अलङ्कारसङ्ग्रहः/परिच्छेदः ४

विकिस्रोतः तः
Jump to navigation Jump to search
← परिच्छेदः ३ अलङ्कारसङ्ग्रहः
परिच्छेदः ४
अमृतानन्दयोगीन्द्र:
परिच्छेदः ५ →

विनयो दक्षता त्यागो माधुर्यं प्रियवादिता।
जनानुरागो वाग्मित्वं शौचं बुद्धिः कुलीनता ।। १ ।।

धैर्यं स्मृतिस्तथोत्साहो यौवनं मान एव च ।
शौर्यं दृढत्वं तेजश्च धर्मशास्त्रार्थकारिता ।। २ ।।

प्रज्ञा कलावेदिता च नेतृसाधारणा गुणाः।
एवंविधगुणोपेतो नायकः स चतुर्विधः ।। ३ ।।

धीरोदात्तोऽथ ललितो धीरशान्तोद्धताविति।
क्षमावानतिगम्भीरो महासत्त्वोऽविकत्थनः ।। ४ ।।

कृपालुरनहङ्कारो धीरोदात्तो मतो यथा।
"दधतो मङ्गलक्षौमे दधानस्य च वल्कले।
ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः ।। "

सचिवायत्तसिद्धिः स्यान्निश्चिन्तो भोगतत्परः ।। ५ ।।

सुखी मृदुः कलासक्तः स्याद्धीरललितो यथा।
"गौरवाद्यदपि जातु मन्त्रिणां दर्शनं प्रकृतिकाङ्क्षितं ददौ।
तद्गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितम् ।। "

शुचिर्विवेकी सुभगः सुप्रसन्नः सुखी मृदुः ।। ६ ।।

द्विजातिको धीरशान्तो विलासी रसिको यथा।
"भूयोभूयः सविधनगरीरथ्यया पर्यटन्तं
दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था।
साक्षात्कामं नवमिव रतिर्मालती माधव तं
गाढोत्कण्ठा ललितललितैरङ्गकैस्ताम्यतीति ।। "

मायामात्सर्यवान् दृप्तश्चण्डश्चपलमानसः ।। ७ ।।

विकत्थनो वञ्चकोऽहङ्कारी धीरोद्धतो यथा।
"रुद्राद्रेस्तुलनं स्वकण्ठविपिनच्छेदो हरेर्वासनं
कारावेश्मनि पुष्पकस्य हरणं यस्येदृशाः केलयः।
सोऽयं दुर्दमबाहुदण्डसचिवो लङ्केश्वरस्तस्य मे
का श्लाघा गुणजर्जरेण धनुषा कृष्टेन भग्नेन वा ।। "

नायकत्वमवस्थाभिरेषां सर्वरसेष्वपि ।। ८ ।।

प्रत्येकमेषां शृङ्गारेऽवस्थाभिश्चतुरात्मता।
दक्षिणश्च शठो धृष्टोऽनुकूलश्चेति कीर्तितः ।। ९ ।।

एकस्यां सक्तचित्तोपि कांन्तास्वन्यासु यः समम्।
वर्तते गूढरागः सन् प्रोक्तोऽसौ दक्षिणो यथा ।। १० ।।

"स्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजस्वसुः
द्यूतै रात्रिरियं जिता कमलया देवी प्रसाद्याद्य च ।
इत्यन्तःपुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते
देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ।। "

गूढविप्रियकारी तु शठ इत्युच्यते यथा।
"शठान्यस्याः काञ्चीमणिरणितमाकर्ण्य सहसा
यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः।
तदेतत्‌क्वाचक्षे घृतमधुमयत्वाद्बहुवचो
विषेणार्घूर्णती किमपि न सखी मे गणयति ।। "

व्यक्तान्यासङ्गचिह्नः स्याद्ध्रष्टो वितथवाग्यता ।। ११ ।।

"तस्याः सान्द्रविलेपनस्तनतटप्रश्लेषमुद्राङ्कितं
किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपायते।
इत्युक्ते क्वतदित्युदीर्य सहसा तत्सम्प्रमार्ष्टुं मया
साश्लिष्टा रभसेन तत्सुखवशात्तन्व्या च तद्विस्मृतम् ।। "

