अलङ्कारमणिहारः (भागः ४)/अर्थापत्त्यलङ्कारः (११६)

विकिस्रोतः तः
               




   

अथार्थापत्तिसरः (११६)


अन्यथाऽनुपपत्त्या यत्किंचिदर्थस्य कल्प्यते ।
अर्थान्तरं तां कथयन्त्यर्थापत्तिं विचक्षणाः ॥

 किंचिदर्थान्यधानुपपत्त्या अर्थान्तरकल्पनमर्थापत्तिर्नामालंकारः ॥


 यथा--

 नन्दकिशोरकरदरुचिबृन्दं नितरामचूचुरत्कुन्दम् । उपपद्यतामपरथा विपिनभवस्यापि दान्तताऽस्य कथम् ॥ २१०९ ॥

 कुन्दस्य विकारः पुष्पं कुन्दं ‘पुष्पमूलेषु बहुळम्' इति बहुलग्रहणाद्वैकारिकाणो लुक् । ‘द्विहीनं प्रसवे सर्वम्’ इति क्लीबता । इदं कर्तृ माध्यकुसुममित्यर्थः । नन्दकिशोरकरदरुचिबृन्दं कर्म अचूचुरत् अचोरयत् । अपरधा एवं चौर्याभावे विपिनभवस्य आरण्यस्यापि अस्य कुन्दस्य दान्तता दन्तसंबन्धिता कथमुपपद्यतां न कथंचिदप्युपपद्यत इत्यर्थः । कुन्दशब्दस्य दवर्णान्तत्वाद्दान्तत्वमिति स्तुस्थितिः । अत्र कुन्दस्य दन्ततान्यधाऽनुपपत्त्या भगवद्दन्तरुचिबृन्दचौर्यनिर्णयनिबन्धनादर्थापत्तिः ॥

 यथावा--

 त्वत्पदगतिविद्वेष्टाऽशुचं ततः प्राप्य जननि शुण्डालः । चण्डालोऽभून्मन्ये मातङ्गत्वं कथंन्वितरथाऽस्य ॥ २११० ॥

 हे जननि! शुण्डालः गजः त्वत्पदगतिविद्वेष्टा त्वच्चरणगमनद्वेषी तव पदं स्थानं परमव्योम तस्य गतिः प्राप्तिः तस्याः विद्वेष्टेति च । अतएव ततः विद्वेषात् शुचं शोकं प्राप्य । पक्षे अशु चं इति छेदः । अशु शुवर्णरहितं यथास्यात्तथा चं 'न गिरा गिरा’ इति न्यायेन तत्रैव शुवर्णस्थाने चकारं प्राप्य चण्डालोऽभूत् । ‘यस्तु नारायणं द्वेष्टि तं विद्यादन्त्यरेतसम्' इतिवत् लक्ष्मीपदगतिविद्वेषस्य फलमिदमिति भावः । शुण्डाल

शब्दः शुकारापनयनपूर्वकं तत्रैव चकारन्यसनेन चण्डाल इति निष्पन्न इत्यर्थः । इतरथा उक्तरीत्या चण्डालत्वाप्राप्तौ अस्य शुण्डालस्य मातङ्गत्वं कथं नु मातङ्गशब्दाभिलपनीयत्वं न स्यादिति भावः । ‘मातङ्गश्श्वपचे गजे' इति मेदिनी । अत्र गजस्य मातङ्गत्वव्यवहारान्यथानुपपत्त्या चण्डालत्वं श्लेषमहिम्ना कल्प्यते ॥

 यथावा--

 हरिमुखरुचिपरिभूतो विधुरिति मन्येऽन्यथा विवर्णमुखः । अतिपाण्डुरुक्प्रतिपदं क्षयमपि जाड्यं कुतोऽयमुपयायात् ॥ २१११ ॥

