अलङ्कारमणिहारः (भागः ४)/अनुमानालङ्कारः (११३)
अथानुमानालङ्कारसरः (११३)
अनुमानं लिङ्गजन्यलिङ्गिज्ञानमुदाहृतम् ॥
लिङ्गं हेतुः धूमादिः, लिङ्गि साध्यं वह्न्यादिः । तथाच हेतुजन्यसाध्यज्ञानमनुमितिरित्यर्थः । एतच्च साधारणमनुमानम् । अस्य च कविप्रतिभोन्मिषितत्वेन सुन्दरतायां काव्यालंकारता ॥
यथा--
भुवनतलं शीतलयञ् शिशिरमयूखस्स्वकारणं भगवन् । श्रीनिलय मानसं तव करुणाशिशिरं परं प्रकाशयति ॥ २०२३ ॥
प्रकाशनं स्फुटबोधनं तच्चानुमित्यात्मकम् । अत्र च भगवन्मानसशिशिरतारूपलिङ्गिनः शिशिरमयूखकर्तृकभुवनतलशीतलीकरणलक्षणलिङ्गजन्यत्वेनानुमानालंङ्कारः । भगवन्मानसं करुणाशिशिरं भुवनतलशीतलीकरणनिपुणशिशिरमयूखजनिस्थानत्वादिति प्रयोगः ।
यथावा--
सामोदबाष्पपूरैः प्रेमोदयसप्रपञ्चरोमाञ्चैः । भ
गवन् भवदीयजने जानन्ति कृतास्पदां जना भक्तिम् ॥ २०२४ ॥
इमे जनाः भगवति भक्तिमन्तः सामोदबाष्पपूरादिमत्वादिति प्रयोगः ॥
यथावा--
यद्धर्माम्बुनिषिक्ते क्षेत्रे पुलकाङ्कुराः प्रहृष्यन्ति । तन्मन्येऽस्याश्शौरौ हृदयतटाकोऽनुरागरसपूर्णः ॥ २०२५ ॥
क्षेत्रमेव क्षेत्रमिति श्लिष्टरूपकं गात्ररूपकेदारमित्यर्थः । तस्मिन् 'क्षेत्रं शरीरे केदारे' इति मेदिनी । अत्र स्वेदाम्बुनिषिक्तक्षेत्राधिकरणकप्रहृष्टपुलकाङ्कुरत्वेन हेतुना व्रजललनायाः भगवद्विषयकानुरागरसपरिपूर्णहृदयतटाकवत्वानुमानम् । प्रयोगस्तु-- इयं शौरिविषयकानुरागरसपरिपूर्णहृदयतटाका स्वेदाम्बुनिषिक्तप्रहृष्टस्वक्षेत्राधिकरणकपुलकाङ्कुरवत्त्वादित्यादिः । आद्ये पद्यद्वये लिङ्गलिङ्गिनोश्शुद्धत्वं, इह तु रूपकानुप्राणितत्वमिति वैलक्षण्यम् । कविप्रतिभोन्मीलितत्वं तु व्यक्तमेव । इह यत्र लिङ्गलिङ्गिनोस्सत्त्वं तत्र जानन्ति मन्ये शङ्के जाने नूनं अवैमि इत्यादिपदानामनुमितिबोधकत्वं, यत्र तु सादृश्यादिनिमित्तसद्भावः तत्रोत्प्रेक्षाबोधकत्वमिति विवेकः ।
यथावा--
जडिमाऽपसर्पति यथा यथा च महती स्फुरत्यशोकश्रीः । शङ्के तथा ह्यमीषां साधूनां माधवोऽन्तरुल्लसति ॥ २०२६ ॥जडिमा शैत्यं अज्ञानं च । अशोकानां वृक्षविशेषाणां श्रीः विकाससंपत् । अशोका शोकोपलक्षितहेयगुणरहिता श्रीः संपत् । माधवः वसन्तः । श्रीनिवासश्च । ‘यथा तथेति निपातौ हेत्वर्थकौ’ इति गणव्याख्याने । यथा यस्मात् तथा तस्मात् इत्यर्थः । यद्वा । ‘यथाशब्दस्तु निर्दिंष्टस्तुल्ययोगानुमानयोः' इति विश्वकोशादनुमानवाचकः । अत्र जडिमापसर्पणादिलिङ्गेन माधवोल्लसनानुमानम् । अमी साधवः अन्तर्विलसन्माधववन्तः जडिमापसर्पणादिमत्त्वादिति प्रयोगः ॥
यथावा--
