अर्थशास्त्रम्/अधिकरणम् १/अध्यायः १९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १८ अर्थशास्त्रम्
अध्यायः १९
कौटिलीय:
अध्यायः २० →

 राजानं उत्थितं अनूत्तिष्ठन्ते भृत्याः ।। ०१.१९.०१ ।।

 प्रमाद्यन्तं अनुप्रमाद्यन्ति ।। ०१.१९.०२ ।।

 कर्माणि चास्य भक्षयन्ति ।। ०१.१९.०३ ।।

 द्विषद्भिश्चातिसंधीयते ।। ०१.१९.०४ ।।

 तस्मादुत्थानं आत्मनः कुर्वीत ।। ०१.१९.०५ ।।

 नालिकाभिरहरष्टधा रात्रिं च विभजेत् । छाया-प्रमाणेन वा ।। ०१.१९.०६ ।।

 त्रिपौरुषी पौरुषी चतुर्-अङ्गुला नष्टच्-छायो मध्य-अह्नैति चत्वारः पूर्वे दिवसस्याष्ट-भागाः ।। ०१.१९.०७ ।।

 तैः पश्चिमा व्याख्याताः ।। ०१.१९.०८ ।।

 तत्र पूर्वे दिवसस्याष्ट-भागे रक्षा-विधानं आय-व्ययौ च शृणुयात् ।। ०१.१९.०९ ।।

 द्वितीये पौर-जानपदानां कार्याणि पश्येत् ।। ०१.१९.१० ।।

 तृतीये स्नान-भोजनं सेवेत । स्वाध्यायं च कुर्वीत ।। ०१.१९.११ ।।

 चतुर्थे हिरण्य-प्रतिग्रहं अध्यक्षांश्च कुर्वीत ।। ०१.१९.१२ ।।

 पञ्चमे मन्त्रि-परिषदा पत्त्र-सम्प्रेषणेन मन्त्रयेत । चार-गुह्य-बोधनीयानि च बुध्येत ।। ०१.१९.१३ ।।

 षष्ठे स्वैर-विहारं मन्त्रं वा सेवेत ।। ०१.१९.१४ ।।

 सप्तमे हस्त्य्-अश्व-रथ-आयुधीयान्पश्येत् ।। ०१.१९.१५ ।।

 अष्टमे सेना-पति-सखो विक्रमं चिन्तयेत् ।। ०१.१९.१६ ।।

 प्रतिष्ठितेअहनि संध्यां उपासीत ।। ०१.१९.१७ ।।

 प्रथमे रात्रि-भागे गूढ-पुरुषान्पश्येत् ।। ०१.१९.१८ ।।

 द्वितीये स्नान-भोजनं कुर्वीत । स्वाध्यायं च ।। ०१.१९.१९ ।।

 तृतीये तूर्य-घोषेण संविष्टश्चतुर्थ-पञ्चमौ शयीत ।। ०१.१९.२० ।।

 षष्ठे तूर्य-घोषेण प्रतिबुद्धः शास्त्रं इतिकर्तव्यतां च चिन्तयेत् ।। ०१.१९.२१ ।।

 सप्तमे मन्त्रं अध्यासीत । गूढ-पुरुषांश्च प्रेषयेत् ।। ०१.१९.२२ ।।

 अष्टमे ऋत्विग्-आचार्य-पुरोहित-स्वस्त्ययनानि प्रतिगृह्णीयात् । चिकित्सक-माहानसिक-मौहूर्तिकांश्च पश्येत् ।। ०१.१९.२३ ।।

 सवस्तां धेनुं वृषभं च प्रदक्षिणी-कृत्यौपस्थानं गच्छेत् ।। ०१.१९.२४ ।।

 आत्म-बल-आनुकूल्येन वा निशा-अहर्-भागान्प्रविभज्य कार्याणि सेवेत ।। ०१.१९.२५ ।।

 उपस्थान-गतः कार्य-अर्थिनां अद्वार-आसङ्गं कारयेत् ।। ०१.१९.२६ ।।

 दुर्दर्शो हि राजा कार्य-अकार्य-विपर्यासं आसन्नैः कार्यते ।। ०१.१९.२७ ।।

 तेन प्रकृति-कोपं अरि-वशं वा गच्छेत् ।। ०१.१९.२८ ।।

 तस्माद्देवता-आश्रम-पाषण्ड-श्रोत्रिय-पशु-पुण्य-स्थानानां बाल-वृद्ध-व्याधित-व्यसन्य्-अनाथानां स्त्रीणां च क्रमेण कार्याणि पश्येत् । कार्य-गौरवादात्ययिक-वशेन वा ।। ०१.१९.२९ ।।

 सर्वं आत्ययिकं कार्यं शृणुयान्नातिपातयेत् ।। ०१.१९.३०अ ब ।।

 कृच्छ्र-साध्यं अतिक्रान्तं असाध्यं वाअपि जायते ।। ०१.१९.३०च्द् ।।

 अग्न्य्-अगार-गतः कार्यं पश्येद्वैद्य-तपस्विनां ।। ०१.१९.३१अ ब ।।

 पुरोहित-आचार्य-सखः प्रत्युत्थायाभिवाद्य च ।। ०१.१९.३१च्द् ।।

 तपस्विनां तु कार्याणि त्रैविद्यैः सह कारयेत् ।। ०१.१९.३२अ ब ।।

 माया-योगविदां चैव न स्वयं कोप-कारणात् ।। ०१.१९.३२च्द् ।।

 राज्ञो हि व्रतं उत्थानं यज्ञः कार्य-अनुशासनं ।। ०१.१९.३३अ ब ।।

 दक्षिणा वृत्ति-साम्यं तु दीक्षा तस्याभिषेचनं ।। ०१.१९.३३च्द् ।।

 प्रजा-सुखे सुखं राज्ञः प्रजानां च हिते हितं ।। ०१.१९.३४अ ब ।।

 नऽत्म-प्रियं हितं राज्ञः प्रजानां तु प्रियं हितं ।। ०१.१९.३४च्द् ।।

 तस्मान्नित्य-उत्थितो राजा कुर्यादर्थ-अनुशासनं ।। ०१.१९.३५अ ब ।।

 अर्थस्य मूलं उत्थानं अनर्थस्य विपर्ययः ।। ०१.१९.३५च्द् ।।

 अनुत्थाने ध्रुवो नाशः प्राप्तस्यानागतस्य च ।। ०१.१९.३६अ ब ।।

 प्राप्यते फलं उत्थानाल्लभते चार्थसम्पदं ।। ०१.१९.३६च्द् ।।