अनुकूलस्त्वेकरसो नान्यासङ्गमतिर्यथा।
"विभवेऽपि सखि त्वया विना सुखमेतावदजस्य गण्यताम्।
अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्त्वदाश्रयाः ।। "

इत्युदात्तादिनेतॄणां भेदाः षोडशकीर्तिताः ।। १२ ।।

श्रेष्ठमध्याधमत्वेन तेषामेव त्रिरूपता।
एवं नेतृभिदास्त्वष्टाचत्वारिंशत्प्रकीर्तिताः ।। १३ ।।

पीठमर्दो विटविदूषकौ नेतृसहायकाः।
पीठमर्दः कार्यदक्षः किञ्चिदूनगुणस्ततः ।। १४ ।।

नेतृचित्तानुकूलैकविद्यो विट इतीरितः।
विदूषकः प्रसङ्गेषु नेतुर्हासकरो मतः ।। १५ ।।

लुब्धो धीरोद्धतः स्तब्धः पापकृत्प्रतिनायकः।
यौवने सत्वसम्भूताः पुंसां शोभादयो गुणाः ।। १६ ।।

शोभा विलासो माधुर्यं गाम्भीर्यं स्थैर्यतेजसी।
ललितौदार्यमित्यष्टौ तेषां लक्ष्माऽभिधीयते ।। १७ ।।

नीचे घृणाधिके स्पर्धा शोभायां शौर्यदक्षते।
गतिः सधैर्यादृष्टिश्च विलासः सस्मितं वचः ।। १८ ।।

श्लक्ष्णो विचारो माधुर्यं सङ्क्षोभेऽपि महत्यपि।
गाम्भीर्यं यत्प्रभावेन विकारो नोपलभ्यते ।। १९ ।।

व्यवसायादचलनं स्थैर्यं विघ्नशतादपि।
अधिक्षेपाद्यसहनं तेजः प्राणात्ययेष्वपि ।। २० ।।

शृङ्गाराकारचेष्टात्वं वचनं ललितं मृदु।
प्रियोक्त्या जीवितादानमौदार्यं सदुपग्रहः ।। २१ ।।

स्वाऽन्या साधारणा चेति तद्गुणा नायिका त्रिधा।
स्वीया शीलार्जवयुता लज्जायुक्ता सती यथा ।। २२ ।।

"शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने
पत्युर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः।
भूयिष्टं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ।। "

अन्यान्योढा कन्यका च नान्योढाऽङ्गिरसे क्वचित्।
कन्याऽनूढास्वेच्छयाऽस्यां रागोङ्गाङ्गिरसे क्वचित् ।। २३ ।।

"एवं वादिनि देवर्षौ पार्श्वे पितुरधोमुखी।
लीलाकमलपत्राणि गणयामास पार्वती ।। "

साधारणा स्याद्गणिका कलाप्रागल्भ्यधौर्त्ययुक्।
रक्तेव रञ्जयत्याढ्यान्निस्स्वं निर्वासयेद्यथा ।। २४ ।।

यदा येन समायुक्ता तदा तद्रागदूषिता।
वियुक्ता स्वरुचिं धत्ते वेश्या किं स्फटिकी शिला ।। २५ ।।

साधारणमिदं तासां लक्षणं रूपकेषु तु।
रक्तैव तु प्रहसने नैषा दिव्यनृपाश्रये ।। २६ ।।

स्वीया च मुग्धा मध्या च प्रगल्भेति त्रिधा मता।
मुग्धा नववयः कामा रतौ वामाल्पकृद्यथा ।। २७ ।।

"अङ्कुरत्कुचमङ्गमायतदृशः स्वान्तं विशन्मन्मथं
रोहद्रोमलतं विलग्नमलिकं व्यालीलनीलालकम् ।
अङ्गीकारपराङ्मुखं रतमनायासापनोद्यत्क्रमः।
कोपो यस्य विलासिनः सुकृतिनामेकः स एवाग्रणीः ।। "

मध्योदितवयःकामा मोहान्तसुरता यथा।
"धन्यासि या कथयसे प्रियसङ्गमेऽपि
विस्रब्धचाटुशतकानि रतान्तरेषु।
नीवीं प्रति प्रणिहितश्च करः प्रियेण
सख्यः शपामि न हि किञ्चिदपि स्मरामि ।। "

