अर्थशास्त्रम्/अधिकरणम् १/अध्यायः १७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १६ अर्थशास्त्रम्
अध्यायः १७
कौटिलीय:
अध्यायः १८ →

 रक्षितो राजा राज्यं रक्षत्यासन्नेभ्यः परेभ्यश्च । पूर्वं दारेभ्यः पुत्रेभ्यश्च ।। ०१.१७.०१ ।।

 दार-रक्षणं निशान्त-प्रणिधौ वक्ष्यामः ।। ०१.१७.०२ ।।

 "पुत्र-रक्षणं तु ।। ०१.१७.०३ ।।

 "जन्म-प्रभृति राज-पुत्रान्रक्षेत् ।। ०१.१७.०४ ।।

 कर्कटक-सधर्माणो हि जनक-भक्षा राज-पुत्राः ।। ०१.१७.०५ ।।

 तेषां अजात-स्नेहे पितर्युपांशु-दण्डः श्रेयान्" इति भारद्वाजः ।। ०१.१७.०६ ।।

 "नृशंसं अदुष्ट-वधः क्षत्र-बीज-विनाशश्च" इति विशाल-अक्षः ।। ०१.१७.०७ ।।

 "तस्मादेक-स्थान-अवरोधः श्रेयान्" इति ।। ०१.१७.०८ ।।

 अहि-भयं एतद्" इति पाराशराः ।। ०१.१७.०९ ।।

 "कुमारो हि "विक्रम-भयान्मां पिताअवरुणद्धि" इति ज्ञात्वा तं एवाङ्के कुर्यात् ।। ०१.१७.१० ।।

 तस्मादन्त-पाल-दुर्गे वासः श्रेयान्" इति ।। ०१.१७.११ ।।

 "औरभ्रं भयं एतद्" इति पिशुनः ।। ०१.१७.१२ ।।

 "प्रत्यापत्तेर्हि तदेव कारणं ज्ञात्वाअन्त-पाल-सखः स्यात् ।। ०१.१७.१३ ।।

 तस्मात्स्व-विषयादपकृष्टे सामन्त-दुर्गे वासः श्रेयान्" इति ।। ०१.१७.१४ ।।

 "वत्स-स्थानं एतद्" इति कौणपदन्तः ।। ०१.१७.१५ ।।

 "वत्सेनैव हि धेनुं पितरं अस्य सामन्तो दुह्यात् ।। ०१.१७.१६ ।।

 तस्मान्मातृ-बन्धुषु वासः श्रेयान्" इति ।। ०१.१७.१७ ।।

 "ध्वज-स्थानं एतद्" इति वात-व्याधिः ।। ०१.१७.१८ ।।

 "तेन हि ध्वजेनादिति-कौशिकवदस्य मातृ-बान्धवा भिक्षेरन् ।। ०१.१७.१९ ।।

 तस्माद्ग्राम्य सुखेष्वेनं अवसृजेत् ।। ०१.१७.२० ।।

 सुख-उपरुद्धा हि पुत्राः पितरं नाभिद्रुह्यन्ति" इति ।। ०१.१७.२१ ।।

 जीवन्-मरणं एतदिति कौटिल्यः ।। ०१.१७.२२ ।।

 काष्ठं इव घुण-जग्धं राज-कुलं अविनीत-पुत्रं अभियुक्त-मात्रं भज्येत ।। ०१.१७.२३ ।।

 तस्मादृतुमत्यां महिष्यां ऋत्विजश्चरुं ऐन्द्राबार्हस्पत्यं निर्वपेयुः ।। ०१.१७.२४ ।।

 आपन्न-सत्त्वायाः कौमार-भृत्यो गर्भ-भर्मणि प्रसवे च वियतेत ।। ०१.१७.२५ ।।

 प्रजातायाः पुत्र-संस्कारं पुरोहितः कुर्यात् ।। ०१.१७.२६ ।।

 समर्थं तद्विदो विनयेयुः ।। ०१.१७.२७ ।।

 "सत्त्रिणां एकश्चएनं मृगया-द्यूत-मद्य-स्त्रीभिः प्रलोभयेत्"पितरि विक्रम्य राज्यं गृहाण" इति ।। ०१.१७.२८ ।।

