अर्धनारीश्वराष्टोत्तरशतनामस्तोत्रम्

विकिस्रोतः तः
अर्धनारीश्वराष्टोत्तरशतनामस्तोत्रम्
स्कन्दपुराणम्
१९५३

॥ अर्धनारीश्वराष्टोत्तरशतनामस्तोत्रम् ॥



चामुण्डीकाम्बा श्रीकण्ठः पार्वती परमेश्वरः ।
महाराज्ञी महादेवस्सदाराध्या सदाशिवः ॥ १
शिवार्धाङ्गी शिवार्धाङ्गो भैरवी कालभैरवः ।
शक्तित्रितयरूपाढ्या मूर्तित्रितयरूपवान् ॥ २
कामकोटिसुपीठस्था काशीक्षेत्रसमाश्रयः ।
दाक्षायणी दक्षवैरी शूलिनी शूलधारकः ॥ ३
ह्रीङ्कारपञ्जरशुकी हरिशङ्कररूपवान् ।
श्रीमद्गणेशजननी षडानन सुजन्मभूः ॥ ४
पञ्चप्रेतासनारूढा पञ्चब्रह्मस्वरूपभृत् ।
चण्डमुण्डशिरश्छेत्री जलन्धरशिरोहर:॥ ५
सिह्मवाहा वृषारूढश्यमाभा स्फटिकप्रभः ।
महिषासुरसंहर्त्री गजासुरविमर्दनः ।। ६
महाबलाऽचलावासा महाकैलासवासभूः ।
भद्रीकाळी वीरभद्रो मीनाक्षी सुन्दरेश्वरः ॥ ७

अर्धनारीश्वराष्टोत्तरशतनामस्तोत्रम् ४०५


भण्डासुरादिसंहर्त्री दुष्टान्धकविमर्दनः ।
मधुकैटभसंहर्त्री मधुरापुरनायकः ॥ ८
कालत्रयस्वरूपाढ्या कार्यत्रयविधायकः ।
गिरिजाता गिरीशश्च वैष्णवी विष्णुवल्लभः ॥ ९
विशालाक्षी विश्वनाथः पुष्पास्त्रा विष्णुमार्गणः ।
कौसुम्भवसनोपेता व्याघ्रचर्माम्बरावृतः ॥ १०
मूलप्रकृतिरूपाढ्यापरब्रह्मस्वरूपवान् ।
रुण्डमालाविभूषाढ्या लसद्रुद्राक्षमालिकः ॥ ११
मनोरूपेक्षुकोदण्डा महामेरुधनुर्धरः ।
चन्द्रचूडा चन्द्रमौळिर्महामाया महेश्वरः ॥ १२
महाकाळी महाकाळो दिव्यरूपा दिगम्बरः ।
बिन्दुपीठसुखासीना श्रीमदोङ्कारपीठगः ॥ १३
हरिद्रा कुङ्कुमालिप्ता भस्मोद्धूळितविग्रहः ।
महापद्माटवीलोला महाबिल्वाटवीप्रियः ।। १४
सुधामयी विषधरो मातङ्गी मकुटेश्वरः ।
वेदवेद्या वेदवाजी चक्रेशी विष्णुचक्रदः ॥ १५

४०६ बृहत्स्तोत्ररत्नाकरे -प्रथमभाग:


जगन्मयी जगद्रूपो मृडाणी मृत्युनाशनः ।
रामार्चितपदाम्भोजा कृष्णपुत्रवरप्रदः ॥ १६
रमावाणी सुसंसेव्या विष्णुब्रह्मसुसेवितः ।
सूर्यचन्द्राग्निनयना तेजस्त्रयविलोचनः ।। १७
चिदग्निकुण्डसम्भूता महालिङ्गसमुद्भवः।
कम्बुकण्ठी कालकण्ठो वज्रेशी वज्रिपूजितः ॥ १८
त्रिकण्टकी त्रिभङ्गीशः भस्मरक्षा स्मरान्तकः ।
हयग्रीववरोद्धात्री मार्कण्डेयवरप्रदः॥ १९
चिन्तामणिगृहावासा मन्दराचलमन्दिरः ।
विन्ध्याचलकृतावासा विन्ध्यशैलार्यपूजितः ॥ २०
मनोन्मनी लिङ्गरूपो जगदम्बा जगत्पिता।
योगनिद्रा योगगम्यो भवानी भवमूर्तिमान् ॥ २१
श्रीचक्रात्मरथारूढा धरणीधरसंस्थितः।
श्रीविद्यावेद्यमहिमा निगमागमसंश्रयः ।। २२
दशशीर्षसमायुक्ता पश्चविंशति शीर्षवान् ।
अष्टादशभुजायुक्ता पञ्चाशत्करमण्डितः॥ २३

