अर्थशास्त्रम्/अधिकरणम् १/अध्यायः २१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २० अर्थशास्त्रम्
अध्यायः २१
कौटिलीय:

 शयनादुत्थितः स्त्री-गणैर्धन्विभिः परिगृह्यते । द्वितीयस्यां कक्ष्यायां कञ्चुक-उष्णीषिभिर्वर्ष-धर-अभ्यागारिकैः । तृतीयस्यां कुब्ज-वामन-किरातैः । चतुर्थ्यां मन्त्रिभिः सम्बन्धिभिर्दौवारिकैश्च प्रास-पाणिभिः ।। ०१.२१.०१ ।।

 पितृ-पैतामहं सम्बन्ध-अनुबद्धं शिक्षितं अनुरक्तं कृत-कर्माणं च जनं आसन्नं कुर्वीत । नान्यतो-देशीयं अकृत-अर्थ-मानं स्व-देशीयं वाअप्यपकृत्यौपगृहीतं ।। ०१.२१.०२ ।।

 अन्तर्-वंशिक-सैन्यं राजानं अन्तःपुरं च रक्षेत् ।। ०१.२१.०३ ।।

 गुप्ते देशे माहानसिकः सर्वं आस्वाद-बाहुल्येन कर्म कारयेत् ।। ०१.२१.०४ ।।

 तद्रजा तथैव प्रतिभुञ्जीत पूर्वं अग्नये वयोभ्यश्च बलिं कृत्वा ।। ०१.२१.०५ ।।

 अग्नेर्ज्वाला-धूम-नीलता शब्द-स्फोटनं च विष-युक्तस्य । वयसां विपत्तिश्च ।। ०१.२१.०६ ।।

 अन्नस्य ऊष्मा मयूर-ग्रीव-आभः शैत्यं आशु क्लिष्टस्यैव वैवर्ण्यं सौदकत्वं अक्लिन्नत्वं च ।। ०१.२१.०७अ ।।

 व्यञ्जनानां आशु शुष्कत्वं च क्वाथ-ध्याम-फेन-पटल-विच्छिन्न-भावो गन्ध-स्पर्श-रस-वधश्च ।। ०१.२१.०७ब ।।

 द्रवेषु हीन-अतिरिक्तच्-छाया-दर्शनं फेन-पटल-सीमन्त-ऊर्ध्व-राजी-दर्शनं च ।। ०१.२१.०७क ।।

 रसस्य मध्ये नीला राजी । पयसस्ताम्रा । मद्य-तोययोः काली । दध्नः श्यामा । मधुनः श्वेता । द्रव्याणां आर्द्राणां आशु प्रम्लानत्वं उत्पक्व-भावः क्वाथ-नील-श्यावता च ।। ०१.२१.०७ड ।।

 शुष्काणां आशु शातनं वैवर्ण्यं च । ।। ०१.२१.०७ए ।।

 कठिनानां मृदुत्वं मृदूनां च कठिनत्वम् । तद्-अभ्याशे क्षुद्र-सत्त्व-वधश्च । ।। ०१.२१.०७फ़् ।।

 आस्तरण-प्रवरणानां ध्याम-मण्डलता तन्तुरोम-पक्ष्म-शातनं च । ।। ०१.२१.०७ग् ।।

 लोह-मणिमयानां पङ्कम-लोपदेहता स्नेह-राग-गौरव-प्रभाव-वर्ण-स्पर्शवधश्च इति विषयुक्तस्य लिङ्गानि ।। ०१.२१.०७ह् ।।

 विष-प्रदस्य तु शुष्क-श्याव-वक्त्रता वाक्-सङ्गः स्वेदो विजृम्भणं चातिमात्रं वेपथुः प्रस्खलनं वाक्य-विप्रेक्षणं आवेगः कर्मणि स्व-भूमौ चानवस्थानं इति ।। ०१.२१.०८ ।।

