अर्थशास्त्रम्/अधिकरणम् २/अध्यायः ९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ८ अर्थशास्त्रम्
अध्यायः ९
कौटिलीय:
अध्यायः १० →

 अमात्य-सम्पदाउपेताः सर्व-अध्यक्षाः शक्तितः कर्मसु नियोज्याः ।। ०२.९.०१ ।।

 कर्मसु चएषां नित्यं परीक्षां कारयेत् । चित्त-अनित्यत्वात् मनुष्यानां ।। ०२.९.०२ ।।

 अश्व-सधर्माणो हि मनुष्या नियुक्ताः कर्मसु विकुर्वते ।। ०२.९.०३ ।।

 तस्मात्कर्तारं करणं देशं कालं कार्यं प्रक्षेपं उदयं चएषु विद्यात् ।। ०२.९.०४ ।।

 ते यथा-संदेशं असंहता अविगृहीताः कर्माणि कुर्युः ।। ०२.९.०५ ।।

 संहता भक्षयेयुः । विगृहीता विनाशयेयुः ।। ०२.९.०६ ।।

 न चानिवेद्य भर्तुः कंचिदारम्भं कुर्युः । अन्यत्रऽपत्-प्रतीकारेभ्यः ।। ०२.९.०७ ।।

 प्रमाद-स्थानेषु चएषां अत्ययं स्थापयेद्दिवस-वेतन-व्यय-द्वि-गुणं ।। ०२.९.०८ ।।

 यश्चएषां यथा-आदिष्टं अर्थं सविशेषं वा करोति स स्थान-मानौ लभेत ।। ०२.९.०९ ।।

 "अल्प-आयतिश्चेत् महा-व्ययो भक्षयति ।। ०२.९.१० ।।

 विपर्यये यथा-आयति-व्ययश्च न भक्षयति" इत्याचार्याः ।। ०२.९.११ ।।

 अपसर्पेणएवौपलभ्येतैति कौटिल्यः ।। ०२.९.१२ ।।

 यः समुदयं परिहापयति स राज-अर्थं भक्षयति ।। ०२.९.१३ ।।

 स चेदज्ञान-आदिभिः परिहापयति तदेनं यथा-गुणं दापयेत् ।। ०२.९.१४ ।।

 यः समुदयं द्वि-गुणं उद्भावयति स जन-पदं भक्षयति ।। ०२.९.१५ ।।

 स चेद्राज-अर्थं उपनयत्यल्प-अपराधे वारयितव्यः । महति यथा-अपराधं दण्डयितव्यः ।। ०२.९.१६ ।।

 यः समुदयं व्ययं उपनयति स पुरुष-कर्माणि भक्षयति ।। ०२.९.१७ ।।

 स कर्म-दिवस-द्रव्य-मूल्य-पुरुष-वेतन-अपहारेषु यथा-अपराधं दण्डयितव्यः ।। ०२.९.१८ ।।

 तस्मादस्य यो यस्मिन्नधिकरणे शासनस्थः स तस्य कर्मणो याथातथ्यं आय-व्ययौ च व्यास-समासाभ्यां आचक्षीत ।। ०२.९.१९ ।।

 मूल-हर-तादात्विक-कदर्यांश्च प्रतिषेधयेत् ।। ०२.९.२० ।।

 यः पितृ-पैतामहं अर्थं अन्यायेन भक्षयति स मूल-हरः ।। ०२.९.२१ ।।

 यो यद्यदुत्पद्यते तत्तद्भक्षयति स तादात्विकः ।। ०२.९.२२ ।।

 यो भृत्य-आत्म-पीडाभ्यां उपचिनोत्यर्थं स कदर्यः ।। ०२.९.२३ ।।

 स पक्षवांश्चेदनादेयः । विपर्यये पर्यादातव्यः ।। ०२.९.२४ ।।

 यो महत्यर्थ-समुदये स्थितः कदर्यः सम्निधत्तेअवनिधत्तेअवस्रावयति वा सम्निधत्ते स्व-वेश्मनि । अवनिधत्ते पौर-जानपदेषु । अवस्रावयति पर-विषये तस्य सत्त्री मन्त्रि-मित्र-भृत्य-बन्धु-पक्षं आगतिं गतिं च द्रव्याणां उपलभेत ।। ०२.९.२५ ।।

 यश्चास्य पर-विषये संचारं कुर्यात्तं अनुप्रविश्य मन्त्रं विद्यात् ।। ०२.९.२६ ।।

 सुविदिते शत्रु-शासन-अपदेशेनएनं घातयेत् ।। ०२.९.२७ ।।

 तस्मादस्याध्यक्षाः संख्यायक-लेखक-रूप-दर्शक-नीवी-ग्राहक-उत्तर-अध्यक्ष-सखाः कर्मणि कुर्युः ।। ०२.९.२८ ।।

 उत्तर-अध्यक्षा हस्ति-अश्व-रथ-आरोहाः ।। ०२.९.२९ ।।

 तेषां अन्तेवासिनः शिल्प-शौच-युक्ताः संख्यायक-आदीनां अपसर्पाः ।। ०२.९.३० ।।

 बहु-मुख्यं अनित्यं चाधिकरणं स्थापयेत् ।। ०२.९.३१ ।।

 यथा ह्यनास्वादयितुं न शक्यम् जिह्वा-तलस्थं मधु७ वा विषं वा ।। ०२.९.३२अ ब ।।

 अर्थस्तथा ह्यर्थ-चरेण राज्ञः स्वल्पोअप्यनास्वादयितुं न शक्यः ।। ०२.९.३२च्द् ।।

 मत्स्या यथाअन्तः सलिले चरन्तो ज्ञातुं न शक्याः सलिलं पिबन्तः । ।। ०२.९.३३अ ब ।।

 युक्तास्तथा कार्य-विधौ नियुक्ता ज्ञातुं न शक्या धनं आददानाः ।। ०२.९.३३च्द् ।।

 अपि शक्या गतिर्ज्ञातुं पततां खे पतत्रिणां । ।। ०२.९.३४अ ब ।।

 न तु प्रच्छन्न-भावानां युक्तानां चरतां गतिः ।। ०२.९.३४च्द् ।।

 आस्रावयेच्चौपचितान्विपर्यस्येच्च कर्मसु । ।। ०२.९.३५अ ब ।।

 यथा न भक्षयन्त्यर्थं भक्षितं निर्वमन्ति वा ।। ०२.९.३५च्द् ।।

 न भक्षयन्ति ये त्वर्थान्न्यायतो वर्धयन्ति च । ।। ०२.९.३६अ ब ।।

 नित्य-अधिकाराः कार्यास्ते राज्ञः प्रिय-हिते रताः ।। ०२.९.३६च्द् ।।