम्। अत्र लक्षणयोजनायाह-अत्र राजसङ्घटनेत्यादि। उचितग्रहणेन प्रकृतत्त्वं द्योतितम् । आरोप्यमाणः प्रकृते यदासावुपयुज्यते । परिणामस्तदा तेन रुपकादस्य भिन्नता ।। रुपमात्रसमारोपाद्रूपके रञ्जको ह्यसौ । व्यवहारसमारोपादिह स्यात् प्रकृतान्वयः ।। परिणामसमासोक्त्यो ज्र्ञातव्योऽस्माद्विपर्ययः । उपादानानुपादानकृतो भेदस्तयोर्मिथः ।। विषयस्य सन्दिह्यमानत्वे सन्देहः । सङ्गत्यर्थमधिकारम् अनुस्मारयति-"अभेदप्राधान्य इत्यादि"। ननु विषयत्वे निज्र्ञाते "कस्सन्देह इत्याह-विषय(#ः)प्रकृत इत्यादि"। निज्र्ञातमेव णुखादिलक्षणं प्रकृतमर्थं भित्ती कृत्य चन्द्रादावप्रकृतेऽर्थेसन्दिह्यमाने सन्देहस्य द्विष्ठत्वात् प्रकृतोऽर्थोऽपि सन्देहडड्डत्ध्;ोलामधिरोहति। इत्थं प्रकृताप्रकृतगतत्वेन य उत्थाप्यते प्रतिभयैव सन्देहः,स सन्देहोऽलङ्कारः न तु स्थाणुपुरुषादाविव स्वरसवाही । तद्विशेषार्थमाह-स च त्रिविध इत्यादि । किं तारुण्येति। उत्कलिका उत्कण्ठा समयः सम्प्रदायः उपदेशयष्टिरक्षरनिर्देशदण्डड्डत्ध्;ः। श्रृङ्गारी देवी मन्मथः। अत्र निश्चयानुपादानात् सन्देहः शुद्धः । निश्चयगर्भं विविच्य दर्शयति-निश्चय इति। संशयान्ते कथनात् मध्ये निश्चयो निश्चयाभासोऽनुसन्धेयः।। अयं मार्तण्डड्डत्ध्; इति। इतः प्रात्पः । सर्वा दिशो न प्रसरतीति ऊध्र्व ज्वलनैकस्वभाव रुपत्वात्। तिरस्तिर्यक्। अत्रासङ्ख्य तुरगत्वा दिना मार्तण्डड्डत्ध्;त्वदिसन्देहापगम एव जायते। तेन पुनर्नायकस्य श्रृङ्ग्राहिकया रुपनिज्र्ञानमिति निश्चयाभासा एते। अत एव पुनस्संशयो त्थानमिति निश्चयगर्भता । तृतीयं विवेचयति-निश्चयान्तः इत्यादि। इन्दुः किमिति। परतो निश्चितमिति कथनात् द्वितीयार्धान्ते इत्थं सन्दिह्येत्यध्याहार्यम्। क्वचित्पुनर्विषये संशयितव्येऽपिर आरोप्यमाणानां धर्माणां विषयान्तरत्वमपि भवतीति आह-क्वचिदित्यादि। रञ्जिता इति। रञ्जिता वर्णान्तरं नीताः। संहृतास्संक्षित्पाः । अत्र भिन्नाश्रतां दर्शयति-अत्रारोपेत्यादि।। नन्वत्र सम्भावनापि प्रतीयत इति कथं सन्देहालङ्कार इत्यत आह-केचिदध्यवसायेत्यादि।। अध्यवसायः उत्प्रेक्षणम्। उत्प्रेक्षाश्रयोऽयं सन्देह इति केचित्। उत्प्रेक्षैवेत्यन्ये। उभयत्र नुशब्दस्य सन्देहसंभावनाद्योतकत्वमेव हेतुः। वस्तुतस्तु नेह संभावनाप्रतीतिः । वितर्कस्यैककोटिपक्षपाताभावात्। अतो डड्डत्ध्;ोलायमानानानाकोटिकोऽयं सन्देह एवेति भावः ।। सन्देहः प्रकृतद्वाराऽप्रकृतं संस्पृशेद्यदि । प्रतिभोत्थापिता सेयं सन्देहालङ्कृतिर्मता ।। अथ भ्रान्तिमतः सूत्रम्। सादृश्या द्वस्त्वन्तरप्रतीतिभ्र्रान्तिमान् । सादृश्यहेतुको विपर्ययो भ्रान्ति मानित्यर्थः। सङ्गत्यर्थमाह-असम्यग्ज्ञानेत्यादि।। लक्ष्यपदं निर्वक्ति-भ्रान्तिश्चित्तेत्यादि। चित्तधर्म मात्रस्यालङ्कारता मा भूदित्याशङ्क्याह-सादृश्यप्रयुक्तेत्यादि । ओष्ठे बिम्बेति।। शोणो मणिर्माणिक्यम्। निष्पत्य आलीय सादृश्यादिति यदुक्तं तत्र प्रत्युदाजिहीर्षुराह-गाढमर्मेत्यादि। दामोदरेति। वक्षोरुपमर्मचूर्णनं नभसः शतचन्द्रत्वेन हेतुः । सादृश्यहेतुकाऽपि लोकविलक्षणैव भ्रान्तिरलंकारबीजमित्याह-सादृश्यहेतु कापीत्यादि। विच्छ्रित्तिरलौकिकी शोभा। शुक्तिकारजतवत्। शुक्तिकारजते यथेत्यर्थः। अलौकिकत्वनयोऽयं सन्देहेऽपि समान इति व्युत्पादयति-एवं स्थाणुरित्यादि । "सादृश्योत्थापिता भ्रान्तिर्यत्रासौभ्रान्तिमान्मतः ।।" अथोल्लेखालङ्काराय सूत्रम्-एकस्यापि निमित्तवशादनेकधाग्रहणमुल्लेखः। एकस्यापि वस्तुनो नानाविधधर्मयोग निमित्तवशादनेकधाग्रहे सत्युल्लेखालङ्कारः। तच्च अनेकधात्वं गृहीतृभेदाद्भवति विषयभेदाद्वा भवति। तदेतद् व्याचष्टे-यत्रंकं वस्त्वित्यादि। यत्रोक्तिप्रकारे । गृह्यते ज्ञायते। उल्लेखनं नुर्धारणम्। नानाविधधर्माभावे त्वनेकधाग्रहणमात्रेणा नोल्लेख इत्याह-न चेदमित्यादि। एतत्क्रियते,उल्लेखनं निष्पाद्यत इत्यर्थः। ननु नानाविधधर्मयोगमात्रान्नोनोकधाग्रहणमनुपश्यामः इत्यत आह-तत्र च रुच्यर्थित्वेत्यादि। रुचिरभिरतिः। अर्थित्वं लिप्सा। व्यत्पत्तिः शब्दार्थमङ्केतज्ञानम् ।यथायोगमिति। योदो योग्यता। तामनतिक्रम्य रुच्यादिषु त्रिषु यथायोगमेकं द्वयं त्रयमेव वा प्रयोजकं भवतीतियावत्। तत्र संवादायाह-तदुक्तम्। यथारुचीत्यादि। रुच्र्यर्थित्वव्युत्पत्त्यनुसारेण एकस्मिन्नप्यनुसन्धानेन साधिते निर्धारितेऽर्थे आभासः प्रतीतिर्भिद्यते। नानोल्लेखात्मिका जायत इत्यर्थः । यस्तपोवनमित्यादि। एक एव श्रीकण्ठजनपदः मुन्यादिभिस्तपोवनत्वाद्याकारेण गृह्यते। तथा चानेकधा ग्रहणे तपोवनत्वादिनानाविधधर्मयोगो निमित्तम् । जनपदे हि तपोवनत्वादि धर्मा निसर्गत एव सन्ति। इतरथा नोल्लेखः । रुपकत्वप्रात्पेः । लक्षणं योजयति-अत्रह्येकएवेत्यादि । समस्ता व्यस्ता इति मुन्यादीनां तपोवना दित्वेनोल्लेखे तथाविधा रुच्यादयो हि समस्ततया व्यस्ततया वा संभवन्ति। विषयपरिशुद्ध्यै चोदयति-नन्वेतन्मध्ये इत्यादि। वज्रपञ्जरत्वादेर्हि तपोदित्यादि। न तावदस्य रुपकविविक्तविषयता नास्ति। यत्र त्वंशे रुपकं तत्र यद्युल्लेखात्मिका विच्छित्तिर्न संभवति तदा नास्त्येव विवादः । अथ संभवति, तदा सङ्कर एव न्याय्यः। न पुनरस्य स्वरुपत एवापलापः शक्यः । भ्रान्तिमतो विविक्तविषयतामस्य दर्शयितुम् आक्षिपति-एवं तर्हीत्यादि । तत्रोति । यो रुपविविक्तः तत्र विषय इत्यर्थः। भ्रान्तिमत्त्वशङ्काया बीजमुद्धाटयति-अत द्रूपतेति । यद्यपि जनपदे तपोवनत्वादयः सन्त्येव धर्माः। वस्तुतस्तु न तद्रूपो जनपदः। तस्मादतद्रूपस्य तद#्रूपताप्रतीतिनिबन्धनेन भ्रान्तमानस्त्विति यावत्। परिहरति-नैतत्। अनेकधेत्यादि। न ह्यनेकधाग्रहणरुपं वैचित्र्यं भ्रान्तिमानपि स्वलक्षणोपपन्न इत्यत आह-सङ्करप्रवृत्तिस्त्विति। अतोशयोक्तिविषयतोऽप्यस्य विभक्तविषयतायै शङअकते-यद्येवमभेदे भेद इत्यादि। वस्तुतो हितपोवनाद्यवयवापेक्षया न जन पदस्यावयविनो भेदोऽस्ति। इत्थं च सत्यभेदे भेद इत्येवं रुपातिशयोक्तिरत्रास्तु किं मन्यकल्पनेनेत्याक्षेपनिष्कर्षः । परिहरति - नौष दोषः। ग्रहीतृभेद इत्यादि। न ह्यतिशयोक्तौ ग्रहीतृभेदेपयोगः। अत्र पुनरुपयोग इति। नातिशयोक्तिमात्रमेतत्। न च ग्रहीतृभेदस्याप्रयोजकत्वंशङ्क्यमित्याह-तस्य चेत्यादि। यत इत्थमतः सर्वथा नास्यान्तर्भावः शक्यक्रियः । रुपकासङ्कीर्णतयोदाहरति-णाराअणोत्तीति। नारायण इति परिणतवयोभिः श्रीवल्लभ इति तरुणीभइः। बालाभिः पुनः कौतुकेन एवमेव दृष्टः । अत्र पुरः प्रवेशावसरे एक एव कृष्णो जरतीभिः साक्षान्मोक्षप्रदो नारायण इतिदृष्टः। तासां रुच्यादेस्तथाविधत्वात्। तरुणीभिः पुनः लक्ष्म्याः प्राणवल्लभघ इति। बालाभिः पुनः कौतुकेन एवमेव दृष्टः। एवमेवेति निपातो यत्किञ्चिदित्यर्थे विवक्षितः।न चात्र शङ्कनीयं कौतुकेनेति प्रयोजकान्तरोपादानान्नेह रुच्यादयः प्रयोजका इति। कौतुकस्यापि रुच्या दिकमन्तरेणासंभवात्। एवं ग्रहीतृभेदादुदाहृत्य विषयभेदादुदाहरति-एवं गुरुर्वचसीत्यादि। वचसि विषयभूते गुरुः प्रामाणिकत्वात् अनुल्लङ्घ्यो वाचस्पतिश्च। तथोरसि पृथुः प्रथीयान् पृथुनामा नृपश्च। यशस्यर्जुनोऽवदातो धनञ्जयश्च। इत्यादौ ह्येक एव उपवण्र्यो नायको वचः-प्रमुखर्विषयभेदाद्ग्रहीतृभेदनैरपेक्ष्येण रुच्यादिवशात् अनेकधा गृह्यत इत्युल्लेखालङ्कारत्वम्। प्रकारद्वयस्यावान्तरवैधम्र्यायाह-इयांस्त्वित्यादि। अत्रोल्लेखाभावम् आशङ्कते-नन्वयमित्यादि। श्लेषस् सर्वालङ्कारबाधकत्वं हि वक्ष्यते । अतो लक्षणोपपन्नम् अलङ्कारान्तरं सति श्लेषे न स्य#ादिति नात्रोल्लेखो युक्त इत्याक्षेपः। परिहरतिसत्यमित्यादि। सत्यम्। उक्तनयेन श्लेषेणोल्लेखो बाध्यते। अथापि स्वरुपेण अविद्यमानस्य बाधासंभवात् बाध एवोल्लेखसद्भावे लिङ्गम्। अनेकधा ग्रहणारुपविच्छित्तिविशेषबलात् प्रतिभात्युल्लेख इति यावत्। यत इत्थमतो न तु सर्वथा तदभाव इत्यलङ्कारान्तरमेव। एतदेव साधयितुम् अत्रैवोदाहरणे श्लेषनैरपेक्ष्यं दर्शयति-यदेवंविध इत्यादि। अत्र "अनुल्लङ्घ्यो वचसि,प्रथीयान् उरसि,निर्मलो यशसि" इति श्लेषाभावेऽपि न उल्लेखाभावः । यस्मादित्थं तस्मादेवमादौ विषये उल्लेखालङ्कार एव विशेषविच्छित्तिक इति अलङ्कारान्तरापेक्षया श्रेयान् प्रशस्यतर इत्यर्थः । इत्थं रुपकातिशयोक्तिश्लेषादिविच्छित्त्याश्रयत्वन्यायेन अलङ्कारान्तरविच्छित्त्याश्रयोणाप्ययं संभवति। स तु स्वयमनुसन्धेयः। न्यायस्य व्युत्पादितत्वात् इत्यभिप्रायेणाह-एवमलङ्कारान्तरेत्यादि। निदर्शनीयः उदाहरणीयः। क्वचित् कारकान्तरेति पाठः । नानाधर्मबलादेकं यदि नानेव गृह्यते । नानारुपसमुल्लेखात्स उल्लेख इति स्मृतः ।। यदेकं तद्धि नानेति गृह्यते रुपभेदतः । रुच्यादिवशतो लोके नानात्वं चेदकृत्रिमम् ।। अतद्रूपस्य ताद्रूप्यान्नह्यासौ भ्रान्तिरिष्यते । न चाप्यतिशयोक्तिस्स्यादभेदे भेदरुपिणी ।। आद्ये नानेकधत्वं स्याज्ज्ञातृभेदौ न चान्तिमे । विषयज्ञातृभेदाभ्यां विना नोल्लेखसंभवः ।। यद्यपि श्लेषतो बाधो न तथाप्यस्य निढद्धठ्ठड़14;नवः । अनपेक्ष्यापि यच्छ्रलेषं तथैव स्थातुमर्हति ।। अथापढद्धठ्ठड़14;नुत्यै सूत्रम्। विषयापढद्धठ्ठड़14;नवेऽपढद्धठ्ठड़14;नुतिः।। ननु मुखं न भवतीति विषयापढद्धठ्ठड़14;नवमात्रे सत्यपि नापढद्धठ्ठड़14;नुतिरित्यतोऽधिकारं स्मारयति-वस्त्वन्तरप्रतीतिरित्येवेति। अतः प्रकृतनिषेध पुरस्कारेण अप्रकृतसमर्थनमपढद्धठ्ठड़14;नुतिरित्यर्थः । तथाहि काव्यप्रकाशकृत्- "प्रकृतं यन्निषिध्यान्यत् साध्यते सा त्वपढद्धठ्ठड़14;नुतिः ।" ननु यदि सादृश्याद्वस्त्वन्तरप्रतीतिरिहापि को विशेषः तह्र्यस्य भ्रान्तिमत इत्यत आह-प्रकान्तानपढद्धठ्ठड़14;ववेत्यादि। प्रक्रान्तं प्रकृतम्। तस्य ह्यत्रापढद्धठ्ठड़14;नुवः । भ्रान्तिमत्यनपढद्धठ्ठड़14;नव इति विशेषः । उल्लेखे तु न प्रकृतानपढद्धठ्ठड़14;नवमात्रं विशेषः किन्तु अनेकधाग्रहणमपि ज्ञेयम्। इदमिति वचनं क्रियाविशेषणम्। यत्त्वेवमिदमपढद्धठ्ठड़14;नुतिवचनं तत्प्रक्रान्तानपढद्धठ्ठड़14;नववैधम्र्येणेत्यर्थः। लक्षणं निष्क्रष्टुमाह-आरोपप्रस्तावादित्यादि। आरोपप्रस्तावो रुपकात्प्रभृतीति ।। तत्प्रकारवैचित्र्यायाह-तस्य त्रयीत्यादि। त्रयी त्रिप्रकारेत्यर्थः। बन्धच्छायाग्रथ नवैचित्र्यम्। त्रैविध्यं विविनक्ति-अपढद्धठ्ठड़14;नवपूर्वक इत्यादि। छ्रलादयः छ्रलछ्रद्मकैतवनिभादयः। तैरपि हि नञर्थ एव अवस्थाप्यते। तर्हि तृतीयभेदे को विच्छ्रित्तिविशेषः इत्यत आह-पूर्वक इत्यादि । यदेतदिति । नो मां प्रति तथेति प्रकृतापढद्धठ्ठड़14;नवः उत्तरार्धेऽप्रकृतसाधनमिति। यद्यपि अपढद्धठ्ठड़14;नुतिरेषा तथापि दोषानुविद्धत्वात् उदाहरणाभास इत्यत आह-अत्रैन्दवस्येत्यादि। शशक प्रतिवस्त्विति। अपढद्धठ्ठड़14;नोतुमिष्यस्य शशकस्य यः प्रतिवस्तुभूत उल्कापातकिणः तस्यैवारोपो न्याय्यः । न पुनस्तद्वतः इन्दोःअतो नान्वयः संघटते। इत्थं लक्षणोपपन्नोऽपि अलंकारो दोषानुविद्धस्सन् आभासी भवतीति व्युत्पाद्य सम्यगुदाजिहीर्षुराह-तत्तु यथेति ।। पूर्णोन्दोरिति। दृष्टश्रुताद्यपराधजन्मा रोषो मानः । तेनोन्नद्धः उत्सिक्तो जनः श्रृङ्गारी लोकः तस्याभिमानस्सान्त्वासहिष्णुता। हेवाकः स्वाच्छ्रन्द्यम्। अत्र न मण्डड्डत्ध्;लम् अपि तु आतपत्रमेवेत्यन्वयो घटते अयमपढद्धठ्ठड़14;नवपूर्वक आरोपः ।। आरोपपूर्वकमुदाहरति-विलसदमरेति।। संयमो मनोनिग्रहः । तेनाधःकृतान्याक्रान्तानि। अत्र नेत्रषण्डड्डत्ध्;ानि अध्यास्ते। न तु मयूरे वर्तत इत्यारोपपूर्वकता । उद्भ्रान्तेति। सार्धं धावतामित्यनेन यशसस्तत्प्रदेशव्यात्पिः समकालमेव सूचिता। मुक्ताफलच्छ्रद्मना । अम्भः कणैर्भष्टमित्यत्र हि न मुक्ताफलानि,अपि तु अम्भः कणा एवेति प्रतीतिः। इत्थमेवापढद्धठ्ठड़14;नुतिम् उत्प्रेक्षाङ्गत्वेन प्रतिपिपादयुषुरुपक्षिपति-अत्र शून्यं इत्यस्य इत्यादि।। "मन्ये मरावि"त्यादि पाठे हि मन्येशब्दमाहात्म्यादुत्प्रेक्षा। छद्मशब्दतस्त्वपढद्धठ्ठड़14;नुतिः सा चोत्प्रेक्षाङ्गं भविष्यति। इत्थमुत्प्रेक्षाङ्गत्वं न केवलं तृतीयभेदस्यैव,यावता पूर्वभेदद्वयस्यापि संभवतीत्याह अहं त्विन्दुमित्यादि।। वाक्यभेदग्रहणं प्राथमिकभेदद्वयप्रथनाय। इत्थं त्रिरुपाऽप्यपढद्धठ्ठड़14;नुतिरुत्प्रेक्षाङ्गत्वेन सूचिता। ननु च्छ्रलादिप्रयोगेऽप्यपढद्धठ्ठड़14;नवारोपपौर्वापर्यविपर्ययनिबन्धनं वैचित्र्यं किं नोच्यत इत्यत आह-एतस्मिन्नपीति ।। अत्रेदमाकूलम्। यद्यपढद्धठ्ठड़14;नवारोपपौर्वापर्यविपर्ययेभेदद्वयं भवत्येव, न तु चमत्कारः कश्चित्। नहि भेदसंभवोऽलङ्कारप्रथनहेतुरपि तु सचमत्कारभेदसंभवः। सचमत्कारता च सति वाक्यभेदे स्यात्,एकवास्यतायां तु च्छ्रलादि शब्दस्य पौर्वापर्यविपर्ययप्रसङ्गेऽपि न प्रतीतिभेदःकश्चित् । क्रियाविशेषणत्वेन क्रियापेक्षया प्रतीतौ प्राथम्यनियमात् अथ श्छ्रालादिप्रयोगे द्विधा न गणितम्। वैचित्र्याभावमेव सोदाहरणं दर्शयितुमाह-तत्रापढद्धठ्ठड़14;नवेत्यादि। समनन्तरमिहोक्तप्रतियोगिकम् उद्भ्रान्तोज्भ्फतेत्यत्रेति याव्त् । ज्योत्स्ना भस्मेति। छुरणामुद्धूलनम्। अन्तर्धानं रात्रिपक्षे तिरस्कृतिः विलयः, अन्यत्र त्वद्दश्यत्वसिद्धिः । मुद्रा भिक्षापिण्डड्डत्ध्;स्तदर्थं कपालं मुद्राकपालम् । परिमल(#ः)परिमर्दस्तेन तज्जनितं लक्ष्म लक्ष्यते। यथाच्छ्रलादिप्रयोगेण अर्थाक्षेपात् असत्यत्वं,तथा प#्रकारान्तरेणापि संभवतीत्याह-क्विचित्पुनरित्यादि। वस्त्वन्तरं प्रकृतापढद्धठ्ठड़14;नवक्षमम् । अमुष्मिन्निति। अत्र हि धूमशिखा रोमावलिवपुः परिणमतीत्युक्तौ , न रोमावलिरपितु धूमशिखेति प्रतीयते। अनेनैषा प्रतीयमानापि दर्शिता मन्तव्या ।। प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपढद्धठ्ठड़14;नुतिः । नञाच्छ्रलादिशब्दैश्च सा शब्दान्तरतस्त्रिधा ।। स्याद्भेदाभेदतुलया विच्छित्तिरुपमादिकः । रुपकाद्स्त्वभेदांशे मुख्ये त्वारोपसंश्रयात् ।। तामेव सङ्गतिं विशदीकुर्वन् उत्प्रेक्षाप्रस्तावायाह-एवमभेदप्राधान्य इत्यादि।आरोपमूला रुपकादयो अपढद्धठ्ठड़14;नुत्यन्ताः। अध्यवसायगर्भास्तु उत्प्रेक्षादयः। अत एव टीका -तत्रेति । अध्यवसायगर्भेषु मध्ये इत्यर्थः । अथ सूत्रम् - अध्यवसाये व्यापारप्राधान्ये उत्प्रेक्षा।। अध्यवसायो निश्चयज्ञानम्। स च लोके द्विरुपः सम्यगात्मा मिथ्यारुपश्च । उभयरुपोऽप्ययं नालङ्कारः। नहि शुक्तिरिति सम्यगध्यवसाये रजतमिति मिथ्याध्यवसाये वा विच्छित्तिः काचित्। उभय विसक्षणास्तु जानतोऽप्येतस्मिन् तदेवेति योऽध्यासरुपस्य इहालङ्कारत्वेन परिगृङ्यते। तस्यैव अलौकिकस्य विच्छित्तिरुपत्वात् । तस्य च द्वयी गतिः। कदाचिदध्यवसायात्मनः स्वरुपस्य प्राधान्यं,कदाचिदध्यवसितस्य विषयस्य। इत्थं च सत्यध्यवसाये विषयभूते यदा अध्यवसानस्य प्राधान्यं तदोत्प्रेक्षाऽलङ्कार इति सूत्रार्थः। तदेतदवयवशो व्याचष्टे-विषयनिगरणेनेत्यादि। निगरणं निगलनम्। स्वरुपतोऽपलापइत्यर्थः। विषयं निगीर्णवतो विषयिणो विषयितादात्म्येन प्रतीतस्य इहाध्यवसायो अभिमत इति यावत्। अनेनालौकिकस्यैवाध्यवसायस्य अलङ्कारबीजत्वं दर्शितम्। व्यापारप्राधान्यग्रहणस्य व्यावत्र्यमुद्धाटयितुमाह- स च द्विविध इत्यादि। तत्र साध्यस्य स्वरुपमाह-साध्यो यत्रेत्य#ादि। साध्य - इति यदैकं वाक्यमाक्षिप्तेन तच्छब्देनार्थेनाभिसंबन्धः। उत्तरवाक्यगतोऽपि यच्छब्दः पूर्ववाक्याच्छब्दोपादाननिरपे#ेक्ष एव तदर्थेन सम्बन्धमीष्टे। यत्र विषयिणोऽसत्यतया प्रतीतिः स साध्य इत्यर्थः । अत्रेदमनु सन्धेयम्। मुखं मुखत्वेन जानन्नेव यदा नूनं चन्द्र इति संभावयति तदा विषयी चन्द्रो मुखत्वेनासत्यः प्रतिभाति तदाध्यवसायः साध्यः । ननु साध्य एवास्तु अध्यवसायः सिद्धो वा, अभेदप्रतीतौ कथमसत्यत्वं इत्यत आह- असत्यत्वं चेत्यादि। विषयिगतस्य चन्द्रादिगतस्य माधुर्यादेः धर्मस्य विषये,मुखादावुपनिबन्धे,नूनं चन्द्र इत्यस्यां दशायां विषयिण्येव संभवत्ययं विषथयेतु न संभवतीति प्रतीयमानत्वात्। विषयविषयिणोरभेदस्फुरणेऽपि धर्मस्यासत्यताप्रतीत्या न प्ररोहति ।अतोऽध्यवसानव्यापारस्य साध्यता। ननु को धर्मः? किंप्रमाणा चासौ? तदाश्रयस्य सत्यत्वासत्यत्व प्रतीतिरित्यत आह-धर्मो गुणक्रियारुपः इत्यादिना। गुणक्रियारुप इति धर्मस्य साकल्यकथनात् तदुभयमूलतया उत्प्रेक्षासंभवस्मूचितः । अस्य हि धर्मस्य संभवोऽसंभवश्च विषय्याश्रयतया संभवः असंभवस्तु विषयाश्रयतया। इत्थं च सति सत्यत्वासत्वप्रतीतिर्नाप्रामाणिका। कुतः? संभवाश्रयस्य तत्रावस्थायां परमार्थबुद्ध्यनुदयात् असत्यत्वं प्रतीयते। यतस्तदितरस्य तु सत्यत्वमेव परमार्थत्व#ात्। चर्चितमर्थं निष्कर्षयति-यस्यासत्यत्वमित्यादि। अतश्चेति । यत इत्थमध्यवसायः साध्यः अतः उत्प्रेक्षायामध्यवसायव्यापारस्यैव प्राधान्यमित्यर्थः । अथ सिद्धं विवेचयति-सिद्धो यत्रेत्यादि। सिद्ध इति पूर्ववदेकं वाक्यम्। स इति द्योतितः कोऽसावित्यत आह - यत्र विषयिणो वस्तुत इत्यादि । यदा तु मुखमुद्दश्य चन्द्रोऽपमिति प्रयोगः तदा वस्तुतोऽसत्योऽपि विषयी सत्यतया प्रतीयते। सत्यत्वप्रतीतेर्हेतुमाह-सत्यत्वं चेत्यादि। संभवाश्रयस्य अपरमार्थत्वप्रतीतिरसत्यत्वस्य निमित्तम्। यत इत्थमतश्चाध्यवसितस्यार्थस्यैव प्राधान्यं, तदाऽतिशयोक्तिर्वक्ष्यते। यदा साध्यत्वप्रतीतिः तदाध्यवसायस्य पर्यायान् व्युत्पादयति - तत्र साध्यत्वेति। चर्चितलक्षणानिष्कर्षणम्-तदेवमित्यादि । तस्यास्सामान्यतस्तावद्द्वैविध्यमाह-सा च वाच्येत्यादि। तत्रापि सामान्याच्चातुर्विध्यं दर्शयति-सा च जातिक्रियेत्यादि। अध्यवसेयत्वेन संभव्यत्वेन । नन्वप्रकृतग्रहणं किम्? प्रकृतेऽप्येवं संभवादित्यत आह-प्रकृतस्यैतदित्यादि। प्रकृतं हि लौ किकं कविक्लृत्प विच्छ्रत्तिविधुरतया न वैचित्र्याय। भेदचतुष्टयमपि द्विधा दर्शयति-प्रत्येकं च भावाभावेत्यादि। भावरुपा संभावना अभावरुपा चेति। अयं व्यापारभेदाद्भेदः । प#ूर्वं व्यापारवद्भेदात् व्यापारनिमित्तभेदादाह-भेदाष्टकस्य चेत्यादि। भेदषोडड्डत्ध्;शकमपि निमित्तोपादानानुपादानाभ्यां द्विगुणायति-तेषां चेत्यादि। अथ संभाव्यस्य हेत्वादि रुपतया पुनस्त्रैविध्यमाह-तेषु च प्रत्येकमित्यादि । वा(च्यां)निगमयति-एषा गतिरित्यादि। तत्रापोह्यअंशायाह- तत्रापि द्वव्यस्येत्यादि। पातनोयाः हापनीयाः। प्रतीयनामां विभक्तुमाह-प्रतीयमानायाश्चेत्यादि। उद्देशत एतावन्त। लक्षणापरीक्षयोस्तु कृतयोः कतिचन हीयन्त इति भावः। ये हीयन्ते तान् प्रस्तौतितथापि निमित्तस्येत्यादि। तैरिति (निमित्ता)नुपादाननिबन्धनैः । अयं प्रकार इति प्रतीयमानोत्प्रेक्षाप्रकारः इत्यर्थः। निमित्तानुपादानं न संभवतीति यत्प्रतिज्ञातं तत्प्रमाणो न द्रढयति-इवाद्यनुपादान इत्यादि। इवाद्यनुपादाननिमित्तकीर्तनयोरन्यतराभावे न किञ्चित्प्रमाणामुत्प्रेक्षणे। अनुपात्तनिमित्तका हि या वाच्योत्प्रेक्षा तस#्याम् इवाद्युपादानबलादेवोत्प्रेक्षणप्रतीतिः। इह पुनरिवाद्यनुपादानवन्ध्यायां प्रतीयमानायां निमित्तबलादेवेति निमित्तोपादाननियमः। स्वरुपोत्प्रेक्षणमपि न संभवतीत्याह-प्रायश्चेत्यादि। प्रायोग्रहणात् पर्यायोक्तनयेन स्वरुपस्य क्वचित्संभवदप्युत्प्रेक्षणं गम्यस्य#ापिभङ्ग्यन्तराभिधानान्न निरापणार्हमिति द्योतितम्। प्रतीयमानां निगमयतितदेवमिति। यथासंभवं संभवमनतिक्रम्य। तथा हि प्रतीयमानोत्प्रेक्षा तावत् वाच्योत्प्रेक्षाप्रकृतिका। वाच्योत्प्रेक्षाषण्णावतिधोद्दिष्टा। यथा जातिगुणक्रियाद्रव्याणाम् उत्प्रेक्ष्यत्वेन चतस्त्र उत्प्रेक्षाः। जातयः प्रतिस्वं चतुर्विशतिधा प्रथन्ते। यथा जात्युत्प्रेक्षा तावत् भावाभावाभिमानरुपतया द#्विधा। द्विविधाऽपि गुणनिमित्तिका,क्रियानिमित्तिका च। इत्थं चतुर्धा। साचोपात्तनिमित्तानुपात्तनिमित्ता चेत्यष्टधा। अष्टविधाऽपि हेतुस्वरुपफलोत्प्रेक्षारुपतया त्रिविधा इति चतुर्विशतिप्रकारा। अनेनैव नयेनान्यदप्युत्प्रेक्षात्रयं प्रत्येकं चतुर्विशतिधामन्तव्यम्। तथा च प्रत्येकं त्रिस्कन्धिका एता हेतुस्वरुपफलोत्प्रेक्षणतया स्कन्धत्रयमपि प्रतिस्वमष्टविधम्। तथा हि उपात्तगुणनिमित्ता भावाभिमानरुपिणी हेतुजात्युत्प्रेक्षा। सैवानुपात्तगुणनिमित्ता। तथोपात्तक्रियानिमित्ता,सैवानुपात्तक्रियानिमित्ता चेति भावाभिमानरुपतया चतुर्धा। एवमभावाभिमानरुपतया चतुर्धेति हेतूत्प्रेक्षास्कन्धोऽष्टविधः । अनयैवरीत्या स्वरुपोत्प्रेक्षास्कन्धः फलोत्प्रेक्षास्कन्धश्च प्रतिस्वमष्टविधेति जात्युत्प्रेक्षा त्रिस्कन्धतया चतुर्विशतिधा। एवं गुणक्रियाद्वव्योत्प्रेक्षाऽपि प्रत्येकं चतुर्विशतिधा विज्ञेया । तत्र द्वव्योत्प्रेक्षायां हेतुफलोत्प्रेक्षापातेषोडड्डत्ध्;शकहानिः। अतः स्थूलदृशा तावत् अशीतिविधा वाच्या। प्रतीयमानायां तु अनुपात्तनिमित्ताया निरवशेषं पाते अष्टचत्वारिशद्धानिः। उपात्तनिमित्ताया#ं च स्वरुपोत्प्रेक्षापाते षोडड्डत्ध्;शकहानिः। अतो द्वर्तिं्रशद्भेदाः प्रतीयमाना मन्तव्याः। उभयरुपायामपि अस्य वैचित्र्यान्तरायाह-एषा चेत्यादि। अर्थाश्रयाऽपि अर्थालंकारोऽपीत्यर्थः। धर्मोगुणक्रियात्मको विषयो यस्य सः। श्लिष्टशब्दः कश्चिद्धेतुर्भवत्यस्याः। उत्प्रेक्षा ह्यर्थालङ्कारः। श्लेषः पुनरुभयालङ्कारोऽलङ्कारान्तरबाधकश्च। तथाऽपि धर्मविषयेश्लिष्टशब्दहेतुका संभवत्येषा न बाध्यते,न चोभयालङ्कारप्रात्पिरिति यावत्। यथेत्थं श्लेषमुत्प्रेक्षाङ्गं तथोपमाऽपि अङ्गमस्याः भवतीत्याह-क्वचित्पदार्थान्वयेत्यादि। पदार्थसमन्वयदशायाम् उपमयोपक्रमः। तथोपक्रान्ताऽप्युपमावाक्यार्थतात्पर्यपर्यालोचनमहिम्ना अभिमन#्तुस्संभावयितुव्र्यापारोऽपारोहक्रमेणसंभावनव्यापारस्य प्रतीतिविश्रान्त्यन्तं उपर्युपरि प्रसरपरिपाट्या उत्प्रेक्षायां पर्यवस्यति। अथ अपढद्धठ्ठड़14;नुतिप्रस्तावः। उत्प्रेक्षाङ्गत्वेन यदपढद्धठ्ठड़14;नुतिः प्रतिज्ञांता,तस्या अयमवसर इत्यभिप्रायेणाह-क्वचिच्छ्रलादि इत्यादि। इत्थंये प्रकाराः उक्ताः, ये च वक्ष्यन्ते तेषां वैचित्र्यादस्या इयत्तैव नास्तीत्याह-अतश्चोक्तवक्ष्यमाणेत्यादि। ननु यद्यानन्त्यं कथमुदाहरणतो दर्शयिष्यते इत्यत आह-साम्प्रतंत्वित्यादि।. दिङ्मात्रेणेत्यादि। यथा दिङ्मात्रेणोदाहृता अपि न्यायतस्साकल्येन ज्ञातुं शक्यते,तथेति यावत्। उद्देशक्रममाविश्चिकीर्षुराह-तत्र जात्युत्प्रेक्षा यथेति । स वः पायादिति । कुटिलत्वलक्षणो गुणो निमित्तम्। अंकुरशब्दो जातिवचनः। अत उपात्तगुणनिमित्तिका भावाभिमानरुपिणी जात्युत्प्रेक्षेयम्। तत्र यद्यपि स्वरुपमुत्प्रेक्ष्यते न तु हेतुफले, अथाप्युद्देशक्रमविरोधात्सोंऽशो नोदाजिहीर्षितः। एवमुदाहरणेषुदाहर्तव्या विशेषा#ंशाः स्वयमनुसन्धेयाः। क्रमस्याविवक्षणात् नास्माभिः प्रतिस्वं प्रतन्यन्ते । अत्र जात्युत्प्रेक्षात्वं विविच्य दर्शयति-अत्रांकुरेत्यादि। अथ क्रियोत्प्रेक्षा-लिम्पतीवेत्यादि। क्रियोत्प्रेक्षात्वं विवेचयति-अत्र लेपनेत्यादि। न च मन्तव्यं वर्षणस्य नभःकर्तृकत्वात् न तमोगतत्वमिति। नभसोऽपि तमसाऽधिÏष्ठतस्यैव वर्षणकर्तृकत्वसंभवादनेन परंपरायाताया अपि सम्भावनाया उत्प्रेक्षात्वं द्योतितम्। ननूत्तरार्धानुदाहरणे को हेतुरित्यत आह-उत्तरेत्वित्यादि । उपमैव नोत्प्रेक्षेति। अत्रैतदुपढद्धठ्ठड़14;वरम्-उपमानांशश्चेल्लोकतः सिद्धस्तदोपमैव द्वयोस्सिद्धत्वादिवशब्दः साधम्र्यद्योतकः। यदा तु कविकल्पितः तदोत्प्रक्षैव। उपमानस्य लोकतोऽसंभवादिवशब्दः संभावनां द्योतयति यतः। अत#्रावान्तरश्लोकौ- यदायमुपमानांशो लोकतस्सिद्धिमृच्छ्रति । तदोपमैव येनेवशब्दः साधम्र्यसूचकः ।। यदा पुनरयं लोकादसिद्धः कविकल्पितः । तदोत्प्रेक्षैव येनेवशब्दस्संभावनापरः ।। इति ।। अथ गुणोत्प्रेक्षा-सैषास्थलीति । इयं प्रतिष्ठमानस्य दाशरथेः सीतां प्रत्युक्तिः। गुणोत्प्रेक्षात्वं दर्शयति-दुःखं गुणं इति । अथ द्रव्योत्प्रेक्षा-पातालमेतदिति। द्रव्यत्वं दर्शयति-चन्द्रस्येत्यादि। उदाहरणचतुष्केऽपि अनुगतं विशेषम् उद्धाटयति-एतानि भावाभिमान इत्य.