अभिसमाचारिकधर्मः

विकिस्रोतः तः
अभिसमाचारिकधर्मः
[[लेखकः :|]]

(इ.प्.४३)
अभिसमाचारिकधर्मH

इ.१ म्स्.१ १ (ज्.१.१); छ्.४९९ २२

  • नमो बुद्धाय ॥ अभिसमाचारिकाणामादिः ।

भगवान् श्रावस्त्यां विहरति शास्ता देवानाञ्च मनुष्याणाञ्च
विस्तरेण निदानं कृत्वा संघस्य दानि पोषधो आयुष्मां नन्दनो
संघस्थविरो उपनन्दनो द्वितीयस्थविरो दायकदानपती पृच्छन्ति ।
आर्य किं समग्रो भिक्षुसंघो आहंसु नो दीर्घायु । को दानि
नागच्छति । भिक्षू आहंसु संघस्थविरो नागच्छति । ते दानि
ओज्झा(१ २)यन्ति । पश्यथ भणे वयन् ताव कर्म्मान्तान् च्छोरय
आगच्छाम । समग्रस्य संघस्य पादान वन्दिष्याम । देयधर्म्मञ्
च प्रतिष्ठापयिष्याम । संघस्थविरो नागच्छति । सो दानि पश्चाद्
आगत्वा संक्षिप्तेन चत्वारि पाराजिकान् धर्म्मानुद्देशियाण नो च
दक्षिणामादिशति । न परिकथां करोति । उत्थिय गतो । नवका भिक्षू
पृच्छन्ति । आयुष्मान्नागतो संघस्थविरो भिक्षू आहंसु । आगतो (१ ३) च
गतो च । ते पि नवका भिक्षू आहंसु । नैव संघस्थ(ज्.२)विरस्य आगतिः
प्रज्ञायते न गतिः । एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु ।
भगवानाह । शब्दापयथ नन्दनं सो दानि शब्दापितो । भगवान्
आह । सत्यं नन्दन एवं नाम संघस्य पोषधो ति । तदेव सर्व्वं
भगवान् विस्तरेण प्रत्यारोचयति नवका भिक्षू ओज्झायन्ति । नैव
संघस्थविरस्या(१ ४)गतिर्न्न गतिः । प्रज्ञायते ति । आह । आम भगवन् ।
भगवानाह । तेन हि एवं संघस्थविरेण पोषधे प्रतिपद्यितव्यम् ।
किन् ति दानि संघस्थविरेण पोषधे प्रतिपद्यितव्यम् । यदहो संघस्य
पोषधो भवति । तदहो संघस्थविरेण जानितव्यम् । किमद्य संघस्य
पोषधो चातुर्द्दशिको पाञ्चदशिको सन्धिपोषधो भविष्यतीति किं
पूर्व्वं भक्तम् । किं पश्चा(१ ५)द्भक्तं, । केत्तिक पौरुषाहि च्छायाहि
कहिं भविष्यति । प्रहाणशालायां वा उपस्थानशालायां वा ।
अग्निशालायां वा । मण्डलमाडे वा । यस्मिन् प्रदेशे यं दिवसं
संघस्य पोषधो भवति । संघस्थविरेण पञ्चसूत्राणि विस्तरेण
स्वाध्यायितव्यानि । यावन्तमसतो (इ.प्.४४) चत्वारि पाराजिका गाथाश्च
सिष्टकमभीक्ष्णश्रुतिकाया यदि दानि न(ना)गतो सं(१ ६)घो भवति
संघस्थविरेण यहिं भविष्यति तहिमारोचयितव्यं, । आयुष्मनद्य
संघस्य पोषधो चातुर्द्दशिको वा पाञ्चदशिको वा सन्धिपोषधो वा ।
अमुकहिं भविष्यति । प्रहाणशालायां वा । उपस्थानशालायां वा ।
मण्डलमाडे वा पुरेभक्तं वा पश्चाद्भक्तं वा । अति(भि)क्रमन्तु
आयुष्मन्तो नापि दानि आरोचितं मया ति । यत्रोलग्गिकाय आसितव्यम् ।
(ज्.३) अथ खलु प्रति(१ ७)कृत्येव पोषधस्थानं गन्तव्यं सिञ्चापयितव्यो
सन्मार्जयितव्यो गोमयकार्षी दातव्या । आसनप्रज्ञप्ति कर्त्तव्या ।
विभवो भवति शलाका गन्धोदकेन धोवितव्यायो पुष्पेहि ओकिरितव्यायो
संघस्थविरेण जानितव्यं को शलाकां चारयिष्यति । को प्रतिच्छिष्यति । को
प्रातिमोक्षसूत्रमुद्दिशिष्यति । को दक्षिणामादिशिष्यति । को परिकथां
करिष्यति । यो प्रति(२ १)बलो भवति । सो अध्येषितव्यो अयं सानं शलाकां
चारेषि । त्वं शलाकां प्रतिच्छेसि । त्वं प्रातिमोक्षसूत्रमुद्दिशेषि त्वं
भाषेसि त्वं परिकथां करेसि । त्वं दक्षिणामादिशेसि । तेन
यथाध्येष्टेन शलाका चारयितव्या । द्वितीयेन प्रतीच्छितव्या । नापि
क्षमति शलाकां चारयन्तेन अनिर्म्मादिय हस्तां शलाकां चारयितुम् ।
नापि क्षमति । ओगुण्ठिकायकृतेन उपानहा(२ २)रूढेन वा शलाकां
चारयन्त(तु)म् । अथ खलु हस्तां निर्म्मादिय ओगुण्ठिकामपनिय
उपानहामोमुञ्चिय एकांसकृतेन शलाका चारयितव्या । शलाकां पि दानि
गृह्णन्तेन न चापि क्षमति । ओगुण्ठिकाकृतेन वा उपानहारूढेन वा
शलाकां गृह्णितुं, । अथ खलु एकांशकृतेन हस्तान्निर्म्मादिय
ओगुण्ठिकामपनिय उपानहामोमुञ्चिय शलाकां गृह्णितव्या । यं कालं
(२ ३) शलाका चारिता भवन्ति भिक्षू गणिता भवन्ति । सामग्री आरोचिता
भवति । दायकदानपति परिपृच्छितव्या । किं वसिष्यथ अथ
गमिष्यथ । (ज्.४) यदि तावाहंसु गच्छाम ततो देयधर्म्मं
प्रतिष्ठापयितव्यम् । देयधर्म्ममनुमोदापयितव्यम् । धार्म्म्या
कथया संदर्शयितव्याः । समादापयितव्याः । समुत्तेजयितव्याः ।
संप्रहर्षयितव्याः । (२ ४) उद्योजयितव्याः ॥ अथ दानि आहंसु वसिष्याम
न्ति(त्ति) वक्तव्यम् । गच्छथ ताव बाह्यतो आमुहूर्त्तं, आगमेथ
भिक्षुसंघो (इ.प्.४५) ताव पोषधं करिष्यति । यं कालं दायकदानपति
निर्द्धाविता भवन्ति । ततो सूत्रोद्देशकेन जानितव्यं, ।
यदि ताव नात्या(ति)शीतं भवति । नात्यात्युष्णं न दूरदूरे विहारका
भवन्ति भिक्षू वा न जरादुर्ब्बला न व्या(२ ५)धिदुर्ब्बला वा भवन्ति ।
न वा सिंहभयं वा व्याघ्रभयं वा चौरभयं वा भिक्षू वा
सुखोपविष्टा भवन्ति । यदि ताव विस्तरेण प्रातिमोक्षसूत्रं श्रोतुकामा
भवन्ति विस्तरेण प्रातिमोक्षसूत्रमुद्दिशितव्यम् । अथ दानि अतिसि(सी)तम्
वा (अति)उष्णं वा भवति । भिक्षू वा जरादुर्ब्बला वा व्याधिदुर्ब्बला वा
भवन्ति । सिंहभयं वा व्याघ्रभयं वा चौरभयं वा भिक्षू
(२ ६) च न विस्तरेण प्रातिमोक्षसूत्रं श्रोतुकामा भवन्ति । संक्षिप्तेन
चत्वारि पाराजिकां धर्म्मामुद्दिशियानं शिष्टकमभीक्ष्णश्रुतिकाये
गाथाये च ततो यथासुखं कर्त्तव्यम् ।
अथ दानि सर्व्वरात्रिका भवति । ततो अध्येषितव्यम् । त्वं भाषयेसीति ॥
यथाध्येष्टेहि भाषमाणं सर्व्वरात्रिं धर्म्मवृष्टिये
वीतिनामियानं दायकदानपति (ज्.५) धर्म्या कथया संदर्शयितव्या
समादा(२ ७)पयितव्या समुत्तेजयितव्या संप्रहर्षयितव्या उद्योजयितव्या
यथासुखं कर्त्तव्यम् । अभिप्रमोदन्तु आयुष्मन्तो । एवं
संघस्थविरेण पोषधे प्रतिपद्यितव्यम् । न प्रतिपद्यति ।
अभिसमाचारिका(ं) धर्म्मामतिक्रमति ॥*॥
इ.२ म्स्.२ ७ (ज्. ५.५); छ्.४९९ २
भगवान् श्रावस्त्यां विहरति । शस्ता देवानाञ्च मनुष्याणाञ्च
विस्तरेण निदानं कृत्वा संघस्य दानि पोषधो आयुष्मां नन्दनो (२ १)
संघस्थविरो उपनन्दनो द्वितीयस्थविरो संघस्थविरो आगतो भिक्षु
आगता द्वितीयस्थविरो नागच्छति । दायकदानपति दानि देयधर्म्माणि
आदाय प्रतिपालेन्ति । समय(ग्र)ं च भिक्षुसंघं वन्दिष्यामः ।
देयधर्म्मञ्च प्रतिष्ठापयिष्यामो ति ॥ ते दानि पृच्छन्ति । आर्य
समग्रो भिक्षुसंघो अ(आ)हंसु नोहेतं दीर्घायु को खलु नागच्छति ।
आहंसु द्वितीयस्थविरो नाग-च्छ(२ २)ति । ते दानि ओज्झायन्ति वयं ये(व)
ताव कर्म्मान्ता च्छोरिय आगतागच्छाम समग्रस्य संघस्य पादां
वन्दिष्यामः । देयधर्म्मञ्(इ.प्.४६) च प्रतिष्ठापयिष्यामः ।
द्वितीयस्थविरो पि नागच्छति । ते दानि मुहू-र्त्तमात्रं प्रतिपालिय आसित्वा
देयधर्म्मं प्रतिष्ठापयित्वा गताः । सो दानि अतिविकाले आगतो
संघस्थविरो ओज्झायति । अस्माकं भगवान् दण्डकर्म्मन् ददाति
द्वितीयस्थविर(२ ३)स्य मोन्ति(त्ति)का । एतं प्रकरणं भिक्षू भगवतो
आरोचयन्ति । भगवानाह ॥ शब्दापयथ उपनन्दनं सो दानि
शब्दापितो । भगवानाह ॥ सत्यमुपनन्दन (ज्.६) एवं दानि संघस्य
पोषधो ति । तदेव सर्व्वं भगवां विस्तरेण प्रत्यारोचयति । याव
संघस्थविरो पि ओज्झायति । अस्माकं भगवां दण्डकर्म्मन् देति ।
द्वितीयस्थविरस्य मोन्ति(त्ति)का (२ ४) आह । आम भगवन्
भगवानाह । तेन हि एवं द्वितीयस्थविरेण पोषधे प्रतिपद्यितव्यम् ।
किन् ति दानि द्वितीयस्थविरेण पोषधे प्रतिपद्यितव्यम् । यदहो दानि
संघस्य पोषधो भवति । संघस्थविरो न प्रतिबलो भवति ।
द्वितीयस्थविरेण जानितव्यम् । किमद्य संघस्य पोषधो चतुर्द्दशिको वा
पाञ्चदशिको वा सन्धिपोषधो वा किं रा(२ ५)त्रिपोषधो भविष्यति
दिवापोषधो पुरेभक्ति भविष्यति । पश्चाद्भक्तम् । कहिं भविष्यति ।
उपस्थानशालायां वा प्रहाणशालायां वा मण्डलमाडे वा ।
उच्छेदनके वा निषद्याय वा त्ति यहिं भवति । तहिमारोचयितव्यम् ।
आयुष्मनद्य संघस्य पोषधो चातुर्द्दशिको वा पाञ्चदशिको वा ।
अथ दानि संघस्थविरो न प्रतिबलो भव(२ ६)ति । द्वितीयस्थविरेण
प्रकृत्येव पोषधस्थानं सिञ्चापयितव्यम् । सन्मार्जयितव्यम् ।
गोमयकार्षी दातव्या आसनप्रज्ञप्तिः कर्त्तव्या विभवो भवति शलाका
गन्धोदकेन धोवयितव्या।यो पुष्पेहि ओकिरितव्यायो संघस्थविरो न
प्रतिबलो भवति । द्वितीयस्थविरेण जानितव्यं को शलाकां चारयिष्यति । को
शलाकां प्रतिच्छिष्यति । को प्रातिमोक्षसूत्रमुद्दिशिष्य(२ ७)ति । को
भाषिष्यति । को दक्षिणामादिशिष्यति । को परिकथां करिष्यति । यो प्रतिबलो
भविष्यति । सो अध्येषितव्यो । त्वं शलाकां चारयिष्यसि । त्वं प्रतिच्छेष्यसि
याव त्वं परिकथां कारयसीति । ततो शलाकां चारन्तेन न (ज्.७) क्षमति
ओगुण्ठिकाकृतेन वा उपानहारूढेन वा हस्तेहि वा अनिर्म्मादितेहि
शलाकां चारयितुम् । अथ खलु हस्तान्निर्म्मादियानमुपानहां
ओमुञ्चिय (३ १) एकांसकृतेन शलाका चारयितव्या शलाकां पि
प्रतिच्छन्तेन न क्षमति ओगुण्ठिकाकृतेन वा उपानहारूढेन वा
(इ.प्.४७) हस्तेहि वा अनिर्म्मादितेहि शलाकां प्रतिच्छितुम् । अथ खलु हस्तान्
निर्म्मादियाण उपानहामोमुञ्चियाण एकांसकृतेन शलाका
प्रतिच्छितव्या । यदा शलाका चारिता भवन्ति भिक्षू गणिता भवन्ति
सामग्री आरोचिता भवति । ततो दायकदानपती पृच्छि(३ २)तव्याः किम्
वसिष्यथ उत गमिष्यथ यदि ताव जल्पन्ति । गच्छाम ततो
देयधर्म्मं प्रतिष्ठापयितव्या देयधर्म्मो अनुमोदापयितव्यो
परिकथा कर्त्तव्या धार्म्या कथया संदर्शिय समादापिय समुत्तेजिय
सम्प्रहर्षयित्वा उद्योजयितव्या । अथ दानि जल्पन्ति वसिष्याम न्ति(त्ति)
वक्तव्यम् । मुहूर्त्तन् ताव बाह्यतो आगमेथ संघो ताव पोषधं
करिष्यति । यदा काले दायकदानपति (३ ३) निर्द्धाविता भवन्ति ततो
सूत्रोद्देशकेन जानितव्यम् ।
यदि ताव अतिसीतं वा अत्युष्णं वा भवति । भिक्षू वा जरादुर्ब्बला वा
व्याधिदुर्ब्बला वा भवन्ति दूरदूरे वा परिवेणा भवन्ति सिंहभयम्
वा व्याघ्रभयं वा चोरभयं वा भवति । भिक्षू वा न विस्तरेण
श्रोतुकामा भवन्ति । संक्षिप्तेन (ज्.८) चत्वारि पाराजिका उद्दिशितव्यम् ।
शिष्टकमभीक्ष्णश्रुतिकाये गा(३ ४)थायो च । ततो यथासुखं
कर्त्तव्यम् । अथ दानि नात्यातिशीतं न चात्यात्युष्णं न दूरदूरे
परिवेणा भवन्ति । भिक्षू च सुखोपविष्टा भवन्ति विस्तरेण श्रोतुकामा
ततो विस्तरेण प्रातिमोक्षसूत्रमुस्सारयितव्यम् । ततो यथासुखङ्
कर्त्तव्यम् ।
अथ दानि सर्व्वरात्रिका भवति । संघस्थविरो न प्रतिबलो भवति
द्वितीयस्थविरेण अध्येषितव्यम् । त्व(३ ५)या भाषितव्यं त्वया भाषितव्यं
यथाध्येष्टेहि भाषणाय सर्व्वरात्रिं धर्म्मवृष्टिये वीतिनामिय ।
(या)न दायकदानपति धार्म्म्य(या) कथया सन्दर्शिय समादापिय
समुत्तेजिय संप्रहर्षयित्वा उद्योजयितव्या । ततो यथासुखं कर्त्तव्यम् ।
अभिप्रमोदयंतु आयुष्मन्तो अभिप्रमोदयंतु आयुष्मन्तो अप्रमादेन
संपादयितव्यम् । एवं द्वितीयस्थवि(३ ६)रेण पोषधे प्रतिपद्यितव्यम् । न
प्रतिपद्येति अभिसमाचारिकां धर्म्मानतिक्रमति ॥ *॥

(इ.प्.४८) इ.३ म्स्.३ ६ (ज्. ८.१४); छ्.४९९ १४
भगवान् श्रावस्त्यां विहरति । शास्ता देवानाञ्च मनुष्याणाञ्च
विस्तरेण निदानं कृत्वा संघस्य दानि पोषधो आयुष्मान्नन्दनो
संघस्थविरो उपनन्दनो द्वितीयस्थविरो आगतो भिक्षू ओसरन्तिकाये न
आगच्छन्ति दायकदानपति पृच्छन्ति आर्य समग्रो भिक्षुसंघो भिक्षू
आहं,(३ ७)सु । नोहीदं दीर्घायु को खु नागच्छति । भिक्षू आहंसु ।
(ज्.९) एते हि भिक्षू ओसरन्तिकाये न आगच्छन्ति । ते दानि ओज्झायन्ति । वयं
येच(व) कर्म्मान्तां च्छोरिय च्छोरिय आगता आगच्छाम । समग्रस्य
पादां वन्दिष्याम । देयधर्म्मञ्च प्रतिष्ठापयिष्यामः । इमे पि
आर्यमिश्रा ओसरतिकाये नागच्छन्ति । संघस्थविरो च द्वितीयस्थविरो च
ओध्यायन्ति । अस्माकं भगवां दण्डकर्म्मन् देति । एषां, (३ १)
मोन्ति(त्ति)को भिक्षू एता(त)ं प्रकरणमारोचयन्ति भगवानाह ।
शब्दापयथ भिक्षून ते दानि शब्दापिताः । भगवानाह । सत्यं
भिक्षवो एवं दानि संघस्य पोषधो ति । तदेव सर्व्वं भगवान्
विस्तरेण प्रत्यारोचयति । याव संघस्थविरो च द्वितीयस्थविरो च
ओध्यायन्ति । अस्माकं भगवान् दण्डकर्म्मन् देति । इमेषां मोन्ति(त्ति)का
आहंसुः । आम भगवन्
भगवानाह । तेन हि सर्व्वेहि एवं (३ २) पोषधे प्रतिपद्यितव्यम् । किन्
ति दानि । एवं सर्व्वेहि पोषधे प्रतिपद्यितव्यम् । सर्व्वेहि जानितव्यम् । किं
खल्वद्य पक्षस्य प्रतिपदा द्वितीया यावत्पञ्चदशी यदि दानि कोचि
पृच्छति । भन्ते कतमाद्य न दानि वक्तव्यम् । कतमा पुन हि यो
भूषीति । अवश्यं वंसविदलिकाहि वा नलविदलिकाहि वा लिखित्वा सूत्रेण
आब्र(बु)णित्वा द्वारकोष्ठके वा प्रासादे वा कल्पियकुटिकायां वा
बन्धितव्यं (३ ३) कीलकानि खनेत्वा द्वारे (ज्.१०) स्था(त)व्यम् । यो दानि
भवति मासचारिको वा पक्षचारिको तेन एकमेकं संसारयितव्यं
देवसिकं यथाज्ञापेत कतिमाद्य सर्व्वेहि जानितव्यम् । एषो दानि
संघस्य पोषधो भवति । संघस्थविरो न प्रतिबलो भवति ।
द्वितीयस्थविरो न प्रतिबलो भवति । यो तत्र प्रतिबलो भवति तेन
जानितव्यम् । किमद्य संघस्य (३ ४) पोषधो चातुर्द्दशिको वा
पाञ्चदशिको वा सन्धिपोषधो वा दिवारात्रौ वा (इ.प्.४९) पोषधे
पुरोभक्तं वा पश्चाद्भक्तं वा कति पौरुषाहि च्छायाहि कहिं
भविष्यति । प्रहाणशालायां वा उपस्थानशालायां वा मण्डलमाडे वा
ओच्छेदके चंक्रमे वा निषद्याय न्ति(त्ति) यहिं भवति तहिं
आरोचयितव्यम् । अभिक्रमन्तु आयुष्मन्तो ति नायं (क्षमति) आरोचितं
म(३ ५)या ति पा(य)त्रोल्लग्गिकाये आसितुम् ।
अथ खलु यदि ताव संघस्थविरो न प्रति(बलो) भवति । द्वितीयस्थविरो
न प्रतिबलो भवति । यो तत्र प्रतिबलो भवति । तेन प्रकृत्येव
पोषधस्थानं गन्तव्यं पोषधस्थानं सिञ्चितव्यम् । सन्मार्जितव्यम् ।
गोमयकार्षी दातव्या आसनप्रज्ञप्तिः कर्त्तव्या । विभवो भवति शलाका
गन्धोदकेन धोवितव्या । पुष्पे(३ ६)हि ओकिरितव्या । संघस्थविरो न
प्रतिबलो भवति । द्वितीयस्थविरो न प्रतिबलो भवति । यो तत्र प्रतिबलो
भवति । तेन जानितव्यम् । को शलाकां चारयिष्यति । को शलाकां
प्रतिच्छिष्यति । को प्रातिमोक्षसूत्रमुद्दिशिष्यति । को दक्षिणां
आदिशिष्यति । को परिकथां करिष्यति । यदि तावत्प्रतिबलो भवति आत्मना
सर्व्वं कर्त्तव्यम् । अथ दानि न प्रतिबलो भवति । यो तत्र प्रति(३ ७)बलो
भवति । सो अध्येषितव्यो त्वं शलाकां (ज्.११) चारयेसि त्वं शलाकां
प्रतिच्छेसि त्वं प्रातिमोक्षमुद्दिशेसि त्वं भाषेसि त्वं दक्षिणामादिशेषि
त्वं परिकथां कारयेसि । शलाकां पि च चारयन्तेन न क्षमति ।
अनिर्म्मादितकेहि हस्तेहि उपानहारूढेन ओगुण्ठि(काकृ)तेन वा शलाकां
चारयितुम् ।
अथ खलु हस्तां निर्म्मादिय उपानहामोमुञ्चिय एकांशकृतेन शलाका
चारयितव्या (४ १) शलाकां पि दानि प्रतिच्छन्तेन न क्षमति ।
अनिर्म्मादितकेहि हस्तेहि उपानहारूढेन वा ओगुण्ठिकाकृतेन वा
शलाकां प्रतिच्छितुम् ॥ अथ खलु हस्तां निर्म्मादियाण उपानहां
मुञ्चिय एकंशकृतेन शलाका प्रतिच्छितव्या । यं कालं शलाका चारिता
भवन्ति । भिक्षू गणिता भवन्ति । सामग्री आरोचिता भवति ।
दायकदानपति पृच्छितव्याः ः । किं वशिष्यथ अथ (४ २) गच्छथ । यदि
ताव जल्पन्ति । गच्छाम न्ति(त्ति) देयधर्म्म प्रतिष्ठापयितव्यो ।
देयधर्म्ममनुमोदापयितव्यो । धार्म्या कथया संदर्शिय
समादापिय समुत्तेजिय संप्रहर्षयित्वा उद्योजयितव्या ।
(इ.प्.५०) अथेदानिं जल्पन्ति वसिष्याम न्ति(त्ति) । वक्तव्यम् । बाह्यतो ताव
यूयं मुहूर्त्तमागमेथ संघो ताव पोषधं करिष्यति । यं कालं
दायकदानपति निर्द्धाविता भवन्ति । ततो सूत्रोद्देश(४ ३)केन
जानितव्यम् । यदि ताव नातिशीतं भवति नात्यूष्णं वा चोरभयं वा न
भवति सिंहभयं वा व्याघ्रभयं वा न (ज्.१२) भवति । न दूरदूरे
वा परिवेणा भवन्ति भिक्षू वा न जरादुर्ब्बला वा व्याधिदुर्ब्बला
भवन्ति । सुखोपविष्टा भवन्ति विस्तरेण श्रोतुकामा भवन्ति । ततो
विस्तरेण प्रातिमोक्षसूत्रमुद्दिशितव्यम् । अथ दानि सर्व्वरात्रिका भवति ।
भाषणका (४ ४) अध्येषितव्याः । त्वया भाषितव्यं त्वया भाषितव्यन् ति ॥
यथाध्येष्टेहि । भाषियाणं सर्व्वरात्रि धर्म्मवृष्टियेर्
व्वीतिनामियान दायकदानपति धर्म्या कथया संदर्शयितव्या याव
उद्योजयितव्या । ततो यथासुखं कर्त्तव्यम् । अभिप्रमोदतु आयुष्मन्तो
अप्रमादेन संपादयितव्यम् । एवं सर्व्वेहि पोषधे प्रतिपद्यितव्यं न
प्रतिपद्यन्ति विनयातिक्रममा(४ ५)सादयन्ति ॥*॥

इ.४ म्स्.४ ५ (ज्.१२.११); छ्.४९९ २८
भगवान् श्रावस्त्यां विहरति शास्ता देवानाञ्च मनुष्याणाञ्च
विस्तरेण निदानं कृत्वा संघस्य दानि बाहिरकं भक्तमायुष्मान्
नन्दनो संघस्थविरो द्वितीयस्थविरो उपनन्दनो आगतो भिक्षू आगताः ।
संघस्थविरो नागच्छाति । ओदनो शीतलो भवति । सूपो शीतलो भवति ।
घृतं थीयति मांसं थीयति व्यञ्जनानि शीतली(४ ६)भवन्ति ।
दायकदानपति पृच्छन्ति । आर्य किं समग्रो भिक्षुसंघो आहंसु
नोहेदं दीर्घायु को खु नागच्छति । आहंसु संघस्थविरो नागच्छति ।
ते दानि ओज्झायन्ति । वयं येच(व) ताव कर्म्मान्तां च्छोरिय
आगतागच्छागच्छाम समग्रं भिक्षुसंघं परिविशिष्यामः ।
संघस्थविरो पि नागच्छति । (ज्.१३) सो दानि पश्चादागच्छियाण
भुंजियाण संक्षिप्तेन दक्षिणामादिशिय न परिकथां (४ ७) करोति ।
नापि दायकदानपतिं धर्म्या कथया (इ.प्.५१) संदर्शयति
समादापयति । समुत्तेजयति । संप्रहर्षयति । उत्थिहि(य) गतो नवका
भिक्षू पृच्छन्ति । आगतो संघस्थविरो आहंसु आगतो च गतो च ते दानि
ओध्यायति नैव संघस्थविरस्य आगतिर्(न) ग्गतिः प्रज्ञायति । एतं
प्रकरणं भिक्षू भगवतो आरोचयेंसु । भगवानह । शब्दापयथ
नन्दनम् । सो (४ १) दानि शब्दावितो भगवानाह । सत्यं नन्दन एवन्
नाम संघस्य बाहिरकं भक्तं (नन्दनो) संघस्थविरो उपनन्दनो
द्वितीयस्थविरो ति तदेव सर्व्वं भगवान् विस्तरेण प्रत्यारोचयति । याव
नवका भिक्षू ओध्यायन्ति । याव संघस्थविरस्यागतिर्न्न गति
प्रज्ञायते । आह । आम भगवन्
भगवानाह । तेन हि संघस्थविरेण एवं भक्ताग्रे प्रतिपद्यितव्यम् ।
किन् ति दानि संघस्थविरे(४ २)ण एवं भक्ताग्रे प्रतिपद्यितव्यम् ।
संघस्थविरेण जानितव्यम् । कस्याद्य भक्तमुभयतो सांघिकं
सर्व्वं सांघिकं परिवेणिकम् । पाटियभक्तं ग्रामे विहारे एषो दानि
कोचि संघं भक्तेन शुवेतनाय निमन्त्रेति । न दानि संघस्थविरेण
गतागतस्य अधिवासयितव्यम् । अथ खलु संघस्थविरेण जानितव्यं को
यं निमन्त्रेति । आगन्तुको गमिको गृहस्थो प्रव्रजितो स्त्री पुरुषो
दा(४ ३)रको दारिका पृच्छितव्यम् । किन्नामको सि (ज्.१४) किङ्गोत्रको सि । किं
कर्म्मिका ते मातापितरौ कतमं देशं गृहं कतमायां रथ्यायां
कुतो मुखं गृहस्य वा साकारं सोद्देशं पृच्छियाणं ततो
धिवासयितव्यम् । नापि दानि अधिवासित(ं) मयेति । यत्रोल्लग्नाये आसितव्यम् ।

अथ खलु प्रकृत्येव मासचारिको पक्षचारिको वा प्रेषयितव्यो गच्छ
जाना(४ ४)हि किं सज्जियतीति । अनेकाय तहि जातकं भवेयं मृतकं वा
भवेय सन्धि वा च्छिन्नो अग्निदाहो वा राजकुलातो वा उपद्रवो ढोस्सा वा
विटा वा वातपुत्रो वा विहेठनाभिप्राया निमन्त्रयेंसु तेन गच्छिय
पृच्छितव्यम् । कोचि इमंहि इत्थन्नामो नाम उपासको यदि ताव आहंसु
नास्ति अस्माकं कोचि एवं नाम उपासको वक्तव्यं [भि]क्षु(४ ५)संघो तेन
निमन्त्रितो किं सिध्यति वा पच्यति वा । यदि ताव आहंसु कस्य भक्तं
कस्य सिध्यति कस्य पच्यतीति जानितव्यम् । विप्रलब्धो भिक्षुसंघो ति
(इ.प्.५२) आगच्छिय यदि ताव अनुग्रहो भवति अनुग्रहो साधयितव्यो ।
अनुग्रहो न भवति भक्तानि भवन्ति । भक्तानि उद्दिशितव्यानि । भक्तानि
न भवन्ति रणरणा(य) गण्डि आहणिय वक्तव्यम् । आयु(४ ६)ष्मन्
विप्रलब्धो भिक्षुसंघो स्वकस्वकां वृत्तिं पर्येषथ । सर्व्वेहि
पटिपाटिकाय पिण्डाय प्रविशितव्यम् । अथ दानि ते जल्पन्ति । भन्ते एतं
सिध्यति प्रविशति(तु) भिक्षुसंघो ति ततो रणरणाय गण्डी आहणिय यदि
ताव हेमन्तो भवति अनुकालं (ज्.१५) प्रविशितव्यम् । मा कालो
तिक्रयि(मि)ष्यतीति । अथ दानि ग्रीष्मो कालो भवति शीतलकसंगेन
अनुकाल्यं प्रविशितव्यम् ॥
अथ (४ ७) दानि वर्षारात्रो कालो भवति देवान्तरायेन अनुकाल्यं
प्रविशितव्यम् । मा कालो अतिक्रमिष्यतीति । यदि ताव (न) संज्ञ(ज्ज)म्
भवति । महन्तो च कालो भवति कहिञ्चि च गन्तुकामो भवति । कस्यचित
भिक्षुस्य जल्पितव्यम् । अमुकं कुलमुपसंक्रमिष्यथ यदा सज्जं
भवेय । ततो मा पटिसरेसि । न दानि तेन आमन्त्रितं मया ति
भद्रपालकृत्येहि हण्ठितव्यम् । अथ खलु प्रति(५ १)कृत्येव आगन्तव्यं
प्रविशतेहि जानितव्यम् । कथमासना प्रज्ञप्ताः । अतिदक्षिणमनुवामां
कदाचि मङ्गलकरणीये अतिदक्षिणं प्रज्ञप्तं भवति । तथा येव
उपवेष्टव्यम् । अथ दानि प्रेतकरणीये अनुवामं प्रज्ञप्तं भवति ।
तथा येव उपवेष्टव्यं नापि दानि क्षमति । प्रविशन्तेहि भण्डं
लंघंतेहि कांसभाजनं लंघंतेहि दारकदारिकां लंघंतेहि
गन्तुम् । अथ खलु भण्डं प(५ २)रिवर्जन्तेहि कांसभाजनं
परिवर्जन्तेहि दारकदारिकांस परिवर्जन्तेहि प्रविशितव्यम् । नापि दानि
क्षमति गतागतस्य उपविशन्त(तु)म् । अथ खलु हस्तेन आसनं
प्रत्यवेक्षितव्यम् । अनैकायो तत्र गर्भरूपाणि सोपायितकानि भवेंसुः ।
कांसभाजनानि वा थपितकानि भवेंसुः । अथ खलु हस्तेन
परांमृशियाण जानितव्यम् । ओहेष्य(य्य)कानां (ज्.१६) ग्लानकानां
प्रतिकृत्ये(५ ३)व दापितव्यम् । अथ दानि सो मनुष्यो अनाचीर्ण्णदानो वा
भवति । तित्तिनो वा भवति न दानि अध्युपेक्षितव्यम् । वक्तव्यं दीर्घायु
अवश्यन् तेषां दातव्यं पिण्डपातं (इ.प्.५३) । अथ दानि दायकदानपति
जल्पन्ति पटिपाटिकाय गृह्नथ न्ति(त्ति) हेमन्तो च कालो भवति वक्तव्यं
नहि न्ति(त्ति) । भगवता अनेकपर्यायेण ग्लानो परित्तो किं वा अम्भेहि
विहारशू(५ ४)न्यं शक्यं कर्त्तुं ति लघु कालो अतिक्रमति । देथ यूयन् ति
अथ दानि ग्रीष्मो वा वर्षा वा रात्रो वा कालो भवति चिरेहि कालो
अतिक्रमति । पटिपाटिकाय गृह्नितव्यम् । ततो संघस्थविरेण जानितव्यम् ।
किमारभ्य देति तथा येच(व) निमन्त्रणापेतव्यं भोजनं दीयति
महन्तो पिण्डो परिगृहीतो भवति । संघस्थविरेण वक्तव्यम् । सर्व्वेषां
एत्त(५ ५)कैत्तकं भविष्यति । आह । नहि आर्यस्य एतमेवं दीयति
वक्तव्यम् । तथा देहि । यथा सर्व्वेषां समं भवति । अथ दानाह
भविष्यतीति प्रतीच्छितव्यम् । अथ दानि सो थोकिना अर्थिको भवति
वक्तव्यं मम थोकं देहि हेष्ठा बहुमेवम् ॥ पे ॥ सूपस्य घृतस्य
मांसस्य ओलंकानां दधिस्य ततो नापि क्षमति संघस्थविरेण लब्धो
पिण्डो (५ ६) द्वारं पश्यिय लप्यल(प्)याये भुंजियाण उत्थिहिय गन्तुम् ।
अथ खलु ओदनसम्पत्तिर्व्वा आगमंतेन भुंजितव्यम् ।
व्यञ्जनसम्पत्तिर्व्वा आगमंतेन भुञ्जितव्यं न भुञ्जित्वा हस्तं
निक्षिपिय आसितव्यम् । मा हेव ओत्रपेंसु । अथ खलु अनुजानेतव्यम् । यदा
नवकाः सन्तर्पिता भवन्ति । उपग्रायन्ति पानीयं वा पिबन्ति । हस्तां वा
उक्कढ्ढिय आसन्ति । न दानि संघस्थविरेण भुञ्ज(५ ७)न्तकेनैव
उत्थाय आसनातो गन्तव्यम् । लब्धो पिण्डो द्वारं पश्यिय । अथ खलु
संघस्थविरेण आगमेतव्यम् । दीर्घोदकं दापेतव्यम् । परिकथा
कर्त्तव्या । दक्षिणा आदिसितव्या । जानितव्यम् । किमालम्बनं भक्तं
जातकं मृतकं वा चे(वे)वाहिकं वा गृहप्रवेशकं वा आगन्तुकस्य
गमिकस्य गृहस्थस्य प्रव्रजितस्येति ।
यदि ताव जान(त)कंभवति । नायं दक्षिणा आदि(शि)त(५ १)व्या ।
अयं कुमारो शिवपथिकाय च्छन्दितो
अङ्गुष्ठस्नेहेन यापये सप्तरात्रं
शुनखा शृगाला च नं लंघयन्तु ।
(इ.प्.५४) काका च अक्षिमलं हरन्ता
(ज्.१८) नायमेवं दक्षिणा आदिशितव्या ।

अथ खलु दक्षिणा आदिशितव्या ।
अयं कुमारो शरणमुपेतु
बुद्धं विपश्यिञ्च शिखि(ञ्) च विश्वभुं
क्रकुच्छन्द कोनाकमुनिञ्च काश्यपं
महायशं शाक्यमुनिञ्च गौतमम् ।
एतेहि बुद्धेहि महर्द्धिकेहि
(५ २)ये देवता सन्ति अभिप्रसन्ना
ता नं रक्षंतु ता च नं पालयन्तु
यथा नमिच्छति माता यथा नमिच्छति पिता
अतो श्रेयतरो भोतु कुमारो कुलवर्द्धनो ।
एवं दक्षिणा आदिशितव्या ।

अथ दानि मृतकं भवति । नायं क्षमति । एवं दक्षिणा आदिशितुं
अद्य ते सुदिवसं सुमहाबलं
भद्रकाक्षण मुहूर्त्तं प्रस्थिता
अद्य ते सुविहिते सुविहितेहि ।
दक्षिणा अग्रभाजनग(५ ३)गता विरोचति ।
(ज्.१९) नायमेवं दक्षिणा आदिशितव्या ।

अथ खलु दक्षिणा आदिशितव्या ।
सर्व्वसत्वा मरिष्यन्ति मरणान्तं हि जीवितम् ।
यथाकर्म्म गमिष्यन्ति पुण्यपापफलोपगाः ॥
निरयं पापकर्म्माणो कृतपुण्या च स्वर्ग्गतिम् ।
अपरे मार्ग्गं भावयित्वा परिनिर्व्वान्ति अनाश्रवा इति ॥

(इ.प्.५५) एवं दक्षिणा आदिशितव्या ॥

अथ दानि वेदा(वा)हिकं भवति । ना(५ ४)यं दक्षिणा आदिशितव्या ।
नग्ना नदी अनोदिका नग्नं राष्ट्रमराजकम् ।
इस्त्री पि विधवा नग्ना सचेस्या दश भ्रातरो
(ज्.२०) नायमेवं दक्षिणा आदिशितव्या ।