 तं अन्यः सत्त्री प्रतिषेधयेत्" इत्याम्भीयाः ।। ०१.१७.२९ ।।

 महा-दोषं अबुद्ध-बोधनं इत्कौटिल्यः ।। ०१.१७.३० ।।

 नवं हि द्रव्यं येन येनार्थ-जातेनौपदिह्यते तत्तदाचूषति ।। ०१.१७.३१ ।।

 एवं अयं नव-बुद्धिर्यद्यदुच्यते तत्तत्-शास्त्र-उपदेशं इवाभिजानाति ।। ०१.१७.३२ ।।

 तस्माद्धर्म्यं अर्थ्यं चास्यौपदिशेन्नाधर्म्यं अनर्थ्यं च ।। ०१.१७.३३ ।।

 सत्त्रिणस्त्वेनं "तव स्मः" इति वदन्तः पालयेयुः ।। ०१.१७.३४ ।।

 यौवन-उत्सेकात्पर-स्त्रीषु मनः कुर्वाणं आर्या-व्यञ्जनाभिः स्त्रीभिरमेध्याभिः शून्य-आगारेषु रात्रावुद्वेजयेयुः ।। ०१.१७.३५ ।।

 मद्य-कामं योग-पानेनौद्वेजयेयुः ।। ०१.१७.३६ ।।

 द्यूत-कामं कापटिकैरुद्वेजयेयुः ।। ०१.१७.३७ ।।

 मृगया-कामं प्रतिरोधक-व्यञ्जनैस्त्रासयेयुः ।। ०१.१७.३८ ।।

 पितरि विक्रम-बुद्धिं "तथा" इत्यनुप्रविश्य भेदयेयुः "अप्रार्थनीयो राजा । विपन्ने घातः । सम्पन्ने नरक-पातः । संक्रोशः । प्रजाभिरेक-लोष्ट-वधश्च" इति ।। ०१.१७.३९ ।।

 विरागं वेदयेयुः ।। ०१.१७.४० ।।

 प्रियं एक-पुत्रं बध्नीयात् ।। ०१.१७.४१ ।।

 बहु-पुत्रः प्रत्यन्तं अन्य-विषयं वा प्रेषयेद्यत्र गर्भः पण्यं डिम्बो वा न भवेत् ।। ०१.१७.४२ ।।

 आत्म-सम्पन्नं सैनापत्ये यौवराज्ये वा स्थापयेत् ।। ०१.१७.४३ ।।

 बुद्धिमान्-आहार्य-बुद्धिर्दुर्बुद्धिरिति पुत्र-विशेषाः ।। ०१.१७.४४ ।।

 शिष्यमाणो धर्म-अर्थावुपलभते चानुतिष्ठति च बुद्धिमान् ।। ०१.१७.४५ ।।

 उपलभमानो नानुतिष्ठत्याहार्य-बुद्धिः ।। ०१.१७.४६ ।।

 अपाय-नित्यो धर्म-अर्थ-द्वेषी चैति दुर्बुद्धिः ।। ०१.१७.४७ ।।

 स यद्येक-पुत्रः पुत्र-उत्पत्तावस्य प्रयतेत ।। ०१.१७.४८ ।।

 पुत्रिका-पुत्रानुत्पादयेद्वा ।। ०१.१७.४९ ।।

 वृद्धस्तु व्याधितो वा राजा मातृ-बन्धु-कुल्य-गुणवत्-सामन्तानां अन्यतमेन क्षेत्रे बीजं उत्पादयेत् ।। ०१.१७.५० ।।

 न चएक-पुत्रं अविनीतं राज्ये स्थापयेत् ।। ०१.१७.५१ ।।

 बहूनां एक-सम्रोधः पिता पुत्र-हितो भवेत् ।। ०१.१७.५२अ ब ।।

 अन्यत्रऽपद ऐश्वर्यं ज्येष्ठ-भागि तु पूज्यते ।। ०१.१७.५२च्द् ।।

 कुलस्य वा भवेद्राज्यं कुल-संघो हि दुर्जयः ।। ०१.१७.५३अ ब ।।

 अराज-व्यसन-आबाधः शश्वदावसति क्षितिं ।। ०१.१७.५३च्द् ।।