 तस्मादस्य जाङ्गुलीविदो भिषजश्चऽसन्नाः स्युः ।। ०१.२१.०९ ।।

 भिषग्-भैषज्य-अगारादास्वाद-विशुद्धं औषधं गृहीत्वा पाचक-पेषकाभ्यां आत्मना च प्रतिस्वाद्य राज्ञे प्रयच्छेत् ।। ०१.२१.१० ।।

 पानं पानीयं चाउषधेन व्याख्यातं ।। ०१.२१.११ ।।

 कल्पक-प्रसाधकाः स्नान-शुद्ध-वस्त्र-हस्ताः समुद्रं उपकरणं अन्तर्वंशिक-हस्तादादाय परिचरेयुः ।। ०१.२१.१२ ।।

 स्नापक-संवाहक-आस्तरक-रजक-माला-कार-कर्म दास्यः प्रसिद्ध-शौचाः कुर्युः । ताभिरधिष्ठिता वा शिल्पिनः ।। ०१.२१.१३ ।।

 आत्म-चक्षुषि निवेश्य वस्त्र-माल्यं दद्युः । स्नान-अनुलेपन-प्रघर्ष-चूर्ण-वास-स्नानीयानि च स्व-वक्षो-बाहुषु च ।। ०१.२१.१४ ।।

 एतेन परस्मादागतकं व्याख्यातं ।। ०१.२१.१५ ।।

 कुशीलवाः शस्त्र-अग्नि-रस-क्रीडा-वर्जं नर्मयेयुः ।। ०१.२१.१६ ।।

 आतोद्यानि चएषां अन्तस्तिष्ठेयुः । अश्व-रथ-द्विप-अलंकाराश्च ।। ०१.२१.१७ ।।

 आप्त-पुरुष-अधिष्ठितं यान-वाहनं आरोहेत् । नावं चऽप्त-नाविक-अधिष्ठितं ।। ०१.२१.१८ ।।

 अन्य-नौ-प्रतिबद्धां वात-वेग-वशां च नौपेयात् ।। ०१.२१.१९ ।।

 उदक-अन्ते सैन्यं आसीत ।। ०१.२१.२० ।।

 मत्स्य-ग्राह-विशुद्धं उदकं अवगाहेत ।। ०१.२१.२१ ।।

 व्याल-ग्राह-विशुद्धं उद्यानं गच्छेत् ।। ०१.२१.२२ ।।

 लुब्धक-श्व-गणिभिरपास्त-स्तेन-व्याल-पर-आबाध-भयं चल-लक्ष्य-परिचय-अर्थं मृग-अरण्यं गच्छेत् ।। ०१.२१.२३ ।।

 आप्त-शस्त्र-ग्राह-अधिष्ठितः सिद्ध-तापसं पश्येत् । मन्त्रि-परिषदा सह सामन्त-दूतं ।। ०१.२१.२४ ।।

 सम्नद्धोअश्वं हस्तिनं वाआरूढः सम्नद्धं अनीकं पश्येत् ।। ०१.२१.२५ ।।

 निर्याणेअभियाने च राज-मार्गं उभयतः कृत-आरक्षं शस्त्रिभिर्दण्डिभिश्चापास्त-शस्त्र-हस्त-प्रव्रजित-व्यङ्गं गच्छेत् ।। ०१.२१.२६ ।।

 न पुरुष-सम्बाधं अवगाहेत ।। ०१.२१.२७ ।।

 यात्रा-समाज-उत्सव-प्रहवणानि च दश-वर्गिक-अधिष्ठितानि गच्छेत् ।। ०१.२१.२८ ।।

 यथा च योग-पुरुषैरन्यान्राजाअधितिष्ठति ।। ०१.२१.२९अ ब ।।

 तथाअयं अन्य-आबाधेभ्यो रक्षेदात्मानं आत्मवान् ।। ०१.२१.३०च्द् ।।