अथ खलु दक्षिणा आदिशितव्या ।
इस्त्रि पि पेशला भवतु श्राद्धा भवतु पतिव्रतानुगा
शीलवती यो(त्या)गसम्पन्ना सम्यग्दृष्टि च या इह ।
पुरुषो पि पेशला भवतु श्राद्धो भवतु व्रता(५ ५)नुगो ।
शीलवां त्यागसम्पन्नो सम्यग्दृष्टि च यो इह ॥
उभौ श्रद्धाय सम्पन्ना उभौ शीलो(ले)हि संवृता ।
उभौ पुण्यानि कृत्वान समशीलव्रता उभौ ॥
विधिना देवलोकस्तु मोदन्तु कामकामिनो ।
तामेव भार्यां चरेया यो अस्या सीलेहि संवृता ॥
असतिं परिवर्जेया मार्ग्गं प्रतिभयं यथा ।
एवं दक्षिणा आदिशितव्या ॥

अथ दा(५ ६)नि घरप्रवेशनिकं भवति । नायं दक्षिणा आदिशितव्या ।
(ज्.२१) आदीप्तस्मिमागरे यो निहरति भण्डकं तं
खु तस्य स्वकं भवति । न खलु यो तत्र दह्यति ।
एवमादीपिते लोके मृत्युना च जरया च
यो नीहरति । दानेन दिन्नं तमाहुति हुतम् ।
नायमेवं दक्षिणा आदिशितव्या ॥

अथ खलु दक्षिणा आदिशितव्या
विभक्तभागं रुचिरं मनोरमं
(इ.प्.५६) प्रशस्तमार्ये[ह्]इ नवं निवे(५ ७)शनम् ।
प्रविश्य वृद्धिये वराये भूरीये
शिरीये लक्ष्मीपरिग्रहेण च ।
इमस्मि आगारे निवसन्तु देवताः ।
महाभिषङ्क न च अनुकम्पिका
यं विभवधनधान्येन सम्भवो
भूरिमे च सा यस्मिं प्रदेशे
मेधावी वा संकल्पेति पण्डितो
शीलवातन्त्र(न् तत्र) भोजेया संयतां ब्रह्मचारिणो ।
(ज्.२२) या तत्र देवता अस्या तासां दक्षिणामादिशेहि ।
ताये वस्तुमालानां चिररात्राय क(६ १)ल्पते ॥
भोजनावस्तुपाला सत्कृता प्रतिमानिता ।
ग्रामे वा यदि वारण्ये निम्ने वा यदि वा स्थले
दिवा वा यदि वा रात्रौ देवा रक्षन्तु दायकान् ॥
देवानुकम्पितो पोषो सदा भद्राणि पश्यति ॥
एवं दक्षिणा आदिशितव्या ।

अथ दानि गमिकं भक्तं भवति । नायं दक्षिना आदिशितव्या ।
सर्व्वा दिशासु भया समाकुला
सोत्तरा सपुरस्तिमा [दक्षि]णा पश्चिमा च
स(६ २)सर्व्वो च लोको संकुलजातो
मा प्रमज्जि जिनशासने ॥
नायमेवं दक्षिणा आदिशितव्या ॥

अथ खलु दिशा सौवस्तिका दक्षिणा विस्तरेण दक्षिणा आदिशितव्या ।
यथा पात्रप्रतिसंयुक्ते एवं दक्षिणा आदिशितव्या ।
अथ दानि प्रव्रजितस्य भवति । नायं दक्षिणा आदिशितव्या
(ज्.२३)पुत्रं वा पशुं वा आरभ्य धनधान्यप्रियाणि वा
(इ.प्.५७) देवभावं वा मनुष्यं वा पञ्चधो (६ ३) मनसि प्रीयन्ति ।
न एवं दक्षिणा आदिशितव्या ॥

अथ खलु दक्षिणा आदिशितव्या ।
सुदुष्करं प्रव्रजितस्य दानं पात्रेण भैक्षमभिसाहरित्वा ।
कुलात्कुलं चरिय पिण्डपातं क्रुद्धप्रसन्नानां मुखं
उदीक्षियम् ॥
सो यं श्रेष्ठायतने प्रतिष्ठितो पात्रसंहृतो लाभो प्रीतिं जनेहि
सुविहिता तथा हि दिन्नमिमं दानन् ति ।
एवं दक्षिणाम् । (६ ४) आदिशिय गन्तव्यम् ।
एवं संघस्थविरेण भक्ताग्रे प्रतिपद्यितव्यम् । न प्रतिपद्यति ॥
अभिसमाचारिकां धर्म्मानतिक्रमति ॥ * ॥

इ.५ म्स्.६ ४ (ज्.२३.१२); छ्.४९९ २८
भगवान् श्रावस्त्यां विहरति । शास्ता देवानाञ्च मनुष्याणाञ्च ।
विस्तरेण निदानं कृत्वा संघस्य दानि बाहिरकं भक्तम् । आयुष्मान्
नन्दनो संघस्थविरो उपनन्दनो द्वितीयस्थविरो संघस्थविरो
आग(६ ५)तो द्वितीयस्थविरो नागच्छति । दायकदानपति पृच्छन्ति । आर्य किं
समग्रो भिक्षुसंघो भिक्षू आहंसु । नोहेति दीर्घायु को दानि
नागच्छति (ज्.२४) आहंसु द्वितीयस्थविरो नागच्छति । ते दानि ओध्यायन्ति ।
पश्यथ भणे वयं येव भा(ता)व कर्म्मान्तां च्छोरिय आगच्छाम
समग्रं भिक्षुसंघं परिविशिष्याम । आर्यमिश्राणाञ्च पादां
वन्दिष्यामः (६ ६) द्वितीयस्थविरो नागच्छति । संघस्थविरो पि
ओध्यायति । अस्माकं भगवां दण्डकर्म्मन् देति । द्वितीयस्थविरस्य
मुन्ति(त्ति)का ॥ एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु । भगवान्
आह । शब्दापयथ उपनन्दनं सो दानि शब्दापितो भगवानाह । सत्यं
उपनन्दन एवं नाम संघस्य बाहिरकं भक्तं नन्दनो
संघस्थविरो त्वं द्वितीयस्थविरो संघस्थविरो आगतो भि(६ ७)क्षू
आगताः । त्वं नागच्छसि । दायकदानपति पृच्छति । आर्य किं समग्रो
भिक्षुसंघो भिक्षू आहंसु । नहि को खलु नागच्छति द्वितीयस्थविरो
नागच्छति । ते दानि ओध्यायन्ति । वयं (इ.प्.५८) येव ताव कर्म्मान्तम् ।
च्छोरिय आगता गच्छामः । समग्रं भिक्षुसंघं परिविशिष्यामः ।
आर्यमिश्राणां च पादां वन्दिष्यामः । द्वितीयस्थविरो नागच्छति ।
संघस्थविरो पि ओध्यायति । अ(६ १)स्माकं भगवान् दण्डकर्म्म देति ।
द्वितीयस्थविरस्य मुत्तिका । आह । आम भगवन्
भगवानाह । तेन हि एवं द्वितीयस्थविरेण भक्ताग्रे
प्रतिपद्यितव्यम् । किन् ति दानि द्वितीयस्थविरेण भक्ताग्रे प्रतिपद्यितव्यम् ।
एषो दानि कोचि भिक्षुसंघं भक्तेन निमन्त्रयति । संघस्थविरो (ज्.२५)
न प्रतिबलो भवति । द्वितीयस्थविरेण जानितव्यम् । को निमन्त्रेति ।
भिक्षुभिक्षुनी उपासकोपासिका आग(६ २)न्तुको गमिको वाणिजको
सार्थवाहो किन्नामको किं जातिको किं कर्म्मिका से मातापितरौ
कतमस्मिन् देशे गृहं कतमायां रथ्यायां कुतो मुखं गृहस्य
द्वारम् । साकारं सोद्देशं पृच्छिय ततो धिवासयितव्यम् । नायं
अधिवासितं मयेति । यत्रोल्लग्नाये आसितव्यम् ।
यदि ताव संघस्थविरो न प्रतिबलो भवति द्वितीयस्थविरेण
अपरेज्जुकाये च मासचा(६ ३)रिको वा पक्षचारिको । प्रेषयितव्यो वक्तव्यं
गच्छ जानाहि । असुके देशे असुकायां रथ्यायामित्थंनामो नाम
उपासको तेन भिक्षुसंघो निमन्त्रितो जानाहि किं सिध्यति किं पच्यति ।
तेन प्रविसियाणं तहिं पृच्छितव्यम् । आरोग्यं दीर्घायु कोचि इमंहि
इत्थंनामो नाम उपासको आह भन्ते किं करिष्यसि । वक्तव्यम् । तेन
भिक्षुसं,(६ ४)घो भक्तेन निमन्त्रितो किं सिध्यति वा किं पच्यति वा ति ।
यदि तावदाह । भन्ते किस्य उपासको कहिमुपासको ति नामास्माकं कोचि
उपासको न सिध्यति । न पच्यति त्ति जानितव्यं विप्रलब्धो भिक्षुसंघो ति ।
आगच्छियाणं यदि ताव अनुग्रहो भवति । अनुग्रहो साधितव्यो अनुग्रहो
न भवति । भक्तकानि भवन्ति । भक्तका उद्दिशितव्यानि । (६ ५) (ज्.२६)
भक्तकानि न भवन्ति । रणरणाय गण्डिमाहणियाणमारोचितव्यं
वक्तव्यम् । आयुष्म(न्)तो विप्रलब्धो भिक्षुसंघो स्वकस्वकां वृत्तिं
पर्येषथेति । सर्व्वेहि पटिपाटिकाय पिण्डाय चरितव्यम् । अथ दानि आह
भन्ते एतं सिध्यति एतं पच्यति । प्रविशन्तु आर्यमिश्राः रणरणाय
गण्डिमाहणियाणं प्रविशितव्यं, ।
(इ.प्.५९) यदि ताव हेमन्तकालो भव(६ ६)ति अनुकल्लतरकम्
प्रविशितव्यम् । ब(ल)हुं कालो अतिक्रमति । अथ दानि ग्रीष्मकालो भवति ।
उष्णसन्तापेन अनुकर्ण्ण(ल्ल)तरकं, प्रविशितव्यम् । अथ दानि
वर्षारात्रकालो भवति । देवान्तरेण प्रविशितव्यं, । ततो नापि क्षमति
भण्डं लंघंयन्तेहि प्रविशितुम् । अथ खलु भण्डं परिवर्जयन्तेहि ।
याव दारकदारिकां परिवर्जयन्तेहि । प्रविशितव्यं ततो न क्षमति ।
गतागतस्य (६ ७) उपविशितुं, । अनेकाये तहिमासनेहि दारकदारिका वा
सोवापिता भवेंसु । अथ खलु हस्तेहि प्रत्यवेक्षियाणमनन्तरिकाणां
आसनानि वर्जयन्तेहि ॥ उपविशितव्यम् । यदि ताव हेमन्तकालो भवति ।
लघु कालो अतिक्रमति । ओहेय्यग्लानकानां पिण्डपातो दापयितव्यो । अथ
दानि दायकदानपति जल्पन्ति । भन्ते पटिपाटिकाय गृह्नथ न्ति(त्ति) ।
वक्तव्यम् । नहि । भगव(७ १)तानेकपर्यायेण ग्लानो परीत्तो किम्
अस्माभिः विहारको शून्यको कर्त्तव्यो । लघु कालो ति(ज्.२७)क्रमति । देथ
यूयं ति अथ ग्रीष्मकालो वर्षारात्रो वा भवति । चिरेण कालो अतिक्रमति ।
ओहेय्यग्लानकानां पटिपाटिकाये पिण्डपातो गृह्नितव्यो । संघस्थविरो न
प्रतिबलो भवति । द्वितीयस्थविरो प्रतिबलो भवति न क्षमति ।
द्वितीयस्थविरेण हन्तहन्ताये भुञ्जियाणं लब्धो पि(७ २)ण्डो द्वारं
पश्यिय उत्थिय गन्तुम् ।
अथ दानि संघस्थविरो न प्रतिबलो भवति द्वितीयस्थविरो प्रतिबलो
भवति । द्वितीयस्थविरेण ओदनसम्पत्ति आगमयन्तेन भुञ्जितव्यम् ।
व्यञ्जनसम्पत्तिं वा । आगमयन्तेन भुञ्जितव्यम् । यं कालं नवका
भिक्षू उ(प)ग्रायन्ति वा पानीयं वा पिबन्ति हस्तानि ओकढिय आसन्ति ततो
यदि ताव संघस्थविरो न प्रतिबलो भवति । द्वितीयस्थविरेण
जानित(७ ३)व्यं किमारंबणम् । एव(त)ं भक्तं जातकं मृतकं
वेवाहिकं घरप्रवेशकमागन्तुकस्य गमिकस्य गृहस्थस्य
प्रव्रजितस्येति । यथा भवति । तथा दक्षिणा आदिशितव्या । यथा
प्रथमके शिक्षापदे एवं द्वितीयस्थविरेण भक्ताग्रे
प्रतिपदि(द्यि)तव्यम् । तथा येच(व) दक्षिणा आदिशितव्या । या(यो) ततो
आगन्तव्यम् । एवं द्विती-यस्थविरेण भक्ताग्रे प्रतिपद्यितव्यं, । (७ ४) न
प्रतिपद्यति । अभिसमाचारिकान् धर्म्मानतिक्रमति ॥ * ॥

(इ.प्.६०)
इ.६ म्स्.७ ४ (ज्.२८.१); छ्.५०१ ४
(ज्.२८) भगवान् श्रावस्त्यां विहरति । शास्ता देवानाञ्च मनुष्याणाञ्च
विस्तरेण निदानं कृत्वा संघस्य दानि बाहिरकं भक्तम् । आयुष्मन्
नन्दनो संघस्थविरो आयुष्मानुपनन्दनो द्वितीयस्थविरो
संघस्थविरो आगतो द्वितीयस्थविरो आगतो भिक्षू ओसरन्तिकाये
आगच्छन्ति । दायकदा(७ ५)नपति पृच्छन्ति । आर्य किं समग्रो
भिक्षुसंघो भिक्षु आहंसु । नोहेतं दीर्घायु को दानि नागच्छति
भिक्षू आहंसु । ओसरन्तिकाये आगच्छन्ति । ते दानि ओध्यायन्ति । वयमेव
ताव कर्म्मान्तां च्छोरय आगता गच्छामः समग्रं भिक्षुसंघं
परिविशिष्यामः । आर्यमिश्राणां च पादां वन्दिष्याम न्ति(त्ति) । इमे पि
आर्यमिश्रा ओसरन्तिकाये आगच्छन्ति । संघस्थ(७ ६)विरो च द्वितीयस्थविरो
च ओध्यायन्ति । अस्माकं भगवान् दण्डकर्म्मन् देति ॥ इमेषां
मुक्तिका । एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु । भगवानाह ॥
शब्दापयथ भिक्षून् । ते दानि शब्दापिताः । भगवानाह ॥ सत्यं
भिक्षवो एवं नाम संघस्थविरस्य बाहिरकं भक्तं नन्दनो
संघस्थविरो उपनन्दनो द्वितीयस्थविरो आगतो यूयमोसरन्तिकाये
आगच्छथ दायक(७ ७)दानपति पृच्छन्ति । आर्य किं समग्रो भिक्षुसंघो
न्ति(त्ति) । भिक्षू आहंसु नोहीदं दीर्घायु को दानि न(ना)गच्छति भिक्षू
ओसरन्तिकाये आगच्छन्ति । ते दानि ओध्यायन्ति वयमेव ताव कर्म्मान्ता
च्छोरिय आगता गच्छाम । समग्रं भिक्षुसंघं परिविशिष्याम न्ति(त्ति) ।
आर्यमिश्राणाञ्च पादं वन्दिष्याम न्ति(त्ति) । इमे पि आर्यमिश्रा (ज्.२९)
ओसरन्तिकाये आगच्छन्ति । संघस्थविरो च । द्वितीयस्थविरो च
ओध्या(७ १)यन्ति । अस्माकं भगवान् दण्डकर्म्मन् देति । इमेषां
मोत्तिका आहंसु । आम भगवन्
भगवानाह । तेन हि सर्व्वेहि एवं भक्ताग्रे प्रतिपद्यितव्यम् । किन् ति
दानि एवं सर्व्वेहि भक्ताग्रे प्रतिपद्यितव्यम् । एषो दानि कोचि संघं
भक्त(क्तेन) निमन्त्रेति । संघस्थविरो न प्रतिबलो भवति
द्वितीयस्थविरो न प्रतिबलो भवति । यो तत्र प्रतिबलो भवति । तेन
जानितव्यम् । को यं नि(७ २)मन्त्रेति भिक्षुभिक्षुणी उपासकोपासिका
गृहस्थो प्रव्रजितो वाणिजको सार्थवाहो आगन्तुको गमिको नापि क्षमति ।
गतागतस्य अधिवासितुम् ॥ अथ खलु पृच्छितव्यम् । किन्नामको सि किं
गोत्रको सि किं कर्म्मिका ते (इ.प्.६१) मातापितरौ । कतमे देशे गृहं कुतो
मुखं कतमाये रथ्याये कुतो मुखं गृहस्य द्वरं साकारं
सोद्देशं पृच्छियाणम् । ततो धिवासयितव्यं नापि दा(७ ३)नि क्षमति ।
अधिवासितं मयेति । तत्रोल्लगिकाये आसितुम् ।
अथ खलु यदि ताव संघस्थविरो न प्रतिबलो भवति । द्वितीयस्थविरो
न प्रतिबलो भवति यो प्रतिबलस्तेन प्रकृत्येव मासचारिको वा
पक्षचारिको वा प्रेषयितव्यो । अनेकाये तहिं जातकं मृतकं वा भवेय
राजभयं वा चोरभयं वा ढोस्सभयं वा वातपुत्रभयं वा
विहेठना(७ ४)भिप्राया निमन्त्रयेंसु ॥ तेन गच्छियाण तहिं गृहं
पृच्छितव्यम् । कोचि इम(ं)हि एवन्नामको उपासको दानपती वा वाणिजका
(ज्.३०) वा ति किं वा एतत्ति वक्तव्यं भिक्षुसंघो तेन भक्तेन निमन्त्रितो
यदि ताव आहंसु नास्ति कोचि इमंहि एवंनामको किःस उपासको । कस्य
भक्तं कथं भक्तं ति जानितव्यम् । विप्रलब्धो भिक्षुसंघो त्ति ततो
आगच्छिय यदि ताव (७ ५) अनुग्रहो भवति साधयितव्यो अनुग्रहो न
भवति । भक्तकानि भवन्ति भक्तकानि उद्दिशितव्यानि । अथ दानि
भक्तकानि न भवन्ति । रणरणाय गण्डिमाहणिय याव सर्व्वेहि
पटिपाटिकाये पात्राणि गृह्निय प्रविशितव्यं पिण्डपातम् । अथ दानि ते
जल्पन्ति भन्ते एव(त)ं सिध्यति । एतं पच्यति । यावत्पात्राणि गृह्निय
प्रविशितव्यम् । यदि ताव हेमन्तकालो भवति । अ(७ ६)नुकर्ण्ण(ल्ल)ं
प्रविशितव्यम् । लघुं कालो अतिक्रामति ॥
अथ दानि ग्रीष्मकालो भवति अनुकालमुष्णंशंकेन प्रविशितव्यम् ।
वर्षारात्रो भवति देवान्तरेण अनुकर्ण्ण(ल्ल)अं प्रविशितव्यम् । ततो न
क्षमति । भण्डं वा लंघयतेन प्रविशितुं भाजनं वा
लंघयन्तेहि । प्रविशितुं दारकदारिका लंघयन्तेहि प्रविशितुम् । अथ
खलु भण्डं परिहरन्तेहि दारकदारिकां परिहरन्तेहि प्रविशितव्यं
त(७ ७)तो नापि क्षमति । प्रविष्टेहि गतागतस्य उपविशितुम् । अनेकाये तहिं
आसनेहि गर्भरूपा सोवापितानि भवेंसु ॥ भाजनकानि वा थपितकानि
भवेंसुः । अथ खलु हस्तेन प्रत्यवेक्षियाण आनन्तरियाणामासनानि
वर्जयन्तेहि । यथावृद्धिकाये उपविशितव्यम् ।
ततो यदि ताव हेमन्तकालो भवति । (ज्.३१) लघु कालो अतिक्रमति । (इ.प्.६२)
ओहेय्यग्लानकानां पिण्डपा[तो] ++[प]यितव्यो । अ(८ १)थ दानि
दायकदानपति जल्पन्ति । भन्ते ओहेय्यग्लानकानां पटिपाटिकायो
पिण्डपातं गृह्नथेति वक्तव्यम् । नहीति । लघु कालो अतिक्रमति ।
भगवता च अनेकपर्यायेण ग्लाणो परिन्दितो किमम्भेहि शक्यम्
विहारको शून्यको कर्तुन् ति । अथ दानि ग्रीष्मो वा वर्षारात्रो वा कालो
भवति । न लहुं कालो अतिक्रमति । ओहेय्यग्लानकानां पटिपाटिकाये
पिण्डपातो [गृह्नितव्यो] न क्षमति ल(८ २)ब्धालब्धं हन्तहन्ताये
भुञ्जिय लब्धो पिण्डो द्वारं पश्यिय उत्थिय गन्तुम् । अथ खलु यदि ताव
संघस्थविरो न प्रतिबलो भवति द्वितीयस्थविरो न प्रतिबलो भवति । यो
तत्र प्रतिबलो भवति । तेन ओदनसंपत्ती वा आगमेतव्यं
व्यञ्जनसम्पत्ती वा आगमंतेन भुञ्जितव्यम् । तेन दक्षिणा आदिशितव्या ।
जानितव्यं किमालम्बनम् । एतं भक्तं जातकं मृतकं [वेवा]हिकं वा
घरप्र(८ ३)वेशिकं वा आगन्तुकस्य गमिकस्य गृहस्थस्य प्रव्रजितस्येति ।
ततो यदि ताव जातकं भवति नायं दक्षिणा आदिशितव्या ।
(ज्.३२) (अयं) कुमारो सि।वपसि(थि)का(य) च्छो(च्छ)(न्दि)तो
अङ्गुष्ठस्नेह(हे)न यापयति । सप्तरात्रं
शुनखा शृगा(ला) चे(च) नं लंघयन्तम् ।
काको च से अक्षिमलं हरन्तं ति
नायमेवं दक्षिणा आदिशितव्या ।

अथ खलु दक्षिणा आदिशितव्या ।
अयं कुमारो शरणमुपेतु (८ ४)
बुद्धं विपश्यिञ्च शिखिञ्च विश्वभुव ।
क्रकुच्छन्दो च कनकमुनिञ्च काश्यपं
महामुनिं शाक्यमुनिं च गोतमम् ॥
एतेहि बुद्धेहि महर्द्धिकेहि
ये देवता सन्ति अभिप्रसन्नाः ।
(इ.प्.६३) ता नं रक्षन्तु (ता च नं पालयन्तु)
यथा इच्छति से माता । यथा इच्छति से मा(पि)ता
अतो श्रेयतरो भवंतु कुमारो कुलवर्द्धनो
(ज्.३३) एवं दक्षिणा आदिशितव्या ।
तथा येव दक्षिणायो विस्तरेण कर्त्तव्यायो यथा (८ ५) संघस्थविरस्य
भक्ताग्रे एवं सर्व्वेहि भक्ताग्रे प्रतिपद्यितव्यम् । न प्रतिपद्यंति ॥
असि(भिस)माचारिकां धर्म्मामतिक्रामति ॥ * ॥

इ.७ म्स्.८ ५ (ज्. ३३.५); छ्.५०१ १४
भगवान् श्रावस्त्यां विहरति । शास्ता देवानाञ्च मनुष्याणाञ्च
विस्तरेण निदानं कृत्वा । ते दानि आयुष्मन्तो नन्दनोपनन्दना
षड्वर्ग्गिकाश्च उपसंपादेन्ति । ते दानि उपसंपादिय न ओवदन्ति । न
अनुशासन्ति । ते दानि इन्द्र(८ ६)गवा विय वर्द्धयन्ति । शिवच्छगला
धिप(विय) वर्चति(द्धयन्ति) । अनाकल्पसम्पन्नाः ।
अनीर्यापथसम्पन्नाः । न जानन्ति । कथमुपाध्याये
प्रतिपद्यितव्यं, । कथमाचार्ये प्रतिपद्यितव्यम् । कथं वृद्धतरके
प्रतिपद्यितव्यम् । कथं संघमध्ये प्रतिपद्यितव्यम् । कथं ग्रामे
प्रतिपत्तव्यम् । कथमारण्ये प्रतिपत्तव्यम् । कथं निवासयितव्यम् ।
कथं प्रावरितव्यम् । कथं संघाटीपात्रचीवरधारणे
प्रतिपद्यितव्यम् ॥ (८ ७) एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु
भगवानाह । शब्दापयथ नन्दनोपनन्दनाम् । षड्वर्ग्गिकांश्च । ते
दानि शब्दापिता । भगवानाह ॥ एवं नाम यूयमुपसंपादेथ ।
उपसंपादिय न ओवदथ न अनुशासयथ न्ति(त्ति) । तदेवं सर्व्वं
भगवान् विस्तरेण प्रत्यारोचयति । याव (ज्.३४) कथं
संघाटीपात्रचीवरधारणे प्रतिपद्यितव्यम् । आहंसु । आम भगवन्
भगवानाह । एवं (८ १) दाणि यूयमुपसंपादिय नैवोवदथ
नानुशासथ तेन हि एवमुपाध्यायेन श्रा(सार्)द्धविहारेस्मिं
प्रतिपद्यितव्यम् । किन् ति दानि उपाध्यायेन श्र(सार्)द्धेविहारेस्मिं
प्रतिपद्यितव्यम् । उपाध्यायेन ताव श्रा(सार्)द्धेविहारिं
उपसंपादेतुकेनैव उभयतो विनयो ग्राहयितव्यो उभयतो विनयं न
पारयति एकतो विनयो (इ.प्.६४) ग्राहयितव्यो । एकतो विनयं न पारयति ।
पञ्चसूत्राणि विस्त(८ २)रेण ग्राहयितव्यो पञ्चसूत्राणि न पारयति चत्वारि
धा(वा) त्रीणि दुवे एकं सूत्रं विस्तरेण ग्राहयितव्यो । एकं सूत्रं न
पारेति त्रिंशतो पि ग्राहयितव्यो । शिष्टकमभीक्ष्ण(श्रुति)कायो गाथायो च
त्रिंशतो पि न पारेति द्वे अनियतां ग्राहयितव्यो । शिष्टकं
अभीक्ष्णश्रुतिकायो गाथायो च द्वे अनियता न पारेन्ति । अन्तमसतो चत्वारि
पाराजिकां ग्राहयितव्यो शिष्टकमभीक्ष्णंश्रुतिकायो गा(८ ३)थायो च
शेखयितव्यो । अनुशासयितव्यो काल्यं मध्यन्तिकं सायं सायं
अभिधर्म्मेण वा अभिविनयेन वा अभिधर्म्मो नाम नवविधो
सूत्रान्तो सूत्रं गेयं व्याकरणं गाथा उदानमितिवृत्तकं जातकं
वैपुल्याद्भुताधर्म्मा । अभिविनयो नाम प्रातिमोक्षो
संक्षिप्तविस्तरप्रभेदेन । अथ दानि न प्रतिबलो भवति । उद्दिशितुं, ।
आपत्तिकौशल्यं शि(८ ४)क्षितव्यो । सूत्रकौशल्यं स्कन्धकौशल्यं
आयतन(ज्.३५)कौशल्यं प्रतीत्यसमुत्पादकौशल्यम् ।
स्थानास्थानकौशल्यमाचारं शेखयितव्यो । अनाचारतो चा(वा)रयितव्यो ।
अथ दानि ओवदति । सो एव तस्य ओवादो एवं स्वाध्यायति । अरण्ये वसति ।
प्रहाणे उपविशति । सो एवास्य ओवादो उपाध्यायो श्र(सार्)द्धेविहारि
उपसंपादिय न ओव(८ ५)दति । न अनुशासति । न उद्दिशति । न
स्वाध्यायति । न अरण्ये वसति । न प्रहाणे उपविशति । अन्तमसतो
वक्तव्यो । अप्रमादेन संपादेहीति । न ओवदति विनयाति(क्र)मं
आसादयति । एवमुपाध्यायेन श्र(सार्)द्धेविहारिस्मिं प्रतिपद्यितव्यम् ।
न प्रतिपद्यति । अभिसमाचारिकान् धर्म्मानतिक्रमति ॥ * ॥
इ.८ म्स्.८ ५ (ज्.३५. ९); छ्.५०२ २
भगवान् श्रावस्त्यां विहरति । शास्ता देवा(८ ६)नाञ्च मनुष्याणाञ्च
विस्तरेण निदानं कृत्वा ते दानि भिक्षू उपसंपादेन्ति । ते दानि
उपसंपादिताः । उपाध्यायस्य न अल्लिम्य(य्य)ंति । ते दानि भिक्षू
ओध्यायन्ति । अस्माकं भगवान् दण्डकर्म्मन् देति । इमेषां मुक्तिका ।
कथमम्भेहि ओववदितव्याः । अनुशासितव्याः । ये इमे अस्माकं न
अव(नैव अ)ल्लीयंति । न प्रत्यालीयंति । एतं प्रकरणं भिक्षू भगवतो
आरोच[येंसु ।]
भगवानाह । ते(८ ७)न हि एवं सार्द्धेविहारिणा उपाध्याये
प्रतिपद्यितव्यम् ॥ किन् ति दानि एवं सार्द्धेविहारिणा उपाध्याये
प्रतिपद्यितव्यम् । सावे(र्द्धे)विहारिणा ना(ता)व कल्यत एव (ज्.३६)
उत्थंतेन उपाध्यायस्य (इ.प्.६५) विहारस्य द्वारमाकोटयितव्यं यं
कालमभ्यनुज्ञा दिन्ना भवति । ततो द्वारं सुखाकमपदुरियाण ततो
प्रथमं दक्षिणो पादो प्रवेशितव्यो पश्चा वामो प्रवेशय वन्दित्वा
सुखशयितम् । पृच्छितव्यो उ(९ १)द्दिशित्वा प्रतिपृच्छित्वा
खे(ट)कट(टा)हको निक्कालयितव्यो प्रस्रावकुम्भिका निक्कालयितव्या
पीठिका प्रज्ञपयितव्या । हेमन्तकालो भवति मन्दमुखि
प्रज्वालयितव्या । मुखोदकं दापयितव्यम् । दन्तकाष्ठं धोविय
उपनामयितव्यम् । सु(मु)खोदकमासिञ्चितव्यम् । हस्तां निर्म्मादिय
हस्तनिर्म्मादनं दातव्यम् । पेया उक्कढितव्या । पेया पेयिंता
पे(य)पात्रं शोधितव्यम् । शो[धित्वा] भ[क्तु]द्देशातो (९ २) भक्तकं
ग्रहेतव्यम् । भक्तविसर्ग्गो कर्त्तव्यो पात्रं निर्म्मापयितव्यम् । पात्रं
प्रतिशामयितव्यम् ।
गोचरं प्रविशन्तस्य ग्रामप्रवेशनिकानि चीवराणि उपनामयितव्यानि ।
विहारचरणकानि चीवराणि प्रतिशामयितव्यानि । आत्मनो चीवरकं
गृह्निय पृष्ठतो नुगन्तव्यम् । नापि दानि खुराखुरम् । अथ खलु
नात्यासन्ने (ज्.३७) नातिदूरे तेन दानि गोचरातो निर्ग्गतस्य उपाध्यायस्य
चीवराणि प्रस्फो(९ ३)टिय साहरिय प्रतिसामयितव्यानि । आत्मनो स्कन्धे
दपि(यि)य शीर्षमोनामिय पुरतो गन्तव्यम् । विहारमागच्छियाण
पीठिका प्रज्ञपयितव्या ग्रामप्रवेशनिकानि चीवराणि एकान्ते
स्थपेतव्यानि । विहारचरणकानि चीवराणि उपनामयितव्यानि । पादोदकं
उपनामयितव्यम् । पादतट्ठकमुपनामयितव्यम् । पादा
धोपयितव्या । उष्णं भवति स्नापेतव्यो (९ ४) शीतं भवति ।
मन्दमुखी प्रज्वालयितव्या ।
यदि पिण्डचारो अण्ठितो भवति । उपनामयितव्यो । नानानावर्ण्णितं
भवति पृच्छितव्यो सुविहित कुतो इदं लब्धमसुकातो वेशिककुलातो वडं
विधवाये स्थूलकुमारीये पण्डकस्य असुकाये भिक्षुणीये
उश्शकियपरिशङ्कियाणि कुलानि व्यपदिशति । वारेतव्यो वक्तव्यो मा तहिं
गच्छ । अथ दानाह । असु(९ ५)केस्मि कुले बुद्धवचनं जल्पितम् । ततो
लब्धम् । वक्तव्यं कारेहि धूमं मा च पुनो आमिषचक्षु देशेसि हस्तान्
निर्म्मादिय (इ.प्.६६) हस्तनिर्म्मादनं दातव्यम् । पिण्डपातो उक्कढितव्यो
पिण्डपात उपनामयितव्यो भुञ्जन्तस्य पानीयं चारितव्यम् । वीजनवातो
दातव्यो भक्तविसर्ग्गो व(क)र्त्तव्यो भुक्ताविश्य पात्रमपकर्षितव्यम् ।
अपक्का च भाजनं भक्तोपधानं श(९ ६)य्यासनं (ज्.३८)
प्रतिशामेतव्यम् । चीवराणि पात्रं शोधेतव्यम् । पात्रं प्रतिसामेतव्यम् ।
विहारको सिञ्चितव्यो सन्मार्जितव्यो कालेन कालं गोमयकार्षी दातव्या ।
शय्याशनं प्रस्फोटयितव्यम् । चीवराणि धोवेतव्यानि । सिञ्चितव्यानि ।
रंजितव्यानि पात्रं दहितव्यम् । रञ्जितव्यम् । दिवाविहारं गच्छन्तस्य
पीठिका नयितव्या निषीदनं नयितव्यम् । पुस्तको नयितव्यो कुण्डिका
नयितव्या । उद्दे(९ ७)शं गृह्निय एकमन्ते स्वाध्यायतेन आसितव्यम् । अथ
दानि दिवाविहारं गन्तुकामो भवति आपृच्छिआ(य) गन्तव्यम् । यदि दानि
तहिं केनचि सह स्वाध्यायतुकामो भवति । आपृच्छितव्यम् । वक्तव्यम् ।
करोमि अमुकेन सह स्वाध्यायन् ति । तेन दानि जानितव्यम् । यदि सो
भवति शैथलिको वा बाहुलिको वा । आवड्ढको वा असिक्षाकामो
वक्तव्यम् । माश्रयो उत्पद्येया । अथ दानि भद्रको भव(९ १)ति ।
गुणवां शिक्षाकामो वक्तव्यं । करोहि दिवाविहारतो आगच्छन्तस्य
पीठिका आनयितव्या । निषीदनमानयितव्यम् । प्र(पु)स्तको आनयितव्यो ।
कुण्डिका आनयितव्या । आगतस्य समानस्य हस्तनिर्मादनं दातव्यं
पुष्पाणि दातव्यानि चेतिप(य)ं च(व)न्दन्तस्य पृष्ठतो नुगन्तव्यम् ।
पीठिका प्रज्ञपयितव्या । हेमन्तकालो भवति । मन्दमुखी
प्रज्वालयितव्या । पादा धोवयितव्या । पादा म्रक्षेतव्यो । शय्या
प्रज्ञापयित्(९ २)व्या । यदि महाजनिको भवति । अन्तमसतो हस्तेन
समवधानं धातव्यम् । दीपो प्रज्वालयितव्यो । खेटकटाहकं (ज्.३९)
उपनामयितव्यम् । प्रस्रावकुम्भमुपनामयितव्यम् । सुखं
प्रतिक्रमापयितव्यम् । उद्दिशित्वा वा परिपृच्छित्वा वा यदि विहारो
प्रापुणति । आपृच्छितव्यम् । अमुकं विहारं गृह्नामि । अथ दानि
द्वितीयेन सह प्रापुणति विहारमुपाध्यायेन जानितव्यम् । यदि सो भवति
शैथिलिको (९ ३) वा बाहुलिको वा अ(आ)वड्ढको वा (अ)शिक्षाकामो
वक्तव्यम् । मा गृह्न (इ.प्.६७) मा संसर्ग्गदोषो भविष्यतीति ।
अथ दानि भवति । भद्रको गुणवान् शिक्षाकामो वक्तव्यो गृह्न यावन्
न उत्थापीयति सा एव मे आपृच्छनिका अथ दानि उत्थापीयति प(य)त्तिकां
वारामापृच्छितव्यम् । यदि दानि तहिं केनचित्सह स्वाध्यायतुकामो
भवति । आपृच्छितव्यम् । करोमि अमुकेन सार्द्धं स्वाध्या(९ ४)यम् ।
उपाध्यायेन जानितव्यम् । एवं श्र(सार्)द्धेविहारिणा उपाध्याये
प्रतिपद्यितव्यम् । न प्रतिपद्यते(ति) । अभिसमाचारिकान् धर्म्मान्
अतिक्रामति ॥ * ॥

