अर्थसंग्रहः

विकिस्रोतः तः

अर्थसङ्ग्रहः

मङ्गलाचरणम्[सम्पाद्यताम्]

वासुदेवं रमाकान्तं नत्वा लौगाक्षिभास्करः । कुरुते जैमिनिनये प्रवेशायार्थसङ्ग्रहम् ॥१॥

तन्त्रारम्भकसूत्रावतरणम्[सम्पाद्यताम्]

अथ परमकारुणिको भगवाञ्जैमिनिः धर्मविवेकाय द्वादशलक्षणीं प्रणिनीय तत्रादौ धर्मजिज्ञासां सूत्रयामास - ‘अथातो धर्मजिज्ञासा’ (जै.सू.१.१.१) इति। अत्र ‘अथ’ शब्दो वेदाध्ययनान्तर्यवचनः। ‘अतः’ शब्दो हि वेदाध्यनस्य दृष्टार्थत्वं ब्रूते ।

धर्मविचारशास्त्रस्य आवश्यकता[सम्पाद्यताम्]

‘स्वाध्यायोऽध्येतव्यः’(तै.आ. २.१५.७; श.ब्र. ११.५.६.३.) इत्यध्यनविधौ, तदध्ययनार्थज्ञानरूपदृष्टार्थकत्वेन व्यवस्थापनात्। तथा च- वेदाध्यनानन्तरं यतोऽर्थज्ञानरूपदृष्टार्थकं तदध्ययनम्, अतो हेतोर्धर्मस्य जिज्ञासा ‘कर्त्तव्या’ इति शेषः। जिज्ञासापदस्य विचारे लक्षणा। अतो धर्मविचारशास्त्रमिदमारम्भणीयमिति शास्त्रारम्भसूत्रार्थः।

धर्मलक्षणप्रश्नः[सम्पाद्यताम्]

अथ को धर्मः ? किं तस्य लक्षणम् ? इति चेत्, उच्यते - यागादिरेव धर्मः । तल्लक्षणम् - वेदप्रतिपाद्यः प्रयोजनवदर्थो धर्मः । प्रयोजनेऽतिव्याप्तिवारणाय वेदप्रतिपाद्य इति । भोजनादावतिव्याप्तिवारणाय ‘वेदप्रतिपाद्यः’ इति । अनर्थफलकत्वादनर्थभूते श्येनादावतिव्याप्तिवारणाय ‘अर्थः’ इति ।

वेदस्य धर्मप्रतिपादकत्वम्[सम्पाद्यताम्]

न च ‘चोदनालक्षणोऽर्थो धर्मः’ (जै.सू. १.१.२) इति सौत्रतल्लक्षणविरोधः, चोदनापदस्य विधिरूपवेदैकदेशपरत्वात् इति वाच्यम् । तत्रापि चोदनाशब्दस्य वेदमात्रपरत्वात्। वेदस्य सर्वस्य धर्मतात्पर्यत्वेन धर्मप्रतिपादकत्वात् । स च यागादिः ‘यजेत स्वर्गकामः’ इत्यादिवाक्येन स्वर्गमुद्दिश्य पुरुषं प्रति विधीयते। तथा हि - ‘यजेत’ इत्यत्रास्त्यंशद्वयम् ‘यजि’ धातुः, प्रत्ययश्च । प्रत्ययेऽप्यस्त्यंशद्वयम् ‘आख्यातत्वं’, ‘लिङ्त्वं च’ । तत्राख्यातत्वं दशलकारसाधारणम्, लिङ्त्वं पुनर्लिङ्मात्रे ।

भावनाविचारः[सम्पाद्यताम्]

उभाभ्यामप्यंशाभ्यां भावना एव उच्यते । भावनालक्षणम् - भवितुः भवनानुकूलो भावयितुः व्यापारविशेषः । सा द्विधा - ‘शाब्दीभावना’, ‘आर्थीभावना’ चेति ।

शाब्दीभावना[सम्पाद्यताम्]

तत्र पुरुषप्रवृत्यनुकूलो भावयितुः व्यापारविशेषः शाब्दीभावना । स च लिङशेनोच्यते । लिङ्श्रवणे ‘अयं मां प्रवर्तयति’, ‘मत्प्रवृत्त्यनुकूलव्यापारवानयम्’ इति नियमेन प्रतीतेः। यद्यस्माच्छब्दान्नियमतः प्रतीयते तत्तस्य वाच्यम्। यथा - ‘गामानय’ इत्यस्मिन् वाक्ये गोशब्दस्य ‘गोत्वम्’। स च व्यापारविशेषो लौकिकवाक्ये पुरुषनिष्ठोऽभिप्रायविशेषः । वैदिकवाक्ये तु पुरुषाभावात् लिङ्गादिशब्दनिष्ठ एव । अत एव शाब्दी भावना इति व्यवह्रियते । सा च भावना अंशत्रयम् अपेक्षते । साध्यं साधनम् इति कर्तव्यतां च । किं भावयेत् ? केन भावयेत् ? कथं भावयेत् ? इति । तत्र साध्याकाङ्क्षायां वक्ष्यमाणांशत्रयोपेतां आर्थीभावना साध्यत्वेन अन्वेति एकप्रत्ययगम्यत्वेन समानाभिधानश्रुतेः । संख्यादीनामेकप्रत्ययगम्यत्वेऽप्ययोग्यत्वात् न साध्यत्वेन अन्वयः । साधनाकाङ्क्षायां लिङादिज्ञानं करणत्वेन अन्वेति । तस्य च करणत्वं न भावनोत्पादकत्वेन, तत्पूर्वमपि तस्याः शब्दे सत्वात् । किन्तु भावना ज्ञापकत्वेन शब्दभावनाभाव्यनिवर्तकत्वेन वा । इति कर्तव्यताकाङ्क्षायामर्थवादज्ञाप्यप्राशत्यमितिकर्तव्यतात्वेन अन्वेति ।

आर्थीभावना[सम्पाद्यताम्]

प्रयोजन इच्छाजनितक्रियाविषयव्यापार आर्थीभावना । सा च आख्यातत्व अंशेन उच्यते आख्यातसामान्यस्य व्यापारवाचित्वात् । साप्यंशत्रयम् अपेक्षते । साध्यं साधनम् इति कर्तव्यतां च । किं भावयेत् ? केन भावयेत् ? कथं भावयेत् ? इति । तत्र साध्याकाङ्क्षायां स्वर्गादिफलं साध्यत्वेन अन्वेति । साधनाकाङ्क्षायां यागादिः करणत्वेन अन्वेति । इति कर्तव्यताकाङ्क्षायां प्रयाजादि अङ्गजातमिति कर्तव्यतात्वेन अन्वेति ।

वेदलक्षणविचारः[सम्पाद्यताम्]

अथ को वेदः ? इति चेत् । उच्यते - अपौरुषेयं वाक्यं वेदः । स च विधि- मन्त्र- नामधेय-निषेध-अर्थवादभेदात् पञ्चविधः ।

विधिमीमांसा[सम्पाद्यताम्]

तत्र अज्ञातार्थज्ञापको वेदभागो विधिः । स च तादृशप्रयोजनवत् अर्थविधानेन अर्थवान् यादृशं च अर्थं प्रमाणान्तरेण अप्राप्तं विधत्ते यथा- “अग्निहोत्रं जुहुयात्स्वर्गकाम” इति विधिः मानान्तरेण अप्राप्तं स्वर्गप्रयोजनवद् होमं विधत्ते अग्निहोत्रहोमेन स्वर्गं भावयेत् इति वाक्यार्थबोधः ।

यत्र कर्म मानान्तरेण प्राप्तं तत्र तदुद्देशेन गुणमात्रं विधत्ते - यथा “दध्ना जुहोति” इत्यत्र होमस्य अग्निहोत्रं जुहुयात् इत्यनेन प्राप्तत्वात् होमोद्देशेन दधिमात्रविधानं ‘दध्ना होमं भावयेत्’ इति । यत्र तु उभयम् प्राप्तं तत्र विशिष्टं विधत्ते - यथा “ सोमेन यजेत्” इत्यत्र सोमयागयोः अप्राप्तत्वात् सोमविशिष्टयागविधानम् । सोमपदे मत्वर्थलक्षणया सोमवता यागेन ईष्टं भावयेत् इति वाक्यर्थबोधः ।

वाक्यभेददोषपरिहारः[सम्पाद्यताम्]

न च उभयविधाने वाक्यभेदः, प्रत्येकम् उभयस्य विधानात्, किन्तु विशिष्टस्यैव विधानात् ।

गुणविध्यादिभेदः[सम्पाद्यताम्]

न च “ज्योतिष्टोमेन स्वर्गकामो यजेत् ” इति विधिप्राप्तयागोद्देशेन सोमरूपगुणविधानमेव अस्तु , सोमेन यागं भावयेदिति किं मत्वर्थलक्षणया इति वाच्यम् । तस्य अधिकारविधित्वेन उत्पत्तिविधित्वेन असंभवात् ।

उभयविधित्वम्[सम्पाद्यताम्]

ननु “उद्भिदा यजेत पशुकाम” इत्यस्येव ज्योतिष्टोमेन इत्यस्य उत्पत्यधिकारविधित्वम् अस्तु इति चेत्, न । दृष्टान्ते उत्पत्तिवाक्यान्तराभावेन अन्यथा अनुपपत्त्या तथात्वाश्रयणात् । किञ्च ज्योतिष्टोमेन इत्यस्य उभयविधित्वे अनेनैव यागस्तस्य फलसम्बन्धोऽपि बोधनीय इति सुदृढो वाक्यभेदः । तद्वरं सोमपदे मत्वर्थलक्षणया विशिष्टविधानम् ।

विधिश्चतुर्विधः[सम्पाद्यताम्]