#ादि । अथाभावाभिमाने-कपोलफलकाविति। कष्ट कृच्छ्रात्। तथाविधाविति। स्वनुभवैकसमधिगम्यो रमणीयातिशयोद्योत्यते। क्षामतागमनं नैसर्गिकम्। परस्परदर्शनाभावो हेतुत्वेनोत्प्रेक्ष्यते। अत एवाभावाभिमानरुपना। तदेतद्दर्शयति-अत्रापश्यन्तावितीत्यादि। न्यायस्य सुज्ञानत्वात्। स्थ#ालीपुलाकन्यायेनोदाहरणमात्रमिति न व्युत्क्रमदोषः शङ्कनीयः। क्रमापेक्षया तु जात्याद्युत्प्रेक्षापुरस्कारेणोदाहर्तव्यम्। तदेतदभिसन्धायाह-एवं जात्यादावप्यूह्यमिति। इत्थं जात्यादि चतुष्कम् अभावाभिमानरुपतयोदाहृतम्। अथ भेदाष्टकस्य गुणक्रियानिमित्ततोदाहर्तव्या। तत्र गुणनिमित्तकत्वेनोदाजिहीर्षुराह-नवबिसलतेत्यादि। तद्विवेचितचरम्। एवं गुणनिमित्तकत्वं क्रियाद्युत्प्रेक्षात्रये स्फुटतरत्वादुदाहरणनिरपेक्षनित्यभिसन्धाय क्रियानिमित्तकत्वेनोदाहरति-ईदृक्षमित्यादि। क्षामता गमनलक्षणक्रियाह्यदर्शनोत्प्रेक्षाया निमित्तम्। इयता षोडड्डत्ध्;शकमुदाहृतं मन्तव्यम्। अथ निमित्तोपादानानुपादानाभ्यां षोडड्डत्ध्;शकस्य यद्द्वैविध्यं प्रतिज्ञातं तत्र निमित्तोपादानस्य समनन्तरोदाहरणान्येवोदाहरणत्वेन दर्शयति - एते निमित्तेत्यादि। कुटिकत्व क्षामतागमनयोरुपादानादनुपादानमप्युदाहृतेष्वेव दर्शयति-लिंपतीवेत्यादि। अत्र लेपनादित्वेन संभावने व्यापनादि निमित्तं नोपात्तम्। इयता द्वातिं्रशद्भेदाउदाहृताः । अथ द्वातिं्रशद्धेतुफलस्वरुपात्मकतया त्रिधोदाहर्तव्या। तत्र हेतुरुपतयोदाहरति-विश्लेषदुःखादिवेत्यादि। अत्र दुःखगुणो हेतुत्वेनोत्प्रेक्षितः। इत्थं जातिक्रिये हेतुत्वेनावगन्तव्ये। द्रव्योत्प्रेक्षायां तदभावात् तन्निबन्धनम् अष्टकं पातनीयम्। अथ स्वरुपतयोदाहरत#ि-कुबेरजुष्टामित्यादि। जुष्टां सेविताम्। कुबेरजुष्टा दिगुदीची,सा प्रतिनायिकात्वेनानुसन्धीयते। समय एकदर्तुविशेषः। अन्यदात्वनन्यत्र गमनलक्षणाः संकेतः। दक्षिणस्यां दिशि नायिकात्वमनुसन्धीयते। व्यलीकम् अपराधः । अत्र निश्वासस्य स्वरुपमेवोत्प्रेक्ष्यं, न तु हेत#ु#ः फलं वा। इत्थं गुणोत्प्रेक्षादित्रये स्वरुपात्मकत्वं ज्ञेयम्। अथ फलवोत्प्रेक्षा-चोलस्येत्यादि। अत्र दर्शनक्रिया विपाटनफलत्वेनोत्प्रेक्ष्यते। इत्थं जातिगुणयोरपि फलत्वमनुसन्धेयम्। द्रव्योत्प्रेक्षायां हेतुफलासंभवात् तन्निबन्धनं षोडड्डत्ध्;शकं पातनीयम्। इत्थमशीतिविधाऽपि वाच्योत्प्रेक्षा साकल्येनोदाहृतकल्पैव। तदेतन्निगमयन्नाह-एवं वाच्योत्प्रेक्षाया इत्यादि। अथ प्रतीयमाना परिपाट्योदाह्रियते-महिलासहस्सेत्यादिना । महिलासहस्त्रभरिते तव हृदयेसुभग! सा अमान्ती । दिवसमनन्यकर्मा अङ्गं तन्वपि तनयति ।। दिवसमित्यत्यन्तसंयोगे द्वितीया। प्रतीयमानामुत्प्रेक्षामुद्धाटयति-अमा(अ)न्तीत्यत्रेत्यादिना। न्यायस्य सुज्ञानत्वात् विस्तरभीरुराह-एवं भेदान्तरेष्विति। अर्थाश्रियाऽपि धर्मविषये श्लिष्ट शब्दहेतुका संभवतीति योद्दिष्टा तामुदाहरति-श्लिष्टशब्देत्यादि। अनन्येति। प्रसिद्धस्त्यागीति गानप्रकारः। मार्गणाश्शाराः याचकाश्च। लक्ष्ययोजनायाह-अत्र धर्मविषय इति। मार्गणविषयीभावो धर्मः संभावनाशं एव प्रतीतिविश्रान्तेः श्लेषो नोत्प्रेक्षाबाधकः। कस्तूरीति। रोलम्बाभृङ्गाः। अङ्कः पर्यान्तः । स्थासकश्चर्चिका । उपमोपक्रमतामुपप#ादयति-अत्र यद्यपीत्यादि। "सर्वप्रातिपदिकेभ्य उपमानार्थे क्विप् इत्येके आचार्या" इति सूत्रार्थः। अत्र क्विपो माहात्म्यादुपाप्रतीताऽपि संभावनायां पर्यवस्यतीति। कण्ठत्विषां तिलकादिरुपत्वनियमासिद्धेः तिलकादिरुपताऽपि कदाचित्स्यादुपमानांशे संभावनाप्राणत्वमेव नतु वास्तवत्वम्। अत उत्प्रेक्षायां पर्यवसानम्। तदिदमभिसन्धायाह-तथाऽप्युपमानस्येत्यादि। उपमानस्य तिलकादेः प्रकृते कण्ठत्विङØपे संभवैचित्यात् संभावनमात्रस्योचितत्वात्। संभावनस्योत्थाने उत्प्रेक्षणस्योदयात्। अथोपमार्थकप्रत्ययान्तरप्रयोगेऽपि उपमोपक्रमत्वं दर्शयितुमाह-यथा वेत्यादि । केयूरायितमित्यत्रापि हि क्यङ्गो माहात्म्यादुपमा प्रतीतिरङ्गदादेः। केयूरादिवदाचरणे नियमाभावात् तथात्वसंभावनायाम् उत्प्रेक्षैव पर्यवस्यति। अथोपमानांशस्य वस्तुतोऽसिद्धस्य कविकल्पनायातत्वे सर्वैवोपमा (प्रतिपादक)शब्दमाहात्म्यादामुखे प्रतीताऽप्युत्प्रेक्षात#्वेन पर्यवस्यतीत्यभिसन्धायाह-एषा चेत्यादि। अप्रपञ्चने हेतुमाह- इति त्विति। गतासु तीरमिति। ससंभ्रमा गतिः फेनोल्लासहेतुः। अत्रेवशब्दादट्टहासस्य संभाव्यता। यत्तु व्यक्तिविवेककृदीद्दशि विषये मन्यते-"इवादिशब्दैरेव प्रकृतार्थस्यासत्त्वप्रतीतेः छ्रलादिशब्दाः पुनरक्ता" इति तत् मन्दम्। न खल्वीद्दशि विषये छलादिशब्दाप्रयोगेऽपि प्रकृतार्थस्यासत्यासत्यता गम्यते । अपि तु उत्प्रेक्षां प्रति हेतुभाव एव । यथा अत्रैव "फेनपरंपराभि"रिति पाठे। अतस्सापढद्धठ्ठड़14;नवत्वलक्षणमुत्प्रेक्षावैचित्र्यं छ्रलादिप्रयोगैकशरणम्। तदेतदभिसन्धायाह-अत्रेवशब्देत्यादि। अथोत्प्रेक्षाया एव प्रपञ्चनार्थं तत्तदलङ्कारबीजभूत तत्तत्पदावापोद्धाराभ्याम् अलङ्कारवैचित्र्यमाविर्भवतीति व्युत्पादयति-अपर इवेत्यादिना। अपरशब्दाप्रयोगेऽपि पाकशासनः सिद्धतया प्रतीयत इत्युपमैव। तत्प्रयोगे तु प्रकृतो राजैव अपरपाशासनत्वेनाध्यवसीयते। इवशब्द#ाञ्चाध्यवसानस्य साध्यतेत्युत्प्रेक्षैव। इव शब्दापोहे रुपकभेदप्राधान्यप्रतीतेः। इत्थं नानावैचित्र्यनिर्भरायामस्यां कुत्रचिदंशे नियमेन वाच्यता,कुत्रचित्तु कामचारः इति व्युत्पिपादयिषुर्हेतूत्प्रेक्षां तावत् व्युत्पादयति-तदेवंप्रकारेत्यादिना। प्रकृतसंबन्धिनः उपमेयसंबन्धिनः। यस्य धर्मस्य हेतुरुत्प्रेक्ष्यते,स धर्मोऽध्यवसायवशात् अभेदोपचरणवशात् अभिन्न उत्प्रेक्षानिमित्तमाश्रीयते नियमेन वाच्यो भवति। अस्योपमानधर्मेण सहाभेदाश्रयणं वाच्यत्वं वेति नियमद्वयमनुसन्धेयम्। यदैवं न स्यात् तदोत्प्रेक्षमाणो हेतुरभित्तिकमेव चित्रं स्यादित्याह-अन्यथा कं प्रतीति। तामिमां व्यवस्थामुदाहरणतो हृदयं गमयति-यथा अपश्यन्तावित्यादिना। अत्र कपोलौ प्रकृतौ तत्संबन्धी धर्मः क्षामता तद्धेतुत्वेन दर्शनमुत्प्रेक्षतम्। तदुत्प्रेक्षणे च न केवला कपोलक्षामता निमित्तम्,अपि तु लोके परस्परमद्रष्ट्रोर्या क्षामता तदभिन्नत्वेना ध्यवसिता सैवं चोत्प्रेक्षिता दर्शनलक्षणस्य हेतोः फलम्। तददमभिन्धायाह-अत्र कपोलयोरित्यादि। तच्च भिन्नमिति फलदशायाम् अभेदेनाध्यवसीयत इत्यर्थः। अदर्शनं प्रत्य प्रकृतैव हि क्षामता फलं, तत्र निमित्तं हेतूत्प्रेक्षणे प्रयोजकम्। परस#्परमद्रष्ट्रोर्यत्क्षामतागमनं तेन सहाभेदेनाध्यवसितमित्यर्थः। इयमभावाभिमानरुपक्रियालक्षणा हेतूत्प्रेक्षा। एवं भावाभिमानरुपलक्षणाहेतूत्प्रेक्षायामपि न्यायस्समान इत्याह-एवम् दृश्यतेत्यादिना। अत्रापि हि नूपुरगतमौनित्वस्य हेतुत्वेन दुःखमुत्प्रेक्षितम्। तदुत्प#्रेक्षणे च लौकिकदुःखमौनत्वाभेदेनाध्यवसितं नूपुरमौनित्वमेव निमित्तं दुःकोत्प्रेक्षणफलं च । इयं प्रक्रिया सर्वत्रैव हेतूत्प्रेक्षायामेकरुपेत्याह-एवं सर्वत्रेति । अथ स्वरुपोत्प्रेक्षायां क्वचिद्धर्मीं धम्र्यन्तरगतत्वेनाध्यवसीयते। क्वचित्तु धर्म एव धम्र्यन्तरगतत्वेन । तत्रोभयत्रापि निमित्तांशः कदाचिद्वाच्यो भवति। कदाचित्तु नेतिविवेचयुतुमारभते - स्वरुपोत्प्रेक्षायां यत्र धर्मीत्यादिना । स वः पायादित्यादि। अत्रेन्दुकलाकपालांकुरयोः साधम्र्यस्यासिद्धत्वात्। कुटिलत्वलक्षणस्य शब्देनोपादानम्,"वेलेव रागसागरस्ये"त्यत्र तु संक्षोभकारितायाः प्रसिद्धत्वादनुपादानम्। अथ धर्मस्य धर्मिगतत्वेनाध्यवसाने निमित्तोपादानानुपादाने दर्शयति-यत्र च धर्मं एवेत्यादि। प्राप्याभिषेकमिति। द्विषां भूरिति समन्वयः। अत्र धर्मसंभावनं,निमित्तोपादानञ्च विवेचयति-अत्र भूगतत्वनेत्यादि। लिप्मतीवेति। निमित्तानुपादानं विवेचयति-अत्र तमोगतेत्यादि। ननु धर्मे धर्मोत्प्रेक्षणवैचित्र्याय व्यापने लेपनमुत्प्रेक्ष्यतामित्यत आह-व्यापानादौ त्विति। निमित्तमन्यदन्वेष्यं स्यादिति। यथा लेपनोत्प्रेक्षणे व्यापनं निमित्तत्वेन गम्यते, न हि तथा व्यापनोत्प्रेक्षणे निमित्तमन्यदवगम्यते । अतोऽनवगतस्य कल्पनमवगतस्य परित्याग इति दोषद्वयमापतेदिति भावः। देषान्तरमप्युद्भावयति-न च विषयस्येति। यदि व्यापनमेव उत्प्रेक्षणविषयः न हि तस्यगम्यमानता युक्ता। तत्र हेतुः - तस्योत्प्रेक्षिताधारत्वेनेति। उत्प्रेक्षितम् उत्प्रेक्षिणं, तदाधारत्वेनाभिधातुं , प्रस्तुतस्याभिधातुमेवोचितात्वात्। अतो लेपनमेवोत्प्रेक्ष्यमिति निगमयति-तस्माद्यथोक्तमेर्वेति। अथ फलोत्प्रेक्षायां निमित्तानुपादानम् असंभवमित्यारभते-फलोत्प्रेक्षायामित्यादि। तस्य फलस्य यदेव लोकस्थित्या कारणं , तदेवोत्प्रेक्षणनिमित्तम्। तच्चेन्नोपादीयेत, तदेवोत्प्रेक्ष्यमाणं फलं कस्य फलतयोक्तं स्यात्। अतः फलोत्प्रेक्षायां निमित्तोपादाननियम एव। तदिदमुदाहृत्य दर्शयति-रथस्थितानामिति। अत्रोत्तरदिशस्तुरगोत्पत्तिभूमित्वात् तद्गमनं पुरातनतुरङ्गपरिवर्तने हेतुः। तदेवोत्प्रेक्षणनिमित्तम्। तदनुपादाने परिवर्तमानं उत्प्रेक्ष्यमाणं कस्य फलं स्यात्। तदिदमभिप्रेत्याह-अत्र परिवर्तनस्येत्यादि। अनेनाशीचिलिधत्वेन दृष्टेषु प्रभेदेषु पुनः केषांचित् पातोदर्शितः। तथाहि-उपात्तनिमित्ता ये षोडड्डत्ध्;षभेदास्तेषां प्रतिस्वं हेतुस्वरुप फलोत्प्रेक्षणरुपत्वे अष्टचत्वारिंशत्। द्रव्ये हेतुफलोत्प्रेक्षा पातेऽष्ट कहानिरिति चत्वारिंशत्। अनुपात्तनिमित्तत्वे तु षोडड्डत्ध्;शकेहेतुफलरुपताभावात् स्वर#ुपोत्प्रेक्षैकरुपतैवेति षोडड्डत्ध्;शैव।अतः तत्षट्पञ्चाशदेव प्रभेदाः। यदित्थमियमुत्प्रेक्षा अतिसूक्ष्मेक्षिकया प्रपञ्चिता। तत्र-हेतुमाह-तदसावित्यादि। कक्ष्याविभागो जातिगुणादिरुपतया स्थितः। प्रचुरस्थितोऽपि अनाकुलन्यायतया प्रभूतवृत्तिरपि। लक्ष्ये दुःरवधारत्वात् उत#्तानधियां लक्ष्ययोजनान्तमशक्याधिगमत्वात्(न)प्रपञ्चित इत्यर्थः । अथ मन्येप्रमुखस्य शब्दस्य संभावनाद्योतकत्वेऽपि तत्प्रयोगमात्रेणोत्प्रेक्षाभ्रमो न कार्य इति व्युत्पादयति-अस्याश्चेत्यादि। उत्प्रेक्षासामग्रयभाव इति। अप्रकृतगतगुणक्रियाभिसम्बन्धात् अप्रकृतत्वेन प्रकृतसंभावनमुत्प्रेक्षासामग्री। तदभावे वितर्को नूनमित्यभ्यूहमात्रम्। तदिदमनुस्मारयति-यथोदाहृतं प्रागित्यादि । अत्र संग्रहश्लोकाः - गुणक्रियाभिसम्बन्धात्प्रकृतेऽप्रकृतात्मना । संभावनं स्यादुत्प्रेक्षा वाच्येवाद्यैः परान्यथा ।। जातिक्रियागुणद्रव्योत्प्रेक्षण सा चतुर्विधा । भावाभावाभिमानत्वे जात्यादेस्साष्टधा पुनः ।। गुणक्रियानिमित्तत्वे ज्ञेया षोडड्डत्ध्;शधा तथा । द्वातिं्रशच्च निमित्तस्योपादानादन्यथा स्थितेः ।। हेतौ स्वरुपे चोत्प्रेक्ष्ये फले षण्णावतिः पुनः । द्रव्यहेतुफलात्मत्वासंभवात्तद्भिदाच्युतिः ।। तथा प्रतीयमानायां निमित्तस्यानुपग्रहः । नापि स्वरुपं तैर्भेदैः तस्मान्न्यूना भवेदियम् ।। क्वचिच्छ्रलेषेण धर्मांश गतेर्नैषा न बाध्यते । उपमोपक्रमाऽप्येषा भवेत्सापढद्धठ्ठड़14;नवाऽपि च ।। अथोत्प्रेक्षां निगमयन् अतिशयोकिं्त सङअगतिपुरस्कारेण प्रस्तौति-एवमध्यवसायस्येति। सिद्धत्व इति। अध्यवसितस्य विषयिणः प्राधान्ये अध्यवसायस्य सिद्धत्वम्। अथ सूत्रम्-अध्यवसितप्राधान्ये त्वतिशयोक्तिः। उत्प्रेक्षाऽतिशयोक्त्योः विषयं विभक्तुमाह-अध्यवसाये त्रयमित्यादि। स्वरुपमध्यवसानं व्यापारात्मकम्। विषयः प्रकृतोऽर्थः विषयी त्वप्रकृतः। तत्राध्यवसायस्वरुपम् उत्प्रेक्षाप्रस्तावे विवेचितम् । प्रतीतिवैशद्याय स्मारयति-विषयस्य हीत्यादि। अन्तर्नीतत्वे निगीर्णत्वे। तत्रोत्प्रेक्षाविषयं विभजति-शाध्यत्वे स्वरुपप्राध#ान्यमिति। अतिशयोक्तिविषयं विभजति-सिद्धत्वे अध्यवसितप्राधान्यमिति। अध्यवसितो गुणीकृताध्यवसानो विषयी। विषयस्तु प्राधान्यं नार्हतीत्याह-विषयप्राधान्यमिति। नैव संभवतीति विषयस्य। विषयिणानिगीर्णस्वरुपप्रतीतिरेव तिरोधीयते। प्राधानयसंभवः कुत इति भावः । अतिशयोक्त#िलक्षणं निगमयति-अध्यवसितप्राधान्ये चेति। तद्भेदानुद्दिशति-तस्याश्चेत्यादि । क्रमेणोदाहरणानि-कमलमनम्भसीति। अत्र मुखनयनगात्रलक्षणान्विषयान् निगीर्य कमलकुवलयकनकलतालक्षणा विषयिणः तदभेदेनाध्यवसिताः । भेदेऽभेदं विवृणोति - अत्र मुखादीनामित्यादि। अण्णं सडड्डत्ध्;हेति । अन्यत्सौन्दर्यमन्यापि च कापि वर्तनच्छ्राया । श्यामा सामान्यप्रजापते रेखैव न भवति ।। लडड्डत्ध्;हत्वं प्रौढत्वम्। अभेदे भेदं दर्शयति-अत्र लडड्डत्ध्;हेत्यादि। अत्राभेदे भेदो धर्मनिष्ठ एकविषयो दर्शितः। धर्मिनिष्ठतया विभिन्नविषयतया च दर्शयितुमाह-यथावेति। णाराणोत्तीति। "नारायण इति परिणतवयोभिः श्रीवल्लभ इति तरुणीभिः । बालाभिः पुनः कौतुकेन एवमेव दृष्टः ।। " इत्यत्र परिणातवयस्कानां श्रीवल्लभत्वाभेदेऽपि नारायण इति (भे)देन दृष्टस्तथैवाभिरुचेः । तरुणीनां नारायणत्वाभेदेऽपि श्रीवल्लभ इत्येव,तथैवार्थित्वात्। बालानां तु यत्किञ्चिदिति नूतनं वस्तु द्रष्टव्यमित्येव,तथा व्युत्पत्तेः। यद्वा प्रत्येकं समस्ता रुच्यर्थित्वव्युत्पत्तयोभेददृष्टौ निमित्तं प्रपञ्चितम् उल्लेखप्रस्तावे। तदिदमभिसन्धायाह-अत्राभिन्नस्यापीति। अभिन्नस्य धर्मिणा इति शेषः । विषयविभागेन। परिणतवयस्कादि(ना) । लावण्येत्यत्र सम्बन्धेऽसम्बन्ध- । अत्रैकनिर्मातृनिष्टतया धर्मसम्बन्धेऽसम्बन्धः । अथ भिन्ननिर्मातृनिष्ठतयाऽपि दर्शयितुमाह-यथा वेति। अस्यास्सर्गेति। श्रृङ्गारैकरस इति प्रत्येकमभिसंबध्यते। पुष्पं प्रवालेलि। अत्र पुष्पप्रवालादिकयोः साक्षादसम्बन्धेऽपि यदीति संभावनया सम्बन्धः। पुष्पकाले प्रवालत्वापगमात्। न च मन्तव्यं संभावनायां व्यापारप्राधान्यात् अत्रोत्प्रेक्षैवेयमिति। ततोऽनुकुर्यादिति समन्वयवाक्ये अध्यवसितप्राधान्यात्। अत उत्प्रेक्षानुगृहीतेयमतिशयोक्तिः। तदितमभिसन्धायाह-अत्र संभावनया संबन्ध इति। अथोत्प्रेक्षाग्रहणमन्तरेणापि असंबन्धे संबन्धमुदारहति-दाहोऽम्भः प्रसृतिमिति। अत्र दाहबाष्पश्वासवपुषामम्भः प्रसृतिं पचत्वप्रणालोचितत्वदीपकलिकाप्रेङ्खोलनपाण्डिड्डत्ध्;ममज्जनेषु संबन्धाभावे अपि सिद्धत्वेनोक्तिः। तदेतदाह-अत्र दाहादीनामित्यादि । कार्यकारणपौर्वापर्यविध्वंसे द्वैविध्यमाह-कार्यकारणेत्यादि। विपर्ययः कार्यस्य पूर्वकालभाविता। हृदयमिति। अत्र हृदयस्य दयटिताधिष्ठानं कुसुमचापबाणाधिष्ठानस्य कारणम्। कारणञ्च नियतपूर्वकालभावि । तदिहान्यथोपन्यस्तमिति पौर्वापर्यविपर्ययः। अविरलेति। नीपः कदम्बः। प्रावृडड्डत्ध्;यनं पथिकगेहिनीमृतिकारणम्। अत्र त्वायातो मृता इति निष्ठाभ्यां तयोस्समकालता । ननु भेदेऽभेदादिकथ नमसङ्गतम् इत्यत आह-एषु पञ्चस्विति। लोकातिक्रान्तगोचरंलोकातिशा यित्वलक्षणं गोचरयतीत्यर्थः। अतो भेदेऽभेदरुपो मुख्यार्थो न विवक्षित इतियावत्। ननु भेदेऽभेदाध्यवसायो लक्षणमतिशयोक्तेः। तदभेदे भेद इत्यादावव्यापकमित्यत आह-अत्र चातिशयाख्यमित्यादिना। यदिह भएदेऽभेदादिरुपाया अतिशयोक्तिनिमित्तभूतं प्रयोजकमतिशयाख्यं फलं तत्राभेदाध्यवसायो, न तु फलिनोः। तदितमुपदर्शयति-तथा हीत्यादि। वदनादीनां यद्वस्तुवृत#्तसिद्धं सौन्दर्यं तत्कविसमर्पितेन कमलादिसौन्दर्येण सहाभेदेनाध्यवसितं सद्भेदेऽभेदादिवचनस्य निमित्तं कमलमुखादिकयोरभेदाध्यवसायो योजयितुं शक्यः। तथासति अव्यात्पिदोषः स्यादित्यत आह-अभेदे भेद इत्यादि। आदिशब्दात् सम्बन्धेऽसम्बन्धपरिग्रहः । प्रकारेष्विति। बहुवचनं तदवान्तरभेदपरम्। अभेदे वास्तवे यदा भेदकथनं न हि तदा फलिनोरभेदाध्यवसायः। फलं तु तत्राप्यभेदेनैवाध्यवसीयत इत्यत आह-अण्णं लडड्डत्ध्;हत्तणअं इत्यादाविति। अण्णं लडड्डत्ध्;हत्तणअमित्यादौ हि यत् वस्तु तस्मिद्धं लडड्डत्ध्;हत्वं यच्चान्यत्वेन कविसमर्पितं सातिशयं, न खलु तयोर्भेदः कश#्चित्। किन्तु समान्यप्रजापतिनिर्माणकविसमर्पितनिर्माणयोरेव फलिनोर्भेदः। अयं न्यायस्सम्बन्धेऽसम्बन्धः इत्यत्रापि सम इत्याह-एवमन्यत्रेति। तत्रापि खलु "लावण्यद्रविणे"त्यादौ वेधसो लावण्यद्र्रविणसम्बन्धेऽप्यसंबन्धः केवलं न पुनस्तन्व्या नैसर्गिकलावण्यकविसमर्प#ितवेधस्सम्बन्धि लावण्ययोरसंबन्धः। एव "मस्याः सर्गविधा"वित्यत्रापि ज्ञेयम्। नियमतो लक्षणभूतमध्यवसितप्राधान्यं फलाभिप्रायेणैवेत्याह-तदभिप्रायेणैवेत्यादि। अथ कार्यकारणलक्षणप्रकारे पुनर्विवेचयिष्यमाणो पौनरुक्त्यशङ्कां शमयितुमाह-प्रकारपञ्चकेत्यादि। कार्यताश्रयत्वात् तत्रापि सङ्गतिः प्रपञ्चार्थत्वात् नानर्थक्यमिति सर्वमवदातम्। अभेदाध्यवसायो हि फलेऽतिशयनामनि । न पुनः फलिनोस्तत्राभेदो न सिध्यति ।। अथाध्यवसायमूलमलङ्कारद्वयं निगमयन् धर्मान्तरमधिचिकीर्षुराह-एवमध्यवसायाश्रयेणेत्यादि। गम्यमानौपम्याश्रयेष्वपि यन्न्यायात्प्राधान्यमर्हति तद्द्वयमधिकरोति-तत्रापि पदार्थेत्यादिना । तत्र तुल्ययोगितार्थं सूत्रम्। औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तुतानां वा समानधर्माभिसम्बन्धे तुल्ययोगिता। औपम्यस्य गम्यत्वे पदार्थगतत्वेनेत्यधिकारद्वयम्,अन्यत्तु लक्षणं व्याचष्टे-इवाद्यप्रयोग इत्यादि। प्राकरणिकानामप्राकरणिकानां वेति विषयद्वयम्। गुणक्रिया चेति धर्मद्वयम्। अत श्चातुर्विध्यमनुसन्धेयम्। प्राकरणिकेषु गुणाभइसंबन्धः,क्रियाभिसम्बन्धश्च। अप्राकरणिकेषु तथेति । समानगुण क्रियासंबन्धो हि तुल्ययोगि(ता)। तामिमां निरुक्तिमाविष्करोति-अन्वितार्थेति। अन्वितार्था अन्वर्था। सज्जेति। तामिमां निरुक्तिमाविष्करोति-अन्वितार्थेति। अन्वितार्था अन्वर्था। सज्जेति। दिनानि सज्जानामातपत्राणां प्रकरैरञ्चितानि। पद्मानि तु सज्जातानां सुजातानां पत्राणाम्। पाटलेत्येकत्क वर्णाः,अन्वत्र तु पुष्पम्। प्राकरणिकार्थविषयतां क्रियाभिसंबन्धं च दर्शयति-अत्र ऋतुवर्णनेत्यादि। ऋतुग्र्रीष्मः। प्राकरणिकेषु गुणाभिसन्धायाह-एवं गुणेऽपीति। योगपट्ट इति। अत्र तपः प्रस्तावाद्योगपट्टादीनां प्रकृतत#्वम्। उचितत्वं गुणस्वभावाभिमानरुपतयाभिसंबध्यते,यद्युचितानि तदुच्यतामित्याक्षेपात्। अनेन गुणक्रिययोर्भावाभावाभिमानरुपं वैचित्र्यमप्यासूत्रितम् । धावत्त्ववश्वेति। अश्वपृतनायास्सकाशात् गूंर्जरनृपस्य भग्रस्य मुखे पतितं रजः। कयाऽपि सानुकम्पया तन्व्या प्रमृष्टम्। यशस्तु तवासिलतया । अप्राकरणिकविषयं क्रियाभिसंबधं दर्शयति-अत्र गूर्जरं प्रतीत्यादि। गूर्जरापेक्षयाहिकयाऽपीति निर्देशात् तन्व्या अप्राकरणिकत्वम्। असिलतायास्तु वण्र्यनायकविषयतया। त्वदङ्गेति। त्वदङ्गमार्दवं पश्यतः सर्वस्यैव चित्ते मालत्यादीनां कठोरताऽवभासत इत्यर्थः। अत्र मालत्यादिषु अप्राकरणिकेषु कठोरत्वगुणाभिसंबन्धः। तुल्ययोगितां निगमयति-एवमेषेति । प्रकृतेष्वथवान्येषु ज्ञातव्या तुल्ययोगिता । गुणक्रियाऽभिसम्बन्धात् समानादन्वितार्थिका ।। अथ सङअगतिपुरस्कारेण दीपकं प्रस्तौति-प्रस्तुताप्रस्तुतयोः इत्यादि। अथ सूत्रम्-प्रस्तुताप्रस्तुतानां तु दीपकम्। समानधर्माभिसंबन्ध इत्यनुषज्यते। अधिकारमनुस्मारयन् व्यचष्टे - ओपम्यस्येत्यादिना। इह प्राकरणिकाः अप्राकरणिकाश्चोपादीयन्ते। तेष्वेकतरत्रोपात्तस्साधारणो धर्मोऽन्यत्रोपकरोति। अतो दीपनरुपादुपकारात् दीपसदृशोऽयमिति कृत्वा दीपकमिदम्। तदिदमुक्तम्-प्राकरणिकाप्राकरणिकेत्यादिना। औपम्यस्य गम्यत्वं प्राग्वदेवेत्याह-तत्रेवाद्य प्रयोगादित्यादि। यश्चात्रोपमानोपमेयभावः स तुल्ययोगितातो विलक्षण इत्याह-स चेत्यादि। वास्तवः प्राकरणिकाप्राकरणिकनिम्नत्वात्। पूर्वत्र तुल्ययोगितायाम्। वैवक्षिकः विवक्षया क्लृत्पः । वैवक्षिकत्वेहेतुः - शुद्धप्राकरणिकेत्यादि। शुद्धप्राकरणिकत्वे हि उपमानत्वं वास्तवम्। शुद्धाप्राकरणिकत्वे तूपमेयत्वम्। तदिदं विशदीकरोति-प्राकरणिकत्वेत्यादिना। ननु प्रतिस्वं क्रियासम्बन्धे कथं पदार्थगतं इत्यत आह-अनेकस्यैकक्रियेत्यादि। सम्बध्यमानधर्मस्यैकत्वात्पदार्थत्वोपचरणमित्यर्थः। अतो वाक्यार्थगतत्वे वास्तवे त्रैविध्यमुपपद्यत इत्याह-वस्तुतस्त्वित्यादि। रेहइ इति। राजते मिहिरेण नभो रसेन काव्यं स्सरेण यौवनम् । अमृतेन धुनीधबस्त्वया नरनाथ भुवनमिदम् ।। धुनी सरिद्धवः पतिः, सागर इत्यर्थः । इदं क्रियायाः आदिवाक्यगतत्वादादादिदीपकम्। संचारेति। निलयो गृहम् अस्तमयश्च । पल्लवरागो माणिक्यविशेषः योगाढरागः(?)। इदमप्यादिदीपकम्। क्रियायाः प्रथम पदत्वम् तन्त्रमिति द्योतयितुम्-(यथा वेति)। (विसमअओ)इति। एतन्मध्यदीपकम्। (बोले इ)इति मध्ये वाक्ये क्रियाविनिवेशात्। किवणाणेति। कृपणानां धनं नागानां फणामणिः केसराणि सिंहानाम् । कुलपालिकानां च स्तनौ कुतस्स्पृश्यन्तेऽमृतानाम् ।। जीवितान्न (जीवितां न?) स्पृश्यन्ते इत्यर्थः। क्रियादीपकत्रयं निगमयति-एव-मेकेति। अनयैवनीत्या कारकदीपकं उदाहर्तुमाह-अत्र च यथेत्यादि। साधूनामिति। कारकदीपकत्वं विकृणोति अत्रोपकरणादिति। मालादीपकं तु प्रस्तावान्तरे भविष्यतीत्याह-छायान्तरेण त्विति। दीपकं वास्तवौपम्यं प्रकृताप्रकृताश्रयम् । आदिमध्यान्तवाक्येषु क्रियाकारकभेदतः ।। अथ वाक्यार्थगतत्वेन प्रतिवस्तूपमां सूत्रयति-वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथङ्निर्देश प्रतिवस्तूपमा।। सङ्गतिमाह-पदार्थारब्वेति। इह नानालङ्कार शङ्कामपनेतुं विषयं विभजति-तत्र सामान्यधर्मस्येत्यादि। इत्ता(इवा?)दिकमुपादाय सामान्यधर्मस्य सकृन्न#िर्देश उपमायामेवोदाहृतं "प्रभामहत्याशिखयेव दीप" इति। इवादिकमुपादायवस्तुप्रतिवस्तुभावेनासकृन्निर्देशेऽपि सैव "यान्त्या मुहुर्वलितकन्धरमाननं तदावृत्त वृन्तशतपत्रनिभ"मिति। इवादिकमनुपादाय यथा सकृन्निर्देशस्तदा प्रस्तुताप्रस्तुतानां समस्तत्वे दीपकं,तथैव व्यस#्तत्वे तुल्ययोगिता। तदुभयमपि समनन्तरमेव दर्शितम् । असकृन्निर्देशेतु द्वयी गतिः-शुद्धसामान्यरुपत्वं,बिम्बप्रतिबिम्बो वा। शुद्धसामान्यत्वं नाम सम्बन्धिभेदमात्राद्धर्मस्य पृथङ्निर्देशः। तथा इवाद्यनुपादाने प्रतिवस्तूपमा। प्रतिवस्तूपमांनिर्वक्ति-वस्तुशब्दस्येत्यादि। वस्तुशब्द इह वाक्यार्थपरः। उपमा तु साम्यम्। प्रतिवाक्यार्थं भवतीत्यन्वर्थाश्रयणा । ननु यदि धर्मस्यासकृन्निर्देशरुपं शुद्धसामान्यरुपत्वं तदा किं पर्यायान्तरेणेत्यत आह-केवलं काव्येत्यादि। उद्देशप्रतिनिर्देशभावाभावे यदा तस्यैव पुनरुपादानं,तदा पर्यायान्तराभावे अनवीकृतदोषः स्यात्। अतः पर्यायान्तरेण पृथङ्निर्देशेः इति काव्यसमयः। सोऽयं प्रत#िवस्तूपमाविषयः । अथ धम्र्यपेक्षो बिम्बप्रतिबिम्बभावो यदा,तदा दृष्टान्तो वक्ष्यत इत्याह-द्वितीयप्रकारेत्यादि। सादृश्याधिकारमनुस्मारयतितदेवमौपम्येत्यादि। चकोर्य इति। आवन्त्यः अवन्तीप्रभवाः । धर्मस्य शुद्धसामान्यरुपतां पर्यायान्तरत्वं च दर्शयति-अत्र चतुरत्वमित्यादि। विच्छित्त्यन्तरायाह-न केवलमित्यादि। लाघवाय प्रागुदाहरणमेव वैधम्र्येण दर्शयति-विनावन्तीरिति। असकृद्धर्मनिर्देशादिवादेरनुपग्रहात् । प्रतिवस्तूपमाज्ञेयाप्रतिवाक्यार्थसाम्यतः ।। अथ दृष्टान्तं सूत्रयति-तस्यापि बिम्बप्रतिबिम्बतया निर्देशे दृष्टान्तः। व्याचष्टे-तस्यापि न केवलमित्यादि। प्रतिवस्तूपमान्यायेन द्वैविध्यमाह-अयमपीति। अब्धिर्लङ्घित इति। गुरुकुलाक्लिष्टः नित्योपासनेन तदेकशरणीभूतः। अत्र बहूनां वानरभटैः मन्थाचलेन सहधर्म#्यपेक्षो बिम्बप्रतिबिम्बभावः। दिव्यवागुपासनस्य अब्धिलङ्घनेन गुरुक्लिष्टत्वस्या पातालनिमग्रत्वेन च धर्मापेक्षः। ननु जानाति जानीत इति ज्ञानस्य पृथङ्निर्देशात् कथमिदं दृष्टान्तोदाहरणमित्यत आह-अत्र यद्यपीत्यादि। नैतन्निबन्धनमिति। न हि ज्ञाननिबन्धनं औपम्यं विवक्षितं,ज्ञानस्योपचारात् । यत्र तु विवक्षा तत्र न किञ्चिन्न्यूनमित्यत आह-यन्निबन्धनं चेत्यादि। इदं साधम्र्ये । कृतञ्चेति। त्वया मनसि गर्वाभिमुखे कृते तत्क्षणमेव द्विषो निहता इत्यर्थः। द्वौ चकारौ क्रिययोरेक रुपकालतामाहतुर्यतः। वैधम्र्येण प्रतिबिम्बनं निदर#्शयति-अत्र निहितत्वादेरित्यादि। निहतत्वं गर्वाभिमुखीकरणं च अन्वयमुखेन उक्तम्। तमःस्थानं उदयाद्रिमौलित्वं च व्यतिरेकमुखेन। न यावदित्युपन्यासात्। अतो वैधम्र्येण प्रतिबिम्बनम्। बिम्बानुबिम्बन्यायेन निर्देशे धर्मधर्मिणोः । दृष्टान्तालंकृतिज्र्ञेया भिन्नवाक्यार्थसंश्रया ।। निदर्शनां सूत्रयति-संभवताऽसंभवता वा वस्तुसम्बन्धेन गम्यमानं प्रतिबिम्बकरणंनिदर्शना। सङ्गतिमाह-प्रतिबिम्बेति। व्याचष्टे-तत्र क्वचिदित्यादि। वस्तुसम्बन्धो वाक्यार्थसम्बन्धः। इत्थमियं द्विधा-सम्भवद्वस्तुसम्बन्धा,असम्भवद्वस्तुसम्बन्धाचेति-चूडड्डत्ध्;ामणीति। यो गिरिरागतं अभ्यागतं रविं सतां आतिथेयी अतिथिसत्कृतिः कार्येति बोधयन् धत्ते । योजयति-अत्र बोधयन्धत्त इति। बो धनसमर्थस्य आचारोगिरौ प्रयिक्तः तस्याचेतन्त्वेऽपि कारीषोऽग्रिरध्यापयतीतिवत् गिरिः गृहमेधिनो बोधनक्रियासमर्थान् करोतीति तत्सामथ्र्याचरणो णिचः प्रयोगात् सम्भवति वस्तुसम्बन्धः। अव्यात्स इति। स शिवोऽव्यादित्यर्थः। यस्येन्दुः स्मरचापलीलां स्पृशति। अत्रान्यसम्बन्धिन्या लीलाया अन्येन स्पर्शासंभवात् इयमसंभवद्वस्तुसम्बन्धा । ननु तर्हि असङ्गतिरेव स्यादित्यत आह-लौलासदृशीं लीलामित्यादि। लक्षणाश्रयणाददूरविप्रकर्षम्। वैचित्र्यान्तरायाह-एषापीत्यादि। समनन्तरेदाहृतायामेकक्रियाभिसम्बन्धात् पदार्थवृत्तिता । त्वत्पादेति। नखरत्नानां निसर्गशोणात्वात् अलक्त(क)मार्जनमेव पाण्डुड्डत्ध्;रीकरणं न भवति यतः अत्र येषां दृष्टान्तधीः ते मन्दा इत्याह-केचिदित्यादि। वाक्यार्थनैरपेक्ष्ये दृष्टान्तः। सापेक्षत्वे तु न#िदर्शनेत्याह-यत्र तु प्रकृत इत्यादि। सामानाधिकरण्ये नाध्यरोप्यत इति वाक्यैकताश्रयणेन एकक्रियान्वयात् प्रकृतान्तः पातित्वं नीयत इत्यर्थः। तत्र वाक्ये प्रकृताप्रकृतवाक्ययोः सम्बन्धानुपपत्तिमूला निदर्शनैवेत्यर्थः। यत्राप्यनतिस्फुटं सापेक्षत्वं दृष्टान्तधीर्माभूदिति उदाहरणेन दर्शयति-एवं चशुद्धान्तेत्यादि। आश्रमवासिनो जनस्य शुद्धान्तदुर्लभं वपुर्यदीति यच्छ्रब्द उत्तरवाक्ये तर्हिदूरीकृता इति तच्छ्रब्द मुत्थापयति इति वाक्यार्थयोः सापेक्षत्वान्निदर्शनैव इयम्। तदेतदाह-उक्तन्यायेनेति। अथ वैचित्र्यान्यरायाह-इयं च सामान्यैनैवेत्यादि। सामान्येन वाक्यार्थयोपसंबन्धात् प्रतिपादनं वैचित्र्यानतरोपोद्धातः। वैचित्र्यान्तरं विवेचयति-उपमेयवृत्तस्येत्यादि। शुद्धान्तदुर्लभमित्यादौ हि उपमेयवृत्तेऽध्यारोपितस्य उपमानवृत्तस्याम्भवः। अथैतद्विपर्ययोऽपि - वियोग इति। वियोगेन निमित#्तेन पाण्डड्डत्ध्;रीभूतानां नारीणां गण्डड्डत्ध्;तलेयः पाण्डिड्डत्ध्;मासखर्जुरी मञ्जरीगर्भरेणुष्वलक्ष्यतेत्यत्र उपमेयवृत्तस्य गण्डड्डत्ध्;पाण्डिड्डत्ध्;म्रो मञ्जरीगर्भरेणुरुप उपमानवृत्तेर्लक्ष्यत्वासंभवात् उपमा प्रतीयते। तदेतदाह-अत्र गण्डड्डत्ध्;तलमित्यादि। अस्यैव च प्रकारस्य वैचित्र्यान्तरायाह-एष प्रक#ार उपमेयवृत्तस्य उपमानवृत्तेऽन्वयासंभवलक्षणाम्। मुण्डड्डत्ध्;सिरेति । मण्डड्डत्ध्;शिरसि बदरफलं बदरोपरि बदरं स्थिरंधारयसि । द्विगुच्छ्रायसे आत्मा मूढः छ्रेकाश्छ्रल्यन्ते ।। छ्रेका विदग्धाः। छ्रल्यन्ते छलं नीयन्ते। अत्र छ्रेकछ्रलनहेतोर्नष्फलदुस्सङ्घटमूढकार्यपरम्परालक्षणस्य प्रतीयमानस्य उपमेयवृत्तस्य बदरधरणादावुपमानवृत्तेऽन्वयासंभवः। स च