इ.९ म्स्.९ ४ (ज्.३९.१३); छ्.५०२ १३
भगवान् श्रावस्त्यां विहरति । शास्ता देवानाञ्च मनुष्याणाञ्च
विस्तरेण निदानं कृत्वा ते दानि आयुष्मन्तो नन्द्(अन्)ओपनन्दनो
षड्वर्ग्गिका च निश्रयं दपि(यि)य नैव अन्तेवासि ओवदन्ति । न
अनुशासन्ति । ते दानि इन्द्रगवा विय (९ ५) वर्द्धन्ति शिवच्छगला विय
वर्द्धन्ति । अनाकल्पसम्पन्नाः अनीर्यापथसंपन्नाः । न जानन्ति
कथमुपाध्याये प्रतिपद्यितव्यम् । कथमाचार्ये प्रतिपद्यितव्यम् ।
कथं वृद्धतरकेषु प्रतिपद्यितव्यम् । (ज्.४०) कथं संघमध्ये
प्रतिपद्यितव्यम् । कथं ग्रामे प्रतिपद्यितव्यं, । कथमरण्ये
प्रतिपद्यितव्यम् । कथं निवासयितव्यम् । कथं प्रावरितव्यम् । कथं
संघाटीपात्रचीवरधारणे प्रतिपद्यितव्यम् ॥ (९ ६) एतं प्रकरणं
भिक्षू भगवतो आरोचयेंसु । भगवानाह ॥ शब्दापयथ
नन्द्(अन्)ओपनन्दनां षड्वर्ग्गिकानां च ते दानि शब्दापिता ।
भगवानाह । सत्यं भिक्षवो नन्द्(अन्)ओपनन्दना षड्वर्ग्गिकाश्च
एवन्नाम यूयं निश्रयं देथ निश्रयं ददियाण अन्तेवासिकां न
ओवदथ नानुशासथ तदेव सर्व्वं भगवान् विस्तरेण प्रत्यारोचयति ।
याव कथं संघाटीपात्रचीवरधारणे प्रतिपद्यितव्यम् । आहं(९ ७)सु ।
आम भगवन् भगवानाह । एवं च यूयं निश्रयं ददियं
अन्तेवासिकां नैव ओवदथ नानुशासथ । तेन हि एवमाचार्येण
अन्तेवासिकस्मिं प्रतिपद्यितव्यम् । किन् ति दानि आचार्येण अन्तेवासिकस्मिं
प्रतिपद्यितव्यम् । आचार्येण ताव निश्रयं देन्तेन अन्तेवासि उभयतो
विनयं ग्राहयितव्यो । उभयतो पि विनयं न पारेति । एकतो विनयतो
ग्राहयितव्यो । एकतो विनयं (इ.प्.६८) न पारे(१० १)ति पञ्चसूत्राणि विस्तरेण
ग्राहयितव्यो । पञ्चसूत्राणि न पारेति चत्वारि त्रीणि द्वे एकं सूत्रं
विस्तरेण ग्राहयितव्यो । एकं सूत्रं न पारेति । द्वानवतीतो ग्राहयितव्यो
द्वानवतीतो न शक्नोति त्रिंशतितो ग्राहयितव्यो शिष्टकं
अभीक्ष्णश्रुतिकायो गाथायो च त्रिंशतितो न पारेति द्वे अनियतां
ग्राहयितव्यो शिष्टकमभीक्ष्णश्रुतिकाये गाथायो च । द्वे अनियता न
पारेति । अन्त(१० २)मसतो चत्वारि पाराजिकां ग्राहयितव्यो शिष्टकं
अभीक्ष्णश्रुतिकाये गाथायो व(च) शेखयितव्यो । धातुकौशल्यं (ज्.४१)
स्कन्धकौशल्यमायतनकौशल्यं प्रतीत्यसमुत्पादकौशल्यमाचारं
शेखयितव्यो । अनाचारतो धा(वा)रयितव्यो । एषो आचार्यो निश्रयं ददिय
अन्तेवासि नैव ओवदति । नानुशासति । विनयातिक्रममासादयति । एवम्
आचार्येण अन्तेवासिस्मिं प्रतिप(१० ३)द्यितव्यम् । न प्रतिपद्यति ।
अभिसमाचारिकान् धर्म्मानातिक्रमति ॥ * ॥

इ.१० म्स्.१० ३ (ज्.४१:६); छ्.५०२ १६
भगवान् श्रावस्त्यां विहरति । शास्ता देवानाञ्च मनुष्याणाञ्च
विस्तरेण निदानं कृत्वा ते दानि भिक्षू निश्रयन् देंति ते अन्तेवासिका
आचारिकस्य निश्रयं गृह्निय नैव अल्लीयन्ति । न प्रत्यल्लीयन्ति ते दानि
भिक्षू ओध्यायन्ति । अस्माकं भगवा(न्) दण्डकर्म्मन् देति । इमेषां
मुक्तिका या (१० ४) दानि अस्माकं (नैव) अल्लीयन्ति न प्रत्यलीयन्ति । कथं
इमे अम्भेहि ओवदितव्याः । अनुशासितव्याः । एतं प्रकरणं भिक्षू
भगवतो आरोचयेंसु । भगवानाह । शब्दापयथ भिक्षून ते दानि
शब्दापिताः ।
भगवानाह । तेन हि एवमन्तेवासिना आचार्ये प्रतिपद्यितव्यम् ।
अन्तेवासिना ताव कल्प(य)तो येव उत्थत्त(न्त)केन एवमाचार्यस्य विहारस्य
द्वा(१० ५)रमाकोटयितव्यम् । यं कालमभ्यनुज्ञा दिन्ना भवति ।
द्वारं सुखाकमपदुरियाणं प्रथमं दक्षिणो पादो प्रवेशयितव्यो ।
पश्चाद्वामं पादं प्रवेशयाण आचार्यस्य सुखरात्रि

(इ.प्.६९) पृच्छितव्या । खेटकटाहं (ज्.४२) निष्काशयितव्यां(व्यम् । ) यावत्
पादोदकं दापयितव्यम् । पादोदकमुपनामयितव्यम् । पादतट्ठकं
उपनामयितव्यम् । पादा धोवयितव्या । पादा म्र(१० ६)क्षयितव्या ।
खेटकटाहकं प्रवेशयितव्यम् । प्रस्रावकुम्भिका प्रवेशयितव्या ।
दीपको प्रज्वालयितव्यो । शय्या प्रज्ञपयितव्या । एवमपरं दिवसं
प्रस्रावकुम्भिका निष्काशयितव्या । तदेव सर्व्वं नवकपरिचर्या
कर्त्तव्या । विस्तरेण यथा श्र(सार्)द्धेविहारिस्य याव दीपमादीपिय
शय्यां प्रज्ञपिय सुखं प्रतिक्रामयितव्यो । एवमन्तेवासिना आचार्ये
प्रतिपद्यित(१० ७)व्यम् । न प्रतिपद्यति अभिसमाचारिकान् धर्म्मान्
अतिक्रमति ॥ * ॥

उद्दानम् ॥
एवं संघस्थविरेण पोषधे प्रतिपद्यितव्यं, ।
एवं द्वितीयस्थविरेण पोषधे प्रतिपद्यितव्यम् ।
एवं सर्व्वेहि पोषधे प्रतिपद्यितव्यम् ।
एवं संघस्थविरेण भक्ताग्रे प्रतिपद्यितव्यम् ।
एवं द्वितीयस्थविरेण भक्ताग्रे प्रतिपद्यितव्यम् ।
एवं सर्व्वेहि भक्ताग्रे प्रतिपद्यितव्यम् ।
एवमुपाध्याये(१० १)न श्र(सार्)द्धेविहारिस्मिं प्रतिपद्यितव्यम् ।
(ज्.४३) एवं श्र(सार्)द्धेविहारिणा उपाध्याये प्रतिपद्यितव्यम् ।
एवमाचार्येण अन्तेवासिस्मिं प्रतिपद्यितव्यम् ।
एवमन्तेवासिना आचार्ये प्रतिपद्यितव्यम् ॥ * ॥

(इ.प्.७०) इइ.१ म्स्.१० १ (ज्. ४४.१); छ्.५०२ २५
भगवान् श्रावस्त्यां विहरति । शास्ता देवानाञ्च मनुष्याणाञ्च
विस्तरेण निदानं कृत्वा पञ्चार्थवशां संपश्यमानास्तथागता
अर्हन्तः सम्यक्सम्बुद्धाः । पञ्चाहिकां विहा(१० २)रचारिकाम्
अनुचंक्रमन्ति । अनुविचरन्ति । कतमां पञ्च कच्चिं मे श्रावकाः न
कर्म्मारामा न कर्म्मरताः । न कर्म्मारामतानुयोगमनुयुक्ता
विहरन्ति । न भाष्यारामाः न भाष्यरताः । न भाष्यारामतानुयोगम्
अनुयुक्ता विहरन्ति । न निद्रारामाः न निद्रारताः । न
निद्रारामतानुयोगमनुयुक्ता विहरन्ति । ग्लानकानाञ्च भिक्षूणां
अनुकम्पार्थं ये ते (१० ३) श्राद्धाः कुलपुत्राः (तथागतमेवोद्दिश्य)
श्रद्धयादागारादनगारिकां प्रव्रजिताः । ते च तथागतं दृष्ट्वा
अतीव उदाराणि प्रीतिप्रामोद्यानि प्रतिलभिष्यन्ति । इमा(ं प)ञ्चार्थवशान
संपश्यमानास्तथागता अर्हन्तः सम्यक्संबुद्धाः पंचाहिकां
विहारचारिकामनुचंक्रमन्ति । अनुविचरन्ति । अद्राक्षीद्भगवां
पञ्चाहिकां विहारचारिकामनुचंक्रमन्तो अनुवि(१० ४)चरन्तो शय्यासनं
उज्झितप्रकीर्ण्णमुत्पादकं (ज्.४५) उ(दु)त्थितकं वातातपेन विनाशियन्तं
वर्षेण ओवर्षियन्तं प्राणकेहि खज्जन्तं पक्षिहि ओहयियन्तं
ओमयिलमयिलं पाटितविपाटितम् । आतपे दिन्नं भगवां जानन्तो य्येव
भिक्षूं पृच्छति कस्येमं भिक्षवो शय्यासनमुज्झितप्रकीर्ण्णं
पेयालम् ॥ याव ओमयिलमयिलं पाटितविपाटितम् । आतपे दिन्नमाहंसु ।
एतं (१० ५) भगवं सांघिकम् ।
भगवानाह । एवं च यूयमप्रत्यास्तरणका शय्यासनं
परिभुंजथ । तेन हि एवं शय्यासने प्रतिपद्यितव्यम् । किन् ति दानि (एवं)
शय्यासने प्रतिपद्यितव्यम् । न दानि क्षमति सांघिकं शय्यासनं
अध्युपेक्षितुम् । उत्पादकं वा उ(दु)त्थितकं वा प्राणकेहि वा खज्जन्तं
वर्षेण (वा) ओवर्षपर्यन्तं वातातपेन वा विनाशियन्तं पक्षीहि
था(वा) ओह्(अय्)इयन्तम् । अथ खलु यदि ता(१० ६)व उज्झितप्रकीर्ण्णं
भवति । साहरित्वा एकान्ते स्थापयितव्यम् । उत्पादकं भवति । सम्(अं
(इ.प्.७१) थ्)आपेतव्यम् । वर्षेण ओवर्षीयति वातातपेन चा(वा) विनाशीयति ।
च्छन्ने प्रविशयितव्यम् । प्राणकेहि खाद्यति । पक्षीहि ओहपि(यि)यन्ते
प्रस्फोटियान च्छन्ने प्रवेशयितव्यम् । न दानि विहारो अध्युपेक्षितव्यो ।
ओद्दिर्ण्णको प्रलुग्गको अचौक्षो वा अप्रतिसंस्कृतो वा ॥ अथ खलु यदि
ताव तृणच्छदनो भवति । तृ(१० ७)णपूलको दातव्यो । अपक्कच्छदनो
भवति । अपक्का दातव्या । (ज्.४६) कभल्लच्छदनो भवति कभल्लिका
दातव्या । सुधामृत्तिकाच्छदनो भवति मृत्पिण्डो दातव्यो । वर्षाय
ओवृष्टो भवति विख(चिक्ख)ल्लिका ओपूरे(त)व्या वंघोरिका दातव्या
गोमयशाटो दातव्यो न दानि क्षमति । सांघिकं शय्यासनमेवमेव
परिभुञ्जितं(तुं) । अप्रत्यास्तरणं वा तृणं वा तृणं वा अन्तराकृत्वा
लेङ्कटकं वा अथ खलु प्र(११ १)त्यास्तरणं कर्त्तव्यम् । नापि क्षमति
कल्पं कर्त्तुम् । पटिकां वा लोड्ढकं वा प्रत्यास्तरणं कर्त्तुम् । अथ
खलु द्विगुणिता नाम कर्त्तव्या विशिष्टा मञ्चातो वा यदि ताव
कम्बलस्य भवति । एकपुटं वा द्विपुटं वा कर्त्तव्यम् । अथ दानि
कर्पासस्य भवति द्विपुटा वा त्रिपुटा वा कर्त्तव्यो समन्तेन सूत्रेण
शिवियाणम् । ततो मध्येण दीर्घसूत्राणि दातव्यानि ततो न क्षमति ।
शय्यासनमोमयिलोमयिलं वा पाटितविपाटितं वा अध्यु(११ २)पेक्षितुम् ।
अथ खलु कालेन कालं बोधि(धोवि)तव्यम् । कालेन कालं शिंचितव्यम् ।
कालेन कालमातपे दातव्यम् । न क्षमति सांघिकेन शय्यासनेन
प्रावृतेन भक्ताग्रे वा तर्पणाग्रे वा सामायिकं वा उपविशितुम् । न
क्षमति शय्यासनं सांघिकं प्रावरियं दीर्घच(ं)क्रमं
चंक्रमितुम् ॥ अथ दानि भिक्षुः शिराविद्धको वा भवति विरेचनपीतको
वा ग्लानको वा भवति वस्त्रपुग्गलिकमन्तरीकरणं ददि(११ ३)य
चंक्रमति । अनापत्तिः । नापि क्षमति सांघिकं शय्यासनं
पौद्गलिकपरिभोगेन परिभुञ्जितुम् । अथ खलु सांघिकं शय्यासनं
प्रज्ञपयितव्यम् । (ज्.४७) प्रत्यास्तरणं ददिय ततो परिभुञ्जितव्यम् । अथ
दानि सांघिकं शयनासनं महन्तं भवति । उपरितो भुंजितव्यं
(इ.प्.७२) यथा नाशं न गच्छे । अथ दानि हेमन्तकालो भवति सांघिकं
शय्यासनं प्रावरिय शयति । (११ ४) अन्तरीकरण(ं) दातव्यम् । न देति
विनयातिक्रममासादयति । एवं शय्यासनं(ने) प्रतिपद्यितव्यम् । न
प्रतिपद्यति । अभिसमाचारिकान् धर्म्मानतिक्रमति ॥ * ॥

इइ.२ म्स्. ११ ४ (ज्.४७.६); छ्.५०२ १३
भगवान् श्रावस्त्यां विहरति शास्ता देवानाञ्च मनुष्याणाञ्च
विस्तरेण निदानं कृत्वा ते दानि भिक्षू उपगच्छनिका(यां) काले विहारन्
न प्रतिसंस्करेन्ति । पञ्चार्थवशां संपश्यमानांस्तथागता
अर्ह(११ ५)न्तः सम्यक्संबुद्धाः पञ्चाहिकां विहारचारिकाम्
अनुचंक्रमन्ति । अनुविचरन्ति । कतमां पञ्च । कच्चि मे श्रावकाः न
कर्म्मारामाः न कर्म्मरताः । न कर्म्मारामतानुत्या(यो)गम्
अनुयुक्ता विहरन्ति न भाष्यारामाः । न भाष्यरताः न
भाष्यारामतानुयोगमनुयुक्ता विहरन्ति । न निद्रारामाः न
निद्रारताः न निद्रारामतानुयोगमनुयुक्ता विहरन्ति ।
ग्लानका(११ ६)नाञ्च भिक्षूणामनुकम्पार्थं ये च ते श्राद्धाः
कुलपुत्राः तथागतमेवोद्दिश्य आगारादनगारिकां प्रव्रजिताः । ते च
तथागतं दृष्ट्वा अतिरि(ती)वोदाराणि प्रीतिप्रामोद्यानि प्रतिलभिष्यन्ति ।
इमां पञ्च अर्थवशां संपश्यमानास्तथागता अर्हन्तः
सम्यक्सम्बुद्धाः पञ्चाहिकां विहारचारिकामनुचंक्रमन्ति ।
अनुविचरन्ति । (ज्.४८) अद्राक्षीद्भगवां पञ्चाहिकां विहारचारिकां
अनुचंक्रमन्तो अनुवि(११ ७)चरन्तो विहारकानोन्द्रि(द्द्रि)न्नकां
प्रलुग्गकामचोक्षामप्रतिसंस्कृतां शय्यासनमुज्झितप्रकीर्ण्णे(र्ण्णं)
ओमयिलेमयिलं पाटितविपाटितं मञ्चां पीठा(ं) ओन्द्रि(द्द्रि)ण्णकां
पलुग्गकामुच्छि(दुत्थि)तकां वातातपेन ओपूरियंतां प्राणकेहि
खज्जन्तां वर्ये(षे)ण ओवर्यि(षि)यन्तां काकशकुन्तेहि ओहयियन्तां
भगवान् जानन्तो पृच्छति । कस्येमे भिक्षवो विहारका ओद्रिण्णका
पलुग्गका अचौक्षा अप्रतिसंस्कृता शय्यास(११ १)नमुज्झितप्रकीर्ण्णं
ओमयिलोमयिलं पाटितविपाटितं मञ्चा पीठा (इ.प्.७३) ओन्द्रि(द्द्रि)ण्णका
पलुग्गकामु(दु)त्थितकां वातातपेन ओपूरियन्तां प्राणकेहि खज्जन्तां
वर्षेण ओवर्षियन्तां काकशकुन्तेहि ओहयियन्तां भिक्षू आहंसु ॥ इमं
भगवन् संघस्य ये धर्म्मा(वर्षा)मुपगच्छिष्यन्ति । ते
प्रतिसंस्करिष्यन्ति ।
भगवानाह । तेन हि एवं वर्षोपनायिके शय्यासने प्रतिपद्यितव्यम् ।
किन् ति दानि एवं वर्षोपनामि(यि)के शय्यासने प्र(११ २)तिपद्यितव्यम् । एषा
दानि संघस्य वर्षोपनामि(यि)का भवति । प्रकृत्यैव ताव
दायकदानपति प्रतिसरितव्या । ततो विहारका प्रतिसंस्कर्त्तव्याः । ये
विहारका उद्दिण्णका पलुग्गका भवन्ति । अचोक्षा वा अप्रतिसंस्कृता वा
भवन्ति । (ज्.४९) यदि ताव सुधाच्छदनो भवति । सुधापिण्डो दातव्यो ।
इष्टकाच्छदनो भवति । इष्टका दातव्या । अपक्काच्छदनो भवति ।
अपक्का दातव्या । कभल्ल(११ ३)च्छदनो भवति । कभल्लिका दातव्या ।
तृणच्छदनो भवति । तृणपूलको दातव्या । मञ्चा वा पीठा वा
ओन्द्रि(द्द्रि)ण्णका पलुग्गकां भवन्ति । मुंजा कर्त्तितव्या । बल्बजा
कर्त्तितव्या मञ्चा ध्र(बु)णितव्या उप्पादका भवन्ति सयेच्छ(मं
त्थ)पयितव्या । दुत्थपिता भवन्ति । सुत्थपिता कर्त्तव्या । वातातपेन
ओत(पू)रियन्ति । काकशकुन्तेहि वा ओहपि(यि)यन्ति । च्छन्ने स्थपितव्या ।
एवं शय्यासनं (११ ४) भवति । ओमयिलमयिलं पाटितविपाटितं धोविय
सीवितव्यम् । मृत्तिकापिण्डो दापयितव्यो । मूषिकोच्छि(क्कि)रा वा याच(व)
वंघोरिका पूरेतव्या । यं तहिं परिवेणे भवंति । भण्डं नियतकं
सर्व्वं समुदानितव्यम् ।
पञ्चेहि अङ्गेहि समन्वागतो भिक्षुः शय्यासनप्रज्ञापक संमुतीये
संमन्यितव्यो । कतमेहि पञ्चहि । यो न च्छन्दाये न दो(११ ५)षाये न
मोहाये न भयाये प्रज्ञप्तं च जानाति । इमेहि पञ्चहि । पेयालं, ॥
(ज्.५०) क(र्)म्मं कृत्वा याव ते दानि समन्तेन आषाढमासं शय्यासनं
ग्राहेतव्यम् । विहारा परिवेणा अग्निशाला भक्तशाला । उपस्थानशाला ।
द्वारकोष्ठको वर्च्चकुटी उदुपानो जन्ताको चंक्रमा वृक्षमूला
विहारका (इ.प्.७४) ग्राहयितव्या । असुके विहारे एत्तका मञ्च(११ ६)का
पीठका वा एत्तकमास्तरणमेत्तकं प्रावरणं ततो लिखितव्यम् ।
भुर्जके फलके वा पट्टिकायां वा । यदि ताव आरण्यकं शय्यासनं
भवति । दूरे दूरो(रे) परिवेणा भव(ं)ति । त्रयोदशीयं वा
चातुर्द्दशीयं वा तेन शय्यासनोद्देशो कर्त्तव्यो । अथ दानि ग्रामान्तिकं
शय्यासनं भवति । आसन्ने आसन्ने परिवेणा भवन्ति । चातुर्द्दशीयं वा
पाञ्चदशीयं वा शय्यासनो(११ ७)द्देशो कर्त्तव्यो । तं लिखितं
संघस्थविरस्य अल्लीपितव्यम् । वक्तव्यम् । आयुष्मनमुके विहारके
एत्तका मञ्चा एत्तका पीठाः । एत्तकमास्तरणमेत्तकं प्रावरणं
कतमो तव विहारको रुच्यति । यो संघस्थविरस्य विहारको रुच्यति सो
दातव्यो । अथ दानि संघस्थविरो जल्पति । विहारं यूयं (ज्.५१) उद्दिशथ
वर्षावासिकं समं करिष्याम न्ति(त्ति) । यं संघस्थविरो जल्पति । तथा
कर्त्तव्यं, । (१२ १) ततो विहारका उद्दिशितव्याः । वृद्धान्ततो प्रभृति
याव अवर्य(ष)कपर्यन्तं न क्षमति । श्रामणेराणां विहार(रा)
उद्दिशितुम् । अथ दानि तेषामुपाध्यायाचार्या जल्पन्ति । उद्दिशथ यूयं
एतेषां वयं प्रतिसंस्करिष्याम न्ति(त्ति) । ततो श्रामणेरकाणां पि
विहारका उद्दिशितव्या । अथ दानि बहुं भवति । ततो द्वितीयकालिका
उद्दिशितव्या । अथ दानि तहि(ं) कोचि भवति । आटक्करसिंहनादिको (१२ २)
पर्याप्तो ग्रीष्मे शय्यासनमुद्दिशितव्यम् । गुप्त्यर्थं परिभोगार्थं
उत्थिष्यमुत्थापयिष्यं को विहारको ति । वक्तव्यो न एषो भव किञ्चित
भोगार्थं वदिषन्ति म प्रतिसंस्कारणार्थमेषो चमुद्दिशीयति । अथ
दानि स्तोका विहारका भवन्ति । द्विण्णां त्रयाणां (वा) जनानामेको
विहारको उद्दिशितव्यो । अथ दानि एवं पि स्तोका भवन्ति । चतुर्ण्णां
पञ्चानां वा जनानामेको विहा(१२ ३)रको उद्दिशितव्यो । अथ दानि
एकवस्तुकं भवति । भिक्षू च बहु(हू) भवंति । वृद्धानाञ्च मञ्चा
प्रज्ञापयितव्याः । नवकानां पीठाः प्रज्ञापयितव्याः । अथ दानि एवं
पि स्तोकं भवति । वृद्धानां पीठाः प्रज्ञापयितव्याः । नवकानां
संस्तरणा (ज्.५२) (इ.प्.७५) प्रज्ञापयितव्याः । अथ दानि एवं पि स्तोकं
भवति । (अथ दानि) अल्पो(ल्पा)वकाशो भवति । वृद्धेहि संस्तरणे
प्रतिप(१२ ४)द्यितव्यम् । नवकेहि पर्यन(ङ्के) वीतिनामयितव्यम् । अथ
दानि एवं पि अल्पावकाशो भवति । वृद्धेहि च्छन्ने प्रविशितव्यम् ।
नवकेहि वृक्षमूलेहि चंक्रमेहि निषद्याहि अभ्यवकाशे
वीतिनामयितव्यम् । हेमन्ते शय्यासनमुद्दिशितव्यं, । गुप्त्यर्थं
परिभोगार्थमुत्थिष्यमुत्थापयिष्यं वर्षासु शय्यासनमुद्दिशितव्यम् ।
गुप्त्यर्थं परिभोगार्थमुत्था(१२ ५)स्यमुत्थापयितव्यम् । नापि क्षमति
शय्यासनमध्युपेक्षितुमोमयिलोमयिलं पाटितविपाटितं मञ्चा वा
पीठा वा ओद्द्रिण्णका वा पलुग्गका वा अध्युपेक्षितुम् । अथ खलु
कालेन कालं शय्यासनं सीवितव्यम् । बोधि(धोवि)तव्यम् । कालेन कालं
मुञ्जा कर्त्तितव्या । बल्बजा कर्त्तितव्या । ततो मञ्चा च पीठा च
ब्र(बु)णितव्या । एवं वर्षोपनामि(यि)के शय्यासने प्रतिप(१२ ६)द्यितव्यम् ।
न प्रतिपद्यति । अभिसमाचारिकान् धर्म्मानतिक्रमति ॥ * ॥

इइ.३ म्स्.१२ ६ (ज्.५२.१५); छ्.५०३ २४
भगवान् श्रावस्त्यां विहरति । शास्ता देवानाञ्च मनुष्याणाञ्च
विस्तरेण निदानं कृत्वा याव अद्राक्षीद्भगवां पञ्चाहिकां
विहारचारिकामनुचंक्रमन्तो (ज्.५३) अनुविचरन्तो विहारकामोद्द्रिण्णकां
पलुग्गकामुल्लाय गृहीतकामचोक्षामप्रतिसंस्कृतामुदकस्य पूरां
उदकभ्रमामशोधि(त)कां द्वाराहि (१२ ७) द्वीपिकाहि खज्जन्तो मञ्चां
पीठामोन्द्रि(द्द्रि)ण्णकाणां पलुग्गकामु(दु)त्थितकां वर्षेण
(ओ)वर्षियन्तां प्राणकेहि खज्जन्तां भगवान जानन्तो पृच्छति । किं
इमं भिक्षवो विहारका उल्लग्गका ओल्लाये गृहीतकाः । अचौक्षा
अप्रतिसंस्कृता उदकस्य पूरामुदकभ्रमा अशोधितका द्वा(रे)
द्वीपिकाहि खज्जन्ता मञ्चा पीठा ओन्द्रि(द्द्रि)ण्णकां पलुग्गकां
उत्पादकामु(दु)त्थितकां वर्षेण ओ(१२ १)वर्षियन्तां प्राणकेहि
खज्जन्ता(ं) भिक्षू आहंसुः । ये भगवान् (इ.प्.७६) अर्षां वसिष्यन्ति ते
प्रतिसंस्करिष्यन्ति ।
भगवानाह । तेन हि एवं वर्षोपगतेहि शय्यासने प्रतिपद्यितव्यम् ।
किन् ति दानि एवं वर्षोपगतेहि शय्यासने प्रतिपद्यितव्यम् । एते दानि
भिक्षवो वर्षोपगता भवन्ति । तेन हि विहारका प्रत्यवेक्षितव्या । यदि
ताव ओन्द्रि(द्द्रि)ण्णका वा पलुग्गका वा भवन्ति । यावत्मूषिकोक्कारा वा
चिक्खल्लिका वा प्र(१२ २)तिसंस्कारयितव्या । यदि ताव विहारको
सुधाच्छदनो भवति (सुधापिण्डो दातव्यो) । इष्टकाच्छदनो भवति ।
इष्टका दातव्या । (ज्.५४) अपक्वच्छदनो भवति । अपक्वा दातव्या ।
कभल्लच्छदनो भवति (कभल्लिका दातव्या । तृणच्छदनो भवति) ।
तृणपूलको दातव्यो । उर्ण्णा(ल्ला)ये गृहीतको भवति । पिण्डं शाटिय
मृत्तिकाये लिम्पितव्यो । मूषोक्कारा विलिख्खि(चिक्खलि)का पूरेतव्या ।
यदि ताव उप्पेडनको विहारको भवति । शक्कारोटेन वा पूरेतव्या
उ(अ)प(१२ ३)क्वपांसुकेन वा । अथ दानि उप्पंसुलो भवति । गोमयकार्षी
दातव्या । उदकभ्रमा वा । प्रणालिभ्रमा वा परिपूरिता भवन्ति
शोधयितव्याः । मुण्डहर्म्मिया प्रतिसंस्कर्त्तव्या । शय्यासनं
ओमयिलोमयिलं भवति । पाटितविपाटितं धोवयितव्यम् । रञ्जेतव्यम् ।
मञ्चा वा पीठा वा भग्नका भवन्ति । छिन्नगण्ठिका कर्त्तव्या ।
ओन्द्रि(द्द्रि)ण्णका वा पलुग्गका भवन्ति । मु(१२ ४)ञ्जा कर्त्तितव्या । मञ्चा
ब्र(बु)णितव्या । पीठिका ब्र(बु)णितव्या । उप्पादका भवन्ति समं
थापेयितव्या । उ(दु)त्थितका भवन्ति । सुत्थिता थपेतव्या । वातातपेन
ओपूरियन्ति । नैवाते थपितव्याः । वर्षेण ओवर्षियन्ति । च्छन्ने
थपितव्या । प्राणकेहि खज्जन्ति च्छन्दियाणं प्रतिपादिकेहि थपयितव्या ।
नापि क्षमति । शय्यासनमध्युपेक्षितुम् । ओमयिलोमयिलं वा
पाटितवि(१२ ५)पाटितं वा ॥ अथ खलु कालेन कालं धोवितव्यम् ।
सीवयितव्यम् । रञ्जिय(जयि)तव्यम् । मञ्चा वा पीठा वा उप्पादका
भवन्ति । समां थपितव्याः । दुत्थिता भवन्ति । सुस्थिता थपितव्याः ।
ओन्द्रि(द्द्रि)ण्णका भवन्ति । पलुग्नका वा मुञ्जा कर्त्तितव्या । बल्बजा
कर्त्तितव्या । (ज्.५५) मञ्चा बुणितव्याः । (इ.प्.७७) पीठा बुणितव्याः ।
पादका उ(दु)त्थितका भवन्ति । सुथपिता कर्त्तव्याः । विहारका कालेन
(१२ ६) कालं सिञ्चितव्याः । संमार्जितव्याः । गोमयकार्षी दातव्याः ।
उदकभ्रमाः प्रनाडिकाभ्रमा वा कालेन कालं शोधितव्याः । पञ्चाहे
पञ्चाहे शय्यासनं प्रत्योतापेतव्यम् । मञ्चा वा पीठा वा अन्यायतः
कर्त्तव्यम् । विहारो ओमस्वेदिको भवति । मञ्चो भित्ति(तो) मोचेत्वा
प्रतिपादिका दातव्याः । यथा प्राणकेहि न खाद्येया सन्तानिका
शाटितव्यो । अन्वर्द्धमासं गोमयशा(१२ ७)टो दातव्यो । यदि ताव विहारो
ओश करोति ओदको दातव्यो । अथ दानि उस्वेदको भवति शुद्धेन गोमयेन
मर्द्दितव्यम् । विहारो उस्वेदको भवति । न दानि तहिं क्षमति ।
हस्तशौचं वा कर्त्तुं पादशौचं वा मुखं वा धोयि(वि)तुम् । पादम्
वा निर्म्मादयितुम् । नापि दानि क्षमति । विहारो पित्थित्वा स्थपितुम् । अथ
खलु कालेन कालमपावुरितव्यो यथा वातं लभेय्या (न) धूपेतव्यो
कु(१३ १)ष्ठेन भुर्जेन वा सक्तुहि वा एवं वर्षोपगतकेहि (ज्.५६)
शय्यासने प्रतिपद्यितव्यम् । न प्रतिपद्यति ॥ अभिसमाचारिकान्
धर्म्मानतिक्रमति ॥ * ॥

इइ.४ म्स्.१३ १ (ज्. ५६.३); छ्.५०३ १०
भगवान् श्रावस्त्यां विहरति । शास्ता देवानाञ्च मनुष्याणाञ्च
विस्तरेण निदानं कृत्वा अपरं दानि आरण्यकं शय्यासनं हिमदोषेण
चित्तं न वसति । ते दानि आरण्यका विहारं बाहिरं घट्टियं कारियाण
ग्रामन्तिकं शय्यासनमोकस्ताः सो दानि वि(१३ २)हारको वनदवेन
आगच्छियाण दग्धो । एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु
भगवानाह । तेन हि एवं वर्षवुस्तेहि शय्यासने प्रतिपद्यितव्यम् । किन्
ति दानि एवं वर्षवुस्तेहि शय्यासने प्रतिपद्यितव्यम् । एतं दानि आरण्यकं
शय्यासनं हिमदोषेण रि(चि)त्तं न वसति । न क्षमति । आरण्यकेहि
अशब्दकर्ण्णिकाये ग्रामान्तिकम् । शय्यासनमोक्कसितुम् । अथ खलु
उच्छा(१३ ३)हेतव्या । तहि(ं) एको वा द्वौ वा त्रयो वा यावतका (इ.प्.७८)
उच्छहन्ति । यो प्रतिबलो वस्तुं यदि उत्सहन्ति । तेषामाहारेण
उपस्तम्भं कर्त्तव्यम् । यथा न विहन्येंसु । अथ दानि उद्वहन्ति ।
आह । किं वयं परित्यक्ताः । किस्स (ज्.५७) वयं वसामः । यं तहिं
शय्यासनं भवति कोचवको वा उल्लीयो वा चतुरस्रका वा कुम्भीयो वा
कट(टा)हकानि वा सर्व्वं ग्रामान्तिकं, (१३ ४) शय्यासनमोतारेतव्यम् ।
मञ्चा पीठा उल्लपित्वा स्थापयितव्या । मञ्चा भित्तियो मोचेत्वा
प्रतिपादका दातव्या । यथा प्राणकेहि दीपिकाहि वा न खज्जेया । नापि
दानि क्षमति सो विहारो अध्युपेक्षितुम् । ओन्द्रि(द्द्रि)ण्णको वा पलुग्गको वा
अचौक्षो वा अप्रतिसंस्कृतो वा । अथ खलु यदि ताव तृणच्छदनो वा
भवति तृणपुलको दातव्यो । याव गो(१३ ५)मयशाटो दातव्यो ।
परिभाण्डं कर्त्तव्यम् । श्वेतवर्ण्णा दातव्यम् ॥ समन्तेन विहारस्य
ताव प्रतिकृत्येव अग्निहरणी कर्त्तव्या । भृतकेहि च कर्म्मकरेहि च
विहारस्य चतुःपार्श्वे कक्षं जातकं भवति सो लवापयितव्यो । यं कालं
शुष्कं भवति । निष्प्राणकं ततो ग्निना दहापयितव्यो विहारको
सिञ्चितव्यो । सम्मार्जितव्यो । गोमयकार्षी (१३ ६) दातव्या । यं सारासारं
शय्यासनममिला वा अस्तरणिकां वा कोचका वा मकुचका (वा)
गुडुगुडुका वा मकुचका वा ते ग्रामान्तिकं शय्यासनं नापयितव्याः ।
मञ्चाः प्रतिपादकेहि स्थापयितव्या भित्तितो यु(मु)क्ताः । मंचस्य उपरि
पीठा स्थापयितव्या । पीठस्य उपरि यं तत्र शय्यासनं
ओमयिलोमयिलं पाटित(ज्.५८)विपाटितं पीठस्य उपरि स्थापयितव्यं
चीवरवंशे स्थापयितव्यं, (१३ ७) भित्तितो मुक्तम् । यदि ताव विहारो
उप्पिडनको भवति । न क्षमति । लेनानि बन्धितुम् । अथ खलु मुक्तका
कर्त्तव्या । अथ दानि उप्पंसुलका विहारका बाहिरघट्टिमा कर्त्तव्याः ।
सर्व्वेहि नि(र्)धावितव्या एकेन अभ्यन्तरघट्टिमं विहारकां करिय
रेज्जूये वा कडेवरिका ।य(ये) वा ओतरितव्यम् । ओतरिय रज्जूये वा कडेवरिया
वा अभ्यन्तरे क्षिपितव्या । बाह्येन वा अच्छितव्या । ये (१३ १) तत्र भवन्ति
गोपालका वा पशुपालका वा तेषां सो विहारो अनुपरिन्दितव्यो ते
वक्तव्याः । दीर्घायु गच्छाम ताव यं ग्रामान्तिकं शेय्यासनमेषो
तुम्हाकं विहारको अनुपरिन्दितो भवतु । एवमनुपरिन्दियाण गन्तव्यं
(इ.प्.७९) । अथ दानि ग्रामान्तिकं शेय्यासनं भवति । एवं ह्येव सर्व्वं
प्रतिसंस्कारो कर्त्तव्याः । याव श्वेतवर्ण्णा दातव्या । एतानि महन्तानि
वस्तूनि भवन्ति । यथा (१३ २) अग्निशाला वा उपस्थानशाला वा यदि ताव
सस्वामिकं भवति । तेन प्रतिसंस्कारोये(पे)तव्या । उद्दिष्टको नाशो यो
स्य भवति । तेन प्रतिसंस्कर्त्तव्या । अथ दानि नैव सस्वामिको भवति ।
नापि उद्दिष्टको सर्व्वसंघेन प्रतिसंस्कर्त्तव्यो । सामग्रीये संविदित्वा
तहिमेकमेको (ज्.५९) वा शमो दातव्यो । द्वे वा द्वे वा त्रयो वा त्रयो वा
यथा सर्व्वप्रतिसंस्कारो गच्छे तथा (१३ ३) दातव्यम् । मञ्चा वा पीठा
वा उल्लग्गका भवन्ति । अयच्छितव्या । अयं च्छन्तियो कर्त्तव्याः । उन्नियो
वा बिशिओ वा चतुरस्रका वा ओमयिलोमयिला भवन्ति । पाटितविपाटिता
धोवित्व सिवितव्या । प्रत्यग्गलानि दातव्यानि । भण्डं नियतकं भवति ।
समुदानेतव्यम् । ग्रामान्तिकं शेय्यासनमुदकदोषेण रि(चि)त्तं न
संवसति न क्षमति तेहि अ(१३ ४)शब्दकर्ण्णिकाये आरण्यकं शेय्यासनं
गन्तुम् । अथ खलु प्रतिकृत्येव ताव यं तत्र सारासारं भाण्डम्
अस्तरणं वा प्रावरणं वा उपस्करो वा श्रद्धाप्रसन्नेहि उपासककुलेहि
स्थापयितव्यम् । विहारको संमार्जयितव्यो । गोमयकार्षी दातव्या ।
मंचा प्रतिपादकेहि स्थातव्या भित्तितो मुक्तम् । मञ्चस्य उपरि पीठं
स्थापयितव्यम् । पीठस्योपरि यं त(१३ ५)त्र जर्जर बिसि वा जर्जर
चतुरश्रको वा तं स्थापयितव्यम् । यदि ताव उप्पीडनको विहारो भवति ।
ततो लेनानि मुक्तानि स्थापेतव्यानि । अथ दानि उप्पत्सु(म्सु)लको विहा(रो)
भवति लेनानि बाहिरघट्टिमानि कर्त्तव्यानि सर्व्वे भिक्षूहि
नि(र्)धावन्तेहि । एकेन विहारको अत्य(भ्य)न्त(र)घट्टिमो कर्त्तव्यो ।
प्रतिवेशिकुलातो निश्रेणियाविय ततो ओ(१३ ६)तरितव्यो । (ज्.६०) ये तत्र
प्रतिवेशिका भवन्ति । तेषामनुपरिन्दितव्यम् । दीर्घायु एषो विहारको
तुम्हाणमनुपरिन्दितो भवतु । (इ.प्.८०) गच्छाम वयमरण्यकानि
शेय्यासनानि एवं परिन्दिय गन्तव्यम् । एवं वर्षवुस्तेहि शेय्यासने
प्रतिपद्यितव्यम् । न प्रतिपद्यति । अभिसमाचारिकान् धर्म्मान्
अतिक्रमति ॥ * ॥

