अलङ्कारमणिहारः (भागः ४)/रसवदाद्यलङ्काराः (१०५-१११)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   

श्रीः

अलंकारमणिहारे चतुर्थभागः.


रसवदलङ्कारादिनिरूपणम्


इत्थं यथामति प्राचामर्वाचां च मतान्यलम् ।
प्रविचार्य शतं साग्रमलंकारा निरूपिताः ॥
रसभावतदाभासभावशान्तिनिबन्धनाः ।
रसवत्प्रेयऊर्जस्विसमाहितमिति श्रुताः ॥
अपराङ्गव्यङ्ग्यभेदा ये प्रोक्ताः प्राक्तनैर्बुधैः ।
अलंकारत्वमापन्नाश्चत्वारस्तेऽतिसुन्दराः ॥
भावस्य चोदयस्संधिश्शबलत्वमिति त्रयः ।
एवं सप्ताप्यलंकारा निरूप्यन्तेऽपरेऽधुना ॥

 अत्रेयं रससिद्धान्तपद्धतिर्बालबोधकृते दिङ्मात्रं प्रदर्श्यते । रतिहासशोकक्रोधोत्साहभयजुगुप्साविस्मयनिर्वेदाख्याः नव चेतोवृत्तिविशेषा वासनात्मतया सदाऽवस्थायिनः आनन्दाङ्कुरपूर्वावस्थारूपाः--

विरुद्धा अविरुद्धा वा यां तिरोधातुमक्षमाः ।
आनन्दाङ्कुरकन्दोऽसौ भावस्स्थायिपदास्पदम् ॥


 इति भरतमुनिना विरुद्धाविरुद्धसजातीयविजातीयभावान्तरातिरस्कृतानन्दसूक्ष्मावस्थात्वेन लक्षिताः स्थायिनो नाम भावाः । तेषां चेतोवृत्तिविशेषाणां कारणकार्यसहकारिणः विभावानुभावव्यभिचारिभावशब्दैः काव्ये नाट्ये च प्रतिपाद्यन्ते । तद्यथारतिर्नाम स्थायी भावः तस्याः रतेः कारणानि लोकसिद्धानि तरुणनायकरहोदेशावस्थानकोकिलालापमाकन्दमन्दमारुतचन्द्रोदयमधुकरलतागृहवापीजलदस्तनितादीनि । तत्कार्याणि दर्शनस्पर्शनोपगूहनचुम्बनभुजवेल्लनादीनि । सहकारिणो निर्वेदादिभेदेन त्रयस्त्रिंशत् । यथा--

निर्वेदग्लानिशङ्काख्यास्तथाऽसूयामदश्रमाः ।
आलस्यं चैव दैन्यं च चिन्ता मोहस्स्मृतिर्धृतिः ॥
व्रीडा चपलता हर्ष आवेगो जडता तथा ।
गर्वो विषाद औत्सुक्यं निद्राऽपस्मार एव च ॥
सुप्तिर्विबोधो हर्षश्चाप्यवहित्थमथोग्रता ।
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥
त्रासश्चैव विकल्पश्च विज्ञेया व्यभिचारिणः ।
त्रयस्त्रिंशदमी भावास्समाख्यातास्तु नामतः ॥

 इति मुनिना लक्षिताः । एते च यथासंभवं नवानामपि स्थायिनां सहकारिणः । प्रकृते रतिरूपशृङ्गारस्थायिनः औत्सुक्यविस्मयावेगहर्षचपलतादयस्सहकारिणः । हासरूपस्थायिनो विकृतवस्तुदर्शनादयो विभावाः । वदनविकासनरदनप्रकाशनप्रभृतयोऽनुभावाः चापलत्रासादयो व्यभिचारिण इति । अनयैव दिशा रसान्तराणामपि विभावादयो रसार्णवसुधाकरादिप्रबन्धदर्शिभिरुन्नेयाः । एवममीभिर्विभावानुभावव्यभिचारिभिः काव्ये