विधिश्चतुर्विधः - उत्पत्तिविधिः विनियोगविधिः अधिकारविधिः प्रयोगविधिश्चेति ।

उत्पत्तिविधिः[सम्पाद्यताम्]

कर्मस्वरूपमात्रबोधको विधिः उत्पत्तिविधिः । यथा - “अग्निहोत्रं जुहोति” इति । अत्र च विधौ कर्मणः करणत्वेन अन्वयः, अग्निहोत्रहोमेन ईष्टं भावयेत् इति ।

यागस्य रूपद्वयम्[सम्पाद्यताम्]

ननु यागस्य द्वे रूपे द्रव्यं देवता च । तथा च रूपाश्रवणेऽग्निहोत्रं जुहोतीति कथमुत्पत्तिविधिः ? अग्निहोत्रशब्दस्य तु तत्प्रख्यन्यायेन नामधेयत्वादिति चेत् । न । रूपाश्रवणेऽप्यस्योत्पत्तिविधित्वात् । अन्यथा रूपश्रवणात् 'दध्ना जुहोति' इत्ययमेवोत्पत्तिविधिः स्यात् । तथा च 'अग्निहोत्रं जुहोति' इति वाक्यमनर्थकं स्यात् ।

विनियोगविधिः[सम्पाद्यताम्]

अङ्गप्रधानसंबन्धबोधको विधिर्विनियोगविधिः । यथा 'दध्ना जहोति' इति । स हि तृतयिया प्रतिपन्नाङ्गभावस्य दध्नो होमसंबन्धं विधत्ते - दध्ना होमं भावयेदिति । गुणविधौ च धात्वर्थस्य साध्यत्वेनान्वयः । क्वचिदाश्रयत्वेनापि, यथा - ‘दध्नेन्द्रियकामस्य जुहुयात् [ते. ब्रा. २. १. ५. ६]' इत्यत्र दधिकरणत्वेनेन्द्रियं भावयेत्। तच्च किंनिष्ठमित्याकाङ्क्षायां सन्निधिप्राप्तहोम आश्रयत्वेनान्वेति ।।

विनियोगविधेः सहकारिभूतानि श्रुत्यादिषट्प्रमाणानि[सम्पाद्यताम्]

एतस्य विधेः सहकारिभूतानि षट्प्रमाणानि -- श्रुति - लिङग् - वाक्य - प्रकरण - स्थान - समाख्यारूपाणि । एतत्सहकृतेनानेन विधिनाङगत्वं परोद्देशप्रवृत्तकृृतिसाध्यत्वरूपं पारार्थ्यापरपर्यायं ज्ञाप्यते ।

श्रुतिनिर्वचनम्[सम्पाद्यताम्]

तत्र निरपेक्षो रवः श्रुतिः । सा च त्रिविधा - विधात्री, अभिधात्री, विनियोक्त्री च । तत्राद्या लिङाद्यात्मिका द्वितीया व्रीह्यादिश्रुतिः । यस्य च शब्दस्य धवणादेव संवन्धः प्रतीयते सा विनियोक्त्री।

विनियोक्त्री श्रुतिस्त्रिधा[सम्पाद्यताम्]

सापि त्रिविधा - विभक्तिरूपा, एकाभिधानरूपा, एकपदरूपा चेति। तत्र विभक्तिश्रुत्या अङ्गत्वम्, यथा - 'ब्रीहिभियजेत' [आप. श्री. सू. ६. ३१. २४] इति तृतीयाश्रुत्या व्रीहीणां यागाङ्गत्वम् । तदपि पुरोडाशप्रकृतितया । यथा - पशोर्हृदयादिरूपहविः प्रकृतितया यागाङ्गत्वम ।

तृतीयाविभक्तिरूपाय उदाहरणम्[सम्पाद्यताम्]

'अरुणया एकहायन्या गवा सोमं क्रीणाति' [तै. सं. ७. १. ६.२] इत्यस्मिन् वाक्ये आरुण्यस्यापि तृतीयाश्रुत्या क्रयाङ्गत्वम् । तदपि गोरूपद्रव्यपरिच्छेदद्वारा, नतु साक्षात्, अमूर्तत्वात् ।

द्वितीयारूपाया विनियोक्त्र्या उदाहरणम्[सम्पाद्यताम्]

'व्रीहीन् प्रोक्षति [ते. ब्रा. ३. २. ५. ४] इति प्रोक्षणस्य व्रीह्यिङ्गदत्वं द्वितीयाश्रुत्या । तच्च प्रोक्षणं न व्रीहीस्वरूपार्थम्, तस्य तेन विनाप्युपपत्तेः । किंत्वपूर्वसाधनत्वप्रयुक्तम् । व्रीहीनप्रोक्ष्य यागानष्ठाने पूर्वानुपपत्तेः । एवं सर्वेटेष्वङ्गष्वपूर्वप्रयुक्तमहत्व बोध्यम् । एवं 'इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्ते' [तै. सं. ५.१.२.१] इत्यत्र द्वितीययात्रुत्या मन्त्रस्याश्वाभिधान्यङ्गत्वम्।

सप्तमीविभक्तिविनियोक्त्र्या उदाहरणम्[सम्पाद्यताम्]

'यदाहवनीये जुहोति' [ते. ब्रा. १. १. १०.५] इत्याहवनयिस्य होमाङ्गत्वं सप्तमीश्रुत्या । एवमन्योऽपि विभक्तिद्युन्या विनियोगो ज्ञेयः ।

एकाभिधानश्रुतिः[सम्पाद्यताम्]

'पशुना यजेत' [ते. सं. ६. १. ११. ६; मा. श्री. सू. १. ८. ६. २४] इत्यत्रैकत्वपुंस्त्वयोः समानाभिधानश्रुत्या कारकाङ्गत्वम्।

एकपदश्रुतिः।[सम्पाद्यताम्]

यजत' इत्याख्याताभिहितसंख्याया भावनाङ्गत्वं समानाभिधानश्रुतेः, एकपदश्रुत्था च यागाङ्गत्वम् ।

अमूर्तया अपि भावनङ्गत्वम्[सम्पाद्यताम्]

न चामूर्तयास्तस्याः कथं भावनाङ्गत्वमिति वाच्यम् । कर्तृपरिच्छेदद्वारा तदुपपत्तेः । भावनैव आख्यातवाच्या कर्तारमाक्षिपति। कर्ता चाश्चेपलभ्यः । आख्याते न हि भावनोच्यते । सा च कर्तारं विनानुपपन्नेति तमाक्षिपति।

श्रुतिः[सम्पाद्यताम्]

सेयं श्रुतिर्लिङ्गादिभ्यः प्रबला। लिङ्गादिषु न प्रत्यक्षो विनियोजकः शब्दोऽस्ति, किंतु कल्प्यः | यावच्च तैर्विनियोजकशब्दः कल्प्यते, तावत्प्रत्यक्षया श्रुत्या विनियोगस्य कृतत्वेन तेषां कल्पकत्वशक्तेाहतत्वात् । अत एवैन्या लिङ्गान्नेन्द्रोपस्थानार्थत्वम्। किंतु ऐन्द्रया गार्हपत्यमुपतिष्ठते' (मै. सं. ३. २. ४] इत्यत्र गार्हपत्यमिति द्वितीयाश्रुत्या गार्हपत्योपस्थानार्थत्वम।

लिङ्गनिर्वचनम्[सम्पाद्यताम्]

शब्दमामर्थ्यं लिङ्गम् । यथाहुः – 'सामर्थ्यं सर्वशब्दानां (भावाना) लिङ्गमित्यभिधयिते' [तं. वा. २२५, न्यायरत्नमाला १३१] इति। सामर्थ्य रूढिरेव । तेन समाख्यातोऽस्या भेदः, यौगिकशब्दसमाख्यातो रूढ्यात्मकलिङ्गशब्दस्य भिन्नत्वात् । तेन 'बर्हिदेवसदनं दामि' [मै. सं. १.१.२] इति मन्त्रस्य कुशलवनाङ्गत्वं, न तूलपादिलवनाङ्गत्वम् । तस्य 'बर्हिर्दामि इति लिङ्गात्तल्लवनं प्रकाशयितुं समर्थत्वात्। एवमन्यत्रापि लिङ्गाद्विनियोगो द्रुष्टव्यः ।

लिङ्गं वाक्यादिभ्यो बलवत्[सम्पाद्यताम्]

तदिदं लिङ्गं वाक्यादिभ्यो बलवत् । अत एव ‘स्योनं ते सदनं कृणोमि [मा. श्री. स. १. २. ६. १९; तै. ब्रा. ३.७. ५. २-३] इति मन्त्रस्य पुरोडाशसदनकरणाङ्गत्वं 'सदनं कृणोमि' इति लिगात्, न तु वाक्यात् ।।

वाक्यनिर्वचनम्[सम्पाद्यताम्]

समभिव्याहारो वाक्यम् । समभिव्याहारश्च साध्यत्वादिवाचकद्वितीयाद्यभावे ऽपि | वस्तुतः शेषशेषिवाचकपदयोः सहोच्चारणम् । यथा 'यस्य पर्णमयी जुहूर्भवति | न स पापं श्लोकं शृणोति' इति [तै. सं. ३. ५. ७. २] | अत्र पर्णताजुह्वोः समभिव्याहारादेव पर्णताया जुह्वङ्गत्वम् ।

नचानर्थक्यम्| अन्यथापि जुह्वाः सिद्धत्वादिति वाच्यम् । जुहूशब्देन तत्साध्यापूर्वलक्षणात् । तथा च वाक्यार्थः - पर्णतयावत्तहविर्धारणद्वारा जुह्वपूर्वं भावयेदिति । एवं च पार्णतया यदि जहूः क्रियते, तदैव तत्साध्यमपूर्वं भवति, नान्यथेति गम्यते - इति न पर्णताया वैयर्थ्यम्। 'अवत्तहविर्धारणद्वारा इति चावश्यं वक्तव्यम्, अन्यथा नुवादिष्वपि पर्णतापत्तेः । सेयं पर्णता अनारभ्याधोतापि सर्वप्रक्रतिष्वेवान्वेति, न विकृतिषु । तत्र चोदकेनापि तत्प्राप्तिसंभवात्पौनरुक्त्यापत्तेः ।