इइ.५ म्स्.१३ ६ (ज्. ६०.५); छ्.५०३ १
भगवान् श्रावस्त्यां विहरति शास्ता देवानाञ्च मनुष्याणाञ्च
विस्त(१३ ७)रेण निदानं कृत्वा पञ्चार्थवशां विस्तरेण कृत्वा यावद्
अद्राक्षीद्भगवां पञ्चाहिकां विहारचारिकामनुचंक्रमन्तो
अनुविचरन्तो विहारकामोद्द्(र्)इण्णकां प्रलुग्गकामचौक्षां
अप्रतिसंस्कृतां शेय्यासनमुज्झितप्रकीर्ण्णमोमयिलोमयिल(ं)
पाटितविपाटितं मञ्चा च पीठा च । उद्द्रिण्णका प्रलुग्गका उप्पादका
उ(दु)त्थितका वर्षेण ओवर्षियन्तां प्राणकेहि खज्जन्तां भगवान् (१४ १)
जानन्तो भिक्षूं पृच्छति । किमिदं भिक्षवो विहारका ओद्द्रिण्णका
पलुग्गका अचौक्षा अप्रतिसंस्कृताः शेय्यासनमुज्झितप्रकीर्ण्णं
ओमयिलोमयिलं पाटितविपाटितं मञ्चा च पीठा च ओद्द्रिण्णका
पलुग्गका उप्पादका उ(दु)त्थितका वर्षेण ओवर्षयन्ता प्राणकेहि
खाज्जन्ता ते दानि आहंसु वयं भगवनागन्तुका ये नेवासिका ते
संस्करिष्यन्ति ।
भगवानाह ॥ तेन हि एत(व)मागन्तुकेहि शे(१४ २; ज्.६१)य्यासने
प्रतिपद्यितव्यम् । किन् ति दानि एवमागन्तुकेहि शेय्यासने प्रतिपद्यितव्यम् ।
एता दानि भिक्षू आगन्तुका भवन्ति विहारको उद्दिष्टको भवति । मञ्चं
पीठं पि चतुरस्रकं कुर्च्चं बि(ं)बोहनमुद्दिष्टं भवति नापि
क्षमति । गतागतस्य विहारके भण्डं प्रवेशितुम् । अथ खलु यदि ताव
अन्धकारको विहारको भवति । प्रदीपो ज्वालयितव्यो तृणोल्का वा कण्डोल्का
वा प्र(१४ ३)ज्वालयितव्या । प्रविशिय चीवरंच(वं)शो ताच(व)
प्रत्यवेक्षितव्यो । अनेकाये प्राणकेहि खादितको भवति । यदि ताव
प्राणकेहि खायितको भवति भग्नका वा तमपनिय अन्यो कीलको
आकोटयितव्यो (इ.प्.८१) पात्रप्रवेशिका स्थापयितव्या । मञ्चकश्च
प्रत्यवेक्षितव्यः । यदि ताव विभग्नको वा च्छिन्नको वा भवति
च्छिन्नकण्ठि कर्त्तव्या । ओद्द्रिण्णको (१४ ४) वा पलुग्गको वा भवति
मुंजा कर्त्तितव्या बल्बजा कर्त्तितव्या । मञ्चा ब्र(बु)णितव्या पीठा
ब्र(बु)णितव्या । विहारको शोधयितव्यो । सम्मार्जयितव्यो । मूषोक्किरा
वा भवति आकोटयितव्या । गोमयकार्षी दातव्या । मञ्चको प्रतिपादके
स्थापयितव्यो आस्तरणं प्रज्ञपिय प्रतिक्रमितव्यम् । यदि सर्व्वरात्रो
गच्छति प्रतिसंस्कार(ज्.६२)यन्तस्य सर्व्वरात्री
प्रतिसंस्क(स्का)रयि(१४ ५)तव्यम् । एवमागन्तुकेहि शेय्यासने
प्रतिपद्यितव्यम् । न प्रतिपद्यति । अभिसमाचारिकान् धर्म्मान्
अतिक्रमति ॥ * ॥

इइ.६ म्स्.१४ ५ (ज्.६२.४); छ्.५०३ १६
भगवान् श्रावस्त्यां विहरति शस्ता देवानाञ्च मनुष्याणाञ्च विस्तरेण
निदानं कृत्वा पञ्चार्थवशां विस्तरेण कृत्वा यावदद्राक्षीद्भगवां
पञ्चाहिकां विहारचारिकामनुचंक्रमन्तो अनुविरचन्तो विहारकां
ओद्द्रिण्णकां पलुग्गकाम(१४ ६)चौक्षामप्रतिसंस्कृतां शेय्यासनं
ओमयिलेमयिलं पाटितविपाटितम् । मञ्चा पीठा ओद्द्रिण्णकां
पलुग्गकाम् । उप्पादकामु(दु)त्थितकां वर्षेण ओवर्षियन्तां प्राणकेहि
खज्जन्तां भ(ग)वान् जानन्तो पृच्छति । किमिमे भिक्षवो विहारका
ओद्द्रिण्णका पलुग्गका अचौक्षा अप्रतिसंस्कृता शय्यासनमोमयिलेमयिलं
पाटितविपाटितं मञ्चा पीठा ओद्द्रिण्णका पलुग्गका उप्पादका
उ(दु)त्थि(१४ ७)तका वर्षेण ओवर्षयन्ता प्राणकेहि खज्जन्ता भिक्षू
आहंसु । वयं भगवन्नेवासिका ये आगन्तुका ते प्रतिसंस्करिष्यन्ति ।
भगवानाह । तेन हि एवं नेवासिकेहि शेय्यासने प्रतिपद्यितव्यम् । किन् ति
दानि एवं नेवासिकेहि शय्यासने प्रतिपद्यितव्यम् । नायं ताव क्षमति ।
नैवासिकेहि ये विहारका ओद्द्रिण्णका पलुग्गका अचौक्षा अप्रतिसंस्कृता ते
आगन्तुकानां (१४ १) स्थापयितुम् । यदि आगन्तुकानां मातु अत्यायिकं
भविष्यन्ति । ततो नं प्रतिसंस्करिष्यन्तीति ॥ अथ खलु (ज्.६३) ये विहारका
नवका च सुप्रतिसंस्कृता च ते आगन्तुकानां स्थापयितव्या । नापि
क्षमति (इ.प्.८२) शेय्यासनमोमयिलोमयिलं पाटितविपाटितमागन्तुकानां
स्थापयितुम् । यदि आगन्तुकानां मातु अत्यायिकं भविष्यति ततो
धोविष्यन्ति । रञ्जिष्यन्ति । सीविष्यन्ति । अथ खलु यं (१४ २) शेय्यासनं
नवकं सुधोतं च सुरक्तं च तमागन्तुकानां स्थापयितव्यम् । नापि
क्षमति ये मञ्चा वा पीठा वा प्रल(लु)ग्गका वा ओद्द्रिण्णका वा ते
आगन्तुकानां स्थापयितुम् । यदि आगन्तुकानां मातु अत्याय(यि)कं
भविष्यति । ततो बुणिष्यन्ति । अथ खलु ये मञ्चा वा पीठा वा नवा च
सारा च स(सु)धोता च ते आगन्तुकानां स्थापयितव्या नापि क्षमति ।
अध्युपेक्षितुम् । अथ खलु वि(१४ ३)हारकाणां कालेन कालं
खण्डफुट्टं प्रतिसंस्कर्त्तव्यम् । शेय्यासनं धोवितव्यम् । सिवितव्यम् ।
रञ्जितव्यम् । मञ्चा वा पीठा वा भग्ना वा भवन्ति च्छिन्नगण्ठिका
कर्त्तव्या । ओद्द्रिण्णका वा पलुग्गका वा भवन्ति । मुञ्जा कर्त्तितव्या ।
बल्बजा कर्त्तितव्या मञ्चा ब्र(बु)णितव्या पीठा व्रणितव्या । मञ्चा वा
पीठा वा उप्पादका भवन्ति । समं स्थापयितव्या । उ(दु)त्थापितका
(१४ ४) भवन्ति । सुस्थिता कर्त्तव्या । (ज्.६४) वातातपेन ते(ओ)पूरियन्ति ।
निवाते स्थापयितव्या । काकशकुन्न(न्त)केहि ओहयियन्ति छन्ने
स्थापयितव्याः । वर्षेण ते(ओ)वर्षियन्ति निरोवर्षे स्थापयितव्या ।
प्राणकेहि खज्जन्ति च्छिन्नगण्डि(ण्ठि)यका करिय प्रतिपादकेहि
स्थापयितव्या । एवं नेवासिकेहि शय्यासने प्रतिपद्यितव्यम् । न
प्रतिपद्यति । अभिसमाचारिकान् धर्म्मानतिक्रम(१४ ५)ति ॥ * ॥

इइ.७ म्स्.१४ ५ (ज्. ६४.६); छ्.५०३ २५
भगवान् श्रावस्त्यां विहरति । शास्ता देवानाञ्च मनुष्याणाञ्च
विस्तरेण निदानं कृत्वा यावदद्राक्षीद्भगवान् पञ्चाहिकां
विहारचारिकामनुचंक्रमन्तो अनुविचरन्तो विहारकामोद्द्रिण्णकां
पलुग्गकामनभि(प्रति)संस्कृतामुल्लापे(ये) गृहीतकां शेय्यासनं
ओमयिलमयिलं पाटितविपाटितं मञ्चा च पीठा च ओद्द्रिण्णकां
पलुग्गकामुप्पादकां (१४ ६) उ(दु)त्थितकां वातातपेन ओपूरियन्तां
काकशकुन्ने(न्ते)हि ओहर्षि(यि)यन्तां वर्षेण ओवर्षियन्तां प्राणकेहि
खज्जन्तां भगवान जानन्तो येच(व) भिक्षूं पृच्छति । किमेते भिक्षवो
विहारका ओद्द्रिण्णका पलुग्गका शेय्यासनं (इ.प्.८३) ओमयिलमयिलं
पाटितविपाटितं मञ्चा पीठा च ओद्द्रिण्णका पलुग्गका उप्पादका
उ(दु)त्थितका वातातपेन ओपूरियन्ता काकशकुन्ने(न्ते)हि ओहयियन्तां
वर्षेण (ओ)वर्षियंता प्रा(१४ ७)प्राण(ज्.६५)केहि खज्जन्ता । भिक्षू आहंसु ।
ये भगवमागन्तुका च नेवासिका च ते प्रतिसंस्करिष्यन्ति । वयं
इत्वारवासिनो
भगवानाह । तेन हि एवं सर्व्वेहि शेय्यासने प्रतिपद्यितव्यम् । किन् ति
दानि एवं हि सर्व्वेहि शेय्यासने प्रतिपद्यितव्यम् । एते दानि विहारका
भवन्ति । ओद्द्रिण्णका पलुग्गका अचौक्षा अप्रतिसंस्कृतका ततो रणरणाये
गण्डिमाहणिय सर्व्वसंघेन सन्निपति(१५ १)तव्यम् । अथ दानि कश्चिद्
आह । अहन् धर्म्मकथिको अहं विनयधरो अहमारण्यको पिण्डचारिको
पांसुकुलिको य एतो(ते) द्रोणी श्रमणका ते प्रतिसंस्करिष्यन्तीति ॥ ते
विनायातिक्रममासादयन्ति ।
अथ खलु सर्व्वेहि सन्निपतितव्यम् । अन्येहि ताव मृत्तिका मर्द्दितव्या ।
अन्येहि खाणुका विशालिका वा पिण्डका वा परिपूरिय दातव्या । अन्येहि
परिहरितव्यम् । अन्येहि लिप्पितव्यम् । अ(१५ २)न्येहि मज्जितव्यम् । अन्येहि
उदकं परिहरितव्यम् । अथ दानि बहुं लिप्पितव्यं भवति । भिक्षू च
शाठ्येन करेन्ति । किं कर्त्तव्यं मितकं दातव्यम् । इमन् तव खण्डं
इमं तव खण्डन् ति । इमं त्वया प्रतिसंस्कारयितव्यम् । एते विहारका
उल्लापे(ये) गृहीतका भवन्ति अप्रतिसंस्कृता वा उप्पंसुला वा
सर्व्वसंघस्य गण्डिमाकोटयित्वा अन्येहि तावद्या भित्ति ओल्लाये
गृहीतकायो तायो शा(१५ ३)टयितव्यायो अन्येहि मृत्तिका मर्द्देतव्या ।
अन्येहि उदकः परिहरितव्यः । अन्ये(हि) मृत्तिका परिहर्त्तव्या । अन्यो लेपो
दातव्यः । (ज्.६६) अन्यैः स(ं)मार्जितव्यम् । विहारका उप्पेडनका भवन्ति ।
शर्कराटका वा आपकपांसुको वा परिहरितव्यो आकोटयितव्यो । अथ दानि
उपंसुलका विहारका भवन्ति । अन्यैर्ग्गोमय परिहर्त्तव्यः ।
अन्यै(१५ ४)रुदकं परिहर्त्तव्यः । अन्यै(ये)हि अध्वापयितव्यम् । अन्येहि
गोमयकार्षी दातव्या । नापि दानि (इ.प्.८४) अध्युपेक्षितव्यम् । शेय्यासनं
ओण्णियो वा कोचवको वा प्राका(वा)रा वा बिसियो वा चतुरस्रको वा
बिम्बोहनका वा चिलिमिलिका वा ओमयिलमयिला वा पाटितविपाटितविपाटिता
वा अचौक्षा वा अप्रतिसंस्कृता वा । अथ खलु कालेन कालम् । अ(१५ ५)न्येहि
ओषा गालयितव्यो । अन्येहि उदकं परिहर्त्तव्यम् । अन्येहि क्षारं
आनयितव्यम् । अन्येहि वोध(धोव)यितव्यं, । अन्येहि पीडितव्यम् । अन्येहि
विसयितव्यम् । अन्येहि परिहर्त्तव्यम् । मञ्चा वा पीठा वा ओड्डिण्णका वा
पलुग्गका वा पलुग्गका वा भवन्ति । सर्व्वेहि मुञ्जा वा बल्बजा वा
कर्त्तितव्या । मञ्चा वा वातव्या पीठा वातव्या बिसी सीवयितव्या ।
चतुरस्रा दाप(१५ ६)यितव्या ॥ नंगलानि उत्थापयितव्यानि । एते मञ्चा वा
पीठा वा भग्नका वा भवन्ति । यो यं पश्यति (ज्.६७) तेन य्येव गण्ठी
कर्त्तव्या । उपादका भवन्ति । यो ये(व) पश्यति तेन येव समं
स्थापयितव्यम् । दुत्थितका भवन्ति । सुस्थितका कर्त्तव्या । वातातपेन वा
ओपूरियन्ति । यो येव पश्यति तेन य्येव निवाते स्थापयितव्या ।
काकशकुन्तेहि वा ओहयियन्ति । यो य्येव पश्यति । तेन य्येव (१५ ७) छन्ने
स्थापयितव्या । वर्षेण ओवर्षयन्ति । यो येव पश्यति तेन य्येव निरोवर्षे
स्थापयितव्या । प्राणकेहि खज्ज(न्)ति । यो येव पश्यति । तेन य्येव
च्छिन्नगण्ठिका करियाण प्रतिपादकेहि स्थापयितव्या । एवं सर्व्वेहि
शय्यासने प्रतिपद्यितव्यम् । न प्रतिपद्यति । अभिसमाचारिकान् धर्म्मान्
अतिक्रमति ॥ * ॥

इइ.८ म्स्.१५ ७ (ज्. ६७.९); छ्.५०४ १४
भगवान् श्रावस्त्यां विरहति शास्ता देवानाञ्च मनुष्याणाञ्च
विस्त(१५ १)रेण निदानं कृत्वा ते दानि भिक्षू प्रकीर्ण्णकस्य उच्छ्वासं
करोन्ति । जनो दानि ओध्यायति । पश्यथ भणे श्रमणका यथा उष्ट्रा
वा गोणा वा गर्द्दभा वा च्छगलका वा एवमिमे श्रमणा
प्रकीर्ण्णकस्य उश्वासं करेन्ति । नष्टं भ्रष्टं कुतो एषां
श्रामण्यम् । एतं प्रकरणं भिक्षूहि श्रुतं भिक्षू भगवतो
आरोचयेंसु । भगवानाह । सत्यं भिक्षवो जनो ओध्यायति आम
भगव(व)(१५ २)न्
(इ.प्.८५) भगवानाह । तेन हि वर्च्चकुटी नाम कर्त्तव्या ।
वर्च्चकुटीं दानि भिक्षुणा कारापयमाणेन नापि क्षमति (ज्.६८)
विहारस्य पुरस्तिमेन वा उत्ता(त्त)रेण वा कारापयितुम् । अथ खलु
दक्षिणेन वा पश्चिमेन वा कारापयितव्या । वातपथं मुक्त्वा
मल्लकतला खडा खणितव्या । प्रपातनिश्रितं वा यदि वा खानिया
उदकान्तिका भवति । प्रथमं कल्पियकारेण ओह(१५ ३)यियापेतव्या । अथ
दानि प्रपातनिश्रिता वा उर्ण्णावच्चघरं वोवत्ति गच्छति । अन्तरा(ं)
काष्ठं दातव्यम् । यथा तहिं, । प्रथमं निय(प)तेय परिमलं वा
चतुरस्रं वा निवितव्या । इष्टकाहि वा उपलैर्व्वा च्छादयितव्या । यानि
साराणि च दृढानि च स्थूला(नि) च काष्ठानि तान्यधस्ता दातव्यानि ।
तत्र काष्ठेहि वा फलकेहि वा ओहाटयितव्या । उपरि इष्ट्(अक्)आहि मृत्तिकाय
(१५ ४) च्छादयितव्यानि । तच्च मुखानि कर्त्तव्यानि हस्तां वा आयामेन
निमुष्टकं वा हस्तं विस्तारेण तत्र कण्ठवारिणि कर्त्तव्या ।
कक्षमात्री वा गलमात्री वा वंशे(न) वा नलेन वा नंगलेहि वा
फलकैर्व्वा तथा कर्त्तव्या यथा उपविष्टा अन्योन्यं न पश्यन्ति ।
शीर्षी(षा)न् तत्रोपरि च्छादेतव्यं कुड्ड(ं) उत्थपियाणं वलभी
कारयितव्या । आकाशतलं वा लिंपितव्या मृत्ति(१५ ५)काय वा सुधाय वा
तृणच्छन्ना वा कर्त्तव्या । अपरस्मिन् पार्श्वे वर्च्चकुटीका कर्त्तव्या ।
तहिं स्थापेतव्या काष्ठकुण्डानि वा मृत्तिकाकुण्डानि वा उदक
पूरयितव्यानि । तहिं (ज्.६९) स्थापेतव्यं करीषो मृत्तिका वा ऊषो वा ततो
जानितव्यम् । यदि ताव सा खानि।मा वर्च्चकुटी भवति । ततो
वर्च्चकुम्भिका बाहिरोदिवा कर्त्तव्या । यथा तमुदकमन्ये न
गच्छति । अथ (१५ ६) दानि प्रपातनिस्रिता भवति । वर्चकुटी किञ्चापि
तहि(ं) य्येव उदकं पतति । अनापत्तिः । वर्च्चकुम्भिकाये पुरतो
कल्पियकरकि स्थापयितव्या उदकस्य पूर्ण्णतानि तानि कुण्डकानि वा
कटाहकानि वा नापि क्षमति । अध्युपेक्षितुम् । सप्राणकानि वा
अधोतकानि वा । अथ खलु उद्दिशितव्यम् । नवकान्ते वा पटिपाट्टिकाय
वा यस्य वा प्रापुणति । तेन तानि कुण्डनिकानि कालेन कालं, (१५ ७)
पूरयितव्यानि । कालेन कालं धोवयितव्या(नि) । कालेन कालमातपे
शोषयितव्यानि । अथ (इ.प्.८६) तानि काष्ठमयानि भवन्ति । न क्षमति ।
आतपे न शोषयितुं, । मा फुट्टिंसु त्ति । शोषयित्वा च्छाता(या)यां
स्थापयितव्यानि । यं कालं परिशुष्कानि भवन्ति । ततो पूरेतव्यानि ।
वर्च्चकुटीये पुरतो कुटी वा शाला वा कर्त्तव्या । तत्र चीवरवंशा वा
चीवरबिसि वा दीर्घ(ज्.७०)नागदन्त वा कर्त्तव्याः । य(१६ १)त्र भिक्षू
कल्पिकानि चीवरकाणि विनिक्षिपिय वर्च्चकुटी प्रविशन्ति नापि दानि
द्रविडेन विय प्रश्रावकरणं गृह्नित्वा वर्च्चकुम्भि(टि)का(ं)
गन्तव्यम् । अथ दानि वर्च्चकुम्भिकां सप्राणका भवति । न दानि
(क्षमति) वक्तुं, । आयुष्मन्तो सप्राणका वर्च्चकुटि(म्भि)का । अथ खलु
तृणं वा तूलिका वा उपरि स्थापेतव्या । यथाज्ञाये सप्राणकेत्य्
अभिज्ञानम् । उदककृत्यं करेन्तेन न दानि ज्झल्लज्झलेये उदकं
चेतव्यम् । अथ ख(१६ २)लु माता येव चेतव्यम् । रिक्तकां
वर्च्चकुम्भिकां पश्यति । न तदा अध्युपेक्षितव्यम् । यस्य ओहेय्यको
भवति । तस्य आवि(चि)क्षितव्यम् । स्वयं वा पूरयितव्यम् । अन्तमसतो
कुम्भिकायम् । एकस्य (यत्तकं) पर्यास्तं भवेया तत्तकं दातव्यम् ।
अथ दानि ग्लानो भवति । आर्षव्याधिकं वा प्रस्कन्दिकं वा
लेक्ष(ङ्क)टाखंडेहि वा भस्त्रायनंकेहि वा सुकुमारेहि दयितव्यं, ॥

  • ॥ एषैवार्थोत्पत्तिः ।

भगवा(१६ ३)न् श्रावस्त्यां विहरति । शास्ता देवानाञ्च मनुष्याणाञ्च
विस्तरेण निदानं कृत्वा अपरेण दानि भिक्षुणा वंशशलाकाहि
व्रणमुखं पोत्थि(च्छि)तं तस्य दानि क्षतं सरुधिरं कृतम् । एतं
प्रकरणं (ज्.७१) भिक्षू भगवतः । आरोचयेंसुः । भगवानाह ।
शब्दावथ भिक्षुं सो दानि शब्दापितो । भगवानाह । एवं च त्वं
वंशशलाकाहि व्रणमुखं पे(पो)च्छेसि तेन हि न क्ष(१६ ४)मति
वंशशलाकाहि कण्डविदलिकै(के)न वा नलकाष्ठेन वा । कठल्लेन वा
अस्थिखण्डेन वा व्रणमुखं पोच्छितुं, । अथ खलु अवलेखनं नाम
कर्त्तव्यम् । ओलिका वा स्थापयितव्या । मृत्तिकामया वर्त्तिका कर्त्तव्या । या
खानिमा वर्च्चकुटी भवति । नापि क्षमति भिक्षुणा व्रणमुखं
पोच्छयता तायो वर्त्तिकायो वा कुलिकायो वा वर्च्चकुटीये प्रक्षिपितुं, ।
(१६ ५) अथ खलु एकमन्ते (इ.प्.८७) कूटकं कर्त्तव्यम् । तायो देवसिकं
च्छोरयितव्यायो वा दहिय भूयो वा दहिय भूयो वा थपयितव्यायो । अथ
दानि भिक्षु पश्यति । को इमायो दहिष्यतीति । त(ता)यो च्छोरिय अन्यायो
स्थापयितव्यायो । अथ दानि प्रपातनिश्रिता भवन्ति । किंचापि तहिं
अपलेखां वा प्रक्षिपति । संकरं वा अनापत्तिः । वर्च्च(ं) करंतेन
त(१६ ६)था कर्त्तव्यं, । यथा उच्चारप्रश्रावखेटसिंघाणकं सर्व्वं
तहिं निगच्छे । अथ दानि अन्यो चौक्षीकृतं भवति । ओहाणं वा । खेटं
वा । सिंहाणकं वा वर्च्चे वा तहि(ं) निक्षिप्तं भवति । उच्चिकाये तहिं
सर्व्वं प्रक्षिपितव्यम् । नापि दानि क्षमति । अकृत्वा उदककृत्यं
सांघिकं शेय्यासनं परिभुञ्जितुम् ॥ * ॥ एषा एवार्थोत्पत्तिः ॥
भगवान् श्रावस्त्यां विहरति । शास्ता देवानाञ्च मनुष्याणां (१६ ७)
च । विस्तरेण निदानं कृत्वा अपरो दानि भिक्षुः । (ज्.७२) उश्वासेन उद्दीपितो
निवसनमोगुहिय वर्च्चकुटिं प्रविशति । तहिं च अपरो भिक्षुः
पूर्व्वप्रविष्टो सो दानाह । मा मे आयुष्ममोहयेसि । एतं प्रकरणं
भिक्षुः । भगवतो आरोचयेंसुः । भगवानाह । तेन हि एवं वर्च्चे
प्रतिपद्यितव्यम् । किन् ति दानि एवं वर्च्चे प्रतिपद्यितव्यम् । नायं ताव
क्षमति । भिक्षुणा क्षमयितुं, (१६ १) याव उश्वासेन उत्पीडितो त्ति ॥ अथ
खलु समुदाचारमात्रकेणैव वर्च्चकुटिं गन्तव्या । अथ दानि
भिक्षुः । उश्वासेन सहसा उप्पडि(तो) भवति न क्षमति निवासनं
ओगुहिय अशब्दकर्ण्णिकाये वर्चकुटी प्रविशितुम् । अथ खलु अच्छटिकां
कर(न्)तेन प्रविशितव्यम् । यदि तातव(व त)हि(ं) कोचि पूर्व्वप्रविष्टो
भवति तेन प्रत्यच्छटिका कर्त्तव्या । इमिना आगमयितव्यम् । ताव याव
उत्थित इति । अथ दानि (१६ २) उप्पीडितो भवति । अच्छटिकां करन्तेन
अल्लीपितव्यम् । इमिना च पराङ्मुखेन भवितव्यम् । तस्य चावकाशो
दातव्यः । तेन च पराङ्मुखेन उ(प)विशितव्यम् । अन्तरं दातव्यः ।
नापि दानि दूरतो येच(व) निवास(न)मोगुहिय उपवेष्टव्यम् । (ज्.७३) अथ
खलु समनन्तरमुपविशितव्यं च निवसनं निगुहितव्यं च नापि दानि
क्षमति वर्चकुटीयमुपविष्टेन ध्यानान्तरगतेन वा
मिद्धान्तरगतेन वा उ(१६ ३)द्देशं वा (इ.प्.८८) स्वाध्यायं वा
मनसिकरेन्तेन आसितुम् । अथ खलु समुदाचारं करिय उत्थिय च्छत्ति
म(ग)न्तव्यम् । नापि क्षमति । सांघिकेन शेय्यासनेन प्रावृतेन
वर्च्चकुटी प्रविशितुम् । नापि क्षमति । कल्पिकेहि चीवरेहि प्रावृतेहि
वर्च्चकुटीं प्रविशितुम् । अथ खलु स्थापयित्वा प्रवेष्टव्यं नापि दानि
क्षमति । दन्तकाष्ठं खादन्तेन वर्च्चकुटीं प्र(१६ ४)वेष्टुम् ।
एकान्ते निक्षिपित्वा प्रवेष्टव्यम् । नापि क्षमति । ओगुण्ठितशीर्षेण वा
ओहयितहस्तेन न वा वर्च्चकुटीं प्रवेष्टुम् । अथ खलु एकांसीकृतेन
प्रवेष्टव्यम् । एषो भिक्षुः पुरिमे वा पश्चिमे वा प्रहाणी(णे) उपविष्टो
समुदाचारकृतो भवति । प्रहाणस्य आमन्त्रियाण च्छत्ति वर्च्चकुटीयं
गन्तव्यम् । अथ दानि भिक्षू उत्पीडितो भवति नापि क्षमति । (१६ ५) यथा
उष्ट्रेण वा गोणेन वा गर्द्दभेन वा ऊरूयो (ओ)हंय(यं)तेन गच्छितुं, ।
अथ खलु संघारामस्य एकहिमन्ते उपविशितव्यम् । अथ दानि भिक्षुणा
दृष्टो भवति । नापि क्षमति वक्तुं, । को वा एषो कथं वा एषो मा वेड्डो
भवेय त्ति । तेन उश्वासं करंतेन मल्लकेन वा कोडितेन वा
च्छोरयितव्यम् । च्छोरियाणं सो पृथिवीप्रदेशो गोमये(१६ ६)न
उद्वर्त्तितव्यम् । ततो यदि ताव विभवो भवति । तैलकार्षी वा (ज्.७४)
गन्धकार्षी वा दातव्यम् । अथ दानि विभवो न भवति । अन्तमसतो
गोमयकार्षी दातव्याः । एषो भिक्षुः । चेतियं वन्दितो उश्वासकृतो
भवति । समुदाचारमात्रकेनैव निर्द्धावितव्यम् । अथ दानि सहसा
उत्पीडितो भवति । तदा न क्षमति । उष्ट्रेण वा गोणेन वा ऊरूयो
ओहयन्तेन गन्तुं, । अथ (१६ ७) खलु एकमन्ते निवास(न)मो(गु)हिय
उपविशितव्यम् । अथ दानि भिक्षूहि दृष्टो भवति तदा न क्षमति वक्तुम् ।
को वा एषो कथं वा एषो मा चे(वे)ड्डो भवेय न्ति(त्ति) । तेनापि दानि
उश्वासं करिय मल्लकेन वा कोडिल्लेन वा कठल्लेन वा च्छोडियाण सो
पृथिवीप्रदेशो गोमयेन उद्वर्त्तयितव्यो । यदि ताव आहत्या पृथिवी
भवति । उत्तत्थपितव्या । कृतकर्म्मा पृथिवी भवति उदकेन
धोवित(१७ १)व्यम् । यदि ताव विभवो भवति चेतियघरे तैलकार्षी वा
दातव्या । अथ दानि न विभवो भवति । अन्तमसतो तंहि पृथिवीप्रदेशे
गन्धकार्षी वा दातव्या । अथ दानि आरण्यकं शेय्यासनं भवति ।
दुर्लभो गन्धो अन्तमसतो तैलकार्षी दातव्या । एते (इ.प्.८९) द्वे भिक्षू
वे(चे)तियं वन्दन्ति यं पश्यन्ति तत्र शुनखेन वा शृगालेन वा उश्वासं
कृतकं यो नवको भवति । ते(१७ २)न च्छोरितव्यम् । अथ दानि नवतरको
शैथिलिको बाहुलिको भवति । वृद्धतरेण च्छोरितव्यम् । (ज्.७५) एते द्वे
भिक्षू गोचरं प्रविशन्ति प्रकृत्येव ताव च्छड्डयितव्यं, । अथ दानि
भिक्षूः प्रविष्टो समानो समुदाचारं कृतो भवति । किं कर्त्तव्यं
ग्रामान्तिकं शेय्यासनं गन्तव्यम् । प्रतिक्रमणं वागन्तव्यम् । नापि
क्षमति । भिक्षुण्युपाश्रये गतागतस्य वर्च्चकुटिं प्रविशितुम् । अनेकाये
(१७ ३) भिक्षुणिका उपविष्टा भवेय । अथ खलु पृच्छितव्यम् । भगिनि किं
रिक्ता वा वर्च्चकुटी नेति नापि क्षमति । तरुणिका पृच्छितुम् । मा वेण्णा
भवेय न्ति(त्ति) । अथ खलु वृद्धा पृच्छितव्या । यदि तावदाह । आर्य
रिक्ता वर्च्चकुटीति । कनकेन वा दकानकेन वा उदकं गृह्णिय
प्रविशितव्यम् । उश्वासं करिय उदककृत्यं करिय गन्तव्यं, । अथ दानि
एवं पि न भवति नी(१७ ४)लमञ्चं गन्तव्यम् । नापि दानि क्षमति ।
स्त्रीणां निग(नील)मंच(ं) गन्तुम् । अथ खलु यो पुरुषाणां नीलमंचो
तहिं गन्तव्यं नीलमञ्चो न भवति । उत्सृष्टगृहं गन्तव्यम् ।
पृच्छितव्यं रिक्तो उक्खरो ति न दानि तरुणिका स्त्री पृच्छितव्या । मा
अऽप्रहासं देया महन्तिका पृच्छितव्या । यदि तावदाह । ऋक्तो
उदकदकानका आदाय प्रवेष्टव्यम् । एवं पि न भवति ।
शून्य(१७ ५)घरं वा जम्बालं वा भवति । तहिं गन्तव्यम् । न दानि
तहिं गन्तव्यम् । न दानि तहिमतिनि(ः)शब्दप्रवे(दे)शे उपवेष्टव्यम् ।
मा (ज्.७६) उग्गंकितो भवेयं छन्नप्रवे(दे)शे उपवेष्टव्यम् । अथ दानि
एवं पि न भवति । उत्क्षिप्तरथ्यायां कुड्यं पृष्ठतो कृत्वा उश्वासो
कर्त्तव्यो । यो सौ द्वितीयो सहायो भवति । तेन पुरतो पराङ्मुखेन
स्थातव्यम् । एते भिक्षु सार्थेन सा(१७ ६)र्द्धमध्वानं गच्छंति ।
भिक्षु उश्वासितो भवति नापि क्षमति । य(प)त्थेस्मिमुश्वासं कर्त्तुं, ।
मा (जनो) ओध्यायेंसु केनिमं (इ.प्.९०) य(प)त्थेस्मि(ं) अन्त्राणि
विकीर्ण्णानि । अथ खलु एकतमं ज्झटं वा वृक्षं वा पृष्ठतो
करियाण उपविशितव्यम् । नापि दानि अनुवातं कर्त्तव्यम् । मा
सर्व्वसार्थं गन्धेन व्यावहेय्या अपवातं कर्त्तव्यम् । सार्थे
निसृष्टस्मिं समुदाचारो भवति । एकान्ते उपविशिय कर्त्त(१७ ७)व्यम् । नापि
दानि अप्रतिसंविदितेन उथ(च्च)त्तितव्यं, । मा चोरो वा ओचोरको वा न्ति(त्ति)
हन्येया नापि दानि अनुवातं कर्त्तव्यम् । या(मा) सर्व्वसार्थो गन्धेन
वा(व्या)वहेया अपवातं कर्त्तव्यं, । नापि दानि क्षमति । प्रतिकृत्येव
निवासनं (ज्.७७) ओगुहिय गच्छितुं, । अथ खलु निवासनमोगुहितव्यं च
उपविशितव्यञ्च न क्षमति निवासनमोगुहिय वामेन हस्तेन अङ्गजातं
गृ(१७ १)ह्निय द्रविडेन यथा उदकसमीप(पे) गन्तुम् । अथ खलु
उत्थिहितव्यं च निवासनमोसरितव्यम् । नावाये गच्छन्तस्य समुदाचारो
भवति यदि वर्चकुटी भवति । तहि(ं) कर्त्तव्यं काष्ठकमन्तरा
कर्त्तव्या । यथा तहिं प्रथमं निपतेया एवं न भवति । अन्तमसतो
स्वका अङ्गुलि उपथपितव्या । वर्च्चकुटी न भवति । कटा(हे)न वा
मल्लिकेन वा उज्झितव्यं स्तूपाभिगृहे वा संघाभिगृहे वा प(१७ २)श्यति ।
उज्झितव्यम् । अथ दानि द्वे चंक्रमन्ते । वृद्धतरको नवतरको च
नवकेन उज्झितव्यम् । अथ दानि सो भवति शैथिलिको वा बाहुलिको वा
आवड्ढको वा अशिक्षाकामो (वा) तदा स्वयमुज्झितव्यम् । एषो हि भिक्षुः ।
दीर्घकेन खायितको भवति । वैद्यो जल्पति भत्ते(न्ते) महाविकटां
पायेथ न्ति(त्ति) किं कर्त्तव्यम् । यदि ताव आत्मनो उच्चारो भवति । सो एव
तस्य प्रतिग्रहो (ज्.७८) अथ (१७ ३) दानि परकेरको उच्चारो भवति ।
प्रतिग्रहापयितव्यो । उदकेन अच्चाविय घनेन नर्त्तकेन परिस्राविय तस्य
भिक्षुस्य सुमनाफुल्लानि न शक्ये ददियाणं वक्तव्यम् । आयुष्मन
इमस्य भैषज्यस्य गन्धो यादृशो उच्चारस्य मा खलु ते अमनाय(प)ं
भविष्यति पिबाहि यदि शे जीवितुकामो एवं सर्व्वेहि सर्व्वे(वर्च्चे)
प्रतिपद्यितव्यम् । न प्रतिपद्यति । अभि(१७ ४)समाचारिकान् धर्म्मान्
अतिक्रमति ॥ * ॥

