अर्थशास्त्रम्/अधिकरणम् ४/अध्यायः १३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १२ अर्थशास्त्रम्
अध्यायः १३
कौटिलीय:

 ब्राह्मणं अपेयं अभक्ष्यं वा ग्रासयत उत्तमो दण्डः । क्षत्रियं मध्यमः । वैश्यं पूर्वः साहस-दण्डः । शूद्रं चतुष्-पञ्चाशत्-पणो दण्डः ।। ०४.१३.०१ ।।

 स्वयं ग्रसितारो निर्विषयाः कार्याः ।। ०४.१३.०२ ।।

 पर-गृह-अभिगमने दिवा पूर्वः साहस-दण्डः । रात्रौ मध्यमः ।। ०४.१३.०३ ।।

 दिवा रात्रौ वा सशस्त्रस्य प्रविशत उत्तमो दण्डः ।। ०४.१३.०४ ।।

 भिक्षुक-वैदेहकौ मत्त-उन्मत्तौ बलादापदि चातिसंनिकृष्टाः प्रवृत्त-प्रवेशाश्चादण्ड्याः । अन्यत्र प्रतिषेधात् ।। ०४.१३.०५ ।।

 स्व-वेश्मनो विरात्रादूर्ध्वं परिवारं आरोहतः पूर्वः साहस-दण्डः । पर-वेश्मनो मध्यमः । ग्राम-आराम-वाट-भेदिनश्च ।। ०४.१३.०६ ।।

 ग्रामेष्वन्तः सार्थिका ज्ञात-सारा वसेयुः ।। ०४.१३.०७ ।।

 मुषितं प्रवासितं चएषां अनिर्गतं रात्रौ ग्राम-स्वामी दद्यात् ।। ०४.१३.०८ ।।

 ग्राम-अन्तरेषु वा मुषितं प्रवासितं विवीत-अध्यक्षो दद्यात् ।। ०४.१३.०९ ।।

 अविवीतानां चोर-रज्जुकः ।। ०४.१३.१० ।।

 तथाअप्यगुप्तानां सीम-अवरोधेन विचयं दद्युः ।। ०४.१३.११ ।।

 असीम-अवरोधे पञ्च-ग्रामी दश-ग्रामी वा ।। ०४.१३.१२ ।।

 दुर्बलं वेश्म शकटं अनुत्तब्धं ऊर्ध-स्तंभं शस्त्रं अनपाश्रयं अप्रतिच्छन्नं श्वभ्रं कूपं कूट-अवपातं वा कृत्वा हिंसायां दण्ड-पारुष्यं विद्यात् ।। ०४.१३.१३ ।।

 वृक्षच्-छेदने दंय-रश्मि-हरणे चतुष्पदानां अदान्त-सेवने वाहने वा काष्ठ-लोष्ट-पाषाण-दण्ड-बाण-बाहु-विक्षेपणेषु याने हस्तिना च स्मघट्टने "अपेहि" इति प्रकोशन्नदण्ड्यः ।। ०४.१३.१४ ।।

 हस्तिना रोषितेन हतो द्रोण-अन्नं मद्य-कुंभं माल्य-अनुलेपनं दन्त-प्रमार्जनं च पटं दद्यात् ।। ०४.१३.१५ ।।

 अश्व-मेध-अवभृथ-स्नानेन तुल्यो हस्तिना वध इति पाद-प्रक्षालनं ।। ०४.१३.१६ ।।

 उदासीन-वधे यातुरुत्तमो दण्डः ।। ०४.१३.१७ ।।

 शृङ्गिणा दंष्ट्रिणा वा हिंस्यमानं अमोक्षयतः स्वामिनः पूर्वः साहस-दण्डः । प्रतिक्रुष्टस्य द्वि-गुणः ।। ०४.१३.१८ ।।

 शृङ्गि-दंष्ट्रिभ्यां अन्योन्यं घातयतस्तच्च तावच्च दण्डः ।। ०४.१३.१९ ।।

 देव-पशुं ऋषभं उक्षाणं गो-कुमारीं वा वाहयतः पञ्च-शतो दण्डः । प्रवासयत उत्तमः ।। ०४.१३.२० ।।