प्रकृतिविकृतिलक्षणम्[सम्पाद्यताम्]

यत्र समग्राङ्गोपदेशः सा प्रकृतिः, यथा - दशपर्णमासादिः । तत्प्रकरणे सर्वाङ्गपाठात् । यत्र न सर्वाङ्गोपदेशः सा विकृतिः । यथा - सौर्यादिः । तत्र कतिपयाङ्गानामतिदेशेन प्राप्तत्वात् । अनारभ्यविधिः समान्यविधिः।

वाक्यं प्रकरणादिभ्यो बलवत्[सम्पाद्यताम्]

तदिदं वाक्यं प्रकरणादिभ्यो बलवत् । अत एवेन्द्राग्नी इदं हवि - [ते. ब्रा. ३. ५. १०. ३] इत्यादेरेकवाक्यत्वाद्दर्शाङ्गत्वं, न तु प्रकरणाद्दर्शपूर्णमामाङ्गत्वम् ।।

प्रकरणनिरूपणम्[सम्पाद्यताम्]

उभयाकाङ्क्षा प्रकरणम् । यथा प्रयाजादिषु समिधो यजती'-(तै. सं. २. ६. १. १] इत्यादिवाक्ये फलाविशेषस्यानिर्देशात् ‘समिद्यागेन भावयेदिति बोधानन्तरं 'किमिति' उपकार्याकाङ्क्षा । दर्शपूर्णमासवाक्येऽपि 'दर्शपूर्णमासाभ्यां स्वर्गं भावयेदिति [आ श्री सू ३ १४ ८१] बोधानन्तर 'कथम्" इत्यपकारकाकाङ्क्षा । इत्थं चोभयाकाङ्क्षया प्रयाजादीनां दर्शपूर्णमासाङ्गत्वम्।

प्रकरणद्वैविध्यम्[सम्पाद्यताम्]

तच्च प्रकरणं द्विविधम् - महाप्रकरणम्, अवान्तरप्रकरणं चेति । महाप्रकरणम् तत्र मुख्ययभायनासंबन्धिप्रकरां महाप्रकरगाम् । तेन च प्रयाजादीनां दर्शपूर्णमासाङ्गत्वम् । एतच्च प्रक्रतावब, उभयाकाङ्क्षायाः संभवात्, न तु विकृतौ । तत्र 'प्रकृतिवद्विकृतिः कर्तव्य' इत्यतिदेशेन कथभावाकाङ्क्षाया उपशमेनापूर्वाङ्गानामप्युभयाकाङ्क्षया विनियोगासंभवात। तस्मादपूर्वाङ्गानां स्थानादेव विकृत्यर्शत्वमिति । अवान्तरप्रकरणम्। अङ्गभावनासंबन्धिप्रकरणमवान्तरप्रकरणम् । तेन चाभिक्रमणादीनां प्रयाजाद्यङ्गत्वम । तच्च सन्दशेनैव ज्ञायते । तदभावे चाविशेषात् सर्वेषां फलभावनाकथंभावेन ग्रहणप्रसङ्गेन प्रधानाङ्गत्वापत्तेः ।

संदंशलक्षणम्[सम्पाद्यताम्]

एकाङ्गानुवाढेन विधीयमानयोरङ्गयोरन्तराले विहितत्वं संदंशः । यथा अभिक्रमणे । तद् हि, 'समानयते जुह्वाम् उपभृतस्तेजो वै' [तै. सं. २. ६. १. २] इत्यादिना प्रयाजानुवाटेन किंचिदङ्गं विधाय, विधीयते – 'येस्यैवं विदुषः प्रयाजा इज्यन्ते प्रैभ्यो लोकेभ्यो भ्रातृव्यान् नुदते, अभिक्रामं जुहोत्यभिजित्यै' [तै. सं. २. ६.१. ४] इति तदनन्तरमपि 'यो वै प्रयाजानां मिथुनं वेद' (तत्रैव) इत्यादिना किंचिदङ्ग विधीयते। अतः प्रयाजाङ्गमध्ये विहितमभिक्रमणं तदङ्गम् । प्रयाजैरपूर्वं कृत्वा यागोपकारं भावयेदिति ज्ञाते ‘कथमेभिरपूर्वं कर्तव्यम्' इति कर्थभावाकाङ्क्षायाः सत्त्वात् । सा च संदंशपठितैरभिक्रमणादिभिः शाम्यति । न चाङ्गभावनायाः कथंभावाकाङ्क्षाऽभावः, भावनासामान्येन तत्रापि तत्संभवात्।

प्रकरणं क्रियाणामेव साक्षादङ्गत्वबोधकम्[सम्पाद्यताम्]

तदिदं प्रकरणं क्रियाया एव साक्षाद्विनियोजक, द्रव्यगुणयौस्तु तद्वारा । तथाहि - 'यजेत स्वर्गकामः इत्यत्र फलभावनायां कथंभावाकाङ्क्षायां संनिधिपठितांधूयमाणफलकं क्रियाजातमुपकार्याकाङ्क्षयेतिकर्तव्यतात्वेनान्वेति । क्रियाया एव लोके कथंभावाकाङ्क्षायामन्वयढर्शनात् । न हि हस्तेन 'कुठारेण च्छिन्द्यात्' इत्यत्र कथंभावाकाङ्क्षायामुच्चार्यमाणोऽपि हस्तोऽन्वेति, किं तु हस्तेनोद्यम्य निपात्येति उद्यमननिपातने एव, हस्तश्च तद्द्वारैवान्वेतोति सार्वजनीनमेतत् ।

प्रकरणं स्थानसमाख्याभ्यां बलवत्[सम्पाद्यताम्]

इदं च स्थानादिभ्यो बलवत् । अत एव 'अक्षैर्दीव्यति, राजन्यं जिनाति [तै. सं. १. ८. १६] इति विदेवनादयो धर्मा अभिपेचनीयसंनिधौ पठिता अपि स्थानान्न तदङ्ग, किं तु प्रकरणाद्राजसूयाङ्गमिति ।।

स्थाननिरूपणम्[सम्पाद्यताम्]

देशसामान्य स्थानम् । तद्विविधम् - पाठसादेश्यमनुष्ठानसादेश्यं चेति । स्थानं, क्रमश्चेत्यनर्थान्तरम् । पाठसादेश्यमपि द्विविधम् - यथासंख्यपाठः, सन्निधिपाठश्चेति ।

यथासंख्यपाठेन विनियोगः[सम्पाद्यताम्]

तत्र 'ऐन्द्राग्नमेकादशकपालं निर्वपेत्' [मै. सं. २. १. १], 'वैश्वानरं द्वादशकपालं निर्वपेत्' [मै. सं. २. १. २] इत्येवं क्रमविहितेषु 'इन्द्राग्नी रोच दिवः' [मै. सं. ४. ११. १]- इत्यादीनां याज्यानुवाक्यामन्त्राणां यथासंख्यं प्रथमस्य प्रथम, द्वितीयस्य द्वितीयमित्येवंरूपो विनियोगो यथासंख्यपाठात् । प्रथमपठितमन्त्रस्य हि कैमर्थ्याकांक्षायां प्रथमतो विहितं कर्मैव प्रथममुपतिष्ठते, समानदेशत्वात् । एवं द्वितीयमन्त्रस्यापि।

संनिधिपाठेन विनियोगः[सम्पाद्यताम्]

वैकृताङ्गानां प्राकृताङ्गानुवादेन विहितानां संदंशाऽपतितानां विकृत्यर्थत्वं सन्निधिपाठात् । यथा - आमनहोमानाम् । तेषां हि कैमर्थ्याकाङ्क्षायां फलं विकृत्यपूर्वमेव भाव्यत्वेन संबध्यते, उपस्थितत्वात् । स्वतन्त्रफलकत्वे विकृतिसंनिधिपाठानर्थक्योपपत्तेश्च ।

अनुष्ठानसादेश्येन विनियोगः[सम्पाद्यताम्]

पशुधर्माणामग्नीषोमीयार्थत्वमनुष्ठानसादेश्यात् । औपवसथ्येऽह्नि अग्नीषोमीयः पशुरनुष्ठीयते, तस्मिन्नेव दिने ते धर्माः पठ्यन्ते । अतस्तेषां कैमर्थ्याकाङ्क्षायामनुष्ठेयत्वेनोपस्थितं पश्वपूर्वमेव भाव्यत्वेन संबध्यते। तच्च स्थानं समाख्यातः प्रवलम । अत एव शुन्धनमन्त्रः सान्नाय्यपात्राङ्गं पाठसादेश्यात्, नतु 'पौरोडाशिक मिति समाख्यया पुरोडाशमाचाङ्गम् ॥

समाख्यानिरूपणम्[सम्पाद्यताम्]

समाख्या यौगिकः शब्दः । सा च द्विविधा - 'वैदिकी', 'लौकिकी' च । तत्र होतुश्चमसभक्षणाङ्गत्वं, 'होतृचमसः' इति वैदिक्या समाख्यया। अध्वर्यास्तत्तत्पदार्थाङ्गत्वं, लौकिक्या 'आध्वर्यव'मिति समाख्यया इति संक्षेपः ।। तदेवं निरूपितानि संक्षेपतः श्रुत्याढोदीनि षट् प्रमाणानि |

विनियोगविधिबोधिताङ्गानि[सम्पाद्यताम्]