अपहृत्य तव मुखद्युतिमन्तर्निशमेव दृश्यनिजरूपः । वेंकटनाथ शशाङ्कश्शङ्कान्वित एव केवलं मन्ये ॥ २०२७ ॥
हे वेङ्कटनाथ! शशाङ्कः चन्द्रमाः शशाङ्कशब्दश्च अनयोस्तादात्म्यम् । तव मुखद्युतिं अपहृत्य अन्तर्निशमेव रात्रावेव, पक्षे अन्तः मध्ये निशं निवर्तितशाकारमेव विभ्रंशितशावर्णमेव यथा स्यात्तथा । क्रियाविशेषणत्वान्नपुंसकता । ‘ह्रस्वो नपुंसके प्रातिपदिकस्य’ इति ह्रस्वः । दृश्यं निजरूपं स्वस्वरूपं यस्य स तथोक्तः केवलं शङ्कान्वित एव भीत एवेति मन्ये । अन्यथा रात्रावेव स्वरूपप्रकाशः कुतोऽस्येति भावः । पक्षे शशाङ्कशब्दः मध्यगतशाकारलोपे शङ्कान्वितः शङ्क इयाभ्यां वर्णाभ्यामेवान्वित इत्यर्थः । अत्र शशाङ्कनिष्ठशङ्कान्वितत्वरुपलिङ्गिनः अन्तर्निशदृश्यनिजरूपत्वलिङ्गजन्यत्वेनानुमानम् ॥
यथावा--
जाने विभाकरोऽयं शौरे त्वत्तेजसा पराभूतः ।अन्तर्गतभाः पश्चाद्विन्यस्तकरो यतसदा विमुखः ॥
हे शौरे! अयं विभाकरः भानुमान् । पक्षे विभाकर इति शब्दः त्वत्तेजसा पराभूतः अतएव अन्तर्गतभाः निमग्नतेजाः अन्यत्र अन्तर्गतः मध्यभागस्थितः भाः भा इत्याकारको वर्णः यस्य स तथोक्तः । अस्मिन् पक्षे भाशब्दस्य आकारान्तस्य वर्णपरत्वेन स्त्रीप्रत्ययान्तत्वविरहान्नोपसर्जनह्रस्वः । पश्चात् विन्यस्ताः कराः येन स तथोक्तः निरस्तपौरुषत्वेनानुत्साहतया शरीरपश्चार्धसमर्पितपाणिरिति तदनुभावोक्तिरियम् । इतरत्र पश्चात् चरमभागे विन्यस्तौ करौ ककारेरफौ यस्य स तथोक्तः सदा विमुखः अवमानेन न्यक्कृतवदन इति भावः । पक्षे विकारो मुखे यस्य स तथोक्तः । विभाकरशब्दस्य उपदर्शितवर्णात्मकत्वादिति भावः । अयं विभाकरः भगवत्तेजसा पराभूतः अन्तर्गतप्रकाशत्वादिभ्यो हेतुभ्य इत्यनुमानशरीरम् । इदं च उक्तप्रकारशब्दार्थतादात्म्यावलीढश्लेषोत्तेजितं पूर्ववदेव । एवमग्रेऽप्यूह्यम् ॥
यथावा--
गजराजो गमनेन द्विजराजः पर्यभावि वदनेन । हरितरुणि भवत्या तन्मन्ये तावन्तरा जरालीढौ ॥
हे हरितरुणि ! इदं गजराजादिपराभवपटीयस्त्वद्योतनाय । अन्तरा मध्ये वयस्येव । मध्यभागे इति वस्तुस्थितिः । जरालीढौ जरसा वार्धकेन आलीढौ व्याप्तौ । त्वत्कृतपराभवनिमित्तकमनोव्यथया शीघ्रमेव जीर्णावभूतामिति भावः । पक्षे गजराजद्विजराजशब्दौ मध्ये ज रा इति वर्णद्वयेन व्याप्तावित्यर्थः । अत्र गजराजद्विजराजयोरन्तरा जरालीढत्वे श्रीवदनगमनपराभूतत्वेन हेतुना साध्येते ।यथावा--
पुरुष तव पौरुषेण द्विषतामवधीरितं यशो मन्येऽहम् । यदिदं योषितमादावविदं शोषितमथ स्वतः क्लीबं च ॥ २०३० ॥
हे पुरुष निरुपाधिकपुरुषशब्दवाच्य! हे भगवन्नित्यर्थः ।
भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । |
तत्वं साध्यं, स्त्रीत्वादिना विदितत्वं साधनम् । तथाच इदं द्विषतां यशः पुरुषोत्तमपौरुषावधीरितं आदौ योषित्त्वेन शोषितत्वेन क्लीबत्वेन च विदितत्वादिति प्रयोगः ॥
यथा वा--
त्वच्चक्रेण विवस्वान् संस्पर्धी नूनमाहतस्तेन । विमुखोऽन्तर्मग्नवसुर्यददन्तो वैशसं परं प्राप्तः ॥
हे भगवन्निति प्रकरणाल्लभ्यते । विवस्वान् भास्वान् त्वच्चक्रेण सह संस्पर्धी अतएव तेन समाहतः अभिहतः नूनम् । यत् यस्मात् विमुखः पराङ्मुखः अन्तर्मग्नानि वसूनि किरणाः यस्य स तथाभूतः अदन्तः विगळितरदनः परं वैशसं हिंसां च प्राप्तः । तस्मादभिहत इति मन्ये इति योजना ।
पक्षे-- विवस्वानित्याकारकश्शब्दः विमुखः विकारो मुखे यस्य स तथोक्तः परं परत्र विद्यमानं शसं शस्प्रत्ययं द्वितीयाबहुवचनं प्राप्तः अदन्तः अत् इत्याकारकवर्णद्वयं अन्ते यस्य स तथोक्तः वै इति निपातः प्रसिद्धौ शस्परकत्वे, विवस्वत् इत्यवस्थानात्तथोक्तिः । शस् इत्युपलक्षणं टादीनामपि । सर्वनामस्थानपरकत्वे नुमो विधानेन अदन्तताया अश्रवणात् शसं परं प्राप्तः अदन्त इत्यभिहितम् । अत्र विवस्वतो भगवच्चक्रसमाहतत्वं विमुखत्वादिहेतुभिस्साध्यते ॥
अत्रेदमवधेयम्-- जानन्ति मन्ये इत्यादिपदोपादाने वाच्यमनुमानं, यथा 'सामोदबाष्पपूरैः' इत्याद्युदाहरणेषु । प्रकाशयतीत्यादिलक्षकपदोपादाने लक्ष्यं, यथा ‘भुवनतलम्’ इति प्राथमिकोदाहरणे । तदन्यतरानुपादाने साध्याक्षिप्तायामनुमितौ प्रतीयमानम् ॥तद्यथा--
त्वच्चरणरुचितुलायां हरे प्रवालो बहिष्कृतिं प्राप्तोऽभूत् । प्रमुखस्सन्वामध्यो यद्भजतेऽलं विसर्गमेवान्तेऽसौ ॥ २०३२ ॥
अत्र साध्येन हरिचरणतुलाबहिष्कृतत्वेनानुमितेराक्षेपात्प्रतीयमानत्वम् । हे हरे! प्रवालः विद्रमः त्वच्चरणरुचितुलायां बहिष्कृतिं प्राप्तः । यत् यस्मात् असौ प्रवालः प्रमुखस्सन्वा सर्वैरग्रतो गणनीयो भवन्नपि मध्यः केनापि निहीनकर्मणा अधमस्खन्नित्यर्थः । ‘मध्यं न्याय्येऽवकाशेऽवलग्नके लग्नकेऽवमे' इति विश्वः । अतएव अन्ते पर्यवसाने दूरे वा अलं विसर्गमेव सर्वैरतिमात्रं विसृष्टत्वमेव भजते । पक्षे प्रवालः प्रवालशब्दः प्रमुखः प्रवर्णमुखः वामध्यः वा इत्याकारकवर्णो मध्यो यस्य स तथोक्तः लं लवर्णं अन्ते अवसाने विसर्गं च भजते इत्यर्थः ॥
यथावा--
तावकवचनामृतरससंस्पर्धी ननु वनप्रियो जननि । नप्रिय एवावगतो नेतः प्रीतो यतोऽन्ततो भाति ॥ २०३३ ॥
