अर्थशास्त्रम्/अधिकरणम् ४/अध्यायः १

विकिस्रोतः तः
Jump to navigation Jump to search
अर्थशास्त्रम्
अध्यायः १
कौटिलीय:
अध्यायः २ →

 प्रदेष्टारस्त्रयस्त्रयोअमात्याः कण्टक-शोधनं कुर्युः ।। ०४.१.०१ ।।

 अर्थ्य-प्रतीकाराः कारु-शासितारः संनिक्षेप्तारः स्व-वित्त-कारवः श्रेणी-प्रमाणा निक्षेपं गृह्णीयुः ।। ०४.१.०२ ।।

 विपत्तौ श्रेणी निक्षेपं भजेत ।। ०४.१.०३ ।।

 निर्दिष्ट-देश-काल-कार्यं च कर्म कुर्युः । अनिर्दिष्ट-देश-कालं कार्य-अपदेशं ।। ०४.१.०४ ।।

 काल-अतिपातने पाद-हीनं वेतनं तद्-द्वि-गुणश्च दण्डः ।। ०४.१.०५ ।।

 अन्यत्र भ्रेष-उपनिपाताभ्यां नष्टं विनष्टं वाअभ्यावहेयुः ।। ०४.१.०६ ।।

 कार्यस्यान्यथा-करणे वेतन-नाशस्तद्-द्वि-गुणश्च दण्डः ।। ०४.१.०७ ।।

 तन्तु-वाया दश-एकादशिकं सूत्रं वर्धयेयुः ।। ०४.१.०८ ।।

 वृद्धिच्-छेदे छेद-द्वि-गुणो दण्डः ।। ०४.१.०९ ।।

 सूत्र-मूल्यं वान-वेतनं । क्षौम-कौशेयानां अध्यर्ध-गुणं । पत्त्र-ऊर्णा-कम्बल-दुकूलानां द्वि-गुणं ।। ०४.१.१० ।।

 मान-हीने हीन-अवहीनं वेतनं तद्-द्वि-गुणश्च दण्डः । तुला-हीने हीन-चतुर्-गुणो दण्डः । सूत्र-परिवर्तने मूल्य-द्वि-गुणः ।। ०४.१.११ ।।

 तेन द्वि-पट-वानं व्याख्यातं ।। ०४.१.१२ ।।

 ऊर्णा-तुलायाः पञ्च-पलिको विहननच्-छेदो रोमच्-छेदश्च ।। ०४.१.१३ ।।

 रजकाः काष्ठ-फलक-श्लक्ष्ण-शिलासु वस्त्राणि नेनिज्युः ।। ०४.१.१४ ।।

 अन्यत्र नेनिजतो वस्त्र-उपघातं षट्-पणं च दण्डं दद्युः ।। ०४.१.१५ ।।

 मुद्गर-अङ्कादन्यद्वासः परिदधानास्त्रि-पणं दण्डं दद्युः ।। ०४.१.१६ ।।

 पर-वस्त्र-विक्रय-अवक्रय-आधानेषु च द्वादश-पणो दण्डः । परिवर्तने मूल्य-द्वि-गुणो वस्त्र-दानं च ।। ०४.१.१७ ।।

 मुकुल-अवदातं शिला-पट्ट-शुद्धं धौत-सूत्र-वर्णं प्रमृष्ट-श्वेतं चएक-रात्र-उत्तरं दद्युः ।। ०४.१.१८ ।।

 पञ्च-रात्रिकं तनु-रागं । षड्-रात्रिकं नीलं । पुष्प-लाक्षा-मञ्जिष्ठा-रक्तं गुरु-परिकर्म यत्न-उपचार्यं जात्यं वासः सप्त-रात्रिकं ।। ०४.१.१९ ।।

 ततः परं वेतन-हानिं प्राप्नुयुः ।। ०४.१.२० ।।

 श्रद्धेया राग-विवादेषु वेतनं कुशलाः कल्पयेयुः ।। ०४.१.२१ ।।

 परार्ध्यानां पणो वेतनं । मध्यमानां अर्ध-पणः । प्रत्यवराणां पादः । स्थूलकानां माषक-द्वि-माषकं । द्वि-गुणं रक्तकानां ।। ०४.१.२२ ।।

 प्रथम-नेजने चतुर्-भागः क्षयः । द्वितीये पञ्च-भागः ।। ०४.१.२३ ।।

 तेनौत्तरं व्याख्यातं ।। ०४.१.२४ ।।

 रजकैस्तुन्न-वाया व्याख्याताः ।। ०४.१.२५ ।।

 सुवर्ण-काराणां अशुचि-हस्ताद्रूप्यं सुवर्णं अनाख्याय सरूपं क्रीणतां द्वादशपणो दण्डः । विरूपं चतुर्-विंशति-पणः । चोर-हस्तादष्ट-चत्वारिंशत्-पणः ।। ०४.१.२६ ।।