परस्परसव्यपेक्षत(या)पड्ड्डत्ध्;क्त्यवस्थानत् श्रृङ्खलान्यायेन स्थितः। मिथोऽनपेक्षपड्ड्डत्ध्;क्त्यवस्थानलक्षणाया मालारुपेणापि संभवतीत्याह-इयमपीति । अपिशब्दो भिन्नक्रमः। मालयापि भवन्तीत्यर्थः। अरण्येति अरण्यरुदितं कृतं तादृशोदुःखातिभारस्य दुःखभागिजनमन्तरेण अनुभूतत्वात्। शवशरीरमुद्वर्तितं अगरुचन्दना दिनाऽनुलित्पम्। तथाविधस्य संस्क#ारस्य तस्य वा स्वस्य वा अन्येषां वा भोगायोगात्। स्थलेऽब्जमवरोपितं भुवनलालनीयस्य वस्तुनोऽपत्वात्। सुचिरमिति प्रतिवाक्यमन्वीयते। ऊषरे वर्षितं नैरर्थक्यनैष्फल्ययोरुद्वेलत्वात्। श्चपुच्छ्रमवनामितं चिरसंस्काराधानेऽप्य नाहितंसंस्कारत्वात् । बधिरकर्णजापः कृत#ः । जापः उपांशुरहस्योक्तिः। अपात्रमिति ज्ञात्वैव दुरुत्कण्ठया समारम्भात्। अन्धमुखमण्डड्डत्ध्;ना कृता तस्य अनुपयोगादन्येषां विडड्डत्ध्;म्बनास्पदत्वात्। अबुधो जनः सेवितो यदिति वाक्यार्थेन विशेषितो यच्छब्दः प्रधान वाक्यार्थभूता(म्) क्रिया (मु)पगृढद्धठ्ठड़14;णाति। यदबुधजनसेवनं तदरण्यरुदितादिकरणामित्युपमेयवृत्तस्य उपमानवृत्तेऽध्यारोपितस्य अन्वयासंभवो मालयावतिष्ठते । अथ शाब्दोपादानां विनापि अर्थाक्षेपादेव निदर्शनावैचित्र्यं भवतीत्याह-क्वचित्पुनरित्यादि। निषेधो हि प्रात्पिपूर्वक एवेति प्रात्पिमाक्षिपति। निषेधाक्षित्पायाः प्राप्तेः सम्वन्धानुवपपत्तिरपि क्वचिन्निदर्शनाबीजमित्यर्थः। तदा(नी मिय)मार्थीति भावः । उत्कोप इति। अत्र पद्भ्यां हंसगतिर्मुक्तेति त्यागरुपनिषेधबलात् पादयोर्हसगतिप्रात्पिराक्षित्पा। सा साक्षात्सम्बद्धुमशक्ता सादृश्यमवगमयति। तदेतदाह-अत्र मुक्तेतीत्यादि । सम्भवद्वस्तुसम्बन्धोऽसम्भवद्वावबोधयेत् । प्रतिबिम्बं यदि तदा निज्र्ञातव्या निदर्शना ।। बिम्बानुबिम्बार्थतया वाक्ययोः प्रकृतान्वयोः । स्यान्नैरपेक्ष्ये दृष्टान्तः सापेक्षत्वे निदर्शना ।। इत्थमभेदप्राधान्याधिकारनिपातिनोऽलङ्काराः विवेचिताः । अथ भेदप्राधान्येन व्यतिरेकं सूत्रयति-भेदप्राधान्ये उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः। भेदप्राधान्ये साधम्र्य इत्यनुषज्यते। भेदप्राधान्यं व्यतिरेकस्योक्तचरमनुस्मारयन् अधिकरोति - अधुनेत्यादि। भेदमसम्भववैचित्र्यद्वयं प्रभेदबीजत्वेन उट्घाटयति-भ#ेदो वैलक्षण्यमित्यादि। विपर्ययशब्दात् मिथ्याज्ञानभ्रमो मा भूदित्याह-विपर्ययो न्यूनगुणत्वमिति। दिद्दक्षव इति । अत्र नीलोत्पलिनी विकासापेक्षयाक्षिसहस्त्रपक्ष्मलताया अधिकगुणत्वम्। क्षीणः क्षीणोऽपीति । अत्र अनिवर्तिनो यौवनस्य क्षयिणोऽपि भूयोऽभिवर्धितशशिव्यपेक्षया न्यूनगुणत्वम्। तदेतदुभयं योजयति-अत्र विकस्वरेत्यादिना। भेदप्रधाने साधम्र्ये व्यतिरेको विधीयते । आधिक्यादुपमेयस्य न्यूनत्वाद्वोपमानतः ।। सर्होकिं्त सूत्रयति- उपमानोपमेययोरेकस्य प्राधान्यनिर्देशेऽपरस्य सहार्थसम्बन्धे सहोक्तिः। अधिकारमनुस्मारयन् सामग्रीमस्या विविनक्ति-भेदप्राधान्य इत्येवेत्यादिना। ननु सहार्थ तया तुल्यकक्ष्ययोः कथं भेदप्रधानतेत्यत आह-गुणप्रधानभावेत्यादि। सत्यम्। सहार्थसामथ्र्यात् साधम्र्यमेवात्र। भेदप्राधान्यं तु व्यतिरेकनयेन साधाम्र्यभित्ति कमिह न भवति अपि तु गुणा प्रधानभावभित्तिकमिति यावत्। ननु समानयोगत्वे गुणप्राधानभावोऽपि कीदृगीत्यत आह-सहार्थप्रक्तेति। सहार्थो हि तृतीयां तं गुणत्वेन प्रयोजयति। ननु सहार्थत्वे क उपमानोपमेयभाव इत्यत आह-उपमानोपमेयत्वं चेत्यादि। तद्धि तृतीयान्तस्य विशेषणत्वादुपमानत्वं विवक्ष्यते। इतरस्य तु विशेष्यत्वादुपमेयत्वम्। अतो वैवक्षिकमेव न तु वास्तवमिति भावः। अवास्ततत्वे हेतुमाह-द्वयोरपीत्यादि। ननु द्वयोः प्राकरणिकत्वमेवाप्राकरणिकत्वमेव वेतिकिं नियामकमित्यत आह-सहार्थसामथ्र्यादिति। ननु तर्हि वैवक्षिकत्वे कतरत् केन रुपेण विवक्ष्यतामित्यत आह-तृतीयान्तस्येत्यादि। ननु प्रधानमपि तृतीयान्तेन निर्देशमर्हतीत्यत आह-शाब्दश्चेति । सहशब्दो हि नियमेन तृतीयान्तस्य शाब्दगुणत्वं कल्पयति। इतरस्य तु प्राधान्यम्। तर्हि अर्थापेक्षया का स्थितिरित्यत आह-वस्तुतस्त्विति। गुणस्यापि प्राधान्यं,प्रधानस्यापि गुणत्वं विपर्ययः। अपिशब्दादनवस्थितिरपि। एवं न्यायक्रमे स्थितेऽपि विशेषोऽन्योऽस्याः प्रयोजक इत्याह-तत्रापीत्यादि। अतिशयोक्तिरपि न साकल्येन अस्या मूलमित्यत आह-सा चेत्यादि। कार्यकारणप्रतिनियमविपर्ययोऽत्र तुल्यकालता न तु कार्यस्य पूर्वकालता सहार्थत्वात्। अभेदाध्यवसायस्तु द्विधा भवतीत्याह-अभेदाध्यवसायश्चेत्यादि। तेनेयं त्रिविधोपक्षित्पा । वैचित्र्यान्तरमुपक्षिपति-साहित्यं चात्र्येत्यादि। कर्तृकर्मादि साहित्यनिबन्धनेनापि प्राभेदेन प्रथत इति यावत् । क्रमेणोदाहरणानि । भवदपराधैरिति- अत्रापराधानां तृतीयान्तत्वाद्गुणता। सन्तापस्य प्रथमान्तत्वात्प्रधानता। अतो गुणप्रधानभाव निबन्धनैवात्र भेदप्रधानता,न पुनर्वृद्धिक्रियानिबन्धना। स च गुणप्रधानभावः सहार्थप्रयुक्तः । द्वयोश्च प्राकरणिकत्वादुपमानोपमेयभावो वैवक#्षिकः। अपराधानां च तृतीयान्तत्वात् विशेषणानामुपमानत्वं नियतमपराधा यथा वर्धन्त इति। सन्तापस्य तु प्रधानत्वादुपमेयत्वं सन्तापस्तथा वर्धत इति।स चायं गुणप्रधानभावः शाब्दः। अर्थं व्यपेक्ष्य तु सन्ताप एव (इव)अपराधा वर्धन्त इत्यपि प्राप्तेः। न्याय क्रमोऽयं उदाहरणान्तरेष्वपि योजनीयः। अत्र कार्यकारणसमकालत्वलक्षणातिशयोक्तिर्मुलमिति दर्शयति-अत्रापराधानामित्यादि। अस्तं भास्वानिति-संह्रियन्तां विप्रकीर्णानि एकीक्रियन्तामित्यर्थः अत्र श्लेषाभित्तिकाभेदाध्यवसायरुपा मूलमिति दर्शयति-अत्रास्तंगमनमित्यादि। अस्तम् एकदा गिरिः अन्यदात्ववसाद इत्युभयार्थत्वम्। कुमुददलैरिति-अत्र पुनः अश्लेषभित्तिकाभेदाध्यवसायरुपमूलमिति दर्शयति-अत्र विघटनमित्यादि। एवमतिशयोक्तिमूलत्वादिलक्षणो यो विशेषः तदभावे सहोक्तिमात्रं नालङ्कार इति व्युत्पादयति-एतद्विशेषेति। प्रत्युदाहरति-अनेन सार्धमिति। कर्तृसाहित्यलक्षणं वैचित्र्यमप्येष्वेव दर्शितमित्याह-एतान्येवेति। एषु हि सन्तापापराधादि कर्तृसाहित्यम्-द्युजन इति । द्युजना देवाः। द्युजनस्य मृत्युना सह मनोरथावात्पिः दैत्यबलक्षयः। अत्र कर्मसाहित्यं दर्शयति-अत्र करोतिक्रियेत्यादि। द्युजनमृत्योः आत्पिक्रियापेक्षया कर्तृत्वेऽपि तस्योपसर्जनत्वात् नेह कर्तृसाहित्यम्। या तु (चक्र इति)प्रधानभूता करोतिक्रिया तदपेक्षया कर्मत्वात्कर्मसाहित्यमेतदिति यावत्। एवं करणादिसाहित्यवैचित्र्यमुन्नेयम् । अथ पुनर्वैचित्र्यायाह-इयं चेति। उत्प्रेक्षित्पमिति। धनुष उत्क्षेपः ज्यावन्धसङ्घट्टनम्। आस्फालनमाकर्षः। शिलीमुखमोक्ष इत्यादि क्रमिकाणि धानुष्ककर्माणि। तत्रा कर्षणमात्रान्तं परिपणानात्तावन्त्येवोपवर्णितानि । तत्रातिवत्सलस्य कौशिकस्य पुलकानां धनुरुत्क्षेपसम समयमुत्क्षेपः, मत्सरग्रस्तत्वात् उत्क्षेपमात्रा परितोषितानां भूपानां धनुर्नति(सम)समयं मुखनतिः । परिपणताकर्षणस्य जनकस्य नत्यन्तं संशयानुवृत्तेः। ज्यास्फालनसमसमयं संशयबुद्ध्यास्फानम्। वैदेह्याः पुनः परिपणनसिद्ध्यन्तमनाकृष्टमनस्समाकर्षसमसम(यं)म(नः)समाकर्ष#ः। भार्गवाहङ्कृतिकन्दलस्य तु धनुर्भङ्गान्तमभग्रस्य भङ्गसमसमयं भङ्गःश्रीमता रामचन्द्रेणाकारीति समन्वयात् कर्मसाहित्यमिह मालात्वेनावतिष्ठते। एवमन्यदपि मालात्वेन ज्ञेयम्। गुणप्राधानभावो यः शाब्दस्तेन भिदोत्कटा । संश्रितातिशयोकिं्त च सहोक्तिस्समयोर्मता ।। अथ विनोक्त्यौ सङ्गतिमाह-सहोक्तिप्रतिभटेत्यादि-प्रतिभटभूतां प्रतियोगिभूताम्। तत्र सूत्रम्-विना कञ्चिदन्यस्य सदसत्त्वाभावो विनोक्तिः। व्याचष्टेसत्त्वस्येत्या(दि)। (व्यत्ययेनाभावशब्दार्थौ)प्रत्येकमभिसम्बध्येते। शोभनत्वाभावोऽशोभनत्वं तत्त्वाभावः शोभनत्वमिति । कञ्चिदर्थं विना यत्र शोभनत्वं नास्ति सैका विनोक्तः। यत्र त्वशोभनत्वं नास्ति सान्येति द्विरुपेयमित्यर्थः । ननु कÏस्मश्चित् तत्त्वासत्वे इत्येतावतैव पर्यात्पौ (किं?)निषेधद्वयाश्रयणगौरवेणोत्यत आह-अत्र चेत्यादि। अन्यनिवृत्तिप्रयुक्तेति। अन्यनिवृत्तिश्चेत् सदसत्त्वनिवृतिं्त न प्रयोजयति। तदा न विनोक्त्यलङ्कारः। न ह्यस्मिन् सति तत्त्वमसत्त्वंवेत्युक्तौ विच्छित्तिः काचित्। अतोऽन्यनिवृत्तिप्रयुक्ता सदसत्त्वनिवृत्तिरेव विनोक्त्यलङ्कारः इति भावः। अस्मिन्सति सत्त्वमसत्त्वं चेति वस्तुविधिः , सत्त्वलङ्कारफलत्वेन प्रात्पे प्रकाश्यत इत्याह-एवं चान्यनिवृत्तावपि इत्यादि। द्विरुपाया अपि परिपाट्योदाहरणं - विनयेति। अत्र विनयशशिसत्कत्वनिवृत्त्या श्रीनिशाविदग्धा (धता)नि वृत्तिरिति सत्त्वाभावोदाहरणम्। विनयादिषु च सत्सु श्रीप्रभृतिसद्भावः फलत्वेन प्रकाश्यते। तदिदमभिसन्धायाह-अत्र विनयादीत्यादि। विनादि शब्दाभावे तदर्थं सद्भावे विनोक्तिरेवेति व्युत्पादयितुमाह-अत्र विना शब्द इत्य#ादि। यथा सहोक्ताविति। सहोक्तावप्ययं न्याय इति यावत्। अत्रोदाहरति-निरर्थकं जन्मेति। अत्र तुहिनाशुदर्शनं विना नलिनीजन्म न शोभनमिति प्रतीयते। अतो विनोक्तिः इयम्। विनाशब्दानुपादाने त्वार्थीति विशेषः । तदिदमभिसन्धायाह-इत्यादौ विनोक्तिरेवेत्यादि। अत्र च हेतुहेतुमद्भावव्यक्तयो विनोक्तेरेव विच्छित्तिविशेषाधायकः न पुनरलङ्कारान्तरमित्याह-इयं च परस्परेत्यादि। उदाहृतविषय इति। निरर्थकं जन्मेत्ययमुदाहृतो विषयः। मृगलोचनयेति। लोके हि मृगलोचनां विना विचित्रव्यवहारप्रतिभाप्रागल्भ्यं नास्ति सुहृदा विना च सुन्दराशयत्वम्। अस्य तु नरेन्द्रसूनोर्न तयेति श्लोकार्थः। असत्त्वा भावं दर्शयति-अत्राशोभनत्वाभावादित्यादि। प्रतिभाप्रागल्भ्यं सुन्दराशयत्वं च शोभनपदार्थौ। निगमयति-सैषा द्विधेति। सदसत्त्वनिवृत्तिश्चेन्निवृत्त्याऽन्यस्य वण्र्यते । तदा द्विधा विनोक्तिस्स्पाद्विधिरत्र फलं भवेत् ।। अथ विशेषणविच्छित्तिमूलौ समासोक्तिपरिकरौ प्रस्तौति - अधुना विशेषणेति। विशेषण विच्छित्तिश्च द्विरुपा साभ्यं साभिप्रायता च। साम्ये समासोक्तिमधिकरोति-तत्रादावित्यादि। तत्र सूत्रम्। विशेषेणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः। यत्र विशेष्यांशे प्रकृतमात्रपरता विशेषणसाम्यात् पुनरप्रकृतोऽवगम्यते सा समासेन संक्षेपेणा अभिधानात् समासोक्तिः। तदेतद्व्याचिख्यासुर्विषयविभागायाह-इह प्रस्तुतेत्यादि। क्वचिद्वाच्यत्वम्। उभयेषामिति शेषः। क्वचिद्गम्यत्वं,एकतरेषामित शेषः। श्लेषनिर्देषभ्ग्येति। विशेषणविशेष्यांशयोः श्लेषोरनिबन्धने नेत्यर्थः। पृथगुपादानेन विति । विशेषणांशे पृथक् शब्दोपादानेनेत्यर्थः। एतद्द्विभेदमपि वाच्यत्वं श्लेषालङ्कारस्य विषयः। यदा पुर्गम्यत्वं प्रस्तुतविषयं विशेषणसाम्यात् तदानीम प्रस्तुतप्रशंसा, यदा त्वप्रस्तुतविषयं तदा समासोक्तिरिति विवेकः। अप्रस्तुतस्य गम्यत्वे यदि विशेष्यस्यापि साम्यं तदा किं स्यादित्यत आह-विशेष्यस्यापि साम्ये श्लेषप्राप्तेरिति । श्लेषमूलध्वनिप्रात्पेरिति यावत्। ननु श्लेषालङ्कारः शब्दशक्तिमूलध्वनिस्चेति त्रिषु विषयेष्वप्यस्ति श्लिष्टपदापनिबन्धः। तत्र यदा श्लेषः तदार्थद्वयस्य नियमेन वाच्यता । वाच्यत्वं चैवं संभवति-यदार्थौ द्वावपि प्राकरणिकौ स्तः अप्राकरणिकौ वा तदा विषेषणविष्यांशयोद्र्वयोरपि श्लिष्टपदोपनिबन्धात् श्लेषालङ्कारः। अभिधाया अनियन्त्रणात् द्वावप्यर्थौ वाच्यौ। अथ यदैकस्य प्राकरणिकत्वमितरस्य अप्राकरणिकत्वं तदा विशेष्यांशे प#ृथक् शब्दोपादानबलादेव श्लेषालङ्कारः। यदि विशेष्यांशेऽपि श्लिष्टपदोपनिबन्धः तदा प्रकरणनियन्त्रिताया अभिधायाः प्राकरणिकार्थः एवोपक्षयाद प्राकरणिकर्थावगतिव्र्यञ्जनस्यैव विषयस्स्यात्। यदसमासोक्तिस्तदा। विशेषणांशे अर्थद्वयप्रतिपादकशब्दोपनिबन्धः विशेष्यांशे त#ु प्राकरणिकार्थमात्रपरता। तदा विशेषणसाम्यादप्रस्तुतस्य गम्यत्वादुक्तलक्षणा समासोक्तिः। यदा पुनः प्राकरणिकाप्राकरणिकयोः विशेषणविशेष्यांशेऽपि श्लिष्टता तदा तावन्न समासोक्तिः विशेषणमात्रसाम्यलक्षणा यतः श्लेषालङ्कारत्वप्रात्पिरपि। कथम्? तत्रार्थद्वयस्य वाच्यतैव लक्षणं यतः, न ह्यत्र द्वयोर्वाच्यतोपपत्तिः प्रकरणपक्षपातिन्या अभिधाया अप्राकरणिकेऽर्थे स्पर्शाभावात् अप्राकरणिकस्य समन्वयसमनन्तर प्रतीतिकत्वात् शब्दशक्तिमूलस्य ध्वनेः श्लेषेण विषयग्रासप्रसङ्गाच्च । विविक्तोऽयं घण्टापथः ध्वनिनिदर्शनरहस्यविदामित्यलम#्। अथ समासोक्तिरुपकयोः वैधम्र्यं विवेचयति-विशेषणसाम्यवशादित्यादिना। हिर्हेतौ । यतो विशेषणसाम्यादप्रस्तुतोऽर्थः प्रतीयते,अतो विशेष्यांशे संस्पर्शाभावाद्विशेष्यं प्रकृतार्थं न स्वेन रुपेण रुपवन्तं कर्तुमीष्टे किन्दु विशेषणांशप्रतीतं स्वव्यवहारं विशेषणांशप्रतीते प्रकृतार्थव्यवहारेऽवच्छ्रेदकत्वेन समारोपयति। तदिदमाह-प्रस्तुता वच्छ्रेदकत्वेन प्रतीयत इति। अवच्छेकत्वाच्चेत्यादि। व्यवहारसमारोपः न तुरुपकाद्वैधम्र्यमित्याह-अवच्छेदकत्वाच्चेत्यादि। व्यवहारसमारोपः न तु रुपसमारोपः। ननु यदा रुपसमारोपः तदा किं स्यादित्यत आह-रुपसमारोपेत्यादि। अवच्छ्रादितत्वेन क्रोडड्डत्ध्;ीकृत्वेन। प्रकृतरुपरुपितत्वात् अप्रकृतरुपेण उपरञ्जितत्वात् रुपकमेव। विवेचितं चैतद्यथायोगं परिणामालङ्कृतौ । अत्रावान्तरश्लोकाः - अप्रस्तुतं प्रतीतं चेद्भेदकांशैकसाम्यतः । व्यवहारं समारोप्य प्रस्तुते न्यग्भवत्यथा ।। तेनाप्रस्तुतवृत्तान्तारोपेण प्रस्तुतं स्वयम् । संक्षेपेणोच्यते तस्मात्समासोक्तिरियं मता ।। स्याद्विशेष्यांशसाम्यं चेत्प्रस्तुताकाररुपितम् । भवेदप्रस्तुतं भेद्यं रुपकालङ्कृतिस्तदा ।। इति ।। अस्या विशेषप्रपञ्चनार्थमाह-तच्च विशेषणसाम्यमित्यादि। साधारण्यमुभयत्र प्रवृत्तिनिमित्तसंभवः। औपम्यगर्भत्वं तद्गर्भसमासाश्रयणात्। इत्थं तद्विशेषणसाम्यं त्रिधा भवतीत्यर्थः। अतस्समासोक्तिरंपि त्रिधा । क्रमेणोदाहरणानि-उपोढरागेणोति। रागः सन्ध्यारुणिमा कामश्च। तारकेत्यतो नक्षत्रदृगन्तर्मण्डड्डत्ध्;लयोः प्रतिपत्तिः। मुखं प्रारभ्भो वक्त्रं च । तिमिरमंशुकमिव तिमिरसदृशमंशुकं च। लक्षणं योजयितुमाह-अत्र निशाशशिनोरित्यादि। नायकश्चनायिका च नायकौ। "पुंमांस्त्रिये"त्येकशेषः। उपोढरागत्वादिश्लिष्ट विशेषणमहिन्मा खल्वत्र निशाशशिनौ नायकव्यवहार विशिष्टौ प्रतीयेते। ननु कथम् अत्र निज्र्ञायते व्यवहारसमारोपो न रुपसमारोप इत्यत आह-अपरित्यक्तेत्यादि। यदि रुपसमारोपस्तदा प्रकृतौ रुपकन्यायेन स्वं स्वं रुपमवच्छ्रादितत्वेन परित्यज्य यदवच्छ्रादकमुपमानरुपं ताद्रूप्यमुपगृढद्धठ्ठड़14;णाति। इह पुनर्विशेष्यांशे निष्प्रतियोगिकतया ज्ञातयोरत एवापरित्यक्त स्व रुपयोः निशाशशिनोर्विशेषणसाम्यावगमितेन नायकत्वधर्मेण विशिष्टतया प्रतीतेः। अतो व्यवहारसमारोप एव। तन्वीति। पुष्पम् आत्र्तवं रजः,प्रसूनं च। इह तनुत्वादीनां विशेषणानामुभयत्रैकार्थतासाम्यं न तु श्लिष्टता। तदेतदाह-अत्र तनुत्वेत्यादि। ननु तनुत्वादिधर्मसाम्यात् कथं लताव्यवहारप्रतीतिरित्यत आह-तत्र च लतैकेत्यादि। विकासो हि लताया एव तत्समारोपो लोलाक्ष्या लताव्यवहारप्रतीतेः कारणम्। ननु विकासस्य लतैकगामित्वात्कथं साधारण्यमित्यत आह-विकासस्त्वित्यादि। यथैवं विशेषणसाधारण्यं धर्मसमारोपश्च व्यवहारसमारोपस्य कारणं तथा कार्यसमारोपोऽपीति व्युत्पादयुतुमाह-एवं च कार्येत्यादि। कार्यसमारोपनिबन्धनो हि भेद इह धर्मसमारोपनीत#्या सुज्ञानः उपरि च शुद्धत्वेन पृथग्राशीकरिष्यति। अत इह नोदाहृतः। एवमादौ धर्मकार्ययोरन्यतरारोपमन्तरेण अप्रकृतार्थो नावगम्यते। प्रकरणनियन्त्रिताया अभिधायाः प्राकरणिकार्थ एवोपक्षयात्। अतो धर्मकार्ययोरन्यतरारोप एव व्यञ्जनव्यापारोत्था पनेनाप्रकृतार्थावगतिहेत#ु#ः । इतो विशेषणसाधारण्यनिबन्धनासमासोक्तिन्र्यायविदामेव विभक्तविषया। अस्फुटत्वात्तदिदमभिसन्धायाह-इयञ्चेत्यादि। पूर्वापेक्षया श्लिष्टविशेषणनिबन्धना समासोक्तिः पूर्वा तदपेक्षयेत्यर्थः । दन्तप्रभा पुष्पचितेति । अत्रानपेक्षिताख्याने वाक्ये श्रवण समनन्तरमेव दन्तप्रभापुष्पचितत्वादिना हेतुना हरिणेक्षणायाः सुवेषता प्रतीयते। अतस्तदा सुवेषत्वलक्षणकार्यवशाद्विशेषणानां दन्तप्रभाः पुष्पाणीवेत्युपमासमासपरत्वम्। अथ दन्तप्रभासद्#ृशैः पुष्पैरिति मध्यमपदलोपि समासान्तरप्रत्यायितैः पुष्पपल्लवादिभिः विशेषणासाम्यदशायां लताव्यवहारप्रतीतिः। तदेतदवबोधयति-अत्र दन्तप्रभा इत्यादिना। लताव्यवहारप्रतीतिरिति वदता रुपकसमासस्याप्रात्पिरासूचिता। व्यवहारसमारोपे समासोक्तिः। रुपसमारोपे तु रुपकमिति प्रतिपादितम् यतः अतः प्रतीतोऽपि रुपकसमास इह न्यायतो न प्राप्नोति। नन्वेवमादौ प्रागुपमासमासाससमाश्रयणनिमित्तं यदि सुवेषत्वादिना नोपात्तं तदा किं स्यादित्यत आह-अत्रैव परीतेत्यादिना। परीता केशपाशालिवृन्देन परिगता। इह दन्तप्रभापुष्पाणीवेत्यादिना किमुपमासमासः, उत दन्तप्रभा एव पुष्पाणीत्यादिको रुपकसमास इति सन्देहः,उपमारुपकयोः साधकबाधकाभावात्। अतः सन्देहरुपसङ्करसमाश्रयेण पूर्वं योजना। न च मन्तव्यं समासः सन्देहो पपन्न इति,सन्देहस्य कविप्रतिभोत्था पितस्य विच्छ्रित्तिरुपत्वात्। अतस्सङ्करसमाश्रयेणादौ योजना। अथ सन्देहोपशमकाले दन्तप्रभासदृशैः पुष्पैरित्यादि पूर्ववदेव मध्यमपदलोपसमासः लताव्यवहारप्रतीतौ समासोक्तावेव विश्रन्तिः । इत्थं च सति उपमा समासगर्भतया सङ्करसमासगर्भतया च समासोक्तिभेदोऽयं द्विधा दर्शितो मन्तव्यः। ननु केवलरुपकसमासाश्रयेणापि समासोक्तिभेदोऽयं किं नेष्यत इत्यत आह-रुपकगर्भत्वेन त्विति। प्राक् रुपकसमासे अथ तद्गर्भतयोपमासमासाश्रये यद्यपि विशेषणसाम्यं भवत्येव,तथापि न तत् समासोक्तेः प्रयोजकम्। कुतः? एकदेशविवर्तिमुखेनैव लताव्यवहारप्रतीतौ समासोक्तेः वैयथ्र्यात्। ननु उपमासमासे सङ्करसमासे च समासोक्तिवैपथ्र्यं किं न स्यादित्याह-न च प्राङ्निदर्शितेत्यादि। एष न्यायः समासोक्तिवैपथ्र्यापत्तिलक्षणः। तत्र हेमुमाह-उपमासङ्करयोरेकदेशविवर्तिनोरभावात्। न ह्युपमालङ्कारः सङ्कराङ्कारश्च एकदेशविवर्तित्वेन केनचिदनुशिष्टौ। अतः स्वतन्त्रालङ्कारत्वसंशयान्नान्यबाधक्षमौ । रुपकं तु एकदेशविवर्तितयाऽन#ुशिष्टमन्यबाधक्षममेव। अत एवंविधे विषये रुपकप्रात्पौ समासोक्ते प्रात्पिरिति सोदाहरणं दर्शयितुमाह-तच्चैकदेशविवर्तीत्यादि। नीरक्ष्य विद्युन्नयनैरिति। पयोदो विद्युन्नयनैर्निशायामभिसारिकायाः मुखं निरीक्ष्य धारानिपातैः सह चन्द्रो मया वान्त इति धियेवार्ततरं ररासेत्यर्थः। अत्राश्लिष#्टम् एकदेशविवर्तिरुपकं समासोक्तेर्नावकाशं ददातीति दर्शयति-अत्र निरीक्षणेत्यादि। निरीक्षणं हि पुरुषधर्मो न पयोदधर्मः। अतः पुरुषानुसारेण योजने विद्युत एव नयनानीति रुपकमेव न पुनरुपमा सङ्करो वा । अतः पयोदे द्रष्टृपुरुषरुपणमर्थादिति एकदेषविवर्तिता। तच्चेदमार्ततरं ररासेति प्रतीयमानोत्प्रेक्षाया एव निमित्तं समासोक्ते रप्रात्पिरेवेति भावः । मगनणनेति-पत्राणि दलानि तान्येव पत्राणि तालदलानि। लिपयोरीतयः ता एव लिपयोऽक्षर सन्निवेशाः। कायस्थो देही गणकः । एषु रुपणसामथ्र्यान्मदनो महाराजतया मधुश्च श्रीकरणाग्रणीत्वेन रुपितः प्रतीयते। तदेतदुपदर्शयति-अत्र हि पत्रलिपीत्यादि। ननु पत्राणीवेत्यादिरुपमा कि#ं न स्यादित्यत आह-द्विरेफमषीत्यादि। मषीयोगो हि मधावसंभवन्नुपमा समासंबाधित्वा गणकवृत्ते स्संभवस्तदनुसारेण रुपकसमासं साधयतीति यावत्। ननु समासोक्तिप्रस्तावे किं सोदाहरणं रुपकभेदप्रदर्शनेनेत्यत आह-अस्य च प्रचुर इत्यादि। अस्य एकदेशविवर्तिरुपकस्य । अत्रावान्तरश्लोकौ- स्यादौपम्यसमासेन समासोक्तिर्विनिश्चये । स्यात्सङ्करसमासेन समासस्य तु संशये।। न रुपकसमासस्य प्रात्पावस्याः प्रवर्तनम्। रुपकादर्थसंसिद्धेरेकदेशविवर्तिनः ।। अतः प्रभेदान्तरप्रथनाय उक्तभेदान् संचष्टे-तदेवमित्यादि। इयं खलु श्लिष्टात्साधारणादौपम्यगर्भाच्येति विशेषणवैचित्र्यात् त्रिधोद्दिष्टा। तत्र श्लिष्टाद्विशेषणादेकविधा । साधारणात्पुनर्धर्मसमारोपकार्यसमारोपाभ्यां द्विधा । औपम्यगर्भादपि उपमासमासेन सङ्करसमासेन चेति द्विधा। श्लिष्टाश्लिष्टतया तु रुपकसमासद्वयमस्या न विषयः। अतः पञ्च प्रकाराः । इत्थं विशेषणसाम्यात्पञ्चप्रकारत्वसिद्धा ववान्तरं विशेषसहितामिमां पुनस्त्रिराशिकतया संचष्टे-इत्थं शुद्धकार्येत्यादिना। कार्यस्य शुद्धत्वं नाम निरुपित विशेषणसाम्या संकीर्णता । प्रथमं विशेषणसाम्यनिबन्धनभेदोदयावर्वागित्यर्थः। अत्रैतदाकूतम्-विशेषण साम्यादप्रस्तुतस्य गम्यत्वे हि समासोक्तिः। तच्च विशेषणसाम्यं शुद्धकार्यसमारोपे सत्युपचरितं,यथा विलिखतीत्यादावुदाहरिष्यमाणेपद्ये स एको राशिः ,यदा पुनरिदमनुपचरितं तदा पञ्चधोदाहृतम् प्र#ाक् स द्वितीयः। उभयमयत्वे तु तृतीयो राषिः। अनुपचरितविशेषणसाम्यनिबन्धनस्य न्यायनिर्भरत्वेन प्राक् प्रदर्शनं पञ्चविधत्वेन कृतमिति। अथ तदेव प्राक् प्रदर्शनमनुस्मारयति-विशेषणासाम्यं चेति। ननु शुद्धकार्यसमारोपे विशेषणसान्यमुपचरितम् ,अन्यदात्वनुपचरितं अनुगतमेकरुपं तु प्रयोजनं नानुपश्याम इत्यत आह-सर्वत्र चात्रेत्यादि। एवकारेण तदेकप्राणतां समासोक्तेरभइप्रैति । तस्य चातुर्विध्यं दर्शयति-स च लौकिक इत्यादि। वस्तुजातिगुणादि। अनेन च व्यवहारसमारोपचातुर्विध्येन राशित्रयमपि प्रत्येकं चतुर्धा प्रथते। अतस्समासोक्तिः प्रपञ्चचवतीत्याह-तदेवं बहुप्रपञ्चेति। तत्राद्यं राशिमुदाजिहीर्षराह-तत्र शद्धकार्येति। विलिखतीति। उच्चैर्विलेख(न)(?)गाढं कचग्रहः पत्रावल्यामसामञ्जस्यमंशुकविकर्षश्चेचेति हठका (मु)ककार्यम्। हठादिति विकर्षथण क्रियाविशेषणम्। अत्रोपचरितत्वादप्रस्तुतावगतौ विशेषणसाम#्यं नातिबद्धभरम् अपि तु शुद्धकार्यसमारोप एव इत्याह-अत्र पत्रावलीत्यादि। खदिरेऽत्यसंभवात् पत्रावलीग्रहः। व्युत्क्रमोक्तानां क्रमस्वारस्यायानुस्मारयतिविशेषणसम्येनेति । विशेषणसाम्यं हि यदा श्लिष्टता तदोभयार्थता। यदा साधारण्यं तदोभयत्र प्रवृत्तिनिमित्तसंभवः। यदौपम्यगर्भविशेषणता तदा समासभेद इति। विशेषमसाम्यवशादेव अप्रस्तुतावगतिरिति ज्ञेयम्। अथोभयमयत्वेनोदाहरतिलिर्लूनानीति। नीरसैः शुष्कै रहृदयैश्च। कण्टकिभिः क्षुद्रशंकुमद्भिः घातकजनयोगिभिश्च। उभयमयतां योजयति-अत्र कण्टकिभिरिति। एषित्रिषु राशिषु व्यवहारसमारोप वैचित्र्यनिबन्धनात् भेदानुपदर्शयितुकाम आह-व्यवहारसमारोपेत्यादि। द्यामालिलिङ्गेति। अम्बरं नभो वासश्च। निमग्रचरपुष्प शरत्वं दाहेन। तरुणः प्रबलो युवा च । अत्र अम्बरकरतरुणेषु विशेषण साम्यम्। अन्यत्र कार्यसमारोपः। अत्र लौकिकवस्तुनि लौकिकव्यवहारसमारोपः। प्रदर्शितोदाहरणेषु च। तत्र लौकिकं वस्तु विविधमित्याह-लौकिकं चेति। यैरिति। एकरुपमविकृतं। वृत्तिषु जागरितादिषु। अव्ययं सौषु(प्त्या)दिषु स्थगितम्। अत एवासङ्ख्यतया प्रवृत्तम्। जागरे विश्वः प्रथमः , स्वप्ने तैजसो द्वितीयः, सौषुप्ते प्राज्ञस्तृतीय इति। सङ्ख्यया वस्तुतो रहितं तुरीयस्य सर्वानुस्यूतत्वात् । उक्तं हि श्रीमद्गौडड्डत्ध्;पादौः-"माया सङ्ख्या तुरीयमि"ति। यैरीदृशं त्वांपश्यद्भिः परत्वजुषो विभक्तेर्लोपः कृतः । अस्मात्परमस्तीति विभागो लुत्पः। तैस्तव सक्षणं कृतं (मन्ये)परमेश्वरस्य हि सर्ववृत्तिष्वकत्वं रुपमव्ययत्वं असंख्यता न कुतश्चिदपिदेशकालादेर्भेद इति इदमेव लक्षणम्। इदमागमशास्त्रप्रसिद्धं वस्तु । अथ सर्वासु कारिकादिवृत्तिष्वेकत्वादिसंख्यारहितमव्यये हि स्यादिति प्रतियोग्येकत्वं नास्ति किं त्वभेदैकत्वमेव । ईदृशमव्ययं पश्यद्भिः परत्वजुषः प्रकृतेः परत्वलक्षणायाः विभक्तेः प्रथमादेर्लोपः कृतः। इदमव्ययलक्षणं"सदृशं त्रिषु लिङ्गेष्वि"त्यादिना प्रतिपादितम्। इदं व्याकरणाप्रसिद्धं वस्तु। अत्र विशेषणासाम्यमेव। सीमानमिति। अत्र नयनसीमालङ्घनेन प्रत्यक्षप्रमाणस्याविषयता। अन्येनासङ्गत्या नियतसम्बन्धाभावात् अनुमानस्य,वचस्स्पर्शाभावाच्छब्दस्य लौकिकस्य अदृषअटो पमानतयोपमानस्य,अर्थादनापातादर्थापत्तेर्न च न यदिति प्रमाणानुक्तावपि वस्तुत ईदृशि लावण्ये मीमांसादिसिद्धादृष#्टादिवस्तुसमारोपः। चोदनैकलक्षणस्य प्रमाणान्तरासन्निकर्षादत्र विशेषणासाधारण्यम्। शास्त्रीयवस्तुनो वैविध्यं प्रदर्शयति-एवं तर्के त्यादि। स्वपक्षेति । पक्षो गरुत् साध्यधर्मविशिष्टो धर्मी च। हेतिसायुधं हेतुर्लिङ्गं च । विशेषोऽतिशयः पदार्थविशेषश्च । मानारोषः प्रमाणं च । मन्दमग्निमिति। अत्र मन्दाग्रिश्वयथुतिमिरदोषाविर्भावः ओषधिपतेर्भिषजोऽसन्निधाविति। अत्र विशेष्यांशेऽपि साम्यमित्युदाहरणान्तरं मृग्यम्। यद्वा चन्द्रमस इति विशेष्याध्याहारादोषधिपतेरित्येतत् विशेषणातया विवक्षिणीयम्। प्रसर्पत्तात्पर्यैरिति। ये तात्पर्यविदः ये चानुमानरसिकाः तैरपि (अवि)ज्ञेयश्चासौ पारिमित्यं जहाति न वक्तुं शक्यः न च लक्षयितुं किन्तु गुरुवरः !