अत्यारूढवयःकामा प्रगल्भा प्रियवक्षसि ।। २८ ।।

विलीयमानेव रतारम्भेऽष्वप्यवशा यथा।
"गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्गमा
सान्द्रस्नेहरसातिरेकविगळच्छ्रीमन्नितम्बाम्बरा।
मा मा मानद मातिमामलमिति क्षामाक्षरोल्लापिनी
सुप्ता किंनु मृता नु किं मनसि में लीना विलीना नु किम्।
मध्या स्यात्त्रिविधा धीरा धीराधीरेतरेति च ।। २९ ।।

धीरा सोत्प्रासवक्त्रोक्त्या सागसं खेदयेद्यया।
"स्विन्नमातपभरेण ते मुखं वायुना विलुलिताः शिरोरुहाः।
क्लान्तमङ्गमपि मार्गसम्भ्रमात्तावदास्व सुखगात्र मा विश ।। "

साश्रुसोत्प्रासवक्रोक्त्या धीराधीरा भवेद्यथा ।। ३० ।।

"बाले! नाथ! विमुञ्च मानिनि! रुषं, रोषान्मया किं कृतं
खेदोऽस्मासु, न मेऽपराध्यति भवान् सर्वेऽपराधा मयि।
तत्किं रोदिषि गद्गदेन वचसा? कस्याग्रतो रुद्यते?
नन्वेतन्मम, का तवास्मि? दयिता नास्मीत्यतो रुद्यते ।। "

साश्रुनिष्ठुरभाषाभिरधीरा सागसं यथा।
"यातु यातु किमनेन तिष्ठता मुञ्च मुञ्च सखि मादरं कृथाः।
खण्डिताधरकलङ्कितं खलं शक्नुमो न नयनैर्निरीक्षितुम् ।। "

प्रगल्भा च त्रिधा धीरा धीरेतरेति च ।। ३१ ।।

सावहित्थादरोदास्ते सुरते विहितागसम्।
प्रगल्भधीरा दयितं खेदयेत्कुपिता यथा ।। ३२ ।।

"एकत्रासनसङ्गतिः परिहृता प्रत्युद्गमाद्दूरतः
ताम्बूलानयनच्छलेन रभसाऽऽश्लेषोऽपि संविघ्नितः।
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्याऽन्तिके
कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ।। "

"आयस्ता कलहं पुरैव कुरुते न स्रंसने वाससो
भुग्नभ्रूरतिखण्ड्यमानमधरं दत्ते न केशग्रहे।
अङ्गान्यर्पयति स्वयं भवति नो वामा दृढालिङ्गने
तन्व्या शिक्षित एष सम्प्रति वरः कोपप्रकारोऽपरः ।। "

प्रगल्भधीराधीरा तु वक्रसोत्प्रासवाग्यथा।
"कोपो यत्र भ्रुकुटिरचना विग्रहो यत्र मौनं
यत्रान्योन्यस्मितमनुनयो दृष्टिपातः प्रसादः।
तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं
त्वं पादान्ते लुठसि न च मे मन्युमोक्षः खलायाः ।। "

अपि प्रगल्भाऽधीरा सन्तर्ज्य ताडयेद्यथा ।। ३३ ।।

"कोपात्कोमललोलबाहुलतिकापाशेन बद्ध्वा दृढं
नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः।
भूयो नैवमिति स्खलन्मृदुगिरा संसूच्य दुश्चेष्टितं
धन्यो हन्यत एव निह्नुतिपरः प्रेयान् रुदन्त्या हसन् ।।

ज्येष्ठाकनिष्ठाभेदेन पुनर्मध्या तु षड्विधा।
प्रागल्भाऽपि पुनस्ताभ्यां भेदाभ्यां षड्विधं यथा ।। ३४ ।।

"दृष्ट्वैकासनसङ्गते प्रियतमे पश्चादुपेत्यादरा-
देकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलात्।
ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसा-
मन्तर्हासलसत्कपोलपुलका धूर्तोऽपरां चुम्बति ।। "

आसामष्टाववस्थाः स्युः स्वाधीनपतिकादिकाः।
स्वाधीनपतिका चाद्या तथा वासकसज्जिका ।। ३५ ।।