(इ.प्.९१)
इइ.९ म्स्. १७ ४ (ज्. ७८.७); छ्.५०४ १८
भगवान् श्रावस्त्यां विहरति शास्ता देवानाञ्च मनुष्याणाञ्च
विस्तरेण निदानं कृत्वा ते दानि भिक्षुः प्रकीर्ण्णकं प्रश्वासं करोन्ति
जनो दानि ओध्यायन्ति । पश्यथ भणे (इमे) श्रमणका । यथा उष्ट्रा वा
गोणा वा गर्दभा वा च्छगलका वा एव(मि)मे श्रमणका प्रकीर्ण्णकं
प्रश्वासं करोन्ति । नष्टं भ्रष्टं कु(१७ ५)तो वा । इमेषां श्रामण्यं
एतं प्रकरणं भिक्षूहि श्रुतम् । भिक्षू भगवतो आरोचयेंसु ।
भगवानाह । सत्यं भिक्षवो जनो ओध्यायति । तेन हि प्रश्वासकुटी
नाम कर्त्तव्या । प्रश्वासकुटीपि(ये) दानि भिक्षुणा कार(प)यन्तेन न
क्षमति वी(वि)हारस्य उत्तरेण (वा) पूर्व्वेण (वा) कारापयितुम् । अथ
खलु दक्षिणेन वा पश्चिमेन वा कारापयितव्या वातपथ(ं) मुक्त्वा
(१७ ६) उदकभ्रमणस्य वा त(उ)परि कर्त्तव्या । उपलस्य वा इष्टकाय वा
उपरि मल्लतलका खन्नां खनितव्या । मध्ये च्छिद्रकं कर्त्तव्यम् ।
(ज्.७९) उदकभ्रमणस्य उपरि थपेतव्या सुवा(धा)य समंतेन
लिपितव्या । यदि समन्तेन सेतुः कर्त्तव्यो यथा पतको येव प्रश्वासको
बाह्येन निर्ग्गच्छति । धोविय तैलेन म्रक्षयितव्या । नवकान्तेन वा
उद्दिष्टकेन वा पटिपाटिकायेन वा यस्य (१७ ७) वा प्रापुणेति ॥ * ॥ एषा
एवार्थोत्पत्तिः ॥
भगवान् श्रावस्त्यां विहरति शास्ता देवानाञ्च मनुष्याणाञ्च
विस्तरेण निदानं कृत्वा अपरो दानि भिक्षुः प्रहाणमुपविष्टको
प्राश्वासेन उष्पी(प्पी)डितो प्रश्वासकुटीं गच्छियाणं निवासनं
ओ(गु)हियाणं प्रश्वासं करिष्यन्ति । तहिं च भिक्षुः पूर्व्वप्रविष्टो
प्रश्वासं करोति । सो जल्पति । मा खलु मे आयुष्मनोमुत्रप(य)सि त्ति ।
एतं (१८ १) प्रकरणं भिक्षूहि श्रुतं भिक्षू भगवतो आरोचयेंसु ।
भगवानाह । तेन हि एवं प्रश्वासे प्रतिपद्यितव्यम् । एवं ताव न
क्षमति भिक्षुणा आगमयितुम् । याव प्रश्वासेन प्र(उ)पीडितो भवति ।
अथ खलु समुदाचारमात्रकेनैव प्रश्वासकुटीं गन्तव्यम् । नापि
दानि क्षमति अशब्दकर्ण्णिकाये प्रश्वासकुटीं प्रविशितुम् ॥ अथ खलु
अच्छटिकां करन्तेन प्रश्वासकुटिं प्रविशितव्यम् । य(१८ २)दि तहिं कोचि
पूर्व्वप्रविष्टो (इ.प्.९२) तेन प्रत्यच्छटिका कर्त्तव्या इमिना ताव
आगमयितव्यम् । याव प्रश्वासो कृतो अथ दानि सो भिक्षुः । उप्पीडियती
येव अच्छटिकां करन्तेन अल्लीपितव्यम् । (ज्.८०) इमिना अवकाशो दातव्यो ततो
उभयो(ये)हि प्रश्वासो कर्त्तव्यो । नापि दानि क्षमति । ओगुण्ठितशीर्षेण
वा ओहितहस्ते(न) वा दन्तकाष्ठं खादन्तेन (वा) उपवेष्ट(ष्टु)म् । अथ
खलु एकांसकृतेन एका(१८ ३)न्ते दन्तकाष्ठं स्थापयित्वा
उपवेष्टव्यम् । नापि दानि तहिं ध्यानान्तरेण वा स्वाध्यायं वा
करेन्तेन अशुभसमापत्तिं वा समापन्नेन आसितव्यम् । अथ खलु
प्रस्रावं कृत्वा च्छत्ति उत्थितव्यम् । एषो दानि भिक्षुः प्रहाण
उपविष्टको प्रश्वासकृतो भवति । उत्थियाणं प्रश्वासकुटीं गन्तव्या ।
अथ दानि प्रश्वासेन उप्पीडितो भवति । न क्षमति । यथा उष्ट्[रे]ण वा
(१८ ४) गोणेन वा गर्दभेन वा ऊरूयो ओमूत्रियन्तेन गन्तुं, । अथ खलु
एकतमंते उपविशिय प्रश्वासो कर्त्तव्यो । अथ दानि केनचि भिक्षुणा
दृष्टो नापि दानि क्षमति वक्तुम् । को वा एषो कथं वा एषो मा वेड्डे
भवेय न्ति(त्ति) । तेनापि दानि प्रश्वासं करियाण सो पृथिवीप्रदेशो यदि
तावदाहत्य ।(त्या) पृथिवी भवति । काष्ठेन वा कठल्लेन वा
उत्तत्थिया(१८ ५)णं च्छोरयितव्यो अथ दानि कृतंकर्म्मा पृथिवी भवति ।
धोवयितव्या । ततो तैलकार्षी वा गन्धकार्षी वा (ज्.८१) दातव्या । अथ
दानि नास्ति विभवो अन्तमसतो गोमयकार्षी दातव्या । अथ दानि
प्रश्वासकुटी न भवति । एकस्मि(ं) कोणे सर्व्वसंघस्य
प्रश्वासपटे(घटो) स्थापयितव्यो तस्योपरि च्छिद्रमल्लका दातव्यम् ॥
मा अप्रकृतिका घटस्य वा बाह्येन [प्र]श्वा(१८ ६)सं छोरेया ति । तत्र
तत्रं(कुन्त)को अलाबुओतुम्बको वा थपयितव्यो तहिं प्रश्वासं करियाण
घटके प्रक्षिपितव्यम् । न दानि तहि(ं) क्षमति । उच्चारो वा
खेटसिंघाणको वा प्रक्षिपितुम् । सो दानि उज्झितव्यो । नवकान्तेन
कायस्य वा ओहेय्यको भवति । नापि दानि क्षमति । अत्या(भ्या)गमे
प्रदेशे उज्झितुं सर्व्वसंघस्य मा गन्धेन व्यावहेय्या । अथ दानि
द्विभूमको भवति । द्वितीयायां (१८ ७) भूमियं तथा येव घटको
स्थापयितव्यो । तृभूमिको भवति । तृतीयायां भूमौ तथा य्येव
स्थापयितव्यम् । तहिं प्रश्वासं (इ.प्.९३) करितव्यम् । कर्ण्णिकं यं कालं
प्रहाणस्य यथासुखं कृतं भवति । तं कालं प्रश्वासघटिका
निक्काल(ज्.८२)यितव्या । केनायं निक्कालयितव्यो । नवकान्तेन वा
पटिपाटिपाटिकाय वा यस्य वा प्रापुणति । ततो पि न क्षमति । सो तहिं
च्छोरयितुम् । यहिं देवे व(१८ १)र्षिन्तस्य स्तूपविग्रहं वा संघविग्रहं
वा गच्छति । अथ खलु तहिं च्छोरयितव्यम् । यहिं देवे वर्षन्तेन अन्ये
न गच्छति नापि क्षमति । प्रश्वासघटमभिनिकुञ्जे प्रदेशे
स्थापयितुम् । मा अन्ये भिक्षू न पश्येंसु । नापि क्षमति । अतिप्राकटे
प्रदेशे स्थापयितुम् । मा नं ढोस्सा वा विडा वा वातपुत्रा वा
भुंजेंसु । अथ खलु प्रच्छन्नप्राकटे स्थापयितव्यम् । विकाले
प्रविशियाणं तहिं य्येव (१८ २) स्थाने स्थापयितव्यो । घटस्योपरि
च्छिद्रमल्लकं स्थापयितव्यम् । च्छिद्रमल्लकस्योपरि कुन्तको वा
अलाबुतुम्बुको वा थपयितव्यो । अथ दानि संघे प्रश्वासघटो न
भवति । पौद्गलिकपौद्गलिकानि प्रश्वासघटिकानि स्थापयितव्यानि ।
घटिका वा कारका वा अलाबुतुम्बुका वा कल्प(य)तो एव प्रश्वासं
एकमन्ते विसर्जिय प्रश्वासभण्डकम् । वोधि(धोवि)य प्रतिगुप्ते (१८ ३)
प्रदेशे आतपे स्थापयितव्यम् । ततो विकाले भूयो प्रवेशितव्यो । कुत(न्त)को
भवति । एवं य्येव कर्त्तव्यं तुच्छकं भवति कल्प(य)तो येच(व)
उज्झित्वा च्छन्ना(न्ने) स्थवितव्यम् । मा फुट्टेंसु शिक्तेन उच्चिनित्वा
स्थापयितव्यम् । मल्लकं भवति । एकान्ते उज्झित्वा धोवित्वा आतपे
स्थापयितव्यम् । सायं प्रवेशेन्तेन कुन्त वा तुम्बका वा शिक्षे(क्ते)(न)
(ज्.८३) उच्चिनित्वा मञ्चकस्थाने उल्लपितव्यम् । ओरु(१८ ४)हन्तेन मल्लकं
घटिका वा मञ्चकस्य च ओरुहन्तेन सुस्थपिता कर्त्तव्या भाजनं न
भवति । वर्षा उदकं च भवति । न दानि तथा प्रस्रावो व(क)र्त्तव्यो ।
यथा चेतियाभिगृहमुपरि घंश्वतो गच्छेया एकान्तके कर्त्तव्यम् ।
अग्निशालायां वा उपस्थानशालायां वा उपविष्टस्य समुदाचारो भवति ।
च्छत्ति निष्क्रमितव्यम् । अथ दानि उप्पिलितो भवति अकं,(१८ ५)थायेने विय
मूत्रेण सिञ्चन्तेन न गन्तव्यम् । अथ खलु एकान्तेन कृत्वा उज्झितव्यं
(इ.प्.९४) । तैलकार्षी दातव्या । अन्तमसतो गोमयकार्षी दातव्या । एषो
भिक्षु चेतियं वन्दन्तो प्रश्वासकृतो भवति । समु(दा)चारमात्रकेण
एव गन्तव्यम् । अथ दानि भिक्षु सुष्ठु उप्पीलितो भवति नापि क्षमति ।
यथा उष्ट्रेण वा गोणेन वा उरूयो ओमूत्रन्तेन गन्तुं, । अथ (१८ ६)
खलु एकमन्तेन प्रश्वासो कर्त्तव्यो । अथ दानि कोचि भिक्षु पश्यति ।
नायं वक्तव्यो को एषो किं वा कथं वा एतं ति मा वेड्डो भवेय
न्ति(त्ति) । तेनापि प्रश्वासं करियाण यदि ताव आहत्या पृथिवी भवति ।
काष्ठेन वा कठल्लेन वा उत्तच्छि(त्थि)य च्छोरयितव्यम् । (ज्.८४) अथ
दानि कृतकर्म्मा पृथिवी भवति धोवितव्या । सर्व्वत्र चेतियंगृहे
गन्धकार्षी वा तैलकार्षी वा दातव्या । अथ दानि विभवो न (१८ ७)
भवति । अन्तमसतो तहिं पृथिवीप्रदेशे तैलकार्षी वा गन्धकार्षी वा
दातव्या । अथ दानि आरण्यकं शेय्यासनं भवति दुर्ल्लभो गन्धो
अन्तमसतो तैलकार्षी दातव्या । एषो भिक्षुः गोचरं प्रविसति । प्रकृत्येव
ताव प्रश्वासं करिय प्रविशितव्यम् । अथ दानि भिक्षुः गोचरं प्रविष्टः
प्रश्वासकृतो भवति । नापि क्षमति । अभ्यागमे प्रदेशे प्रश्वासं
कर्त्तुं, । अथ ख(१९ १)लु या उ(त्)क्षिप्तरथ्या भवति तुण्डरथ्या तहिङ्
गन्तव्यम् । कुण्ड(ं) अग्रतो करियाण प्रश्वासो कर्त्तव्यो यो से द्वितीयो
सहायो भवति । तेन पृष्ठतो स्थातव्यम् । पराङ्मुखेन एषो भिक्षुः
सार्थेन समानमध्वानं गच्छति । प्रश्वासकृतो भवति । नापि
क्षमति । पन्थेस्मिं प्रश्वासं कर्त्तुम् । मा जनो ओध्याये केन इमे
पन्थे प्रश्वासो कृतो रुधिरं विय च्छन्दितुम् । अथ खलु एकान्ते
प्रश्वासो कर्त्तव्यो । (१९ २) पन्थातो उस्सरिय एकान्ते कर्त्तव्यम् । नापि दानि
क्षमति । अनुवातं कर्त्तुं, । मा सार्थो गन्धेन व्यावहेय्या । अपवातं
कर्त्तव्यम् । अथ दानि सार्थे सन्निविष्टे समुदा(चा)रो भवति । एकान्ते
उच्चत्तिय कर्त्तव्यम् । (ज्.८५) न दानि अप्रतिसंविदितेन उच्चत्तितव्यम् । मा
चोरो वा ओचोरको वेति हन्येया । अथ खलु संविदितेन उच्चत्तितव्यम् । नापि
दानि अनुवर्त्तित(वातं कर्त्त)व्यम् । अपवातं कर्त्तव्यम् । नावारे(ये) (१९ ३)
गच्छन्तस्य समुदा(चा)रो भवति । यदि वर्च्चकुटी भवति तहिं
कर्त्तव्यम् ॥ अथ दानि वर्च्चकुटी न भवति भाजने कृत्वा उज्झितव्यम् ॥
(इ.प्.९५) अथ दानि ग्लानो भवति भिक्षुः पाण्डुरोगेण वैद्यो जल्पति ।
भञ्जेन्तं प्रतिमूत्रं पिबनाय देथे त्ति किं कर्त्तव्यं यदि ताव
आत्मनको प्रश्वासो भवति । पुरिमपश्चिमकं च वर्जयित्वा मध्यमं
गृह्नितव्यो । एवं तस्य प्रतिग्रहः । (१९ ४) अथ दानि अन्यातकं भवति
पुरिमपश्चिमकञ्च वर्ज्यं कृत्वा गृह्नितव्यम् । ततः पश्चात्
प्रतिग्राहयितव्यम् । तस्य ग्लानस्य सुमनाफुल्लं न (श)क्के ददियाणं
वक्तव्यम् । इमं खलु बुद्धप्रज्ञप्तं भैषज्यं पिब यदि जीवितुकामो
सि । एवं प्रश्वासे प्रतिपद्यितव्यम् । न प्रतिपद्यति ॥ अभिसमाचारिकान्
धर्म्मानतिक्रमन्ति ॥ * ॥

इइ.१० म्स्.१९ ४ (ज्.८५.१४); छ्.५०५ २३
भगवान् श्रावस्त्यां विह(१९ ५)रति । शास्ता देवानाञ्च मनुष्याणाञ्च
विस्तरेण निदानं कृत्वा । अपरेण दानि भिक्षुणा सांघिकायं (ज्.८६)
भूमौ आम्रपोतको रोपितको सो दानि तमुन्नेति व(र्)द्धेति घटसिक्तको
एकपुत्रको विय अपरेण भिक्षुणा आगच्छिय उप्पाडिय दन्तकाष्टं
खायितं सो दानि तेन दृष्टो ॥ सो दानाह । आयुष्मनेवं च दानि त्वं
मम आ(१९ ६)म्रपोतको घटसिक्तको एकपुत्रकं विय संवर्द्धितव्यम् ।
उप्पाडिय दन्तकाष्ठं खादसि । एतं प्रकरणं भिक्षूहि श्रुतं
भिक्षू भगवतो आरोचयेंसु । भगवानाह । शब्दापयथ तं भिक्षुम् ।
सो दानि शब्दापितो भगवानाह । सत्यं भिक्षु एवं नाम अपरेण
भिक्षुणा सांघिकायां भूमौ आम्रपोतको रोपितो सो दानि तेन उन्नीतो
वर्द्धितो घटसिक्तको एकपुत्र(१९ ७)को विय त्वया सो अगे(आग)च्छिय
उप्पाडिय भंजिय दन्तकाष्ठं खादितम् । आह । आम भगवं
भगवानाह ॥ एवं नाम त्वं पुष्पोपगतं वृक्षमुप्पाडिय
दन्तकाष्ठं खादसि । तेन हि न क्षमति । दन्तकाष्ठम् ॥ * ॥ एषा
एवार्थोत्पत्तिः ॥
भगवान् श्रावस्त्यां विहरति शास्ता देवानाञ्च मनुष्याणाञ्च
विस्तरेण (इ.प्.९६) निदानं कृत्वा भगवान्महतीये बालाकिनीये
भिक्षुपर्या(षा)ये धर्म्मन् देशय(१९ १)ति । ते दानि भिक्षू
दन्तकाष्ठं न खादन्ता एकान्ते निषण्णा आसन्ति प्रवातगन्धिकेन
मुखेन पश्यन्ति । मा सब्रह्मचारिं गन्धेन (ज्.८७) व्यावहिष्यामः ।
भगवान् जानन्तो येव पृच्छति किमेते भिक्षवो भिक्षू एकान्ते आसन्ति ।
कलहितका विय मन्ये । भिक्षू आहंसु । भगवता दन्तकाष्ठं
प्रतिक्षिप्तम् । ततो एते भिक्षवो एकान्ते आसन्ति । प्रवातगन्धिकेन
मुखेन पश्यन्ति मा सब्रह्मचा(१९ २)री गन्धेन व्यावहिष्यामः ।
भगवानाह । तेन हि अनुजानामि दन्तकाष्ठं प्रामाणिकं महान्तं
षोडशाङ्गुलं, ॥ * ॥ एषैवार्थोत्पत्तिः ॥
भगवान् श्रावस्त्यां विहरति । ते दानि आयुष्मन्तो नन्दनोपनन्दना
सवल्लरिकानि दन्तकाष्ठानि खादन्ति जनो दानि ओध्यायन्ति पश्यथ
भणे श्रमणकाः । यथा कुमारका वा धर्म्मिष्ठा वा अक्षदर्शा वा
गण(का) वा महामत्रा वा । एवमिमे श्र(१९ ३)मणकाः सवल्लरिकानि
दन्तकाष्ठानि खादन्ति । नष्टं भ्रष्टं कुतो इमेषां श्रामण्यमेतं
प्रकरणं भिक्षू भगवतो आरोचयेंसु । भगवानाह शब्दापयथ
नन्दनोपनन्दनां ते दानि शब्दापिता । भगवानाह । सत्यं भिक्षवो
नन्दनोपनन्दना एवं नाम यूयं सवल्लरिकानि दन्तकाष्ठानि
खादथ । जनो दानि ओध्यायति पश्यथ भणे श्रमणका यथा (१९ ४)
कुमारका वा धर्म्मिष्ठा वा गणका वा राजपुत्रा वा इमे
श्रमणकाः सवल्लरिकानि दन्तकाष्ठानि खादन्ति । नष्टं भ्रष्टं
कुतो इमेषां श्रामण्यमाहंसु । आम भगवन् भगवानाह । एवं च
दानि यूयमप्रमाणानि दन्तकाष्ठानि खादथ । तेन हि प्रमाणिकं
दन्तकाष्ठं खादयितव्यम् । दन्तकाष्ठानि नाम त्रिणि ज्येष्ठं
मध्यमं कनीयसम् । ज्येष्ठं (ज्.८८) नाम षोडशाङ्गु(१९ ५)लानि
मध्यमं द्वादशाङ्गुलानि कनीयसमष्टाङ्गुलानि ॥ * ॥
भगवान् श्रावस्त्यां विहरति विस्तरेण निदानं कृत्वा अपरो दानि भिक्षु
दन्तकाष्ठं खादति । तेन दानि खादन्तेन दन्तकाष्ठं
थो(निर)वशेषं कृतम् । तेन दानि भगवान् दृष्टो भगवतो गौरवेण
सर्व्वमभ्यवहृतम् । तस्य दानि अफांसु । एतं प्रकरणं भिक्षू
भगवतो आरोचयें(१९ ६)सु । भगवानाह । एवं च यूयं सर्व्वं, (इ.प्.९७)
निरवशेषं दन्तकाष्ठं खादथ तेन हि शेषाश्चत्वारि अङ्गुलानि
दन्तकाष्ठस्य वर्ज्यं कर्त्तव्यम् । अथ दानि भिक्षू आरण्यके शेय्यासने
प्रतिवसन्ति । कल्पियकारो दुर्ल्लभो भवति किं कर्त्तव्यम् । ज्येष्ठकानि
दन्तकाष्ठानि कारापयितव्यानि । ततो भिक्षुणा दन्तकाष्टं खादिय
कु(र्)च्चकं शस्त्रकेन च्छिन्दितव्यम् । धोवियाणं थपयितव्यो । अपरं
(१९ ७) दिवसमेवमेव खादिय एवं ताव खादयितव्यं याव
दन्तकाष्ठस्य चत्वारि अङ्गुलानि अवशिष्टानि ततो च्छोरितव्यम् । सो एषो
भिक्षुः निरवशेषं दन्तकाष्ठं खादति विनयातिक्रम(ं) आसादयति ।
दन्तकाष्ठं पि नाम खादन्तेन न क्षमति । स्तूपविग्रहे वा
संघविग्रहे वा दन्तकाष्ठं खादिन्त(तु)म् । अथ दानि भिक्षुः ग्लानो
भवति शिराविद्धको वा विरेचनपीतको वा घृत(२० १)पीतको वा किञ्चापि
संघविग्रहे दन्तकाष्ठं खादति । अनापत्तिः । नापि दानि क्षमति ।
दन्तकाष्ठं (ज्.८९) खादन्तेन खेटं दिशोदिशं च्छोरयितुम् । कु(र्)च्चको
वा दिच्छद्दिय दिशोदिशं च्छोरयितुम् । अथ खलु कट(टा)हके वा
मल्लके वा कोटियां वा आविद्धपुटिकायां वा खेटं च्छोरयितव्यो
वामेन च हस्तेन कु(र्)च्चको गृह्णितव्यः । पश्चात एकमन्तेन
च्छोरयितव्यः । दन्तकाष्ठं पि दानि खादन्तेन नापि क्षमति ।
उपस्थानशा(२० २)लायां वा अग्निशालायां वा भक्तशालायां वा
कल्पियशालायां वा कल्पिककुटिकायां वा संघमध्ये (वा)
उपाध्यायाचार्याणां वा अग्रतो वृद्धतरकानां वा भिक्षूणामग्रतो
दन्तकाष्ठं खादितुम् । नापि क्षमति मातृग्रामस्य अग्रतो
दन्तकाष्ठं खादितुं, । नापि क्षमति । चेतियं वन्दन्तेन
ओगुण्ठितशीर्षेण वा ओहितहस्तेन वा थ(चे)तियाति(भि)गृहे वा प्रासादे वा
खा(२० ३)दितुम् । एकांशीकृतेन एकान्ते खादितव्यम् । नापि क्षमति ।
दन्तकाष्ठं खादिय मध्येन पाटियान जिह्वां निलेहितुं कामभोगिना
यथा । अथ दानि भिक्षु जिह्वां निलेहितुकामो भवति । कुर्च्चकेन
आमर्जयितव्या । नापि क्षमति विभूषणाभिप्रायेण दन्तकाष्ठं
खादितुम् ॥ अथ खलु दुर्ग्गन्धप्रहाणार्थं दन्तकाष्ठं
खादितव्यम् । अथ दा(२० ४)नि दन्तकाष्ठं न (इ.प्.६८) भवति । अङ्गारेण
वा । अपक्कलद्दुना वा दन्ता ओद्य(घ)(र्)सयितव्याः । (ज्.९०) अन्तमसतो
अंगुलि दन्तकाष्ठं खादितव्यम् । स एषो भिक्षुः सर्व्वेण सर्व्वं
दन्तकाष्ठं न खादति विनयातिक्रममासादयति । एषो भिक्षु
वे(चे)तियं वन्दति । पश्यति दन्तपोणं च्छोरयितव्यो । अथ दानि द्वे जना
भवन्ति । यो नवको भवति । तेन (२० ५) उद्धृतव्या । अथ दानि नवको
शैथिलिको बाहुलिको भवति वृद्धतरेण उद्धृतव्यो । एवं दन्तकाष्ठे
प्रतिपद्यितव्यम् । न प्रतिपद्यति । अभिसमाचारिकान् धर्म्मान्
अतिक्रमति ॥ * ॥
उद्दानं
एवं शेय्यासने प्रतिपद्यितव्यम् ।
एवं वर्षोपनायिको(के) शेय्यासने प्रतिपद्यितव्यम् ।
एवं वर्षोपगतेहि शेय्यासने प्रतिपद्यितव्यम् ।
एवं (२० ६) वर्षवुस्तेहि शेय्यासने प्रतिपद्यितव्यम् ।
एवमागन्तुकेहि शेय्यासने प्रतिपद्यितव्यम् ।
एवं नैवासिकेहि शेय्यासने प्रतिपद्यितव्यम् ।
एवं हि सर्व्वेहि शेय्यासने प्रतिपद्यितव्यम् ।
एवं वर्चे प्रतिपद्यितव्यम् ।
एवं प्रश्वासे प्रतिपद्यितव्यम् ।
एवं दन्तकाष्ठे प्रतिपद्यितव्यन् ति॥ * ॥
॥ द्वितीयो वर्ग्गः ॥ * ॥


(इ.प्.९९) इइइ.१ म्स्.२० ६ (ज्.९१.१); छ्.५०५ १
भगवान् श्रावस्त्यां विहरति । विस्तरेण निदानं कृत्वा
पञ्चा(२० ७)र्थवशान् सम्पश्यमानास्तथागता अर्हन्तः
सम्यक्सम्बुद्धा । पञ्चाहिकां विहारचारिकामनुचंक्रमन्त्य्
अनुविचरन्ति । कतमां पञ्च । कच्चि मे श्रावकाः । न कर्म्मारामाः ।
न कर्म्मरताः । न कर्म्मारामतानुयोगमनुयुक्ता विहरन्ति
विस्तरेण यावदद्राक्षीद्भगवां पञ्चाहिकां विहारचारिकाम्
अनुचंक्रमन्तो अनुविचरन्तो अन्यतरं भिक्षु भूमौ अस्तरिय चीवरं
(२० १) सीवन्तं भगवां जानन्तो पृच्छन्ति किमिदं भिक्षुः । आह ।
भगवनिदं चीवरं सिवयामि ।
भगवानाह । एवन् तं त्वं भूमीय अस्तरीय चीवरं सिवयसि । तेन हि
कठिनं नाम कर्त्तव्यम् । कठिनं ताव भिक्षुणा कारापयमाणेन
द्वादशहस्तामायामतो कर्त्तव्यो । अष्टहस्तां विस्तारेण वंशानां वा
नलानां वा न(ं)गलानां वा काण्डानां वा चरुकानां वा रोहिषाणाम्
वा सूत्रिकाय वा रेज्जुकाय वा (२० २) घण बुणितव्यम् । यं कालं भिक्षुः
चीवरं सीवितुकामो भवति । उपस्थानशालायां वा अग्निशालायां वा
प्रासादे वा प्रहाणके कठिनं प्रज्ञापयित्वा चीवरं सीवितव्यम् ।
कठिनमस्तरियाणं पादां (ज्.९२) धोवियाणं कठिनस्मिं
पल्लंकेनोपविशियाणं तं चीवरं सीवितव्यम् । अथ दानि अपरो पि कोचि
सीवयि(तु)कामो भवति तेनापि पादां धोवयित्वा कठिनस्मिं
पल्लंकेनोपविशिय चीवरं, (२० ३) सीवयितव्यम् । अथ दानि निषण्णो
बाहिरकां पादां कृत्वा मू(सू)त्रं वलेन्तो आसति अनापत्तिः । अथ दानि
भिक्षुः पादानं(नि) धोवयितुकामो भवति । न क्षमति । अधोतकेहि
पादकेहि कठिनमोक्रमितुम् । अथ खलु बाह्येन कठिनस्मि पादानि
थपि।याणं चीवरं सीवयितव्यम् । यं कालं चीवरं सीवितं भवति ।
कठिनं सव्व(न्व)टियाणं भित्तीये द्वे कीलकानि खनिय रज्जुए (२० ४)
बन्धिय तहिमुक्कवयितव्यम् । यदि अपरो पि कोचि सीवयितुकामो भवति ।
तेनापि कठिनमस्तरीय चीवरकं येच(व) तथा सीवयितव्यम् । नापि
क्षमति कठिनस्य रङ्गे वा शोधयितुं गोमयं वा चीवरकानि वा
शोधयितुम् । अथ खलु चीवरकं सीवयितव्यम् । नापि क्षमति । कठिनं
अध्युपेक्षितुं (इ.प्.१००) । उल्लग्गकं वा पलुग्गकं वातातपेन
विनासियन्तं वर्षेण वा ओव(२० ५)र्षयन्तं पक्षीहि वा ओहयि(पि)यन्ताम् ।
(ज्.९३) अथ खलु कालेन कालं बन्धितव्यं कालेन कालं
प्रतिसंस्कर्त्तव्यो । अथ दानि कठिनं न भवति । मञ्चस्य वा उपरि
चीवरं पीठस्य वा उपरि चीवरकं करियाणं सीवितव्यम् । अथ दानि
एवं न भवति । प्रहाणशालायां वा । उपस्थानशालायां वा
मण्डलमाडे वा प्रदेशकं गोमयेन उपलिम्पिय चीवरकं सीवितव्यम् ।
अन्तमस(२० ६)तो जानुकानां पि उपरि चीवरकं थविय सीवयितव्यम् । एवं
कठिने प्रतिपद्यितव्यम् । न प्रतिपद्यति ॥ अभिसमाचारिकान् धर्म्मान्
अतिक्रामति ॥ * ॥

इइइ.२ म्स्.२० ६ (ज्.९३.८); छ्.५०५ ११
भगवान् श्रावस्त्यां विहरति । अपरो दानि भिक्षुः प्रहाणकं
उपविष्टो । सो दानि यथासुखं कृते विहारकमपदुरिय प्रविशति
शीतलकं च तेन आक्रान्तं तस्य भवति दीर्घको मया आक्रान्तो तस्य
दानि तेन निवरे(र)णेन सर्व्व(२० ७)रात्रिं चित्तं न समाधानं गच्छति ।
एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु ॥
भगवानाह । तेन हि चक्कली नाम कर्त्तव्या । चक्कली तावद्
भिक्षुणा कारापयमाणेन कारापयितव्या । वंशानां वा नडानां वा
नङ्गलानां वा कण्डानां वा रेज्जुकाये वा मू(सू)त्रकाये वा घणा
बुणितव्या तथा कर्त्तव्या । यथा दीर्घको न संसक्कति । विहारस्य
द्वारस्मिमुपरि त्रयो कीलकानि आटपितव्या (२१ १) तहिं चक्कली
बन्धितव्या । ओसारियाणं हेष्ठे द्वे कीलकानां पीडियाण तहिं (ज्.९४)
बन्धितव्यम् । यं कालं भिक्षुः प्रहाणमोतरन्ति ततो द्वारं
मुञ्चितव्यम् । निवापियाण चक्कली ओसारियाणं कीलकेहि बन्धियाण ततो
ओसारितव्यम् । यं कालं प्रहाणस्य यथासुखं कृतं भवति । ततो
विहारं गच्छियाणं चक्कली उत्क्षिपितव्या ॥ नापि दानि सहसा अनेकायो
मा तर्हि दीर्घको प्रविष्टो भवेप(२१ २)य न्ति(त्ति) । अथ खलु
खटखटापयितव्यो काष्ठेन वा कठल्लेन वा ततो पश्चाच्चक्कली
उत्क्षिपितव्या । प्रविशियाणं चक्कली ओसारयितव्या । द्वारं बन्धितव्यम् ।
ततो प्रतिक्रमितव्यं पश्चिमं प्रहाणमोतरितव्यम् । द्वारं (इ.प्.१०१)
अपदुच्चरितव्यं चक्कली उत्क्षिपियाणं द्वारं पिवि(धि)याणं चक्कली
ओसारियाणं प्रहाणमोतरितव्यम् । प्रहाणतो यं कालमुत्थितो भवति ।
विहारं गच्छियाणं यदि (२१ ३) (ता)व प्रभातं भवति । चक्कली
उत्क्षिपियाणमुपरि बन्धितव्या ॥ द्वारमपदुरिय ततो प्रविशितव्यम् ।
एवं देवसिकं न दानि क्षमति दिवसत ओसरयित्वा थपयितुम् । नापि
क्षमति सा चक्कली अध्युपेक्षितुम् । उल्लग्गिका वा पलुग्गिका वा ।
प्राणकेहि (ज्.९५) वा खज्जन्ति । अथ खलु कालेन कालं बन्धितव्या ।
कालेन कालं प्रतिसंस्कर्त्तव्या । एवं चक्क(२१ ४)लीये प्रतिपद्यितव्यम् । न
प्रतिपद्येति ॥ अभिसमाचारिकान् धर्म्मानतिक्रमति ॥ * ॥

इइइ.३ म्स्.२१ ४ (ज्.९५.४); छ्.५०५ १७
भगवान् श्रावस्त्यां विहरति विस्तरेण निदानं कृत्वा पञ्चार्थवसां
संपश्यमाना याव विस्तरेण कृत्वा यावदद्राक्षीद्भगवान्
पञ्चाहिकां विहारचारिकामनुचंक्रमन्तो विहारामोद्द्रिण्णकां
पल्लुग्गकामुल्लापे(ये) गृहीतकामचौक्षामप्रतिसंस्कृताम् ।
भ(२१ ५)गवान् जानन्तो येव पृच्छति । किं के(इ)मे भिक्षु विहारका
ओद्द्रिण्णका पलुग्गका ओल्लाये गृहीतका अचौक्षा अप्रतिसंस्कृता तेन हि
एवं विहारे प्रतिपद्यितव्यम् । विहारा नाम त्रीणि ज्येष्ठको मध्यमको
कनीयसको ज्येष्ठको नाम विहारको भूमि भवति ।
माषकान(ल)वल्ला(र्ण्णा) उल्लोको भवति । प्रपाण्डरा भित्ति भवति ।
कृतकर्म्मा एवं ज्ये(२१ ६)ष्ठको किन् ति मध्यमको किन् ति दानि
मध्यमको मध्यमको नाम विहारको भवति । माषकालवर्ण्णा
भित्ति भवति कृतकर्म्मा । न च भवति । उल्लापो प्रपाण्डरो एवं
मध्यमको । किन् ति दानि कनीयसको भूमि भवति । माषकालवर्ण्णा
नापि भवति । उल्लापो प्रपाण्डरो नाहैव भित्ति कृतपरिकर्म्मा एवं
कनीयसको । यो दानि ज्येष्ठको भवति विहारो नायं क्षमति । तहिं
मंचा (२१ ७) वा पीठा वा प्रविशितुम् । अथ (ज्.९६) खलु (इ.प्.१०२) चत्वारि
प्रतिपादका कर्त्तव्या । मा भूमी खनीयं ति प्रवेशियाणं ततो तहिं
प्रतिपादकानाम् । उपरि थपेतव्यो । अथ दानि प्रतिपादको न भवति ।
लेङ्कटकेहि पादा बन्धितव्या । पीठं प्रवेशेति । पीठस्यापि एवं
य्येव आसन्दकं तृपादकं वा प्रवेशेति । तस्यापि लेङ्कटकेहि पादका
बन्धितव्या । नापि तहिं क्षमति । मन्दमुखी प्रज्वा(२१ १)लयितुम् ।
दीपको वा प्रवेशयितुम् । अथ दानि भिक्षुः शेय्यां प्रज्ञपयितुकामो
भवति । किञ्चापि दीपकं प्रवेशेति । अनापत्तिः । शेय्यां
प्रज्ञपयन्तेनैव च्छि(च्छ)त्ति निक्कालयितव्या नापि क्षमति । तहिं पादां
धोवितुं हस्तां धोवितुं मुखं धोवितुं नापि क्षमति तहिं चंक्रम
चंक्रमितुम् ॥ पत्थोलिं धुनन्तेन । अथ दानि भिक्षु ग्लानो भवति किञ्
चापि षटपञ्च गतांगतां देति अनाप(२१ २)त्तिः । नापि दानि क्षमति ।
एकेनान्तेन । अथ खलु समन्तेन चंक्रमितव्यम् । न यं बोलि
ड(उ)द्वापयन्तेन । न क्षमति तहिं भक्तकृत्यं पुरे(ज्.९७)भक्तिकं वा
कर्त्तुं पात्रं वा निर्म्मादयितुम् । अथ दानि मध्य(म)को भवति ।
मध्यमके पि एषो एव पर्यायो अनन्यो अधिकृतो । अथ दानि कनीयसको
विहारको भवति । किञ्चापि भिक्षुः विना प्रतिपादकेहि मञ्चकं थपेति ।
अनापत्तिः । (२१ ३) पीठकं वा पीठिकां वा तृपादकं वा विना
प्रतिपादकेहि थपेत्ति अनापत्तिः । मन्दमुखीं वा प्रज्वालेति ।
अनापत्तिः । दीपं वा प्रवेशेति । अनापत्तिः । ग्लानो वा अग्लानो वा
अनापत्तिः । किं चापि चंक्रमति । अनापत्तिः । जानितव्यम् । यदि ताव
उपेडनको सो विहारको भवति । नापि तहिं क्षमति । पादां धोवितुं
हस्तां वा निर्म्मादयितुम् । (२१ ४) अथ दानि उपंसुलको भवति । किञ्चापि
भिक्षुः पादां वा धोवति मुखं वा धोवति । हस्तं वा
निर्म्मादयति । रजोनिग्रहं काहेति त्ति अनापत्तिः । भक्तकृत्यं वा
पुरोभक्तिकं वा करोति । पात्रं वा निर्म्मादयति । अनापत्तिः । नापि
क्षमति विहारको अध्युपेक्षितुम् । ओद्द्रिण्णको वा पलुग्गको वा ओल्लाये
गृहीतको वा अचोक्षो वा (२१ ५) अध्युपेक्षितुम् । अथ दानि ओद्द्रिण्णको
भवति । तृणच्छदनो भवति तृणपुलको दातव्यो (इ.प्.१०३)
मृत्तिकाच्छदनो भवति । मृत्तिकापिण्डो दातव्यो । इष्टकाच्छदनो
भवति । इष्टका दातव्या । अपक्कच्छदनो (ज्.९८) भवति । अपक्का
दातव्या । कभल्लकाच्छदनो भवति । कभल्लका दातव्या ।
फलकच्छदनो भवति । फलकं दातव्यम् । सुधा(२१ ६)च्छदनो
भवति । सुधापिण्डो दातव्यो । कालेन कालं शोधयितव्यो । संतानिका
सातयितव्या । मूषिकोक्किरो वा कोटयितव्यो । उकूलनिकूलो भवति । समो
कर्त्तव्यो । चिक्खलिका पूरेतव्या । वंघोरिका दातव्या । उल्लापे(ये)
गृहीतको भवति । शाटियाणं लिप्तोपलिप्तो घष्टमष्टो कर्त्तव्यो ।
उप्पेडनको भवति । पांसुकेन वा शर्करोटेन वा
प्र(२१ ७)त्यास्तरितव्यो । उपांसुलको विहारको भवति । कालेन कालं
सिञ्चितव्यो । संमार्जितव्यो । गोमयकार्षी दातव्या । श(ं)तानिका
शाटयितव्या । एवं विहारे प्रतिपद्यितव्यम् । न प्रतिपद्यति ।
अभिसमाचारिकान् धर्म्मानतिक्रमति ॥ * ॥