तव सहृदयस्थो गुणगणो बुधैरपूर्वव्यापारगुणगणान्तरव्यापारातिशायि व्यापार इत्यवसितः। अत्र गुणगणे श्रृङ्गारादिरसव्यवहारः समारोपित इत्याह-अत्र भरतेत्यादि। रसं हि भरतोपज्ञम् आमनन्ति। विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिरित्याम्नानात्। तद्व्यवहारमुपपादयति-तथा ह्यत्रेत्यादिना। न तात्पर्यशक्तिज्ञेय इति। तात्पर्यं हि नाम अभिहितान्वयमते समन्वयशक्तिः अभिधोत्तीर्णा समन्वयमात्र विश्रान्तयानया समन्वयसमनन्तर प्रतीतिको रसो न ज्ञायते। विभावानुभावव्यभिचारिभास्सह नियतसम्बन्धाभावादनुमानस्यापि न विषयः। साक्षात्सङ्केता विषयत्वात् न वाच्यः। मुख्यार्थबाधाद्यभावन्नापि लक्ष्यः अपि तु वेद्यान्तरविगलनादपरिमितस्सन् अभिधालक्षणातात्पर्योत्तीर्णेन व्यञ्जनाख्येन काव्यैकगामिना शास्त्रान्तरापूर्वेण व्यापारेण विषयीक्रियमाणो लौकिकत्वात् अनुकार्यमभिनयप्रयासनिघ्नत्वात् अनुकर्तारं च परिहृत्य सहृदयैकगत इति बुधैरवसीयते। दिङ्मात्रमिदं,रसमीसांसायां विस्तरः। प्रकृतानुपयोगीति न क्रियते। संप्रदायप्रकाशिन्य#ा#ं काव्यप्रकाशटीकायां वितत्य कृत इति तत एवावधार्य इत्यलम् । ज्योतिश्शास्त्रादिवस्तुसमारोपोऽनया रीत्या ज्ञेय इत्याह-एवमन्यदिति। पश्यन्तीति। अत्रैदुपढद्धठ्ठड़14;वरम्-वाग्देवता हि परा पश्यन्ती मध्यमावैखरी चेति चतुष्पदपरिमिता। तत्र नामरुपात्मकं प्रपञ्चं स्वात्मन्युपसंहृत्य स्वरुपज्योतीरुपिणी जागरितादिधामत्रयोल्लङ्घिनी परा। न#ामरुपप्रपञ्चोल्लासनाय प्राथमिकप्राणपरिस्पन्ताभिमानिनी कन्दमन्दिरा मणिपूरकावधिप्रसरन्ती बीजभावापन्ननिर्विभागवर्णमयीविश्वाभिमुखी भवन्ती सौषुत्पवृत्तिः पश्यन्ती। पारायाः सकाशादुदिता मणिपूरकात् अनाहतावधि प्राणपरिस्पन्दोत्क्षुभितबुद्धिवृत्त्यभिमानिनी वर्णपदाद#िपरिग्रहान्तस्संजलपात्मिका पश्यन्तीप्रभावा स्वप्नवृत्तिर्मध्यमा। अनाहतान्मुखकरन्दरावधि प्रसृताबहिस्संजल्पात्मिका स्थूला मध्यमोद्भवाजागरितवृत्तिर्वैखरी। आसां नाम निरुक्त्यादिविशेषः प्रथमश्लोकविवरणे प्रपञ्चितः । अथ संहारावसरे जागरितलयपुरस्कारेण वैखरी मध्यम#ायां लीयते। मध्यमाययां लीयते । मध्यमा स्वप्नलयपुरस्कारेण पश्यन्त्याम्, सा च सौषुत्पलयपुरस्कारेण परायाम्,परा तुरीयपर्वात्मिका समाधिवृत्तिरुच्यते। इत्थं च सति शक्तिमानात्मा परायां तुरीयां ,पश्यन्त्यां प्राज्ञाः, मध्यमायां तैजसः,वैखर्यां विश्व इत्यागमार्थदिक्। अथ शब्दसङ्गत्या व्याकुर्मः । प्रभो!वश्येन्द्रियतया प्रभवनशील! तव परया देव्या सह क्रीडड्डत्ध्;ादृढालिङ्गने अप्रयासेन तादृशी समाधिसामरस्ये प्रवृत्ते बाह्या वाक् कथं चाटूच्चारणाचापलं स्फुटताल्वोष्ठपुटव्यापारमखततां कथं नाम वितनुतां चापलकथैव नास्तीत्यर्थः। कुतो न#ास्तीत्यत आह-आभ्यन्तरी पश्यन्ती त्रपयेवात्मानं यत्र तिरयति,मध्यमापेक्षयाऽभ्यन्तरतमा स्वात्मानं न प्रकाशयतुमीष्टे। तुरीयपर्वणि प्राणानुदयाद्यत्र मध्यमाऽपि मधुरध्वन्युज्जिहासारसात् त्रुट्यति। अन्तस्सञ्जल्परुपं मधुरमपि ध्वनिं नोन्मूलयतीत्यर्थः।यत्र परा सम#ाधौ पशअयन्तीमध्यमयोरनुदयः.तत्र वैखरी कथं नाम प्रवर्तताम् इति तात्पर्यार्थः। अत्रागमसिद्धे वस्तुनि लौकिकवस्तुव्यवहारः श्रृङ्गारात्मकस्समारोपितः। यथा परयोदेव्या पट्टमहिष्या सह तव क्रिडड्डत्ध्;ादृढालिङ्गने प्रवर्तमाने अन्या काचिदाभ्यन्तरी आभ्यन्तरत्वादेव युवयोरालिङ#्गनं पश्यन्ती त्रपयेवात्मानं यत्र तिरयति गोपयति। मध्यमाऽपि नाभ्यन्तरी न च बाह्या। मध्यमावृत्तिर्मधुरध्वनिः यथा भवति तथा उज्जिहासारसात् त्रुट्यतिष। उद्गातुकामा कौतुकादुपरमति । तत्र बाह्या परिग्रहवेश्या चाटूच्चा#ारणचापलं कथं वितनुतामिति। अत्र लक्षणयोजनायाह-अत्रागमेति। लौकिकवस्तुनि काव्योपयोगिवैविध्यं उक्तचरंम् अनुस्मारयति-लौकिकवस्त्विति । ननु विशेषसाम्यं समासोक्तिलक्षणमुक्तम्। शुद्धकार्यसमारोपे तु तदव्यापकमित्यत आह-तत्र शुद्धकार्येत्यादि। शुद्धकार्यसमारोपे हि विलिखति कुचावित्यादौ यत् कुचविलेखनादि ह(ठ)का(मु)ककार्यं तस्य यद्यपि न मुख्यतया यत् खदिरादिविशेषणत्वं,अथाप्युपचारेण विशेषणीकरणं ,तत#् (तत्र?)यथाकथंचिल्लक्षणयोजना कार्या। ननु किं उपचाराश्रयणेनेत्यत आह-पूर्वशास्त्रानुसारेणेत्यादि। अथ यत्र समासोक्तेरसामञ्जस्यं तत्र न्यायसञ्चारेण समञ्चारेण समञ्जसीकर्तुमाह-इह त्वित्यादिना। ऐन्द्रं धनुरिति। आद्र्रनखक्षताभम् ऐन्द्रं धनुः पाण्डुड्डत्ध्;पयोधरेण दधाना सकलङ्कमिन्दुं प्रसादयन्ती शरद्रवेस्तापभभ्यधिकं चकार। पयोधरो मेधः कुचश्च। प्रसादाति शयेकलङ्कोद्ध#ुरीभावात् सकलङ्कत्वोक्तिः जारत्वाविष्करणाय। प्रवृडड्डत्ध्;पेक्षया शरदिरवेः तापाधिक्यम्। अत्र चर्चा-अस्तितावदित्यादि। नायकत्वप्रतीतिरस्तीति प्रतिज्ञघाया तदाक्षिपति-न चेत्रेति। साकुकस्त्या नायकत्वप्रतीतिरस्तीति प्रतिज्ञाय तदाक्षिपति-न चात्रेति। साकुतस्त्या नायकत्वप्रतीतौ नास्तिहेतुरित्यर्थः। हेतुसद्भावमाशङ्क्य निराचष्टे-प्रसादयन्तीत्यादि। सकलङ्कप्रसादलक्षणविशेषणसाम्यात् शरदस्तावदिस्ति नायिकात्वप्रतीतिः, तजनुदुणत्वेनेन्दुररयोर्नायकत्वप्रतीतिरिति चेत् मन्यसे,नैतद्धयते। कुतः आद्र्रनखक्षताभं ऐन्द्रं धनुरिति विशेषणस्य#ासाम्यात् । ऐन्द्रं धनुः शरद एवविशेषणं न नायिकायाः । नन्वाद्र्रनखक्षताभमिति विशेषणौपम्यादेकदेशविवर्तिन्युपमा शरदि तत्सामथ्र्यादिन्दुरव्योः नायकत्वप्रतीतिरस्त्वित्यत आह-न चैकदेशेति। यद्येकदेशवर्तिन्युपमा केनचिदुक्ता तदा तत्सामथ्र्यादनयोर्नायकत्वप्रतीतिस्स#्यात्। न चेयमुक्ता केनचित्। अत स्तत्सामर्थात् कथमनयोर्नायकत्वव्यवस्थितिः । अत्र समाधित्सुराह-उच्यत इति। एकदेशविवर्तिनीत्यादि। यद्यपि साक्षान्नोक्ता अथापि नास्याः प्रतिषेधोऽस्ति । ननूक्तिप्रतिषेधयोद्र्वयोरप्यभावे कथं संभव इत्यत आह-समान्यलक्षणेति। ननु यद्येकदेशविवर्तिन्युपमाया इह संभवः तदर्युपमालङ्कारस्यैव प्रात्पिर्म समासोक्तेरित्यत आह-अथात्रेत्यादि। अथेत्यधिकारे। यद्युपमानत्वेन नायकोऽधिकारी कस्चित्प्रतीयते,भवेत्प्रात्पिरुपमालङ्कारस्य । नहि प्रतीयते नायकोऽत्र कश्चिदधिकारी । अपि तु रविशशिनोरेव नायकत्वव#्यवहारे प्रतीतिः , तयोरेवास्यां शरदि नायकत्वोपचारात्। इत्थं समासोक्तिप्रात्पौ,तदनुसारेण शब्दन्यासो न्याय्य इत्यत आह-तदत्रेत्यादि। आद्र्रनखक्षते श्रुत्यास्थितमप्युपमानत्वमिन्द्रधनुषिसंचारणीयम्। कुतः? वस्तुपर्यालोचनया । तामेव वस्तुपर्यालोचनां स्फुटयति-इन्द#्रचा(पाभं)इत्यादि। प्रतीतिः पदार्थान्तरसमभिव्यवहारादित्थम् एव यतः। अन्यनिष्ठस्य धर्मस्यान्यत्र संचारणं कुत्र दृष्टमित्यत आह-यथा दध्नेत्यादि। दध्ना जुहोतीत्यत्र हि हवनगतत्वेन विधिः प्रतीतः स त्वग्निहोत्रं जुहोतीत्य(त)एव सिद्ध इति। वस्तुपर्यालोचनया यथादध्न#ि संचायेते तथेहाप्यनुसन्धेयमिति यावत्। अतः समासोक्तिरेवेयमिति निगमयति-एवमुपमानुप्राणितेति। ऐन्द्रधनुष उपमेयस्योपमानत्वंक्लृप्तेः वैवक्षिकोपमानुप्राणितत्वम्। अथ यत्र न्यायतः समासोक्तिमपोह्य एकदेशविवर्तिन्युपमैव प्रथते तं विषयं दर्शयितुमाह-इह पुनरिति। नेत्रैरिवेति । अत्र सरःश्रियां नायिकात्वप्रतीतौ निमित्तं विवचयति-सरः श्रियमिति। विशेषणसाम्यान्नायिकात्वप्रतीतिर्न समासोक्त्या । अत एव व्यवहारसमारोपोऽपि न भवतीत्याह-तस्मान्नायिकेति। नायिकाऽप्यत्र सरः श्रियामुपमानतया, न तु व्यवहारससारोपेण सरःश्रीधर्मतय#ा अत एवंविधे विषये गत्यन्तराभावादेकदेशविवर्तिनी उपमैवोपास्या । अनुक्ता कथमुपास्येत्यत आह-यैस्त्विति। अस्माभिस्तावदुपपत्तिभिरुक्ता। यैस्तु नोक्ता तैरपि गत्यन्तराभावादुपसंख्यातव्यैवेत्यर्थः । ननु पूर्वमेकदेशविवर्तिन्युपमा निराकृता,सम्प्रति साधितेति व्याघात इत्यत आह-यत्र तु केशपाशेत्यादि। दन्तप्रभाः पुष्पाणीवेत्यादि समासेनोक्तायामुपमायां सत्यामपि दन्तप्रभासदृशैः पुष्पैरिवेत्यादि समासान्तरमहिम्ना विशेषणसाम्यमुपपद्यते। तत्रौपम्यगर्भविशेषणोत्थाप#िता समासोक्तिरेव युक्ता। सम्प्रति तु नेत्रैरिवेत्यत्र गत्यन्तराभावादेकदेशविवर्तिन्युपमैव व्यवस्थापितेति व्यघाताभावात् सर्वमवदातम् । अथार्थान्तरन्यास प्रभावितायामस्यां वैचित्र्यान्तरं अस्तीत्याह - सा चेत्यादि।समथ्र्यः प्रकृतोऽर्थः समर्थकस्त्वप्रकृतः। अथोपगूढ इति। उपगूढे आलिङ्गिते। ययौ अपगता। अत्र समथ्र्यगता। असमाप्तेति। अत्र तु समर्थकगता। उभयत्र योजनायाह-अत्रोपगूढत्वेनेत्यादि। उपगूढत्वं शान्ततटित्कटाक्षत्वं च विशेषणसाम्यं तदुत्थापितया समासोक्त्या नायकव्यवहारप्रतीतिः। तथा सति समासोक्त्यालिङ्गितो योऽयं विशेषात्मा स सामान्यात्मना अर्थान्तरन्यासेन समथ्र्यते। सामान्यरुपस्य च समर्थकस्योत्थानम्। परिभ्रष्टपयोधराणामिति श्लेषवशादुपगूढ इति व#िशेषणं साधारणतया स्फुटम्। शान्ततटिदित्येतत्तु प्रागुपमागर्भम्। तटितः कटाक्षा इवास्या(व यस्या?) इति। अथ तटित्सदृश कटाक्षेति समान्यरुपसमर्थोऽर्थः स्त्रीलिङ्गपुल्लिङ्गनिर्देशगर्भेण भजनरुपेण कार्येणोत्थापितया समासोक्त्या समारोपितनायकव्यवहारेण विशेषात्मना रव#िसन्ध्यावृत्तान्तेन समथ्र्यते । उत्प्रेक्षावशात् वैचित्र्यायाह-आकृष्टिवेगेति। वेष्टना वेष्टनं यस्य मन्दरगिरेः, पादः पर्यन्तपर्वतः चरणश्च। अत्र समासोक्तेरुत्प्रेक्षायाश्च समकालतां दर्शयितुमाह-अत्र निर्मोकेत्यादि। निर्मोकपट्टपरिवेष्टनया मन्दाकिनीति कथनात्तदपढद्धठ्ठड़14;नवेन मन्दाकिनीसमारोपः,तस्याश्च यत्प्रान्तपर्वतवेष्टनं तच्चरणमूलवेष्टनमेवेति,पादशब्दश्लेषोत्थया भेदेऽभेदः इत्येवंरुपया अतिशयोक्त्याऽध्यवसीयते। तथाऽध्यवसितं च मन्थव्यथेत्यादि फलोत्प्रेक्षामुत्थापयति। सा च अम्बुरशिम्दाकिन्योर्भर्तृपत्नीव्यवहारसमाश्रयां समासोक्ति स्वसमकालमुत्थापयतीति अनयोरेककालता। इत्थमन्यत्रापि दर्शयति-एवं नखक्षतेति। उत्प्रेक्षान्तरमनुप्रविष्टेति समकालता सूचिता। इत्थं वैचित्र्यम् अनुसन्धेयमिति निगमयति-एवमियमित्यादि। विशेषणांशसाम्येनाप्रस्तुतार्थस्य गम्यता । समासोक्तिर्मता येन संक्षिप्यार्थोऽभिधीयते ।। शुद्धकार्यसमारोपे साम्यं स्यादौपचारिकम् । व्यवहारसमारोपः साक्षादस्यां प्रयोजकः ।। स्याद्विशेषणसाम्यं चेत् समासान्तरसंक्षयात् । उपमा बाधते नैनामेकदेशविवर्तिनी ।। दृश्यतेऽर्थान्तरन्यासे समथ्र्ये च समर्थके । उत्प्रेक्षायोगिनी चैषा क्वचित्स्यादेककालगा ।। परिकरं लक्षयति-विशेषणसाभिप्रायत्वं परिकरः । सङ्गतिमाह-विशेषणवैचित्र्येति। व्याचष्टे-विशेषणनामित्यादि। प्रसन्नगंभीरत्वं नाम पदानां व्याङ्ग्यार्थगर्भीकार एव न तु व्यङ्ग्यस्य वाच्यातिशायिता। निर्वक्तुमाह-एवं चेति। वाच्योन्मुखत्वं वाच्याङ्गता ।। राज्ञः इति। राज्ञो न तु यादृशतादृशस्य । तत्रापि मानधनस्य न त्ववमानसहस्य । कार्मुकभृतो न निरायुधस्य । दुर्योधनस्य न तु शक्ययोधनस्य। अग्रतो न त्वसमक्ष्यम्। कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च न निस्सहायस्य । सर्वैवेय-"मनादरे षष्ठी" । इत्थं मिषतो दुर्योधनकर्णशल्याननादृत्येत्यर्थः। दुश्शासनस्येत्यनुक्त्वातस्य पाण्डड्डत्ध्;ववधूकेशाम्बराकर्षिण इत्युक्तिः हन्तव्यत्वप्रसिद्ध्यै। जीवता एव न तु मूÐच्छतस्य मृतस्य वा । तीक्ष्णाकरजक्षुण्णाद सृग्वक्षसः न त्वायुधविदारितात् । कोष्णं न तुपर्युषितम्। मयाद्य पीतमिति भीमसेनोक#्तिः। साभिप्रायतां दर्शयति-अत्रेत्यादि। वाक्येऽपि दर्शयति-एवमङ्गराजेत्यादि । विशेषणानां व्यङ्ग्यार्थगर्भीकरणलक्षणा । सोत्प्रासता परिकरो व्यङ्ग्यः परिकरो यतः ।। श्लेषं लक्षयति-विशेष्यस्यापि साम्ये द्वयोर्वोपादाने श्लेषः। अर्थद्वयस्य यदा प्राकरणिकत्वमप्राकरणिकत्वमेव वा तदा विशेषणविशेष्ययोः शब्दसाम्ये श्लेषः। यदा तूभयमयत्वं अर्थद्वयस्य तदा विशेष्यांशे पृथगुपादाने श्लेष इति सूत्रार्थः । सङ्गतिमाह-केवलविशेषणेति। इदमिति वचनविशेषणम्। व्याचष्टे-तत्र द्वयोरित्यादि। विशेषणविशेष्यसाम्य एवेति। उभयत्र शब्दसाम्ये सत्येवेत्यर्थः। विशेष्यांशेऽपि शब्दसाम्यं तदा अर्थप्रकरणादिना अभिधानियास्यात् न तु श्लेषस्य । अनेकार्थो हि शब्दः प्रकरणादिना प्राकरणिक एवार्थे नियम्यते । आद्ये तु प्रकारद्वये नियमहेत्वभावात् द्वावपि वाच्यौ । इत्थं सति विकल्पो व्यवतिष्ठत इत्याह-अत एवेति। श्लिष्टप्रकारद्वयेति। आद्यं प्रकारद्वयं श्लिष्टं विशेष्यांशेऽपि श्लेषार्थत्वात्। येन ध्वस्तेति। अनश्शाकटम्। अभवेन असंसारेण बलिदैत्यजित्कायः पुराऽमृतसंविभागकाले स्त्रीकृतः स्त्रीभावं नीतः। यश्च उद्वृत्तकालियादिभुजङ्गघातीति । अरवलयवान् अरवलयं चक्रम्। अगं गोवर्धनं गां महीं च यः कृष्णः वराहावतारे अधारयत्। यस्य च स्तुत्यं नाम अमरः शशिमच#्छिरोहर इत्याहुः । शशिमद्राहुः शशिनं मथ्नातीति । अन्धकानां वृष्णिसरहचराणां क्षयकृत् आवासकरः । स माधवस्त्वां सर्वदा पायात्। अथ येन ध्वस्तमनोभवेन नाशितमन्मथेन बलिजित्कायः विष्णोर्वपुः पुराणां संहरणे अस्त्रीकृतः। यश्चेद्वृन्द्रकलावत् स्तुत्यं च नाम हर इत्याहुः। अन्धकासुरक्षयकरः उमाधवो गौरीपतिस्सर्वदा त्वां पायात्। अत्र हरिहरयोद्र्वयोरपि प्राकरणिकता । नीतानामिति। लुब्धैर्मधुलंपटैः व्याधैश्च भूरिति क्रियाविशेषणम् एकदा शिलीमुखैभ्र्रमरैः अन्यदा भूरिबाणैः। वनं जलं विपिनं च। कमलानां पद्मानां मृगाणां च। अत्र पद्ममृगयोरप्राकरणिकता । स्वेच्छेति। विषयो देशकोशादिस्त्र्यादिश्च। देहीति वितरेति देहवानिति च। मार्गणशतैर्याचकसार्थैः। वक्तुं न यातीत्येकदा मार्गणशतैः प्रयोगभेदान् (त्)शतसङ्ख्यैर्बाणैः दुःखं ददातीत्यन्यदा। जीवितं जीविका जीवश्च । ईश्वरः दुर्विदग्धः। प्रभुरत्र प्राकरणिकतः, अप्राकरणिको मनोभवःष अत्र विशेष्ययोद्र्वयोरुपादानम् । उदाहरणत्रयेऽपि योजनायाह-अत्र हरिहरेत्यादि। पुनस्त्रैविध्यायाह-एष च शब्दार्थेति। उदात्तादीति। लौकिकशब्देष्वपि स्वरभेदादेवार्थावगतिः। ताल्वोष्ठादिव्यापारः प्रयत्नः अयं शब्दान्यत्वे हेतुः। शब्दश्लेषे लिङ्गान्तरमाह-यत्र प्रायेणेति। अर्थश्लेषस्तु अन्यथेत्याह-अत एवेति। उभयश्लेषमाह-सङ्कलनयेति । उभयश्लेषमुदाहरति-रक्तच्छदत्वमिति। छदोदलंवासाश्च। विकचाः विकस्वराः, कचरहिताश्च। जलैस्सङ्गतं नालमादधानाः जडड्डत्ध्;जनैस्सख्यमलं नादधानाः। पुष्पेषु कुसुमानतरेषु रुचिं शोभां पुष्पबाणप्रियतां च । उभयश्लेषतां दर्शयति-अत्ररक्तेत्यादि। पृथगनुदाहरणे हेतुमाह-ग्रन्थगौरवेत#ि । अथास्य सावकाशनिरवकाशादिचर्चाम् आरभते-एष चेत्यादिना। अलङ्कारान्तरेष्वप्राप्तेषु अनारभ्यमाणोऽयं निरवकाशत्वात् बलीयानिति बाधित्वा तत्प्रतिभामात्र मुत्पादयतीति केचित्। येन ध्वस्तेति। अन्ये पुनः "येन ध्वस्तमनोभवेने"ति अलङ्कारान्तरविविक्तोऽस्य विषयः इति सावकाशत्वान्नान्यबाधकः। अतोऽन्यसम्पाते सङ्करः न्यायतो वा दौर्बल्ये बाध्यत्वमित्याहुः। तत्र स्वमतनिरवकाशत्वमाविश्चिकीर्षुराह-तत्र पूर्वेषामित्यादि। अनेकार्थगोजरत्वेनेति प्रत्येकमभिसम्बन्धः। आद्यं प्रकारद्वयं प्राकरणिकानेकार्थगोचरत्वं अप्राकरणिकानेकार्थगोचरत#्वं च। तदुभयमपि हि तुल्ययोगिताया विषयः। तस्याः प्रस्तुतानां वा समानधर्माभिसम्बन्धो लक्षणम्। यत्रोभयरुपानेकार्थगोचरत्वं तृतीयः प्रकारः तत्र तु दीपकं प्रभवति। तस्य प्रस्तुताप्रस्तुतानां समानधर्माभिसम्बन्धो लक्षणं यतः। अतः श्लेषविषथयोऽनेनालङ्कारद्वयेन व्यात्पः। अलङ्कारान्तरेणापि व्याप्यत इत्यत आह-तत्पृष्ठेचेति। यत इत्थं नास्य विविक्तविषयता अतोऽलङ्कारान्तराणि श्लेषबाधितानि प्रतिभामात्रावशेषाणि भवन्ति । इत्थं सति विवक्तो यश्शाङ्कितो विषयः सोऽपि अविविक्त एवेत्याह-येन ध्वस्तेत्यादि। इत्थं विविक्तो यश्शाङ्कितो विषयः सोऽपि अविविक्त एवेत्याह-येन ध्वस्तेत्यादि। इत्थं निरवकराशत्वादन्यबाधकत्वमुपपाद्य शब्दार्थो भयविषयतामस्य उपस्थापयितुमाह-अलङ्कार्येत्यादि। अलङ्कार्यलङ्करणभावो हि आश्रयाश्रयिभावेनोपपन्नो लोके कर्णाश्रितः कर्णालङ्कार इति। अतो रक्तच्छ्रदेत्यादावर्थाश्रयणादर्थालङ्कारोऽयं , नालमित्यादौ तु स्फुटश्शब्दभेद इति शब्दालङ्कारः। ननु अर्थभेदे शब्दभेदोऽपि भिन्न एवेति रक्तच्छ्रदमित्यादावपि न शब्दैक्यमित्यद आह-यद्यपीत्यादि। औपपत्तिकत्वादिति। प्रत्यर्थं शब्दभेद इत्युपपत्त्या हि शब्दभेदोपपादनम्। प्रतीतौ पुनरैक्यमेवावसीयते। अतः साहित्यसरणेः प्रतीत्यैकसारत्वात् शब्दैक्यप्रतिपादकदर्शनावष्टाम्भाच्च नास्ति शब्दभेदः। नालमित्यादौ तु शब्दभेदः प्रतीत्यनुरोधी । अतो रक्तच्छदमित्यादौ शब्दैक्यादेकवृन्तगतफलद्वयन्यायेन अर्थयोः श्लिष्टता,नालमित्यादौ तु जतुकाष्ठन्यायेन शब्दयोरेव। रक्तच्छदमित्यादौ पुनश्शब्दाललङ्कारतामाशङ्कते - पूर्वात्रान्वयेति। परिहरति-न। आश्रयेत्यादि। अलङ्कारत्वं हि लोकेशङ्कते-पूर्वात्रान्वयेति। परिहरति-न । आश्रयेत्यादि। अलङ्कारत्वं हि लोकेनान्वयव्यतिरेकाभ्यां व्यवतिष्ठते,अपि त्वाश्रयाश्रयिभावेनैव,इहापि तद्वद#ित्यर्थः । एव मुभयालङ्कारतां प्रसाध्यबाध्यबाधकभावविवेचनमुपक्रमते-एवं च सकलेत्यादि। इत्थं निरवकाशत्वोभयालङ्कारत्वसिद्धौ सकलकलमित्यादौ श्लेष एव नोपमा। तत्रहेतुः - गुणक्रियासाम्यवत् शब्दसाम्यं नोपमाप्रयोजकमिति। सुधांषुबिम्बं कलाभिरुपेतं परंतु कलकलसहितमिति शब्दसाम्यमेवेह। अत उपमाप्रतिभोत्पत्तिहेतुः श्लेष एवावसीयते । ननु निरवकाशत्वाच्छ्रलेषश्चेद्वाधकः,तर्हि रुपकसमासोक्त्योः कुतो च बाध इत्यत आह-श्लेषगर्भेत्वित्यादि। रुपकं हि सिद्धश्लेषमुत्थाप्य स्वस्वरुप एव विश्राम्यतीति श्लेषबाधकः। तत्रापि यदि श्लेषः पूर्वसिद्धो रुपकमुत्थाप्य यदि स्वरुपे विश्राम्यति,तदा रुपकं बाध्यमेव,यथा भ्रमिमरतिमित्यादौ। चर्चितं चैतत् रुपकप्रस्तावे । रुपकं पूर्वसंसिद्धं श्लेषमुत्थापयेद्यपि । तदा रुपकमेव स्यादन्यथा श्लेष इष्यते ।। इति ।। श्लिष्टविशेषणोति। समासोक्तौ तु श्लिष्टविशेषणनिबन्धनायां विशेष्यांशस्य गम्यत्वात् समासोक्तिरेव बाधिका। श्लेषे हि वाच्यत्वमेव लक्षणम्। अतो लक्षणविकलत्वात् विशेषणोष्वाभातोऽपि बाध्य एव। विशेषणान्तरेऽपि श्लेषस्य बाधकतां दर्शयितुमाह-इह त्वित्यादि। जगत्सु त्रयीमयत्वेन प्रथितोऽपि विवस्वान् वारुणीं प्रति यदगमत्। वारुणी प्रतीची दिक् सुरा च। अत एवास्तशैला(त्पतितः)। पातित्यं अधः प्रदेशसंयोगः उपहतिश्च पतितत्वादेव शुद्ध्यैबडड्डत्ध्;वाग्निमध्यं विवेशेत#्यर्थः। व्याचष्टे-विवस्वतो वस्तुवृत्तेत्यादि। लोकेत्रयीमयस्य सतो वारुणी स्पर्शतो यौ पति तत्वाग्रप्रवेशौ,ताभ्यां श्लेषमूलयाऽतिशयोक्त्या द्वे अपि विवस्वत्क्रियेऽध्यसिते । सोऽयं तत्क्रिया(एकक्रिया)योगो नाम अतिशयः । यद्यप्येकैव क्रिया कर्तृभेदभिन्ना सत्यभ#ेदेनाध्यवसिता स तु तत्क्रिया(एकक्रिया)योगः , तद्धेतुकातिशयोक्तिहेतुका । अत्र (उत्प्रे)क्षायाम् । अत एवेति सर्वनाम्ना परामृष्टो यो विरोधालङ्कारः विरुद्धचरणाभासरुपः तेनालंकृतोऽर्थः पातित्यरुप हेतुत्वेनोत्प्रेक्ष्यते। शुद्ध्यै इति च फलत्वेन । अतो हेतूत्प्र#ेक्षा फलोत्प्रेक्षा च। विरोधालङ्कारोऽपि सम्पन्नलक्षण इत्याह-विरोधालङ्कारस्य चेति। अतो विरोधोत्प्रेक्षालङ्कायोस्तुल्यकालता एकवृत्तन्तः पा(ति)ता,उत्तरकालं तु विरोधोपशम इति प्रतीतिक्रमः । इत्थंच सति श्लेषः सर्वबाधकस्सन् विरोधालङ्कारं बाधित्वा प्रतिभामात्रेणावस्थापयति। विरोधबाधे च तद्धेतुकोत्प्रेक्षाबाधः सिद्ध एवेत्याशयः। अतः श्लेष एवायम्। यत्र तु नाटकादौ भाव्यर्थोपक्षेपात्मकं बीजन्यासलक्षणं सूचकत्वं तत्र मीमांसार्थमाह-यत्र त्वित्यादि। प्रस्तुताभिधेयपरत्वेऽपि वर्तमानार्थनिष्ठत्वेऽपि । उपक्षेपापराभइधानमिति। उपक्षेप इति तस्य संज्ञा। यदाह-"बीजन्यासः उपक्षेप"इति। अर्थद्वयस्येति। तत्रार्थद्वयमभइधागोचरत्वेनान्वितं वक्तुं नेष्यते। किं तर्हि? एकोऽर्थोऽभिधेयः प्रस्तुतः। वक्ष्यमाणस्तु सूच्यः । अतो न श्लेषः । श्लेषे द्वयोरभिधेयत्वनियमात् नापि ध्वनिः। कुतः ? उपक्षेप्यस्य भाव्यर्थस्य असम्बन्धेनौपम्या विवक्षणात्। श्लेषध्वनिव्यतिरेकिणी गतिरपि नास्त#ि,तत्र किं कर्तव्यमित्याक्षेपः। समाधत्ते-उच्यत इत्यादि। श्लेषस्तु द्वयोर्वाच्यत्वाभावात् सर्वथा न प्रवर्तत इति ध्वनेः एव विषयोऽयम्। एतदुपपादयति-तथाहीति। शब्दशक्तिमूले हि ध्वनौ वाच्यप्रतीयमानयोः सम्बन्धाभावात् सम्बन्धायौपम्यक्लॄत्पिः। स(च)सम्बन्धः औपम्य#ानपेक्षया प्रकारान्तरेण यदि सूपपादः तर्हि उपमाध्वनौ कोऽभिनिवेशः? न कार्य एव,यतो वस्तुध्वनिरपि तत्र विषये सम्बगन्धान्तरेणोपपन्नः। अत एव ध्वनिकृता शब्दशक्तिमूलो ध्वनिः अलङ्कारुपो वस्तुरुपश्चेति द्विधा न्यायत उक्तः- अलङ्कारोऽथ वस्त्वेव शब्दाद्यत्रावभासते । प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा ।। इति ।। इत्थं च सति प्रकृतेऽपि सूचकत्वसम्बन्धात् शब्दशक्तिमूलो वस्तुध्वनिरवसेयः । अत्र उदाहरणम्-सद्यः कौशिकेति । हरिश्चन्द्रचरिते नाटके। कौशइकदिक् उलूकदिशा हर्षात्मिका ते हि प्रभाते हर्षेण कूजन्ति। यद्वा कौशिक इन्द्रः ,तस्य दिक् प्राची तद्विजृम्भणवशात्। प्रभाते हि प्राची प्रतायते। आकाशं राष्ट्रसमं इच्छ्या त्यक्त्वा वल्कलसदृशधूसरकान्त#िधरश्चन्द्रः अस्तशैलं यौ। अथ तत्कान्तापि निशा समुल्लासिभिरलिकुलैः क्रन्धन्तं सुतमिव कुमुदाकरं सान्त्वयन्ती तेन सह क्षिप्रं प्रतस्थे। सूचनीये त्वर्थे विश्वामित्रक्रोधवशात् इच्छ्या राष्ट्रं त्यक्त्वा वाराणसीं प्रस्थितः। तत्कान्ताप्यौशीनरी क्रन्दन्तं रोहिताश्वं सुतं सन्त्वयन्ती तेनैव सह प्रस्थितेति। इह वस्तुध्वनिरेवेति दर्शयितुमाह-अत्र प्रभातेत्यादि। ननु धूसरकान्तिवलकलेति सुतमिवेति च औपम्यसम्बन्धसद्भावात् कथमयं वस्तुध्वनिरित्यत आह-वल्कलसूताभ्यां त्विति। सूचनीयार्थनैरपेक्ष्येण सादृश्यं हि संभवति । प्रकृतार्थविषयत्वेन तावन्मात्रेण विश्रमणीयं सूचनीयेऽर्थे अनुपयोगात्। अतः प्रकृतेन सह सूचनीयस्य सूचनसम्बन्धाच्च शब्दशक्तिमूलो वस्तुध्वनिरेव । इत्थं सर्वत्र नाटकादौ ज्ञेयम् । अथ यत्र न तुल्ययोगिता नापि दीपकं तत्रापि नास्त्यलङ्कारान्तरविविक्तोऽस्य विषय इति दर्शयितुं आह-इहेति । अत्र विशेषणानां अलकाकर्षवक्त्रासञ्जनादीनां वल्लभपरतया प्रथमं प्रतीतिः। अथ इत्थं वदन्त्यास्ते लज्जा प्रलीनेति सखीव्यवहाके नहि नहीति वल्लभस्य निढद्धठ्ठड़14;नावपुरस्सरं कूर्पासकवल्यपदेशः क्रियते। अत्र हि न तुल्ययोगिता दीपकं वा अतो विविक्तोऽयं श्लेषविषय इति न शङ्कनीयम्। तत्र हेतुः- अपढद्धठ्ठड़14;नवुतेर्विद्यमानत्वदिति। चोदयति-वस्तुत इति। अपढद्धठ्ठड़14;नवो हि वस्तुतस्सादृश्यार्थं प्रवत्र्तते इह तु सादृश्यं अपढद्धठ्ठड़14;नवाय प्रवृत्तिमिति नायमपढद्धठ्ठड़14;नव इति चोद्यम्। परिहरति-न उभयथाऽपीति। भूतार्थस्य प्रकृतार्थस्य । प्रकृतापढद्धठ्ठड़14;नवोह्यपढद्धठ्ठड़14;नुतिलक्षणम्। स चोभयथाऽपि संभवतीति #्पढद्धठ्ठड़14;नुतिः। अत्र संग्रहश्लोकमाह-सादृश्यव्यक्त इति। आद्यासादृश्यपर्यवसाय्यपढद्धठ्ठड़14;नवरु(पा)स्वप्रस्तावे अपढद्धठ्ठड़14;नुतिप्रस्तावे। द्वितीयापढद्धठ्ठड़14;नवपर्यवसायिसादृश्यात्मिका। निगमयति-तेनालङ्कारान्तरेति । शब्दसाम्यं भवेच्छ्रलेषो विशेषणविशेष्ययोः । यद्येकोऽप्रकृतार्थश्चेत् भेद्यांशे भिन्नशब्दता ।। शब्दार्थोभयनिष्ठोऽयं सर्वालंकारबाधकः । पूर्वसिद्धस्य चेदङ्गं तदा न्यायेन बाध्यते ।। इत्थं न्यायनिर्भघरतया अनेन प्रपञ्चितोऽपि काव्यप्रकाशकृता प्रतिपदं खण्डिड्डत्ध्;तोऽयं श्लेषोऽलंङ्कारः। खण्डड्डत्ध्;नयुक्तयस्तु अनौचित्यान्नेह लिख्यन्ते। संप्रदायप्रकाशिन्यां तु काव्यप्रकाशटीकायां वितत्य दर्शिता इति तत् एवावधार्याः । अप्रस्तुतप्रशंसां लिलक्षयिषुः विशेषणविच्छ्रित्तिसङ्गतिसमाप्तेः सङ्गत्यन्तरं दर्शयति-प्रस्तुतादप्रस्तुतेत्यादि। तत्र सूत्रम्-अप्रस्तुतात् सा मान्यविशेषभावे कार्यकारणभावे सारुप्ये च प्रस्तुतप्रतीता वप्रस्तुतप्रशंसा । सामान्यविशेषभावादि संबन्धावलम्बेनाप्रस#्तुतात् प्रस्तुतावगतौ अप्रस्तुतप्रशंसा। व्याचष्टे-इहाप्रस्तुतस्येति। नह्यप्रस्तुतं प्रस्तुतपरकत्वाभावे वर्णनीयम्,अप्रस्तुतत्वात्। प्रस्तुतप्रत्यायकं च संबन्धः। त्रिधैव सामान्यविशेष्यभावः कार्यकारणभावः सारुप्यं चेति। तत्र सामान्याद्विशेषस्य विशेषाद्वा साम#ान्यविशेषअयभावः कार्यकारणभावः सारुप्यं चेति । तत्र सामान्यद्विशेसषस्य विशेषाद्वा सामान्यस्य प्रतीतिरिति द्वैविध्यम्। एवं कार्यकारणभावेऽपि । सारुप्ये तु यद्यपि नैवम्, अतः पञ्चप्रकारः । तथापि साधम्र्यवैधम्र्याभ्यां द्वैविध्यं भेदान्तरवत्सारुप्येऽपि । अथसर्वैवेयं वाच्यस्य संभवेन उभयरुपतया चेति त्रिधा। श्लिष्टशब्दप्रयोगे तु श्लेषेण न बाध्यते प्रस्तुतस्यावाच्यत्वात्। तण्णात्थीत्यादि। तन्नास्तिकिमपि(पत्युः प्र)कल्पितं(यन्ननियति)गृहिण्या । अनवरतमनशीलस्य कालपथिकस्य पाथेयम् ।। व्यख्यातं प्राक्। सामान्याद्विशेषप्रतीतिं दर्शयति-अत्र प्रहस्तेत्यादि। एतत्तस्येति। तस्य मुखात् एतत् कियत्। वक्ष्यमाणस्य जाडड्डत्ध्;्यापेक्षया जाडड्डत्ध्;्यमस्य अल्पकमित्यर्थः। एतदित्युक्तम्। किं तत्? कमलिनीपत्रे पाथसः कणं मुक्तामणिरित्यामंस्तेति यत्। एवं मन्ता नातिजडड्डत्ध्; इत्यर्थः। स एवातिजडड्डत्ध्;ः यस्तु मुक्तामणिधियाऽऽदीयमाने तत्र पाथःकणे अङ्गुल#्यग्रक्रियाप्रविलयिनि सतिमम मणिरुडड्डत्ध्;डड्डत्ध्;ीय गत इति अन्तश्शुचा न निद्राति। अत्र विशेषात्सामान्यप्रतीतिं दर्शयति-अत्र जडड्डत्ध्;ानामिति। पश्याम इति-सुहृदा सह नायिकावृत्तान्तोपवर्णनरुपा नायकोक्तिरियम्। किमियं प्रपद्यत इति पश्याम इति धिया संलापपरिहारादिरुपं स्थैर्यं मयालम्बितम्। तया तु "अयं खलु शठः मां न किमप्यालपतीति"कोप आश्रितः। इत्यन्योन्यवैलक्षण्येन दर्शनचतुरे तस्मिन्नवस्थान्तरे मया व्याजेन हसितं,तयाऽपि धैर्यतहरो बाष्पो मुक्तः। उद्वाष्पायां तस्यां धैर्यमेव मुक्तमित्यर्थः। अत्र कारणात्कार्यप्रतीतिं दर्शयति-अत्र तथा धाराधिरुढेति। माननिवृत्तिकार्ये प्रस्तुते बाष्पमभिहितम् अप्रस्तुतत्वेन विवक्षणीयम् । इन्दिरिति-इन्दुरञ्जनेन लित्प इवेत्यनेन मुखस्य सौन्दर्यं,मृगीणां दृष्टीर्जडिड्डत्ध्;तैवेति दृक्वाञ्चल्यं,विद्रुमदलं प्रम्लानारुणिमेवेति अधरप्रभा,कोकिलवधूकण्ठेषु कार्यश्यं प्रस्तुतमेवेति स्निग्धकण्ठता,बर्हास्सगर्हा इवेति च केशभारवैपुल्यं प्रतीयते। कार्यात्कारणप्रतीति दर्शयति-अत्र संभाव्यमानैरित्यादि। संभाव्यमानैरुत्प्रेक्ष्यमाणैः। अत्रातिव्यात्पिमाशाङ्कते-ननु कार्यादित्यादि। येन लम्बालक इति-अत्र लम्बालकत्वादिना कार्येण गजासुरवधरुपकारणप्रतीतिः । चक्राभिघातेति-अत्र रतस्यालिङ्गनवन्ध्यत्वचुम्बनमात्रशेषत्वरुपकार्यभेदाद्राहुशिरश्छेदः कारणम्। अत्रातिव्याÏत्प दर्शयति-अत्र हीत्यादि। परिहरतिनैष दोष इति । द्वयोरपि प्रस्तुतत्वे कारणापेक्षया कार्योपवर्णनस्य सचमत्कारत्वे तद्द्वारा कारणप्रत्यायनं पर्यायोक्तविषयः। कार्यस्या प्रस्तुतत्वे त्वप्रस्तुतप्रशंसाया इति विभागः। विभक्तविषयतया निगमयति-एवं यत्रेत्यादि। तादृशमेवं,प्रकृतमेव। आगूरयति सामथ्र्यादानयति। इत्थं च सति प्रकृतस्यच सतौऽर्थस्य स्वोपस्काराय प्रकृतानतरागूरणे पर्यायोक्तमेवेचि प्रथनाय पुनराह-ततश्च अनयेत्यादि। राजन्निति। कुब्जा शुकभोजननियुक्ता। कुमारेति संबोधनम्। तत्सचिवास्सजग्ध्याधिकारिणः । राजशुकः श्रेष्ठशुकः। अत्र राजशुकवृत्तस्यापि नायकप्रतापाङ्गतया प्रकृतत्वात् पर्यायोक्तमेव बोद्धव्यम्। अन्येषां हृदयमाह-अन्ये त्विति। कारणरुपस्य अरिपलायनलक्षघणस्य। ईदृशि विषये अन्येषामप्रस्तुतप्रशंसासात्वे बुद्धावपि न विरोधः कश्चित्। द्वयोः प्रस्तुतत्वे पर्यायोक्तम्। कार्यस्याप्रस्तुतत्वे तु अप्रस्तुतप्रशंसेति विभागस्याना कूलत्वात् इत्यभिप्रायेणाह-सर्वथेति। अथ एतानि साधम्र्योदाहरणत्वेन विज्ञेयानीत्याह-एतानि साधम्र्य इति । वैधम्र्ये तु उन्नेयानि। सारुप्यहेतुकं तु भेदम् अनया नीत्या साधम्र्येण सुज्ञानत्वातां वैधम्र्यणोदाहरति-धन्या इति। वैधम्र्यं दर्शयति- अत्र वाता इति। वाच्यसंभवे पृथङ्नोदाहर्तव्यानीत्याह-वाच्येति। कस्त्वं भो इति। कस्त्वमिति पृष्ट शाकोटकतरुर्वक्तिभोः कथयामीत#्यादि।