अर्धनारीश्वरस्तोत्रम् (बृहत्स्तोत्ररत्नाकरान्तर्गतम्)

विकिस्रोतः तः
अर्धनारीश्वरस्तोत्रम्
शङ्कराचार्यः
१९५३

॥ अर्धनारीश्वरस्तोत्रम् ॥

चाम्पेयगौरार्धशरीरकायै
कर्पूरगौरार्धशरीरकाय ।
धम्मिल्लकायैच जटाधराय
नमः शिवायै च नमः शिवाय ॥१
कस्तूरिकाकुङ्कुमचर्चितायै
चितारजापुञ्जविचर्चिताय ।
कृतस्मरायै विकृतस्मराय नमः ...॥२
झणत्क्वणत्कङ्कणनूपुरायै
पादाब्जराजस्फणिनूपुराय ।
हेमाङ्गदायै भुजगाङ्गदाय नमः ...॥ ३
विशालनीलोत्पललोचनायै
विकासिपङ्केरुलोचनाय ।
समेक्षणायै विषमेक्षणाय नमः ...॥ ४
मन्दारमालाकलितालकाय
कपालमालाङ्कितकन्धराय ।
दिव्याम्बरायै च दिगम्बराय नमः ...॥ ५

अम्भोधरश्यामलकुन्तलायै
तटित्प्रभाताभ्रजटाधराय ।
निरीश्वरायै निखिलेश्वराय नमः ...॥ ६
प्रपञ्चसृष्ट्युन्मुखलास्यकायै
समस्तसंहारकताण्डवाय ।
जगजनन्यै जगदेकपित्रे नमः ... ॥७
प्रदीप्तरत्नोज्ज्वलकुण्डलायै
स्फुरन्महापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय नमः ...॥८
एतत्पठेदष्टकमिष्टदं यो
भक्त्या स मान्यो भुवि दीर्घजीवी।
प्राप्नोति सौभाग्यमनन्तकालं
भूयात्सदा तस्य समस्तसिद्धिः ॥ ९

॥ इति श्रीमच्छङ्कराचार्यविरचितं अर्धनारीश्वरस्तोत्रं सम्पूर्णम् ॥