एतत्सहकृतेन विनियोगविधिना 'समिदादिभिरुपकृत्य दर्शपूर्णमासाभ्यां यजेत' इत्येवंरूपेण यानि विनियोज्यन्ते, तान्यङ्गानि द्विविधानि - सिद्धरूपाणि, क्रियारूपाणि चेति । तत्र सिद्धानि जातिद्रव्यसंख्यादीनि | तानि च दृष्टार्थान्येव । क्रियारूपाणि च द्विविधानि - गुणकर्माणि, प्रधानकर्माणि च | एतान्येव 'सन्निपत्योपकारकाणि', 'आरादुपकारकाणि' इति चोच्यन्ते।

संनिपत्योपकारकाणि[सम्पाद्यताम्]

कर्माङ्गद्रव्याद्यद्देशेन विधीयमानं कर्म सन्निपत्योपकारकम् । यथा - 'अवघात' - 'प्रोक्षणादि | तच्च दृष्टार्थम्, अदृष्टार्थं, दृष्टादृष्टार्थं चेति । तत्र दृष्टार्थमवघातादि, अदृष्टार्थं प्रोक्षणादि, दृष्टादृष्टार्थं पशुपुरोडाशादि । तद्धि द्रव्यत्यागांशेनैव अदृष्टं, देवतोद्देशांशेन च देवतास्मरणं दृष्टं करोति। इदमेव च 'आश्रयिकर्म इत्युच्यते।

आरादुपकारकाणि[सम्पाद्यताम्]

द्रव्याद्यनुद्दिश्य केवलं विधीयमानं कर्म आरादुपकारकम् । यथा - प्रयाजादि ।

तयोर्विशेषः[सम्पाद्यताम्]

आरादु पकारकं च परमापूर्वोत्पत्तावेवोपयूज्यते । सन्निपत्योपकारकं तु द्रव्यदेवतासंस्कारद्वारा यागस्वरूपऽप्युपयुज्यते । तदेवं निरूपितः सङ्क्षपतो विनियोगविधिः॥

प्रयोगविधिः[सम्पाद्यताम्]

प्रयोगप्राशुभावबोधको विधिः प्रयोगविधिः । स चाङ्गवाक्यैकवाक्यतापन्नः प्रधानविधिरेव । स हि साङ्गं प्रधानमनुष्ठापयन्विलम्बे प्रमाणाभावादविलम्बापरपर्यायं प्रयोगप्राशुभावं विधत्ते। न च - तदविलम्बेऽपि प्रमाणाभावः - इति वाच्यम् । विलम्बे हि अङ्गप्रधानविध्येकवाक्यतावगततत्साहित्यानुपपत्तिः। विलम्बेन क्रियमाणयोः पदार्थयोः 'इदमनेन सह कृतम्' इति साहित्यव्यवहाराभावात्। स चाविलम्बो नियते क्रमे आश्रीयमाणे भवति । अन्यथा हि - किमेतदनन्तरमेतत्कर्तव्यम् एतदनन्तरं वा ? इति प्रयोगविक्षेपापत्तेः । अतः प्रयोगविधिरेव स्वविधेयप्रयोगप्राशुभावसिध्द्यर्थं नियतं क्रममपि पदार्थविशेषणतया विधत्ते । अत एवाङ्गानां क्रमबोधको विधिः प्रयोगविधिरित्यपि लक्षणम्।

क्रमस्वरूपम्[सम्पाद्यताम्]

तत्र क्रमो नाम विततिविशेषः, पौर्वापर्यरूपो वा।

क्रमस्य श्रुत्यादिषट् सहकारिप्रमाणानि[सम्पाद्यताम्]

तत्र षट् प्रमाणानि - श्रुति, अर्थ, पाठ, स्थान, मुख्य, प्रवृत्त्या, ख्यानि ।

श्रुतिलक्षणम्[सम्पाद्यताम्]

तत्र क्रमपरवचनं श्रुतिः । तच्च द्विविधम् । केवलक्रमपरं तद्विशिष्टपदार्थपरं चेति । तत्र 'वेदं कृत्वा वेदि करोती ति [मान. श्री. सू. १. १. ३. ३] केवलक्रमपरं, वेदिकरणादेर्वचनान्तरप्राप्तत्वात् । 'वषटकर्तुः प्रथमभक्षः [आप. श्री. सू. १२. २४. ६] इति तु क्रमविशिष्टपदार्थपरम् । एकप्रसरताभङ्गभयेन भक्षानुवादेन क्रममात्रस्य विधातुमशक्यत्वात् ।

श्रुतेः क्रमबोधकप्रमाणान्तरेभ्यः प्राबल्यम्[सम्पाद्यताम्]

सेयं श्रुतिरितरप्रमाणापेश्वया बलवती तेषां वचनकल्पनद्वारा क्रमप्रमाणत्वात् । अत एवाश्विनग्रहणत्य पाठक्रमातृतीयस्थाने ग्रहणप्रसक्तो 'आश्विनो दशमो गृह्यते' [मै. सं. ४. ६. १] इति वचगाद्दशमस्थाने ग्रहणमित्युक्तम् ।

अर्थक्रमः[सम्पाद्यताम्]

यत्र प्रयोजनवशेन क्रमनिर्णयः सोऽर्थक्रमः । यथा - 'अग्निहोत्रं जहीति', यवागू पचति [ते. ब्रा. २. १. ५. ६] इत्यग्निहोत्रयवागूपाकयोः । अत्र हि यवाग्वा होमार्थत्वेन तत्पाकः प्रयोजनवशेन पूर्वमनुष्ठीयते । स चायं पाठक्रमाद्बलवान् । यथापाठं ह्यनुष्ठाने क्लृप्तप्रयोजनबाधेऽदृष्टाऽत्वं च स्यात् । न हि होमानन्तरं क्रियमाणस्य पाकस्य किंचित् दृरष्टं प्रयोजनमस्ति।

पाठक्रमः[सम्पाद्यताम्]

पदार्थबोधकवाक्यानां यः क्रमः स पाठक्रमः । तस्माच्च पदार्थानां क्रम आधीयते । येन हि क्रमेण वाक्यानि पठितानि तेनैव क्रमेणाधीतान्यर्थप्रत्ययं जनयन्ति । यथाप्रत्ययं च पदार्थानामनुष्ठानम् । स च पाठो द्विविधः - मन्त्रपाठो, ब्राह्मणपाठश्चेति । तत्राग्नेयाग्नीषोमीययोस्तत्तद्याज्यनुवाक्यानां पाठाद्यः क्रम आधीयते, स मन्त्रपाठात् |

मन्त्रपाठो ब्राह्मणपाठाद्वलीयान्[सम्पाद्यताम्]

स चायं मन्त्रपाठो ब्राह्मणपाठाद्वलीयान्, अनुष्ठाने ब्राह्मणवाक्यापेस्तुया मन्त्रपाठस्यान्तरङ्गत्वात् । ब्राह्मणवाक्य हि ग्रयोगाद्वहिरेव 'इद(एव) कर्तव्यमि'त्यवबोध्य कृतार्थम । मन्त्राः पनः प्रयोगकाले व्याप्रियन्ते । अनुष्ठानक्रमस्य स्मरगाक्रमाधीनत्वात् । तत्क्रमस्य च मन्त्रक्रमाधीनत्वाद् अन्तरङ्गोऽयं मन्त्रपाठ इति |

ब्राह्मणपाठक्रमात् क्रमः[सम्पाद्यताम्]

प्रयाजानां समिधो यजति, तनूनपातं यजति [तै. सं. २. ६. १. १] इत्येवं विधिपाठक्रमाद्यः क्रमः स ब्राह्मणपाठक्रमात् । यद्यपि ब्राहाणवाक्यान्यर्थं विधाय कृतार्थानि, तथापि प्रयाजादीनां क्रमस्मारकान्तरस्याभावात्तान्येव क्रमस्मारकत्वेन स्वोक्रियन्ते।

स्थानलक्षणम्[सम्पाद्यताम्]

स्थानं नामोपस्थितिः । यस्य हि देशे योऽनुष्ठीयते तत्पूर्वतने पदार्थे कृते स एव प्रथममुपस्थितो भवतीति युक्तं तस्य प्रथममनुष्ठानम् । अत एव साद्यस्के - अग्नीषोमीय-समवनीय-अनुबन्धानां सवनयि देशे सहानुष्ठाने कर्तव्ये-आदौ सवनीयपशोरनुष्ठानमितरयोः पश्चात् | तस्मिन्देशे आश्विनग्रहणानन्तरं सवनीयस्यैव प्रथममपस्थितिः ।

साद्यस्कयागः[सम्पाद्यताम्]

तथाहि - ज्योतिष्टोमे त्रयः पशुयागाः - अग्नीषोमोयः, सवनीयः, आनुबन्ध्यश्चेति । ते च भिन्नदेशाः - अग्नीषोमीय औपवसथ्येऽह्नि, सवनीयः सुत्याकाले, आनुबन्ध्यत्खन्ते । साद्यस्को नाम सोमयागविशेषः । स चाव्यक्तत्वाज्योतिष्टोमविकारः । अतस्ते त्रयोऽपि पशुयागाः साद्यस्क्रेप्ताः। तेषां तत्र साहित्यं श्रुतं 'सह पशूनालभेत' इति [का. श्री. सू. २२. ३. २८] | तच्च साहित्यं सवनीयदेशे, तस्य प्रधानप्रत्यासत्तेः, स्थानातिक्रमगासाम्याच्च।

स्थानातिक्रमसाम्यम्[सम्पाद्यताम्]

