अर्थशास्त्रम्/अधिकरणम् ८/अध्यायः १

विकिस्रोतः तः
Jump to navigation Jump to search
अर्थशास्त्रम्
अध्यायः १
कौटिलीय:
अध्यायः २ →

 व्यसन-यौगपद्ये सौकर्यतो यातव्यं रक्षितव्यं वाइति व्यसन-चिन्ता ।। ०८.१.०१ ।।

 दैवं मानुषं वा प्रकृति-व्यसनं अनय-अपनयाभ्यां सम्भवति ।। ०८.१.०२ ।।

 गुण-प्रातिलोम्यं अभावः प्रदोषः प्रसङ्गः पीडा वा व्यसनं ।। ०८.१.०३ ।।

 व्यस्यत्येनं श्रेयस इति व्यसनं ।। ०८.१.०४ ।।

 "स्वाम्य्-अमात्य-जन-पद-दुर्ग-कोश-दण्ड-मित्र-व्यसनानां पूर्वं पूर्वं गरीयः" इत्याचार्याः ।। ०८.१.०५ ।।

 नैति भरद्वाजः ।। ०८.१.०६ ।।

 "स्वाम्य्-अमात्य-व्यसनयोरमात्य-व्यसनं गरीयः ।। ०८.१.०७ ।।

 मन्त्रो मन्त्र-फल-अवाप्तिः कर्म-अनुष्ठानं आय-व्यय-कर्म दण्ड-प्रणयनं अमित्र-अटवी-प्रतिषेधो राज्य-रक्षणं व्यसन-प्रतीकारः कुमार-रक्षणं अभिषेकश्च कुमाराणां आयत्तं अमात्येषु ।। ०८.१.०८ ।।

 तेषां अभावे तद्-अभावः । छिन्न-पक्षस्यैव राज्ञश्चेष्टा-नाशश्च ।। ०८.१.०९ ।।

 व्यसनेषु चऽसन्नः पर-उपजापः ।। ०८.१.१० ।।

 वैगुण्ये च प्राण-आबाधः प्राण-अन्तिक-चरत्वाद्राज्ञः" इति ।। ०८.१.११ ।।

 नैति कौटिल्यः ।। ०८.१.१२ ।।

 मन्त्रि-पुरोहित-आदि-भृत्य-वर्गं अध्यक्ष-प्रचारं पुरुष-द्रव्य-प्रकृति-व्यसन-प्रतीकारं एधनं च राजाएव करोति ।। ०८.१.१३ ।।

 व्यसनिषु वाअमात्येष्वन्यानव्यसनिनः करोति ।। ०८.१.१४ ।।

 पूज्य-पूजने दूष्य-अवग्रहे च नित्य-युक्तस्तिष्ठति ।। ०८.१.१५ ।।

 स्वामी च सम्पन्नः स्व-सम्पद्भिः प्रकृतीः सम्पादयति ।। ०८.१.१६ ।।

 स यत्-शीलस्तत्-शीलाः प्रकृतयो भवन्ति । उत्थाने प्रमादे च तद्-आयत्तत्वात् ।। ०८.१.१७ ।।

 तत्-कूट-स्थानीयो हि स्वामीइति ।। ०८.१.१८ ।।

 "अमात्य-जन-पद-व्यसनयोर्जन-पद-व्यसनं गरीयः" इति विशाल-अक्षः ।। ०८.१.१९ ।।

 "कोशो दण्डः कुप्यं विष्टिर्वाहनं निचयाश्च जन-पदादुत्तिष्ठन्ते ।। ०८.१.२० ।।

 तेषां अभावो जन-पद-अभावे । स्वाम्य्-अमात्ययोश्चानन्तरः" इति ।। ०८.१.२१ ।।

 नैति कौटिल्यः ।। ०८.१.२२ ।।

 अमात्य-मूलाः सर्व-आरम्भाः जन-पदस्य कर्म-सिद्धयः स्वतः परतश्च योग-क्षेम-साधनं व्यसन-प्रतीकारः शून्य-निवेश-उपचयौ दण्ड-कर-अनुग्रहश्चैति ।। ०८.१.२३ ।।

 "जन-पद-दुर्ग-व्यसनयोर्दुर्ग-व्यसनम्" इति पाराशराः ।। ०८.१.२४ ।।

 "दुर्गे हि कोश-दण्ड-उत्पत्तिरापदि स्थानं च जन-पदस्य ।। ०८.१.२५ ।।

 शक्तिमत्तराश्च पौरा जानपदेभ्यो नित्याश्चऽपदि सहाया राज्ञः ।। ०८.१.२६ ।।

 जानपदास्त्वमित्र-साधारणाः" इति ।। ०८.१.२७ ।।

 नैति कौटिल्यः ।। ०८.१.२८ ।।

 जन-पद-मूला दुर्ग-कोश-दण्ड-सेतु-वार्त्ता-आरम्भाः ।। ०८.१.२९ ।।

 शौर्यं स्थैर्यं दाक्ष्यं बाहुल्यं च जानपदेषु ।। ०८.१.३० ।।

 पर्वत-अन्तर्-द्वीपाश्च दुर्गा नाध्युष्यन्ते जन-पद-अभावात् ।। ०८.१.३१ ।।

 कर्षक-प्राये तु दुर्ग-व्यसनम् । आयुधीय-प्राये तु जन-पदे जन-पद-व्यसनं इति ।। ०८.१.३२ ।।