कलहान्तरिता विप्रलब्धा प्रोषितभर्तृका।
विरहोत्कण्ठिता चैव खण्डिता चाभिसारिका ।। ३६ ।।

आसन्नायत्तरमणा स्वाधीनपतिका यथा।
"मा गर्वमुद्वह कपोलतले चकास्ति
कान्ते स्वहस्तलिखिता मम मञ्जरीति।
अन्याऽपि किं न सखि भाजनमीदृशानां
वैरी न चेद्भवति वेपथुरन्तरायः ।। "

एष्यत्प्रिया मुदा वासकसज्जाऽलङ्कृता यथा ।। ३७ ।।

"विमुक्तमालिन्यविशेषकान्ति-
रामुक्ततारामलचारुहारा।
स्फीताम्बरा प्रीतिमुपैति काचि-
दुदेष्यतीन्दौ सति यामिनीव ।। "

विधूय दयितं चार्ता कलहान्तरिता यथा।
अनुकूलजनोऽनुनेतुकामः
पुरुषः पादनतो गतो विधूतः।
शिशिरं सलिलं शिखाभिरग्ने-
र्निहितं किं न गुणं निजं जहाति ।। "

विमानिता विप्रलब्धा नायाते समयं यथा ।। ३८ ।।

"उत्तिष्ठ दूति! यामो यामो यातस्तथाऽपि नायातः।
मिथ्याप्रलापशीले विश्वासः कुत्र धूर्तेऽस्मिन् ।। "

देशान्तरगते प्रोषितप्रिया दयिते यथा।
"उत्सङ्गे सा मलिनवसने सौम्य विक्षिप्य वीणां
मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा।
तन्त्रीमार्द्रां नयनसलिलैः साधयित्वा कथञ्चित्
भूयोभूयः स्वयमधिकृतां मूर्छनां विस्मरन्ती ।। "

चिरयत्यव्यळीके तु विरहोत्कण्ठिता यथा ।। ३९ ।।

"सखि स विजितो वीणावाद्यैः कयाप्यपरस्त्रिया
पणितमभवत्ताभ्यां त्वत्र क्षपा ललिता ध्रुवम्।
कथमितरथाऽशेषालीषु स्खलत्कुसुमास्वपि
प्रसरति नभोमध्येऽपीन्दौ प्रियेण विलम्ब्यते ।। "

खण्डितेर्ष्यावती ज्ञातस्मरचिह्ने प्रिये यथा।
"नवनखपदमङ्गं गोपयस्यंशुकेन
स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम्।
प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्प-
न्नवपरिमलगन्धः केन शक्योऽपनेतुम् ।। "

सरेद्वा सारयेद्वाऽभिसारिका कामिनी यथा ।। ४० ।।

"प्रचलितनिजलज्जाः प्राङ्मुखं वीक्ष्यमाणाः
तिमिरविगमभीतास्तूर्णमुत्तीर्णमार्गाः।
वलयचलनलोला वञ्चितात्मीयलोकाः
सततमभिसरेयुः सागसोऽप्यात्मनाथान् ।। "

आसां दूत्यः सखी दासी धात्रेयी प्रातिवेशिनी।
लिङ्गिनी शिल्पिनी कारूः स्वयं वा तदसम्भवे ।। ४१ ।।

यौवने सत्त्वजाः स्रीणामलङ्कारास्तु विंशतिः।
भावो हावश्च हेला च त्रयोऽप्यङ्गसमुद्भवाः ।। ४२ ।।

"मातः कं हृदये निधाय सुचिरं रोमाञ्चिताङ्गी मुहुः
जॄम्भामन्तरतारकां विलुलितापाङ्गां दधाना दृशम्।
सुप्तेवालिखितेव शून्यहृदया रेखावशेषीभव-
स्यात्मद्रोहिणि किं ह्रिया कथय मे गूढो निहन्ति स्मरः ।।

शोभा कान्तिस्तथा दीप्तिर्माधुर्यं च प्रगल्भता।
औदार्यं धैर्यमित्येताः सप्तालङ्कृतयो मताः ।। ४३ ।।

लीला विलासो विच्छित्तिर्विभ्रमः किलिकिञ्चितम्।
मोट्टायितं कुट्टमितं बिब्बोको ललितं यथा ।। ४४ ।।