इइइ.४ म्स्.२१ ७ (ज्.९७.३); छ्.५०५ २९
भगवान् श्रावस्त्यां विहरति । पञ्चार्थवंशा(शां) विस्तरेण कृत्वा
याव अद्राक्षीद्भगवान् पञ्चाहिकां विहारचारिकामनुचंक्रमन्तो
(२२ १) अनुविचरन्तो विहारका(ना)ं पक्क-खेटेन वा पक्क-सिंघाणकेन
भित्तीयो विनासितायो सिंघाणकवर्त्तीहि लम्बन्तेहि ।
भगवान जानन्तो येव पृच्छति । किमिमायो भिक्षवे विहारकानां
भित्तियो पक्क-खेटेन पक्कसिंघाणकेन वर्त्तीहि लम्ब(ज्.९९)न्तीहि । तेन
हि एवं खेटे प्रतिपद्यितव्यम् । किन् ति दानि एवं खेटे प्रतिपद्यितव्यं
नायं क्षमति । भिक्षुणा कृतकर्म्मायां वा अकृ(२२ २)तकर्म्मायां वा
भित्तीयं खेटं वा सिंघाणकं वा च्छोरयितुम् ॥ अथ खलु
खेटकटाहं कर्त्तव्यम् । कपालं वा मल्लं वा कुण्डिकं वा
दकानकं वा लिप्तोपलिप्तं करिय वालिकाये वा पाषाणस्य वा
पत्थलिद्द्रकानां वा पूरयितव्यम् । ततो तहिं खेटे(टो) कर्त्तव्यो । नापि
क्षमति खेटकटाहकमध्युपेक्षितुम् । मा सप्रमाणको भवेय । अथ
खलु कालेन कालं च्छो(२२ ३)रिय अन्यस्य पूरयितव्यम् । आतपे वा दातव्यो
यो(सो) भूयो प्रवेशयितव्यो । अथ दानि (इ.प्.१०४) खेटकटाहकं भवति
मल्लकं वा कोटिकं वा आविद्धपुटिका वा थपेतव्या तहिं खेटो
कर्त्तव्यो । कालेन कालं विसर्जयितव्यो ॥ अथ दानि एवं पि न भवति ।
कृतकर्म्मा भूमि भवति न क्षमति । भूमीये च्छोरयितुम् । अथ खलु
एकस्य उपानहाये (२२ ४) तले च्छोरयितव्यं द्वितीयेन मर्द्दयितव्यम् ।
अथ दानि उप्पंसुलो विहारो भवति । भूमीये च्छोरिय पादेन
मर्द्दितव्यो । एषो भिक्षुः दिवाविहारंगतो चंक्रमति । श्लेष्मिको भिक्षु
भवति । इतो च च्छोरियन्तो चंक्रमति विनयातिक्रममासादयति । अथ
खलु च्छोरियाण पादेन मर्दितव्यम् । चंक्रमशीर्षे वा आविद्धपुटिका
वा (ज्.१००) वालिका(२२ ५)ये वा कूटिमल्लकं वा थपेतव्यं, । तहिं खेटो
च्छोरयितव्यो । यं कालं गच्छति । ततो एकतमंते च्छोरयितव्यो । प्रहाणे
आसन्तस्य खेट बाधति । ओपानहपुटे कृत्वा भूमिंये मर्दितव्यं, ॥
अथ दानि भूम्यस्तारो भवति भाजने कर्त्तव्यम् । कुन्तके वा अलाबुके
वा वंशत्थोलिकायां वा । अथ दानि उच्छदो भवति । खेटं वा
सिंघाणकं, (२२ ६) वा उत्थित्वा एकान्ते कृत्वा पुनः । उपवेष्टव्यम् ।
उपाध्यायाचार्याणां वा मूले खेटं व्यावहति । एकान्ते कर्त्तव्यम् । एषो
दानि भिक्षुस्य गोचरं प्रविशन्तस्य अथा(ध्वा)नमार्ग्गगतस्य वा
खेटे आगच्छति च्छोरिय पादेन मर्दितव्यो । अमर्दिय गच्छति
विनयातिक्रममासादयति । अथ दानि क्षुद्रो खेटे उपांसुलो च भूमी
भवति । च्छोरन्तको य्येव पर्या[दानं] गच्छ(२२ ७)ति । किं चापि न
मर्द्दति । अनापत्तिः । एषो भिक्षुः स्तूपं वन्दति स्तूपाभिगृहे वा खेटं
च्छोरितकं केन चि अप्रकृतिज्ञो न पादेन मर्दितव्यो । अथ दानि द्वे जना
भवंति । यो नवको भवति । तेन मर्द्दितव्यम् । अथ दानि नवकतरो
शैथिलिको बाहुलिको वा भवति । वृद्धतरकेन मर्दितव्यम् । एवं खेटे
प्रतिपद्यितव्यं, । न प्रतिपद्यति ॥ अभिसमाचारिकान् धर्म्मान्
अति(२२ १)क्रमति ॥ * ॥

इइइ.५ म्स्.२२ १ (ज्.१०१.१); छ्.५०६ १७
(ज्.१०१) भगवान् श्रावस्त्यां विहरति विस्तरेण निदानं कृत्वा अपरेण
दानि भिक्षुणा मुण्डे वातपाणे पात्रं स्थवितं तन् दानि
वातमण्डलिकाये (इ.प्.१०५) आगच्छियाणं भूमीयं पातितो भिन्नो
कपालानां राशिं कृत्वा यवागूये गण्डी आकोटिता सो दानि हस्तां
निर्म्मादिय विहारकं प्रविष्टो पश्यति । कपालिकानां राशिमेतं
प्रकरणं यो(सो) भिक्षुः भगवतो आरोच(२२ २)ये ।
भगवानाह । एवं च त्वं मुण्डवातपाने पात्रं थपेसि तेन हि एवं
पात्रे प्रतिपद्यितव्यम् । किन् ति दानि एवं पात्रे प्रतिपद्यितव्यम् । भिक्षुणा
ताव कल्यतो येच(व) निवासिय प्रावरिय पात्रचीवरमादाय गोचरं
प्रविशितव्यम् । गोचरातो निर्द्धाविय आहारं करीय पात्रं
निर्म्मादयितव्यम् । नापि क्षमति । कर्कशेन वा चूर्ण्णेन कर्कशेन वा
गोमयेन निर्म्मादयितुम् ॥ अथ (२२ ३) खलु मूलरसेन वा पत्ररसेन
वा पुष्परसेन वा निर्व्वालिकेन वा गोमयेन निर्म्मादयितव्यं नापि
क्षमति विल्वस्य वा पक्वस्य कपित्थस्य पक्वस्य नालिकेरस्य हेष्ठे
निर्म्मादयितुं, । मा पक्वेन वा विल्वेन पक्वेन वा कपित्थेन पक्वेन
वा नालिकेरेण भंजेय न्ति(त्ति) । नापि क्षमति दरिनिश्रितेन वा पात्रं
निर्म्मादयितुम् । मा पतितं भञ्जय न्ति(त्ति) (२२ ४) अथ खलु कर्षधाने
वा वालिकाधाने वा दूर्व्वासाद्वले वा निर्म्मादयितव्यम् । नापि क्षमति
स्थितकेन पात्रं निर्म्मादयितुम् ॥ नापि क्षमति (ज्.१०२) भूमीये
घसन्तेन ॥ अथ खलु उपविष्टे(ष्ट)केन निर्म्मादयितव्यम् ।
अध्वावयन्तेन नापि । क्षमति । स्थितकेन अध्वापयितुम् ॥ अथ खलु
उपविष्टेन अध्वापयितव्यम् । प्रतिसामयन्तेन नापि क्षमति ।
जंघा(२२ ५)पथे वा स्थापयितुम् । कपाटो(टे) वा मुण्डवातायने वा ।
अथ खलु पात्र प्रवेशिकायां प्रक्षिपिय स्थपेतव्यम् । नापि क्षमति
स्थितकेन प्रक्षिपितुम् ॥ अथ खलु उपविष्टकेन प्रक्षिपितव्यम् ।
पात्रप्रसेविकानागदन्तके वा कीलके वा उक्कचिय थपेतव्या । अथ दानि
उज्जुको कीलको भवति । दुवे त्रयो वा अवेढका दातव्याः । अथ दानि
नागदन्तको (२२ ६) भवति । किञ्चापि एवमेव थपेति । अनापत्तिः ॥
पात्रप्रसेविका न भवति पात्रपीठके थपेतव्यम् । अथ दानि
पात्रपीठकं न भवति । काष्ठं वा इष्टकं वा उपलं वा
निरामिषं निर्म्मादिय तस्य उपरि स्थपेतव्यम् । अथ दानि एवं पि न
भवति । अन्तमसतो पृथिवीप्रदेशं (इ.प्.१०६) पि गोमयेन उपलिम्पिय
थपेतव्यम् । गृह्नन्तेन नापि क्षमति । एकहस्तेन दुवे त्रयो वा पात्राणि
गृह्नितुं, । अ(२२ ७)थ खलु परमं त्रयो पात्राणि गृह्नितव्यानि ।
एकहस्तेन द्वे गृह्नितव्याः । अपरेण दानि एकम् । अथ दानि
प्रत्यन्धकारको विहारको भवति । न क्षमति । पात्रेण पात्रं
मार्ग्गितुम् ॥ अथ खलु हस्तेन मार्ग्गितव्यम् । अथ दानि भिक्षुः
उपाध्यायस्य चा(वा)चार्यस्य वा पात्रमल्लीपयति नापि क्षमति ।
उपाध्यायस्य वा आचार्यस्य वा पात्रं वामेन (ज्.१०३) हस्तेन
अल्लीपयितुं, । अथ खलु (२३ १) उपाध्यायस्य वा आचार्यस्य वा दक्षिणेन
हस्तेन पात्रमल्लीपयितव्यम् । नापि क्षमति । गृहीतं न गृहीत न्ति(त्ति) ।
ततो मुञ्चितव्यम् । ओकड्ढन्तेन सुगृहीतं कर्त्तव्यम् । निर्म्मादयन्तेन
प्रथममुपाध्यायस्य वा आचार्यस्य वा पात्रं निर्म्मादयितव्यम् ।
पश्चादात्मनो शोषयन्तेन प्रथममुपाध्यायस्य वा आचार्य्यस्य वा
शोषयितव्यम् । पश्चादात्मनो प्रतिसामयन्तेन प्रथमं
उपा(२३ २)पाध्यायस्य वा आचार्यस्य वा प्रतिसामयितव्यम् । पश्चाद्
आत्मनो प्रवेसिका कर्त्तव्या । दुपुटा तृपुटा प्रसेविकायां
प्रक्षिपियन्तेन कलावीयं दाडीयम् । अंसिबद्धकं प्रक्षिपित्वा
समवस्थाय उपविष्टकेन उत्सङ्गस्य उपरि प्रक्षिपितव्यम् । मञ्चस्य वा
पीठस्य वा उपरि प्रक्षिपितव्यम् । उल्लयन्तेन कीर्ण्ण(ल)कं हस्तेन
प्रत्यवेक्षित्वा मञ्चस्य वा पीठस्य वा उपरि जालवाताय(२३ ३)ने वा
पात्रमेलके वा यथा न घट्टेंसु नापि क्षमति । पात्रमध्युपेक्षितुं
फलकेन वा खज्जन्तं खण्डं वा च्छिद्रं वा । अथ खलु कालेन
कालं दहितव्यम् । पचितव्यम् । रञ्जितव्यम् । न दानि क्षमति । पात्रेण
अप्रयतं गृह्नितुम् । उच्चारो वा प्रस्रावो वा खेटं वा सिंघाणकं वा
विघसो वा संकारो वा अन्यं वा अप्रयत्तं ग्रहेतुं, । नापि दानि
क्षमति । पात्रे(२३ ४)ण केषां (ज्.१०४) ओतारयितुं वा पादं वा मुखं वा
धोवितुम् । जेन्ताकं वा प्रवेशितुम् । उदककृत्यं वा कर्त्तुं, । यथा
अक्षिस्मिमेवं पात्रे प्रतिपद्यितव्यम् । न प्रतिपद्यति । अभिसमाचारिकान्
धर्म्मानतिक्रामति ॥ * ॥

(इ.प्.१०७)
इइइ.६ म्स्.२३ ४ (ज्.१०४.४); छ्.५०६ १३
भगवान् श्रावस्त्यां विहरति । ते न दानि आयुष्मतो षड्वर्ग्गिकाः ।
एकत्यं यवागूं निन्दन्ति । एकत्यं प्रसंसन्ति । यो ताव त्प(पे)लंवा
भवति । (२३ ५) जल्पन्ति । हे हे हे नायं किञ्च(चि)द्यागु गङ्गा अयं
सरयू अजिरवती मही महामही त्ति निचुडबुन्तिकाये इमंहि तण्डुला
मार्ग्गितव्या ॥ अथ दानि खक्खट भवति जल्पति । हे हे हे नायं किञ्चि
यवागू लेच्छमयं पेय्या अयं पेय्या अयं कट्टारिका च्छेज्जा अयं ते
दानि भिक्षू उत्क्षिप्ता भवन्ति । जिह्मा(ह्वा) वेड्ढा निष्प्रतिभानाः । एतं
प्रकरणं भि(२३ ६)क्षू भगवतो आरोचयेंसु । भगवानाह ।
शब्दापयथ षड्वर्ग्गिकां ते दानि शब्दापिताः । एतदेव पृच्छियन्ति ।
आह । आम भगवन्
भगवानाह । तेन हि एवं यवागूये प्रतिपद्यितव्यम् । किन् ति दानि एवं
यवागूये प्रतिपद्यितव्यम् । एषो दानि यवागूये समयो आरोचितो भवति ।
ततो जानितव्यम् । किमयं यवागू उभयतो सांघिकापर्या(षा)ये
परिवेणिका निमन्त्रितिका(२३ ७)याम् । यदि ताव उभयतो सांघिका भवति
सर्व्वेहि (ज्.१०५) गन्तव्यम् । पार्थिका भवति । ताये पर्या(षा)ये गन्तव्यं
परिवेणिका भवति । तेहि परिवेणिकेहि गन्तव्यं निमन्त्रितका वा भवन्ति ।
तेहि निमन्त्रितकेहि गन्तव्यम् । प्रतिकृत्येव ताव भिक्षुणा दन्तकाष्ठं
खादयितव्या(व्यम् ।) मुखं धोविय हस्तां निर्म्मादिय पात्रं गृह्निय
उपविशितव्यम् । नापि क्षमति यवागू उपानहारूढेन वा प्रतिच्छितुम् ।
(२३ १) ओगुण्ठिकाकृतेन वा समंतप्रावृतेन वा प्रतिच्छितुम् । अथ खलु
उपानहा निखोसिय एकांशकृतेन यवागू प्रतिच्छितव्या । अथ दानि
दण्डकर्म्म प्रतिदिन्नं भवति । पा(र्)ष्णिवब्रा(द्ध्रा) ओमुञ्चितव्या
द्वितीयकालिकस्य लाभग्राहमध्येषित्वा गन्तव्यम् । अथ दानि
उपविष्टकानां (पटि)पाटिकाये (इ.प्.१०८) दीयति । यथा वृद्धिकाये
गृह्नितव्यम् । यदि ताव तनुका भवति । न वक्तव्यम् । हे हे हे गङ्गा
आयं सर्व्वं या(२३ २)व मही चन्द्रभागा अयम् । अथ दानि अतिघना
भवति न वक्तव्यम् । नायं यवागू ओदनो अयं दण्डासनि भेज्जा अयम् ।
अथ खलु यादृशी दीयति तादृशी प्रतिच्छिता दायकवशो (ज्.१०६) न
प्रतिग्राहकवशो ॥ अथ दानि भिक्षुः । जरादुर्ब्बलो वा व्याधिदुर्ब्बलो
वा भवति । अतिशीतं वा अत्युष्णं वा भिक्षु नैव दन्तकाष्ठं
खादति । न मुखं धोवति । न हस्ता निर्म्मादयति । आनन्त(२३ ३)र्यस्य
या पात्रं दातव्यम् । वक्तव्यमायुष्मनिमं मम यवागूये
प्रत्यंशं गृह्न । यं कालं प्रतिच्छिता भवति । ततो परिभुञ्जितव्या । एते
विलम्बका यवागूः निन्दन्ति वा प्रसंसन्ति वा विनयातिक्रमं
आसादयन्ति । एवं यवागूये प्रतिपद्यितव्यम् । न प्रतिपद्यति ॥
अभिसमाचारिकान् धर्म्मानतिक्रमति ॥ * ॥

इइइ.७ म्स्.२३ ३ (ज्.१०६.८); छ्.५०६ २८
भगवान् श्रावस्त्यां विहरति विस्तरेण निदा(२३ ४)नं कृत्वा अपरो दानि
भिक्षुः योगाचारो वैदेहके पर्व्वते निषण्णो चित्तं समाधयिष्यामीति ।
अपरो दानि भिक्षुः । आगच्छिय तस्य पुरतो स्थितो तस्य दानि तेन
नीव(र)णेन चित्तं समाधानं न गच्छति एतं प्रकरणं सो
योगव(गाचा)रो भगवतो आरोचये भगवानाह । शब्दापयथ तं
भिक्षुं सो दानि शब्दापितो । भगवानाह । सत्यं भिक्षु (२३ ५) एवं
नाम अपरो योगाचारो वैदेहके पर्व्वते निषण्णो चित्तं समाधयिष्यन् ति ।
त्वं दानि तस्य पुरतो आगच्छिय स्थितो तस्य दानि तेन नीवरणेन चित्तं
समाधानं न गच्छति । आह । आम भगवन
भगवानाह । दुष्कृतं ते भिक्षु एव(ं) च त्वं योगाचारस्य भिक्षुस्य
पुरतो तिष्ठसि तेन हि एवं स्थातव्यम् । किन् ति दानि एवं स्थातव्यम् ।
नायं ताव क्षमति (ज्.१०७) भि(२३ ६)क्षुणा योगाचारस्य भिक्षुस्य पुरतो
तिष्ठितुं नापि क्षमति वेशिका समन्तकेन वा तिष्ठितुम् ।
वधबन्धनागारशालासामन्तेन वा तिष्ठितुम् । नायं क्षमति ।
अतिगुप्ते वा अतिप्राकटे वा प्रदेशे तिष्ठितुम् । अथ खलु च्छन्नप्राकटे
प्रदेशे स्थातव्यम् । न (इ.प्.१०९) क्षमति स्तूपं वा पृष्ठतो कृत्वा
तिष्ठितुं, । संघं वा उपाध्यायाचार्यं वा वृद्धतरकं वा पृष्ठतो
कृत्वा तिष्ठितुम् । उपानहारूढेन (२३ ७) वा तिष्ठन्तु खंभकृतेन वा
ओगुण्ठितशीर्षेण वा ओवाहितहस्तेन वा नापि क्षमति संघमध्ये मा
तिष्ठ ति उक्तो तिष्ठितुम् । उपाध्यायाचार्येहि वा उक्तेन समानेन मा
तिष्ठेति तिष्ठति विनयातिक्रममासादयति । अथ दानि ग्लानो भवति । किञ्
चापि ओपानहारुढो ओगुण्ठितशीर्षो वा ओहितहस्तो वा तिष्ठति । अनापत्तिः ।
एवं स्थातव्यं न तिष्ठति ॥ अभिसमाचारिकान् धर्म्मान्
अतिक्रा(२४ १)मति ॥ * ॥

इइइ.८ म्स्.२४ १ (ज्.१०७.१३); छ्.५०६ १६
भगवान् राजगृहे विहरति शास्ता देवानाञ्च मनुष्याणाञ्च विस्तरेण
निदानं कृत्वा अपरो दानि भिक्षुः । योगाचारो वैदेहके पर्व्वते निषण्णो
चित्तं समाधयिष्यामीति । अपरो दानि भिक्षुः । आगत्वा तस्य पुरतो
तालपादुकाहि आबद्धाहि दीर्घचंक्रमं चंक्रमति । टप्य टटप्य
टप्य टटप्य न्ति(त्ति) तस्य (ज्.१०८) दानि तेन शब्देन चित्तं न
समाधानं गच्छति । एतं प्रक(२४ २)रणं सो योगाचारो भगवतो
आरोचये । भगवानाह । सत्यं भिक्षु एवं नामा अपरो योगाचारो
वैदेहके पर्व्वते निषण्णो चित्तं समाधयिष्यामीति । तदेवं सर्व्वं
भगवान् विस्तरेण प्रत्यारोचयति । याव तस्य दानि तेन शब्देन चित्तं न
समव(मा)धानं गच्छति । आह । आम भगवन्
भगवानाह । दुष्कृतं ते भिक्षुः । एवं च त्वं योगाचारस्य
भिक्षुस्य पुरतो चंक्रमसि । तेन हि (२४ ३) एवं चंक्रमितव्यम् । किन् ति
दानि एवं च(ं)क्रमितव्यम् । नायन् ताव क्षमति भिक्षुणा योगाचारस्य
भिक्षुस्य पुरतो चंक्रमितुम् । नापि क्षमति स्तूपं वा पृष्ठतो कृत्वा
चंक्रमितुम् । संघं वा पृष्ठतो कृत्वा चंक्रमितुम् ।
उपाध्यायाचार्यं वा पृष्ठतो कृत्वा चंक्रमितुम् । एषो दानि भिक्षुः ।
उपाध्यायेन वा आचार्येण वा सार्द्धं चंक्रमति । उपाध्यायस्य वा
आचार्यस्य अति(२४ ४)रेकं चंक्रमितुं नापि क्षमति । समं
चंक्रमयितुम् । अथ खलु द्वे त्रयो वा पदा (इ.प्.११०) निहिनकेन
चंक्रमितव्यम् । संघमध्ये वा चंक्रमति । मा चंक्रमाहीति उक्तेन
न चंक्रमितव्यम् । अथ दानि ग्लानो घृतं वा पीतम् । विरेचनं वा पीतं
किञ्चापि चंक्रमति । तन्न क्षमति । पुरतो समं वा गन्तुमोहयित्वा
गन्तव्यम् । अनुवरिवर्त्तन्तेन तदा न क्षमति ।
उ(२४ ५)पाध्यायाचार्याणां वा पृष्ठतो कृत्वा परिवर्त्तित(तु)म् । अथ
खलु अभिदक्षिणमग्रतो करेन्तेन अनुपरिवर्त्तितव्यम् । नापि क्षमति
वेसिकासामन्तकेन चंक्रमितुम् । नापि क्षमति द्युतिकरशालासामन्तकेन
चंक्रमितुं, । वधबन्धनागारसामन्तेन चंक्रमितुम् । (ज्.१०९) नापि
क्षमति अतिप्राकटे वा प्रदेशे चंक्रमितुम् । अथ खलु च्छन्नप्राकटे
प्रदेशे (२४ ६) चंक्रमितव्यम् । एवं चंक्रमे प्रतिपद्यितव्यम् । न
प्रतिपद्यति । अभिसमाचारिकान् धर्म्मानतिक्रमति ॥*॥

इइइ.९ म्स्.२४ ६ (ज्.१०९.४); छ्.५०७ ४
भगवान् श्रावस्त्यां विहरति ते दानि आयुष्मन्तो षड्वर्ग्गिकाः ।
उष्ट्(र्)अपर्यंकेन प्रहाणमुपविंश(शं)ति । अनन्तरिकानां जानुकेहि
व्यावहन्ति । एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु । भगवान्
आह । शब्दापयथ षड्वर्ग्गिकान् ते दानि शब्दापिताः । भग(२४ ७)वान्
आह । सत्यं भिक्षवो षड्वर्ग्गिका एवं नाम यूयमुष्ट्रपर्यङ्केन
प्रहाणे निषीदथ । अनन्तरिकानां जात(नु)केहि व्यावहथ आहंसु । आम
भगवन भगवानाह । दुष्कृतं भिक्षवो षड्वर्ग्गिकाः । एवं च
यूयमुष्ट्रपर्यङ्केन प्रहाणे निषीदथ । तेन हि (न) क्षमति ।
उष्ट्रपर्यङ्केन प्रहाणे निषीदितुम् । भगवान् । तान् भिक्षून्
आमन्त्रयति । एवं भिक्षवो निषीदथ । यथा नाग(२४ १)हिमवताः । एकं
नागं द्वे नागा अनुपरिधा(वा)र्य निषीदन्ति । द्वे नागा चत्वारि नागा
अनुपरिवार्य निषीदन्ति चत्वारि अष्ट अष्ट षोडश षोडश (द्वात्रिंशद्)
द्वात्रिंशच्चतुषष्टि नागा अनुप(रि)वार्य निषीदन्ति । (ज्.११०) अथोत्तरेण
यथानुभावं न क्षमति । उष्ट्रपर्यङ्केन निषीदितुं, । भिक्षुणापि
ताव स्वस्ति(क)पर्यङ्केन प्रहाणे निषीदितव्यम् । अथ दानि (इ.प्.१११)
भिक्षु पर्यङ्केन निषण्णो भवति श्रान्तो भ(२४ २)वति । गर्भानि
आमिलायन्ति । नापि क्षमति । उभयानि सन्धी मटमटाये प्रसारितुम् ।
अथ खलु एको पादो सुखाकं प्रसारयितव्यो तममुहूर्त्ते विश्रामिय
सन्मिञ्जिय द्वितीयो पादो सुखाकं प्रसारयितव्यो । उत्थिपित्वा वा एकान्ते
चंक्रमितव्यम् । न क्षमति । ओगुण्ठितशीर्षेण प्रहाणे उपवेष्टुम् । अथ
दानि जरादुर्ब्बलो वा व्याधिदुर्ब्बलो वा भवति । शीर्षं वा (२४ ३)
दुःखति । अर्द्धशीर्षस्य पिथेतव्यम् । एको च कर्ण्णो । अथ दानि एकान्ते
भवति उच्छेदके वा वृक्षमूलके वा विहारे वा प्रतिसंलीनको किञ्चापि
ओगुण्ठितशीर्षो निषीदति । अनापत्तिः । अमूहूर्त्तकं विश्रमिय भूयो
स्वस्तिकपर्यङ्केन निषीदितव्यम् ॥ अथ दानि भिक्षु न पारेति ।
स्वस्तिकपर्यङ्केन निषीदितुम् । [अर्द्धपर्यङ्केन] (२४ ४) निषीदितव्यम् ।
अथ दानि अर्द्धपर्यङ्केनापि न पारेति निषीदितुं, । उभौ पादौ ओसारिय
सुसंवृतेन निषीदितव्यम् । तथा कर्त्तव्यम् । यथानन्तर्यं जानुकेहि न
व्यावहति । न क्षमति । स्तूपं पृष्ठतो करीय निषीदितुम् । संघं वा
पृष्ठतो करीय निषीदितुं, । उपाध्यायाचार्याणां वा पृष्ठतो करिय
निषीदितुम् । वृद्ध[तरकं वा पृ]ष्ट(ष्ठ)तो (२४ ५) करीय निषीदितुम् ।
नापि क्षमति संघमध्ये मा निषीद न्ति(त्ति) । उक्तेन समानेन (ज्.१११)
निषीदितुम् । नापि क्षमति । उपाध्यायाचार्येहि मा निषीद न्ति(त्ति) । उक्तेन
निषीदितुं नापि क्षमति वेसिकासामान्तेन द्युतिकरशालासामन्तकेन
निषीदितुम् । वधबन्धनागारशालासामन्तकेन निषीदितुं, । अतिभुंडे
वा प्रदेशे निषीदितुम् । अथ खलु च्छन्नप्रा(२४ ६)कटे प्रदेशे
निषीदितव्यं, । एवं निषद्ये प्रतिपद्यितव्यम् । न प्रतिपद्यति ।
अभिसमाचारिकान् धर्म्मानतिक्रामति ॥ * ॥

इइइ.१० म्स्.२४ ६ (ज्.१११.७); छ्.५०७ १५
भगवान् श्रावस्त्यां विहरति ते दानि आयुष्मन्तो षड्वर्ग्गिकाः ।
ओमुद्धकापि शेय्यां कल्पेन्ति । उत्तानकापि शेय्या कल्पेन्ति । वामेनापि
पार्श्वेन शेय्यां कल्पेन्ति । एतं प्रकरणं भिक्षूहि श्रुतम् । भिक्षू
भगवतो आरोचयेंसु । भगवानाह । (२४ ७) शब्दापयथ
षड्वर्ग्गिकाम् । ते दानि शब्दापिता । भगवानाह । सत्यं भिक्षवो
षड्वर्ग्गिकाः । एवं नाम यूयमोमुद्धकापि (इ.प्.११२) शेय्यां कल्पेथ ।
वामेनापि पार्श्वेन शय्यां कल्पेथ । आहंसु । आम । भगवं
भगवानाह । दुष्कृतं वो भिक्षवो षड्वर्ग्गिकाः । तेन हि न
क्षमति । उत्तानकेन शेय्यां कल्पितुम् । न क्षमति । ओमुद्धकेन शेय्यां
कल्पयितुम् । न क्षमति । वामे(२५ १)न वा पार्श्वेन शेय्यां कल्पयितुम् ।
भगवान् दानि भिक्षूनामन्त्रयति । (ज्.११२) ओमुद्धका भिक्षवो प्रेता
शेय्यां कल्पयन्ति । उत्तानका भिक्षवो आसुरा शेय्यां कल्पयन्ति । वामेन
पार्श्वेन कामोपभोगिनः । शेय्यां कल्पयति । एवं भिक्षवो शेय्यां
कल्पेथ । यथा सिंहो मृगराज सिंहो भिक्षवो मृगराजा दक्षिणेन
पार्श्वेन शेय्यां कल्पयति । पादेन पादमाधाय दन्तेन द(२५ २)न्तं
आधाय जिह्वाग्रं तालुकाग्रे प्रतिष्ठापयित्वा । अङ्गुलमनुकायं
आयच्छिहित्वा दक्षिणां बाहं शिरस्युपनिधाय वामं बाहामनुकायं
प्रसारयित्वा सो पि प्रतिबोधनां(नन्)।तेन पुरिमं कायमभ्युन्नामेति ।
पृष्ठिमं कायमभिविलोकयति । स चेत्पश्यति । गात्राणामन्यथात्वं
तेन भवति । अनात्तमनो च पश्यति । गात्राणामन्यथात्वं तेन भवति
चित्ते आ[त्तमनो] अ(२५ ३)भिरद्धो भिक्षुणापि ताव शेय्यां प्रज्ञपेंतेन
अभिदक्षिणां प्रज्ञपयितव्या । य(त)था कर्त्तव्या यथा संप(य)तको
येव दक्षिणेन पार्श्वेन शय्यां कल्पेति । न क्षमति । वामेन शय्यां
प्रज्ञपेतुम् । दक्षिणशय्या प्रज्ञपेतव्या । चीवरवंशस्य हेष्ठतो
रात्रीये पुरिमं याममुद्देशप्रयुक्तेन स्वाध्यायप्रयुक्तेन स्थानेन
(ज्.११३) चंक्रमेण वीतिनामयि(२५ ४)तव्या रात्रीये मध्यमे यामे
दक्षिणेन पार्श्वेन सिंहशेय्या कल्पयितव्या । पादेन पादमाधाय
जिह्वाग्रं तालुकाग्रे प्रतिष्ठापयित्वा दक्षिणां बाहां शिरस्युपनिधाय
वामां बाहामनुकायं प्रसारित्वा उत्थानसंज्ञी मनसिकाकारेन्तेन
नापि दानि परिवर्त्तकं यावत्सूर्योद्गमनात्ततो शयितव्यम् । रात्रीये
पश्चिमे यामे पर्यङ्केन वीति(२५ ५)नामयितव्यम् । उद्देशप्रयुक्तेन
स्थानचंक्रमानुयुक्तेन वा । अथ दानि भिक्षुः । दुःखशायी भवति
पारश्येन पारश्यं पल्लट्टन्तो (इ.प्.११३) शयिति अनापत्तिः । जरादुर्ब्बलो
वा व्याधिदुर्ब्बलो वा भवति । दक्षिणे पार्श्वे गण्डं वा पिटकं वा ।
भवति । किञ्चापि वामेन पार्श्वेन शयति अनापत्तिः । न क्षमति । स्तूपं
वा पादतो कृत्वा । शय्यां कल्पयितुम् । संघं, (२५ ६) वा पादतो कृत्वा
शेय्यां कल्पयितुम् । वृद्धतरकं वा पादतो कृत्वा उपाध्यायाचार्यं वा
पादतो कृत्वा शेय्यां कल्पयितुं, । एव(ं) शय्यां प्रतिपद्यितव्यम् । न
प्रतिपद्यति । अभिसमाचारिकान् धर्म्मानतिक्रामति ॥*॥
उदानं
एवं कठिने प्रतिपद्यितव्यम् ।
एवं चक्कलीये प्रतिपद्यितव्यम् ।
एवं विहारे प्रतिपद्यितव्यम् ।
एवं खेटे प्रतिपद्यितव्यम् ।
(ज्.११४) एवं पात्रे प्रतिपद्यितव्यम् ।
एवं यवागूये (२५ ७) प्रतिपद्यितव्यम् ।
एवं स्थातव्यम् ।
एवं चंक्रमितव्यम् ।
एवं निषीदितव्यम् ।
एवं शेय्या कल्पयितव्यम् ॥ * ॥