श्लोकानुसंधानप्रतीतैः नाट्ये अभ्यासपाटवनिर्वर्तितवाचिकाङ्गिकाद्यभिनयैश्चाभिव्यञ्जितो रत्यादिस्सामाजिकनिष्ठः स्थायीभावो रसः । तदुक्तं मुनिना--‘विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति । इति संक्षेपः ॥



अथ रसवदलंकारसरः (१०५)


रसे रसाङ्गे भावाङ्गेऽप्येष्वाहू रसवद्बुधाः ।

 रसो यत्र रसस्य भावस्य वा अङ्गं भवति तत्र रसवन्नामाऽलंकारः । रसस्य भावस्य वा प्राधान्ये तु ध्वनित्वमेव । अतएव ध्वनिकारः--

प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः ॥

 इति । भावो नाम विभावानुभावाभिव्यञ्जितो निर्वेदादिस्त्रयस्त्रिंशद्भेदः देवतागुरुशिष्यद्विजपुत्रनृपादावभिव्यज्यमाना रतिश्च । तदुक्तं दर्पणे--

रतिर्देवादिविषया व्यञ्जिता भाव उच्यते ।
एवं भावतया वेद्या व्यञ्जिता व्यभिचारिणः ॥ इति ।

 यथा-

 सज्यधनुर्गुणनिर्गतशरधारापातधूतयातुदवम् । रघुतनयमुपजुगूहे पुलकिततनुरवनिजा जनस्थाने ॥ २००१ ॥


 अत्र सीतायाः श्रीरघुनन्दनविषयकसंभोगशृङ्गारस्य तद्गतवीररसोऽङ्गम् ॥

 यथावा--

 इतरदुरानमपुरहरकोदण्डोद्दलनशौण्डदोर्दण्डम् । ऐक्षत सीता रघुसुतमवनतवदना विलोलतरनयना ॥ २००२ ॥

 अत्रेतरसुरासुरधनुर्धरदुरासदपुराहितशरासनोद्दलनेन विस्मयस्य स्थायिनः परिपोषादद्भुतरसः । स च श्रीरघुनन्दनविषयकजानकीगतशृङ्गाररसस्याङ्गम् ॥

 यथावा--

 युद्धोद्धतेन हरिणा निर्धूतं वेपमानमुप्तकचम् । अवलोक्य भीष्मकसुतं भवति स्मेराननस्स्म बलभद्रः ॥ २००३ ॥

 अत्र युद्धौद्धत्याभिव्यज्यमानभगवद्गतवीररसस्य वेपमानमित्याद्यभिव्यङ्ग्यरुक्मिगतभयानकरसाङ्गता । तस्य च बलभद्रगतहास्यरसाङ्गतेति विच्छित्तिविशेषः पूर्वस्मात् ॥

 रसस्य भावाङ्गत्वे यथा--

 अन्योन्याश्लिष्टाङ्गकमन्योन्यविलासविवशितान्योन्यम् । वृषगिरिकुटुम्बि मिथुनं विहरतु नस्स्वान्तनाम्नि शुद्धान्ते ॥ २००४ ॥

 अत्र कविगतदिव्यदम्पतिविषयकरतिभावस्य तद्गतशृङ्गाररसोऽङ्गम् । यद्यपि रसभावमापन्नस्याखण्डब्रह्मनन्दसब्रह्मचारिणो

विभावादिपरामर्शजीवितावधेरङ्गता न संभवति । तथाऽपि रसस्थायिभावस्याङ्गतया रसाङ्गत्वोपचार इत्याहुः ॥

यथावा--

 परसुमहाज्याकर्षणरभसोन्नद्धानि रघुकुलविवस्वन् । लोष्टानीव महान्ति क्षपाचरशिरांसि कोटिशोऽभैत्सीः ॥ २००५ ॥

