सामग्री पर जाएँ

अर्थशास्त्रम्/अधिकरणम् ११/अध्यायः १

विकिस्रोतः तः
अर्थशास्त्रम्
अध्यायः १
कौटिलीय:

 संघ-लाभो दण्ड-मित्र-लाभानां उत्तमः ।। ११.१.०१ ।।

 संघा हि संहतत्वादधृष्याः परेषां ।। ११.१.०२ ।।

 ताननुगुणान्भुञ्जीत साम-दानाभ्याम् । विगुणान्भेद-दण्डाभ्यां ।। ११.१.०३ ।।

 काम्बोज-सुराष्ट्र-क्षत्रिय-श्रेण्य्-आदयो वार्त्त-शस्त्र-उपजीविनः ।। ११.१.०४ ।।

 लिच्छिविक-वृजिक-मल्लक-मद्रक-कुकुर-कुरु-पाञ्चाल-आदयो राज-शब्द-उपजीविनः ।। ११.१.०५ ।।

 सर्वेषां आसन्नाः सत्त्रिणः संघानां परस्पर-न्यङ्ग-द्वेष-वैर-कलह-स्थानान्युपलभ्य क्रम-अभिनीतं भेदं उपचारयेयुः "असौ त्वा विजल्पति" इति ।। ११.१.०६ ।।

 एवं उभयतो-बद्ध-रोषाणां विद्या-शिल्प-द्यूत-वैहारिकेष्वाचार्य-व्यञ्जना बाल-कलहानुत्पादयेयुः ।। ११.१.०७ ।।

 वेश-शौण्डिकेषु वा प्रतिलोम-प्रशंसाभिः संघ-मुख्य-मनुष्याणां तीक्ष्णाः कलहानुत्पादयेयुः । कृत्य-पक्ष-उपग्रहेण वा ।। ११.१.०८ ।।

 कुमारकान्विशिष्टच्-छिन्दिकया हीनच्-छिन्दिकानुत्साहयेयुः ।। ११.१.०९ ।।

 विशिष्टानां चएक-पात्रं विवाहं वा हीनेभ्यो वारयेयुः ।। ११.१.१० ।।

 हीनान्वा विशिष्टैरेक-पात्रे विवाहे वा योजयेयुः ।। ११.१.११ ।।

 अवहीनान्वा तुल्य-भाव-उपगमने कुलतः पौरुषतः स्थान-विपर्यासतो वा ।। ११.१.१२ ।।

 व्यवहारं अवस्थितं वा प्रतिलोम-स्थापनेन निशामयेयुः ।। ११.१.१३ ।।

 विवाद-पदेषु वा द्रव्य-पशु-मनुष्य-अभिघातेन रात्रौ तीक्ष्णाः कलहानुत्पादयेयुः ।। ११.१.१४ ।।

 सर्वेषु च कलह-स्थानेषु हीन-पक्षं राजा कोश-दण्डाभ्यां उपगृह्य प्रतिपक्ष-वधे योजयेत् ।। ११.१.१५ ।।

 भिन्नानपवाहयेद्वा ।। ११.१.१६ ।।

 भूमौ चएषां पञ्च-कुलीं दश-कुलीं वा कृष्यायां निवेशयेत् ।। ११.१.१७ ।।

 एकस्था हि शस्त्र-ग्रहण-समर्थाः स्युः ।। ११.१.१८ ।।

 समवाये चएषां अत्ययं स्थापयेत् ।। ११.१.१९ ।।

 राज-शब्दिभिरवरुद्धं अवक्षिप्तं वा कुल्यं अभिजातं राज-पुत्रत्वे स्थापयेत् ।। ११.१.२० ।।

 कार्तान्तिक-आदिश्चास्य वर्गो राज-लक्षण्यतां संघेषु प्रकाशयेत् ।। ११.१.२१ ।।

 संघ-मुख्यांश्च धर्मिष्ठानुपजपेत्"स्व-धर्मं अमुष्य राज्ञः पुत्रे भ्रातरि वा प्रतिपद्यध्वम्" इति ।। ११.१.२२ ।।

 प्रतिपन्नेषु कृत्य-पक्ष-उपग्रह-अर्थं अर्थं दण्डं च प्रेषयेत् ।। ११.१.२३ ।।

 विक्रम-काले शौण्डिक-व्यञ्जनाः पुत्र-दार-प्रेत-अपदेशेन "नैषेचनिकम्" इति मदन-रस-युक्तान्मद्य-कुम्भान्शतशः प्रयच्छेयुः ।। ११.१.२४ ।।

 चैत्य-दैवत-द्वार-रक्षा-स्थानेषु च सत्त्रिणः समय-कर्म-निक्षेपं सहिरण्य-अभिज्ञान-मुद्राणि हिरण्य-भाजनानि च प्ररूपयेयुः ।। ११.१.२५ ।।

 दृश्यमानेषु च संघेषु "राजकीयाः" इत्यावेदयेयुः ।। ११.१.२६ ।।

 अथावस्कन्दं दद्यात् ।। ११.१.२७ ।।

 संघानां वा वाहन-हिरण्ये कालिके गृहीत्वा संघ-मुख्याय प्रख्यातं द्रव्यं प्रयच्छेत् ।। ११.१.२८ ।।

 तदेषां याचिते "दत्तं अमुष्मै मुख्याय" इति ब्रूयात् ।। ११.१.२९ ।।

 एतेन स्कन्ध-आवार-अटवी-भेदो व्याख्यातः ।। ११.१.३० ।।

 संघ-मुख्य-पुत्रं आत्म-सम्भावितं वा सत्त्री ग्राहयेत्"अमुष्य राज्ञः पुत्रस्त्वम् । शत्रु-भयादिह न्यस्तोअसि" इति ।। ११.१.३१ ।।