 "दुर्ग-कोश-व्यसनयोः कोश-व्यसनम्" इति पिशुनः ।। ०८.१.३३ ।।

 "कोश-मूलो हि दुर्ग-संस्कारो दुर्ग-रक्षणं जन-पद-मित्र-अमित्र-निग्रहो देश-अन्तरितानां उत्साहनं दण्ड-बल-व्यवहारश्च ।। ०८.१.३४ ।।

 दुर्गः कोशादुपजाप्यः परेषां ।। ०८.१.३५ ।।

 कोशं आदाय च व्यसने शक्यं अपयातुम् । न दुर्गम्" इति ।। ०८.१.३६ ।।

 नैति कौटिल्यः ।। ०८.१.३७ ।।

 दुर्ग-अर्पणः कोशो दण्डस्तूष्णीं-युद्धं स्व-पक्ष-निग्रहो दण्ड-बल-व्यवहार आसार-प्रतिग्रहः पर-चक्र-अटवी-प्रतिषेधश्च ।। ०८.१.३८ ।।

 दुर्ग-अभावे च कोशः परेषां ।। ०८.१.३९ ।।

 दृश्यते हि दुर्गवतां अनुच्छित्तिरिति ।। ०८.१.४० ।।

 "कोश-दण्डव्यसनयोर्दण्ड-व्यसनम्" इति कौणपदन्तः ।। ०८.१.४१ ।।

 "दण्ड-मूलो हि मित्र-अमित्र-निग्रहः पर-दण्ड-उत्साहनं स्व-दण्ड-प्रतिग्रहश्च ।। ०८.१.४२ ।।

 दण्ड-अभावे च ध्रुवः कोश-विनाशः ।। ०८.१.४३ ।।

 कोश-अभावे च शक्यः कुप्येन भूम्या पर-भूमि-स्वयं-ग्राहेण वा दण्डः पिण्डयितुम् । दण्डवता च कोशः ।। ०८.१.४४ ।।

 स्वामिनश्चऽसन्न-वृत्तित्वादमात्य-सधर्मा दण्डः" इति ।। ०८.१.४५ ।।

 नैति कौटिल्यः ।। ०८.१.४६ ।।

 कोश-मूलो हि दण्डः ।। ०८.१.४७ ।।

 कोश-अभावे दण्डः परं गच्छति । स्वामिनं वा हन्ति ।। ०८.१.४८ ।।

 सर्व-अभियोग-करश्च कोशो धर्म-काम-हेतुः ।। ०८.१.४९ ।।

 देश-काल-कार्य-वशेन तु कोश-दण्डयोरन्यतरः प्रमाणी-भवति ।। ०८.१.५० ।।

 लम्भ-पालनो हि दण्डः कोशस्य । कोशः कोशस्य दण्डस्य च भवति ।। ०८.१.५१ ।।

 सर्व-द्रव्य-प्रयोजकत्वात्कोश-व्यसनं गरीय इति ।। ०८.१.५२ ।।

 "दण्ड-मित्र-व्यसनयोर्मित्र-व्यसनम्" इति वातव्याधिः ।। ०८.१.५३ ।।

 "मित्रं अभृतं व्यवहितं च कर्म करोति । पार्ष्णि-ग्राहं आसारं अमित्रं आटविकं च प्रतिकरोति । कोश-दण्ड-भूमिभिश्चौपकरोति व्यसन-अवस्था-योगम्" इति ।। ०८.१.५४ ।।

 नैति कौटिल्यः ।। ०८.१.५५ ।।

 दण्डवतो मित्रं मित्र-भावे तिष्ठति । अमित्रो वा मित्र-भावे ।। ०८.१.५६ ।।

 दण्ड-मित्रयोस्तु साधारणे कार्ये सारतः स्व-युद्ध-देश-काल-लाभाद्विशेषः ।। ०८.१.५७ ।।

 शीघ्र-अभियाने त्वमित्र-आटविक-अनभ्यन्तर-कोपे च न मित्रं विद्यते ।। ०८.१.५८ ।।

 व्यसन-यौगपद्ये पर-वृद्धौ च मित्रं अर्थ-युक्तौ तिष्ठति ।। ०८.१.५९ ।।

 इति प्रकृति-व्यसन-सम्प्रधारणं उक्तं ।। ०८.१.६० ।।

 प्रकृत्य्-अवयवानां तु व्यसनस्य विशेषतः । ।। ०८.१.६१अ ब ।।

 बहु-भावोअनुरागो वा सारो वा कार्य-साधकः ।। ०८.१.६१च्द् ।।

 द्वयोस्तु व्यसने तुल्ये विशेषो गुणतः क्षयात् । ।। ०८.१.६२अ ब ।।

 शेष-प्रकृति-साद्गुण्यं यदि स्यान्नाविधेयकं ।। ०८.१.६२च्द् ।।

 शेष-प्रकृति-नाशस्तु यत्रएक-व्यसनाद्भवेत् । ।। ०८.१.६३अ ब ।।

 व्यसनं तद्गरीयः स्यात्प्रधानस्यैतरस्य वा ।। ०८.१.६३च्द् ।।