सवनीयटेशे ह्यनुष्ठानेऽनोषोमीयानबन्ध्ययोः स्वस्वस्थानातिक्रमो भवति । अग्नीषोमीयदेशे त्वनुष्ठाने सवनीयस्य स्वस्थानातिक्रममात्रम्। (अग्नीषोमीयस्य सवनीयस्थानातिक्रमः।) आनुबन्ध्यस्य तु स्वस्थानातिक्रमः सवनीयस्थानातिक्रमश्च स्यात्। एवमनुबन्ध्यदेशेऽग्नीषोमीयस्य द्रष्टव्यः (स्थानातिक्रमः)।

सवनीयस्य प्रथममनुष्ठानम्[सम्पाद्यताम्]

तथा च सवनीयदेशे सर्वेषामनुष्ठाने कर्तव्ये सवनीयस्य प्रथममनुष्ठानम्। आश्विनग्रहणानन्तरं हि सवनीयदेशः। प्रकृतौ "आश्विनं गृहं गृहीत्वा त्रिवृता यूपं परिवीय आग्नेयं सवनीयं पशुमुपाकरोति" [शत. ब्रा. ४. २. ५. १२] इत्याश्विनग्रहणानन्तरं सवनीयो विहितः - इति साद्यस्केऽप्याश्विनग्रहणे कृते सवनीय एवोपस्थितो भवति। अतो युक्तं तस्य स्थानात्पथममनुष्ठानम् इतरयोस्तु पश्चात्-इत्युक्तम्।

मुख्यक्रमलक्षणम्[सम्पाद्यताम्]

प्रधानक्रमेण योऽङ्गानां क्रम आधीयते, स मुख्यक्रमः । येन हि क्रमेण प्रधानानि क्रियन्ते तेनैव चेत् क्रमेण तेषामङ्गान्यनुष्ठीयन्ते, तदा सर्वेषामङ्गाना स्वैः स्वैः प्रधानैस्तुल्यं व्यवधानं भवति । व्युत्क्रमेण त्वनुष्ठाने केषांचिदङ्गानां स्वैः प्रधानरत्यन्तमव्यवधानं, केषांचिदत्यन्त व्यवधान स्यात्तच्चायुक्तं, प्रयोगविध्यवगतसाहित्यवाधापत्तेः । अतः प्रधानक्रमोऽप्यङ्गक्रमे हेतुः । अत एव प्रयाजशेषेणादावाग्नेयहविषोऽभिधारणं, पश्चादैन्द्रस्य दनः, आग्नेयैन्द्रयागयोः पौर्वापर्यात् । एवं च द्वयोरभिघारणयोः स्वस्वप्रधानेन तुल्यमेकान्तरितं व्यवधानम् । व्युत्क्रमेणाघारे त्वाग्नेयहविरभिघारणाग्नेययागयोरत्यन्तमव्यवधानम्, ऐन्द्रदध्यभिधारणैन्द्रयागयोद्यन्तरित व्यवधानं, तच्चायुक्तमित्युक्तमेव ।

मुख्यक्रमस्य पाठक्रमाद्दौर्बल्यम्[सम्पाद्यताम्]

स च मुख्यः क्रमः पाठक्रमादुर्बलः । मुख्यक्रमो हि प्रमाणान्तरसापेक्षप्रधानक्रमप्रतिपत्तिसापेक्षतया न तथेति बलवान् ।

तस्य च प्रवृत्तिकमात् प्राबल्यम्[सम्पाद्यताम्]

स चायं मुख्यः क्रमः प्रवृत्तिक्रमाद् बलवान् । प्रवृत्तिक्रमे हि बहूनामङ्गानां प्रधानविप्रकर्षात् मुख्यक्रमे तु सन्निकर्षात् ॥

प्रवृत्तिक्रमलक्षणम्[सम्पाद्यताम्]

सहप्रयुज्यमानेषु प्रधानेषु सन्निपातिनामङ्गानामावृत्त्यानुष्ठाने कर्त्तव्ये हि द्वितीयादिपदार्थानां प्रथमानुष्ठितपदार्थक्रमाद्यः क्रमः स प्रवृत्तिक्रमः। यथा प्राजापत्यपश्वङ्गेषु | प्राजापत्या हि वैश्वदेदी कृत्वा प्राजापत्यैश्चरन्ती ति [ते. ब्रा. १. ३. ४. ३] वाक्येन तृतीयानिर्देशात् सेतिकर्तव्यताका एककालत्वेन विहिताः [जै. सू. ११.२.२४] | अतस्तेषां तदङ्गानां चोपाकरणनियोजनप्रभृतीनां साहित्य संपाद्यम् । तच्च प्राजापत्यपशूनां संप्रतिपन्नदेवताकत्वेन युगपदनुष्ठानादुपपद्यते । तदङ्गानां चोपाकरणादीनां युगपदनुष्ठानमशक्यम् । अतस्तेषां साहित्यमव्यवहितानुष्ठानात्संपाद्यम् । तच्चैकस्योपाकरणं विधायापरस्योपाकरणं विधेयम् । एवं नियोजनाटिकमपि । तथा च प्राजापत्येषु कस्माञ्चित्पशोरारभ्य एक सर्वं सर्वत्रानुष्ठाय द्वितीयादिपदार्थस्तेनैव क्रमेणानुष्ठेयः - स प्रवृत्तिक्रमः । सोऽयं श्रुत्यादिभ्यो दुर्बलः । तदेवं संक्षेपतो निरूपितः षड्विधक्रमनिरूपणेन प्रयोगविधिः ।।

अधिकारविधिलक्षणम्[सम्पाद्यताम्]

कर्मजन्यफलस्वाम्यबोधको विधिरधिकारविधिः । कर्मजन्यफलस्वाम्यं कर्मजन्यफलभोक्तृरत्वम् । (1) स च 'यजेत स्वर्गकाम' इत्यादिरूपः । स्वर्गमुद्दिश्य यागं विदधताऽनेन स्वर्गकामस्य यागजन्यफलभोक्तृत्वं प्रतिपाद्यते । (2) 'यस्याहिताग्नेरग्निर्गृहान् दहेत् सोऽग्नये क्षामवतेऽष्टाकपालं निर्वपेत् [तै. सं. २.२.२.५] इत्यादिनाऽग्निदाहादौ निमित्ते कर्म विदधता निमित्तवतः कर्मजन्यपापक्षयरूपफलस्वाम्यं प्रतिपाद्यते । एवं (3) 'अहरहः सन्ध्यामपासीत' [षड्विशब्रा. ४.५ ?] इत्यादिना शुचिविहितकालजीविनः सन्ध्योपासनजन्यप्रत्यवायपरिहाररूपफलस्वाम्यं बोध्यते (२.४.१-७)।

अधिकारस्वरूपम् (श्रुतम्)[सम्पाद्यताम्]

तच्च फलस्वाम्यं तस्यैव योऽधिकारविशिष्टः । अधिकारश्च स यद्विधिवाक्येषु पुरुषविशेषणत्वेन श्रूयते । यथा काम्ये कर्मणि फलकामना, नैमित्तेके कर्मणि निमित्तनिश्चयः, नित्ये संध्योपासनादौ शुचिविहितकालजीवित्वम् । अत एव 'राजा राजसूयेन स्वाराज्यकामो यजेत' इत्यनेन विधिवाक्यन स्वाराज्यमुद्दिश्य विदधताऽपि न स्वाराज्यमात्रकामस्य तत्फलभोक्तत्वं प्रतिपाद्यते, किं तु राज्ञः सतः स्वाराज्यकामस्यैव, राजत्वस्यापिऽप्यधिकारिविशेषणत्वेन श्रवणात् ।

पुरुषविशेषणम् (अश्रुतम्)[सम्पाद्यताम्]

क्वचित्तु पुरुषविशेषणत्वेनाश्रुतमप्यधिकारिविशेषणम् । यथाध्ययनविधिसिद्धा विद्या, क्रतूविधीनामर्शज्ञानापेक्षत्वेनाध्ययनविधिसिद्धार्थज्ञानवन्तं प्रत्येव प्रवृत्तेः । एवमग्निसाध्यकर्मसु आधानसिद्धाग्निमत्ता। अग्निसाध्यकर्मणामग्न्यपेक्षत्वेन तद्विधोनामाधानसिद्धाग्निमन्तं प्रत्येव प्रवृत्तेः । एवं सामर्थ्यमपि 'आख्यातानामर्थं ब्रुवतां शक्तिः सहकारिणी' [श. भा. १. ४. ३०] इति न्यायात् समर्थं प्रत्येव विधिप्रवृत्तेः । तदेवं निरूपितौ विधिः ।।

चतुर्थो मन्त्रपरिच्छेदः

मन्त्रमीमांसा[सम्पाद्यताम्]

प्रयोगसमवेतार्थस्मारका मन्त्राः। तेषां च तादृशार्थस्मारकत्वेनैवार्थवत्त्वम् । न तु तदुच्चारणमदृष्टार्थम्, संभवति दृष्टफलकत्वऽदृष्टफलकल्पनाया अन्याय्यत्वात् ।न च - दृष्टस्यार्थस्मरणस्य प्रकारान्तरेणापि संभवान्मन्त्रानानं व्यर्थम् - इति वाच्यम् । 'मन्त्रैरेव स्मर्तव्यम्' इति - नियमविध्याश्रयणात्। संप्रतिपन्नदेवताकत्वेन युगपदनुष्ठानादुपपद्यते ।

नियमविधिः[सम्पाद्यताम्]