 विधुः इन्दुः हरेः भगवतः मुखेन परिभूत इति मन्ये । अन्यथा एवं परिभवाभावे अयं विधुः अतिपाण्डुरुक् अतिमात्रपाण्डुरोगवान् ‘स्त्री रुग्रुजा' इत्यमरः । अतएव विवर्णमुखः निस्तेजस्कवदनः । पक्षे अतिविशददीप्तिः ‘स्युः प्रभा रुग्रुचिः’ इत्यमरः । वि इति वर्णो मुखे अग्रभागे यस्य स तथोक्त इत्यर्थः । क्षयं जाड्यं राजयक्ष्माख्यरोगमपि । पक्षे क्षयं कलापचयं ‘क्षयो रोगान्तरे वेश्मकल्पान्तापचयेषु च' इति मेदिनी । जाड्यं शैत्यमपीत्यर्थः । कुतः उपयायात् । अत्र विधोर्विवर्णमुखत्वाद्यन्यधानुपपत्त्या हरिमुखपरिभूतत्वं कल्प्यते । श्लेषोत्तम्भितता प्राग्वत् ॥

 यथावा--

 तव सौकुमार्यभूम्ना नवनीतं जननि खर्वितौन्नत्यम् । आद्यन्तनतमितरथा कुतो वनीगर्भगं तदेतत्स्यात् ॥ २११२ ॥

 हे जननि! नवनीतं तव सौकुमार्यभूम्ना खर्वितौन्नत्यं संकुचितसौकुमार्योच्छ्रयं इतरथा तदेतत् नवनीतं आद्यन्तावभिव्याप्य आद्यन्तं नतं सर्वदा भुग्नं सदित्यर्थः । कुतो हेतोः वन्याः वनस्य गर्भं मध्यप्रदेशं गच्छतीति वनीगर्भगं स्यात् । त्वत्सौकुमार्यकर्तृकस्वसौकुमार्यखर्वीकरणविरहे उक्तरीत्या कुतो वनीगर्भं प्रविशेदिति भावः ।

 पक्षे नवनीतमिति पदं आद्यन्तयोः नतौ नकारतकारौ यस्य तत्तथोक्तं वनी इति वर्णौ गर्भगौ यस्य तत्तथोक्तं स्यात् । नवनीतशब्दस्वरूपस्यैवंविधत्वादिति भावः । अत्र नवनीतस्याद्यन्तभुग्नत्ववनीगर्भगत्वान्यथानुपपत्त्या श्रीसौकुमार्यातिशयखर्वीकृतौन्नत्यता संभाविता ॥

 यथावा--

 मन्ये तटितस्त्वच्छ्रीजिहीर्षवश्श्रीस्त्वयाऽऽहता गाढम् । कथमितरथा त्ववाक्कृतशिरसोऽपि न तान्ततां समत्याक्षुः ॥ २११३ ॥

 हे श्रीः! तटितः त्वच्छ्रीजिहीर्षवः त्वल्लक्ष्मीहरणेच्छवस्सत्यः अतएव त्वया गाढं आहताः अभिहताः इथरथा तु एवमाघाताभावे तु अवाक्कृतशिरसोऽपीति लोकोक्तिः । अतिवेलप्रयासभाजोऽपीति यावत् । तान्ततां ग्लानतां न समत्याक्षुः । तटित इति शब्दस्य प्रतिलोम्येऽपि यथापुरमवस्थानेन तवर्णान्तत्वाप्रहाणात्तथोक्तिः। अर्थगतबहुत्वस्य शब्दे आरोपः । अत्रावाक्कृतशिरस्त्वेऽपि तान्तत्वाप्रहाणान्यथानुपपत्त्या तटितां लक्ष्मीगाढप्रहृतत्वं कल्प्यते ॥

 यथावा--

 मकरन्देनाम्ब त्वद्वचनरसस्तेयमेव न कृतं चेत् ।

सूनावस्थानात्स्यादस्य किमुद्वासनावाप्तिः ॥

 अस्य मकरन्दस्य सूनायां हिंसास्थाने । सूने कुसुमे इति तु तत्त्वं अवस्थानात् स्थितेः ‘सूनं प्रसवपुष्पयोः । सूना पुत्र्यां वधस्थाने गळशुण्डिकयोः स्त्रियाम्' इति मेदिनी । उद्वासनं प्रमथनं तस्यावाप्तिः ‘उद्वासनप्रमथनप्रथनोज्जासनानि च' इति वधपर्यायेष्वमरः । उत्पूर्वकात् ‘वस स्नेहच्छेदापहरणेषु' इति चौरादिकाद्धातोर्ल्युट् । उत्कृष्टा वासना परिमळः तस्याः अवाप्तिरिति तु तत्त्वम् । अत्र मकरन्दस्य उपपादितश्लेषसंपादितसूनावस्थानोद्वासनावाप्त्यन्यथानुपपत्त्या जगज्जननीवचनरसचोरत्वं कल्प्यते ॥