 हे रघुकुलविवस्वन् ! परेषां द्विषतां सुमहती या आजिः युद्धं तस्याः आकर्षणे समीपानयने विषये रभसेन वेगेन हर्षेण वा उन्नद्धानि गर्वितानि उत्क्षिप्तानि वा पक्षे सुमहत्याः अतिविपुलायाः ज्यायाः क्षितेः कर्षणरभसेन हलमुखविलेखनवेगेन उन्नद्धानि उदस्तानि महान्ति बृहन्ति कोटिशः असङ्ख्याकानीति यावत् । ‘बह्वल्पार्थात्’ इति शस् । क्षपाचराणां दशाननादिनिशाचराणां शिरांसि कोटिशः लोष्टभेदनलगुडविशेषः ‘कोटिशो लोष्टभेदनः' इत्यमरः । कोटिरस्यास्तीति कोटिशः । लोमादित्वान्मत्वर्थीयश्शप्रत्ययः । लोष्टानीव मृत्खण्डानीव अभैत्सीः व्यदीदरः । अत्र भगवद्गतवीररसः कविगततद्विषयकरतिभावस्याङ्गम् ॥

 यथावा--

 भवता शमिते समितौ दशवदने देव कृतजगत्कदने । दुन्दुभिरतिवेलाद्भुतकोलाहलशबलितोऽनदन्मरुताम् ॥ २००६ ॥

 देवेति संबुद्धिः । अत्र श्रीरघुनन्दनविषयकत्रिदशगतरतिभावस्य तद्गतवीररसोऽङ्गम् ॥

इत्यलंकारमणिहारे रसवदलंकारः पञ्चाधिकशततमः.



अथ प्रेयोलंकारसरः (१०६)


यदि भावरसाङ्गत्वं भावस्य प्रेय इष्यते ।

 भावस्य भावाङ्गत्वे च प्रेयोऽलंकारो द्विप्रकारः । अयमेव भावालंकार इति कैश्चिद्व्यवह्रियते ॥

 तत्र भावस्य भावाङ्गत्वे यथा--

 सा मनसि संनिधत्तां तामरसनिकेतना रुचां विततिः । प्रत्यष्ठापि ययैव हि नित्यं श्रीवेंकटेश्वरैश्वर्यम् ॥ २००७ ॥

 अत्र श्रीविषयकरतिभावस्य श्रीनिवासविषयकरतिभावोऽङ्गम् ॥

 भावस्य रसाङ्गत्वे यथा--

 वाणीपतिसनकादिमवाङ्मनसाविषयभूम्नि शुभधाम्नि । व्योम्नि परमे रमेश्वर वतंसयिष्ये कदा तव पदाब्जम् ॥ २००८ ॥

 अत्र कविगतशान्तरसस्य कदेति सूचितश्चिन्ताख्यो व्यभिचारिभावोऽङ्गम् ॥

इत्यलंकारमणिहारे प्रेयस्सरष्षडुत्तरशततमः.


अथोर्जस्विसरः (१०७)


 भावाङ्गतां रसाभासो भावाभासोऽथवाऽश्नुते ।

यदा तदेयमूर्जस्विनामालंकृतिरुच्यते ॥

 यत्र रसाभासो भावाभासो वा भावाङ्गतां प्रतिपद्यते तत्रोभयत्राप्यूर्जस्विनामालंकारः । रसाभासो नाम रत्यादेरनौचित्येन प्रवृत्तिः ‘रसाभासस्तु रत्यादेरनौचित्यप्रवर्तनम्’ इत्युक्तलक्षणात् ॥

 यथावा--

 नारायणधरणीधरनाथ त्वय्येव लीयतां मम धीः । न पृथग्जनमतिरिव बहुवल्लभता दूषिता भवतात् ॥

 अत्र समासोक्तिबलेन पृथग्जनमतौ स्वैरिणीत्वप्रतीत्या तद्गतशृङ्गाररसाभासस्य कविगतभगवद्विषयकभावाङ्गत्वम् । अत्र शृङ्गाररसस्य बहुषु वल्लभेष्वनौचित्येन प्रवृत्तत्वादाभासत्वम् ।