 प्रतिपन्नं राजा कोश-दण्डाभ्यां उपगृह्य संघेषु विक्रमयेत् ।। ११.१.३२ ।।

 अवाप्त-अर्थस्तं अपि प्रवासयेत् ।। ११.१.३३ ।।

 बन्धकी-पोषकाः प्लवक-नट-नर्तक-सौभिका वा प्रणिहिताः स्त्रीभिः परम-रूप-यौवनाभिः संघ-मुख्यानुन्मादयेयुः ।। ११.१.३४ ।।

 जात-कामानां अन्यतमस्य प्रत्ययं कृत्वाअन्यत्र गमनेन प्रसभ-हरणेन वा कलहानुत्पादयेयुः ।। ११.१.३५ ।।

 कलहे तीक्ष्णाः कर्म कुर्युः "हतोअयं इत्थं कामुकः" इति ।। ११.१.३६ ।।

 विसंवादितं वा मर्षयमाणं अभिसृत्य स्त्री ब्रूयात्"असौ मां मुख्यस्त्वयि जात-कामां बाधते । तस्मिन्जीवति नैह स्थास्यामि" इति घातं अस्य प्रयोजयेत् ।। ११.१.३७ ।।

 प्रसह्य-अपहृता वा वन-अन्ते क्रिडा-गृहे वाअपहर्तारं रात्रौ तीक्ष्णेन घातयेत् । स्वयं वा रसेन ।। ११.१.३८ ।।

 ततः प्रकाशयेत्"अमुना मे प्रियो हतः" इति ।। ११.१.३९ ।।

 जात-कामं वा सिद्ध-व्यञ्जनः सांवदनिकीभिरौषधीभिः संवास्य रसेनातिसंधायापगच्छेत् ।। ११.१.४० ।।

 तस्मिन्नपक्रान्ते सत्त्रिणः पर-प्रयोगं अभिशंसेयुः ।। ११.१.४१ ।।

 आढ्य-विधवा गूढ-आजीवा योग-स्त्रियो वा दाय-निक्षेप-अर्थं विवदमानाः संघ-मुख्यानुन्मादयेयुः । अदिति-कौशिक-स्त्रियो नर्तकी-गायना वा ।। ११.१.४२ ।।

 प्रतिपन्नान्गूढ-वेश्मसु रात्रि-समागम-प्रविष्टांस्तीक्ष्णा हन्युर्बद्ध्वा हरेयुर्वा ।। ११.१.४३ ।।

 सत्त्री वा स्त्री-लोलुपं संघ-मुख्यं प्ररूपयेत्"अमुष्मिन्ग्रामे दरिद्र-कुल्लं अपसृतम् । तस्य स्त्री राज-अर्हा । गृहाणएनाम्" इति ।। ११.१.४४ ।।

 गृहीतायां अर्ध-मास-अनन्तरं सिद्ध-व्यञ्जनो दूष्य-संघ-मुख्य-मध्ये प्रक्रोशेत्"असौ मे मुख्यो भार्यां स्नुषां भगिनीं दुहितरं वाअधिचरति" इति ।। ११.१.४५ ।।

 तं चेत्संघो निगृह्णीयात् । राजाएनं उपगृह्य विगुणेषु विक्रमयेत् ।। ११.१.४६ ।।

 अनिगृहीते सिद्ध-व्यञ्जनं रात्रौ तीक्ष्णाः प्रवासयेयुः ।। ११.१.४७ ।।

 ततस्तद्-व्यञ्जनाः प्रक्रोशेयुः "असौ ब्रह्महा ब्राह्मणी-जारश्च" इति ।। ११.१.४८ ।।

 कार्तान्तिक-व्यञ्जनो वा कन्यां अन्येन वृतां अन्यस्य प्ररूपयेत्"अमुष्य कन्या राज-पत्नी राज-प्रसविनी च भविष्यति । सर्व-स्वेन प्रसह्य वाएनां लभस्व" इति ।। ११.१.४९ ।।

 अलभ्यमानायां पर-पक्षं उद्धर्षयेत् ।। ११.१.५० ।।

 लब्धायां सिद्धः कलहः ।। ११.१.५१ ।।

 भिक्षुकी वा प्रिय-भार्यं मुख्यं ब्रूयात्"असौ ते मुख्यो यौवन-उत्सिक्तो भार्यायां मां प्राहिणोत् । तस्याहं भयाल्लेख्यं आभरणं गृहीत्वाआगताअस्मि । निर्दोषा ते भार्या । गूढं अस्मिन्प्रतिकर्तव्यम् । अहं अपि तावत्प्रतिपत्स्यामि" इति ।। ११.१.५२ ।।

 एवं-आदिषु कलह-स्थानेषु स्वयं उत्पन्ने वा कलहे तीक्ष्णैरुत्पादिते वा हीन-पक्षं राजा कोश-दण्डाभ्यां उपगृह्य विगुणेषु विक्रमयेदपवाहयेद्वा ।। ११.१.५३ ।।

 संघेष्वेवं एक-राजो वर्तेत ।। ११.१.५४ ।।

 संघाश्चाप्येवं एक-राजादेतेभ्योअतिसंघानेभ्यो रक्षयेयुः ।। ११.१.५५ ।।

 संघ-मुख्यश्च संघेषु न्याय-वृत्तिर्हितः प्रियः । ।। ११.१.५६अ ब ।।

 दान्तो युक्त-जनस्तिष्ठेत्सर्व-चित्त-अनुवर्तकः ।। ११.१.५६च्द् ।।