 यथावा--

 त्वद्वचनधृतं गव्यं नो यदि तदिदं पुरोऽगमारूढम् । मध्येऽतिभयेऽवाप्ते श्रीमन्व्याधिगतमन्ततः कस्मात् ॥ २११५ ॥

 हे भगवन्! गव्यं गोपयः त्वद्वचनेन धुतं तिरस्कृतमेव नो यदि तदिदं गव्यं पुरः आदौ अगं अद्रिं आरूढं सत् कर्तरि क्तः । लोके प्रतिपक्षनिर्धूतानां गिरिदुर्गप्रवेशस्सुप्रसिद्ध इति भावः । मध्ये गिरिप्रदेशगमनावसरान्तरे अतिभये प्रत्यनीकभूतत्वद्वचनस्मरणेनात्यन्तिकत्रासे अवाप्ते सति अन्ततः पर्यवसाने व्याधिगतं 'द्वितीया श्रित’ इत्यादिना समासः प्राप्तरोगं चेत्यर्थः । अतिमात्रभयसंभ्रान्तानां व्याधेरपि संभवादिति भावः । कस्माद्भवेत् त्वद्वचनधुतत्वादेव गव्यस्येदृगवस्थावाप्तिरिति भावः । अर्थान्तरं तु शब्दपरम् । अस्मिन् पक्षे पुरः । गं । अतिभये । अवाप्तेः । इति

छेदः । प्राथमिकार्थे अवाप्ते इति सप्तम्यन्ततया छेदे परत्रस्थितश्रीशब्दशकारस्य ‘अनचि च' इति वैकल्पिकं द्वित्वम् । हे अतिभ

अतितेजस्विन् श्रीमन्! गव्यं गव्यमिति पदं पुरः अग्रे गं गवर्णं आरूढं प्राप्तं तस्य मुखे गवर्णस्य श्रूयमाणत्वात् । ये ‘गोपयसोर्यत्’ इति सूत्रेण विहिते वैकारिके यादौ प्रत्यये परे मध्ये गकारयकारयोरन्तराळे अवाप्तेः अवस्य ‘वान्तो यि प्रत्यये’ इति सूत्रविहितस्य ओकारस्थानिकावादेशस्य आप्तेः प्राप्तेर्हेतोः अन्ततः आन्ते व्याधिगतं व्येत्याकारकवर्णसमुदायं प्राप्तं भवेत् । गोशब्दादुक्तरीत्या यत्प्रत्यये अवादेशे च सत्येव गव्यशब्दस्य व्यवर्णान्तत्वं सिध्येत् नान्यथेति भावः । अत्रापि गव्यस्य पुरोऽगारूढत्वाद्यन्यथानुपपत्त्या शब्दार्थतादात्म्यमूलकश्लेषावलम्बिन्या भगवद्वचनस्वादिमविजितत्वं कल्प्यते । विच्छित्त्यन्तरं तु स्पष्टमेव ॥

 यथावा--

 स्वकरेण तव भुजश्रीस्पर्धी दन्तवळो मुखेऽभिहतः । मन्येऽन्यथा कथमभूद्द्विरदत्वं द्विरसनाद्रिनाथस्य ॥ २११६ ॥

 अभूद्द्विरदत्वमित्यत्र विरदत्वमिति छेदः । विरदन्यं विभ्रंशित दन्तत्वम् । द्विरदत्वमिति परिहारः ॥

 यथावा--

 गाढं प्रहृतस्य मुखे त्वत्तेजस्पर्धिनोऽनलस्य हरे । रदनास्स्फुलिङ्गदम्भाज्जगळुः कथमन्यथैष हविरदनः ॥ २११७ ॥

 एषः ह विरदनः इति छेदः । हेत्यव्ययं प्रसिद्धौ ‘ह संबुद्धौ प्रसिद्धौ च' इति रत्नमाला । पक्षे हविरदन इति समस्तं पदम्।