नानासाधनसाध्यक्रियायामेकसाधनप्राप्तावप्राप्तस्यापरसाधनस्य प्रापको विधिनियमविधिः । यथाहुः - 'विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते ॥ [तं. वा. १. २. ४२] इति । अस्यार्थः - प्रमाणान्तरेणाप्राप्तस्य प्रापको विधिरपूर्वविधिः । यथा- 'यजेत स्वर्गकाम ' इत्यादिः । स्वर्गार्थकयागस्य प्रमाणान्तरेणाप्राप्तस्यानेन विधानात् । पक्षेप्राप्तस्य प्रापको विधिनियमविधिः । यथा - 'ब्रीहीनबहन्ति' [ते. ब्रा. ३. २. ५. ६] इन्यादिः । कथमस्य पक्षेप्राप्तप्रापकत्वम् ? इति चेत्, इत्थम् - अनेन ह्यवधातस्य वैतुष्यार्थत्वं न प्रतिपाद्यते, अन्वयव्यतिरेकसिद्धत्वात् । किंतु नियमः । स चाप्राप्तांशपूरणम् । वैतुष्यस्य हि नानोपायसाध्यत्वाद्यदा अवधानं परित्यज्य उपायान्तरं ग्रहीतुमारभते, तदावघातस्याप्राप्तत्वन तद्विधाननामकमप्राप्तांशपूरणमेवानेन विधिना क्रियते । अतश्च नियमविधावप्राप्तांशपूरणात्मको नियम एव वाक्यार्थः । पक्षेप्राप्तावघातस्य विधानमिति यावत् ।

परिसंख्याविधिः[सम्पाद्यताम्]

उभयोश्च युगपत्प्राप्तावितरव्यावृत्तिपरो विधिः परिसंख्याविधिः । यथा - 'पञ्च पञ्चनखा भक्ष्याः' [रामायणम्. किष्किंधा. का. २. ३९] इति । इदं हि वाक्यं न पञ्चपञ्चनखभक्षणपर, तस्य रागतः प्राप्तत्वात् । नापि नियमपरं, पञ्चपञ्चनखपश्चेतरपञ्चनखभक्षणस्य युगपत्प्राप्तेः पक्षेप्राप्त्यभावात् । अत इदमपञ्चपञ्चनखभक्षणनिवृत्तिपरमिति भवति परिसंख्याविधिः ।

परिसंख्या द्विविधा[सम्पाद्यताम्]

सा च द्विविधा - श्रौती लाक्षणिकी चेति । तत्र 'अत्र ह्येवावयन्तीति (१० ४ २१-२२) श्रौती परिसंख्या । एवकारेण पवमानातिरिक्तस्तोत्रव्यावृत्तेरभिधानात् । 'पञ्च पञ्चनखा भक्ष्याः' इति तु लाक्षणिकी।

परिसंख्याया दोषत्रयम्[सम्पाद्यताम्]

दोषत्रयं च - 1 श्रुतहानिः, 2 अश्रतकल्पना, 3 प्राप्तबाधश्चेति । तदुक्तम् - 'श्रुतार्थस्य परित्यागादश्रुतार्थप्रकल्पनात् । प्राप्तस्य बाधादित्येवं परिसंख्या त्रिदूषणा ||' इति | श्रुतस्य पञ्चपञ्चनखभक्षणस्य हानात्, अश्रुताया अपञ्चपञ्चनखभक्षणनिवृत्तेः कल्पनात्प्राप्तस्य चापञ्चपञ्चनखभशणस्य बाधनादिति । अस्मिंश्च दोषत्रयं दोषद्वयं शब्दनिष्ठम् । प्राप्तवाधस्त्वर्थनिष्ठ इति दिक् ।

केषांचिन्मन्त्राणामुच्चारणमदृष्टार्थम्[सम्पाद्यताम्]

येषां तु प्रयोगसमवेतार्थस्मारकत्वं न संभवति, तदुच्चारणस्यानन्यगत्या ऽदृष्टार्थकत्वं कल्प्यते इति नानर्थक्यमिति ।।

पञ्चमो नामधेययपरिच्छेदः

नामधेयमीमांसा[सम्पाद्यताम्]

नामधेयानां च विधेयार्थपरिच्छेदकतयार्थवत्त्वम् । तथा हि 'उद्भिदा यजेत पशुकामः' इत्यत्रोद्भिच्छब्दो यागनामधेयं, तेन च विधेयार्थपरिच्छेदः क्रियते । तथा हि । अनेन वाक्येनाप्राप्तत्वात् फलोद्देशेन यागो विधीयते । यागसामान्यस्याविधेयत्वाद् यागविशेष एव विधीयते । तत्र 'कोऽसौ यागविशेषः' ? इत्यपेक्षायामद्भिच्छब्दादुद्भिद्रूपो याग इति ज्ञायते | 'उद्भिदा यागेन पशुं भावयेत्' - इत्यत्र सामानाधिकरण्येन नामधेयान्वयात्

नामधेयत्वे निमित्तचतुष्टयम्[सम्पाद्यताम्]

नामधेयत्वं च निमित्तचतुष्टयात् - 1 मत्वर्थलक्षणाभयात्, 2 वाक्यभेदभयात्, 3 तत्प्रख्यशास्त्रात्, 4 तव्यपदेशात् - चेति।

(1) मत्वर्थलक्षणाभयात् नामधेयत्वं | तत्र 'उद्भिदा यजेत पशुकामः' इत्यत्रोद्भिच्छब्दस्य यागनामधेयत्वं मत्वर्थलक्षणाभयात् । तथा हि - न तावदनेन वाक्येन फलं प्रति यागविधान, तं प्रति च गुणविधानं युज्यते, वाक्यभेदापत्तेः । उद्भिच्छब्दस्य गुणसमर्पकत्वे च यागस्याप्यप्राप्तत्वात् गुणविशिष्टकर्मविधानं वाच्यम् । 'उद्भिद्वता यागेन पशुं भावये दिति विशिष्टविधौ मत्वर्थलक्षणेत्युक्तमेव ।।

(2) वाक्यभेदभयात् नामधेयत्वं | "चित्रया यजेत पशुकामः' [ते. सं. २. ४. ६. १] इत्यत्र चित्राशब्दस्य कर्मनामधेयत्वं वाक्यभेढभयात् । तथा हि - न तावदत्र गुणविशिष्टयागविधानं संभवति । 'दधि मधु पयो घृतं धाना उदकं तण्डुलाः तत्संसृष्टं प्राजापत्यम', इत्यनेन गुणस्य विहितत्वात्तद्विशिष्टयागविध्यनुपपत्तेः । यागस्य फलसंबम्धे गुणसम्बन्धे च विधीयमाने वाक्यभेदः । तस्माच्चित्राशब्दः कर्मनामधेयम् । तथा च 'चित्रायागेन पशुं भावये दिति सामानाधिकरण्येनान्वयान्न वाक्यभेदः । प्रकृतेष्टेरनेकद्रव्यत्वेन चित्राशब्दवाच्यत्वोपपत्तिः ।

(3) तत्प्रख्यशास्त्रात् नामधेयत्वं | 'अग्निहोत्रं जुहोति' [मै. सं. १. ८. ६] इत्यत्राग्निहोत्रशब्दस्य कर्मनामधेयत्वं, तत्प्रख्यशाखात् । तस्य गुणस्य प्रख्यापकस्यप्रापकस्य शास्त्रस्य विद्यमानत्वात्, अग्निहोत्रशब्दः कर्मनामधेयमिति यावत् । नन्वयं गुणविधिरेव कुतो ने इति चेत् न। यदि 'अग्नौ होत्रमस्मिन्', इति सप्तमीसमासमाश्रित्य होमाधारत्वेनाग्निरूपो गुणो विधेयः, तदा 'यदाहवनीये जुहोती त्यनेनैवाग्नेः प्राप्तत्वात्तद्विधानानर्थक्यम् । 'अग्नये होत्रमिति चतुर्थीसमासमाश्रित्य अग्निदेवतारूपगुणोऽनेन विधीयत इति चेत् न । तद्देवतायाः शास्त्रान्तरेण प्राप्तत्वात्। देवतारूपेणाग्निप्रापकशास्त्रप्रश्नः। किं तच्छाखान्तरमि?ति चेत्, 'यदग्नये च प्रजापतये च सायं जुहोति' [मै. सं. १. ८.७] इति केचित् अपरे तु 'अग्नियॊतिर्योतिरनिस्स्वाहा' [मै. सं. १.६.१०] इति मन्त्रवर्ण एवाग्निरूपदेवताप्रापकः । नन्वनेर्मान्त्रवर्णिकत्वे प्रजापतिदेवताया बाधः स्यात् । मन्त्रवर्णस्य चतुर्थीतो दुर्बलत्वात् । यथाहुः

'तद्धितेन चतुर्थ्या च मन्त्रवणेर्न वा पुनः । देवताया विधिस्तत्र दुर्बलं तु परपरमिति ।। [तं. वा. २.२.२३]

इति चेत्, न। 'यदग्नये च प्रजापतये च सायं जुहोति' इत्यत्र न केवल प्रजापतिविधानम्. किंतु मन्त्रवर्णप्राप्तमग्निमनुद्य तत्समुच्चितप्रजापतेः । एवं च न बाधः, केवलप्रजापतिविधानाभावात् । न च अत्र समुच्चितोभयविधानमेव कथं न?- इति वाच्यम् । समुचितोभयविधानापेक्षयान्यतः प्राप्तमग्निमनूद्य तत्समुच्चितप्रजापतिमात्रविधाने लाघवात् । एवं च प्रयाजेषु समिदादिदेवतानां 'समिधः समिधो अग्न आज्यस्य व्यन्तु [ते. ब्रा. ३. ५. ५. १] इत्यादिमन्त्रवर्णेभ्यः प्राप्तत्वात । 'समिधो यजति [ते. सं. २. ६. १. १] इत्यादिषु समिदादिशब्दाः 'तत्प्रख्यशास्त्रात्' कर्मनामधेयाः ।।