ननु जननि! तावकवचनामृतरससंस्पर्धी वनप्रियः नप्रिय एव प्रीत्यविषय एव अवगतः निश्चितः । यतः कारणात् अन्ततः साधु विमर्शेऽपीति यावत् । इतः अस्मात् वनप्रियात् प्रीतः संतुष्टः जनः न भाति कश्चिदप्यनेन तोषितः क्वापि न प्रकाशत इत्यर्थः । तस्मात् वनमात्रप्रियोऽयं न जनप्रिय इति भावः । अन्यत्र वनप्रिय इति शब्दः अवगतः वगतः वकारं प्राप्तः स नभवतीति तथोक्तः नप्रिय एव वकारलोपे नप्रिय इत्येवावशिष्ट इत्यर्थः । किंच नेतः नकारेण युक्तः प्रीतः प्रि इति वर्णसमुदायेन युक्तः अन्ततः यतः यकारेण सार्वविभक्तिकस्तसिः । भाति । वनप्रियशब्दस्यैवंविधत्वादिति भावः । अत्र वनप्रियो नप्रियः श्रीवचनरससंस्पर्धित्वेन कस्यापि प्रीत्यनाधायकत्वादित्यनुमितेराक्षेपात्प्रतीयमानत्वं पूर्ववदेव । एवमग्रेऽपि ॥
यथावा--
श्रुतिराह सुमज्जानिं पुमांसमत्रोपसर्जनीभूता । सुमती पुंवत्प्रथते परतन्त्रत्वं तदेनयोस्तुल्यम् ॥
श्रुतिः 'सुमज्जानये विष्णवे' इति श्रुतिः पुमांसं परमपुरुषं श्रीविष्णुं सुमज्जानिं सुमती शोभनवती जाया यस्य तं तथोक्तं कल्याणगुणशालिश्रीसहधर्मिणीकमित्यर्थः । आह । अत्र अनयोः श्रीश्रीनिवासयोर्मध्ये उपसर्जनीभूता भगवद्विशेषणीभूता सुमती श्रीः पुंवत् परमपुरुषवदेव प्रथते सर्वेश्वरत्वसर्वव्यापकत्वादिना प्रसिद्ध्यति । 'ईशानो भूतभव्यस्य, एष सर्वेश्वरः' इति भगवत इव ‘अस्येशाना जगतः' ईश्वरीग्ं सर्वभूतानां' इत्यादिना श्रियोऽपि सर्वेश्वरत्वश्रवणात् ॥
"गुणतश्च स्वरूपेण व्याप्तिस्साधारणी मता |
'विष्णुपत्नी' इति श्रियोऽपि प्राधान्यश्रवणात् । तत् तस्मात् एनयोः श्रीश्रीशयोरुभयोरपि परतन्त्रत्वं अन्योन्यं पराधीनत्वं तुल्यम् । "त्वयि स्त्रीत्त्वैकान्तान्म्रदिमपतिपारार्थ्यकरुणाक्षमादीन्वा भोक्तुं भवति युवयोरात्मनि भिदा । यस्या वीक्ष्य मुख तदिङ्गितपराधीनो विधत्तेऽखिलं । यद्भ्रूभङ्गाः प्रमाणं स्थिरचररचनातारतम्ये मुरारेः” इत्याद्युक्तेरिति भावः ॥
अहं तया समाक्रान्तो ह्यहमर्थः प्रसिध्यति । |
इति लक्ष्मीतन्त्राद्युक्तमपीहानुकूलम् ॥
पक्षे-- श्रुतिः पुमांसं पुंल्लिङ्गं सुमज्जानिं सुमज्जानिशब्दं आह । अत्र बहुव्रीहिसमासं प्राप्ते सुमज्जानिशब्दे उपसर्जनीभूता विशेषणतामापन्ना सुमती सुमतीति शब्दः पुंवत् प्रथते । ‘स्त्रियाः पुंवद्भाषितपुंस्कात्' इत्यादिना विहितं पुंवद्भावं प्राप्ता प्रकाशते । तत् तस्मात् एनयोः सुमज्जानिशब्दयोः परतन्त्रत्वं अन्यपदार्थप्रधानत्वं तुल्यं ‘अन्यपदार्थप्रधानो बहुव्रीहिः’ इत्युक्तेरिति भावः । ‘तन्त्रे प्रधाने सिद्धान्ते' इत्यमरः । अत्र श्रीश्रीशयोरन्योन्यपारतन्त्र्यं साध्यम् । इमौ श्रीश्रीशौ अन्योन्यपारतन्त्र्यवन्तौ समप्रधानैश्वर्यव्याप्त्यादिमत्त्वादिति प्रयोगः । अत्रापि वाचकपदानुपादानात्प्रतीयमानमनुमानम् ॥