(इ.प्.११४)
इव्.१-२ म्स्.२५ ७ (ज्.११५.१); छ्.५०७ ४
भगवान् श्रावस्त्यां विहरति विस्तरेण निदानं कृत्वा ते दानि आयुष्मन्तो
षड्वर्ग्गिकाः । द्वारं बन्धियाणं विहारस्य पश्चा वस्तुके काकवाहं
भंजन्तम् । आसन्ति । आगन्तुकानां भिक्षूणां गणो आगतो द्वारं यावन्ति
न लभन्ति ते दानि ओक्खन्दियाणं प्रविष्टाः । तेहि दाणि (२५ १)
आयुष्मन्तेहि षड्वर्ग्गिकेहि आगन्तुका दृष्टाः पृच्छन्ति । आयुष्मं कुतो
वा प्रविष्टाः । आहंसुः । ओक्खन्दियाणं प्रविष्टाः । ते दानि आहंसु ।
आयुष्मनेवं च यूयमोक्खन्दियाणं विहारं प्रविशथ । ते पि दानि
आगन्तुका आहंसु । एवं च यूयं द्वारं बन्धियाणं विहारस्य पश्चाद्
वस्तुकस्य काकवाहं भञ्जन्ता आसथ ते दानि विवदिताः । भगवतो
मूलं गताः ।
भगवानाह । ना(२५ २)यं ताव क्षमति । ते(ने)वासिकेहि विहारस्य
द्वारं बन्धियाणं विहारस्य पश्चाद्वस्तुकस्य काकवाहं
भंजमानेहि आसितुम् । नापि क्षमति । आगन्तुकेहि विहारमोक्खन्दियाणं
प्रविशितुम् । तेन हि एवमागन्तुकेहि प्रतिपद्यितव्यम् । एवं नि(ने)वासिकेहि
प्रतिपद्यितव्यम् । किन् ति दानि एवमागन्तुकेहि प्रतिपद्यितव्यम् । एते दानि
भिक्षु आगन्तुका आगच्छन्ति । सर्व्वेहि पाडिप(य)क्कपाडियककानि
अ(२५ ३)पावुरणानि उपस्थापयितव्यानि । एकस्यापि अपावुरणि न भवति ।
सर्व्वे विनयातिक्रममासादयंति । एकस्यापि अपावुरणि भवति ।
सर्व्वेषामनापत्तिः ।
अथ दानि कोचि ग्लानो भवति । न दानि उज्झित्वा गन्तव्यम् । अथ खलु
अनुपालेतव्यो । पात्रचीवरमालम्बितव्यम् । नापि दानि पात्र(ज्.११६)चीवरं
गृह्नित्वा अदर्शनेन गन्तव्यम् । अथ खलु अ(२५ ४)विदूरेण गन्तव्यम् ।
मा दानि अदर्शनेन परिजाने हृतम् । हृतं मे पात्रचीवरमिति
गच्छन्तस्य कर्त्तव्यम् । यदि दानि ओश्या भवति तरुणभिक्षूहि अग्रतो
गन्तव्यम् । ओश्या प्रतिवाहन्तेहि । अथ दानि व्याडभयं वा चोरभयं
वा भवति । वृद्धं बालं मध्ये कृत्वा गन्तव्यम् । अथ दानि चोरा
सप्रसादा भवन्ति । वृद्धेहि (इ.प्.११५) अग्रतो गन्तव्यम् । यथा पश्यित्वा
प्रसा(२५ ५)देन अविवर्जिता गच्छेंसु । यदि दानि ग्रामस्य नगरस्य वा
मध्येन गन्तव्यम् । भवति । न दानि क्षमति नगरवे(चे)तियानि
अभिदक्षिणि करेन्ति(ते)हि वा गन्तुम् । अपवामिवा(का) करेन्तेहि वा अथ
खलु उज्ज(ज्जु)केन मा(र्)गकेन गन्तव्यम् । न्याये वासोपगता भवन्ति ।
तरुणा भिक्षु दुवे वा त्रयो वा प्रवेशयितव्या । अग्रतो गच्छथ
संघस्य फासुवि[हार]मुप(२५ ६)दहथ पादतैलेन गुडपानीयेन
प्रतिश्रयेण पुरेभक्तिकेन तेहि दानि प्रावरिय गण्ठिपासकमोबन्धिय
आमन्त्रिय प्रवेष्टव्यम् । प्रविसिय याचित्वा संघस्य
यथासुखपरिभोगं निःसारेपेतव्यम् । पादतैलं वेकालिकं
पुरेभक्तिकं भैक्षितव्यम् । आवि(चि)क्षितव्यं लब्धो प्रतिश्रयो तेहि दानि
यदि तहिमोघो वा (ज्.११७) भवति । नदी तडागं वा पुष्किरिणी वा
उदुपानो वा तहिं पादा(२५ ७)न् प्रक्षालेत्वा प्रावरेत्वा अन्योन्यं
आमन्ध(न्त्र)यित्वा प्रवेष्टव्यम् । अथ दानि गुडपानीयं भवति । तहिं
येव वेकालिकं करिय प्रवेष्टव्यम् । मा पश्येंसु समामपयि इमे
प्रव्रजिता करोन्ति । अथ दानि उभंडितो भवति संविभजित्वा
प्रवेष्टव्यम् । निसृष्टगृहं भवति अनामन्त्रिय प्रविशति अनापत्तिः । न
दानि लभ्या अन्येन गन्तुम् । रच्छाच्छिद्द्रका भवति । अनापत्तिः ।
ग्रामन्तिकं शेय्यासनं, (२६ १) भवति । तहिं गन्तव्यम् । अथ दानि
आरण्यकशेय्यासनं भवति । तहिङ्गन्तव्यम् । संघारामं प्रविशन्तेहि
पुष्किरिणीयं वा तडागे वा ओघे वा पादां धोवित्वा प्रवेष्टव्यम् । अथ
दानि उब्भंडितो संविभजित्वा प्रवेष्टव्यं चेतियाणं प्रदक्षिणी
करेन्तेहि उपानहा ओमुञ्चित्वा काष्ठकेन गृह्नित्वा प्रवेष्टव्यम् । नापि
दानि उच्चशब्दमहाशब्देहि प्रवेष्टव्यम् । नापि नेवासिकां
उल्लय(प)न्ते(२६ २)हि हू ह हे अद्यापि तं तदेवेत्थ वसथ घुण
विद्धातवे नन्द्(अन्)ओपनन्दना यूयं नागराजानो इहैव यूयं जाता
इहैव मरिष्यथ जाता ते शृगाला ये तुम्भाणं मांसानि खादिष्यन्ति ।
नापि दानि नेवासिकेन उल्लपितव्यम् । हू ह हे चण्डमुक्तं पञ्चवर्षिकं
प्रवृत्तं यथापाटितो नापि दानि वक्तव्यं को इत्थं कति वर्षो उत्थिह
नापि दानि (ज्.११८) वक्तव्यम् । को भक्तका नातिथिका कस्य शुवे
भक्तत(२६ ३)र्पणं पुरोभक्तिकं वा (इ.प्.११६) नापि दानि नेवासिकेहि
द्वारं बन्धित्वा काकवाहां भजन्तेहि आसितव्यम् ।
अथ दानि पश्चाद्वस्तुके मृत्तिकाकर्म्मं करोन्ति । ये तापे(ये)
आर्थापे(ये) भवन्ति । आरामिका श्रामणेरो वा यस्य ओहेय्यको सो वक्तव्यो
द्वारं रक्षन्तो आसा(स ।) अथ दानि अपदुरको विहारो भवति ।
प्रविशितव्यम् । अथ दानि घट्टितको भवति । अपावुर(२६ ४)णेन
अपदुरियाणं प्रविशितव्यम् । संघारामं प्रदक्षिणी करेन्तेहि
आगन्तव्यम् । यत्र भिक्षूणामासनप्रज्ञप्तिर्भवति । तहिं नवकं
तस्मिं चीवरबिसियन् थवियाणं कुण्डिकां वा उपानहौ वा थवियाण
नेवासिका पृच्छितव्याः । आयुष्मं पादधोवनिका कहिं कल्पियकरकी
कहिमकल्पि(य)करकी कहि(ं) यदि ताव आवि(चि)क्षन्ति पादधोवनिकायां
पादां (२६ ५) धोवियाणमकल्पियकरकीतो हस्ता निर्म्मादियाण
कल्पियकरकीतो प्रक्षालिय ततो चेतियं वन्दितव्यं चेतियं वन्दियाणं
यत्र नेवासिका भवन्ति तत्र गन्तव्यमल्लीयाणं नापि क्षमति । वक्तुं
वन्दामी त्ति । अथ खलु वक्तव्यम् । आयुष्मन् वन्दिष्यन् ति नेवासिकेहि
वर्षाग्रं पृच्छितव्यम् । कति वर्षो आयुष्मन यदि (ज्.११९) ताव आगन्तुको
वृद्धतरको भ(२६ ६)वति । नेवासिकेन उत्थिय पादा वन्दितव्या । आसनं
दातव्यम् । अथ दानि नेवासिको वृद्धतरको भवति । आरोग्यापिय एवं
करियाणमासनं दातव्यम् । यं कालं विश्रान्तो भवति पृच्छितव्यम् ।
आयुष्मनस्ति एतावति वर्षस्य विहारको प्रापुणति । यदि ताव जल्पति
प्रापुणति त्ति विहारको गृह्नितव्यो मञ्च पीठं बिसि चतुरस्रको कुच्चं
बि(ं)बोहनं गृह्नितव्यम् । नापि (२६ ७) दानि क्षमति । त्रि(ते)हि आगन्तुकेहि
नेवासिकां कुत्सिय हंभिय आयुष्मन्नद्यापि यूयमिह वसथ हे हे
शिष्टा वष्टा यूयं जानाते ये शृगाला ये युष्माकं मांसानि
खादिष्यन्ति । अथ खलु संप्रहर्षयितव्या वक्तव्या आयुष्मन् शोभनं
क्रियति संघारामो केलापीयति । धूमो क्रियति । कुलानि प्रशादीयन्ति ।
अविकालको पादां धोविय म्रक्षिय दीपमादीपि(२६ १)य शेय्यां
प्रज्ञपिय प्रतिक्रमितव्यं नापि दानि क्षमति । अपरेज्जुकातो कल्यतो
उत्थिहन्तकेनैव (इ.प्.११७) भक्तशालं प्रविशितुम् । आयुष्मन् किं सिध्यति
किं पच्यति किं भक्तकानां स्थितिका । अथ खलु कल्यतो येव उत्थिय
निवासिय प्रावरिय हस्तान्निर्म्मादिय पात्रं गृह्निय प्रविशितव्यम् । अथ
दानि तहिं विहारके अनुग्रहो भवति विहारकं वा भक्त भवति ।
नेवासिकेहि वक्तव्यम् । आ(२६ २)युष्मन मा पिण्डाय प्रविशथ । इह य्येव
भुंजिष्यथ । अथ (ज्.१२०) दानि भवति । आगन्तुकानां पिण्डकानां
पिण्डभक्तानि उद्दिशितव्यानि । अथ दानि भक्तकानि उद्दिशितव्यानि । अथ
दानि भक्तकानि न भवन्ति नेवासिकेहि वक्तव्यमायुष्ममागमेथ
सहितका पिण्डाये प्रविशिष्यामः । ततो सहितकेहि प्रविशितव्यम् । अथ दानि
आगन्तुका भिक्षू विहार आगता भवन्ति । नायं (२६ ३) क्षमति ।
नेवासिकेहि वक्तुमो ह हे नावा पञ्चवर्षिकडंयदुक्कं
श्रमणमाताप्रजाता त्ति । अथ खलु आगन्तुकानामेहि स्वागतं
कर्त्त(व्य)ं, । एतु आयुष्मन्तो स्वागतमायुष्मन्तो अनुरागतम्
आयुष्मन्तो मा श्रान्ता मा क्लान्ता पादां प्रक्का(क्षा)लेथ । हस्तां
निर्म्मादेथ पानीयं पिबथ विश्रमथ न्ति(त्ति) । यदि ताव पुरेभक्ते
आम(ग)ता भवन्ति पुरेभ(२६ ४)क्तिकेन च्छन्दयितव्याः । देशकाले
आगता भवन्ति । भक्तकृत्येन च्छ(न्द)षि(यि)तव्याः । विकाले आगता
भवन्ति विकालिकेन च्छन्दयितव्याः । विकारको उद्दिशितव्यो । मञ्च
पीठं बिसी चतु(र)श्रकं कुच्चकं बिम्बोहनं (ज्.१२१) उद्दिशितव्यम् ।
पादम्रक्षणेन च्छन्दयितव्या । अथ अपरेज्जुकातो यदि ताव बाहिरकं
भक्तं भवति । अनुग्रहो वा भवति (२६ ५) वक्तव्यम् । आयुष्मं मा
पिण्डाये प्रविशथ । इह य्येव भुंजिष्यथ । अथ दानि भक्तका न
भवन्ति । आगन्तुकां पिण्डभक्तकानि उद्दिशितव्यानि । अथ दानि
पिण्डचारिको भवति । यं कालम् । आगन्तुका पिण्डाथे(ये) व(च)रिय विहारं
आगता भवन्ति । ततो यदि नेवासिकानां व्यञ्जनानि भवन्ति । खज्जकानि
भवन्ति । ततो यदि स्नेहको वा (२६ ६) भवन्ति । तेहि आगन्तुकानां
सम्विभागो कर्त्तव्यो । अथ दानि एवं पि न भवति । अन्तमसतो यदि तहिं
किञ्चि पिण्डचारिकं प्रणीततरकं भवति । आगन्तुकानां सारणीयं
कर्त्तव्यम् । (इ.प्.११८) नेवासिकेहि सर्व्वमारोचयितव्यम् । वक्तव्यम् ।
आयुष्मन्तो अमुकं कुलं मा प्रविशथ । पात्रनिकुब्जनं समुतीकृतं,
अमुत्र शुनखा चण्डाः । अमुकम[श्रा]द्धकु(२६ ७)लं या क्रिया
आरोचयितव्या ।
अथ दानि । आरण्यकं शेय्यासनं भवति । न क्षमति । तेहि
नि(ने)वासिकाहि द्वारं च बन्ध(धि)य विहारस्य पश्चा वस्तुके
काकवाहां भञ्जन्तेहि आसितुम् । अथ दानि सिंहभयं वा भवंति
व्याघ्रभयं वा चोरभयं वा (ज्.१२२) भिक्षू च पलिगुद्धका भवन्ति ।
च्छायनिका वा लेपनिका वा करेन्ति किं वा(चा)पि द्वारं घटेन्ति
अनापत्तिः । सर्व्वे येव गोच(२७ १)रं प्रविशन्ति । किञ्चापि घट्टेन्ति
अनापत्तिः । एको वा रक्षपालो दातव्यो वक्तव्यम् । आयुष्म(ं) द्वारं
बन्धिय द्वारकोष्ठकस्य उपरि आसाहि यदि केचि आगन्तुका आगच्छेंसु ।
ततो द्वारं ददेसि । तेन उपरि द्वारकोष्ठस्य आसितव्यम् । यदि ताव केचि
आगन्तुका आगच्छेन्ति । तेषां द्वारं दातव्यम् । यं कालं ते नेवासिका
निद्धाविता भवन्ति नापि क्षा(क्ष)मति तेहि नेवासि(२७ २)केहि वक्तुम् ।
आयुष्ममेषा नावा मुच्यति एषो साध्वो(र्थो) प्रयातो गच्छन्तु
आयुष्मन्तो गतं मार्ग्गस्य श्रेयो । अथ खलु समाश्वासितव्यम् । वसन्तु
आयुष्मन्तो रमंतु आयुष्मन्तो यदि ताव स्तूपिकेन वा कार्येण आगता
भवन्ति । स्तूपिकं कार्ष(य)(ं) परिप्रापयितव्यम् । सांघिकेन कार्येण
आगता भवन्ति । सांघिकं कार्यं परिप्रापयितव्यम् । यं कालं
परिप्राप्तकार्यं भ(२७ ३)वति । यदि कोचि सार्था(र्थो) प्रयातो भवति ते
भिक्षु वाणिजकस्य सार्थवाहस्य परिन्दितव्या वक्तव्यम् । उपासक
दानपति इमे भिक्षवो त्वया सार्द्धं गमिष्यन्ति । इमे भिक्षु तव
परिनिन्दिता भवन्तु तेषां गच्छमनो(माना)नां पथ्यदनेन वैकल्यं
कर्त्तव्यम् । एवं हि (ज्.१२३) आगन्तुकेहि प्रतिपद्यितव्यं न प्रतिपद्यन्ति ।
आभिसमाचारिकान् धर्म्मानतिक्रामंति ॥ * ॥

(इ.प्.११९)
इव्.३-४ म्स्.२७ ३ (ज्.१२३.३); छ्.५१० ३
भगवा(२७ ४)न् श्रावस्त्यां विहरति । अपरो दानि भिक्षुः । आगन्तुको
आगतो तस्य दानि अपरो भिक्षुः । वृद्धतरको परिज्ञातको भवति । सो च
अपरेण भिक्षुणा सार्द्धं वाचोवाचिकां करोति । सो दानि आगन्तुको
अल्लीयतस्य नेवासिकस्य पादां वन्दन्ति । सो दानि अन्य विज्ञान समंमी न
समन्वाहरति । न तं प्रतिसंमोदति सो दानि अप्रतिसंमोदिय ग(२७ ५)तो ते
दानि अपरकालेन उभये समागता सो दानि स्थविरो पृच्छति । आयुष्मं
केच्चिरो ति । आगतस्य आहारे चच्चिरो एवच्चिरो च सो आह आयुष्मनेवच्चिरो
तव आगतस्य न च मे पादवन्दको उपसंक्रमसि । सो दानाह । वन्दिता
मया तव पादा त्वं च मम न प्रतिसंमोदेसि । सो दानाह । कदा वा
किं वा । सो दानाह । अमुकं दिव(२७ ६)सं त्वममुकेन भिक्षुणा
सार्द्धं वाचं(चो)वाचिं करोषि । तदा तव मया पादा वन्दिता सो दानि
आह आयुष्मन् वाचोवाचिं करेन्तस्य पादां वन्दसि । सो दानि आह । एवं च
यं त्वं मम पादां वन्दिन्तस्य न प्रतिसंमोदेसि । ते दानि विवदिताः ।
भगवतो मूलं गताः ।
भगवानाह । नायं ताव क्षमति । आगन्तुकेन नेवासि(ज्.१२४)कस्य
वाचोवाचिं करेन्तस्य पादां वन्दितुम् । नापि क्षमति पादेहि
व(२७ ७)न्दियमाणेहि न प्रतिसंमोदितुम् । तेन हि एवं पादा वन्दितव्याः ।
एवं प्रतिसंमोदितव्यम् । किन् ति दानि एवं पादा वन्दितव्या । एवं
प्रतिसंमोदितव्यम् । एषो दानि भिक्षु आगन्तुको आगतो भवति । तस्य कोचि
भिक्षु परिज्ञातको भवति । सो च अपरेण भिक्षुणा सार्द्धं वाचोवाचिं
करोति । नापि क्षमति तस्य तं वेलं पादां वन्दितुमुश्वास(च्चार)ं वा
उपविष्टो भवति न क्षमति । तं वेलं पादां (२७ १) वन्दितुम् । एवं
प्रश्वास(स्राव)ं करेन्तस्य दन्तकाष्ठं खादन्तस्य स्नायति वा
एकनिवसनो वा भवति । भक्तकृत्यं करोति । पुरेभक्तिकं वा करोति ।
द्विभूमिकं वा उक्कस(म)ति त्वरितं वा अति(भि)क्रमति न क्षमति तं
वेलं तस्य पादां वन्दितुं, । न क्षमति मृत्तिकाकर्म्म करेन्तस्य ॥
पे ॥ पात्रपाकं ददन्तस्य चीवरं धोवन्तस्य रजनिका पठन्तस्य
चीवराणि सीवन्तस्य (इ.प्.१२०) रंजेन्त(२७ २)स्य च्च(चे)ल्लपरिकर्म्मं वा
करेन्तस्य पादां धोवन्तस्य हस्ता निर्म्मादन्तस्य चेतियं वन्दन्तस्य
पात्रं निर्म्मादेन्तस्य धूपं वा पिबन्तस्य अक्षिणि वा अञ्जन्तस्य
पुस्तकं वाचन्तस्य पुस्तकं लिखन्तस्य वर्च्चकुटीं गच्छन्तस्य
नग्नस्य वा (ज्.१२५) एकनिवसनकेन वा । अथ खलु यं कालं
समवस्थाये निषण्णो भवति तं वेलमलीयाणं शीर्षेण पादां
वन्दितव्या । कर्कटग्रा(२७ ३)हिकाये वन्दितव्या । अन्धकारे वा उद्देशं
देन्तस्य उद्दिशन्तस्य वा निवासन्तस्य वा चीवरं प्रावरन्तस्य त्वरितं
वा गच्छन्तस्य न क्षमति । ओगुण्ठितकायेन न क्षमति । ओहितहस्तेन
न क्षमति । उपानहारूढेन सामीचीकरेन्तेन न क्षमति । जानुकेन वा
जंघाहि वा वन्दितुम् । अथ खलु पादा वन्दितव्या । पादां
व(२७ ४)न्दन्तेन जानितव्यम् । यदि कस्यचि व्रणा भवति । गण्डो वा पिटको
वा न दानि सहसा उप्पीडितव्यम् । अथ खलु तथा वन्दितव्यम् । यथा न
दुःखापिये पादेहि वन्दयन्तेहि । न दानि मेण्ढेन विय आसितव्यं
पादेहि वन्दयंतेहि । अथ खलु प्रतिसंमोदयितव्यम् । स्वागतम्
आयुष्मन्तो अनुरागतमायुष्मन्तो मासि श्रान्तो मा(२७ ५)सि क्लान्तो पादां
प्रक्षालेहि हस्तां निर्म्मादेहि विश्रमाहि यदि ताव पुरेभक्ते आगतो
भवति । पुरोभक्तिकेन च्छन्दयितव्यो । देशकाले आगतो भवति ।
भक्तकृत्येन च्छ(न्द)यितव्यो विकाले आगतो भवति । वेकालिकेन
च्छन्दयितव्यो । यदि तावद्वस्तुकामो भवति । पात्रचीवरं
प्रतिसामयितव्यं विहारको उद्दिशितव्यो (२७ ६) अथ दानि गन्तुकामो
भवति । आह । अन्यत्र गमिष्यन् ति । वक्तव्यम् । गच्छाहि त्ति एवं पादा
वन्दितव्या । एवं प्रतिसंमोदितव्यं न प्रतिपद्यति ॥ आभिसमाचारिकान्
धर्म्मानतिक्रामति ॥ * ॥

इव्.५ म्स्.२७ ६ (ज्.१२६.१); छ्.५१० २८
(ज्.१२६) भगवान् श्रावस्त्यां विहरति विस्तरेण निदानं कृत्वा ते दानि
आयुष्मन्तो षड्वर्ग्गिकाः । गृह्यालापेन आलापेन्ति अम्बे अत्ते भाव भट्ट
तात हंघो हे हे हो (२७ ७) किं, भणसीति । एतं प्रकरणं भिक्षू
भगवतो (इ.प्.१२१) आरोचयेंसु । भगवानाह । शब्दापयथ
षड्वर्ग्गिकां ते दानि शब्दाविताः । भगवानाह । सत्यं भिक्षव
षड्वर्ग्गिकाः । एवं नाम यूयं गृह्यालो(ला)पेन आलापयथ ।
आम्ब(अम्बे) अत्ते भाव भट्ट तात अहंघो हे हे हो किं भणसि त्ति ।
आहंसु । आम भगवन्
भगवानाह । एवं यूयं गृह्यालापेन आलपेथ । ते(२८ १)न हि न
क्षमति गृह्यालापेन आलपितुं तेन हि प्रतिसंमोदितव्यम् । आयुष्मान् दानि
उपाली कालज्ञो वेलज्ञो समयज्ञो भगवन्तमुपसंक्रमिय पृच्छति ।
कथं भगवं नवकेहि भिक्षूहि स्थविरा भिक्षू आलपितव्या । भगवान्
आह । आलपे(ये) ति वा भन्ते ति वा आयुष्मन्ते ति स्थविरो दानि भगवन्तं
पृच्छति कथं भगवां स्थविरेहि भिक्षूहि नवका भिक्षू (२८ २) (ज्.१२७)
आलपितव्या । भगवानाह । नामेन वा गोत्रेण वा । वर्षाग्रेण वा एषो
दानि भिक्षुस्य उपाध्यायो वा आचार्यो वा शब्दापयति । नायं क्षमति ।
गृह्यालपेन आलपितुम् । हंघो हे हे त्ति । अथ खलु नामेन वा गोत्रेण
वा शब्दापयितव्यो । तेनापि न क्षमति । गृह्यालपेन व्याहर्त्तुं, । हा किं
भणसीति । अथ खलु वक्तव्यं वन्दामि उपाध्यायं वा । (२८ ३)
आचार्यं वा किमाणपेहि त्ति । किं करेमि त्ति । वृद्धतरको शब्दापयति ।
नायं क्षमति हा न्ति(त्ति) प्रव्याहरितुम् । अथ खलु वक्तव्यम् । आर्ये वा
भन्ते वा आयुष्मन् ति वा किम(आ)णपेसी न्ति(त्ति) किं करेमि । एषो भिक्षु
मातरं पितरं वा भगिनीं वा शब्दापयितुकामो भवति नायं क्षमति
शब्दापयितुम् । अम्बे त्ति वा अत्ते ति वा भट्टे ति वा । अथ ख(२८ ४)लु
सालोहिते ति वा शब्दापयितव्याः । अथ दानि भिक्षुस्य पिता वा भगिनी वा
शब्दापयति । नायं क्षमति हा किं भणसि त्ति प्रव्याहर्त्तुम् । अथ खलु
वक्तव्यम् । सालोहिते किमाणपेसि किं करेमि । एषो भिक्षुः । उपासकां, वा
दानपतीना(नी)ं वा विहारस्वामिनीं वा शब्दापितुकामो भवति । नापि
क्षमति । अम्बे ति वा अत्ते ति वा भट्टे (२८ ५) ति वा । अथ खलु उपासके त्ति
वा दानपत्ति ति (ज्.१२८) वा विहारस्वामिनि ति वा शब्दापयितव्यम् । भिक्षू
वा उपासकं वा दानपतिं वा शब्दापयितुकामो (इ.प्.१२२) भवति । नापि
क्षमति भावे त्ति वा भट्टे ति वा । आयुष्मं त्ति वा । अथ खलु दानपत्ति
ति(ति त्ति) वा भिक्षू वा तेहि शब्दापयति । नायं क्षमति । हा किं भणसि ति
व्याहर्त्तुं, । अथ खलु वक्तव्यम् । सा(२८ ६)लोहित किमाणपेसि । किं करोमि
त्ति । ते एते(न) गृह्यालापेन आलपन्ति वा । प्रव्याहरन्ति वा ।
विनयातिक्रममासादयति । स्त्री वा पुरुषो वा महन्तो भवति । न दानि
मातापितृकंठेन आलपितव्या महल्लको महल्लकेति वा वक्तव्या । अथ
दानि कोचि पृच्छति । को ते उपाध्यायो को ते आचार्यो वा न दानि वक्तव्यम् ।
असुको आचार्यो असुको (२८ ७) उपाध्यायो । अथ खलु वक्तव्यम् । अर्थहेतोर्
न्नामं गृह्नामि । असुको मे उपाध्यायो असुको मे आचार्यो आलपितव्यं, ।
एवं प्रव्याहर्त्तव्या(व्यम् ।) न प्रतिपद्यति । आभिसमाचारिकान्
धर्म्मानतिक्रामति ॥ * ॥

इव्.६ म्स्.२८ ७ (ज्.१२८.१४); छ्.५१० १९
भगवान् श्रावस्त्यां विहरति । विस्तरेण निदानं कृत्वा क्षत्रियपर्षा
दानि सन्निपतिता कार्याणि करिष्याम न्ति(त्ति) ते दानि आयुष्मन्तो
नन्दनोपनन्द(२८ १)ना आगच्छिय तेषां मध्ये निषण्णाः । ते दानि । तेहि
निषण्णेहि न पारेन्ति कार्याणि कर्त्तुमोध्यायन्ति । पश्यथ भणे वयं
येव सन्निपतिता कर्म्माणि करिष्याम न्ति(त्ति) । इमे पि श्रमणका
आगच्छिय मध्ये निषण्णाः । नष्टं भ्रष्टं कुतो इमेषां श्रामण्यं
भिक्षूहि श्रुतम् । (ज्.१२९) भिक्षू भगवतो आरोचयेंसु । भगवानाह ।
शब्दापयथ नन्दनोपनन्दनां ते दानि शब्दापिता । भगवानाह ।
सत्यं भि(२८ २)क्षवो नन्दनोपनन्दना । एवन्नाम क्षत्रियपर्या(षा)ये
सन्निपतिता कार्याणि करिष्याम न्ति(त्ति) । यूयं दानि गच्छिय । तेषां
मध्ये निषण्णा ते दानि तुम्भेहि निषण्णेहि न पारेन्ति कार्याणि कर्त्तुं, ।
ते दानि ओध्यायन्ति । पश्यथ भणे वयं येव ताव निषण्णा कार्याणि
कारय न्ति(त्ति) । इमे पि श्रमणका गच्छियाणं मध्ये निषण्णा नष्टं
भ्रष्टं कुतो इमेषां श्रामण्यमाहंसु । आम । (२८ ३) भगवन्
(इ.प्.१२३) भगवानाह । तेन हि एवं क्षत्रियपर्या(षा)ये किञ्चि कार्यं
भवति । न क्षमति गतागतस्य । उपसंक्रमितुम् । अथ खलु ये तहिं
वृद्धतरका क्षत्रिया भवन्ति । ते ताव अल्लिपितव्या वक्तव्यम् । दीर्घायु
क्षत्रियपर्या(षा)ये इमं च कार्यमल्लीयामि त्ति । यदि ताव ते जल्पन्ति
भन्ते मा अल्लीपथ न्ति(त्ति) न क्षमति अल्लीपितुं, । अथ (२८ ४) दानि
जल्पन्ति । अल्लीपथ न्ति(त्ति) । अल्लीपितव्यम् । नापि क्षमति । च्छत्रेण
धार्यन्ते उपानहांहि वा ओबद्धाहि क्षत्रियपर्या(षा)यम्
उपसंक्रमितुम् । अथ खलु एकान्ते च्छत्रं निक्षिपिय उपानहायो मुंचिय
(ज्.१३०) ततो अल्लीपितव्यम् । नापि दानि दर्शनोपचारे निक्षिपितव्यम् । अथ
खलु प्रतिकृत्येव निक्षिपितव्यम् । दर्शनपथे उपसंक्रमि(२८ ५)त्वा न
दानि वक्तव्यम् । सुखं भवन्तो सुखं मार्ष अथ खलु आरोग्यापिय
यादृशमासनं दीयति । तादृशे आसने उपविशितव्यं नापि क्षमति । आसने
क्षिपा(या)धर्म्ममापद्यितुम् । नापि क्षमति । ते निन्दितुम् । ये क्षत्रिया
कुशला भवन्ति प्रागेव ते नैरयिका भवन्तीति । अथ खलु वक्तव्यम् ।
क्षत्रिया नाम यूयमग्रो वर्ण्णो ज्येष्ठो वर्ण्णो (२८ ६) द्विहि कुलेहि
तथागता अर्हन्तः सम्यक्सम्बुद्धाः । उत्पद्यन्ति । क्षत्रियकुले वा
ब्राह्मणकुले वा । दुवे चक्राणि धर्म्मचक्रं बलचक्रं च । तवाहं
हितोपसंहारेण रक्षावरणगुप्तिये सुखं च पय(फा)सुखञ्च
विहरामि । कार्यङ्कृत्वा उत्थायासनातो गन्तव्यम् । एवं क्षत्रियपर्षा
उपसंक्रमितव्या न प्रतिपद्यति । आभिसमाचारिकान् धर्म्मान्
अतिक्रामति ॥ * ॥

इव्.७ म्स्.२८ ७ (ज्.१३०.१३); छ्.५११ ४
(२८ ७) भगवान् श्रावस्त्यां विहरति विस्तरेण निदानं कृत्वा
ब्राह्मणपर्या(षा) दानि सन्निपतिता कार्याणि करिष्यामो ति । ते दानि
आयुष्मन्तो नन्दनोपनन्दना आगच्छियाणं मध्ये निषण्णा ते दानि तेहि
निषण्णेहि न पारेन्ति । कार्याणि कर्त्तुं, । ते दानि ओध्यायन्ति । वयं
येच(व) ताव निषण्णा कार्याणि करिष्याम न्ति(त्ति) । इमे पि श्रमणका
आगच्छियाणं मध्ये निष(२९ १)(ज्.१३१)ण्णा नष्टं भ्रष्टं कुतो इमेषां
श्रामण्यम् । एतं (इ.प्.१२४) प्रकरणं भिक्षूहि श्रुतम् । भिक्षू भगवतो
आरोचयेंसु । भगवानाह । शब्दापयथ नन्दनोपनन्दां ते दानि
शब्दापिता । भगवानाह । सत्यं भिक्षवो नन्दनोपनन्दना । एवं
नाम ब्राह्मणपर्षा सन्निपतिता कार्याणि करिष्याम न्ति(त्ति) । यूयं दानि
तेषां गच्छियाणं मध्ये निषण्णा ते दानि तुम्भेहि निषण्णेहि न
पारे(२९ २)न्ति कार्याणि कर्त्तुं, । ते दानि ओध्यायन्ति । पश्यथ भणे वयं
येव ताव निषण्णा कार्याणि करिष्यामो ति । इमे पि श्रमणका आगच्छियाण
मध्ये निषण्णका । नष्टं भ्रष्टं कुतो इमेषां श्रामण्यम् । आहंसु ।
आम । भगवन
भगवानाह । सम्यग्भिक्षवो जनो ओध्यायन्ति तेन हि एवं
ब्राह्मणपर्षा उपसंक्रमितव्या । किन् ति दानि ब्राह्मणपर्षा
उपसंक्रमितव्या ॥ एतं दानि भिक्षुस्य किं(२९ ३)चि ब्राह्मणपर्षायां
कार्यं भवति । नायं क्षमति । गतागतस्य ब्राह्मणपर्षाम्
उपसंक्रमितुम् । अथ खलु ये तहिं ब्राह्मणमहत्तरका भवन्ति । ते
प्रतिकृत्येव उपसंक्रमितव्या । दीर्घायु अस्ति मे किञ्चिद्
ब्राह्मणपर्षायां कार्यमल्लीयाम न्ति(त्ति) । यदि ताव जल्पन्ति । भन्ते
मा अल्लीयथ न्ति(त्ति) । न क्षमति । अल्लीपितुम् । अथ दानि जल्पन्ति अल्लीपथ
न्ति(त्ति) ततो अल्लीपि(२९ ४)तव्यम् । नापि दानि क्षमति । च्छत्रेण वा
धार्यन्तेन उपानहाहि आबद्धाहि ब्राह्मणपर्षा आल्लीपितुम् । अथ
ख(लु) च्छत्रोपानहामेकमन्ते स्थपिय ब्राह्मणपर्षायाम्
उपसंक्रमितव्यम् । नापि दानि दर्शणोपचारे निक्षिपितव्यम् । अथ खलु
प्रतिकृत्येव (ज्.१३२) निक्षिपितव्यम् । दर्शनपथे उपसंक्रमित्वा न दानि
वक्तव्यम् । सुखं भवन्तो सुखं मा(२९ ५)र्ष अथ खलु
आरोग्यापयि(पिय) त्वा(या)दृशमासनं लभ्यति तादृशे आसने
उपविशितव्यम् । नायं क्षमति । आसने क्षीयाधर्म्ममापद्यितुम् । अथ
खलु ता(या)दृशमासनं दीयति । तादृशे उपविशितव्यम् । नापि क्षमति ते
निन्दितुम् । माणवकस्य मानहतस्य इहलोके भूतस्य कुक्कुटो शूकरो
श्वानो शृगालो पञ्चमो मूष(२९ ६)को निरयो षष्ठो न्ति(त्ति) । अथ खलु
वक्तव्यम् । ब्राह्मण नाम यूयमग्रो वर्ण्णो ज्येष्ठो वर्ण्णो श्रेष्ठो
वर्ण्णो द्विहि कुलेहि तथागता अर्हन्तः सम्यक्सम्बुद्धाः । लोके
उत्पद्यन्ति । क्षत्रियकुले वा ब्राह्मणकुले (इ.प्.१२५) वा एवं कार्यं करिय
गन्तव्यम् । एवं ब्राह्मणपर्षाये प्रतिपद्यितव्यम् । न प्रतिपद्यति ।
आभिसमाचारिकान् धर्म्मानतिक्रामति ॥ * ॥

इव्.८ म्स्.२९ ६ (ज्.१३२.१२); छ्.५११ १६
भगवान् श्रावस्त्यां वि(२९ ७)हरति गृहपतिपर्षा दानि सन्निपतिता ।
कार्याणि करिष्याम न्ति(त्ति) । आयुष्मन्तो नन्दनोपनन्दना आगच्छिय
तेषां मध्ये निषण्णा । ते दानि तेहि निषण्णेहि न पारेन्ति कार्याणि
कर्त्तुम् । ते दानि ओध्यायन्ति । पस्यथ भणे वयं ये(व) ताव सन्निपतिता
कार्याणि करिष्याम न्ति(त्ति) । इमे पि श्रमणका मध्ये आगच्छियाणं
निषण्णाः । नष्टं भ्रष्टं कुतो इमेषां श्रामण्यम् । एतं (२९ १)
प्रकरणं भिक्षूहि श्रुतं भिकू भगवतो आरोचयेंसु । भगवानाह ।
शब्दापयथ नन्दनोपनन्दा(द)नाम् । ते दानि शब्दापिताः । भगवान्
आह । सत्यं भिक्षवो नन्दनोपनन्दा(द)नाम् । एवं नाम गृहपतिपर्षा
सन्निपतिता कार्याणि करिष्या(ज्.१३३)म न्ति(त्ति) । एतदेव सर्व्वं भगवां
विस्तरेण प्रत्यारोचयति । यावत्पश्यथ भणे वयं येव ताव सन्निपतिता
कर्म्माणि कर(रि)ष्याम (२९ २) न्ति(त्ति) । इमे पि श्रमणका आगच्छिय
मध्ये निषण्णा नष्टं भ्रष्टम् । कुतो इमेषां श्रामण्यमाहंसु ।
आम भगवन्
भगवानाह । तेन हि एवं गृहपतिपर्षा उपसंक्रमितव्या । किन् ति
दानि गृहपतिपर्षा उपसंक्रमितव्या । एतं दानि भिक्षुस्य
गृहपतिपर्षायां किञ्चित्कार्यं भवति । न क्षमति । गतागतस्य
आल्लीपितुम् । अथ खलु ये तत्र गृहपतिमहत्तरकाः भवन्ति । (२९ ३) ते
प्रकृत्येव ते(ता)(व) प्रतिसरितव्या । वक्तव्यम् । दीर्घायु अस्ति किञ्चि
गृहपतिपर्षायां कार्यम् । अल्लीयाम मा आल्लीयामो न्ति(त्ति) । यदि ताव
जल्पन्ति । भन्ते मा आल्लीपथ न्ति(त्ति) । न क्षमति आल्लीपितुम् । अथ दानि
जल्पति । आल्लीपथ न्ति(त्ति) । अल्लीपितव्यम् । नापि क्षमति च्छत्रेण
धार्यन्तेन उपानहाहि आबद्धाहि गृहपतिपर्षा उपसंक्रमितुम् । अथ
खलु एकत(२९ ४)मन्ते च्छत्रोपानहां निक्षिपिय गृहपतिपर्षा
उपसंक्रमितव्या । नापि दर्शनोपचारे निक्षिपितव्यम् । अथ खलु
प्रकृत्येव निक्षिपितव्यम् । दर्शनपथे उपसंक्रमित्वा न (इ.प्.१२६) दानि
वक्तव्यम् । सुखं भवन्तो सुखं मार्ष । अथ खलु आरोग्यापिय
यादृशमासनं लभ्यते तादृशे आसने उपविशितव्यम् । (ज्.१३४) नापि दानि
क्षमति । कुत्सितुं वा पन्सितुं वा गृ(२९ ५)हपतिका नाम यूयं
तुलाकूटमानकूटेहि दिवसं लोकं मुषंता आसथ । अथ खलु
वक्तव्यं, ।
सागरा च अनगारा च उभे अन्योन्यनिश्रिता
आरागयन्ति । सद्धर्म्मं सम्यक्सम्बुद्धं देशितम् ॥
सागाराष्ट्रं नगाराणां संप्रयच्छन्ति दक्षिणाम् ।
अनागारा प्रगृह्नन्ति । प्रतिसंयम्य विनोदना ।
अमिषचक्रं निश्राय धर्म्मचक्रं प्रवर्त्ततीति ॥
उक्तं चेदं भग(व)ता (२९ ६) बहुकरा भिक्षवो ब्राह्मणगृहपतयो ।
यं वो प्रत्युपस्थिता ।
चीवरपिण्डपातशेय्यासनग्लानप्रत्ययभैषज्यपरिष्कारेहि तेहि यूयं
निश्राय तथागते ब्रह्मचर्यं चरथा महतो ओघस्य निःसरणार्थं
सर्व्वे इति प्रवृत्तका कर्त्तव्या । एवं कार्यं करिय गन्तव्यम् । एवं
गृहपतियथा(पर्षा) उपसंक्रमितव्या न प्रतिपद्यति । आभिसमाचारिकान्
धर्म्मानतिक्रामति ॥ * ॥

इव्.९ म्स्.२९ ६ (ज्.१३५.१); छ्.५११ २५
(ज्.१३५) भगवान् श्रावस्त्यां वि(२९ ७)हरति तीर्थिकपर्या(षा) दानि
सन्निपतिता कार्याणि करिष्याम न्ति(त्ति) । ते दानि आयुष्मन्तो
नन्दनोपनन्दना तेषां गच्छियाणं मध्ये निषण्णाः । ते दानि तेहि
निषण्णेहि न पारेन्ति कार्याणि कर्त्तुं, । ते दानि ओध्यायन्ति । पश्यथ
भणे च(व)यं येवं ताव सन्निपतिता कार्याणि करिष्यामो ति । इमे पि
श्रमणका आगच्छिय मध्ये निषण्णा । नष्टं भ्रष्टं कुतो इमेषां
श्रामण्यम् । (३० १) एतं प्रकरणं भिक्षूहि श्रुतम् । भिक्षू भगवतो
आरोचयेंसु । भगवानाह । शब्दापयथ नन्दनोपनन्दनाम् । ते दानि
शब्दापिता । भगवानाह । सत्यं भिक्षवो नन्दनोपनदना एवं
नाम । तीर्थिकपर्षा सन्निपतिता (इ.प्.१२७) कार्याणि करिष्यामो न्ति(त्ति) ।
यूयं दाणि गच्छियाण तेषां मध्ये निषण्णा । तदेव सर्व्वं भगवां
विस्तरेण प्रत्यारोचयति । नष्टं भ्रष्टं कुतो इमेषां (३० २) श्रामण्यं
आहंसु । आम भगवन्
भगवानाह । तेन हि एवं तीर्थिकपर्षा उपसंक्रमितव्या । एतं दानि
भिक्षुस्य किंचि तीर्थिकपर्षाये कार्यं भवति । नायं क्षमति ।
भिक्षुणा गतागातस्य तीर्थिकपर्षा उपसंक्रमितुम् । अथ खलु
प्रतिकृत्येव ताव वृद्धतरका प्रतिसरितव्या । वक्तव्यमायुष्ममस्ति मे
किञ्चि तीर्थिकपर्षाये कार्यमाल्लीपाम मा आल्ली[या]मोथ न्ति(त्ति) । यदि
(३० ३) ताव जल्पन्ति । मा आल्ली(ज्.१३६)पथ न्ति(त्ति) । न क्षमति अल्लीपितुम् ।
अथ दानि जल्पन्ति । अल्लीपथ न्ति(त्ति) । उपसंक्रमितव्यम् । याव न दानि
क्षमति । आसने क्षिपा(या)धर्म्ममापद्यितुं, । अथ खलु यादृशं
(आसनं) लभ्यते । तादृशो उपविशितव्यम् । नापि क्षमति । कुत्सितुं वा
पंसितुं वा अश्राद्धा तीर्थिकाः । अह्रीका तीर्थिकाः । अनोत्रापिनो
तीर्थिकाः । मिथ्यादृ(३० ४)ष्टिका तीर्थिकाः । कुसिदा हीनावीर्या
तीर्थिकाः । दुःप्रज्ञा तीर्थिकाः । अथ खलु एवं वक्तव्यम् ।
सर्व्वाश्रामिणानोपवादे कदाचि त्रैविद्यप्राप्ताः बहुश्रुता यस्य
प्रशंसा तमनुप्रशंशे तेषां गुणमेव वदेन दोषन्ति । वक्तव्यम् ।
दुष्करं गृहिलिङ्गापरित्यागो दुष्करं वस्तिसंयमो दुष्करमरण्यवासो
एवं कार्यं करिय गन्तव्यम् । एवं, (३० ५) तीर्थिकपर्षा
उपसंक्रमितव्या न प्रतिपद्यति । आभिसमाचारिकान् धर्म्मान्
अतिक्रामति ॥ * ॥