विहृतं च विविच्यन्ते तत्र स्वाभाविका दश।
निर्विकारो मनोवृत्तिविशेषः सत्त्वमुच्यते ।। ४५ ।।

तत्राद्यविक्रियाभावो भाव्यलङ्कारकृद्यथा।
"दृष्टिं सालसतां बिभर्ति न शिशुक्रीडासु बद्धादरा
श्रोत्रे प्रेषयति प्रवर्तितसखीसम्भोगवार्तास्वपि।
पुंसामङ्कमपेतशङ्कमधुना नारोहति प्राग्यथा
बाला नूतनमन्मथव्यतिकरावष्टम्भमाना शनैः ।। "

भावो मानसशृङ्गारो हावोऽक्षिभ्र्वदिकृद्यथा ।। ४६ ।।

"अव्याजमुग्धमधुरैररविन्दकोण-
निर्यन्मधुव्रतनिकायनिभैः कटाक्षैः।
भावावतारपिशुनैरपि भो वयस्य
बाला भवन्तमकरोदपदेशलक्ष्यम् ।। "

स एव हेला सुव्यक्तशृङ्गारद्योतिका यथा।
"मकरन्दपानमत्तां मधुकरमालामिव श्यामाम्।
लालसललितापाङ्गां दृष्टिं प्रेषयति दूतिकामिव ते ।। "

रूपोपभोगतारुण्यैः शोभाङ्गालङ्कृतिर्यथा ।। ४७ ।।

"तां प्राङ्मुखीं तत्र निवेश्य तन्वीं
क्षणं व्यलम्ब्यन्त पुरो निषण्णाः।
भूतार्थशोभाह्रियमाणनेत्राः
प्रसाधने सन्निहितेऽपि नार्यः ।। "

शोभैव रागनिबिडा कान्तिरित्युच्यते यथा।
"उन्मीलद्वदनेन्दुदीप्तिविसरैर्दूरे समुत्सारितं
भग्नं पीनकुचस्थलस्य च रुचा हस्तं प्रभागर्हितम्।
एतस्याः कलविङ्ककण्ठकदलीकल्पं मिलत्कौतुका-
दप्राप्ताभिमुखं रुषेव सहसा केशेषु लग्नं तमः ।।

कान्तेरेव हि विस्तारो दीप्तिरित्युच्यते यथा ।। ४८ ।।

"वनतरुवरवाटीवर्तिगाढं पुरस्ता-
त्ततनिजतनुकान्त्या तर्जयन्ती तमिस्रम्।
दिनविगमजिगीषोर्दीपिकेवासमेषो-
श्चरति चकितपादन्याससम्भावितोर्वी ।। "

अश्लाघ्यवस्तुयोगेऽपि माधुर्यं रम्यता यथा।
"सरसिजमनुविद्धं शैवलेनापि रम्यं
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम् ।। "

व्रीडोत्थसाध्वसत्यागः प्रागल्भ्यं गीयते यथा ।। ४९ ।।

"तथा व्रीडाविधेयापि तथा मुग्धापि सुन्दरी।
कलाप्रयोगचातुर्ये सभास्वाचार्यकं गता ।। "

औदार्यं प्रश्रयोत्कर्षो बह्वायासेपि तद्यथा।
"अलसारुणलोचनारविन्दां
परिभोगोचितधूसरैकचेलाम्।
शिथिलाकुलवेणिबन्धरम्या
मबलामन्तिकशायिनीं दिदृक्षे ।। "

अचापल्यहतं चित्तवृत्तं धैर्यं मतं यथा ।। ५० ।।

ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी
दहतु मदनः किं वा मृत्योः परेण विधास्यति।
मम तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया
कुलममलिनं नन्वेवायं जनो न च जीवितुम् ।। "

प्रियानुकरणं लीला मधुरैश्चेष्टितैर्यथा।
"आसितानि हसितानि कृतानि
प्रेक्षितानि गदितानि गतानि।
प्रायशोऽनुकुरुते ललिताङ्गी
नर्तकीव चतुरं दयितस्य ।। "

प्रिये दृष्टे विलासोऽङ्गक्रियाद्यतिशयो यथा ।। ५१ ।।

"अत्रान्तरे किमपि वाग्विभवातिवृत्ति-
वैचित्र्यमुल्लसितविभ्रममुत्पलाक्ष्याः।
तद्भूरिसात्त्विकविकारमपास्तधैर्य-
माचार्यकं किमपि मान्मथमाविरासीत् ।। "