यथावा--
तावकवर्णप्रेप्सुः पुरतो नीतैव शान्तिमत्त्वं यदगात् । श्रीरुत्तमवरवर्णिनि निशा निराशा तदन्तरावर्णाप्तौ ॥ २०३५ ॥हे उत्तमवरवर्णीनि! वरः श्रेष्ठः वर्णः सोऽस्या अस्तीति वरवर्णिनी । प्रशंसायां मत्वर्थीय इनिः । ‘उत्तमा वरवर्णिनी' इत्यमरः । उत्तमा च सा वरवर्णिनी च ‘सन्महत्परमोत्तम' इत्यादिना समासः । तस्यास्संबुद्धिः । तास्वप्युत्तमेत्यर्थः । 'सीता नारीणामुत्तमा वधूः' इत्येतदत्र स्मर्तव्यम् । हे श्रीः ! यत् यस्मात् निशा हरिद्रा ‘निशाख्या कञ्चनी पीता हरिद्रा वरवर्णिनी' इत्यमरः । तावकं वर्णं प्रेप्सुः लिप्सुस्सती आत्मनः केवलवरवर्णिनीत्वेन उत्तमवरवर्णिन्यास्तव ‘हिरण्यवर्णां, आदित्यवर्णे’ इत्यादिश्रुतं अत्युत्तमं वर्णं प्राप्तुमिच्छन्तीति भावः । पुरतः तवाग्रतः नीतैव प्रापितमात्रैव न तु स्वाभीप्सितलाभार्थमुद्युञ्जानेति भावः । शान्तिरस्यास्तीति शान्तिमत् 'शरदः कृतार्थता' इत्यादाविव सामान्ये नपुंसकम् तस्य भावः शान्तिमत्वं शान्तत्वमित्यर्थः । परोक्षं त्वद्वर्णलाभे सुलभं मनोरथमात्रं कृतवती । 'सूर्यां हिरण्मयीम्’ इति सूर्यवत्प्रकाशमानत्वेन सूर्यरूपत्वेन वा श्रुतायास्तव संनिधौ विच्छायत्वमभजतेति भावः । प्रसिद्धं हि सूर्यप्रभालीढाया हरिद्राया विच्छायत्वम् । तत् तस्मात् अन्तरा त्वद्वर्णप्रेप्सात्वत्पुरोनयनयोर्मध्ये । 'अथान्तरेऽन्तरा । अन्तरेण च मध्ये स्युः' इत्यमरः । वर्णस्य स्वप्रेप्सितस्य तावकवर्णस्येति भावः । आप्तौ प्राप्तौ विषये निराशा निर्गळिततृष्णैवेति मन्ये इति भावः ॥
पक्षे— निशा निशेति शब्दः पुरतः प्रथमभागे नीता नि इत्याकारकवर्णेन इता शा शाइत्याकारो वर्णः अन्तिमः जघन्यः यस्य तत् तस्य भावं शान्तिमत्त्वं अगात् निशाशब्दस्य उक्तवर्णद्वयात्मकत्वादिति भावः । अन्ते स्वघटकनिशावर्णयोरन्तरे 'अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽग्रेऽन्तिकेऽन्तरे' इति रत्नमाला । राइत्याकारको यो वर्णः तस्य आप्तौ सत्यां निराशेत्येव स्यादित्यर्थोऽपि चमत्कारकः । अत्र भगवत्याः श्रियो वर्णस्य प्राप्तौ निशा निराशैव । तत्सांनिध्यमात्रेण शान्तिमत्तावाप्तेरित्यनुमानाकारः प्रतीयते ॥
यथावा--
भगवति तव पदरुच्या भातत्वाद्भास्करोऽपि तस्कर एव । यदयं गुणसंदानितकरोऽपराङ्गेऽन्तरेऽसतां गमितश्च ॥ २०३६ ॥