हुताशन इत्यर्थः । अनयोरुदाहरणयोरपि विरदत्वाविरदनत्वान्यथानुपपत्या श्लेषभित्तिकाभेदाध्यवसायसंपादितया दन्तावळानलयोर्मुखेऽभिहतत्वस्य कल्पनम् ॥

 यथावा-

 वसुदेवसुतो भगवांत्सूतोऽजनि पारदश्च युक्तमिदम् । कथमितरथा रसो वै स इति श्रुतिवचनमर्थवत्त्वमियात् ॥ २११८ ॥

 भगवान् वसुदेवसुतः सूतः पारदश्च अजनीति युक्तम् । वस्तुतस्तु सूतः अर्जुनस्य सारथिः । जनिपारद इति समस्तं पदम् । जनेः जन्मनः पारं ददातीति पारदः जन्मपरंपरापारभूतनिश्श्रेयसप्रद इत्यर्थः ॥

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥

इति गानात् । अनेन--

संसारार्णवमग्नानां विषयाक्रान्तचेतसाम् ।
विष्णुपोतं विना नान्यत्किंचिदस्ति परायणम् ॥
दुर्गं संसारकान्तारमपारमभिधावताम् ।
एकः कृष्णनमस्कारो मुक्तितीरस्य देशिकः ॥

 इत्यादिकं स्मार्यते । इतरथा एवं सूतत्वपारदत्वाभावे ‘रसो वै सः’ इति श्रुतिवचनं कथमर्थवत्स्यात् तस्य रसत्वादेव सूतत्वपारदत्वे युक्ते इति भावः । ‘रसस्सूतश्च पारदः’ इति त्रयाणामपि शब्दानां तुल्यार्थकत्वानुशासनात् । रसः आनन्दमय इति वस्तुस्थितिः । अत्र भगवतो रसत्वान्यथानुपपत्त्या सूतत्वपारदत्वे कल्प्येते ।

 यथावा--

 अञ्जनमञ्जनगिरिपतिमञ्जुलसुषमां जहार मन्येऽहम् । सुदृशामिदमक्षिगतं ददृशे कथमन्यथा तदिदम् ॥ २११९ ॥

 सुदृशां विदुषां योषितां च अक्षिगतं द्वेष्यं चक्षुर्विषयं च 'द्वेष्ये त्वक्षिगतः' इत्यमरः । अत्राञ्जनस्य सुदृगक्षिगतत्वान्यथानुपपत्त्या भगवाद्विग्रहसुषमाहरणदोषवत्त्वकल्पनम् ॥

 यथावा--

 स्वशरीरतोऽहरत्तव धम्मिल्लरुचिं घनाघनो मन्ये । कथमन्यथाऽस्य कमले जगदन्तस्थावरापकीर्तिजनिः ॥ २१२० ॥

 हे कमले! घनाघनः स्वशरीरतः निजवपुषा तव धम्मिल्लरुचिं अहरत् अमुष्णात् इति मन्ये । अन्यथा अस्य घनाघनस्य जगदन्तः लोकमध्ये अपगता कीर्तिः यस्यास्सा अपकीर्तिः सा चासौ जनिश्च स्थावर इत्यपकीर्तिजनिः स्थावरत्वेनाप्रशस्तं जन्मेत्यर्थः । कथं भवेत् । उक्तविधशारीरकर्मदोषवशादेष स्थावरजन्मलाभ इति भावः ॥

शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ।
वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥

 इति मनुस्मरणात् । पक्षे अस्य संबन्धसामान्ये षष्ठी । अस्मात् घनाघनादित्यर्थः । वरापकीर्तिजनिः । अपां समूहः आपं वरं च तत् आपं च वरापं । कीर्तिः कर्दमः । तयोः जनिः उत्पत्तिः जगदन्तस्था जगन्मध्यस्थिता । घनाघनादेव हि जगति सलिलपङ्कसंभव इति भावः । अत्र घनाघनस्य जगदन्तस्थावरापकीर्तिजन्मलाभान्यथानुपपत्त्या लक्ष्मीधम्मिल्लरुचिचौर्यरूपकायिकदोषकल्पनम् । श्लेषोत्तम्भितत्वं तु पूर्ववदेव ॥