तत्र पुनः प्रश्रः-वैराग्यादिव वक्षीति। तत्रोत्तरं-साधु विदितमिति। अथ कस्मादिदमिति प्रश्नेऽवशिष्टम् उत्तरम्। असंभवं दर्शयति-अत्राचेतनेनेति। नन्वेवमसंभवत्वं प्रात्पमित्यत आह-प्रस्तुतं प्रतीति। प्रमुख एव शाकोटकवृत्तस्य आरोपितत्व प्रतीतेर्युज्यत एवासम#्भवः वाच्यस्य जहत्स्वार्थलक्षणामूलत्वेन अत्यन्ततिरस्कारात् । अन्तश्छ्रिद्राणीति-छ्रिद्राणि रन्ध्राणि अनर्थद्वाराणि च। कण्टकाः पुलकाः विधातकाश्च।अत्र वाच्येऽर्थे छ्रिद्राणि गुणभङ्गुरीभावे हेतुरित्युभयरुपता। प्रस्तुततात्पर्येण प्रतीतेः तदध्यारोपात् सङ्ग(त)मेव। तदिदमाह-अत्र वाच्य इत्यादि। श्लेषगर्भत्वे चैतदेव द्रष्टव्यम् छ्रिद्रकण्टकगुणानां श्लिष्टत्वादित्याह-एतदेव चेति। अस्यार्थान्तरन्यासदृष्टान्ताभ्यां विषयविवेकं दर्शयति-तदत्रेति। अर्थान्तरन्यासे हि सामान्यविशेष्ययोः कार्यकारणयोश्च वाच्यत्वं(दृष्टान्ते तु)सरुपयोः वाच्यत्वम्। सर्वत्रैव प्रस्तुतस्य गम्यत्वे अप्रस्तुताभिधानादप्रस्तुतप्रशंसैव । अप्रस्तुतप्रशंसा तु प्रस्तुतावगमोऽन्यतः । सा सामान्यविशेषादिविच्छ्रित्या पञ्चधा मता ।। भवेत्साधम्र्यवैधम्र्ययोगतस्सा पुनर्द्विधा । संभनेऽसंभवेद्वैधे वाच्यस्याथ पुनस्त्रिधा ।। प्रस्तुतस्यावगम्पत्वात्पर्यायोक्ताद्विभिद्यते । इयमर्थान्तरन्यासाद् दृष्टान्तालङ्कृतेरपि ।। अर्थान्तरन्यासार्थं सङ्गतिमाह-उक्तनयेनेति। सामान्यविसेषादिसम्बन्धयोगत उक्तो नयः। तत्र सूत्रम्-सामान्यविशेषकार्यकारणाभावाभ्यां निर्दिष्टप्रकृतसमर्थनमर्थान्तरन्यासः। आभ्यां सम्बन्धाभ्यां समथ्र्यत्वेन निर्दिष्टस्य प्रकृतस्य समर्थनमर्थान्तरन्यास इत्यर्थः। व्याचष्टे-निर्दिष्टस्येत्यादि। समर्थनार्हस्य न तु समर्थननिव्र्यपेक्षस्य। समर्थकात्पूर्वं पश्चाद्वेति पूर्वपश्चाद्भावे कामचार उक्तः। न त्वपूर्वत्वेनेति। निर्दिष्टत्वेनैव प्रतीतिर्नत्वपूर्वत्वेन। अपूर्वत्वे को दोषः इत्यत आह-अनुमानरुपेति। तथा प्रतीतावनुमानरुपत्वमेव प्रसजेदित्यर्थः। भेदान् संचष्टे - तत्र सामान्यमित्यादि। संभवतोऽपि वैचित्र्यविरहिणो भेदानपोहति-हिशब्देत्यादि। उट्टङ्कितं निष्टङ्कितम्। अनन्तरत्नेति-सन्निपातो बहूनां सङ्घातः । अत्र गुणसन्निपाते दोषनिमज्जनलक्षणं सामान्यं साधम्र्येण विशेषसमर्थकम्। लोकोत्तरमिति। पुंसां लोकोत्तरं चरितमेव प्रतिष्ठाम् अर्पयति औदार्यं प्रतिष्ठापयतीत्यर्थः । न तु कुलमिह निमित्तम्। वातापितापनोऽगस्त्यः। कलशः कुलस्थानीयस्तस्य समुद्रपाने कोऽधिकारः । लीलायितं चरितस्थानीयम्। अत्र अगस्त्यवृत्तलक्षणो विशेषः साधम्र्येण सामान्यसमर्थकः । सहसेति-क्रिया ध्यवसायः सहसाविधानरुपो ह्याविवेकः आपदां पदम् अनेनापत्पदत्वरुपं कार्यं सहसा विधानाभावरुपस्य कारणस्य वैधम्र्येण समर्थकम्। विमृश्यकारिणां सम्पदो (वृणत)इति। सहसाविधानाभावात्मनो विमृश्यकारित्वस्य कारणस्य सम्पद्वरणं कार्यं साधम्र्येण। अत्र साधर्म्यस्य प्राथमिकत्वात् उत्तरार्धार्थपुरस्कारेण योजयति-अत्र सहसाविधानेत्यादि। विमृश्यकारित्वरुपस्य कारणस्येति शेषः। तस्यैव कारणस्येत्यर्थः। पृथ्वीति-द्वितयं पृथ्वी भुजङ्गरुपं तत् त्रितये कूर्मराज युक्तद्वितयात्मनि। दिधीर्षा धारयितुमिच्छा। अत्राततज्यीकरणं कारणं स्थिरीभावादिकार्ये साधम्र्येण समर्थकम्। तदिदं योजयति- अत्र हरकार्मुकेति । अहो हीति-आयुषा बढद्धठ्ठड़14;वपराद्धं हि सुह्यदः पराभवं दृष्ट्वा ईदृशमप्रियं वक्तव्यत्वेनापतितं यतः । त एवर हिधन्या,सुहृत्पराभवमट्टष्ट्वा ये क्षयं गताः। अत्र सामान्यस्य वैधम्र्येण समर्थकत्वम्। योजयति-अत्रायुः कर्तृकेति। आयुः कर्तृकेण हि अपराधेनाधन्यत्वं आक्षित्पम्। आयुर्विरुद्धक्षयगमनप्रयुक्तं यद्धन्यत्वं तद्वैधम्र्येण समर्थकं सामान्यमुक्तम्। अनुस्मारयति-कार्यतकारणातायामिति। अपोढेष्वौदासीन्यमाविष्करोति - हिशब्देत्यादि । समथ्र्यत्वे न निर्दिष्टः प्रकृतो यः समथ्र्यते । सोऽयमर्थान्तरन्यासः सामान्यादिभिरष्टधा ।। पर्यायोक्तार्थसङ्गतिं शोधयति-एवं अप्रस्तुतेति। गम्यप्रस्तुवेति। प्रतीयमानार्थप्रस्तावो हि वर्तते। तत्र सूत्रम्-गम्यस्यापि भङ्ग्यन्तरेणाभिधानं पर्यायोक्तम्।। प्रतीयमानस्यापि कार्यादिमुखेन प्रकारान्यचरेणाभिधानं पर्यायोक्तम्। व्याचष्टे-यदेवेत्यादि। गम#्यस्य सतोऽभिधानमाक्षिप्योपपादयति-गम्यस्यैवेति। भङ्ग्यन्तरेणेत्येतद्विवृणोति-न हीत्यादि। ननु कार्याद्यभिधाने गम्यस्य कथमभिधानमित्यत आहकार्यादेरपीति। अप्रस्तुतप्रशंसातो भेदं निरुपितचरमनुस्मारयति-एतच्चेति। स्पृष्टास्ताइति। व्याख्यातं प्राक्। योजयति-अत्र हयग्रीवस्येति। कार्यं मञ्जरीस्पर्शः। पर्यायोक्तं तु कार्यादिद्वारा गम्यस्य वर्णनम् । अप्रस्तुतप्रशंसातो वाच्यस्य प्रस्तुतेभिदा ।। व्याजस्तुतेस्सङ्गतिमाह-गम्यत्वेति। सूत्रम्-स्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः । स्तुत्या निन्दाया गम्यत्वे एका निन्दया स्तुतेस्त्वन्या। अतो व्याजरुपास्तुतिः व्याजेन स्तुतिरिति च विग्रहः। व्याचष्टे-यत्र स्तुतिरित्यादि। प्रमाणान्तरात् आभासीकरणक्षमात्। अनुगमेन अर्थान्वयेन द्वितीया तु निन्दाव्याजेन स्तुतिरिति आह-यत्रापीति । अतो योगविभागात् व्याजस्तुदिद्वयम् । ननु स्तुतिनिन्दयोर्गम्यांशस्य प्रस्तुतत्वाद प्रस्तुतप्रशंसातः को भेद इत्यत आह-स्तुतिनिन्देति। हे हेलेति। बोधिसत्त्वो जीमूतवाहनः। स हि कदाचिदेव परस्य हितमाधात् त्वं तु ये यावन्तस्तृष्यन्ति,तेभ्यस्सर्वेभ्य एव वैमुख्यलब्धानामयशोभाराणं प्रोद्वहने मरोस्साहायर्कं करोषि। अतो हेलाजितबोधिसत्त्वे त्वयि स्तुतिवचोविस्तरो(न)पर्याप्नोतीत्यर्थः। स्तुतेर्निन्दागमकत्वं दर्शयति - अत्र विपरीतेति। इन्दोर्लक्ष्मेति। उर्वीवलयतिलक इन्दुलक्ष्मादिषु श्यामलेषु सत्सु त्वद्यशोभिर्नकिंचिद्धवलितं इति स्तुतिर्गम्यते। तदेतदाह-अत्र धवलत्वेति। अनवक्लृत्पिः अपर्यात्पिः। यत्र तु गम्यांशस्य न्यग्भावस्तत्र नास्यास्सामञ्जस्यमिति दर्शयितुमाह-किं वृत्तान्तैरिति। अत्र वल्लभा भ्रमति हन्तेत्युक्त्या निन्दायास्सुतिपर्यवसायित्वं न स्फुटीभावति,अनौचित्यादिति क्लिष्टता। तदेतदाह-अत्र प्रक्रान्तापीति । व्याजेन व्याजरुपा वा स्तुतिव्र्याजस्तुतिद्वयम् । अप्रस्तुतप्रशंसातः स्तुतिनिन्दात्मिका भिदा ।। आक्षेपार्थं सङ्गतिमाह-गम्यत्वमेवेति। विशेषोऽतिशयः । विशेषप्रतिपत्तिगभ्यविषयेत्यर्थः। तत्र सूत्रम्-उक्तवक्ष्यमाणयोः प्राकरणिकयोः विशेषप्रतीत्यर्थं निषेधाभास आक्षेपः। उक्तस्य वक्ष्यमाणस्य वा प्राकरणिकस्य विशेषप्रतीत्यर्थं आभासतो निषेधनम् आक्षेपः। विजातीयमिदम् आक्षेपद्वयं ज्ञेयम्। व्याचष्टे - इह प्राकरणिक इत्यादि। तथाविधस्य विवक्षितस्य। अत एव विधेयस्य स कृतः अविषये प्रवर्तित इत्यर्थः। अत एव बाधितस्वरुपः आभासीभवति। ननु किमेतेन प्रयासेनेत्यत आह-तस्यैतस्तयेति। अन्यथेति। विशेषप्रतिपत्त्यर्थताभावे पुनर्विध#िपर्यवसानात् गजस्नानतुल्यता स्यात्। गजो हि स्नात एव सन् सद्यो धूलिधूसरो भवति। तस्य द्वैरुप्यायाह-स चेति। आसूत्रिताभिधानत्वेन अभिधातुमुपक्रान्ततयेत्यिर्थः। तत्र कस्य कः प्रकार इत्यत आह-उक्तविषयत्वेनेत्यादि। कैमर्थक्यं निरर्थकता। आगूरणम्,सामथ्र्यात् साधनम#्। अतो विजातीयत्वमित्यत आह-एवं चेति। उभयत्र निषेध्यांशो विभिन्न इत्याह-तत्रोक्तेति। अतो वैलक्ष्यमित्याह-तेनात्रेति। शबानुपात्तत्वादिति। निषेधाभासबलायत्तत्वात् शब्दानुपात्तता। उक्तविषय इति। वस्तुनो वस्तुकथनस्य निषेधाद्द्वैविध्यम्। वक्ष्यमाणेति। वस्तुनोऽन#ुक्तत्वात् कथखनस्यैव निषेधः। तत्रान्यथा द्वैविध्यमाह-तत्र सामान्येति। इत्थं चातुर्विध्यम्। अत्र च प्रकारप्रकारिभावहेतुस्सामान्यविशेषभावो अर्थानपेक्ष इत्याह-शब्दसाम्येति। बालश्च इति। बालक! नाहं दूति तस्याः प्रियोऽसीति नास्माकं व्यापारः । सा म्रियते तवायश एतद्वर्माक्षरं भणामः ।। प्रसीदेति। यति प्रसीदेति ब्रूयामसति कोप इदं वचो न घटते। एवं न पुनः करिष्यामीति चेद्ब्रूयां तथा विद्यमानस्याभ्युपगमः, न मे दोषोऽस्तीति चेद्ब्रूयां त्वं पुनरिदं दोषाभाववचो मृषेतिज्ञास्यासि। अतः किं वक्तुं क्षममिति न वेद्मि । सुहश्च इति। सुभग!विलम्बस्व स्तोकं यावदिदं विरहकातरं ह्यदयम् । संस्थाप्य भणिष्याम्यथवाप(व्यति)क्राम किं भणामः ।। मम विरहकातरहृदयं संस्थाप्य भणिष्यामीत्यनेन जीवितसंशयहेतुरुपद्रवरुपद्रवः? )आसूत्रितः । अथवा व्यतिक्राम किं भणम इति तु तस्यैव प्रत्यासन्नतरत्वाद्भणत्यनर्हता। ज्योत्स्नेति। अत्र विरहवेदनावशात् ज्योत्स्नापिकवचः प्रभृतीनां तमःक्रकचादिरुपापत्त्या यतो दुरन्तता। अतो सा न्यूनमित्यर्धोक्त्या प्राणसंशयदशोपक्षित्पा। आःकिमथवा जीवितेनेत्यनेन तु तद्विपत्तेरर्वाक् प्राणोपेक्षात्वा। एषु क्रमतोयोजयितुमाह-आद्य इत्यादि। "नाहं दूती"ति दूतित्वरुपवस्तुनिषेधः । किमेतस्मिन् वक्तुं क्षममिति तूक्तिनिषेधः। तदुभयमपि उक्तविषयम्। उभयत्र निषेधाभासद्योत्यं विशेषमुद्धाटयति-तत्र चेति। वस्तुवाचित्वं यर्थार्थवाचित्वम्। विशेषो गम्यत इति शेषः। भण्यमानस्य (प्रसादे)ति। उदीर्यमाणस्य इदं न घटत इति निषेधमुखेनैव। उत्तरस्मिन्निति। किं भणाम इति सामान्यद्वारेण वक्तुमिष्टस्य जीवितसंशयादेः स्वरुपत एव भणितिनिषेध इत्यर्थवशादागूरणम् इत्यर्थः। सा नूनमित्यं शोक्तौ जीवितुं न शक्नोमीत्यंशान्तरस्य स्वरुपतो भणितिनिषेधादागूरणम्। उभयत्र द्योत्यविशेषणोद्घाटनायाह-तत#्र चेति। अतिशयकोपजनकत्वं प्रस्थानाध्यवसायात्। अत्र सामग्रीं निष्कर्षति-एवञ्चेति। अत आक्षेपस्वरुपमीदृगित्याह-तेनेति। ननु निषेधाक्षेपः किं न स्यादित्यत आह-विधिना त्विति। विधिना विध्याभासेनेत्यर्थः। वक्ष्यते सूत्रान्तरेणेति शेषः । यत इत्थं निषेधेन विधेराक्ष#ेपः अत ईदृशि विषये नालङ्कान्तरमित्यत आह-ततश्चेति। यस्मादात्मसंभावनमत आनुरुप्योक्तिर्नयुज्यत इत्युक्तिनिषेधः। इत्थं न स्नेहसदृशमित्यत्रापि याननिषेधः। अतोऽयमुक्तविषय आक्षेपः। अविषयं दर्शयति-केवलमित्यादि। अत्र ह्यपरित्याज्यतादि बाल्यादेर्न निषेधकमपि तु तस्य साधकमेवेति नाक्षेपबुद्धिः कार्या। किन्तु व्याघातविशेषेत्यनुयोगपुरस्कारेण दर्शयति-कस्यर्हीत्यादि। अत्र निष्कर्षाय श्लोकः-तदिष्टस्येति। तस्मात् कारणात् सौकर्येण विशेषसिद्ध्यर्थं तस्य निषेधाभास आक्षेपोक्तेः निमित्तं, न तु वस्तुतो निषेधैकता । अतो यत्र निषेधो वास्तवो न तत्राक्षेप इति सोदाहरणं दर्शयति-इह त्वित्यादि। अत्र पूर्व श्लोके दैत्या इव काव्यार्थचोरा लुण्टनाय यत्प्रगुणीभवन्ति,अतः काव्यामृतं रक्षतेति रक्षणं विहितम्। उत्तरश्लोके तु सर्वे यथेच्छं गृढद्धठ्ठड़14;णन्तु लोकेऽपि न क्षतिरिति,पूर्वविहितंकाव्यरक्षणं साक्षान्निषिध्यते। तथा वायोः कारागृहक्लृप्त्यै कन्दरासु शिलाकवाटदानं विहितं,उत्तरश्लोके एवं चिन्तारुपं दैन्यं मृषा किराता मरुतासह निरोधनवैरं नेच्छ्रन्दीति कवाटदानं साक्षान्निषेध्यत इति नैतद्युगलकयुगमाक्षेपोदाहरणम्। आक्षेपाभावे युक्त्यन्तरमाह-चमत्कारोऽपीति। व्यङ्ग्यत्वेनास्य संभवं दर्शयति-अयं चेत्यादि। गणिकास्विति। गणिका धनपरायणाः सत्यः सर्वम् असाम्प्रतमाचरन्ति यतः। अतस्त्वया विश्वासो न कार्य इति गणिकाया एवोक्तौ विशअवासनिषेध आभासायते। धनवैमुख्येन शुद्धस्नेहभाजन मियम् इति प्रतीतेः। अतो उक्तविषयोऽयमाक्षेपो व्यङ्ग्यः । एतद्दर्शयति-अत्र हि गणिकाया इत्यादि। व्यङ्ग्यतायामप्यविषयं दर्शयति-न तु स वक्तुमिति। योऽम्बुनिधेः परिच्छे निषेधाभास आक्षेपः प्रकृतस्येष्टसिद्धये । स उक्तविषये वस्तु तदुक्त्यो वरिणात्मकः ।। वक्ष्यमाणो पुनस्त्वन्यो ज्ञेय आगूरणात्मकः । सामान्यतो विशेषांशादंशश्चेत्येष च द्विधदा ।। इष्टार्थोऽस्य निषेधोऽस्य बाधोऽथातिशयध्वनिः । चतुष्टयमिदं ज्ञेयं संभूयाक्षेपकारणम् ।। आक्षेपान्तरमुपक्षिपति-एवमिष्टेत्यादि। समानन्यायत्वादिति। अन्वयव्यतिकेकावस्थायिनो वस्तुनो न्याय्योऽपि अन्वयव्यतिरेकावस्थायितया समान इति भावः। तत्र सूत्रम्-अनिष्टविध्या भासश्च। प्राकरणिकस्य विशेषप्रतीत्यर्थमिति अनुवर्तते, न तु प्राकरणिकयोरिति,वक्ष्यमाणैकविषयत्वात् । अस्य यथेष्टस्य निषेधाभासः आक्षेपः प्राक्। तथा विशेषप्रतीत्यर्थम् अनिष्टविध्याभासोऽप्याक्षेपः। व्याचष्टे-यथेष्टस्येत्यादि। यथेति यद्वृत्तेन समानन्यायतायै निरुपितचरमाक्षेपमनुस्मारयति। एवमित्यादि तु प्रस्तुतविषयम्। प्रस्खलद्रूपत्वमविषयप्रवृत्तेः। विधिनायम् इति। यतो विधिरयं आभासमानो निषेधे व्यज्यमान उपकरणम् अतो विध्याभासेन व्यञ्जकेनायं निरुप्यमाणो निषेध इत्यर्थः। स चानिष्टविशेषे पर्यवस्यन् आक्षेपालङ्कार इति योजना। नन्वाक्षेपो द्विधा दर्शितः। उक्ते विषये कैमर्थक्यपरतया लक्ष्यमाणे त्वागूरकत्व#ेन। इह तु कतर इत्यत आह-निषेधागूरणादिति। निषेधो ह्यनुक्त इह विध्याभासेन आगूर्यते। अतोऽयं वक्ष्यमाणैकविषय इति ज्ञातव्यः। उक्तं हि "वक्ष्यमाणविषयत्वेन आनयनरुपमागूरणमाक्षेप"इति। गच्छेति। गच्छसि चेदित्यनेन,जिगमिषास्ति चेत् नाहं निराकरोमि इति गम्यते। गच्छ्रेत्यत्र तु तेन पुरस्कृतो विधिर्ममापि तत्रैव गतिर्भूयादिति तु प्राणनैराश्याविष्कारान् निषेधप्रत्यायनम्। योजयति-अत्र कयाचिद्त्यादि। अनिराकरणमुखेनेत्यनेन गच्छसि चेदित्यर्थानुगमो दर्शितः।(प्रस्खलद्)रुपत्वम् इह साक्षात् वाक्याननुप्रवेशः। विशेषप्रतिपत्तिरुपं फलं चोपदर्शयति-फलं चात्रेति। गम्यस्यात्यन्तपरिहार्यत्वं फलम्। तत्र किं निमित्तम् इत्याह-असंविज्ञानेति। न सम्यग्विज्ञायते येनार्थः तदसंविज्ञानम्। पदं चेदिति निपातात्मकम्। गच्छसिचेदित्युक्तो हि किं तत्र गमनेन मम संविज्ञानेत्यादि प्रतीयते। इदमेवार्थप्रत्यायकं सत्पदमत्यन्तपरिहार्यत्वे निबन्धनम् इत्यर्थः। नन्वेतदत्यन्तपरिहार्यत्वं केन व्यवस्थापितम् इत्यत आह-एतच्चेति। निषेधापगमं प्रकारान्तरेण दर्शयितुमाह-यथावेति । नो किञ्चिदिति। प्रौढाः कथनमन्तरेणापि कथनीयार्थाभिज्ञाः। शिथिलेति। हंसो हि शिथिलांसस्सन् सविशेषं रम्यो भवति,अन्तर्धवलिमा विष्कारात्। तत्सदृशरुचयो वीचय इतिनैर्मल्यकाष्टा । योजयति-अत्रानभिप्रेतमित्यादि। अनभिप्रेतस्यैव सतो गमनस्य नो किञ्चिक्तथनीयमस्तीति प्रमुख एवाभ्युपगमः प्रतीयते। इत्थं च सति विधिरयं अनिष्टत्वेनाभासमानो निषेधागूरणात्मन आक्षेपस्याङ्गम्। स्मर्तव्या इत्यनेन भूयस्तरान्निषेध एवोपोद्विलितः तथाविध वीचिस्मृतौ गमनवार्ताया अप्ययोगात्। निगमयति-तस्मादिति। अभिनवत्वेनअन्यैरप्रहरत्वेन । अनुक्तस्य निषेधस्य विध्याभासेन सूचिनम् । आक्षेपो वक्ष्यमाणैकविषयस्त्वेष सम्मतः ।। अथ विरोध विच्छित्तिमधिचिकीर्षुराह-आक्षेप इष्टेत्यादि। आक्षेपालङ्कारे हि विरुद्धत्वमनुप्रविष्टम्। इष्टनिषेधावलम्बेन अनिष्टविध्यवलम्बेन वा सूत्रद्वयप्रवृत्तेऽस्मिन्ननृपपत्तिसद्भावात् इत्यर्थः। तमिमं प्रस्तुतं विरोधम् अधिकुर्मः इत्याह-एतत्प्रस्तावेनेति। त#ेष्वपि अधिष्ठानभूतं विरोधालङ्कारं प्रामुख्यात् प्रथममुपगृढद्धठ्ठड़14;णाति-तत्रापीति। तत्र सूत्रम्-विरुद्धाभासत्वं विरोधः। विरोधस्य समाधानसद्भावात् आभासत्वं विरोधालङ्कारः। व्याचष्टे-इह जात्यादीनामिति। जातेर्जातिस्सजातीयं अन्यद्विजातीयम्। एवं गुणस्य गुण इत्यादि। भेद#ान् सञ्चष्टे-तत्र चेति। जातिविरोधस्य जातिनिबन्धनस्य विरोधालङ्कारस्य । परिच्छेदेति। अपरिच्छेद्यः सर्ववचनानाम् अविषयः । अत्र जन्मनि पुनरित्थाम् अनुभूतमनस्त्वमिह न प्राक्कोट्यपेक्षं पूर्वमित्यर्थः। विवेकस्य विशेषतो ध्वंसादुपचितेन मोहान्धकारेण दुरुत्तरः कोऽपि विरहविकारो अन्तर्जडड्डत्ध्;यति तापयति च । योजयति-अत्र जडड्डत्ध्;ीकरणेति। अप्रात्पिर्विरहः तद्धेतुकोऽयं विरुद्धक्रियोपनिपात इत्यर्थः। अयं वारामिति। तृष्णा पिपासा रत्नविषया लप्सा च। क एवं जानीते? न कस्यचिदिदं संभाव्यम् इत्यर्थः। योजयति-अत्र जलनिधिरिति। भेदान्तरं सुज्ञानमित्याह-एवमिति। इह श्लेषगर्भत्वे किं वृत्तमित्यत आह-विविक्तेति। श्लेषतो विविक्तविषयतयोक्तोदाहरणादौ दृश्यते यतः। अतः श्लेषगर्भत्वे श्लेषो बाधकः उद्भटमतावलम्बिनाम् अन्येषां तु सङ्करः । उदाहरणम्-सन्निहितेति। बालान्धकारा केशकालिमा नूतनतिमिरं च । भास्वन्मूर्तिः भास्वतो रवेमूर्तिश्च। इदं द्वयोरपि विरोधिनोः श्लिष्टत्वे। कुपतिमिति एकतरस्य । पृथ्वीपतिः कुत्सितपतिश्च । अत्र विशेषमाह-एकविषयेति। विरोधस्यैकविषयत्वे विरोधालङ्कारः। विषयभेदे त्वसङ्गत्यादिर्वक्ष्यते। विरोधस्तु तदाभासो जात्याद्यर्थसमाश्रयः । तद्वैचित्र्याद्दशविधो विषयैक्ये व्यवस्थितः ।। अथ विरोधमूलाः । तत्रापि कार्यकारणविरोधालङ्कारत्वेन विभावनोच्यते। तत्र सूत्रम् - कारणाभावे कार्यस्योत्पत्तिर्विभावना। प्रसिध्दकारणाभावे सूक्ष्मकारणवशात् कार्योत्पत्तिर्विशिष्टतया कार्यभावनात् विभावना। व्याचष्टे-इह कारणेति। कार्यं हि कारणमन्तरेण न संभवतीति तदन्वयव्यतिरेकानुविधानात् तदभावेऽपि यदि कार्यसंभवः, तदवास्तवत्वात् विरोधोदुष्परिहरः। यदि केनचिदुक्तिवैचित्र्येण कारणाभावेऽपि कार्यसंभव उपनिबद्धः तदा वैशिष्ट्येन कार्यभावना द्विभावना। क (या)चिदित्युक्तम्। सा केत्यत आह-साचेति। प्रसिध्दस्यैव कारणस्य अनुपनिबन्धः अप्रसिद्धकारणसंभवात्तु विरोधि। विरोधाद्वैलक्षण्यायाह-कारणाभावेनेति। प्रामाणिकत्वात् बलिना कारणाभावेन कार्यमेव बाध्यते, न तु कारणाभावः, अत उभयविरोधानुप्राणितात् विरोधात् विशेषः। एतद्वव्यतिरेकरुपया नीत्या वक्षअयमाणस्य विशेषोक्त्यलङअकारस्यापि विरोधतो भेद इत्याह-एवं विशेषोक्तवित्यादि। तत्र हि कार्याभावः कारणसत्ताया बाधकः। अतः साऽपि वोरोधाद्विभिन्ना । लक्षणांशेविमतिमुपन्यस्य दूषयति-इह लक्षणा इति। क्रियाग्रहणं कृतम्। क्रियाभावे कार्योत्पत्तिः विभावनेति तथाऽपि कारणपदविधानार्हत्वान्निवेशितम्। तत्र हेतुः- न हि सर्वैरिति। क्रियाफलमेव कार्यमिति न हि सर्वेषामभ्युपगमः,किन्तु वैयाकरणानामेव । अतः क्रिया व्यतिरेकिणोऽपि कारणास्य संभवात् सामान्यतः कारणग्रहणमेव कृतम् । अत्र द्वितीयेति। मदस्यासवकारणापोहेन यौवनकराणोपनिबन्धो यौवनासवमदयोरभेदाध्यवसायात्। सा चातिशयोक्तिर्विभावनां न व्यभिचरतीति न बाध्यते। अपि त्वनुग्राहकत्वेनावतिष्टते। तद्द्वैविध्यमाह-इयं चेति। अनेन विशेषोक्तेरपिद्वैविध्यं सूचितम्। तत्रासंभृतमिति। इयमेवोक्तन#िमित्ता वयसो निमित्तत्वात् । अङ्गलेखामिति। काश्मीरसमालम्भनंकुड्ड्डत्ध्;कुमालेपः निमित्तानुकिं्त दर्शयति-अत्र सहजत्वमिति। वैचित्र्यान्तरम् आह- इयं चेति। अनिद्र इति। प्रपतनं मरणाध्यवसायेन पातः। तिमिरसहितस्त्राससमयो निषा अयं तु तदभावात्मकः। आघातो वधस्थानं,धृतिर्धारणं अन्वयोऽनुवृत्तिः । आद्योदारहरणे द्वितीयतृतीयपादयोर्विमतिरित्याह-असंभृतमिति। सभरणपुष्पकारणाभावेऽपि मण्डड्डत्ध्;नकामास्त्रकार्योत्पत्तेरियमेव विभावनेति केचित्। अन्ये तु संभरणापुष्पयोर्मण्डड्डत्ध्;नास्त्रे प्रत्यासवमदन्यायेन साक्षादकराणत्वाद्वाङ्मात्रं विभावनात्ववचनम्।किञ्च एकगुणहानिकल्पनायां साम्यदाढर्यं विशेषोक्तिरित्युक्तलक्षणविशेषोक्तिरियम्। संभरणाद्येकगुणहान्या मण्डड्डत्ध्;नादेः वयसा सह साम्यदाढ्र्यादित्याहुः । अपरे तु वयसि मण्डड्डत्ध्;नत्वाद्यारोपात् रुपकमेव यत्त्व संभरणादि वैशिष्ट्यं तदत्रैव अधिरोपितमित्याहुः। अथ सिद्धान्तः - आरोप्यमाणस्येति। आरोप#्यमाणस्य मण्डड्डत्ध्;नत्वादेर्वयोरुपे प्रकृते प्रतिपत्तिरुपादुपयोगात् परिणामोऽयम्। मण्डड्डत्ध्;नादिकं हि वयोरुपो पग्राहिप्रतिपत्तिकत्वेन उपयुज्यते। रुपकत्वे हि वयसो मण्डड्डत्ध्;नं रुपोपग्राहिताया मण्डड्डत्ध्;नमेवेदमित्यादि प्रसजेत्। अतः परिणाम एव। अद्यतना इति आचार्यः स्वात्म प्रमुखान्वक्ति। प्रसिद्धकारणाभावे कार्योत्पत्तिर्विभावना । कार्योत्पादनवैशिष्ट्याद्द्विधा चेयं निमित्ततः ।। विशेषोक्त्यौ सङ्गतिमाह-विभावनामिति। तत्र सूत्रम्-कारणसामग्र्ये कार्यानुत्पत्तिर्विशेषोक्तिः।। विभावनावैपरीत्येन विशेषमभिव्यङ्क्तु प्रयुज्यमाना विशेषोक्तिः। व्याचष्टे-इह समग्राणीत्यादि। अन्यथेति। सामग्रयं हि कार्यनिष्पत्त्यवसानकम्। तदेव चेत्यार्यं न जनयेत(त्)तदा किमेषां समग्रत्वम्। अतः कारणानि चेत् समग्राणि तदा नियमेन कार्योत्पत्तिरिति स्थितम्। अनेन व्यात्पिर्दर्शिता । अत्राभासतो विरोधमुत्थापयति-यत्त्विति। कश्चिदिति। यदि कारणासमाग्रये कार्यानुत्पत्तिस्तदा विशेषः कश्चिदभिव्यङ्ग्यस्स्यात्। इत्थं च सति व#िशेषमभिव्यङ्गक्तुम् उक्तिरिति विशेषोक्तिः। तद्भेदार्थमाह-सा चेति। अचिन्त्यत्वमतर्किता। तदनुक्तेर्निमित्तमित्यनुक्तनिमित्तैव । कर्पूरइवेति। अत्र निर्भस्मांशं दाहशक्तिवैकल्ये सामग्री। अथापि जने जने शक्तिमानिति कार्यानुत्पत्तिः। आहूतोऽपीति। आढद्धठ्ठड़14;वानप्रत्युक्ति जिगमिषा(#ः)सङ्कोचशैथिल्य कारणसामग्री। नैवेति तु कार्यानुत्पत्तिः । तत्र हेतुः कान्तास्वप्नादि चिन्तितुं शक्यम् । स एक इति। तनुहरणं बलहरणे सामग्री। न हृतमिति तु कार्यानुत्पत्तिः। तत्र हेतुः अनुक्तश्चिन्तितुमशक्यः त्रिष्वपि योजयति-अत्र सत्यपि दाहेति। स्वरुपेण शक्तिमानिति स्वशब्देन विरुद्धेन धर्मेण क्वचिदियं विभावनया सङ्कीर्यत इति दर्शयितुमाह-कार्यानुपत्तिरित्यादि। यः कौमारेति। नायिका काचिदुद्दीपन विभावना(विभावा)भिरता वक्ति। यो मे प्रथमपरिभोगेन कौमारं हृतवान् अद्यापि स एव वरः वसन्तक्षपाः अपि ता एव। उन्मीलितमालतीवत् सुरभयः कदम्बानिलाः त एव। कदम्बोऽत्र धूलिकदम्बाख्यस्तद्विशेषः यो वसन्ते विकसति। अहमपि सा चैवास्मि,पुरातनी प्रेमदारा न कुण्ठितेत्यर्थः। अथापि रेवानदीकूले तत्र वेतसीतरुतले सुरतव्यापारलीलाविधौ चेतस्समुक्तण्ठते। योजयति -अत्र विभावनेत्यादि। कौमारहरादिसद्भावोऽनुत्कण्ठा कारणसामग्र्यम्। अथापि चेतस्समुत्कण्ठक इति विरुद्धोपनिबन्धेनानुत्कण्ठानुत्पत्तिरुक्ता। अतो विशेषोक्तिः। तथा कौमारहराद्ययोरुपकारणाभावे तत्सद्भावरुपविरोधिमुखेनोपनिबद्धेत्युक्तण्ठाकार्योत्पत्तिर्विभावना। तयोश्च साधकबाधकाभावात् सन्देहसङ्करः। कार्यकारणभावयोश्च विरोधिसद्भावायातत्वादस्फुटत्वम्। अनयोश्च न सर्वदा सङ्करः। कार्योत्पत्त्यनुत्पत्त्योरन्यतर विवक्षणे शुद्धत्वात्। प्रकृतोदाहरणे तु उत्कण्ठोत्पत्त्यनुत्कण्ठानुत्पत्त्योद्र्वयोपरि विवक्षा। अत्र श्लोकः- कार्यांशस्य यदा भावाभावौ वक्तुमपेक्षितौ । विभावनाविशेषोक्त्योस्तदा सन्देहसङ्करः ।। लक्षणान्तरमव्यापीत्याह-यात्वेकगुणेत्यादि । विशेषोक्तिर्भवेत् कार्यानुत्पत्तिस्सति कारणे । अत्रैकगुणहान्या तु साम्यदाढर्यमलक्षणम् ।। प्रतिज्ञातचरायातिशयोक्त्यन्तराय सङ्गतिः-अतिशयोक्ताविति। तत्र सूत्रम्- कार्यकारणयोः समकालत्वे पौर्वापर्यविपर्यये चातिशयोक्तिः। कार्यकारण विरोधमूलत्वादिह कथनम्। प्रपञ्चाय व्याचष्टे - इह नियतेति। एतद्रूपापगमः पौर्वापर्ये नियमभङ्गः । द्वौविध्यमाह-एतद्रूपेति । पश्यत्सूद्गतेति। राजसुविस्मेरेषु पश्यत्सु तव खङ्गे युगपत्कीत्र्या निर्गमेन श्रिया प्रवेशेन चेन्द्रजालं कृतम्। अत्र श्रीप्रवेशे कीर्ति निर्गमहेतौ समकालोपनिबन्धः । पथि पथीति। आभा प्रभा। लासकी नर्तकः। नरि नरि पुंसि पुंसि। अत्र सायककिरणकार्यभूता माननिवृत्ति#ः प्राक् सिद्धत्वेनोक्ता। उभयत्र योजयति-पूर्वत्रेत्यादि। प्रौढोक्तिनिर्मित मिन्द्रजालात्मकं व्यङ्गयम् । विशेषमाह-कार्यस्य चेति । कार्यकारणयोर्यौ तु कालसाम्यविपर्ययौ । अन्या त्वतिशयोक्तिस्सा विरोधांसोपजीवनात् ।। असङ्गत्यै सूत्रम्-तयोर्विभिन्नदेशत्वेऽसङ्गतिः । व्याचष्टे-तयोरिति। उचितेति। समदेशत्वमुचिता सङ्गतिः। असङ्गतिमाह-विरोधीति । प्रायः पथ्येति। प्रायेण भूपाः स्वतो स्वतो हितपराङ्मुखा विषयाक्रान्ता भवन्ति। लोकापवादस्तु निर्दोषान् सचिवानेति। विपिने सन्तोषभ#ाजो मुनयः। यद्वा बाह्यो मन्त्रानधिकृतस्सेवकजनो वर मन्त्रिणस्तु धिक्। योजयति-अत्रेति। लोकापवादस्य पथ्यविमुखत्वं विभिन्ना8यो हेतुः। इत्थं वैचित्र्यान्तरेऽपि दर्शयति-एवमिति। सा बालेति। योजयति-अत्र चेत्यादि। निगमयति-एवमिति। अन्यत्र विच्छ्रित्त्यन्तरे । कार्यकारणयोर्भिन्नदेशत्वे स्यादसङ्गतिः । अभेदाध्यवसायादि विच्छित्या दृश्यते च सा ।। विषमार्थं सूत्रम्-विरुप कार्यानर्थयोरुत्पत्तिर्विरुपसङ्घटना च विषयम्। कारणविरुप कार्योत्पत्तिरेकं,अनर्थोत्पत्तिरन्यत् अननुरुपयोः संघटना तृतीयमिति त्रिधा। विषयम् सङ्गतिः-विरोधेति। व्याचष्टे-तत्र कारणेति। निर्वक्ति-अननुरुपेति।। सद्य इति। करस्पर्शः पाणिग्रहः। नीलायाः पाण्डुड्डत्ध्;रुपं कार्यम्। तीर्थेति। तीर्थान्तरेषु पातकपङ्किलाः तनूर्विहाय दिव्यास्तनूर्लभन्ते। वाराणासि!