हे भगवति । तव पदरुच्या चरणलक्ष्म्या भातत्वात् भास्करोऽपि तस्कर एव चोर एव । अन्यथा अस्य त्वत्पदलक्ष्मीभातत्वायोगादिति भावः । साध्ये तस्करत्वे हेत्वन्तरं चाह-- यदिति । यत् यस्मात् अयं भास्करः अपराङ्गे पृष्ठभागे गुणेन रज्ज्वा संदानिताः बद्धाः कराः हस्ताः यस्य स तथोक्तः । दृश्यते हि परस्वस्तेयकृतां पश्चादाकृष्टभुजतया रज्जुभिः पाणिबन्धनम् । असतां असाधूनामेवंविधानां तस्कराणामेवेति भावः । अन्तरे मध्ये गमितश्च । कर्मण आधारत्वविवक्षया सप्तमा । यद्वा सतामित्येव छेदः । विदुषामित्यर्थः । अन्तरे बहिःप्रदेशे गमितः सद्भिर्बहिष्कृत इत्यर्थः ॥
अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये । |
अन्यत्र भास्कर इति शब्दः भातत्वात् भाकारस्य तकारत्वा , भाकारमपनीय तत्रैव तकारविन्यसनात् पदरुच्याः इति छेदः पदेषु सुप्तिङन्तात्मकेषु रुचिः अभिलाषः यस्याः तथोक्तायाः पदपरिवृत्तिवैचित्र्यादिकुतूहलिन्या इति यावत् । तव भवत्याः तस्करः तस्कर इत्येव शब्दो भवति । किंच यत् यस्मात् अयं तस्करशब्दतामापन्नो भास्करशब्दः अपराङ्गे उत्तरभागे गुणेन ‘दिवाविभानिशा’ इत्यादिसूत्रविहितार्धधातुकटप्रत्ययनिमित्तकेन लघूपधगुणेन संदानितः युक्तः करः कुञ्धातुप्रकृतिकाकरेति शब्दः यस्य स तथोक्तः । अन्तरेसतामिति समस्तं पदम् । अन्तरे इत्येतदेदन्तमव्ययं मध्ये इत्यर्थकम् । ‘अथान्तरेऽन्तराः अन्तरेण च मध्ये स्युः' इत्यव्ययेष्वमरः । अन्तरे मध्ये सः 'कस्कादिषु च' इति विहितस्सकारः ‘तद्बृहतोः' इति विहितस्सुट्संबन्धिसकारश्च यस्य स तथोक्तः । तस्य भावः अन्तरेसता तां गमितः प्रापित इत्यर्थः । इदमप्याक्षिप्तमेवानुमानम् ॥
यथावा--
त्वत्कीर्तिसुधाम्भोधश्शीतकरोऽयं कणः फणिगिरीन्दो । यत एष शीकर इति स्वत एव मनीषिभिर्व्यवह्रियते ॥ २०३७ ॥
हे फणिगिरीन्दो! शीतकरः त्वत्कीर्तिसुधाम्भोधेः कणः । इदं साध्यं । तत्र हेतुः यत इति । यतः यस्मात् एषः शीतकरः स्वत एव शीकर इति मनीषिभिर्व्यवह्रियते । वस्तुतस्तु अतः अविद्यमानतकारः सुष्ठु अतः स्वतः विगळिततकारोऽयं शीतकरशब्दः शीकर इति व्यवह्रियत इत्यर्थः ॥यथावा--
लोपमुपयान्ति तापास्तमांसि सकलानि यद्गळन्तितमाम् । तदमीषां लसति सतां हृदयाकाशे विधुस्सदा विमले ॥ २०३८ ॥
अत्र साध्ये विधुविलसनेनानुमितेराक्षेपात्प्रतीयमानत्वम् । सन्तो हृदयाकाशविलसद्विधुत्ववन्तः लुप्ततापत्वात् गळिततमस्कत्वाच्चेति प्रयोगः । श्लेषरूपकसंकीर्णमिदम् । यत्र साध्यस्याप्यनुपात्तत्वे लिङ्गमात्रस्योपात्तत्वेनागूर्यमाणं साध्यं तत्र ध्वन्यनुमानम् ॥
यथावा--
बृंहन्ति दन्तिनिवहा ह्रेषन्ते हन्त सन्ततं वाहाः । गृहचत्वरेषु महतां बहुसत्वरगा रथाश्च विहरन्ते ॥ २०३९ ॥
अत्र महतां लक्ष्मीकटाक्षपात्रत्वरूपसाध्यस्थानुमानं ध्वन्यते ॥
इत्यलंकारमणिहारे अनुमानसरस्त्रयोदशोत्तरशततमः.