 प्रच्छन्न-विरूप-मूल्य-हीन-क्रयेषु स्तेय-दण्डः । कृत-भाण्ड-उपधौ च ।। ०४.१.२७ ।।

 सुवर्णान्माषकं अपहरतो द्वि-शतो दण्डः । रूप्य-धरणान्माषकं अपहरतो द्वादश-पणः ।। ०४.१.२८ ।।

 तेनौत्तरं व्याख्यातं ।। ०४.१.२९ ।।

 वर्ण-उत्कर्षं अपसारणं योगं वा साधयतः पञ्च-शतो दण्डः ।। ०४.१.३० ।।

 तयोरपचरणे रागस्यापहारं विद्यात् ।। ०४.१.३१ ।।

 माषको वेतनं रूप्य-धरणस्य । सुवर्णस्याष्ट-भागः ।। ०४.१.३२ ।।

 शिक्षा-विशेषेण द्वि-गुणो वेतन-वृद्धिः ।। ०४.१.३३ ।।

 तेनौत्तरं व्याख्यातं ।। ०४.१.३४ ।।

 ताम्र-वृत्त-कंस-वैकृन्तक-आर-कूटकानां पञ्चकं शतं वेतनं ।। ०४.१.३५ ।।

 ताम्र-पिण्डो दश-भाग-क्षयः ।। ०४.१.३६ ।।

 पल-हीने हीन-द्वि-गुणो दण्डः ।। ०४.१.३७ ।।

 तेनौत्तरं व्याख्यातं ।। ०४.१.३८ ।।

 सीस-त्रपु-पिण्डो विंशति-भाग-क्षयः ।। ०४.१.३९ ।।

 काकणी चास्य पल-वेतनं ।। ०४.१.४० ।।

 काल-आयस-पिण्डः पञ्च-भाग-क्षयः ।। ०४.१.४१ ।।

 काकणी-द्वयं चास्य पल-वेतनं ।। ०४.१.४२ ।।

 तेनौत्तरं व्याख्यातं ।। ०४.१.४३ ।।

 रूप-दर्शकस्य स्थितां पण-यात्रां अकोप्यां कोपयतः कोप्यां अकोपयतो द्वादश-पणो दण्डः ।। ०४.१.४४ ।।

 व्याजी-परिशुद्धौ पण-यात्रा ।। ०४.१.४५ ।।

 पणान्माषकं उपजीवतो द्वादश-पणो दण्डः ।। ०४.१.४६ ।।

 तेनौत्तरं व्याख्यातं ।। ०४.१.४७ ।।

 कूट-रूपं कारयतः प्रतिगृह्णतो निर्यापयतो वा सहस्रं दण्डः । कोशे प्रक्षिपतो वधः ।। ०४.१.४८ ।।

 चरक-पांसु-धावकाः सार-त्रि-भागं । द्वौ राजा रत्नं च ।। ०४.१.४९ ।।

 रत्न-अपहार उत्तमो दण्डः ।। ०४.१.५० ।।

 खनि-रत्न-निधि-निवेदनेषु षष्ठं अंशं निवेत्ता लभेत । द्वादशं अंशं भृतकः ।। ०४.१.५१ ।।

 शत-सहस्रादूर्ध्वं राज-गामी निधिः ।। ०४.१.५२ ।।

 ऊने षष्ठं अंशं दद्यात् ।। ०४.१.५३ ।।

 पौर्वपौरुषिकं निधिं जानपदः शुचिः स्व-करणेन समग्रं लभेत ।। ०४.१.५४ ।।

 स्व-करण-अभावे पञ्च-शतो दण्डः । प्रच्छन्न-आदाने सहस्रं ।। ०४.१.५५ ।।

 भिषजः प्राण-आबाधिकं अनाख्यायौपक्रममाणस्य विपत्तौ पूर्वः साहस-दण्डः । कर्म-अपराधेन विपत्तौ मध्यमः ।। ०४.१.५६ ।।

 मर्म-वध-वैगुण्य-करणे दण्ड-पारुष्यं विद्यात् ।। ०४.१.५७ ।।

 कुशीलवा वर्षा-रात्रं एकस्था वसेयुः ।। ०४.१.५८ ।।

 काम-दानं अतिमात्रं एकस्यातिवादं च वर्जयेयुः ।। ०४.१.५९ ।।

 तस्यातिक्रमे द्वादश-पणो दण्डः ।। ०४.१.६० ।।

 कामं देश-जाति-गोत्र-चरण-मैथुन-अवहासेन नर्मयेयुः ।। ०४.१.६१ ।।

 कुशीलवैश्चारणा भिक्षुकाश्च व्याख्याताः ।। ०४.१.६२ ।।

 तेषां अयः-शूलेन यावतः पणानभिवदेयुस्तावन्तः शिफा-प्रहारा दण्डाः ।। ०४.१.६३ ।।

 शेषाणां कर्मणां निष्पत्ति-वेतनं शिल्पिनां कल्पयेत् ।। ०४.१.६४ ।।

 एवं चोरानचोर-आख्यान्वणिक्-कारु-कुशीलवान् । ।। ०४.१.६५अ ब ।।

 भिक्षुकान्कुहकांश्चान्यान्वारयेद्देश-पीडनात् ।। ०४.१.६६च्द् ।।