त्वयि तु त्यक्ततनूनां दिव्यतनुलाभस्तावदास्तां मूलं प्राचीना तनुरप्यपुनर्लाभाय याति। अत्र मूलनाशलक्षणानर्थोत्पत्तिः। अरण्यानीति। आकूतं हृदयम्। निभृतं गूढं पल्लवयति प्रकाशयत्। अत्रारणअयान्यादीनां विरुपाणां असङ्घटनीयानां सङ्घटना। त्रिष्वपि योजयति-अत्र कृष्णोत्यादि। ननु मध्यमोदारहणे व्याजस्तुतिपर्यवसानम् इत्यत आह-केवलमिति। स्तुतिनिन्दाछ्रायापरित्यागेशुद्धं सुज्ञातत्वादभ्यूहितुं शक्यम् । विरुपानर्थयोर्हेतीरुत्पत्तिर्विषमं मतम् । तथा विरुपघटना तेनेदं त्रिप्रभेदकम् ।। समार्तं सूत्रम् - तद्विपर्ययस्समम्। तृतीयभेदापेक्षया विषमविपर्ययस्समम्। सङ्गतिपुरस्कारेण व्याचष्टे-विषमेत्यादि। अनलङ्कारत्वादिति। सरुपकार्यस्यार्थस्योत्पत्तौ न हि विच्छित्तिः। द्वैविध्यमाह-सस चेति। ल चान्त्यो भेदः। त्वमेवमिति। त्वमेवांचिधसौन्दर्या स च रुचिरतायाः परिचितः युवां कलाभिज्ञौ च । शेषं पाणिग्रहणम्। तदा गुणत्त्वं विश्वोत्कर्षी स्यात्। योजयति-अत्रेति। नायकेत्येकशेषः नायको नायिका चेति। चित्रं चित्रमिति। स्फातिः स्फीतता। कोविदो निगुणः। योजयति-अत्रेति। द्वयोरनभिरुपत्वं आनुरुप्यम् । सरुपयोस्संघटना समालङ्कार इष्यते । श्लाध्या श्लाध्यत्वयोगेन द्वौ भेदावस्य सङ्गतौ ।। विचित्राय सङ्गतिः-विरोधेति। सूत्रम्-स्वविपरीतफल निष्पत्तये प्रयत्नो विचित्रम्। विपरीतफलाय प्रयत्नो विचित्रम्। व्याचष्टे-यस्येति। तद्वि परीतेति। तस्य विपरीतफलस्येत्यर्थः । निर्वक्ति-आश्चर्येति। विषमप्रकाराद्वैलक्षण्यायाह-न चायमिति। इह हि स्वनिषेधो वैपरीत्यं गमयति। विषमे तु व्यत्ययः। उदाहरणतो द्रढयति-तमालेति। इह त्वन्यथा-धेत्तुमिति। (ग्रहीतुं)मुच्यतेऽधरोऽन्यतो वलति (प्रेक्षितुं)दृष्टिः । घटितुं विघटेते भुजौ (रतायसुरतेषु)विश्रमः ।। योजयति-अत्रेत्यादि। उन्नत्या इति। भोगेच्छ्रया भोक्तुमित्यर्थः। योजनं स्फुटमित्याह-अत्रेति । प्रयत्नस्तु विचित्रं स्याद्विपरीतफलात्पये । निषेधतो वैपरीत्याद्विषमालङ्कुतेर्भिदा ।। अधिकार्थं सूत्रम्-आश्रयाश्रयिणोरनांनुरुप्यमधिकम्।। आश्रयाश्रयिणोरयथात्वम् आधिकम्। ससङ्गतिकं व्यचष्टे-विरोधेत्यादि। आश्रयाधिक्यात् आश्रय्याविक्याञ्च द्वैविध्यमाह-तत्रेत्यादि। द्यौरत्रेति। द्यौस्स्वर्गः,धरा पृथ्वी, जलाधारास्समुद्रास्तदवधिरिति निश्शेषत्वोक्तिः अहो कियत्,इयत्तैव नास्तीत्यर्थः। पूरणं दूरेऽस्तु का पूरणकतयेत्यर्थः। यावता शून्यमिति नाम्नोऽपि नास्ति गतिः काचित् । दोर्दण्डेड्डत्ध्;ति-आञ्चितं आयामितम्। नत्वञ्चितामिति पाठः । गतिपूजनयोरनुपयोगात्। आञ्चिरायामार्थो धातुः। भ्राम्यत्पिण्डिड्डत्ध्;तचण्डिड्डत्ध्;मा च । योजयति-पूर्वंत्रेति । अनानुरुप्यमधिकमाश्रयाश्रयिणोर्मतम् । आश्रयाश्रयिवैपुल्यवशतो द्विप्रभेदकम् ।। अन्योन्यार्थं सूत्रम्-परस्परं क्रियाजननेऽन्योन्यम्। क्रियाव्यतीहारेऽन्योन्यालङ्कारः । ससङ्गतिकंव्याचष्टे-इहापीत्यादि । न स्व रुपापेक्षया परस्परजननस्यासंभवेन सम्यग्विरोधित्वात् क्रियाद्वारकमेवेह परस्परजननम्। कण्ठस्येति। तनुत्वरम्यत्वे देवीकण्ठस्य आत्मोत्कृष्टत्वे सामग्रीमुक्ताकलापस्य च वृत्तत्वात् निस्तलत्वमानोचनीयत्वे। इत्थं द्वयोरपि सम्पन्नसामग्रीकत्वात् भूषणभूष्यभावस्साधारणः। योजयति-अत्र शोभेति। क्रियामुखकं क्रियाद्वारकम् । क्रियाजननमन्योन्यमन्योन्यालङ्कृतिर्मता । विशेषार्थं सूत्रम्-अनाधारं माधेयमेकमनेकगोचरमशक्यवस्त्वन्तरकरणं च विशेषः। दिवमपीति। दिवमुपयातानामपि गिरो रमयन्ति जगन्तीत्यनाधाराधेयता। प्रासादेति-अत्रैकस्यानेकगोचरता। निमेषमपीति। अत्र सर्वसम्पादनात्मनोऽशक्यवस्त्वन्तरस्य करणम्। त्रिष्वपि योजयति-अत्र कवीनामिति। येषाम् इति षष्ठीनिदेशेऽपि न गीर्भिस्सह सम्बन्धमात्रम्,अपि तु विशिष्टः सम्बन्ध इत्याह-अन्यत्रेति। भावि लोकोत्तरेति। किंशब्देन नञा चाक्षित्पोऽर्थः। अनाधारादिभेदेन विशेषोऽपि त्रिधा मतः । व्याघातार्थं सूत्रम्-यथा साधितस्य तथैवान्येनान्यथाकरणं व्याघातः। एकेन यद्यथा साधितं तस्य तथैवान्यथीकरणं व्याघातः। व्याचष्टे-कंचिदिति। दृशेति। दृशा दग्धस्य दृशैव जीवनाञ्चारुलोचना विरुपाक्षस्य जन्यिन्यः । योजयति-अत्र दृष्टीति। जोवनीयत्वमिति। प्राणितव्यं जीवनमित्यर्थः। अयं चात्र व्यतिरेकहेतुरित्याह-सोऽपीति। विरुपाक्षचारुलोचनाशब्दौ हि व्यतिरेकगर्भौ। जयेन च व्यतिरेक उक्तः। सङ्गतिमाह-पूर्ववदिति। अनानुरुप्यं इह लक्षणां प्रकरणस्य। यथा साधकमेकेन तथैवान्येन बाधनम् । व्याघातोऽथ विरुद्धस्य सौकर्येण क्रिया तथा ।। तत्र सूत्रान्तरम्-सौकर्येण कार्यविरुद्धक्रिया च । कार्यापेक्षया सुकरस्य विरुद्धस्य करणं कार्यव्याहतिहेतुरिति व्याघातान्तरम्। व्याचष्टे-व्याघात इत्यादि। अयं लक्ष्यपदानुषङ्गः। कार्यार्थंसंभावितस्य कारणविशेषस्य तद्विरुद्ध निष्पादनं व्याघातः। विरुद्धनिष्पत्तिश्च सुकरा कारणस्य विशिष्टानुगुण्यात्। इत्थं च सति अनर्थोत्पत्तिलक्षणाद्विषामात् भेद इत्याह-न त्वत्रेति। न ह्यत्र कार्यमकार्यं किन्तु तद्विरुद्धं सुकरं कार्यम्। अतो द्वितीयविषमाद्भेदः। यतस्तत्र कार्यमकार्यं विरुद्धस्तु अनर्थः। इहोभयमपि कार्यमिति। यदि बाल इतीति। अत्र बाल्यं रक्ष्यत्वं चाप्रस्थाने हेतुत्वेन सम्भावितं प्रत्युत सौकर्येण प्रस्थानं साधयति। सङ्गत्यन्तरायाह-एवमिति। तत्र कारणामालार्थं सूत्रम्-पूर्वपूर्वस्योत्तरोत्तरहेतुत्वे कारणमाला। यदा पूर्वमित्यादि। जितेन्द्रियत्वमिति। जितेन्द्रियत्वाद्विनयः, विनयाद्गुणप्रकर्षः ततो जनानुरागः । अत्र सारादिविच्छ्रित्त्यन्तरसंभवेऽपि नालङ्कारान्तरमित्याह-कार्यकारणेति । कार्यं कारणमालायां प्राचः प्राचः परं परम्।। एकावल्यै सूत्रम्-यथापूर्वं परस्य विशेषणातया स्थापनापोहने एकावली। यदि पूर्व पूर्वस्य परं परं विशेषणतया स्थाप्यते,सैका एकावली यञ्चापोह्यते सान्या। पुराणीति। अत्र पराणां वराङ्गनास्तासां रुपं तस्य विलासः स कुसुमायुधस्य विशेषणतया स्थाप्यते। योजयति-अत्र वराङ्गना इति। न तज्जलमिति। अत्र जलादेः पूर्वं पूर्वस्य पङ्कजाद्युत्तरोत्तरं विशेषणमपोह्यतया स्थितम् । एकावल्यां यथापूर्वं भेदकं तूत्तरोत्तरम् । स्थाप्यतेऽपोह्यते चैव तेनेयं द्विविधा मता ।। मालादीपकार्थं सूत्रम्-पूर्वपूर्वस्योत्तरोत्तरगुणवहत्वे मालादीपकम्। एकावल्यामुत्तरोत्तरस्य पूर्वपूर्वगुणवहत्वम् इह तु व्यत्ययः। व्याचष्टे-उत्तरोत्तरस्येति। प्रस्तावोल्लङ्घने हेतुमाह-मालात्वेनेति। संग्रामेति। अत्र कोदण्डड्डत्ध्;ादेः पूर्वपूर्वस्य शराद्युत्तरोत्तरसमासादनं दीपनेन गुणावहत्वम्। व्याचष्टे-अत्र कोदण्डड्डत्ध्;ादिभिरिति। मालादीपकमाद्यस्योत्तरोत्तरदीपनम् । सारार्थं सूत्रम्-उत्तरोत्तरमुत्कर्षस्सारः । व्याचष्टे-पूर्वपूर्वेति। निबन्धनं ग्रथनम्। राज्य इति। सारमित्यत्र वस्त्वित्यध्याहर्तव्यम्। इतरथा लिङ्गासङ्गतिः। योजयति-अत्र राज्येति। उत्तरोत्तरमुत्कर्षावहत्वे सार इष्यते । सङ्गत्यन्तरायाह-एवं श्रृङ्खलेति। तत्र काव्यलिङ्गार्थं सूत्रम्-हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गम्। वाक्यार्थपदार्थरुपहेतौ द्विधा काव्यलिङ्गम्। व्याचष्टे-यत्र हेतुरिति । तर्कवैलक्षण्यं दर्शयति-न ह्यत्रेति। अनुपाधिकः सम्बन्धो व्यात्पिः। हेतोः पक्षेऽवस्थित#ि#ः पक्षधर्मता। उपसंहारो निगमनम्। आदिशब्दादुपनयादिः। वाक्यार्थत्वे विशेषमाह-वाक्यार्थगत्येति। अनेन हेतुत्वस्य शाब्दत्वनियम उक्तः। आर्थत्वे विशेषमाह-वाक्यार्थगत्येति। अनेन हेतुत्वस्य शाब्दत्वनियम उक्तः। अर्थत्वे अर्थान्तरन्यास प्रात्पिः इत्याह-अनयथेति। अर्थान्तरन्यासे हि अर्थात्प्रकृत समर्थनम्,इह तु शब्दत इति विभागः । यत्त्वन्नेत्रेति। नेत्र रुचिसमानरुच इन्दीवरस्य सलिले निमज्जनम्,मुखच्छ्रायानुकारिणः शशिनो मेघैश्छ्रादनं,गमनानुकारिगतीनां हंसानां पलायनं चेति वाक्यार्थत्रयमेकवाक्यतापन्नायां सादृश्यविनोदाक्षान्तौ हेतुः। मृग्य इति। दर्भनिव्र्यपेक्षत्वलोचनव्यापारणे पदार्थो संबोधने हेतुः। उभयत्र योजयति- पूर्वत्रेत्यादि। अत्र वाक्यार्थपदार्थयोरेकैकहेतुत्वेनोदाजिहीर्षुराह-एवमेकेति। मनीषिता इति। अत्र तपोनिवारणे गृहेष्वपेक्षितदेवतासद्भावो वाक्यार्थो हेतुः। यद्विस्मयेति। अत्रानन्द मन्दत्वे विस्मयस्तिमितत्वं पदार्थो हेतुः। योजयति-पूर्वत्रेत्यादि। काव्यलिङ्गत्व तु हेतुत्वेनोक्तिर्वाक्यपदार्थयोः । नायमर्थान्तरन्यासो हेतोश्शाब्दत्वसंश्रयात् ।। अनुमानाय सूत्रम्-साध्यं साधननिर्देशोऽनुमानम्। साध्यसिद्ध्यै साधननिर्देशोऽऽनुमानम्। व्याचष्टे-यत्र शब्देत्यादि। शब्दवृत्तेन नत्वर्थस्य। वस्तुतस्तथा भावेनपक्षधर्मान्वयेति त्रौरुप्यमुक्तम्। तर्कानुमानवैलक्षण्याह-विच्छित्तीति। अर्थात् कविकल्पितवैचित्र्यात्। यथा रन्ध्रमिति। जलदधूमस्य व्योमस्थगनं खद्योतानां स्फुलिङ्गायमानता,ककुभां विद्युज्ज्वालापिङ्गता च। पथिकतरुषण्डेड्डत्ध्; स्मरदवानललग्नं लिङ्गम्। योजयति- अत्र धूमेत्यादि। रुपकमूलत्वमेवालङ्कारान्तरगर्भीकारः। अलङ्कारान्तरविविक्ततयाऽपि दर्शयितुमाह-क्वचित्त्विति। यत्रैता इति। लहरीवञ्चलाश्चलदृशो यासां ताः। तत्र भ्रूव्यापारस्तत्रैव मार्गणपतनम्। स्मरस्याग्रगमने शुद्धतया लिङ्गम्। तदेतदाह-अत्रेति। अनलंकृतमेव रुपकाद्यसंकीर्णमेव। तर्कानुमानाद्वैलक्षण्यायाह-प्रौढोक्तीति। मात्रग्रहणादलङ्कारान्तरापोहः। चारुत्वं न तु तर्कानुमानवन्निश्चमत्कारता। अथानुमानकाव्यलिङ्कार्थान्तरन्यासानां विषयं विवेचयति-अयमत्रेत्यादि। पिण्डड्डत्ध्;ार्थः अवान्तरविशेषनिव्र्यपेक्षो निष्कृष्टार्थः।अप्रतीतः प्रत्याय्यते चेत् प्रत्याय्यप्रत्ययकभावः तदानुमानम्,प्रतीतस्समथ्र्यते चेत् समथ्र्यसमर्थकभावः तदा पदार्थस्य त्वतलादिशिरस्कतया हेतुत्वेनोपादाने न कश्चिदलङ्कारः। यथा नागेन्द्रहस्ता इत्यादौ। कर्कशत्वात् ऊर्वोरुपमानबाह्या इति हेतुमद्भावस्य लौकिकत्वात्। यदा त्वतलाद्यसंस्पर्शेनोपात्तस्य पदार्थस्य हेतुत्वं तदा "मृगश्च दर्भाङ्कुरे"त्यादौ पदार्थनिमन्धनमेकं काव्यलिङ्गम्। यदा पुनर्वाक्यार्थो हेतुत्वप्रतिपादकयच्छ्रब्दादिप्रयोगमन्तरेण हेतुत्वेनोपादीयते,तदा वाक्यार्थनिबन्धनमन्यत्काव्यलिङ्गम्। यदा ताटस्थ्येनोपात्तस्य वाक्यस्य अर्थपर्यालोचनया हेतुत्वं तदार्तान्तरन्यासः। इत्थं च सति वाक्यार्थनिबन्धनं काव्यलिङ्गं कार्यकारण एव भवति। समथ्र्य वाक्यार्थस्यानया क्रियया सापेक्षत्वेन ताटस्थ्याभावात्। अर्थान्तरन्यासस्तु सामान्यविशेषभाव एव भवति। तथात्व एव ताटस्थ्यसंभवात्। यत्पुनः कार्यकारणगतत्वेनार्थान्तरस्य समर्थकत्वं तदुक्त लक्षणं काव्यलिङ्गमप्यनपेक्ष्यैव। आचार्यैर्लक्षणान्तरकरणात् । इत्थं च सति उक्तलक्षणाश्रयणे,"यत्त्वन्नेत्रे"त्यादौ अर्थान्तरन्यासविविक्तं काव्यलिङ्गमेव। कार्यकारणयोस्तु समर्थकत्वं अर्थानतरन्यासे दर्शितचरमिति गतिरियती विषयविभागा याश्रयितव्या । अनुमानं तु साध्याय साधनस्योपवर्णना । तत्संकीर्णत्वशुद्धत्वविच्छित्त्यान्यविलक्षणात् ।। अप्रतीतप्रतीतौ स्यादनुमानव्यवस्थितिः । पदार्थाद्वाथ वाक्यार्थात् निर्देशे सति हेतुतः ।। समर्थनं प्रतीतस्य काव्यलिङ्गद्वयं मतम् । भवेदर्थान्तरन्यासः ताटस्थ्ये हेतुभावतः ।। कार्यकारणभावे तु तस्योक्तं लक्षणान्तरम् । सङअगत्यन्तरायाह-एवं तर्केति। तत्र यथासंख्यार्थं सूत्रम्-उद्दिष्टानामर्थानां क्रमेणनुनिर्देशो यथासंख्यम्। प्राङ्गनिर्दिष्टनां पश्चान्निर्दिष्टैः क्रमेण सम्बन्धो यथासंख्यालङ्कारः। व्याचष्टे-ऊध्र्वमित्यादि। ऊध्र्वं प्रागित्यर्थः। स चेति। अनुनिर्देशोऽर्थान्तरगतः न तु उद्दिष्टार्थगतः। सामथ्र्यादुद्दिष्टानुनिर्देश्ययोः सापेक्षत्वलक्षणात्। सम्बन्धप्रतीतिं निष्कर्षति-ऊध्र्वनिष्ठानामिति। वाक्यार्थः सूत्रत्मनो वाक्यस्यार्थः। अतः क्रमविशेषः । अन्ये तु क्रम इत्येवाभिदधिरे । द्वैविध्यमाह-तच्चेति। आद्यस्य लक्षणमाह-शाब्दं यत्रेति। व्यस्तानां व्यस्तैरर्थादभिसंवन्धे शाब्दक्रमावलम्बिनः सम्बन्धस्यातिरोधानप्रतीतिकत्वाच्छाब्दता। द्वितीयं लक्षयति-आर्थंत्विति। समुदायस्य समुदायेन सम्बन्धे शाब्दे पर्यालोचनया अवयवत्रमसम्बन्ध इत्यार्थता। लावण्येति। लावण्यप्रभा त्यागावनीभरक्षणत्वशालिनि त्वयि सति इन्दुपूषचिन्तारत्नकुलक्ष्माभृतां नैरर्थक्यं। योजयति-अत्र लावण्यौकस्त्वेत्यादि। कज्जलेत्यत्राऽऽर्थत्वं योजयति-अत्र कज्जलादीनामिति। श्रुत्या शब्देन समुदायगतस्संबन्धः । "प्रागुक्तानामनूक्तैस्तु सम्बन्धः त्रिमिको यदा । यथासंख्यं तथा शाब्दम् आर्थं चेति द्विधा मतम्"।। पर्यायार्थं सूत्रम्-एक मनेकस्मिननेकमेकस्मिन् वा क्रमेण पर्यायः। एकस्यानेकाधारत्वे एकऋ पर्यायः। अनेकस्यैकाधारत्वे द्वितीयः। ससङ्गतिकं व्याचष्टे-क्रमप्रस्तावादित्यादि। क्रमग्रहणस्य प्रयोजनायाह-नन्वेकमित्यादि। एकस्यानेकगोचरत्वलक्षणविशेषालङ्कारव्यावृत्त्यै अमग्रहणामित्यर्थः। एवं तर्हि विशेषालङ्कारे यौगपद्यग्रहणं किं न कृतमित्यत आह-इह चेति। इह अमप्रतिपादनात्तत्र यौगपद्यं लक्षणत्वेन अर्थात् सिद्ध्यति इत्यर्थः। अतो विविक्तविषयतया द्वितीयमाह-तथा एकस्मिन्निति। तत्र अपग्रहणात् समुच्चयालङ्कारव्यावृत्तिरित्याह-नन्वत्रेति। वक्ष्यमाणे समुच्चये यौगपद्यं लक्षणत्वेन गृहीष्यत इत्याह-अत एव गुणेति। लक्ष्यपदं निर्वक्ति-अत एव क्रमेति। पर्यायस्य अमात्मकत्वात् परिवृत्त्यलङ्कारतो वैधम्र्यायाह-विनिमयेति। अस्य चातुर्विध्यं दर्शयति-तत्रानेक इति। इह योऽयमनेकार्थः स पृथवृत्त#ि#ः सङ्घतात्मा च । द्विविधोऽप्याधारआधेयश्चेति चत्वारो भेदाः । नन्वाश्रयेति। रे कालकूट! तवाश्रयेषुवृत्तिः उत्तरोत्तरविशिष्टपदन्यासा केनोपदिष्टा यतः प्राक् हृदये,अय तदपेक्षयोपरिकण्ठे वात्सीः। सम्प्रति तु कण्ठादप्युपरितन्यां वाचि वससि। अत्रार्णवादिराधारो अनेकः पृथग्वृत्तिः। विसृष्टरागादिति । अत्राधरझ्र्कन्दुटकौ कराधारौ निवृत्तिक्रियां प्रति अपादानत्वेन संहतौ। निवृत्तेरनेकत्वेनाविवक्षणात्-निशास्विति। संचरः संचाराधिष्ठानम्। अत्राभिसारिकाशिवारुपं अनेकमाधेयं पृथग्वृत्तिः । यत्रैवेति। अत्र मुग्धत्वादिकं पत्नीत्वादिकं च अनेकमाधेयम्। वर्गत्वावस्था इति सङ्घात वृत्तिचतुष्टयेऽपि योजयति-अत्र कालकूटमित्यादि। पर्याय एकोऽनेकस्मिन् एकत्रानेक इत्यापि । द्विधा अमवशादेतौ न विशेषसमुच्चयौ ।। नेयं विनिमयाभावात् परिवृत्तिः भिदास्त्विह । चतस्त्रोऽनेकरुपस्य पृथक् सङ्घातवर्तनात् ।। पृथक्सङ्घातवृत्तित्वादनेकोऽर्थो द्विधा स च । आधाराधेयभावस्थश्चतस्त्रोऽस्य भिदास्ततः ।। परिवृत्तर्थं सूत्रम्-समन्यूनाधिकानां समाधिकन्यूनैः विनिमयः परिवृत्तिः।। समस्य समेन सह विनिमयः एका परिवृत्तिः । न्यूनस्याधिकेन द्वितीया। अधिकस्य न्यूनेन तृतीया। व्याचष्टे-विनिमयोऽत्रेति । सङ्गतिमाह-क्रमप्रतिभासेति । उरो दत्वेति-हिरण्याक्षवधाद्येषु युद्धेषु उरो दत्वा दैत्यानां यशो गृहीतम्। योजयति-अत्र उर इति। किमितीति-अरुणायन कल्यते इत्यर्थः। योजयति-अत्रोत्कृष्टेति। तस्यहीति। प्रवयस्त्वात् स्वर्गमुपेयुषो न शोच्यं किञ्चित्। योजयति-अत्र कलेवरेणेति। द्वैरुप्येणादाहरति-तत्वेति। दर्शनप्राणयोस्समता । मनोऽपेक्षया रणारणकस्य न्यूनता। योजयति-अत्राद्य इति । "परिवृत्तिर्विनिमयस्त्रिधा सेयं समादिभिः ।।" परिसङ्ख्यार्थं सूत्रम्-एकस्यानेक - प्रात्पवेकत्र नियमनं परिसङ्ख्था । अनेकत्र प्रात्पवत एकस्यैकत्र नियमनं परिसङ्ख्या एककरत्र वर्जनेन अन्यतरत्र सङ्ख्यानात्। ससङ्गतिकं व्याचष्टे-एकानेकेत्यादि। असंभाव्ये स्थूलदृशा संभावयितुं अशक्ये। निर्वक्ति-परीति। परीत्युपसर्गोवर्जनवृत्तिरित्यर्थः। भेदानाह-सा चैषेति। प्रश्रपूर्विका शाब्दी तथैवार्थी अप्रश्रपूर्विका शाब्दी तथैवार्थीझ्र्तिटचतुर्धा । किं भूषणमिति -आर्यैराचरितम् । इयं प्रश्रपूर्विका शब्दोपात्तवज्र्या। किमासेव्यमिति। यदासक्त्या द्युसरिदादिसमासङ्गेन । इयं प्रश्रपूर्वा अर्थाक्षित्पवज्र्या । भक्तिर्भव इति। युवतिरुपे कामास्त्रे। इयम् अप्रश्रा शाब्दवज्र्या। कौटिल्यमिति। इयम् अप्रश्रा आर्थवज्र्या। योजनस्य सुज्ञानत्वान्न्यायसंचारायाह-अत्रालौकिकमिति। अलौकिकग्रहो हि लौकिकं व्यवच्छिनत्त्येव विरोधात्। अतो व्यवच्छ्रद्यं शाब्दमार्थं चेति भेदद्वयोदयः। अलौकिकस्य प्रसिद्धेः क्वचित्प्रश्रोऽन्यथा चेति चातुर्विध्यम्। श्लेषभित्तिकतया,दर्शयति-विलङ्घयन्त#ीति। श्रुतिवत्र्म कर्णोपकण्ठो वेदमार्गश्च। विक्रिमा अरालता दौश्शील्य च । चित्रकर्मस्तिति-वर्णा वलक्षायदयो द्विजातयश्च । दण्डड्डत्ध्;ोयष्टिः शास्तिश्च । अत्र श्लेषः पूर्वम् सिद्ध इति न बाधकः अपि तु चारुतावह इत्याह-श्लेषसम्पृक्तत्वमिति। अलौकिकतां दर्शयितुमाह-अत्र चेति। पाक्षिकत्वनियम अनेकत्र युगपत्प्रात्पौ परिसङ्घ्येति हि वाक्यवित्प्रसिद्धं लक्षणम्। तद्वैलक्षण्याय नियमनसामान्याधिकरण्यं यतः। इत्थमतः पाक्षिकप्रात्पिरुपं नियमलक्षणमपि स्वीक्रियत इति युगपत्संभावनात्मकं परिसङ्ख्यालक्षणामिहझ्र्प्रायिकम्ट। परिसङ्ख्या त्वनेकत्र प्रात्पस्यैकत्र यन्त्रणम् । चतुर्धा प्रश्रवज्र्योक्त्योर्भावाभावादियं मता ।। न परं युगपत्प्रात्पिः पक्षेऽपि प्रात्पिरिष्यते । परिसङ्ख्यानियमयोरतोऽत्रालौकिकी स्थितिः ।। अर्थापत्त्यर्थं सूत्रम्-दण्डड्डत्ध्;पूपिकया अर्थान्तरापतनं अर्थापत्तिः। यथा दण्डड्डत्ध्;भक्षणेनापूपभक्षणं कैमुत्येनापतति तथार्थान्तरस्यापतनमर्थापत्तिः। व्यचष्टे-दण्डड्डत्ध्;ापूपयोरिति। "द्वन्द्वमनोज्ञे"ति वुञ् सिद्धौ पृषोदरादित्वेन वृद्ध्यभावेऽहमहमिकादिनयेन दण्डड्डत्ध्;ापूपिकेति क#ेचित्। अन्ये तु मत्वर्थीयेन रुपसिद्धिमिच्छ्रन्ति। स्वसम्मतिमाह-अपरेत्विति। अपरे पुनः "इवे प्रतिकृता"विति कन उपमार्थत्वेन वर्णायन्ति। निष्कर्षार्थमाह-अत्रेति। अनुमानशङ्कां निरचष्टे-न चेदमिति। समानन्यायस्य दण्डड्डत्ध्;ापूपर्थमाह-अत्रेति। अनुमानशङ्कां निराचचष्टे-नचेदमिति। समानन्यायस्य दण्डड्डत्ध्;ापूपवृत्तस्यसÐङ्तमाह-अर्थापत्तिश्चेति। तज्जातीयेन तत्सम्बन्धितया भेदायाह-इयं चेति । पशुपतिरिति-उत्कः उन्मनाः। विप्रकुर्युः बाधं विकुर्युः । अमी भावा वनितादयः। अप्राकरणिकापातनं दर्शयति-अत्र विझ्र्भ्वटति। धृतधनुषीति। स्थिरा अपिप्रढद्धठ्ठड़14;वी भवन्ति, लोलेषु का कथा? अत्र प्राकरणिकार्थापातः। विच्छित्त्यन्यरायाह-क्वचित्त्विति। अलङ्कार इति। शङ्काकरं किमयं सेव्य उत नेति शङ्काजनकम्। विधुरिन्दुः विधिर्दिष्टम्। शअलेषतः प्राकरणिकापातमाह-अत्र विधाविति । अर्थापत्तिस्तु कैमुत्येनान्यार्थापात इष्यते । प्रकृताप्रकृतापातादियं च द्विविधा मता ।। विकल्पार्थं सूत्रम्-तुल्यबलविरिधो विकल्पः। विरुद्ध्योः तुल्य बवयोर्युगपत्प्रात्पौ विकल्पः। व्याचष्टे-विरुद्धयोरिति। तुल्यप्रमाण विशिष्टत्वं तुल्यबलत्वे हेतुः। वैलक्षण्यं दर्शयति-औपम्यगर्भत्वादिति। लौकिक विकल्पस्या तथात्वात्। नमन्त्विति -सन्धौ शिरसां नतिः विग्रहे धनुषाम्। एवमाज्ञामौव्र्योः कर्णपूरिकरणमपि। व्यचष्टे-अत्र प्रतिराजेति। नमनमिह प्रतिराजानां कार्यम्। तत्र शिरांसि धनीषि च सन्धिविग्रहप्रमाणतया तुल्यबलानि विरुद्धत्वाद्युगपत्प्राप्त्ययोगेऽपि प्राप्नुवन्ति। अतस्साधनबाधनादिरुपगत्यन्तराभावात् विकल्पः। वैधम्र्यं योजयति-नमनकृतमिति। एवं कर्णपूरीकरणेऽपि । वैचित्र्यान्तरायाह-औपम्येति । भक्तिप्रढद्धठ्ठड़14;वेति-प्रणायिनीस्पर्धिनीत्यादौ प्रथमाद्विवचनैकवचनयोः नपुंसकस्त्रीलिङ्गयोश्च श्लेषः। नीतेहितेति नीता ईहितेति च पदभङ्गः। निधी इति निधिरिति च । योजयति-अत्र नेत्रे तनुरिति। समुच्चयभ्रमो मा भूदित्याह-न चेति। अनुशासनात् गतिसंभवेऽपि कविप्रयोगाभावान्न समुच्चयः । अप्रयुक्तदोषापत्तेर्लक्षणे न्यूनतामाशङ्कतेनन्विति। परिहरति-नैतदिति। नेत्रे अथवेति। विकल्पस्वरुपोन्मीलित श्लेशानुगमम् उद्धाटयति-स चात्रेति। निगमयति-तस्मादिति। स्वोपज्ञ इत्याह-पूर्वैरिति । विरोधे तुल्यबलयोर्विकल्पस्सन्निपातिनोः । अश्लेषश्लेषभित्तित्वाद्द्विधायमुप वण्र्यते ।। समुच्चयार्थं सूत्रम्गुणा-क्रियायौगपद्यं समुच्चयः । गुणानां क्रियाणां च यौगपद्यं समुच्चयः। व्याचष्टे-गुणानामिति। विकल्पेति सङ्गतिकथनम्। विदलितेति। प्र(ख)लमुखानि दुर्दान्तप्रचुराण्। अत्र वैमल्यमालिन्ययोः समुच्चयः। अयमिति। एकपदे युगपद्भवितव्यं भूतमित्यर्थः। अत्र उपमतिभूतिक्रिययोः। वैचित्र्यान्तरायाह-एतद्विभिन्नेति। बिभ्राणेति। शल्यभरणं शयनादिक्रियाहेतुः। अत्र शयनादीनां एकाधिकरणतया समुच्चयः। गुणसमुच्चयोऽपि सुज्ञान इत्याह-एवमिति। गुणक्रिययोः संभृतयोरपि संभवतीति दर्शयति-केचिदिति । न्यञ्चदिति-चक्षुरिह चक्षुर्विकारः। एकैकं चक्षुरन्यक्रियं भिन्नव्यापारं वर्तते। अतो हेतो रसवशात्। रस इह श्रृङ्गारःष द्दग्विकाराणामेषां तदेकनिष्ठत्वात् कथं भिन्नक्रियं न्यञ्चितमित्यर्थः। यदपाङ्गे न्यञ्चति। उक्तं हि मया भरतसंग्रहे - "स्यान्नयञ्चितन्नयञ्चदपाङ्गभाव" इति। "अपाङ्गसङ्कोचितकुञ्चितं स्यात् उन्मुखं" इत्युदञ्चितस्य लक्षणम् । उदञ्चितं दूध्र्वमपाङ्गवृत्ति निमेषशून्यं हसितं विहासि । साकूतमाकाङ्क्षितभावगर्भम् आकेकरं तिर्यगरालतारम् ।। व्यावृत्तं विलितम्। "तिर्यङ्निवृत्तं वलितं विलोक्य प्रेम्णा सुदूरं परिवल्ग झ्र्दुक्तम्ट"। प्रसादि प्रसन्नम् । "सभ्रूविलासं स्मयते प्रसन्नं सम्मील्यमानं मुकुलं वदन्ति ।" सप्रेम प्रेमगर्भम् । "स्यात्प्रेमगर्भं असौ द्रवाय (?)"