अर्धनारीश्वरस्तोत्रम् (मूलसहितम्)

विकिस्रोतः तः
अर्धनारीश्वरस्तोत्रम्
शङ्कराचार्यः
१९१०

॥ श्री ॥
॥ अर्धनारीश्वरस्तोत्रम् ॥


चाम्पेयगौरार्धशरीरकायै
कर्पूरगौराधशरीरकाय ।
धम्मिल्लकायै च जटाधराय
नमः शिवायै च नम शिवाय ॥१॥

कस्तूरिकाकुङ्कुमचर्चितायै
चितारज पुञ्जविधर्चिताय ।
कृतस्मरायै विकृतस्मराय
नम शिवायै च नम शिवाय ॥२॥

झणस्कणत्कङ्कणनूपुरायै
पादाब्जराजत्फणिनूपुराय ।
हेमाङ्गदायै भुजगाङ्गदाय
नम शिवायै च नम शिवाय ॥३॥

विशालनीलोत्पललोचनायै
विकासिपङ्केरुहलोचनाय ।
समेक्षणायै विषमेक्षणाय
नम शिवायै च नम शिवाय ॥४॥

मन्दारमालाकलितालकायै
कपालमालावितकन्धराय ।
दिव्याम्बरायै च दिगम्बराय
नम शिवायै च नम शिवाय ॥५॥

अम्भोधरश्यामलकुन्तलायै
तटित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलेश्वराय
नम शिवायै च नम शिवाय ॥६॥

प्रपञ्चसृष्ट्युन्मुखलास्यकाचे
समस्तसहारकताण्डवाय ।
जगज्जनन्यै जगदेकपित्रे
नम शिवायै च नम शिवाय ॥७॥

प्रदीप्तरबोज्ज्वलकुण्डलायै
स्फुरन्महापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय
नम शिवायै च नम शिवाय ॥८॥

एतत्पठेदष्ठकमिष्टद या
भक्त्या स मान्यो भुवि दघिजीवी ।
प्राप्नोति सौभाग्यमनन्तकाल
भूयात्सदा तस्य समस्तसिद्धि ॥९॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवत कृतौ अर्धनारीश्वरस्तोत्रम् संपूर्णम् ॥