अर्धनारीश्वराष्टोत्तरशतनामस्तोत्रम् ४०७


ब्राह्मयादि मातृकारूपा शताष्टेका दशात्मवान् ।
स्थिरा स्थाणुस्तथा बाला सद्योजात उमा मृडः ॥ २४
शिवा शिवश्व रुद्राणी रुद्रश्चैवेश्वरीश्वरः ।
कदम्बकाननावासा दारुकारण्यलोलुपः ॥ २५
नवाक्षरीमनुस्तुत्या पञ्चाक्षरमनुप्रियः ।
नवावरणसम्पूज्या पञ्चायतनपूजितः ॥ २६
देहस्थषटूचक्रदेवी दहराकाशमध्यगः ।
योगिनी गणसंसेव्या भृग्वादिप्रमथावृतः ॥ २७
उग्रत्ताराघोररूपश्शर्वाणी शर्वमूर्तिमान् ।
नागवेणी नागभूषो मन्त्रिणी मन्त्रदैवतः ॥ २८
ज्वलज्जिह्वा ज्वलन्नेत्रो दण्डनाथा दृगायुधः ।
पार्थाञ्जनास्त्रसन्दात्री पार्थपाशुपतास्त्रदः ।। २९
पुष्पवच्चक्रताटङ्का फणिराजसुकुण्डलः।
बाणपुत्री वरोद्धात्री बाणासुरवरप्रदः ॥ ३०
व्याळकञ्चुकसंवीता व्याळयज्ञोपवीतवान् ।
नवलावण्यरूपाढ्या नवयौवनविग्रहः ॥ ३१

४०८ बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


नाठ्यप्रिया नाठ्यमूर्तिस्त्रिसन्ध्या त्रिपुरान्तकः ।
तन्त्रोपचारसुप्रीता तन्त्रादिमविधायकः ।। ३२
नववल्लीष्टवरदा नववीरसुजन्मभूः ।
भ्रमरज्या वासुकिज्यो भेरुण्डा भीमपूजितः ॥ ३३
निशुम्भशुम्भदमनी नीचापस्मारमर्दनः ।
सहस्राराम्बुजारूढा सहस्रकमलार्चितः ॥ ३४
गङ्गासहोदरी गङ्गाधरो गौरी त्रियम्बकः ।
श्रीशैलभ्रमराम्बाख्या मल्लिकार्जुनपूजितः ॥ ३५
भवतापप्रशमनी भवरोगनिवारकः ।
चन्द्रमण्डलमध्यस्था मुनिमानसहंसकः ॥ ३६
प्रत्यङ्गिरा प्रसन्नात्मा कामेशी कामरूपवान् ।
स्वयम्प्रभा स्वप्रकाशः कालरात्री कृतान्तहृत् ॥३७
सदान्नपूर्णा भिक्षाटो वनदुर्गा वसुप्रदः ।
सर्वचैतन्यरूपाढ्या सच्चिदानन्दविग्रहः ॥ ३८
सर्वमङ्गळरूपाढ्या सर्वकल्याणदायकः ।

अर्धनारीश्वराष्टोत्तरशतनामस्तोत्रम् ४०९


राजराजेश्वरी श्रीमद्राजराज प्रियङ्करः॥ ३९
अर्धनारीश्वरस्येदं नाम्नामष्टोत्तरं शतम् ।
पठन्नर्चन्सदा भक्त्या सर्वसाम्राज्यमाप्नुयात् ॥ ४०

॥इति श्रीस्कान्दे अर्धनारीश्वराष्टोत्तरशतनामस्तोत्रम् ॥