। कम्पमुत्कम्पितपक्ष्मतारम् । स्थिरं विदूरान्तरितार्थनिष्ठम् । उद्भ्रू-उद्वर्तितं तूध्र्वविकम्पितभ्रू। भ्रान्तं मदमन्थरं स्यात् ।। अपाङ्गवृत्ति विक्षेपि । विक्षेपि पाश्र्वे यदपाङ्गवृत्ति । झ्र्विकचंट विकासि । विकासि दृश्ये सविशेषलक्षम् । मज्जन्निहाञ्चितम् । नासाग्रनिष्ठान्तुनिहञ्चिताख्यम् । तरङ्कोत्तरं तरङ्गितम् । "तरङ्गितं यद्युतिरुर्मिकल्पा ।" साश्रु उत्कण्ठितम् । "उत्कण्ठितं रागनिबद्धबाष्पम् ।" योजयति-अत्राकेकरेत्यादि। नन्वाकूतप्रसादप्रेम्णां गुणवचनत्वेऽपि समासतद्धिताद्यर्थैस्तिरोधानमित्यत आह-प्रसादिसप्रेमेत्यादि। समासादयो हि सम्बन्धाभिधायिनः। सम्बन्धश्च सिद्धरुपो गुणात्मा। न गुणावचनानां स्वभावं भिनत्ति । साकूतं सत्प्रेम इति समासः। प्रसादीतितद्धितः। निगमयति-एवमयमिति। व्यस्तत्वेन उभौ समस्तत्वेन एकेति त्रिधा । "गुणक्रियायौगपद्ये त्रिविधस्स्यात्समुच्चयः ।" समुच्चयान्तरायाह-एकमिति। सूत्रम् -एकस्य सिद्धिहेतौ अन्यस्य तत्करत्वं च । एकस्मिन् कस्यचित् सिद्धिहेतौ स्पर्धया अन्यस्यापि तत्करत्वं समुच्चयः। व्याचष्टे-समुच्चय इत्यादि। इत्येवेत्यनुषङ्गकथनम्। समाधिवैधम्र्यायाह-न चायमिति। एकः पर्यात्पः साधकः । अन्यः काकत#ालीयवृत्त्या चेत्समाधिः। यथा खले कपोत्ताः स्पर्धया प्रतिस्वं अहमहमिकयाऽवतरन्ति । तथा भावे समुच्चयः इति महान् भेदः। खले कपोता अस्यां सन्ति नीताविति खलेकपोतिका । मत्वर्थीयः ष्ठन्। ननु काकतालीयं इति कथमुच्यते । काकस्यागमनं यादृच्छिकं तालस्य च पातः। तेन पतत#ा काकस्य वधः। एवं देवदत्तस्य आगमनं दस्यीनाञ्चचोपनिपातस्तैश्च तस्य वधः। तत्र देवदत्ततस्युसमागमः काकतालसमागम इवेति एक उपमार्थः। तद्वधः काकवध इवेति द्वितीयः। आद्यः समासार्थः काकतालमिति । द्वितीयस्तद्वितार्थः काकतालीयमिति। समासश्चायम्। अस्मादेव ज्ञापकात् "समासाच्च तद्विषया"दाकस्मिक इवार्थेच्छ्रो भवतीति। तद्विषयादिवार्थविषयादित्यर्थः। एवमर्धजरतीयं अजाकृपाणीयं घुणाक्षरीयमित्यादौसमासतद्धितौ ज्ञेयौ । भेदानाह-एष इति। कुलमिति। यैर्जनो दर्पं व्रजति, त एव तवाङ्कुशाः उन्मार्गनिवारकाः। योजयति-अत्रामालिन्येति। अमालिन्यं शोभनत्वहेतुः । एकैकं चैतन्यस्य तत्करत्वं दर्शयति-दुर्वारा इति। मन्मथसुहृद्वसन्तादिः शठो वञ्चकः। योजयति-अत्र स्मरेति। नववयः प्रभृतेः कथमशोभनत्वम् इत्यत आह-नववय इत्यादि । शशीति-शश्यादि विशेष्यं शोभनं धूसरत्वादि विशेषणवशादशोभनमिति विशिष्टस्य द्वैरुप्यम्। तत्र तथाविधैः कामिन्यादिभिस्समुञ्चीयते। योजयति-अत्र शशिन इत्यादि। अन्यथा तु न योजनीयमित्यत आह-न त्वत्रेति। न व्यख्येयस्तथा। सदसद्योगविवक्षणादिति शेषः। अत्राक्षिपति-ननु नृपेति। नृपाङ्गण खलयोद्र्वयोरप्यशोभनत्वादन्ये शोभना इति कथम्। न तथा समुच्चयः। परिहरति-नैतदिति। विशिष्टस्य द्वैरुप्यप्रक्रमे द्वयोरशोभनत्वम्। प्रक्रमभेदो वाक्यदोषः। प्रक्रमभेदा वलम्बेन चान्यैर्दोषान्तरं उद्भावितमित्याह-अत एवेति। विशेष्यान्तरं शोभनं खलत्वरुप#ं त्वशोभनमिति सहचरभिन्नोऽर्थः । अत इत्थं विवक्षिणीयमित्याह-प्रकृते त्विति। तथाऽपि न दोषनिवृत्तिरित्याह-एवमपीति। पूर्वोदाहरणे सदसद्योगमाशङ्कते-ननु दुर्वारा इति। स्मरमार्गणादीनां शोभनत्वं दुर्वारत्वादीनाम्अशोभनत्वमिति प्रतीतेः। परिहरति-नैतदिति। विवक्षाभेदे गमकमाह-अत एवेति। सुन्दरत्वेनान्तः प्रविष्टानामपि शश्यादीनां धूसरत्वादिना वैयथ्र्यहेतुत्वमुपसंहृतम् । दुर्वारेत्यत्रत्वित्थं "शठः कथं सोढव्य" इति सर्वथा कष्टत्वमेवोपसंहृतम्। निगमयति-तस्मादिति। एकक्रियायामन्यस्य क्रिया त्वन्यः समुच्चयः । सदसद्द्वैधयोगेन सत्रिधा संव्यस्थितः ।। इति ।। समाध्यर्थं सूत्रम्-कारणान्तरयोगात् कार्यसुकरत्वं समाधिः। आरब्धस्य कार्यस्य कारणान्तरयोगात् सम्यगाधानं समाधिः। व्याचष्टे-केनचिदिति। समुच्चयेति सङ्गत्युक्तिः। समुच्चयवैधम्र्यं स्मारयति-तद्वैलक्षण्यमिति। मानमिति। पादपतने कारणे गर्जितं कारणान्तरम्। योजयति-म#ाननिराकरण इति। उपकापरेति सौकर्यप्रकाशनम् । समाधिस्सम्यगाधानं कारणान्तरयोगतः । सङ्गत्यरायाह-एवं वाक्येति। प्रत्यनीकार्थं सूत्रम्। प्रतिपक्षतिरस्साकाशक्तौ तदीयतिरस्कारः प्रत्यनीकम्। बलवतः तिरस्काराशक्तौ तदीयतिरस्कारः प्रत्यनीकम्। व्याचष्टे-यत्र बलवदित्यादि। तत्सम्बन्धिनः बलवत्सम्बन्धिनः । तं बाधितुं बलवन्तं बाधितुम्। अत्र दृष्टान्तमाह-यथा अनीक इत्यादि। प्रयोजनमाह-प्रतिपक्षेति। यस्य किञ्चिदिति। यस्य कृष्णस्य । विग्रहः कलहः। कान्तेन बक्रेण सदृशाकृतिः। योजयति-अत्र राहोरिति। तत्तिरस्कारादिति प्रयोजनोक्तिः। तदीयस्य तिरस्कारः प्रत्यनीकमशक्तितः । प्रतीपार्थं सूत्रम्-उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपम्। उपमेयस्यैव पुष्कलगुणत्वविवक्षणेनोपमानस्य कैमर्थक्यं प्रातिकूल्यादेकं प्रतीपम्। यञ्चोपमानान्तरार्थं प्रसिद्धोपमानस्योपमेयत्वक्लृत्पिरनादरात् दद्वद्वितीयम्। व्याचष्टे-उपमेयस्यैवेत्यादि । यत्र चेति। चक्षुष एव मुण्डड्डत्ध्;मालात्वमिति कुवलयदाम्नो नैरर्थक्यम्। अलङ्कारान्तरसंभेदेनापरमुदाहरति-लावण्येति। लावण्यौकस्त्वादिगुणानामुपमेय एव पौष्कल्यादिन्द्वाद्युपमानानां कैमर्थक्यम्। संभेदमनुस्मारयति-अत्र यथासङ्ख्यमपीति। ए एहीति। ए इत्यामन्त्रणे । अयि एहि तावत्सुन्दरि कर्णां दत्त्वा श्रृणु वचनीयम् । ततव मुखेन कृशोदरि चन्द्र उपमीयते जनेन ।। चन्द्रस्योपमानत्वं वचनीयमिति कथनात् चन्द्रस्य निकृष्टत्वेनोपमेयत्वेन कल्पनम्। प्रयोजनं तु मुखस्योपमानता। योजयति-अत्रोपमानत्वेनेति। क्वचित् उपमानस्य सतः उपमानत्वमेव न्यक्करणादलङ्कारं समुत्थापयतीत्याह-क्वचित्पुनरिति। गर्वमिति। ईदृशानि नील नलिनानि सन्त#ीति उपमानाविर्भावः। एवं निस्सामान्यस्य लोचनयुगलस्य न्यक्कारः। योजयति-अत्रोत्कर्षेति। यथात्रोपमेयस्य उपमानासहत्वं,तथैव अतिप्रकर्षादुपमान भूमिमप्यतिपतते । उपमानत्वक्लृत्पिरपि प्रतीपमित्याह-अनेनेति। अहमेवेति। दारुणात्वकाष्ठाप्रात्पस्य हालाहलस्य दुर्जनवचनो उपमानताक्लृत्पिन्र्यक्काराय। तदेतद्योजयति-अत्र हालाहलत्वमिति। उपमानस्य कैमथ्र्यादुपमेयत्वकल्पनात् । द्विधा प्रतीपं क्काप्येतदुपमानत्वतोऽपि च ।। निमीलितार्थं सूत्रम्-वस्तुना वस्त्वन्तरनिगूहनं निमीलितम्। वस्तु वस्त्वन्तरं सहजेन लक्ष्मणा यन्निगूहयति आगन्तुकेन वा तन्निगूहितत्वान्निमीलितम् । व्याचष्टे-सहजेनेत्यादि। सामान्यतो भेदमाह-न चायमिति। तस्य हि गुणसाधारण्याद्भेदानुपलक्षणम्। अस्य पुनरुत्कृष्टेन गुणेन निकृष्टस्य स्थगनम्। अपाङ्गेति। अङ्गेलीलया इति स्फुरितम् इत्थं लीलया प्रससारेत्यर्थः। दृक्तारल्या दिना सहजेन लक्षणेन लीला मदोदयहेतुकं दृक्त#ारल्यादि तिरोदधाति। योजयति-अत्र दृक्तारल्येति । ये कंदरास्विति। त्वत्पादशङ्कितधियः त्वदा पातशङ्काचकिताः। अत्र हिममा गन्तिकलक्षणाभ्यां कम्परोमाञ्चाभ्यां भयकृतौ कम्परोमाञ्चौ स्थगयति। योजयति-अत्र हिमाद्रीति । निजेनागन्तुना वाऽपि लक्षणेनान्यगोपनम् । निमीलिताख्योऽङ्कारः द्विप्रकारः प्रकाशितः ।। सामान्यार्थं सूत्रम्-प्रस्तुतस्यान्येन गुणासाम्यादैकात्म्यं सामान्यम्। प्रस्तुतस्य अप्रस्तुतेन गुणसाम्यादेकरुपत्वं सामान्ययोगात्सामान्यालङअकारः। व्याचष्टे-यत्र प्रस्तुतस्येत्यादि। अपढद्धठ्ठड़14;नुतेर्भेदायाह-न चेयमिति। अपढद्धठ्ठड़14;नुतौ हि प्रकृतनिषेधेनाप्रकृतप्रतिष्ठ#ापनम् इहतु न तथा। किं तर्हि? ऐकात्म्यम्। मलयजरसेति। दन्तपत्रं करिदशनताटङ्कम्। अविभाव्यता गतिरैकात्म्यलिङ्गम्। योजयति-अत्र मलयजेति । प्रस्तुतस्यान्यतादात्म्यं सामान्यं गुणसाम्यतः । तदुणार्थं सूत्रम्-स्वगुणात्यागादत्युत्कृष्टगुणास्वीकारस्तद्गुणः। परिमितगुणस्य वस्तुनोऽत्युत्कृष्टगुणस्वीकारस्तद्गुणः । व्याचष्टे-यत्रेति। निर्वक्ति-तस्येति। निमीलिताद्भादमाह-न चेति तत्र हि वस्त्वन्तरनिगूहनम्। इह त्वनिगूहितस्य तद्गुणेनोपरागः। विभिन्नेति। अरुणेन वर्णाभेदं नीता रथवाहा यत्र वंशाङ्कुरनीलैर्मरकतरत्नैः प्रभया पुनः स्वां प्रभां आनिन्यिरे। अत्राशअवानामारुण्ये तद्गुणता। आरुण्यस्य च हारित्येन। योजयति-अत्र रवीति । तद्गुणास्स्वगुणत्यागादुत्कृष्टस्य गुणग्रहः । सति हेतौ तद्रूपा ननुहारोऽतद्गुणाः। तद्रुणविपरीतोऽतद्गुणः। सङ्गतिं व्याचष्टे-तद्गुणेति। उत्कृष्टगुणवस्तुप्रत्यासक्तौ हि न्यानगुणस्य तद्गुणस्वीकारो न्यायोपपन्नः। प्रस्यासत्ता वप्यननुहरणमतद्गुणालङ्कारः। निर्वक्ति-तस्योत्कृषअटस्येति। यदि वेति । निरुक्त्यन#्तरमनुहरणाहेतौ सत्यपि अननुहरणात् अतद्गुणः। अत्र विगृढद्धठ्ठड़14;णातितस्या प्रकृतस्येति। इत्थमियं द्विधा। धवलोऽसीति- धवलोऽसि यद्यपि सुन्दर! तथापि त्वया मम रञ्जितं हृदयम् । रागभरितेऽपि हृदये सुभग! निहितो न रक्तोऽसि ।। धवलो युवा वलक्षश्च। रागभरितहृदयनिधानेऽप्यरक्तत्वमतद्रुणाः। गाङ्गमिति। अङ्गेति सम्बोधनम्। चीयते उपचीयते। अत्र अप्रकृतरुपाननुहारः। उभयत्र योजयति-पूर्वत्रेत्यादि। प्रथमार्धे कोऽलंकार इत्यत आह-धवलोऽसीति। धवलस्यापि रञ्जने अतद्रुणत्वं स्फुटमेव। यतः कार्यकारणेति। विषमवैधम्र्यं व्यक्तम्। न तद्रुणेऽनुहारस्तु गुणताद्रूप्ययोर्द्विधा । उत्तरार्थं सूत्रम्-उत्तरात्प्रक्षोन्नयनमसकृदसम्भाव्यमुत्तरं चोत्तरम्। प्रश्रानुपादानेऽप्युत्तरा दुन्नयनमेकमुत्तरम् उपात्तस्य च प्रश्रस्य यदसम्भाव्यमसकृदुत्तरं तद्द्वितीयम्। व्याचष्टे-यत्रानुपनिबध्यमान इत्यादि । अतिव्याÏत्प परिहरति-न चेदमिति। त्रैरुप्यनिर्देशो ह्यनुमानलक्षणम्। द्वितीयस्य स्वरुपमाह-यत्र चेति। तत्र नियममाह-तच्चेति। अत्र अतिव्याÏत्प परिहरति-न चेयमिति। परिसंख्यायां व्यवच्छ्रेद्यव्यवच्छेदकभावः विवक्ष्यः। अत्र स्वविवक्षा । एकाकिनीति-किं याचसे वासयाचनेन किमित्यर्थः। का विसमेति। का विषमा दैवगतिः किं (लब्धं)यज्जनो गुणग्राही । किं सौख्यं सुकलत्रं किं दुःखं यत् खलो लोकः । यत्र दैवगत्यादि गूढत्वादप्रतिसम्भाव्यम्। उत्तरं योजयति-पूर्वत्रेत्यादि। असकृदिति। नानात्वनियमोद्धाटनम् । "उत्तरं प्रश्रपिशुनं असम्भाव्योत्तरं द्विधा ।" सङ्गत्यन्तरायाह-इतः प्रभृतीति। सूक्ष्मार्थं सूत्रम्-संलक्षितसूक्ष्मार्थंप्रकाशनंसूक्ष्मम्। इङ्गितादिभिस्संलक्षितस्य सूक्ष्मार्थस्य विदग्धाय प्रकाशनं सूक्ष्मम्। व्याचष्टे-इह सूक्ष्म इत्यादि। कुशाग्रवत्तीक्ष्णा कुशाग्रीया। अत इदमिङ्गिताकाराभ्यां द्विधा। आकूतव्यञ्जिताश्चेष्टां इङ्गितं बुद्धिकारिताः । आकाराः पुनराम्नातास्ता एवाबुद्धिकारिताः ।। यथा- तारापुटभ्रूद्दष्ट्यादेर्विकारानिङ्गितं विदुः । आकारास्सत्त्वजा भावा आद्या बुद्ध्यापरेऽन्यथा ।। सङ्केतेति-कालमनसं कालं ज्ञातुमनसमित्यर्थः। नेत्रार्पिताकूतं नेत्राभिव्यञ्जितभावमित्यर्थः। सङ्केतकालमनसो ज्ञानं भ्रूकटाक्षादि। तदीयेङ्गितेन ज्ञात्वेति सूक्ष्मार्थं सलक्षणम्। पद्मनिमीलनं तु प्रकाशनम्। योजयति। अत्र सङ्केतेति। वक्त्रस्यन्तीति-स्वेदेन आकारस्तेन कुङ्कुमभेदात् पुरुषायितज्ञानं सूक्ष्मार्थंसंलक्षणम् खङ्गलेखस्तु तत्प्रकाशनम्। योजयति-अत्र स्वेदेति। सूक्ष्मं तु सूक्ष्मं संलक्ष्य विदग्धेषु प्रकाशनम् । इङ्गिताकारत स्सूक्ष्मसंलक्षणामिति द्विधा ।। व्याजोक्त्यै सूत्रम्-उद्भिन्नवस्तुनिगूहनं व्याजोक्तिः। कुतश्चिन्निमित्तात् प्रकाश्यास्यगूढवस्तुनो व्याजवचसा निगूहनं व्याजोक्तिः। व्याचष्टे-यत्र निगूढमित्यादि। वस्स्वन्तरप्रक्षेपेति निरुक्तिः। शैलेन्द्रेति। प्रतिपाद्यमाना दीयमाना। आदिशब्दात् स्तम्भवेपथू। विधिव्यसङ्गः क्रियाशक्तिः । शैलान्तःपुरेण मातृमण्डड्डत्ध्;लेन गाणैश्च दृष्टः। योजयति-अत्र रोमाञ्चेति। असामञ्जस्यं शमयितुमाह-यद्यपीत्यादि। अपलापमात्रं चिन्तयेति सस्मितस्वकथनात् पुनः प्रकाशनं लक्षणतयान चिन्तनीयमिति भावः। उल्लेख उट्टङ्कनम्। अव्यासिमाशङ्कते-नन्वपढद्धठ्ठड़14;नुतीति। उत्तरः प्रकारः अपढद्धठ्ठड़14;ववाय सादृश्यं इत्येवमात्मकः। परिहरति-सत्यमिति। तत्र तथोक्तिः उद्भटसिद्धान्ताश्रयेण। तन्मते व्यजोस्त्यनुपवर्णानात् तथाऽपढद्धठ्ठड़14;नुतिसम्भवः। इह तु व्याजोक्त्युपवर्णनात् सोऽपढद्धठ्ठड़14;नुति प्रकार एव नास्तीत्येकैवापढद्धठ्ठड़14;नुतः। अत इयं व्याजोक्तिरेव । व्याजोक्तित्र्र्याजवचनेनोद्भिन्नस्य निगूहनम् । अपढद्धठ्ठड़14;नवाय सादृश्यम् इष्टा नापढद्धठ्ठड़14;नुतिर्यतः ।। वक्रोक्त्यर्थं सूत्रम्-अन्यथोक्तस्य वाक्यस्य काकुश्लेषाभ्यां अन्यथा योजनं वक्रोक्तिः। एकाभिप्रायेणोक्तस्य वाक्यस्य काकुश्लेषाभ्यां अन्यथाभिप्रायेण योजनं वक्रोक्तिः। ससङ्गतिकं व्याचष्टे-उक्तिव्यपदेशेति। गुरुपरतत्रेति। दूरतरं गन्तुमुद्यत इति नायिकोक्तिरसौ। गुरुपरतन्त्रतया असौ गुरुपरता समयेऽस्मिन् नैष्यति न नेष्यतीति काकुगर्भसख्युक्तिः। योजयति-एतद्वाक्यमिति। ननु गमनविधिनिषेधौ शाब्दौ । तस्माद्रमननिषेधविधिर्योजितौ । अत आह-काकुवशेति। ईदृशि विषये काकोर्निषेधद्योतकत्वात् विपरीतार्थसंक्रान्तिः । अहो केनेति-दारुणा घोरा काष्ठेन च। योजयति-अत्रेति। त्वं हालाहलेति। हालाहलवान् मूछ्र्रां करोषीति देवी। देवस्तु हालां सुरां न विभर्मि नापि च हलं सीरम्। किंहलवत्तया हालिकोऽसि इति पुनर्देवी। गोवाहने शक्तस्यहालिकतैव सत्यमिति। अत्र हालाहलेति सभङ्गश्लेषः । विजय इति। कुलकात्मकं वाक्यम्। विजये इति देवीकर्तृकं विजयासंबोधनम्। देवस्योक्तौ जित्वरतायां शक्तोऽस्मि। न तु त्र्यक्षोऽहमक्षद्वयसद्भावादिति। अक्ष शब्दःपाशवचनः । किं म इति देव्याह। दुरोदरेण लम्बोदरेण नार्थश्चेत् गणपतिपरसरतु । देव्याह-को द्वेष्टि विनायकम#्? देव आह-अहिलोक इति। इह विनायको गरुडड्डत्ध्;ः। चन्द्रेति। चन्द्रग्रहणेन इन्दु पणेन विना न रमे इति देवी । देवस्तु चन्द्रग्रहणापेक्षा चेद्राहुराहूयताम्। हा राहाविति। राहौस्थिते हा! कस्य रकिरिति देवी। देवस्तु हारारगोऽपनीयतामिति। वस्तुरहितेनेति। वसुद्रविणां वसवोऽष्टौच। आरोपयसीति। अङ्कः अङ्कनञ्चनञ्चलनं उत्सङ्गश्च । इति(कृत)पशुपतिपिति। पाशका अक्षाः। ननु विच्छित्तिरुपत्वात् सर्व एवालङ्कारो वक्रोक्तिरित्यत आह-वक्रोक्तीति। अन्यथा योजनं वाक्ये वक्रोक्तिरभिधीयते । द्विप्रकारा च विज्ञेया काकुश्लेषसमाश्रयात् ।। स्वभावोक्त्यर्थं सूत्रम्-सूक्ष्मवस्तुस्वभावस्य यथावद्वर्णनं स्वभावोक्तिः। कविप्रतिभागोचरस्य स्वभावस्य सम्यग्वर्णनं स्वभावोक्तिः। व्याचष्टे-इह वस्त्विति। अत एवेति। कविमात्र गम्यत्वात्। कविना निर्मित एव। उक्तिवचनम् उक्तिशब्दः। अनेन सङ्गतिवैधम्र्यं वर#्णयिष्यत इत्याह-भाविकेति । हुङ्कारेति-कुन्तलगतिकण्डूड्डत्ध्;व्यपनयने तन्व्या हुङ्कारः कृतिनः कर्णावतंसीभवेत्। कीदृशः ? चञ्चुपुटाकारया नखकोट्या यद्व्याघट्टनं तेनोट्टङअकितस्सीत्कारोपशोभि च। कीद्दशस्य? पृष्ठश्लिष्यत्कुचाङ्कपालीसुखेनाकेकरदृशः। स्वभावोक्तिर्बुधोन्नेयवस्तुस्वाभाव्यवर्णनम् । अथ प्रतीतिवैचित्र्यात्तारतम्यनिरुपणैः । भाविकं दूरदुर्लक्षं व्यक्तं व्याक्रियतेतमाम् ।। तत्र सूत्रम्-अतीतानागतयोः प्रत्यक्षायमाणत्वं भाविकम्। भूतभाविनोः अर्थयोः अत्यद्भुतत्वादनाकुलसम्बन्धशब्दसमर्पितत्वाच्च प्रत्यक्षायमाणात्वं भाविकम्। व्याचष्टे-अतीतेत्यादि। कविगतेति। कविभावस्य श्रोतरि प्रतिबिम्बतापत्तिर्भाविकमित्यर्थः। भावो वेति। भावि भाविकस्य भावनैकप्राणत्वात्। निरुक्त्यन्तरं,सोऽत्रा(स्ती0)ति। भाविकमित्यनुषङ्गः। ननु मुनिर्जयतीत्युदाहरिष्यमाणे भूतभाविनोः प्रत्यक्षता भ्रान्तिः किं नेष्यत इत्यत आह-न चेयमिति। भूतभाविनोर्भूतभावित्वेनैव प्रत्यक्षीभावे का भ्रान्तिरिति भावः। ननु भूतभाविनोर्भूतभावित्वेन प्रकाशने वस्तुवृत्तमात्रमित्यत आह-नापि रामोऽभूदित्यादि। रामोऽभूदिति वस्तुवृत्तान्तमात्रे हि न प्रत्यक्षायमाणता। इह तु स्फुटस्य प्रत्यक्षत्वस्य उपलम्भः। न हि प्रत्यक्षत्वेन अध्यवसायादतिशयोक्तिरित्यत आह-नापीयमिति। तत्र हेतुः । अन्यस्यान्यतयेति। अतिशयोक्तौ हि अन्यदन्यतया अध्यवसीयते इह तु न तथा। भूते भाविनि प्रत्यक्षत्वेच अन्यत्वाधअयवसायाभावः । एतदुपदर्शयति-न हि भूतभावीति। भूतम् अभूतत्वेन भाविन अभावित्वेन ना ध्यवसीयते । एतद्विपर्ययोऽपि नास्तीत्याह-अभूतभाविवेति। यञ्चात्र प्रत्यक्षत्वं तदप्यन्यथा अध्यवसीयते इत्याह-न चापीति। विपर्ययोऽपि नास्तीत्याह-अप्रत्यक्षं वेति। ननुभूतभाविनोः अप्रत्यक्षयोः प्रत्यक्षायमाणत्वम् अन्यथाऽध्यवसाय इत्यत आह-न हि प्रत्यक्षत्वमिति। यदि प्रत्यक्षत्वं केवलवलस्तुधर्मः तदा भूतभाविनोरप्रत्यक्षता । वर्तमानस्य तु प्रत्यक्षत्वम् इति भवेद्व्यवस्था। न हि प्रत्यक्षत्वं केवलवस्तुधर्मः। किं तर्हि? प्रतिपत्त्रपेक्षयैव प्रत्यक्षस्येति वस्तुधर्मता। न हि प्रतिपत्तारमनपेक्ष्य वस्तुनि प्रत्यक्षता नाम काचित्। अत्र प्रामाणिकसंवादायाह-यचदाहुरित्यादि। यो ह्यर्थः स्वग्रहकप्रतिपत्तुः ज्ञानप्रकाशं स्वान्वयव्यतिरेकावनुकारयति। स्वयमस्ति चेत् ज्ञानप्रतिभासोऽस्ति,नास्तिचेन्नास्तीति व्यवस्थापयति। स प्रत्यक्ष इत्यर्थः । अतः प्रत्यक्षत्वं न केवलं वस्तुधर्मः प्रतिपत्तुस्तु सामग्री तत्र उपयुज्यत इत्याह-केव्रलमिति। असामग्रीके प्रतिपत्तरि न वस्तु प्रत्यक्षीभवतीत्येतावद्वक्तुं शक्यते। न तु प्रतिपत्त्रन पेक्षेति भावः। तां सामग्रीं विवेचयति- सा चेति। लोकयात्रायां लौकिकार्थं प्रत्यक्षीकरणे देशकालादिव्यवधानादतीन्द्रियेऽर्थे योगिनाम् ऐकाग्य्रात्मकभावनारुपा। साक्षात्करणसामग्री काव्यवस्तुगतमत्यद्भुतत्धं योजयति-(सा चेति।) अत्यद्भुतानि हि वस्तूनि आदरप्रत्ययेन हृदि सन्धार्यमाणानि तथा भावनां प्रयोजयन्ति । इत्थं च सतिलिकयात्रायां वर#्तमानार्थसाक्षात्करणसामग्री चक्षुरादिर्योगिनां काव्यतत्त्वविदां चातीतानागतार्थसाक्षात्करणभावना। अतो योगिवत् काव्यतत्त्वविदामतीतार्थसाक्षात्कारो नान्यथाऽध्यवसाय इति नातिशयोक्तिः शङ्क्या । ननु प्रत्यक्षतयैव प्रतीयन्ते भूतभाविन इति प्रतीयमानोत्प्रेक्षा किं न स्यादित्यत आह-नापि भूतभाविनामिति। तत्र हेतुः - तस्याभिमानेति। अभिमानस्संभावना तद्रूपस्याध्यवसाय इति उत्प्रेक्षाया लक्षणम्। न ह्यत्राप्रत्यक्षं प्रत्यक्षतया संभाव्यते। किं तर्हि? प्रत्यक्षं दृश्यते। अतो नोत्प्रेक्षा । अनुत्प्रेक्षात्वे गमकान्तरमाह-नापि वस्त्विति। पदार्थगतो हि इवार्थः उपमायाः प्रयोजको नोत्प्रेक्षात्वे गमकान्तरमाह-नापि वस्त्विति। पदार्थगतो हि इवार्थः उपमायाः प्रयोजको नोत्प्रेक्षायाः । तत्र हेतुः-तस्या अभिमानेति। उत्प्रेक्षा हि अभिमानरुपा प्रतिपत्तॄधर्मः। तस्मादभिमानगोचर एव इवार्थं उत्प्रेक्षाप्रयोजक इति भावः। अत्र संवादायाह-यदाहुरित्यादि। सुखादिवज्ज्ञानधर्मेऽभिमानेऽध्यवसायोक्तिरित्यर्थः । ननु प्रतिपत्तॄधर्मोऽध्यवसायस्तर्हि प्रयोक्तुः कवेः न स्यादित्यत आह-काव्यविषये चेति। कविरपि खलु काव्ये सहृदय एव। अतो नेयमुत्प्रेक्षा। नन्वद्भुतदर्शनात् प्रत्यक्षत्वमिहेति काव्यलिङ्गमित्यत आह-नाप्यत्यद्भुतेति। अत्यद्भुतपदार्थसाक्षात्कारो हि प्रत्यक्षायमाणत्वे हेतुः । अकाव्यलिङ्गत्वे हेतुमाह-लिङ्गलिङ्गीति। हेतुत्वे सत्यपि लिङ्गलिङ्गिभावेन नेह प्रतीतिः। तथात्वे पारोक्ष्यं प्रसजेदिति भावः। कथं तर्हि प्रतीतिरित्यत आह-योगिवदिति। नन्वत्यद्भुतत्वहेतुका सचमत्कारप्रतीतिरिह पुरः स्फुरतीव। अतोऽत्यद्भुतत्वहेतुको रसवदलङअकार एव इत्यत आह-नाप्ययमिति। तत्र हेतुः -रत्यादीति। परिपाट्यापि सचमत्कारप्रतीतेः पुरः स्फुरणा साधारणी,अथापि न भाविकरसवतोरभेदः। कुतः? रतिहासादिचित्तवृत्तीनां तदनुरञ्जितत्वेन विभावानुभावव्यभिचारिणां च यदा परमाद्वैतज्ञानिवत् ममैव शत्रोरेवेत्यादिविशेषपरिहारात् साधारण्येन हृदयसंवादिनी प्रतीतिः तदैव रसवतो भावः। विभानादीन् रसवत्प्रस्तुतौ विवेचयिष्येन हृदयसंवादिनी प्रतीतिः तदैव रसवतो भावः । विभावादीन् रसवत्प्रस्तुतौ विवेचयिषअयामः । इह तुभूतभाविनां प्रतीतिर्न साधारण्येन अपितु प्रतिपत्तुः ताट्स्थ्येन। स्फुटतया तादस्थ्यं हि भेदः। यथा साङ्ख्यादिसिद्धानां भेदे न सर्वं जानतां प्रतीतिः। ननु ताटस्थ्येन प्रतीतावतीतादिस्फुटत्वं हेतुः। स्फुटप्रतीतिश्च प्रमुखे निष्पत्तौ तु साधारण्यप्रतीतिरेव। अतः कथं भाविकमित्यत आह- स्फुटप्रतिपत्तीति। स्फुटप्रतिपत्तिनिमित्तकस्फुटप्रतीत्युत्थापितभाविकहेतुक इत्यर्थः। "मुनिर्जयति"त्यादौ हि कुम्भसम्भवादिवृत्तमादौ ताटस्थ्येन अतीतादिरुपतया प्रतीयते तदैव भाविकसिद्धिः। अथोक्तरकालं प्रतिपत्तॄप्रतीतेः ताद्रूप्यापत्त्या विभावादीनां साधारण्ये रसवान् भाविकहेतुकस्स्यात्। न चैतावता भाविकापलापश्शक्यत इति यावत् । नन्विह सुन्दरवस्तुस्वभावश्चेन्न वण्र्येत ततस्तदप्रत्यक्षायमाणता। अतस्स्वभावोक्तिरित्यत आह-नापीयमिति। तत्र हेतुः - तस्यां लौकिकेति। स्वभावोक्तेर्हि लौकिकानामेव वस्तूनां यस्सूक्ष्मो धर्मः प्रेक्षावत्प्रतिभैक समधिगम्यस्तस्य वर्णने हृदयसंवादस्साधारण्येन। इह पुनरत्यद्भुतत्वेनालौकिकानां वस्तूनां प्रतीतिः तटस्थतया। अतो हृदयसंवादातिरिक्तानामंसानां वैलक्षण्यम्। ननु लौकिकवस्तुप्रतीतिसाधारण्ये स्वभावोक्तिः,अलौकिकवस्तुप्रतीतिस्फुटत्वेतु भाविकमिति व्यवस्थआ । यदि लौकिकवस्तुप्रतीतेःस्पुटत्वं तदा किं स्यादित्यत आह-क्व#िचित्त्विति। लौकिकवस्तुबलात् स्वभावोक्तिः। स्फुटत्वप्रतीतिबलात् भाविकमतस्सङ्करः। हृदयसंवादसाधारण्यात् स्वाभावोक्तिरसवतोर्योऽयमभेदः प्रसङ्गात्प्रतीतस्तत्र विवेचयति-न च हृदयसंवादेति। स्वभावोक्तौ रसवति च यद्यपि साधारण्येन हृदयसंवादस्सचेतसां,तथापि नानयोरभेद#ः । तत्र हेतुः - वस्तुस्वभावेति। सत्यपि साधारण्ये वस्तुस्वभावस्य संवादः स्वभावोक्तौ रसवति तु चित्तवृत्तेः। वस्तुस्वभावचित्तवृत्तिरुपत्वात् अनयोस्संपाते तु सङ्करः इत्याह-उभयसंवादेति। समावेशस्सङ्करः। समावेशघटने लिङ्गमाह-यत्र वस्तुगतेति। यत्र चित्तवृत्तिसंव#ादवति विषये वस्तुगतसूक्ष्मधर्मवर्णना स्यादित्यर्थः। अन्यत्रत्विति। सूक्ष्मवस्तुधर्मवर्णनाविरहिणि चित्तवृत्तिसंवादमात्रशालिनि विषये रसवानेव । ननु व्यस्तसम्बन्धरहितसन्दर्भसमर्पितत्वमिह लक्षणं तथात्वे च प्रसादाख्यो गुण एवेत्यत आह-नाप्ययं शब्देत्यादि। इह यद्यपि झटित्यर्थसमर्पणं शब्दानाकुलत्वहेतकः अथापि नायं प्रसादः। तत्र हेतुः - तस्य हि स्फुटा स्फुटेत्यादि। स्फुटोऽस्तु वाक्यार्थो अस्फुटो वा । तदुभयगतत्वेन झटिति समर्पणं प्रसादस्वरुपम् । यदाह - शुष्केन्धनाग्निवत् स्वच्छ्रजलवत् सहसैव यत् । व्याप्नोत्यन्यत् प्रसादोऽसौ सर्वत्र विहितस्थितिः ।। इति ।। अत्र शुष्केन्धनाग्निवदित्यस्फुटं वाक्यार्थं प्रस्युपमोक्तिः स्वच्छ्रजलवदिति स्फुटं प्रति। अतस्सर्वत्र विहित स्थितित्वेन झटिति समर्पणं रुपं प्रसादस्य । अस्य तु प्रसादे झटिति समर्पितस्य स्फुटत्वेन प्रतीतौ सत्यां समनन्तरं स्वरुपप्रतिलम्भः। स्वरुपं हि अस्यश्रोतरि कविगतभावप्रतिबिम्बनं पौनःपुन्येन चेतसि विनिवेशस्वभावभावनात्मकं वा। तथाविधस्य तु प्रतिबम्बनं स्फुटप्रतीत्युत्तरकालमेव । अतः प्रसादोऽस्याङ्गत्वेन प्राक्सिद्धिकः। अयं तु तदुपकृत(स)मनन्तर(स्व)सिद्धिकः। ततोऽन्य एव।अदो न कुत्रचिदन्तर्भीव इति निगमयति-तस्मादयमिति। सर्वोत्तीर्णः भ्रान्त्यादिषु प्रसादगुणान्तरशङ्कितेष्वेकत्रापि नान्तर्भावयितुं शक्य इत्यर्थः । इत्थं लक्षणतोऽस्यनानुपपत्तिः काचित्। लक्ष्यतोऽपि प्राचुर्यमित्याह-लक्ष्ये चायमिति। मुनिर्जयतीति। मननात् मुनिः। योगीन्द्रत्वान्महात्मा। स्वयं तु कुम्भसंभवः। तथाविधेन येन एकस्मिन्नेव चुलुके पिपासोद्धृतनिरवशेषार्णवाभ्र्भसि प्रसृतिगर्ते दिव्यौ अमानुषानुभावातिशयौ विष्णोर्दशावतारेषु प्रसिद्धापद#ानौ मत्स्यकच्छ्रपौ यदृच्छ्रया चुलुकान्तर्भावात् पर्याकुलं लुठन्तौ दृष्टौ। अत्रातीतवृत्तोऽपि मुनिः अलौकिकत्वेनात्यद्भुतस्सन्नादर प्रत्ययेन हृदि सन्धार्यमाणत्वात् अनाकुलसन्दर्भसमर्पितत्वाच्चप्रत्यक्षायमाणः तथाविधं कविभावं प्रतिपत्तॄषु प्रतिबिम्बयति पौनःपुन्येन चेतसि भावनां विनिवेशयतीति भावकत्वम्। प्राचुर्यार्थमुदाहरणान्तराणि-यथा वा हर्षचरितेत्यादिना । हर्षचरितप्रारंभे हि देवीं सरस्वतीं अभिशत्पवते क्रोधमुनये क्रुद्धानां वेदानां स्वरुपम् उपवर्णितम्। यथा - "रोषविमुक्तवेत्रासनैरोङ्कारमुखरमुखैरुत्क्षेपडड्डत्ध्;ोलायमानजटाभारभरितदिग्भिः परिकरबन्धभ्रमितकृष्णाजिनपटच्छ्रायाश्यामायमानदिवसैरमर्षनिः श्वासडड्डत्ध्;ोलाप्रेङ्खोलितब्रह्मयोकैः सोमरसमिवस्वेदविसरव्याजेन स्त्रवद्भिः अग्रिहोत्रपवित्रभास्मस्मेरललाटपट्टकुशतन्तुचीवरीभिराषाढिभिः प्रहरणीकृतदण्डड्डत्ध्;कमण्डड्डत्ध्;लुमण्डड्डत्ध्;लैः मूर्तैः चतुर्वेदैर#िति"। योजनायाह-अत्र हि प्रत्यक्षमिवेति । ननु वर्णानावशात् प्रत्यक्षायमाणत्वं किं भाविकविषयः आहोस्विदनुभावविशेषात्प्रत्यक्षायमाणस्य सतो वर्णनमित्यत आह-अयं त्वत्रेत्यादि। लेश इत्यल्पावशिष्टता आह-वर्णानावशादिति। भणितिमाहात्म्यमाविष्करोति - प्रत्तयक्षायमाणस्यैवेति। भणितिमाहात्म्यनैरपेक्ष्येण निजान#ुभावविशेषादेव प्रत्यक्षायमाणत्वमनुसन्धत्ते । अनातपत्रोऽपीति। अत्र अनातपत्रोऽपि सितातपत्रैरिव वृतत्वमचामरस्यापि बालव्यजनेनैवोपलक्षितत्वम्। अनुभावविशेषादेव प्रत्यक्षायमाणत्वं वण्र्यते न तु वर्णनावशात्प्रत्यक्षायमाणता । इत्थं विषयद्वये अवस्थिते भाविकम् एकत्रैवेत्याह-अत्र प्रथमप्रकारेति। न प्रकारान्तरगोचर इति यदुक्तं तत्र हेतुः - कविसमर्पितानामिति। ये हि कविना प्रतिभया समप्र्यन्ते मुखादौ चन्द्रत्वकमलत्वादयो धर्मास्तेषामेवाङ्कलारत्वम्। न तु परमार्थतःसन्निविशिष्टानां हिमा#ंशुलावण्यादीनाम्। अतो द्वितीयप्रकारे प्रत्यक्षायमाणत्वं वस्तुसन्निवेशीति न भाविकालङ्कारः। युक्त्यन्तरेणापि द्रढयितुमाह-अपि च शब्दानाकुलतेत्यादि। चकारादभूतभावित्वादयः शब्दानाकुलता चेति हेतवो भामहानुशासने उद्भटलक्षणे च अनाकुलत्वरुपं यदेतद्व्यस्तसम्बन्धरहितशब्दसमर्पितत्वं प्रत्यक्षायमाणात्वप्रतिपादकमुक्तं तत् कथं प्रयोजकीभवेत्। वस्तुमन्निवेशिधर्मगतत्वेनापि भाविकसंभवे निष्प्र योजनमेव स्यात्। अतो न द्वितीयप्रकारे भाविकमिति निगमयति-तस्माद्वास्तवमेवेत्यादि। अत्र उत्तरे प्रकारे ननु वास्तवेऽपि सौन्दर्ये लौकिकतया मा भूद्विच्छित्तिः। कवेः ककविनिबन्धस्य वा वक्तुः निबन्धवशादस्त्येव सकलव्यवहर्तृगोचरीभातता दुरपढद्धठ्ठड़14;नवाविच्छित्तिः। तत्र कुतो न भाविकमित्यत आह-यदि तु वास्तवमपीत्यादिना । यदि वस्तुसन्निवेश्यपि सौन्दर्यनिबन्धवशात् सविच्छित्तिकं प्राञ्च आचार्याः स्वभावोक्तिवदलङ्कारतया वर्णयेयुः तदा अयमपि वास्तवसौन्दर्यविषयतया समाशङ्कितो भाविकप्रकारो नातीव दुःश्लिष्ट एव सत्यां सामग्याम्। अयमिहाशयः-यथा हि स्वभावोक्तिः वास्तवसौन्दर्यावलम्बिनी वस्तुस्वभावसौक्ष्म्यात् साधारण्येन सचोतनसंवादाच्च विच्छित्तिमती वर्णिता तथैव वास्तवसौन्दर्यावलम्बितया निबन्धा द्विच्छित्ति विशेषोऽयमलङ्कारतया वर्णनीय एव । तथा च सतिभूतभावित्वादि सामग्रीसद्भावेऽन्यकल्पनागौरवादयमपि भाविकप्रकार इति उन्मीलनं योग्यतया सुशकमेव । उन्मीलिता श्चोल्लेखभावोदयसन्धिशबलतादय अतिप्रथन स्वातन्त्र्येऽपि चिरन्तनसमयव्यतिक्रमः स्यादिति। अमुमेवाशयमाविश्चिकीर्षुः अभियुक्तसंवादायाह-अतएवेत्यादि। भूतभाविनः प्रत्यक्षा इव यत्र क्रियन्ते इत्येतावदेव भाविकलक्षणमकारि यैः खलु तैरशब्दानाकुलत्वादिव लक्षणत्वेनोक्तम्। नापि वा वस्तुसन्निवेशिनः। सौन्द्रर्यस्यनिबन्धाद्विच्छित्तिः स्वभावोक्तितुल्यनयशालिनी अलङ्कारत्वेन प्रसिञ्जिता। अतो भूतभाविप्रत्यक्षवद्भाविकलक्षणस्य भाविकस्य शब्दानाकुलत्ववास्तव सौन्दर्यावलम#्बेनापि भाविकप्रभेदोऽभ्यनुज्ञायते। यत इत्थं स्वभावोक्तिप्रतियोगितया मीमांसा प्रवर्तयितव्या,अतः सम्प्रति सङअगतिमाह--स्वभावोक्त्या किञ्चिदिति। वास्तवसौन्दर्यत्वं सादृश्यम्। तच्च लौकिकत्वसूक्ष्मत्वस्फुटत्वसाधारण्यताटस्थ्यप्रतीत्तयादिभिः वैधम्र्यप्राचुर्यात#् अल्पकमित्यभिसन्धायोक्तं-किञ्चिदिति। सत्यपि सादृश्यं किञ्चिन्मात्रं अथापि न्यायसञ्चारायेहास्माभिः लक्षणमस्य कृतम् । योऽयं प्रत्यक्षवद्भावस्त्वतीतानागतार्थयोः । तद्भावबिम्बनाच्चित्ते विनिवेशाच्चभाविकम् ।। नाविपर्ययतो भ्रान्तिः साक्षात्त्वान्नेतिवृत्तकम् । अन्यत्वानध्यवसितेर्नचात्रातिशयोक्तिता ।। न परं वर्तमानार्थं धर्मः प्रत्यक्षतेष्यते । प्रतिपत्र्तनपे क्षायां प्रत्यक्षत्वपरिक्षयात् ।। प्रत्यक्षत्वे च सामग्री भावनाद्भुतवस्तुजा । प्रत्तयक्षत्वं न संभाव्यमिह नोत्प्रेक्षणं ततः ।। अलिङ्गलिङ्गभावाच्च काव्यलिङ्गं न चेष्यते । ताटस्थ्यात्स्फुटसंवित्तेः न तदा रसवद्भ्रमः ।। पश्चात्साधारणीभावे रसवांस्तन्निमित्तकः । स्फुटत्वान्नर स्वभावोक्तिर्लोकोत्तीर्णस्य वस्तुनः ।। स्वभावोक्तेः रसवतो भेदस्संवादभेदतः । न प्रसादगुणश्चैतद्यस्यादौत्तरकालिकम् ।। वास्तवेऽपि हि सौन्दर्ये योग्यत्वादस्य सम्भवः । चिरन्तनानुरोधात्तु तथा व्यक्तं न कीर्तितम् ।। भाविके बुद्धिसंवादो मया स्याद्यदि कस्यतचित् । व्याख्याशिल्पस्य निकषः स मे धीमान्भविष्यति ।। उदात्ताय सूत्रम्-समृद्धि मद्धस्तुवर्णनमुदात्तम्। समृद्धिमतो वस्तुनः कविप्रतिभोत्थापितैश्चर्य वर्णनमुदात्तालङ्कारः। ससङ्गतिकं व्याचष्टे-स्वभावोक्तावित्यादिना। यथावस्थितत्वं लौकिकत्वम्। आरोपितत्वं ककविकल्पितत्वम्। अव(सरः) प्रात्पिः। ऐश्वर्यलक्षितमिति लक्ष्यपदनिरुक्तिः। मुक्ताः केलीति-विसूत्रता छ्रिन्नसूत्रता। संमार्जनीभिः प्राङ्काणासीम्नि कृताः यत्कर्षन्तीति वाक्यार्थपरामर्शः। यदेतत्कर्षणं तत्त्यागलीलायितमित्यर्थः। उदात्तं तु समृद्धस्य वस्तुनः कविवर्णनम् । उदात्तान्तराय सूत्रम्-अङ्गभूतमहापुरुषचरितञ्च। पूर्वमैश्वर्ययोग उदात्तत्वम्। इह पुनश्चरितस्य उदात्तत्वम्। अतश्शब्दसाम्यात्सङ्गतिः। तदेतदाह-उदात्तशब्देत्यादि। तदिदमिति-अत्रारण्यं तद्वृत्तान्तः पातादङ्गी,यद्वृत्तान्तःपातात् रामचरितमङ्गम्। तदेतदाह-अत्रारण्य इति । अस्य चेह कीर्तनं दर्शनान्तरानुसारेण। ध्वनिदर्शने तु द्वितीयोदात्तविषये रसवदादय एव। विवेचयिष्यते चैतत् । अङ्ग्यन्तरेऽङ्गतापन्नं महच्चरितलक्षणम् । द्वितीयोदात्तविषयो व्यात्पो रसवदादिभिः ।। रसवदाद्यर्थं सूत्रम्-रसभावतदाभासतत्प्रशमानां निबन्धे रसवत्प्रेयऊर्जस्वसमाहितानि। विभावादिभिः अभिव्यञ्जितोरत्यादिभावो रसः। तथा विभावानुभावैः सूचिता व्यभिचारिणः देवताविषया रतिश्च भावः। तावेवाविषयप्रवृत्तावाभासौ । प्रयास्यदवस्था तु प्रशमः।