 लोम-दोह-वाहन-प्रजनन-उपकारिणां क्षुद्र-पशूनां अदाने तच्च तावच्च दण्डः । प्रवासने च । अन्यत्र देव-पितृ-कार्येभ्यः ।। ०४.१३.२१ ।।

 छिन्न-नस्यं भग्न-युगं तिर्यक्-प्रतिमुख-आगतं प्रत्यासरद्वा चक्र-युक्तं याता पशु-मनुष्य-संबाधे वा हिंसायां अदण्ड्यः ।। ०४.१३.२२ ।।

 अन्यथा यथा-उक्तं मानुष-प्राणि-हिंसायां दण्डं अभ्यावहेत् ।। ०४.१३.२३ ।।

 अमानुष-प्राणि-वधे प्राणि-दानं च ।। ०४.१३.२४ ।।

 बाले यातरि यानस्थः स्वामी दण्ड्यः । अस्वामिनि यानस्थः । प्राप्त-व्यवहारो वा याता ।। ०४.१३.२५ ।।

 बाल-अधिष्ठितं अपुरुषं वा यानं राजा हरेत् ।। ०४.१३.२६ ।।

 कृत्य-अभिचाराभ्यां यत्-परं आपादयेत्तद्-आपादयितव्यः ।। ०४.१३.२७ ।।

 कामं भार्यायां अनिच्छन्त्यां कन्यायां वा दार-अर्थिनो भर्तरि भार्याया वा संवदन-करणं ।। ०४.१३.२८ ।।

 अन्यथा-हिंसायां मध्यमः साहस-दण्डः ।। ०४.१३.२९ ।।

 माता-पित्रोर्भगिनीं मातुलानीं आचार्याणीं स्नुषां दुहितरं भगिनीं वाअधिचरतस्त्रि-लिङ्गच्-छेदनं वधश्च ।। ०४.१३.३० ।।

 सकामा तदेव लभेत । दास-परिचारक-आहितक-भुक्ता च ।। ०४.१३.३१ ।।

 ब्राह्मण्यां अगुप्तायां क्षत्रियस्यौत्तमः । सर्व-स्वं वैश्यस्य । शूद्रः कट-अग्निना दह्येत ।। ०४.१३.३२ ।।

 सर्वत्र राज-भार्या-गमने कुंभी-पाकः ।। ०४.१३.३३ ।।

 श्व-पाकी-गमने कृत-कबन्ध-अङ्कः पर-विषयं गच्छेत् । श्व-पाकत्वं वा शूद्रः ।। ०४.१३.३४ ।।

 श्व-पाकस्यऽर्या-गमने वधः । स्त्रियाः कर्ण-नास-आच्छेदनं ।। ०४.१३.३५ ।।

 प्रव्रजिता-गमने चतुर्-विंशति-पणो दण्डः ।। ०४.१३.३६ ।।

 सकामा तदेव लभेत ।। ०४.१३.३७ ।।

 रूप-आजीवायाः प्रसह्य-उपभोगे द्वादश-पणो दण्डः ।। ०४.१३.३८ ।।

 बहूनां एकां अधिचरतां पृथक्चतुर्-विंशति-पणो दण्डः ।। ०४.१३.३९ ।।

 स्त्रियं अयोनौ गच्छतः पूर्वः साहस-दण्डः । पुरुषं अधिमेहतश्च ।। ०४.१३.४० ।।

 मैथुने द्वादश-पणस्तिर्यग्-योनिष्वनात्मनः । ।। ०४.१३.४१अ ब ।।

 दैवत-प्रतिमानां च गमने द्वि-गुणः स्मृतः ।। ०४.१३.४१च्द् ।।

 अदण्ड्य-दण्डने राज्ञो दण्डस्त्रिंशद्-गुणोअंभसि । ।। ०४.१३.४२अ ब ।।

 वरुणाय प्रदातव्यो ब्राह्मणेभ्यस्ततः परं ।। ०४.१३.४२च्द् ।।

 तेन तत्पूयते पापं राज्ञो दण्ड-अपचारजं । ।। ०४.१३.४३अ ब ।।

 शास्ता हि वरुणो राज्ञां मिथ्या व्याचरतां नृषु ।। ०४.१३.४३च्द् ।।