(4) तद्व्यपदेशात् नामधेयत्वं । 'श्येनेनाभिचरन् यजेत' [षडविंशब्रा. ३. ८. २; आ. श्री. सू. २२. ४. १३] इत्यत्र श्येनशब्दस्य कर्मनामधेयत्वं तद्यपदेशात्' (१.४.५)। तेन व्यपदेशात् = उपमानात्, तदन्यथानुपपत्तेरिति यावत् । तथा हि - यद्विधेयं तस्य स्तुतिर्भवति । यद्यत्र श्येनो विधेयः स्यात् तदार्थवादस्तस्यैव स्तुतिः कार्या । अत्र 'यथा वै श्येनो निपत्यादत्ते, एवमयं द्विषन्तं भ्रातृव्यं निपत्यादते [षड्विशब्रा. ३. ८. ३] इत्यनेनार्थवादेन श्येनः स्तोतुं न शक्यः, श्येनोपमानेनार्थान्तरस्तुतेः क्रियमाणत्वात् । न च श्येनोपमानत्वेन स एव स्तोतुं शक्यते, उपमानोपमेयभावस्य भिन्ननिष्ठत्वात् । यदा तु श्येनसंज्ञको यागो विधीयते, तदा अर्थवादेन श्येनोपमानेन तस्य स्तुतिः कर्तुं शक्यते - इति श्येनशब्दः कर्मनामधेयं तद्व्यपदेशात् इति। उत्पत्तिशिष्टगुणबलीयस्त्वात् कर्मनामधेयत्वम्। उत्पत्तिशिष्टगुणबलयिस्त्वमपि पञ्चमं नामधेयनिमित्तमिति कचित् । यथा 'वैश्वदेवेन यजेत' [ते. ब्रा. १.४.१०.१] इत्यादौ । अत्रोत्पत्तिशिष्टाग्न्याटीनां बलीयस्वाद्वैश्वदेवदेवताविधायकत्वं न संभवतीति कर्मनामधेयत्वम् । वस्तुतस्तु 'तत्प्रख्यशास्त्रात्' एवास्य कर्मनामधेयत्वं, प्रकृतयागे विश्वेदेवरूपगुपामर्पकशास्त्रस्यार्थवादरूपस्यैव सत्त्वात् । 'यद्विश्वेदेवाः समयजन्त तद्वैश्वदेवस्य वैश्वदेवत्वम् [ते. ब्रा. १.४.१०.५] इति॥

षष्ठो निषेधपरिच्छेदः

निषेधमीमांसा[सम्पाद्यताम्]

पुरुषस्य निवर्तकं वाक्यं निषेधः, निषेधवाक्यानामनर्थहेतुक्रियानिवृत्तिजनकत्वेनैवार्थवत्त्वात् । तथा हि - यथा विधिः प्रवर्तनां प्रतिपादयन् स्वप्रवर्तकत्वनिर्वाहार्थं विधेयस्य यागादेरिष्टसाधनत्वमाक्षिपन् पुरुषं तत्र प्रवर्तयति, तथा 'न कलज भक्षयेत्' इत्यादिनिषेधोऽपि निवर्तनां प्रतिपादयन् स्वनिवर्तकत्वनिर्वाहार्थं निषेध्यस्य कलञ्जभक्षणस्य परानिष्टसाधनत्वमाक्षिपन् पुरुषं ततो निवर्तयति।

लियशब्दभावनाया नगर्थेनान्वयः[सम्पाद्यताम्]

ननु निषेधवाक्यस्य कथं निवर्त्तनाप्रतिपादकत्वम् इति चेत् उच्यते । न तावदत्र धात्वर्थस्य नार्थेनान्वयः, अव्यवधानेऽपि तस्य प्रत्ययार्थभावनोपसर्जनत्वेनोपस्थितेः । न ह्यन्योपसर्जनत्वेनोपस्थितमन्यत्रान्वेति । अन्यथा 'राजपुरुषमानय इत्यादावपि राज्ञः क्रियान्वयापत्तेः । अतः प्रत्ययार्थस्यैव नर्थेनान्वयः । तत्रापि नाख्यातत्वांशवाच्यार्थभावनायाः, तस्या लिङ्त्वांशवाच्यप्रवर्तनोपसर्जनत्वेनोपस्थितेः, किंतु लिङ्त्वांशवाशब्दभावनायाः, तस्याः सर्वापेक्षया प्रधानत्वात्।

नस्वभावकथनम्[सम्पाद्यताम्]

नत्रश्चैष स्वभावो यत्स्वममभिव्याहृतपदार्थविरोधिबोधकत्वम् । यथा 'घटो नास्ति' इत्यादौ 'अस्ति' इतिशब्दसमभिव्याहृतो 'नञ् घटसत्त्वविरोधि घटासत्त्वं गमयति, त(द)दिह लिङममभिव्याहृतो नञ् लिङर्थप्रवर्तनाविराधिनीं निवर्तनामेव बोधयति । विधिवाक्यश्रवाणेऽयं मां प्रवर्तयतीति प्रवर्तनाप्रतीतिवत् निषेधवाक्यश्रवणेऽयं मां निवर्तयतीति निवृत्त्यनुकूलव्यापाररूपनिवर्तनायाः प्रतीतेः। तस्मान्निषेधवाक्यस्थले निवर्तनैव वाक्यार्थः।

प्रत्ययर्थास्य नवर्यान्वये द्विविधं बाधकम्[सम्पाद्यताम्]

यदा तु प्रत्ययार्थस्य तत्रान्वये बाधकं तदा धात्वर्थस्यैव तत्रान्वयः । तच्च बाधकं द्विविधम – 'तस्य व्रतम् ' इत्युपक्रमः, विकल्पप्रसक्तिश्च 1) तत्राद्यं 'नेक्षेतोद्यन्तमादित्यम्' [मनुस्मृ. ४. ३७] इत्यादौ, 'तस्य व्रतम्' इत्युपकम्यैतद्वाक्यपाठात् । तथा चात्र पर्युदासाश्रयणम् । तथाहि - व्रतशब्दस्य कर्तव्यार्थे रूढत्वात् 'तस्य व्रतम्' इत्यत्र स्नातकस्य व्रतानां कर्त्तव्यत्वेनोपक्रमात् । किं तत्कर्तव्यम् ?' इत्याकाङ्क्षायां 'नेक्षेतोद्यन्तम्' इत्यादिना कर्त्तव्यार्थ एव प्रतिपादनीयः । अन्यथा पर्वोत्तरवाक्ययोरेकवाक्यत्वं न स्यात । तथा च नर्थेन न प्रत्ययार्थान्वयः, कर्तव्यार्थानबबोधात्। विध्यर्थप्रवर्तनाविरोधिनिवर्तनाया एव तादृशनना बोधनात्, तस्याश्च कर्तव्यार्थत्वाभावात् । तस्मात् 'नेक्षेते' इत्यत्र नत्रा धात्वर्थविराध्यनीक्षणसंकल्प एव लक्षणया प्रतिपाद्यते, तस्य कर्त्तव्यत्वसंभवात् ।

पर्युदासपक्षे 'नेक्षेत' इत्यस्य वाक्यार्थः[सम्पाद्यताम्]

'आदित्यविषयकानीक्षणसंकल्पेन भावयेत्' इति वाक्यार्थः । तत्र भाव्याकाङ्क्षायां 'एतावता हैनमा वियुक्तो भवति इति वाक्यशेषावगतः पापक्षयो भाव्यतयान्वेति । एवं च पूर्वोतरयोरेकवाक्यत्वं निर्वहत्येव । न चात्र धात्वर्थबिरोधिन पटार्थान्तरस्यापि संभवात्कथमनीक्षणसंकल्पस्यैव भावनान्वय इति वाच्यम् । तस्य कर्त्तव्यताऽभावेन प्रकृते भावनान्वयायोग्यत्वात् ।

विकल्पप्रसक्तौ पर्युदासाश्रयणम्[सम्पाद्यताम्]

2) द्वितीयं – 'यजतिषु येयजामहं करोति नानुयाजेषु' [आप. श्री. सू. २४. १३. ५] इत्यार्दी अत्र विकल्पप्रसक्तौ च पर्युदासाश्रयणात् । तथाहि - यद्यत्र वाक्ये नत्रर्थे प्रत्ययार्थान्वयः स्यात्तदा अनुयाजेषु 'ये यजामहे' इति मन्त्रस्य प्रतिषेधः स्यात् - अनुयाजेषु येयजामहं न कुर्यादिति । स च प्राप्तिपूर्वक एव, प्राप्तस्यैव प्रतिषेधात् । प्राप्तिश्च यजतिषु येयजामहं करोति' इति शास्त्रदेव वाच्या शास्त्रप्राप्तस्य च प्रतिषेधे विकल्प एव, न तु बाधः । प्राप्तिमूलरागस्येव तन्मूलशास्रस्य शास्त्रान्तरेण बाधायोगात् । नच 'पदे जुहोति' [ते. सं. ६. १.८.१] इति विशेषशास्त्रेण 'आहवनीये जुहोति [ते. ब्रा. १. ६. ५. ४] इति शास्रस्येव 'नानुयाजेषु' इत्यनेन 'यजतिषु ये यजामहं करोति' इत्यस्य बाधः स्यादिति वाच्यम् । परस्परनिरपेक्षयोरेव शास्त्रयोर्बाध्यबाधकभावात् । पदशास्त्रस्य हि स्वार्थविधानार्थमाहवनीयशास्रानपेक्षणान्निरपेक्षत्वम् । प्रकृते तु निषेधशास्त्रस्य निषेध्यप्रमक्त्यर्थं 'यजतिषु ये यजामहम्' इत्यस्यापेक्षणात् निरपेक्षत्वम् ।

बाधायोगोपसंहारः[सम्पाद्यताम्]