यथाऽऽहुः--

एकत्रैवानुरागश्चेत्तिर्यङ्म्लेच्छगतोऽपि वा ।
योषितो बहुसक्तिश्चेद्रसाभासस्त्रिधा मतः ॥ इति ॥

 यथावा--

 त्वच्चक्रविलूनान्युधि वीरान्दिवि नाथ लब्धदिव्यतनून् । एकैकैव बहून् सुरललनाऽवृणुतैवमप्यशिष्यत तैः ॥ २०१० ॥

 अत्रापि पूर्ववत् योषितो बहुसक्तिरूपरसाभासस्य कविगतभगवद्विषयकभावाङ्गत्वम् ॥

 यथावा--

 विन्दतु चिराय विजयं सौन्दर्यं कोसलेश्वरकु-

लेन्दोः । यदवेक्ष्य मदनकलुषास्स्त्रिय इव मुनयोऽपि दण्डकारण्ये ॥ २०११ ॥

 अत्र मुनीनां श्रीरघुनन्दनविषयकशृङ्गाररसस्यानौचित्येन प्रवृत्तेराभासत्वं, तस्य च कविगतभगवत्सौन्दर्यविषयकभावाङ्गत्वम् ॥

 यथावा--

 क्व वशी त्वं सुकुमारः क्व नु शूर्पणखाऽतिकामुकी रौद्री । रूप्यं त्वां दाशरथे प्राप्यानिच्छन्तमाप वैरूप्यम् ॥ २०१२ ॥

 प्रशस्तं रूपमस्य रूप्यः ‘रूपादाहतप्रशंसयोर्यप्' इति यप्प्रत्ययः । ‘रूप्यं प्रशस्तरूपेऽपि' इत्यमरः । अत्र शूर्पणखायामेकत्रैवानुरागाद्वा अनौचित्येन प्रवृत्तेर्वा शृङ्गाररसस्याभासत्वम् । स च कविगततद्विषयकरतिभावाङ्गम् । विषमालङ्कारसंकीर्णत्वरूपविच्छित्तिविशेषोऽत्र द्रष्टव्यः ॥

 सर्वमिदं रसाभासस्य भावाङ्गत्वे उदाहरणम् । भावाभासस्य भावाङ्गत्वे यथा--

 सर्वो ममावनभरो दर्वीकरगिरिपते त्वयि न्यस्तः । रक्षसि चेद्रक्षामुं त्यक्षसि चेत्त्यज न जातु निर्विद्ये ॥ २०१३ ॥

 न निर्विद्ये निर्वेदं न प्राप्नोमि । अत्र गर्वरूपभावस्यानौचित्येन प्रवृत्तेराभासता । स चाभासः भगवद्विषयकभावं प्रत्यङ्गभूतः ॥

इत्यलंकारमणिहारे ऊर्जस्विसरस्सप्तोत्तरशततमः



अथ समाहितसरः (१०८)


 समाहितं भावशान्तेर्भावाङ्गत्वे त्वलंकृतिः ॥

 यत्र ‘भावशान्तिस्त्वभिव्यक्ते प्रशमे व्यभिचारिणाम्' इत्युक्तलक्षणभावशान्तेर्भावाङ्गत्वम् तत्र समाहितम् ॥

 यथावा--

 कुटिलभ्रुकुटिविभीषणनिटिलो दुहिणादिदुष्प्रसादोऽपि । प्रह्लादं दृष्ट्वैव प्रासीदस्तव कियन्नु वात्सल्यम् ॥ २०१४ ॥

 हे भगवन्नित्यध्याहारः । अत्र ‘अपकारिषु पारुष्यमुग्रतातर्जनादिकृत्' इति लक्षितभगवद्गतोग्रताख्यभावशान्तिः कविगततद्विषयकरतिभावस्याङ्गम् । केचित्तु भावाभासस्य भावाङ्गत्वे समाहितं, भावशान्तेर्भावाङ्गत्वे भावशान्तिरित्याहुः ॥