 यथावा--

 तावकनखानि गोभिस्तारकनिकरो व्यदूदुष

न्मन्ये । कथमपरथा सदाख्योऽप्येष हि वैहायसीं गतिं विन्देत् ॥ २१२१ ॥

 हे जननि! तारकाणां उड्नां आपदादिकृछ्रादुत्तारकाणामिति च गम्यते । निकरः तावकनखानि गोभिः वाग्भिः किरणैश्च व्यदूदुषत् दूषयति स्मेति मन्ये । अपरथा एष तारकनिकरः सदाख्यः साधुरित्याख्यावानपि सदित्याख्या नाम यस्य स इति वस्तुस्थितिः ‘भं नक्षत्रं तारकं सत्’ इत्यनुशासनात् । वैहायसीं पक्षिसंबन्धिनीं गतिं कर्मफलं कथं विन्देत् 'वाचिकैः पक्षिमृगताम्' इत्यनन्तरपूर्वोदाहरणदर्शितप्रमाणेन वाचिककर्मदोषफलतया प्रतिपादिता वैहायसी गतिः कथं सत्वेन प्रतीतस्यापि संभवेदिति भावः । वैहायसीं अन्तरिक्षभवां गतिं गमनमिति तु तत्त्वम् । ‘विहायश्शकुने पुंसि गगने पुंनपुंसकम्' इति मेदिनी । अत्र तारकनिकरस्य वैहायसगतिप्राप्त्यन्यथानुपपत्त्या लक्ष्मीचरणनखकर्मकवाक्करणकदूषयितृत्वं संभाव्यते ॥

 यथावा--

 अमलद्विजस्तव स्मितवसुहारी मानसेऽभवन्नूनम् । कथमन्यथा प्लवैस्सह वसेदसावन्त्यजत्वमासीदन् ॥ २१२२ ॥

 अमलद्विजः हंसः निर्मलो विप्रश्चेत्यपि गम्यते । मानसे मनसि तव स्मितस्य वसूनि धनानि हरतीति स्मितवसुहारी अभवत् नूनम् । अन्यत्र स्मितस्य वसुः रश्मिः स इव हारी मनोहरः स्मितवद्विशद इत्यर्थः । मानसे तन्नाम्नि सरसि अभवत् सत्तामलभतेति योजना । हंसानां मानसनिवासित्वादिति भावः । अन्यथा एवं मानसकर्मदोषविरहे अन्त्यजत्वमा

सदिन् ‘मानसैरन्त्यजातिताम्’ इति प्रागुदाहृतवचनप्रतिपादितमानसकर्मदोषफलभूतमन्त्यजातित्वं प्राप्नुवन् सन् अन्तिमजकारवत्तामिति तु तत्त्वम् । प्लवैः चण्डालैः कारण्डवाख्यविहगैश्च कथं सह वसेत् । ‘चण्डालप्लवमातङ्गदिवाकीर्तिजनंगमाः, मद्गुः कारण्डवः प्लवः’ इति चामरः । ‘हंसकारण्डवाकीर्णाम्’ इत्यादौ सर्वत्र हंसस्य कारण्डवसहचारित्वं हि वर्ण्यते ‘प्लवस्स्यात्प्लवने मेळे भेकेऽवौ श्वपचे पशौ, इत्युपक्रम्य कारण्डवाख्यविहगे' इति मेदिनी च । एवंचोपदर्शितोदाहरणत्रयेण करणत्रयनिर्वर्तितकर्मदोषफलानि क्रमेण दर्शितानि । अत्रामलद्विजस्यान्त्यजत्वप्राप्त्यन्यथानुपपत्त्या मानसिकलक्ष्मीस्मितवसुचौर्यरूपदोषवत्ता कल्पिता ॥

 यथावा--

 अग्रकराहितमिह तव कटकं कर्कटकतां गतं मन्येऽहम् । कथमन्यथाऽस्य कमले सिंहमुखत्वं शुचिद्युतिपदत्वं वा ॥ २१२३ ॥