तस्माच्छास्रविहितस्य शाखान्तरेण प्रतिषेधे विकल्प एव । स च न युक्तः । विकल्पे शास्त्रस्य पाक्षिकाप्रामाण्यापातात् । नहि अनुयाजेषु 'ये यजामहम्' इत्यस्यानुष्ठाने 'नानुयाजेषु इत्यस्य प्रामाण्यं संभवति, व्रीहियागानुष्ठाने यवशास्रस्येव (१२. ३. १०-१५) | द्विरदृष्टकलपना च स्यात् । विधिप्रतिषेधयोरपि पुरुषार्थत्वात् । अतो नात्र प्रतिषेधस्याश्रयणं, किंतु नञोऽनुयाजसंबन्धमाश्रित्य पर्युदासस्यैव । इत्थं चानुयाजव्यतिरिक्तेषु 'यजतिषु ये यजामहे' इति मन्त्रं कुर्यादिति वाक्यार्थबोधः, नत्रोऽनुयाजव्यतिरिक्ते लाक्षणिकत्वात् । एवं च न विकल्पः। अत्र च वाक्ये 'ये यजामहे' इति न विधोयते, 'यजतिषु येयजामहम्' इत्यनेनैव च प्राप्तत्वात् । किं तु सामान्यशास्त्रप्राप्त - येयजामह इत्यनुवादेन तस्यानुयाजव्यतिरिक्तविषयत्वं विधीयते । यत् 'यजातेषु येयजामहं करोति' तदनुयाजव्यतिरिक्तेष्वेवति ।

पर्युदासोपसंहारयोर्भेदवर्णनम्[सम्पाद्यताम्]

नन्वेवं सामान्यशास्त्रप्राप्तस्य विशेषे संकोचनरूपादुपसंहारात्पर्युदासस्य भेदो न स्यादिति चेत्, न | उपसंहारो हि तन्मात्रसंकोचार्थः । यथा 'पुरोडाशं चतुर्धाकरोति' [ते. ब्रा. ३. ३. ८. ६] इति समान्यप्राप्तं चतुर्धाकरणं आग्नेयं चतुर्धाकरोति' [आ. श्री. सू. ३. ३. २] इति विगेषादाग्नेयपुरोडाशमात्रे संकोच्यते । पर्युदासस्य तदन्यमात्रसंकोचार्थ इति ततो भेदात् ।

विकल्पप्रसक्तावपि प्रतिषेधाश्रयणम्[सम्पाद्यताम्]

कुत्रचिद्विकल्पप्रमक्तावप्यनन्यगत्या प्रतिषेधाश्रयणम् । यथा 'नातिराचे षोडशिनं गृह्णाति [तै. सं. ६. ६. ११. ४] इत्यादौ । अत्र हि अतिरात्रे षोडशिनं गृह्णाति' इति शास्रप्राप्तषोडशिग्रहणस्य निषेधाद्विकल्पप्रसक्तावपि न पर्युदासाश्रयणम्, असंभवात् । तथाहि - यद्यत्र षोडशिपदार्थेन नत्रर्थान्वयः, तदातिरात्रे षोडशिव्यतिरिक्तं गृह्णातीति वाक्यार्थबोधः स्यात्, स च न संभवति, 'अतिरात्रे षोडशिनं गृह्णाति' इति प्रत्यक्षविधिविरोधात् । यदि चातिरात्रेण पदार्थेनान्वयः, तदा 'अतिरात्रव्यतिरिक्ते षोडशिनं गृह्णाति' इति वाक्यार्थबोधः स्यात्सोऽपि न संभवति, तद्विधिविरोधात् । अतोऽत्रानन्यगत्या शास्त्रप्राप्तषोडशिग्रहणस्यैव निषेधः । न च विकल्पप्रसक्तिः, तस्याप्यपेक्षणीत्वात् ।

विकल्पे प्रतिषिध्यमानस्यानर्थहेतुत्वाभाववर्णनम्[सम्पाद्यताम्]

इयांस्तु विशेषः - यद्विकल्पापादकप्रतिषेधेऽपि प्रतिषिध्यमानस्य नानर्थहेनत्वम्, विधिनिषेधोभयस्यापि क्रत्वर्थत्वात् । यत्र तु न विकल्पः प्राप्तिश्च रागत एव, प्रतिषेधश्च पुरुषार्थः, तत्र प्रतिषिध्यमानस्यानर्थहेतुत्वम् । यथा - 'न कलङ्गं भक्षयेत् इत्यादौ कलञ्जभक्षणादेः । तत्र भक्षणनिषेधस्यैव पुरुषार्थत्वात् । न च 'दीक्षितो न ददाति, न जुद्दोति' [ते. सं. १. २. ३; मै. सं. ३. ६. ५] इत्यादौ शास्त्रप्राप्तदानहोमादीनां निषेधाद्विकल्पापत्तिरिति वाच्यम् । स्वतः पुरुषार्थभूतदानहोमादीनां निषेधस्य पुरुषार्थत्वाभावेऽपि निषिध्यमानस्यानर्थहेतुत्वात्,यथा क्रतौ स्वस्रीगमनादेः । तन्निषेधस्य क्रत्वर्थत्वेन तस्य क्रतुवैगुण्यसंपादकत्वात् ।।

सप्तमोऽर्थवादपरिच्छेदः

अर्थवादमीमांसा[सम्पाद्यताम्]

प्राशस्त्यनिन्दान्यतरपरं वाक्यमर्थवादः । तस्य च लक्षणया प्रयोजनवदर्थपर्यवसानम् । तथा हि - अर्थवादवाक्यं हि स्वार्थप्रतिपादने प्रयोजनाभावाद्विधेयनिषेध्ययोः प्राशस्यनिन्दितत्वे लक्षणया प्रतिपादयति । स्वार्थमात्रपरत्वे आनर्थक्यप्रसङ्गात् । 'आम्नायस्य हि क्रियार्थत्वात् (1.2.1) | न चेष्टापत्तिः । 'स्वाध्यायोऽध्येतव्यः' इत्यध्ययनविधिना सकलवेदाध्ययनं कर्त्तव्यमिति बोधयता सर्ववेदस्य प्रयोजनवदर्थपर्यवसायित्वं सूचयतोपात्तत्वेनानर्थक्तनुपपत्तेः ।

अर्थवादविभागः[सम्पाद्यताम्]

स द्विविधः - विधिशेषः, निषेधशेषश्चेति । तत्र 'वायव्यं श्वेतमालभेत भूतिकामः' [ते. सं. २. १. १. १] इत्यादिविधिशेषस्य 'वायुर्वै क्षेपिष्ठा देवता' इत्यादेविधेयार्थप्राशस्त्यबोधकतयार्थवत्त्वम् । 'बर्हिषि रजतं न देयम् [ते. सं. १. ५. १. २] इत्यादिनिषेधशेषस्य, सोऽरोदीद्यदरोदीत्तिद्रुद्रस्य रुद्रत्वम् [तै. सं. १. ५. १. १] इत्यादेर्निषधस्य, निन्दितत्वबोधकतयार्थवत्त्वम् । न च प्राशस्यादिबोधस्य निष्प्रयोजनत्वेनस्यार्थवत्त्वमिति वाच्यम् । आलस्यादिवशादप्रवर्तमानस्य पुंसः प्रवृत्त्वादिजनकत्वेन तद्वोधस्योपयोगात्।

अर्थवादस्य भेदत्रयम्[सम्पाद्यताम्]

स पुनस्रधा - तदुक्तम्। 'विरोध गुणवादः स्यादनुवादोऽवधारिते। भूतार्थवादस्तद्धानादर्थवादनिधा मतः' [बृ. उ. सं. वार्तिक. ५६७] इति । अस्यार्थः - प्रमाणान्तरविरोधे सत्यर्थवादः (1)गुणवादः, यथा 'आदित्यो यूपः' [ते. ब्रा. २. १.५.२] इत्यादि । यपे आदित्याभेदस्य प्रत्यक्षबाधितत्वादादित्यवदुज्जलत्वरूपगुणोऽनेन लक्षणया प्रतिपाद्यते। प्रमाणान्तरावगतार्थबोधकोऽनुवादः (2) अनुवादः, यथा - 'अग्निर्हिमस्य भेषजम्' [ते. सं. ७. ४. १८. २] इति | अत्र हिमविरोधित्वस्याग्नौ प्रत्यक्षावगतत्वात् । प्रमाणान्तरविरोधतत्प्राप्तिरहितार्थबोधकोऽर्थवादः । (3) भूतार्थवादः। यथा - 'इन्द्रो वृत्राय वज्रमुदयच्छत् [शतप. ब्रा. १. २. ३.३] इत्यादिः।

अष्टमो निगमनपरिच्छेदः

ग्रंथोपसंहारः[सम्पाद्यताम्]

एवं च यजेत स्वर्गकामः' इत्यादिनिखिलवेदस्य साक्षात्परंपरया वा यागादिधर्मप्रतिपादकत्वं सिद्धम् । सोऽयं धर्मो यदुद्दिश्य विहितः, तदुद्देशेन क्रियमाणस्तद्धेतुः । ईश्वरार्पणबुद्ध्या क्रियमाणस्तु निःश्रेयसहेतुः । न च तदर्पणबुद्ध्यानष्ठाने प्रमाणाभावः - 'यत्करोषि यदनासि यज्जुहोषि ददासि यत्। यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ इति (९. २७) भगवद्गीतास्मृतेरेव प्रमाणत्वात् । स्मृतिचरणे [जै. सू. १. ३] तत्प्रामाण्यस्य श्रुतिमलकत्वेन व्यवस्थापनादिति शिवम् ।।

अर्थसंग्रहप्रयोजनम्[सम्पाद्यताम्]

बालानां सुखबोधाय भास्करेण सुमेधसा। रचितोऽयं समासेन जैमिनीयार्थसंग्रहः ।।

इति धामहापाश्चागनोगाक्षिभास्करनिरचिनपूर्वमैमासार्थसंग्रहनामकं प्रकरणं समाप्तिमगात ।।

"https://sa.wikisource.org/w/index.php?title=अर्थसंग्रहः&oldid=400583" इत्यस्माद् प्रतिप्राप्तम्