इत्यलंकारमणिहारे समाहितसरोऽष्टोत्तरशततमः



अथ भावोदयसरः (१०९)


भावोदयस्य भावाङ्गभावे भावोदयो मतः ।

 ‘भावोदयस्स्यादुत्पत्तौ व्यङ्ग्यायां व्यभिचारिणाम्’ इत्युक्तलक्षणस्य भावोदयस्य भावाङ्गतायां भावोदयो नामालंकारः ॥

 यथा--

 अम्भोधरगम्भीरे विजृम्भिते शौरिशार्ङ्गवि

ष्फारे । अपि विज्वलति भुजोष्मणि वेपथुमभजन्त हन्त दैत्येन्द्राः ॥ २०१५ ॥

 अत्र दैत्येन्द्रगतत्रासरूपभावोदयः कविगतभगवद्विषयकरतिभावस्याङ्गम् ॥

इत्यलंकारमणिहारे भवोदयसरो नवोत्तरशततमः.



अथ भावसंधिसरः (११०)


भावाङ्गत्वे भावसंधेर्भावसंधिरलंकृतिः ॥

 'भावसंधिस्तु भावानां तुल्यानां व्यङ्ग्यता यदि’ इत्युक्तलक्षणभावसंधेर्भावाङ्गत्वे भावसंधिरलंकारः ॥

 यथा--

 भुजबलहृतभैष्मीमुखविलोकनोत्फुल्ललोचनद्वंद्वः । चैद्याद्यभियोगवशाद्गृह्णञ् शार्ङ्गं च जयति यदुवीरः ॥ २०१६ ॥

 अत्र भुजबलहृतेत्यादिना शृङ्गाररसव्यभिचारिणो हर्षस्य चैद्याद्यभियोगवशतश्शार्ङ्गग्रहणेनानुभावेन वीररसव्यभिचारिण आवेगामर्षादेश्च संभूयवृत्तेः भावसंधिः । स च भगवद्विषयः कविगतरतिभावस्याङ्गम् ॥

इत्यलंकारमणिहारे भावसंधिसरो दशोत्तरशततमः. ।



अथ भावशबलतालंकारसरः (१११)

भावाङ्गे भावशाबल्ये भावशाबल्यमुच्यते ।

 यत्र भावशबलताया भावङ्गित्वं तत्र भावशबलत्वं नामालंकारः । भावानां शबलता नाम पूर्वपूर्वोपमर्देन प्रवृत्तिः । यथोक्तं—- ‘पूर्वपूर्वोपमर्देन तेषां शबलता मता’ । इति । तेषां भावानामित्यर्थः ॥

 यथा-- (युग्मम्)

 यास्याम्येव जनः किं पश्येन्मां तमसि किंनु विद्यात्सः । यदि पश्येद्ब्रूयान्मां कृष्णे रक्तां तदाऽस्मि धन्यैव ॥ २०१७ ॥

 इति मन्दमन्दमन्धे तमसि चलन्तीं व्रजासिताब्जाक्षीम् । सरभसमभिमुखमुपयन् सुगाढमुपगूढवान् जयतु कृष्णः ॥ २०१८ ॥

 अत्र यास्याम्येवेत्यौत्सुक्यं, जनः किं मां पश्येदिति शङ्का, तमसि किंनु विद्यात्स इति धृतिः, यदि पश्येदिति वितर्कः, ब्रूयान्मां कृष्णे रक्तामिति मतिः, तदाऽस्मि धन्यैवेति हर्षः इत्येतेषां पूर्वपूर्वोपमर्देनोत्तरोत्तरोत्तरवृत्तेर्भावशबलता । सा च कविगतभगवद्विषयकरतिभावस्याङ्गम् ॥

इत्यलंकारमणिहारे भावशबलतासर एकादशोत्तरशततमः.