अर्थशास्त्रम्/अधिकरणम् १४/अध्यायः ४

विकिस्रोतः तः
← अध्यायः ३ अर्थशास्त्रम्
अध्यायः ४
कौटिलीय:

 स्व-पक्षे पर-प्रयुक्तानां दूषी-विष-गराणां प्रतीकारः ।। १४.४.०१ ।।

 श्लेष्मातक-कपित्थ-दन्ति-दन्त-शठ-गोजि-शिरीष-पाटली-बलास्योनाग-पुनर्-नवा-श्वेत-वारण-क्वाथ-युक्तम्(?) चन्दन-साला-वृकी-लोहित-युक्तं नेजन-उदकं राज-उपभोग्यानां गुह्य-प्रक्षालनं स्त्रीणाम् । सेनायाश्च विष-प्रतीकारः ।। १४.४.०२ ।।

 पृषत-नकुल-नील-कण्ठ-गोधा-पित्त-युक्तं मही-राजी-चूर्णं सिन्दु-वारित-वरण-वारुणी-तण्डुलीयक-शत-पर्व-अग्र-पिण्डीतक-योगो मदन-दोष-हरः ।। १४.४.०३ ।।

 सृगाल-विन्ना-मदन-सिन्दु-वारित-वरण-वारण-वली-मूल-कषायाणां अन्यतमस्य समस्तानां वा क्षीर-युक्तं पानं मदन-दोष-हरं ।। १४.४.०४ ।।

 कैडर्य-पूति-तिल-तैलं उन्माद-हरं नस्तः-कर्म ।। १४.४.०५ ।।

 प्रियङ्गु-नक्त-माल-योगः कुष्ठ-हरः ।। १४.४.०६ ।।

 कुष्ठ-लोध्र-योगः पाक-शोषघ्नः ।। १४.४.०७ ।।

 कट-फल-द्रवन्ती-विलङ्ग-चूर्णं नस्तः-कर्म शिरो-रोग-हरं ।। १४.४.०८ ।।

 प्रियङ्गु-मञ्जिष्ठा - तगर - लाक्षारस - मधुक-हरिद्रा-क्षौद्र-योगो रज्जु-उदक-विष-प्रहार-पतन-निह्संज्ञानां पुनः-प्रत्यानयनाय ।। १४.४.०९ ।।

 मनुष्याणां अक्ष-मात्रम् । गव-अश्वानां द्वि-गुणम् । चतुर्-गुणं हस्त्य्-उष्ट्राणां ।। १४.४.१० ।।

 रुक्म-गर्भश्चएषां मणिः सर्व-विष-हरः ।। १४.४.११ ।।

 जीवन्ती-श्वेता-मुष्कक-पुष्प-वन्दाकानां अक्षीवे जातस्याश्वत्थस्य मणिः सर्व-विष-हरः ।। १४.४.१२ ।।

 तूर्याणां तैः प्रलिप्तानां शब्दो विष-विनाशनः । ।। १४.४.१३अ ब ।।

 लिप्त-ध्वजं पताकां वा दृष्ट्वा भवति निर्विषः ।। १४.४.१३च्द् ।।

 एतैः कृत्वा प्रतीकारं स्व-सैन्यानां अथऽत्मनः । ।। १४.४.१४अ ब ।।

 अमित्रेषु प्रयुञ्जीत विष-धूम-अम्बु-दूषणान् ।। १४.४.१४च्द् ।।