 हे अम्ब! तव अग्रश्चासौ करश्च अग्रकरः कराग्रमित्यर्थः 'हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदात्’ इत्यवयवावयविनोरभेदः । तस्मिन् आहितं न्यस्तं कटकं वलयं कर्कटकतां कर्कटकराशितां गतं मन्ये ‘स्यात्कुळीरः कर्कटकः' इत्यमरः । ‘स्यात्कर्कटः कर्कटकश्च कर्की’ इति कर्कटराशिनामपर्यायेषु विद्यामाधवः । पक्षे अग्रे मुखभागे कर् इति वर्णसमुदयेन आहितः कर् आहितो यस्मिन्निति वा । कटकशब्दः कर्कटकतां प्रपद्यत इत्यर्थः । अन्यथा कर्कटकत्वायोगे अस्य कटकस्य कथं सिंहमुखत्वं सिंहराशेः पूर्वगण्यत्वं स्यात् सिंहराशेः कर्कटकराश्यनन्तरभावित्वादिति भावः । सिंहस्य मुखमिव मुखं यस्य

स तथोक्तः तत्त्वमिति वस्तुस्थितिः । सिंहमुखाकारवत्त्वं कटकस्य प्रसिद्धम्, यत् सिंहललाटकटकमिति व्यवह्रियते जनैः । शुचिद्युतेः सितकिरणस्य पदं स्थानं तत्त्वं वा कथं भवेत् कर्कटकत्वादेव चन्द्रस्य क्षेत्रमासीदिति भावः । ‘कर्कटस्य निशाकरः' इति कर्कटस्य तत्क्षेत्रतोक्तेः । वस्तुतस्तु शुचेः शुद्धायाः द्युतेः कान्तेः पदं स्थानं आधार इत्यर्थः । तथात्वं, यद्वा शुचिद्युतेः अग्नितुल्यदीप्तेः पदं अत्युज्ज्वलमित्यर्थः । अत्र कटकस्य सिंहमुखत्वाद्यन्यथानुपपत्त्या कर्कटकत्वं कल्प्यते ।

 यथावा--

 त्वन्नखसंघर्षीन्दुस्तैश्शस्त्राशस्त्रि मर्दितो मन्ये । अहिगिरिनाथेतरथा वहति स मृदुलाञ्छितां कुतो मूर्तिम् ॥ २१२४ ॥

 सः इन्दुः मृदुलां मृद्वीं छितां छिन्नां च मूर्तिं कुतो वहति । शस्त्राशस्त्रिमर्दितत्वादेव हि मूर्तेर्मृदुत्वं छिन्नत्वं चेति भावः । मृदुश्चासौ लाञ्छिता च मृदुलाञ्छिता तामिति तत्त्वम् । मृद्वी कलङ्किता चेत्यर्थः । स्पष्टमन्यत् । अत्र मृदुलाञ्छितां मूर्तिं कुतो वहतीत्युक्तार्थान्यथानुपपत्त्या चन्द्रमसो भगवन्नखसंघर्षमूलकशस्त्राशस्त्रिमर्दितत्वं कल्प्यते ॥

 यथावा--

 ननु देव पुष्पवन्तौ सस्पर्धौ त्वत्प्रतापकीर्तिभ्याम् । प्रहृतौ मुखेऽन्यथा तावदन्ततां तान्ततां च कथमेताम् ॥ २१२५ ॥

 पुष्पवन्तौ सुर्याचन्द्रमसौ । अदन्ततां अविद्यमानदन्तत्वं तान्ततां क्लान्तत्वं च । पक्षे अकारान्तत्वं तकारान्तत्वं च ‘एक

योक्त्या पुष्पवन्तौ' इत्यमरः । ऐताम् अगच्छताम् । अयमदन्तस्तान्तोऽप्यस्ति-- ‘पुष्टिह्रासौ कुमुदसुहृदः पुष्पवन्तोपरागे’ इति, ‘विलोचने विभोर्यस्य विख्याते पुष्पवत्तया’ इत्युभयधाऽपि प्रयोगदर्शनात् । अत्र सर्वत्र श्लेषोज्ज्वीवितत्वं तुल्यम् ॥

इत्यलङ्कारमणिहारे अर्थापत्तिसरः षोडशोत्तरशततमः.