एषां चतुर्णामुपनिबन्धे परिपाट्या रसवान् प्रेयः ऊर्जस्वि समाहितमिति अलङ्कारा इति सूत्रार्थः। ससङ्गतिकं व्याचष्टे-उदात्ते महापुरुषेत्यादिना। तदलङ्काराणां चित्तवृत्तिविच्छित्त्यात्मनामलङ्काराणामित्यर्थः। अत एवेति। यतश्वत्वारोऽपि चित्तवृत्त्यात्मानः अतस्समानयोगक्षेमतया य#ुगपदेकसूत्रक्रोडड्डत्ध्;ीकारेण लक्षिताः। रसस्वरुपं विवेचयति-तत्र विभावेति। रतिहासशोकादीनां वासनात्मनां स्थायिभावानां यानि लोके कार्यकारणसहकारीणि तानि काव्ये सन्दृब्धानि नाट्ये चाभिनीतानि गुणालङ्कारमहिम्ना चतुर्विधाभिनयमहिम्ना च विभावना दनुभावनाद्विशिष्याभिमुख्यचरणाच्च विभावानुभावव्यभिचारिणा उच्चन्ते। तैः प्रकाशितो व्यञ्चितो रत्यादिः सामाजिकचित्तवृत्तिविशेषः श्रृङ्गारादिको रस इति दिक्। विशेषः सम्प्रदायप्रकाशिन्यादौ ज्ञेयम्। इहानुपयोगान्न प्रपञ्च्यते । भावस्वरुपमाह-भावो विभावेत्यादि। विभावानुभावाभ्यामिति। व्यभिचारिव्यञ्जने व्यभिचार्यन्तराभावोव्यञ्जितः। विभावानुभावाभ्यां व्यञ्जितो व्यभिचारि वाक्यार्थीभावदशायां भाव उच्यते। सोऽपि त्रयÏस्त्रशद्भेदः। निर्वेदग्लान्यादिरुपतया। तथा कान्ताव्यतिरिक्ते देवतादिविषये व्यञ्जितो रत्यादिरपि भावः। तस्माद्वूयभिचारिस्थाय्यात्मकतया भावो द्विजातिकोऽवगन्तव्यः। यदाह- रतिर्देवादिविषया व्यभिचारी तथआञ्जितः । भावः प्रोक्तः...................... ।। आभासयोस्स्वरुपमाह-तदाभासो रसेत्यादि। तच्छब्देन रसभावप्रत्यवमर्शः। आभासीभावस्तु अविषयप्रवृत्त्यानौचित्यात् । भावप्रशमस्वरुपमाह-तत्प्रशम उक्तेत्यादि। उक्तभावप्रकाराणां निवृत्तौ प्रयास्यदवस्था भावप्रशम उच्यते । ननु रसेऽपि प्रशमः किं नोच्यते इत्यत आह-तत्रापीत्यादि। रसस्य हि अखण्डड्डत्ध्;निरन्तरायप्रतीति चर्वणीयस्य परमविश्रान्तिरुपत्वात् मध्ये प्रयास्य दवस्था दुर्लक्ष्येति रसव्यतिरिक्तपरिशिष्टभेदविषयोऽयं प्रशमो द्रष्टव्यः। एषां च रसभावादीनामुपनिबन्धे परिपाट्या रसवदादयोऽलङ्काराः। चत्वार्यपि लक्ष्यपदानि निर्वक्ति-रसो विद्यत इत्यादिना। यत्र हि व्यञ्जनोपस्कृतेऽर्भिधादिव्यापारात्मनि निबन्धे रसोऽस्ति तद्रसवत्। प्रियतरनिबन्धनमेव प्रेयोज्ञेयम्। ऊर्जो बलं तद्योगिनिबन्धनमेव ऊर्जस्वि । ननु निबन्धने बलं नाम किमित्यत आह-अनौचित्येति। रसस्य#ानौचित्येन प्रवृत्तत्वात् दौर्बल्यम्। निबन्धने तु तदुपकृते बलयोगः। समाहितः परिहारः। कस्य? प्रकृतत्वादुक्तस्य भावभेदस्य यस्य प्रशम इत्यपि पर्यायः। ननु रसवदादिना द्वितायोदात्तस्य च का कक्ष्येत्यत आह-तत्र यस्मिन्नित्यादि।यत्र हि भामहादिदर्शने वाक्यार्थीभावात् प्रधानभूता एव रसादयो रसवदाद्यलङ्काराः तत्र अङ्गभूतरसादिविषय उपपद्यते। कल्पो(?)द्वितीय उदात्तालङ्कारः। यÏस्ममस्तु रसवदादिरलङ्कारो अङ्गभूतरसादिविषय एव अङ्गिनस्तु रसादेरलङ्कार्यभावापन्नस्य रसभावादिध्वनिरुपतया व्यात्पत्वात् तत्र धव निदर्शने द्वितीयस्याङ्गभूतमहापुरुषचरितलक्षणस्योदात्तालङ्कारस्य विषयो नावशिष्यते। कुत इत्यत आह-तद्विषयस्येति । इयमिह प्रक्रिया। यत्र रसादयो वाक्या(र्थी)भूताः तत्र रसवदादयोऽलङ्कारा इत्यलङ्कारमात्ररसिकानां भामहादीनां दर्शने। यदा तु अवाक्यार्थीभावादङ्गभूतो रसादिः,तदाङ्गभूतमहापुरुषचरितलक्षणो द्वितीय उदात्त उपपद्यते नाम। ध्वनिदर्शने तु काव्यात्मनो रसादेः प्राधान्यदश#ायां अलङ्कार्यत्वादलङ्कारभावानुपपत्तौ अङ्गभूता रसादयो रसवदाद्यलङ्काराः। तथा च सति रसभावादिनायकमहापुरुषचरिताविर्भावोऽपि रसभावाद्यङ्गभावानतिरेकी व्यङ्ग्यव्यञ्जकमन्बन्धात्। व्यञ्जकं हि महापुरुषचरितम्। व्यङ्ग्यं रसभावादि । व्यङ्ग्यभावाविनाभूताङ्गभावं रसवदलङ#्कारस्यैव विषयः। व्यञ्जकमात्र विश्रान्तानां अनवगाढधियां द्वितीयोदात्तभ्रम इति । किं हास्येनेति-स्वप्नदृष्ट नायकं स्वरुपसन्दर्शननिढद्धठ्ठड़14;नवपरिहासप्रवृत्तं मन्यमानस्य रिपुस्त्रीजनस्योक्तिवर्णनम्। किं हास्येन चिरात्प्रात्प्रस्सन् पुनर्मे दर्शनं न प्रयास्यसि? निष्करुणता तवेयं प्रात्पिसमकालमेव प्रवासरुचिता इत्युदीरयन्नेवतमदृष्ट्वा "केनासि दूरीकृतः"इति वदन् व्यासक्तकण्ठग्रहो बुद्ध्वा रिक्तबाहुलयचस्तारं रोदितीति। अत्राङ्गाङ्गिनौ द्वावपि रसावङ्गी रसः। रसवान् मतान्तरे। स्वमते त्वङ्गभूतो रसवान्। अत उदाहरणमेतन्मतद्वयार्हम्। तदेतदभिसन्धायाह-एतन्मतद्वयेऽपीति। तदेतद्विभज्य दर्शयितुमाह-अत्र वाक्यार्थीभूत इति। वाक्यार्थीभावात् करुणे रसवान्। मतान्तर इति शेषः। अङ्गभावाद्विप्रलंभश्रृङ्गारो रसवान्। अस्मन्मत इति शेषः। एवंविधे हि विषये वाक्यार्थीभावात् अङ्गिनं रसं रसवन्तमन्ये प्रतिपेदिरे। अङ्गिभूतं तु द्विततीयोदात्तम्। ध्वनिदर्शनविदस्तु अङ्गिनो अलङ्कार्यत#ा#ं अङ्गिभूतस्य रसवदादिरुपतां द्वितीयोदात्तासंभवं च सिद्धान्तितवन्तः। इयं च प्रक्रिया रसान्तरेष्वपि ज्ञेयेत्याह-एवं रसान्तरेष्विति। उदाहार्यं उदाहर्तुमर्हं शक्यम्। प्रात्पकालता वोदाहरणस्य । अर्हे शक्ये प्रात्पकालतायां च कृत्यः। इत्थं रसवदलङ्कारे मतद्वयं कक्ष्यानिभागेनोदाहृतम्। प्रेयोऽलङ्कारादौ तु विशेषांशस्तु ज्ञात इति साधारण्येनोदाहीर्षुराह-प्रेयोऽलङ्कारादाविति। गाढालिङ्गनेति। मानद मानखण्डड्डत्ध्;न मामेत्यर्धोक्त्या भावावसानहर्षः प्रत्याय्यते। लक्ष्ययोदजनायाह-अत्र नियिकाया इति। हर्षाख्यो व्यभिचारिभावः सम्भोगश्रृङ्गारंप्रति गुणात्व#ात् प्रेयोऽलङ्कार इति शेषः। व्यभिचारिभावः सम्भोगश्रृङ्गारंप्रति गुणात्वात् प्रेयोऽलङ्कार इति शेषः। व्यभिचार्यन्तरायोदाहरति-तद्वक्त्रेति। अत्र चिन्तालक्षणोव्यभिचारी विप्रलंभश्रृङ्गाराङ्गतया प्रेयान्। तदेतदाह-अत्र चिन्ताख्या इति। अलङअकारान्तरभ्रमौ मा भूद#िति पर्यायमस्याह-एष एव चेति। प्रेयान् भावालङ्कारश्चेति पर्यायौ। भावशान्त्युदयादिभ्योऽस्य भेदमाह-भावस्य चात्रेति। स्थितिरुपतायां भावालङ्कारः। शान्त्युदयाद्यवस्था तु पृथगलङ्कारा इति भावः। कौ तौ शान्त्युदयाविति अत आह-शान्त्युदयेति। शान्त्यवस्था ऊर्जस्वी समनन्तरं समाहितत्वेन वक्ष्यते। उदयावस्था तु सन्धिशबलताभ्यां सह पृथगलङ्कारत्वेनेत्यर्थः । दूराकर्षणेति। कालकलामपि नावस्थितिं प्रकुरुते। अत्र विप्रलम्भश्रृङ्गारोऽनौचित्येन प्रवृत्तः देव्यास्सीताया अविषयत्वाद् । अतो रसं गुणीकृत्य निबन्धनमेव बलादिति ऊर्जस्वी। औत्सुक्यव्यभिचारिणोऽप्यनौचित्यात् प्रेयोऽलङ्कारसङ्करः। तदेतदभिप्रेत्याह-अत्र रावणस्येत्यादि। शान्त्यवस्था लक्ष्यत इति प्रतिज्ञातमुदाजिहीर्षुराह-समाहितं यथेति । अक्ष्णोरिति। उत्क्षुभितेनाश्रुणा पर्याविलोऽरुणिमा चक्षुषोरपगत इत्यादिना रोषापगमः । कटाक्षविलासतारकातारल्याद्यनाविर्भावात् प्रसराप्रदानम् । अतः प्रशाम्यदवस्था कोपस्येत्याह-अत्र कोपस्येति। इत्थं व्यभिचार्यन्तेरेऽपि प्रशमो ज्ञेय इत्याह-एवमन्यत्रापीति । रसभावगुणीभावादनौचित्यप्रवृत्तितः । रसवत्प्रेयऊर्जस्विसमाहितचतुष्टयम् ।। रसवत्त्वप्रियत्वाभ्याम् ऊर्जःप्रशमयोगतः । निबन्धनं रसवदाद्याख्यां सम्प्रतिपद्यते ।। भावोदयाद्यर्थं सूत्रम्-भावोदयसन्धिशबलताश्च पृथगलङ्काराः। उक्तसर्वालङ्कारान्यत्वात् सर्वालङ्कारशेषतयौतत् त्रयोक्तिः। पृथग्रसवदादिविविक्तविषयतयेत्यर्थः। व्याचष्टे-भावस्याङ्कुररुपेत्यादि। अंकुररुपस्योद्गमदशोदयः । विरुद्धयोः तुल्यकक्ष्यतया विनिवेशनं सन#्धिः। पूर्वपूर्वोपमर्देन बहूनामुत्तरोत्तरनिबन्धश्शबलता। पृथक्प्रतिपादने हेतुमाह-एतत्प्रतिपादनं चेति। केवलालङ्कारत्वात्संसृष्टिसंकरवैलक्षण्यम्। तयोः सम्पृक्तत्वं स्वरुपमित्याह-संसृष्टिसंकरयोर्हीति । एकस्मिन्निति-विपक्षनामग्रहणं ग्लपितत्वे,ग्लपितत्वमावेगे,आवेगोऽवधीरणे,, अवधीरणं प्रियतमतूष्णींभावे,तूष्णींभावस्तु पुनर्वीक्षणे हेतुः । अत्रौत्सुक्यं भावस्योदयः तस्य च गुणभाव इह विवक्षणीयः । वामेन नारीति। वामेन करेण प्रियतमाया नयनाश्रुधारां दक्षिणीन कृपाणाधारां प्रमार्जयन् कर्तव्यमूढोऽभूदित्यत्थः। अत्र रतिभावरणौत्सुक्ययोः सन्धिः। तदेतदाह-अत्र स्नेहाख्य इति। स्नेहग्रहणादृते श्रृङ्गारस्थायितामाह भाविस्थायित्वे (भावः,अस्ययित्वे?) तु रतिः प्र#ीतिमात्रम् । क्काकार्यमिति। अत्र क्काकार्यं क्व च शशलक्ष्मणः कुलमिति वितर्कः। भूयोऽपि दृश्येत सा इति औत्सुक्यम्। श्रुतं दोषप्रशमायेति मतिः। अहो कोपेऽपि मुखं कान्तमिति स्मृतिः। किं वक्ष्यन्त्यपकल्मषा इति शङ्का। स्वप्नेऽपि दुर्लभेति दैन्यम्। चेतः स्वास्थ्यं उपेहीति धृतिः । को धन्योऽधरं पास्यतीति चिन्ता। अत्रोत्तरोत्तरेषां पूर्वपूर्वोपमर्देन अवस्थानात् शबलता । तदेतदाह-अत्र वितर्केत्यादि। तानिमान्निगमयति-तदेझ्र्तटइत्यादि। स्थितिप्रशमवद्भावस्योदयस्सन्धिरेव च । शाबल्यं च गुणीभावे पृथक्पृथगलंक्रिया ।। सङ्करसंसृष्टी प्रस्तुष्टूषुराह-अधुना एषामिति। संश्लेषस्सम्बन्धः। तस्यद्वैविध्यमाह-तत्र संश्लेष इत्यादि। भेदकोटेरुद्भटतायां संयोगन्यायः अनुत्कटत्वे तु समवायन्यायः। दृष्टान्तेन न्यायभेदमवस्थापयति-तिलतण्डुड्डत्ध्;लन्यायः क्षीरनीरसादृश्यमिति च । उभयमपि परिपाट्य#ा सूत्रयितुमाह-क्रमेणेति। एषां तिलतण्डुड्डत्ध्;लन्यायेन मिश्रत्धे संसृष्टिः। व्याचष्टे-उक्तालङ्काराणामित्यादि। य एते अनुप्रासादयो भावशबलतान्ताः पृथगुक्ताः तेषां संभवानुसारेण यदि कुत्रचित् विषये सहभावः तदैते किं पृथक्पृथगेवालङ्काराः उत्त सहभाववैचित्र्यमलङ्कारान्तरमेवेति चिन्तायां सिद्धान्तयितुमाह-तत्र यथेत्यादि। सौवर्ण मणिमयानां पृथक् चारुत्वहेतुत्वेऽपि संश्लेषतो यथा चारुत्वान्तरं तथानुप्रासादीनां अप्यलङ्कारान्तरमेव। संश्लेषेऽपि भेदांशस्फुटत्वास्फुटत्वाभ्यां विच्छ्रित्तिद्वयमाह-अलङ्कारान्तरत्वे चेति। तत्र सङ्करसंसृष्टी व्यवस्थापयति-पूर्वत्रेत्यादि। यतोभेद उत्कटोऽनुत्कटश्च अतो दृष्टान्तौ समञ्जसावित्याह-अत एवेत्यादि । उत्कटामुत्कटत्वे भेदस्य यथार्थता । संसृष्टिस्त्रिधेत्याह-तत्र तिलतण्डुड्डत्ध्;लेत्यादि। सङ्करः सप्रभेदं जिज्ञासितोऽपि संसृष्ट्यनन्तरं वक्ष्यत इत्याह-सङ्करस्त्विति। कुसुमसौरभेति। अलकैव्र्याकुलैः लोलदृशा। अत्र पूर्वार्धे भकारापेक्षया उत्तरार्धे च लकारापेक्षया वृत्त्यनुप्रासः। लकलोलकलो इत्यादौ यमकमिति विजातीययोस्संसृष्टिः। तथा लकलोलकलो इति कलोलकलोल इति च सजातीययमकयोरपि। तदेतदाह-अत्रानुप्रासेत्यादि। देवि क्षपेति।अत्र नलिनीव रुचेवेति उपमाद्वयं संसृष्टम्। तदेतदाह-अत्र सजादीययोरिति। लिम्पतीवेत्यत्र तु विजातीयसंसृष्ठिः स्फुटा। आनन्दमन्थरेति। मन्थरो मन्दक्रियः । हठेन बलेन । अत्रोपमावृत्त्यनुप्रासयोः उभया लङ्कारयोः संसृष्टिः। नन्वत्रोपमाव्यवस्था कुत इत्यत आह-पादाम्बुजमिति। पादाम्बुजमिवेत्युपमाया मञ्जीरशिञ्जितयोगो व्यवस्थापकः। पाद एवाम्बुजमिति रुपकपक्षेस प्रतिकूलः अम्बकूलः अम्बुजे तदयोगात्। अतश्शिञ्जितयोगोऽयं पारिशेष्यादुपमां प्रसादयति। निगमयति-तदेवमिति । तिलतण्डुड्डत्ध्;लनीत्या संश्लेषः संसृष्टिरिष्यते । सा शब्दार्थोभयगतैरलङ्कारैस्त्रिधा मता ।। संकरम् उपक्षिपति-अधुनेत्यादि। क्षीरनीरन्यायेन सङ्करः। अधिकारमनुस्मारयति-मिश्रत्वमेवेति। चर्चितं सङ्करस्वरुपमनुवदति-अनुत्कटेति। तत्र त्रैविध्यायाह-तच्चेति। अङ्गाङ्गीभावात् संशयादेकवाचकानुप्रवेशाच्च त्रिधा तु सङ्करोत्थानम् । अङ्गुलीभिरिवेति। अत्र अङ्गुलीभिरिवेत्युपमा सरोजं लोचनमिवेत्युपमां साधयति। रुपकापोहनं साधने प्रकर्षः। मुखशब्देन प्रारम्भवदनयोरभिधानात् श्लेषः। मुखयोरभेदाध्यवसायात् श्लेषमूलातिशयोक्तः। अतोऽनयोरङ्गिभावः। एवं च सति अङ्गुलीभिरिवेति या वाक्येनोक्ता या च सरोजलो#ोचनम् इति समासेन ताभ्यामुपमाभ्यां श्लेषेण चानुगृहीता मुखम् इति अतिशयो(क्तिः)चुम्बतीवेत्युत्प्रेक्षाया अनुग्राहिका । तेषां बलेन समुत्थानादुत्थिता चोत्थापकानां चमत्कानां चमत्कारकत्वहेतुः इत्यङ्गाङ्गिता। अतोऽङ्गाङ्गिभावे मिथोऽप्युपकारप्रथनायोदाहरणान्तरम#्-त्रयीमयोऽपीति । वारुणी पश्चिमा दिक् सुरा च। पतनमवतरणमुपहतिश्च। व्याचष्टे-अत्र प्रथम इत्यादिना। अत्र वारुणीति श्लेषः त्रयीमयोऽप्यगमदिति विरोधप्रतिभोत्थापकः तद्वाधकश्च। श्लेषस्य निरवकाशत्वानङ्गीकारिणां मते द्वावपि । तदनुग्राहश्च "मन्ये पतित"इति शुदिं्ध प्रति हेतूत्प्रेक्षा । शुद्ध्यै विवेशेति फलोत्प्रेक्षा च । एतद्विशिष्योपपादयति-तथाहीत्यादि। वारुणीगमनं पातादिकारणमुत्प्रेक्षितम्। तत्र विरोधश्लेषा वनुप्रविष्टौ यच्च कारणोत्प्रेक्षानिमित्तं पातादिकार्यं तत्र वास्तवौ पाताग्रिप्रवेशावुपहतिहेतुकपाताग्रिप्रव#ेशाभ्यामभेदेन अध्यवसितौ। तेन श्लेषेण सह हेतुफलोत्प्रेक्षयोरङ्गाङ्गिता। ननु विरोधश्लेषयोरतिशयोक्त्युत्प्रेक्षयोश्च कुतो नाङ्गाङ्गिभाव इत्त्याह-न च विरोधेत्यादि। यद्यपि श्लेषो विरिधप्रतिभोत्पत्तिहेतुः यद्यपि चातिशयोक्तिः उत्प्रेक्षानिमित्तं तथापि नानयोः श्लेषाभ्यां सहाङ्गाङ्गिभावः। तत्र हेतुः-ताभ्यां विनेति। विरोधातिशयोक्तिभ्यां विना श्लेषोत्प्रेक्षयोः अनुत्थानात्। अतो निरवकाशयोः श्लेषोत्प्रेक्षयोर्बाधकत्वमेव । नन्वभेदाध्यवसायमन्तरेणानुत्थानात् उत्प्रेक्षा वा माभूत्। अतिशयोक्तिर्विविक्तौ विषयः। श्लेषस्य तु विविक्तौऽस्त्येवेत्यत आह-न च मन्तव्यमित्यादि। अलङ्कारान्तरविविक्तश्लेषयो नास्तीति श्लेषविवेचने वितत्यौक्तम्। अतः श्लेषेण अन्यबाध इति तम्नध्यानुप्रविष्टो विरोधोऽपि बाध्य एव । अर्थालङ्कारसङ्करं निगमयति-एवमर्थेति। शब्दालङ्कारेति। कैश्चिदित्यवधीरणा। राजतीति। दानवानां रासः आक्रोशस्तदतिपातिनः। सारावा तदा यत्र सेयमद्रेस्तटी राजति। गजता गजसमूहः। स च यूथमतिपाति अतितरां रक्षति। कीदृशी? अविरतेन दानेन मदेन । वरा उक्तृष्टा सा प्रसिद्धा। सारा बलवती। वनदा वनस्य खण्डड्डत्ध्;यित्री । योजनायाह-अत्र यमकेत्यादि। पादावृत्तिलक्षणं यमकम्। आदितो अन्यतश्च पाठे सन्दर्भैक्यादनुलोभप्रतिलोमता च ।तदेतदुभयं सापेक्षमिति शब्दालङ्कारसङ्करः। तदेतद्दूषयति-एतत्त्विति। अनावर्जकत्वे हेतुमाह-शब्दालङ्कारयोरिति। यथा हि शब#्दयोर्मिथो नोपकारः तथा शब्दालङ्कारयोरपि। कस्तर्हि ईदृशि विषये प्रकार इत्यत आह-शब्दालङ्कारेति। मिथोऽनुपकारात् नैरपेक्ष्यम्। अतः संसृष्टिः श्रेयसी। सङ्करतया चैकवाचकानुप्रवेशः स्यादित्याह-यद्वेति। अतः शब्दालङ्कारपरिहारेण अङ्गाङ्गिभाव इति निर्णायति-एवमेष इत#ि। सन्देहसङ्करं विवेचयति-द्वितीय इति । सन्देहं दर्शयति-यत्रोभयोरित्यादि। यः कौमारेति। व्याख्यातं प्राक्। योजयति-अत्र विभावनेत्यादि। अन्यत्र काव्यप्रकाशादौ। इत्थमुपमरुपकयोः सन्देहं दर्शयितुमाह-यथा चेति। यद्वाक्त्रचन्द्रेति। श्मश्रुच्छ्लेन नवयौवनेनोल्लिखितो मन्त्रश्चकास्तीव। योजयति-अत्र वक्त्रेत्यादि। संशयस्य हेतुमाह-समासस्योभयथाऽपीति। व्याघ्रादीनामाकृतिगणात्वाद्विशिष्टगुणानां चन्द्रादीनाम् उपसङ्ग्रह इति। मुखं चन्द्र इवेत्युपमासमासः। "अविहितलक्षणस्तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्य"इति नीत्या। मयूरव्यंसकादीनामाकृतिगणत्वात्। मुखमेव चन्द्र इति रुपकसमासश्च साधकबाधक प्रमाणविरहादनयोःसन्देहः । साधकबाधकान्ततरसद्भावे तु नियतपरिग्रह इत्याह-यत्र त्विति । साधकबाधकस्वरुपं विवेचयति-तत्रानुकूलमिति। प्रसरद्विन्द्विति। बिन्दुः शुद्धाध्वोपादानमहामाया नादोऽनाहतः तौ प्रसरतोयस्मात् सिसृक्षोस्तस्मै। शुद्धम् अमृतम्,निष्कृष्टं चैतन्यं तन्मयात्मने। अनन्तो देशकालाद्यनवच्छिन्नः प्रकाशो यश्च तस्मै। अन्यदा तु बिन्दवः शीकराः। नादो लहरीघोषः।अमृतं सुधा।अनन्तः शेष#ो मथनादौ शेषीभूतः , तेन प्रकाशः प्रथितः। इह शङ्कर एव क्षीरसिन्धुरिति रुपके साधकम्। दर्शयति-अत्र शङ्कर एवेत्यादि। अमृतशब्दो हि सुधायां प्रचुरप्रसिद्धिकः क्षीरसिन्धावनुकूलतरर इति रुपकसमास एवायम्। अमृतमयत्वं च नोपमां प्रति बाधकमित्याह-उपमायास्त्विति। न बाघक#ं किन्तु तटस्थमिति भआवः। तत्र हेतुः-शङ्करेऽप्युपचरितस्येति। शङ्करत्वेनोपचरितस्य हि सिद्धो रुपकत्वसिद्धिः। अत उपमोत्थापिते रुपके विश्रान्तिरिति यावत् । उदाहरणान्तरेणापि न्यायमिमं द्रढयितुम् आह-यथा वेति। एतान्यवन्तीति। अवन्तीश्चररुपात् पारिजातात् जातानि यशोरुपाणि प्रसूनानि दिग्रूपाणां वधूनामवतंसयामि,पश्यत। अत्राप्युपमाबाधवैमुख्येन रुपकसाधकं दर्शयति-अत्रावतंसनमिति । बाधकार्थमुदाहरति-शरदीवेति। हरिः सिंहो विष्णुश्च। उपमाबाधकं दर्शयति-अत्र विन्ध्य इत्यादि। विनिद्रजृम्भितहरित्वं हि साधारणमुपमासमासं बाधते। उपमितं व्याघ्रादिभिः सामान्याप्रयेगे इति वाचनात्। ननु रुपकसिद्धिसाधकाभावे कथमित्तयत आह-अतश्च पारिशेष्यादिति। ननु शरदीवेति समभिव्याहृतेयम् उपमा कथं नोपमासाधिकेत्यत आह- नतु शरदीवेति। न्यायतो वाक्यार्थीभूतं रुपकमाभासत एकदेशविर्तिन्युपमा न हि बाधितुम् ईष्टे। यावता स्वयमप्याभासीभवतीति भावः । अत्रोपहासायाह-न हि चाषेणेति। चाषथाणां समूहः चाषमिति स्थितौ पञ्चाशब्ध्रब्दः(दे?)शषयोरभेदाश्रयणा(णो?)प्यव्युत्पन्नप्रतीतेयं चाषश्रुतिः। न खलु तन्निबन्धना पञ्चाशद्रूपसमूहसिद्धिः। नन्वतरथा अलङ्कारप्रक्रमभेदः स्यादित्यत आह-न ह्येकेनेति । प्रकान्तेनैकेनैव निर#्वहणीयमिति नैषा राजाज्ञा येन दृष्टबाध आशङ्क्यते। यल्लङ्घनेनदृष्टबादृष्टयोद्र्वयोरपि बाधस्स्यात् यतो न्यायोऽयमित्यतत आह-नाप्येष इति। प्रक्रान्तेन निर्वहणीयमिति न सार्वत्रिको न्यायः । किन्तु विशेषा विवक्षायामेव। इह तु उत्तरोत्तरं प्रकर्षविवक्षेति उपमापेक्षया रुपके साम्यप्रकर्षः। अतोऽवयवगतोपमापरित्यागेन वाक्यार्थी भूतरुपक परिग्रह एवोचितः। विपर्ययस्तु साम्यनिकर्षाद्दुष्ट एव। तदेतत्प्रत्युदाहरणेन द्रढयति-येनेन्दुरिति। अत्रेन्दुमलयजयोः दहनविषयत्वरुपणात् साम्यप्रकर्षः प्रक्रान्तः। हारः कुठारायत इति तूपमया प्रकर्ष नीतः। चर्चां निगमयति-तस्मात्प्रकृत इति। सामान्यप्रयोगे उपमाबाधक इति न्यायोपन्नो रुपकप्रक्रम एव निर्वहीणीय इति यावत् । न्यायोऽयमत्रापि ज्ञेय इत्याह-भाषअयाब्धइरिति। गाम्भीर्यसाधारण्यादुपमाबाधे रुपकमेव द्रष्टव्यम्। साधकबाधकाभावे तु सन्देह इत्युक्तमनुस्मारयति-साधकबाधकेति। इत्थमङ्गाङ्गिभावसन्देह रुपं प्रकारद्वयं विविच्य तृतीयं प्रकारं विवेचयति-तृतीयस्त्विति। तं विशदयति-यत्रैकस्मिन्निति । मुरारि निर्गतेति। नरकोऽसुरो निरयश्च। (गङ्गेवेति)सद्गतिप्रात्पिहेतुत्वम्। योजयति-अत्र मुरारीति। गङ्गेवेत्युपमा मुरारिनिर्गतेत्यर्थभेदाभावात् साधारणविशेषणेन समुत्थापिता। नरकेति श्लिष्टविशेषणोत्थोऽर्थः श्लेषश्चापमाप्रतिपत्तिहेतुः। एकत्रैव नरकशब्देऽनुप्रविष्टौ श्लिष्टशब्देनोभयोपकारात् शब्दश्लेषेणाप्युपमा सङ्करार्थमाह-अत्र च यथेत्यादि। सत्पुष्करेति। पुष्कारं वाद्यभाण्डड्डत्ध्;मुखं पद्मं च । द्योतिनस्तरङ्गा द्योतितो रङ्गश्च। रज्यन्तेऽस्मिन् सामाजिकमनांसि इति रङ्गो नाट्यारम्भक्रिया। मृदङ्गसदृशं जलास्फालनवाद्यं मृदङ्गवाद्यं च। योजयति-अत्र पयसीवेत्यादिना। रमन्त इति साधारणे धर्मः। अतः सामग्रीयोगात् सम्पन्ना द्योतितरङ्गशोभिनीत्येकस्मिन्नेव शब्दे सभङ्गपदत्वात् शब्दश्लेषेण संकीर्णम्। शब्दालङ्कारयोरेकवाचकानुप्रवेशमुदाहृतचरमनुस्मारयति-शब्दालङ्कारयोः पुनरित्यादि । विजातीययोरेवैकवाचककानुप्रेशं(श?)व्यवस्थेति यदन्यैरुक्तं तदप्रयोजकमित्याह एकवाचकेत्यादि। अत्र "राजति तटीयमि"त्यादौ। एवकारेणाङ्गाङ्गिभावसन्देहसङ्करावपोहति। शब्दालंकारत्वं तुल्यजातीयता। उद्भाटप्रकाशितस्तु प्रकारान्तरगोचरशब्दार्थालंकारसंकरः संसृष्टौ अन्तर्भ#ावित इति तस्य संकरत्वमङ्गाङ्गिभाव एवोक्तमित्याह-शब्दार्थालङ्कारेत्यादि। अङ्गाङ्गिभावात्सन्देहात् प्रवेशादेकवाचके । त्रिधा तु संकरः शब्दालङ्कृत्योरेकवाचके ।। प्रकरणामुपसञ्जिहीर्षुराह-इदानीमिति। तत्र सूत्रम्-एवमेते शब्दार्थोभयालङ्काराः संक्षेपतस्सूत्रिताः। व्याचष्टे - एवमितीति। तत्र पुनरुक्तवदाभासोऽर्थस्य पौनरुक्त्ये। छेकवृत्त्यनुप्रासौ व्यञ्जनमात्रस्य । यमकं स्वरव्यञ्जनसमुदायस्य । लाटानुप्रासः शब्दार्थयोरित#ि पौनरुक्त्ये पञ्चकम्। स्थानविशेषश्लिष्टवर्णापौनरुक्त्ये चित्रम्। अथ सादृश्यविच्छित्तौ भेदाभेदतुल्यातायां उपमानान्वयोपमेयोपमा स्मरणानि। अभेदप्राधान्य आरोपाश्रयतया रुपकपरिणामसन्देहभ्रान्तिमदुल्लेखापढद्धठ्ठड़14;नुतयः। अध्यवसायाश्रयेणात्प्रेक्षातिशयोक्ती। गम्यमानौपम्याश्रयेण तुल्ययोगितादीपकप्रतिवस्तूपमादृष्टान्तनिदर्शनाव्यतिरेकसहोक्तिविनोक्तयः। विशेषण विच्छित्त्या समासोक्तिपरिकरौ। विशेषण विशेष्यविच्छित्त्या श्लेषः। अप्रस्तुतात्प्रस्तुतावगतावप्रस्तुतप्रशंसा। सामान्यविशेष भावादिना निर्दिष्टप्रकृतसमर्थनेऽर्थान्तरन्यासः। गम्यस्य भङ्ग्यन्तरेणोक्तौ पर्यायोक्तम्। स्तुत्या निन्दायाः निन#्दाया वा स्तुतेर्गम्यत्वे व्याजस्तुतिः। प्राकरणिकयोः विशेषार्थनिषेधाभासे अनिष्टविध्याभासे च आक्षेपः। विरोधगर्भतया विरोधविभावनाविशेषार्थनिषेधाभासे अनिष्टविध्याभासे च आक्षेपः। विरोधगर्भतया विरोधविभावनाविशेषार्थनिषेधाभासे अनिष्टविध्याभासे च आक्षेपः। विरोधगर#्भतया विरोधविभावनाविशेषोक्त्यतिशयोक्ती अन्तरा सङ्गतिविषमसमविचित्राधिकान्योन्यविशएषव्याघातद्वयानि। श्रृङ्खलावैचित्र्येण कारणामालैकावलीमालादीपकसाराः। तर्कन्यायेन काव्यलिङ्गानुमाने । वाक्यन्यायेन यथासङ्ख्यपर्यायपरिवृत्तिपरिसङ्ख्यार्थापत्तिविकल्पसमुच्चयदुयसम#ाधयः। लोकन्यायेन प्रत्यनीक प्रतीपनिमीलितसामान्यतद्द्गुणातद्गुणोत्तराणि। गूढार्थपरत्वे सूक्ष्मव्याजोक्तिवक्रोक्तिस्वभावोक्तयः। स्फुटार्थत्वे भाविकम्। औदात्त्येन उदात्तद्वयम्। चित्तवृत्त्यालम्बेन रसवत्प्रेयऊर्जस्वित्समाहितभावोदयसन्धिशबलत्वानीति शुद्धाः। मिश्रतया तु सङ्कुरसंसृष्टी । तदिदमभिसन्धायाह-एवमिति। पूर्वोक्तप्रकारपरामर्शः-एत इति। प्रक्रान्तस्वरुपनिर्देश इति। शब्दार्थोभयालङ्कारान् वर्गशो विविनक्ति-तत्र शब्दालङ्कारा इत्यादि। लाटानुप्रासादय इत्यादि। शेषानुद्घाटयति-संसृषअटिसङ्करेति । ननु चान्वयव्यतिरेकाभ्यामुक्ति(क्त)व्यवस्थाभाङ्ग इत्यत आह-लोकवदाश्रया श्रयीति। तदलङ्कार्येति। तच्छब्देन शब्दार्थोभयपरामर्शः। चर्चितं चैतत् श्लेषप्रस्तावे। तर्हि अन्वयव्यतिरेकौ कुत्र निबन्धनमित्यत आह-अन्वयव्यतिरेककौत्वति। अलङ्काराणां शब्दादिकार्यत्वे शब्द#ाशब्दाद्यन्वयव्यतिरेकौ तत्र निबन्धनम् । ननु शब्दाद्यलङ्कारत्वे को दोष इत्यत आह-तदलङ्कारत्वप्रयोजकत्व इति। श्रौतोपमादौ शब्दान्वयव्यतिरेकानुविधानात् शब्दालङ्कारत्वं प्रसजेत्। निगमयति-तस्मादाश्रयाश्रयीति। चिरन्तरमतेत्युक्तार्थे संवादसमुद्घाटनम् । शब्दन्यासो विषयमिषयो दुर्घटार्थव्यवस्था व्यात्पव्यात्पिप्रकटनपरन्यास(य?)चर्चो गभीरः । इत्थं भूम्रा रुचकवचसां विस्तरः कर्कशोऽयं टीकास्माभिः समुपरचिताऽनेन सञ्जीवनीयम् ।। सूक्ष्मामव्याकुलामत्र शास्त्रयुक्त्युपंबृहिताम् । मीमांसामुपजीवन्तु कृतिनः काव्यतान्त्रिकाः ।। काव्यप्रकाशेऽलङ्कारसर्वस्वे च विपश्चिताम् । अत्यादरो जगत्यस्मिन् व्याख्यातमुभयं ततः ।। इत्यालङ्कारिकचक्रवर्तिध्वनिप्रस्थानपरमाचार्यकाव्यमीमांसाप्रभाकरसहजसर्वज्ञमहाकविश्रीविद्याचक्रवर्तिविरचितायां सञ्जीवन्यामलङ्कारसर्वस्वटीकायामर्थालङ्कारप्रकरणं समात्पम् ।।