स्वल्पालंक्रिया कार्याद्विच्छित्तिस्तोषकृद्यथा।
"कर्णार्पितो लोध्रकषायरूक्षे
गोरोचनाभङ्गनितान्तगौरेः।
तस्याः कपोले परभागलाभा-
द्बबन्ध चक्षूंषि यवप्ररोहः ।। "

विभ्रमस्त्वरया काले भूषणव्यत्ययो यथा ।। ५२ ।।

श्रुत्वायान्तं बहिः कान्तमसमाप्तविभूषया।
फालेऽञ्जनं दृशोर्लाक्षा कपोले तिलकं कृतम् ।। "

किलिकिञ्चितमश्रुकृद्धर्षादेः सङ्करो यथा।
"रतिक्रीडाद्यूते कथमपि समासाद्य समयं
मया लब्धे तस्याः क्वणितकलकण्ठार्थमधुरे।
कृतभ्रूभङ्गा सा प्रकटितविलक्षणार्थरुदित-
क्रुधोद्भ्रान्तं कान्तं पुनरपि विदध्यान्मयि मुखम् ।। "

चित्रादावपि तत्त्वेन बुद्धिर्मोट्टायितं यथा ।। ५३ ।।

"चित्रवर्तिन्यपि नृपे चित्रावेशेन चेतसि।
व्रीडार्धवलितं चक्रे मुखेन्दुमवशैव सा ।। "

मोट्टायितं प्रियं रटत्वा स्वाङ्गभङ्गादि वा यथा।
"स्मरदवथुनिमित्तं गूढमुन्नेतुमस्याः
सुभग एव कथायां प्रस्तुतायां सखीभिः।
भवति विततपृष्ठोदस्तपीनस्तनाग्रा
ततवलयितबाहुर्जृभ्भितैः स्वाङ्गभङ्गैः ।। "

हृष्टान्तः परिरम्भादौ कुप्येत्कुट्टमितं यथा ।। ५४ ।।

"परिरम्भपरं निजं निरुन्धे
करयोः केवलमेव कर्म कान्तम्।
पुलकैः पुनरुच्यते भवत्याः
पुर एव स्फुटमायताक्षि भावः ।। "

गर्वाभिमानवेशेन बिब्बोकोऽनादरो यथा।
"सव्याजं तिलकालकान्विरलयल्लोलाङ्गुलिः संस्पृशन्
वारंवारमुदञ्चयन्कुचयुगप्रोदञ्चि नीलाञ्चलम्।
यद्भ्रूभङ्गतरङ्गिताञ्चितदृशा सावज्ञमालोकितं
तद्गर्वादवधीरितोऽस्मि न पुनः कान्ते कृतार्थीकृतः ।। "

सुकुमारोऽङ्गविन्यासो मसृणो ललितं यथा ।। ५५ ।।

"सभ्रूभङ्गं करकिसलयावर्तनैरालपन्ती
सा पश्यन्ती ललितललितं लोचनस्याञ्चलेन।
विन्यस्यन्ती चरणकमले लीलयास्वैरपातै
र्निस्सङ्गीतं प्रथमवयसा नर्तिता पङ्कजाक्षी ।। "

वक्तव्यमपि यन्नोक्तं व्रीडया विहृतं यथा।
"पादाङ्गुष्ठेन भूमिं किसलयमृदुना सापदेशं लिखन्ती
भूयोभूयः क्षिपन्ती मयि शितशबले लोचने लोलतारे।
वक्त्रं ह्रीनम्रमीषत्स्फुरदधरपुटं वाक्यगर्भं दधाना
यन्मां नोवाच किञ्चित्स्थितमपि हृदये मानसं तद्दुनोति ।। "

इत्युदाहृतयो नेतृगुणेषूह्या यथोचितम् ।। ५६ ।।

नेतारो बहवः सन्ति धीरोदात्तो जगत्रये।
मृग्यनीयो विशेषेण चैको मन्वमहीपते ।। ५७ ।।

इत्यमृतानन्दयोगीन्द्रविरचितेऽलङ्कारसङ्ग्रहे नेतृभेदविचारो नाम चतुर्थः
परिच्छेदः ।।