इव्.१० म्स्.३० ५ (ज्.१३६.१२); छ्.५११ ३
भगवान् श्रावस्त्यां विहरति । एतं दानि भिक्षुस्य आर्यपर्या(षा)ये
कार्यं भवति । नायं क्षमति । गतागतस्य वृद्धान्तमुक्कसितुम् ।
अथ खलु प्रकृत्येव ताव उपाध्यायो वा आचार्यो वा आमन्त्रयितव्यो
वक्तव्यम् । उपाध्यायाचार्या संघस्य म(३० ६)ध्यं मे किञ्चित्कार्यं
(ज्.१३७) आल्लीयामि । मा अल्लीयामि त्ति । उपाध्यायेन वा आचार्येण वा
जानितव्यम् । यदि ताव सो भवति । उस्रेणको वा प्रवर्द्धको वा
अनर्थक(कु)शलो वा । (इ.प्.१२८) अभिनीहारकुशलो वा कलहकारको वा
भण्डनकारको वा भाष्यकारको वा । अधिकरणिको वा वक्तव्यम् । मा
अल्लीयाहि त्ति । अथ दानि सो भवति । भद्रको गुणवान् । अनुद्धतो
शिक्षा(३० ७)कामो अनुकूलो अनुन्नडो अचपलो पृच्छितव्यो किं कार्यं, ।
आह । असुकं वा असुकं वा तेन जानितव्यम् । यदि ताव तस्य दुग्रहो वा
वक्तव्यम् । मा अल्लीय अथ दानि तस्य संग्रहो भवति वक्तव्यम् । आल्लीय
न्ति(त्ति) । अल्लीपितव्यम् । अल्लीय वृद्धान्तातो प्रभृति सर्व्वेषां प्रणामो
कर्त्तव्या । या वृद्धतरका यावद्वृद्धान्तमुक्कसियाणं
संघस्थविरो पृच्छितव्यो । अ(३० १)सुकं मे कार्यं जल्पामि त्ति ।
संघस्थविरेण जानितव्यम् । यदि ताव तस्य दुग्रहो भवति । सो च भिक्षु
भवति । कलहकारको भण्डनकारको भाष्यकारो अधिकरणिको वा
वक्तव्यम् । मा जल्पाहि त्ति कस्य त्वं भिक्षूणां समग्राणां सहितानां
संमोदमानानामविवदमानानामेकोद्देशकानां क्षीरोदकीभूतानां
शास्तुः शासनं दीपयमानानां सुखञ्च फासु(३० २)ञ्च विहरन्तानां
कलहजातो भण्डनजातो विग्रहविवादापन्नो विहरन्तो संघे कर्कशानि
अधिकरणानि (ज्.१३८) उत्पादयसि मा जल्पाहि त्ति । अथ दानि तस्य सुग्रहो
भवति । सो च भिक्षु भवति । भद्रको गुणवान् शिक्षाकामो अनुद्धतो
अनुन्नडो अचपलो अमुखरो अप्रगल्भो अप्रकीर्ण्णवाचो संघस्थविरेण
वक्तव्यम् । आयुष्मन् जल्पथ यथाधर्म्मं, (३० ३) यथाविनयं
यथाशास्तुः । शासनं ति तेन कार्यं संघमध्ये आरोचयितव्यम् ।
संघेन तत्कार्यं धर्म्मेण विनयेन शास्तुः शासनेन
व्युपसमयितव्यम् । व्युपशान्तं करिय सो भिक्षु पृच्छितव्यो आयुष्मन्
किं व्युपशान्तमेतं कार्यं यदि ताव आह । व्युपशान्तं वक्तव्यम् ।
आयुष्मन् सर्व्वे त्वमेतं कार्यं समग्रेण संघेन संव्युपशान्तं
(३० ४) पुनः कर्म्माय उत्खोटयसि पुनो चास्मि पर्ष उपसंक्रमेसि ।
संघो ते उत्तरि उपपरीक्षिष्यतीति । यथासुखं करिय गन्तव्यमेवं
आर्यपर्षा उपसंक्रमितव्या न प्रतिपद्यति । आभिसमाचारिकान्
धर्म्मानतिक्रामति ॥ * ॥

(इ.प्.१२९) उद्दानम् ॥
एवमागन्तुकेहि प्रतिपद्यितव्यम् ।
एवं नेवासिकेहि प्रतिपद्यितव्यम् ।
एवं पादा वन्दितव्या ।
एवं (३० ५) सम्मोदितव्यम् ।
एवमालपितव्यम् ।
एवं प्रव्याहर्त्तव्यम् ।
(ज्.१३९) एवं क्षत्रियपर्षा उपसंक्रमितव्या ।
एवं ब्राह्मणपर्षा उपसंक्रमितव्या ।
एवं गृहपतिपर्षा उपसंक्रमितव्या ।
एवं तीर्थिकपर्षा उपसंक्रमितव्या ।
एवमार्यपर्षा उपसंक्रमितव्या ॥
चतुर्थो वर्ग्गः ॥


(इइ.प्.५)
व्.१-२ म्स्. ३० ५ (ज्.१४०.१); छ्. ५०९ २६
भगवान् सम्यक्सम्बुद्धो यदर्थं समुदागतो तमर्थम्
अभिसम्भावयित्वा श्रावस्त्यां वि(३० ६)हरति विस्तरेण निदानं कृत्वा
याव आरण्यकं ताव शेय्यासनं ग्रामान्तिकञ्च एकभक्ततर्प्पणञ्च
ग्रामान्तिके शेय्यासने आरण्यकानाञ्च ग्रामान्तिकानाञ्च अनुग्रहो
साधीयति । तेहि दानि ग्रामान्तिकेहि प्रतिकृत्येव गण्डिमाहनियाणं
स्थिताः । ते दानि आरण्यका देशकाले ग्रामान्तिकं शेय्यासनमागता
आहंसु । आयुष्मं देशकालो आहनथ गण्डिं ते (३० ७) दानि ग्रामान्तिका
आहंसु । आहता-य्-इयं गण्डी भुक्त(ं) पि अम्हेहि ते दानि आहंसु ।
आयुष्मन् । एवं यूयमत्यनुकाल्ये गण्डीमाहनिय भुञ्जथ । ते दानि
ग्रामान्तिका आहंसु । एवं च यूयमत्युवह्ने आगच्छथ । ते दानि
आरण्यकेहि अपरेज्जुकातो कल्यतो येवा(व) उत्थिहिय भक्तकानि सर्व्वाणि
उ(त्)क्षिप्तानि । ते दानि ग्रामान्तिका देशकालस्मिन् । कुलानि
उपसंक्रम(३१ १)न्ति । आहंसु । उपासिके देथ । भक्तानि उक्कहितानि
भक्तानि केन आहंसु । आरण्यकेहि ते दानि तेषामारण्यकानामाहंसु ।
आयुष्मन् किन् दानि (ज्.१४१) युष्माभिः सर्व्वाणि भक्तकानि उत्क्षिप्तानि । ते
दानि आहंसुः । तथा तुम्हेहिं प्रतिकृत्येव गण्डि आहनियाणं भुञ्जथ ।
ते दानि विवदिताः । भगवतो मूलं गताः ।
भगवानाह । नायं ताव क्षमति प्रतिकृत्येव गण्डीमाहनियाणं
भुञ्जि(३१ २)तुम् । नापि क्षमति । अपरेहि कल्यतो येव सर्व्वाणि भक्तानि
उत्क्षिपितुं, । तेन हि । एवमारण्यके विहारे प्रतिपद्यितव्यम् । एवं
ग्रामान्तिके विहारे प्रतिपद्यितव्यम् । किन् ति दानि एवमारण्यके विहारे
(इइ.प्.६) प्रतिपद्यितव्यम् । एवं ग्राम(मा)(न्ति)के विहारे प्रतिपद्यितव्यम् ।
एतं दानि ग्रामान्तिकं च शेय्यासनमारण्यकञ्च शेय्यासनं च
एकभक्ततर्प्पणं भवति । ततो यदि ताव ग्रामान्तिके शे(३१ ३)य्यासने
भक्तं पच्यति । न दानि क्षमति । ग्रामान्तिकेहि प्रतिकृत्येच(व) गण्डीं
आहनियाणं चेतियं वन्दियाणं भुञ्जितुम् । अथ खलु ग्रामान्तिकेहि दुवे
शा(था)लीयो आद्राहयितव्या । या एका ग्रामान्तिकानाम् । एका आरण्यकानां
ग्रामान्तिकानां थाली तहिम् । तण्डुला प्रक्षिपितव्याः । या आरण्यकानां
थाली यदि ताव आरण्यका आगता भवन्ति । तहिं, (३१ ४) तण्डुला
प्रक्षिपितव्याः । अथ दानि नागच्छन्ति । नापि क्षमति तहिं तण्डुलानि
प्रक्षिपितुम् । अथ खलु कढन्ती थपितव्या । एकेन भिक्षुणा विहारकं
उक्कसिय निध्यायि(पि)तव्यम् । यदि ताव (ज्.१४२) आरण्यका आगच्छन्ति ।
वक्तव्यम् । आयुष्मनेते आरण्यका आगच्छन्ति प्रक्षिपथ तण्डुलानि । अथ
दानि कालपर्यन्तं नागच्छन्ति ग्रामान्तिकेहि गण्डीमाहनि(३१ ५)याणं
भुञ्जितव्यम् । आरण्यकानां स्थाली ओतारियाणं वोधि(धोवि)याणं स्थाने
स्थंपयितव्या । अनेकाये आरण्यकानां चो(र)भयं वा भवेय
उदकभयं वा सिंहभयं वा । व्याघ्रभयं वा यथापि ते
नागच्छन्ति । यदि कोचि उपासको संघं भक्तेन निमन्त्रयति । आह ।
आर्यो (र्ये) आरण्यकानां पि आरोचेथ न्ति(त्ति) । तेहि दानि ग्रामान्तिकेहि
आरण्यकानाम् । (३१ ६) पि आरोचितव्यम् । आयुष्मं शुवे भक्तं वा
पुरेभक्तिकं वा यवागूपानं वा भविष्यति । मा पिण्डकेन
विहरिष्यथ । कर्ण्ण(ल्ल)तो य्येव आगच्छथ । तेहि पि दानि आरण्यकेहि न
विघ्नयितव्यम् । यदि अर्थिका भविष्यन्ति प्रतिपालयिष्यन्तीति । अथ खलु
कालेन कालं (इइ.प्.७) गन्तव्यम् । यदि न सज्जं भवति । न दानि
भक्ताग्रमवष्टभयितव्यो आसयितव्यम् । अथ खलु वे(चे)तियं वन्दित्वा
एकान्ते (३१ ७) स्वाध्यायो कर्त्तव्यो । धर्म्मं वा चिन्तयन्तेहि आसितव्यं
एषो दानि कोचि ग्रामान्तिकां भक्तेन निमन्त्रेति । वक्तव्यम् ।
आरण्यकानां पि निमन्त्रेहि न्ति(त्ति) । अथ दानि आह । नास्ति मम तहिं
श्रद्धा नापि प्रसादो त्ति वक्तव्यम् । वयं पि न प्रतिच्छामे (मो)
न्ति(त्ति) । अथ दानि आरण्यकानां पि निमन्त्रेति भक्तं सज्जयितव्यम् । (ज्.१४३)
पानीयं परिश्रावयितव्यम् । आसनप्रज्ञप्ति कर्त्तव्या । दानपति आगतो
भवति । (३१ १) आरण्यका च नागच्छन्ति । दानपती आह भन्ते आहनेथ
गण्डिं कालो पि ताव अद्यापि भवति वक्तव्यम् । प्रागो ताव अद्यापि
आरण्यका पि ताव नागच्छन्ति । अथ दानि दानपती आह भन्ते आहनेथ
तुम्हे अ(आ)रण्यका पि एष्यन्तीति किं कर्त्तव्यम् । गण्डी ताव विस्तरेण
आहनियाणं वे(चे)ति।यो विस्तरेण वन्दितव्यो । चेतियं विस्तरेण वन्दियाणं
यदि ताव आरण्यका आग(३१ २)ता भवन्ति । ततो भुंजितव्यम् । अथ दानि
आरण्यका नागता भवन्ति । अनन्तरिकानामासनानि वर्ज(य)न्तेहि
आसितव्यम् । परिवेशावकेन पृच्छितव्यम् । को आरण्यकानां लाभग्राहो
यदि तावज्जल्पन्ति । अहं पि अहं पि त्ति वक्तव्यम् । आरण्यकानां
पिण्डपातमुक्कड्ढथ तेहि आरण्यकानां पिण्डपातो उक्कड्ढयितव्यो ।
उक्कड्ढियाणां सांघिकं कल्पियकुटीयं स्थाप(३१ ३)यितव्यो । यदि तावत्
सकाले आगच्छन्ति । भुञ्जनाय दातव्यो । अथ दानि विकाले आगच्छन्ति । न
वागच्छन्ति । अपरेज्जुकातो श्रामणेराणां दातव्यम् । नापि दानि (इइ.प्.८)
क्षमति । आरण्यकेहि यत्र पु(उ)ल्लु(ल्ल)गिकाये आसितुम् । अथ खलु कालेन
कालं ग्रामान्तिकं शेय्यासनं गन्तव्यम् । आगच्छिय पादां धोविय
हस्तां निर्म्मादिय चेति।यो विस्तरे(३१ ४)ण वन्दितव्यो । यदि (ज्.१४४) ताव
अनुकल्यो अद्यापि ताव भवति । तत्रैव स्थानचंक्रमनिषद्यायोगम्
अनुयुक्तेन विहरितव्यम् । उद्देशप्रयुक्तेहि वा मनसिकारप्रयुक्तेहि वा ।
अथ दानि देशकालो भवति । संघारामं प्रविसियाणं ग्रामान्तिकं
भिक्षुं प्रतिसंमोदियाणं स्वकस्वकेहि आसनेहि उपविशितव्यम् । गण्डी
आहतायं वन्दि(३१ ५)य चेतियं नापि दानि आरण्यकेहि ग्रामान्तिका
कुत्सेतव्या बहुकृत्या बहुकरणीया जिह्वाग्रे यूयं रसाग्राणि पर्येषथ ।
अथ खलु संराधयितव्या । वक्तव्यमायुष्मन् सोभनं क्रियति
बहुकरा यूयं भारं वहथ । धर्म्मदेशनां करेथ । संघारामो
केलापीयति । धूमो क्रियति कुलानि प्रसादीयन्तीति । एवं
संराधयितव्याः । अथ (३१ ६) दानि आरण्यके शेय्यासने ग्रामान्तिकानां
च आरण्यकानाञ्च भक्तं सज्जीयति । नापि दानि क्षमति । आरण्यकेहि पि
प्रतिकृत्येव गण्डिमाहनियाणं चेतियं वन्दिय भुञ्जितुम् । अथ खलु
दुवे स्थालीयो अ(आ)द्राहयितव्यायो । एका आरण्यकानामेका
ग्रामान्तिकानां या आरण्यकानां स्थाली तहिं तण्डुला प्रक्षिपितव्याः ।
या ग्रामान्तिंकानां स्थाली यदि ताव ग्रामान्तिका (३१ ७) आगता भवन्ति ।
तहिं पि तण्डुला प्रक्षिपितव्याः । अथ दानि ग्रामान्तिका नागच्छन्ति । न
क्षमति तहिं तण्डुलां प्रक्षिपितुम् । जानितव्यम् । अनेकाये
ग्रामान्तिकानां ग्रामो परो वा भवे चोरा वा पतिता भवेंसुः । यथा
नागच्छन्तीति । (इइ.प्.९) एकेन भिक्षुणा विहारमुक्कसियाणं
निव्या(ध्या)(प)यन्तेन आसितव्यम् । किं ग्रामान्तिका (ज्.१४५) आगच्छन्ति । न
हि त्ति । यदि ताव आगच्छन्ति तेषां पि (३२ १) तण्डुला प्रक्षिपितव्या । अथ
दानि नागच्छन्ति । देशकाले गण्डिमाहनिय चेतियं वन्दिय भुञ्जितव्यं
ग्रामान्तिका(नां) थाली-य्-ओतारिय था(ली) तोयलिप्तां करिय थपितव्याः ।
एषो दानि कोचि आरण्यकानां भक्तेनोपनिमन्त्रयति वक्तव्यम् ।
ग्रामान्तिकानामपि निमन्त्रेहीति । अथ दानि आहंसुः । नास्ति मम
तंहिं श्रद्धा नास्ति प्रसादो वक्तव्यं वयं पि न प्रतिच्छामो न्ति(त्ति) ।
अथ दानि (३२ २) ग्रामान्तिकानामपि निमंत्रेति भक्तं सज्जयितव्यम् ।
आसनप्रज्ञप्तिः कर्त्तव्या । पानीयं परिश्रावयितव्यम् । पुष्पं
सज्जयितव्यम् । गन्धो सज्जयितव्यो । यदि ताव ग्रामान्तिका नागच्छन्ति ।
दानपतिरागतो भवति । आह । भन्ते । आहणथ गण्डिमनुकाल्यो व ताव
अद्यापि भवति । वक्तव्यम् । प्रागो ताव अद्यापि ग्रामान्तिका च भिक्षवो
नागच्छन्ति । अथ दानि आह । आहणथ (३२ ३) तुम्हे ग्रामान्तिका पि
एष्यन्तीति । किं कर्त्तव्यम् । गण्डी ताव विस्तरेण आह्नियाणं वे(चे)तियो
विस्तरेण वन्दितव्यो । वे(चे)ति(यं) विस्तरेण वन्दियाणं यदि ताव
ग्रामान्तिका आगता भवन्ति भुञ्जितव्यम् । अथ दानि ग्रामान्तिका
नागच्छन्ति । आसनानि (ज्.१४६) वंजाय(र्जयं)तेहि उपविशितव्यम् ।
परिथप(वेष)केन वक्तव्यम् । को ग्रामान्तिकानां भिक्षूणां
लाभग्राही यदि ताव आ(३२ ४)हंसु । अहं पि अहं पि त्ति वक्तव्यम् ।
ग्रामान्तिकानां भिक्षूणां पिण्डपातं परिगृह्नथ न्ति(त्ति) । अथ दानि
तेषां न कोचि लाभग्राहको भवति । परिवेषकेन सर्व्वेषामेकस्थाने
पिण्डपातमुक्कड्ढियाणां सांघिकायं कल्पियकुटीयं (इइ.प्.१०)
थपितव्यो । यदि ताव काले आगच्छन्ति भुञ्जनाये दातव्यम् । अथ दानि
विकाले आगता भवन्ति । न वा आगच्छन्ति । अपरेज्जु(३२ ५)कातो
श्रामणेराणां वा आरामिकानां वा दातव्यो नापि दानि क्षमति
ग्रामान्तिकेहि यत्रोल्लग्नाये आसितुं, ॥ अथ खलु कालेन कालमारण्यकं
शेय्यासनमुक्कसितव्यं पादां प्रक्षालिय हस्तां निर्म्मादिय स्तूपं
विस्तरेण वन्दितव्यम् । यदि ताव अनुकाल्यो भवति । आरामेहि वृक्षमूलेहि
चंक्रमेहि निषद्याहि स्थानचंक्रमनिषद्यानु(३२ ६)योगमनुयुक्तेहि
वीतिनामयितव्या । उद्देशप्रयुक्तेहि वा मनसिकारप्रयुक्तेहि वा अथ
दानि देशकालो भवति विहारं प्रविशियाणामारण्यकां भिक्षूं
प्रतिसंमोदियाणं स्वकस्वकेहि आसनेहि उपविशितव्यम् । गण्डीयं
आहतायं स्तूपं वन्दियाणं भुंजियाणं गन्तव्यम् । नापि दानि
ग्रामान्तिकेहि आरण्यका कुत्सेतव्या । पंसेतव्या । (ज्.१४७) शून्यागारमाता
यूयं प्रज्ञा(३२ ७)वैतक्षि(ंस्कि)या शृगाला पि आरण्ये वसन्ति दिवसं यूयं
वर्षाणि पिण्डेन्ता आसथ । अथ खलु वक्तव्या दुरावासकानि आरण्यकानि
शेय्यासनानि प्राप्तानि विविक्तानि विगतजनपदानि मनुष्यरहशय्यकानि
प्रतिसंलयनसारोप्यानि दुष्करं प्रति(वि)वेकेन दुरभिरममेकं परं
रात्रि विनयमानो मानसमाध्यात्मं वेति । आयुष्मन शोभनं क्रियति
आरण्यकं शेय्या(३२ १)सनं केलापीयति । उक्तं चेदं भगवता
यावकीयं च भिक्षवो आरण्यकानि शेय्यासनानि अध्यावसिष्यथ । ताव
वृद्धी येव प्रतिकांक्षितव्या । कुशलेहि धर्म्मेहि नो परिहाणि न च वो
मारः । पापीयामवतारमधिगमिष्यति । सद्धर्म्मस्य
अन्तर्द्धानाय स(ं)मोहाय न्ति(त्ति) । एवं संरावि(धि)य गन्तव्यम् । एवं
आरण्यकेहि प्रतिपद्यितव्यम् । न प्रतिपद्यति (इइ.प्.११) । आभिसमाचारिकान्
धर्म्मानतिक्रा(३२ २)मति ॥ * ॥

व्.३-४ म्स्. ३२ २ (ज्.१४७.१३); छ्. ५०८ २२
भगवान् श्रावस्त्यां विहरति । तेन दानि कालेन तेन समयेन
आयुष्मन्तो नन्दनोपनन्दना पानीयं प्रतिजागरन्ति । ते दानि भिक्षू
ततो य्येव मुखं ततो य्येव हस्तां निर्म्मादियन्ति । पात्रपरिश्रावणानि
धोवन्ति । ते दानि कल्यतो येव नन्दनोपनन्दना उत्थियाण हस्तां
निर्म्मादिय पानीयं परिश्राविय (ज्.१४८) पानीयमण्डपं परिघट्टिय
तायितमुद्रितं करिय गोचरं (३२ ३) प्रविष्टाः । आगन्तुका भिक्षू
आगताः । पानीयं मार्ग्गेन्ति । न लभन्ति । ते दानि ओध्यायन्ति किन् दानि
अयं पानीयमण्डपो तायितमुद्रितो थपितो एतं प्रकरणं भिक्षूहि
श्रुतम् । भिक्षू भगवतो आरोचयेंसु । भगवानाह । शब्दापयथ
नन्दनोपनन्दनाम् । ते दानि शब्दापिताः । भगवानाह । सत्यं
भिक्षवो नन्द्(अन्)ओपनन्दना ॥ पे ॥ याव आगन्तुका(३२ ४)नां भिक्षूणां
गणो आगतो पानीयं मार्ग्गन्ति । न लभन्ति । ते दानि ओध्यायन्ति किन् दानि
अयं पानीयमण्डपो तायितमुद्रितो करिय थपितो आहंसुः । आम
भगवन्
भगवानाह । तेन हि एवं पानीये प्रतिपद्यितव्यम् । एवं
पादधोवनीये प्रतिपद्यितव्यम् । किन् ति दानि एवं पानीये
प्रतिपद्यितव्यम् । एवं पादधोवनीये प्रतिपद्यितव्यम् । नायं क्षमति
(३२ ५) पानीयं परिश्राविय पानीयमण्डपं घट्टिय तापि(यि)य मुद्रितं
करिय अन्येन गन्तुम् । अथ खलु पानीयवारिको ताव उद्दिशितव्यो ।
नवकान्ते पटिप(पा)टिकाय वा यस्य वा प्रापुणति । एको वा द्वयो वा
त्रयो वा यत्तका वा अभिसंभुणन्ति । तेहि कल्यत एव उत्थिय हस्तां
निर्म्मादिय (इइ.प्.१२) पानीयं परिश्राविय गोलका वा मणिका वा उष्ट्(र्)इका
(३२ ६) वा थगनका वा आरंजरा वा घट्टा वा करकीयो वा अप्पिहाणा
कर्त्तव्या । शील(शिला)मया वा मृत्तिकामया वा काष्ठमया वा अच्छेहि
वा चेलष(प)ट्टेहि वा बन्धितव्या । यो सुभाविता करिय थपेतव्या ।
यथा पानीयं चौक्षं भवेय । न दानि (ज्.१४९) कुक्कुटपाशकेन
बन्धित्वा स्थापेतव्यम् । तेहि भाजनेहि प्रक्षिपितव्या पाटलागुलिका वा
चम्पकगुलिका वा शर्करा वा सर्व्वङ्क(३२ ७)र्त्तव्यम् । यथा सुगन्धा
भवेंसु । ततो यदि ताव अन्यं पिबनाये पानीयं भवति । अन्यं
पादधोवनीयं परिश्रावितव्यम् । परिवोध(धोव)नीयेन पानीयेन
शिरिकुण्डिका पूरयितव्या । आकल्पियकर्क्करी पूरयितव्या । पादधोवनिका
पूरयितव्या । वर्च्चकुम्भिका पूरयितव्या । भिक्षूणां हस्तोदकस्य
पात्रोदकस्य पारिभोगिकस्य कुम्भिका च करका च पूरयितव्या ।
गो(३३ १)गोत्रस्थाप(स्थपा)नीयं भवति । यथा पाटलिपुत्रे शोणपानीयं
राजगृहे तयोत(पोद)ं वाराणस्यां बुद्धविचीर्ण्णा नाम पुष्किरिणी
चम्पायां गंगापानीय(ं) श्रावस्त्यां पे(पो)तलेयं शाकेते
धरपानीयम् । मथुरायां यमुना न क्षमति ततो पानीयातो
कल्पियकरकी वा अकल्पियकरकी वा वर्च्चकुम्भिका वा पूरयितुम् ।
हस्तोदकपादोदकं वा पानीयं दातुम् । अथ खलु ततो पिबनाये (३३ २)
दातव्यम् । अथ दानि श्राद्धो भिक्षुर्भवति । ततो एव श्रीकुण्डिकां
पूरेति अनापत्तिः । भिक्षुस्य चक्षु दुःखन्ति वैद्यो आह । भन्ते (इइ.प्.१३)
गोत्रस्थेन पानीयेन अक्षिणि धोवाहि त्ति लभ्या दानि पात्रपूरं वा एषो
दानि (ज्.१५०) धोवनिकां वा रजनिकां वा करेति । तस्य उदकेन कार्यम्
भवति । पानीयधा(वा)रिकां याचति इच्छामि पानीयं दीयमानन् ति न
क्षमति । गोत्रस्थमुदकं दातुम् । अथ (३३ ३) खलु पारिधोवनीयं
उदकं दातव्यम् । भक्ताग्रेण पानीयं वा(चा)रेन्तेन हस्तां
सुनिर्म्मादितां कृत्वा भाजनं सुनिर्म्मादितं कृत्वा चौक्षं पानीयं
वा(चा)रेतव्यम् । पानीयं गृह्नन्तेन घर्त्तितव्यम् । यथा एकहस्तो
निरामिषो भवति । अथ दानि सहसाकारेण सामिषीकृतो भवति ।
प्रक्षालयित्वा य(प)त्रशाखाय वा पात्रं वा ओट्ठाचि(३३ ४)क्कणं
भवति निर्म्मादयित्वा पातव्यम् । न दानि अतिबहु(ं) ओष्ठ
प्रक्षिपितव्या । केशा वा आलिहितुं वा निडालं वा । अथ खलु ओष्ठ
प्रमार्जित्वा अग्रोष्ठेहि या(पा)तव्यम् । ततो य्येव स्तोकं वर्जयितव्यम् ।
तेनैव अन्तेन प्रक्षालयन्तेन उज्झितव्यम् । पानीयं वा(चा)रेन्तेन
उपलक्षयितव्यम् । यदि कोचि अतिबहुमोष्ठं वा वोलयति केशा वा
आलयं(३३ ५)ति निलाटे वा अपनेतव्यं तं भाजनमेकान्ते स्थपित्वा तृणं
वा कुलिकं वा उपरि दातव्या । अभिज्ञानम् । यथाज्ञाये अकल्पियन् ति । पुनो
वा निर्म्मादयितव्यम् । पश्चाद्भक्तं पानीयं चारेन्तेन हस्तां
सुनिर्म्मादिता करिय ॥ पे ॥ याव एकिना हस्तेन पानीयं परिगृह्नितव्यम् ।
अपरेण पानीयघटिकां पटिच्छन्तेन चीवर(रा)ंतरिकाय वा
पात्रान्तरिकाये (३३ ६) वा गृह्नितव्यम् । याव तेनैव अन्तरकेन
उज्झितव्यम् । जेन्ताके चारेन्तेन ओष्ठा (इइ.प्.१४) पानीयचारिकाये पात्रं
बन्धितव्यम् । पिबन्तेन ओष्ठा पत्रशाखाये निर्म्मादयित्वा
अग्रोष्ठकेहि पातव्यम् ॥ पे ॥ तं य्येव (ज्.१५१) कर्त्तव्यं प्रहाणे
चारेन्तेन यदि भूम्यास्तरो भवति भाजनानि पत्रशाखाहि
स्थपितव्यानि । ओम्हाय वा वालिकाय वा भाजनेहि वा थपितव्यम् । यदि
अष्ट(३३ ७)भाग चतुर्भागं च निषण्णका भवन्ति । एकेन
मध्यमवा(चा)रके स्थितकेन वा(चा)रेतव्यम् । अपरेण प्रणेतव्यम् । अथ
दानि पटिपाटिकाये दूरे दूरं प्रहाणस्य उपविष्टा भवन्ति । एकेन
चारेतव्यम् ॥ पे ॥ लभ्या दानि पारिधोवनिकातो मुखं वा धोवितुम् ।
हस्तं वा निर्म्मादयितुं, । पात्रपरिश्रावणं वा धोवितुम् । न दानि
क्षमति । झल्लझल्लाये उज्झितुम् । मात्राये (३३ १) उपनामेतव्यम् । न दानि
क्षमति । पारिधोवनियातो स्नापि(यि)तुं वा चीवरं वा धोवितुम् । रञ्जनं
वा कढितुम् । अथ दानि भिक्षू चीवरकर्म्म करोंति । उदकञ्च आविलं
भवति । भाजनं च अतिरिक्तं ति ले(। ल)भ्या दानि पापिचकधर्म्मीय
याचितुम् । आह । आयुष्मन् देहि भूयो आनीय दास्यामि त्ति । किञ्चापि देति
अनापत्तिः । तं पि दानि । गृह्निय आनीय कालेन कालं दातव्यम् । अथ
दा(३३ २)नि आसंनोदको संघारामो भवति । किञ्चापि ततो येव पिबति ततो
येव पारिधोवनीयं करोति । ततो येव हस्तां धोवति रङ्गं वा करोति ।
(ज्.१५२) अनापत्तिः । एवं पानीये प्रतिपद्यितव्यम् । न प्रतिपद्यति ।
आभिसमाचारिकान् धर्म्मानतिक्रामति ॥ * ॥

व्. ५-६ म्स्. ३३ २ (ज्.१५२.३); छ्. ५०७ २१
भगवान् श्रावस्त्यां विहरति । ते दानि आयुष्मन्तो (इइ.प्.१५)
नन्दनोपनन्दना षड्वर्ग्गिका च पादधोंवनिकायां झ(३३ ३)ल्लझल्लां
पादां धोवियाणं सर्व्वमुदकं स्था(च्छो)रिय पादधोवनिकां
ओमुद्धिकां करिय आ(र्)द्रपादकमुपनाहाहि प्रक्षिपिय नैव
कर्द्दमं परिहरन्ति न पांसु कर्द्दमं मर्द्दन्ता पांसु मर्द्देन्ता
दीर्घचंक्रमं चंक्रमन्ति । भिक्षु आगच्छन्ति पादधोवनाय । ते
दानि आहंसुः । मात्राये यूयमायुष्मन्तो पादां धोवथ । उदके पि
खलु [मात्र्]आ (३३ ४) उक्ता भगवता तथैव सर्व्वेहि बाहिरकेहि
जीवितपरिष्कारेहि ते दानि भिक्षु पश्यन्ति । तां पादधोवनिकामृक्तां ते
दानि ओध्यायन्ति । किं दानि अयं पादधोवनिका ओमुद्धिकृता एतं
प्रकरणं भिक्षू भगवतो आरोचयेंसुः । भगवानाह ।
शब्दापयथ । नन्दनोपनन्दनां षड्वर्ग्गिकां च । ते दानि शब्दापिता ।
भगवानाह । सत्यं भिक्ष(३३ ५)वो नन्दनोपनन्दना षड्वर्ग्गिका च
एवं नाम एवं नाम यूयं पादधोवनिकायां गच्छिय झल्लझल्लाये
पादां धोविय उदकं च्छोरिय पादधोवनिकामोमुद्धिकां करिय
आर्द्रपादामुपानहासु प्रक्षिपिय नैव पांसु परिहरथ न कर्द्दमं
कर्द्दमं मर्द्दन्ता पांसु मर्द्दन्ता दीर्घचंक्रमं चंक्रमथ
भिक्षू आगच्छन्ति । पादधोवनिकाये पादां धो (३३ ६)वनाये यूयं
जल्पथ मात्राये आयुष्मन्तो पादां धोवथ उदके पि खलु भगवता
(ज्.१५३) मात्रा उक्ता । तथैव सर्व्वेहि जीवितपरिष्कारेहि ते दानि भिक्षु
पश्यन्ति पादधोवनिकामोमुद्धिकां कृतामाहंसु । आम भगवन्
भगवानाह । दुष्कृतं वो नन्दनो नन्दनोपनन्दना षड्वर्ग्गिका
च । तेन हि एवं पादा धोवितव्या । एवं (इइ.प्.१६) धोवितपादेहि
प्रतिपद्यितव्यं किन् ति (३३ ७) दानि । एवं पादा धोवितव्या । किन् ति दानि
धोवितपादेहि प्रतिपद्यितव्यम् । भगवान् दानि भिक्षूनामन्त्रयति ।
एवं भिक्षवो पादां धोवथ । यथा शारिपुत्रो स्थविरो
एकमिदं भिक्षवो समयं शारिपुत्रो स्थविरो वैशाल्यां विहरति ।
महावने कूटागारशालायां स्थविरो दानि कालस्यैव निवासयित्वा
पात्रचीवरमादाय वैशालीन्नगरीं पिण्डाय प्रविष्टो
प्रासा(३४ १)दिकेन अतिक्रान्तेन प्रतिक्रान्तेन आलोकितविलोकितेन
सन्मिञ्जितप्रसारितेन संघाटीपात्रचीवरधारणेन अन्तर्ग्गतेहि
इन्द्रियेहि अबहिर्ग्गतेन मनसेन स्थितेन धर्म्मतावस्थप्राप्तेन स्मृतो
संप्रजानो मार्गो विय कारितकारणो वेशालीं नगरीं पिण्डाय चरति ।
स्थविरो दानि अपरेण ब्राह्मणेन दृष्टो तस्य ब्राह्मणस्य भवति । इमे
इति (३४ २) कितिकाय पुत्राः । श्रमणकाः ग्रामान्ते इर्यापथं पठयन्ति
निर्द्धाविता च भवन्ति विकोपेन्ति । सो दानि प्रदुष्टचित्तो स्थविरस्य
पृष्ठिमेन पृष्ठिममनुबद्धो यत्र येव अयं श्रमणको ईर्यापथं
विकोपयिष्यति । तत्रैव शे (शीर्षे) खटकं दास्यामि । स्थविरो दानि
ग्रामारण्यसमेन (ज्.१५४) ईर्यापथेन समन्वागतो वैशालीं पिण्डाय
चरित्वा निर्द्धावितो विहारमागतो स्थवि(३४ ३)रो दानि विहारकेस्मिन् पात्रं
निक्षिपिय हस्तां प्रक्षालिय संघाटीं प्रस्फोटिय साहरिय अभ्यन्तरेण
द्विगुणिकां करिय चीवरवंशे स्थपयित्वा पानीयस्य दकानकं पूरीय
पीठका प्रज्ञापिय पादतद्ध(ट्ठ)कमुपनामयित्वा उपानहिकायो
उपनामिय (इइ.प्.१७) उपानहायो( पो)च्छन्नो उपनामिय पादां धोवति ।
स्थविरो दानि दक्षिणेन हस्तेन उदकमा(३४ ४)सिञ्चति । वामेन हस्तेन
पादां धोवति । स्थविरेण दानि वामा जंघा धोविता दक्षिणा जंघा
धोविता वामो पादो धोवितो दक्षिणो पादो धोवितो
उपानहायो(पो)च्छतु(न्न)कं गृह्निय उपानहा संपुटं करिय एकस्य
उपानहो(हा)वद्ध्रो यो(पो)च्छितो द्वितीयस्य उपानहावद्ध्रो पोच्छितो
एकस्य उपानहातलं यो(पो)च्छितं द्वितीयस्य उपानहा(३४ ५) तलं
पोच्छितम् । उपानहिकायो निक्षिपिय दकानकातो वामाये कलाचीये उदकं
आवर्जयित्वा दक्षिणेन हस्तेन उपानहायो(पो)च्छनकं धोविय
निष्पीडित्वा आतपे शोषयेतं कलाचीय उदकमावर्जिय हस्ता धोता हस्तां
(ज्.१५५) धोविय दकानकं धोविय पानीयावशेषं च्छोरिय आतपे शोषितं
सो दानि ब्राह्मणो [त]स्य (३४ ६) आचारगोचरं पश्यिय तुष्टो सो दानि
प्रसन्नचित्तो आह । यथापि इमं भवता शारिपुत्रेण दकानकम् ।
उपचीर्ण्णं यो पि सो ब्राह्मणानामुष्णोदककरको सो पि न एवं शुची
लभ्या खलु इतो पानीयं पातुम् । स्थविरेण दानि तस्य ब्राह्मणस्य
प्रसन्नचित्तस्य चत्वार्यार्यसत्यानि प्रदर्शितानि दुःखमार्यसत्यं
दुःखसमुदयमार्यसत्यं दुःखनि(३४ ७)रोधमार्यसत्यं
दुःखनिरोधगामिनी प्रतिपदमार्यसत्यम् । तेन दानि ब्राह्मणेन
तत्रैव स्थाने स्थितेन श्रोतापत्तिफलं साक्षात्कृतं भिक्षू दानि
भगवन्तमाहंसु । यस्य भगवान् कथमयं ब्राह्मण
स्थविरस्याचारगोचरेण तुष्टो भगवानाह । न एतर्हि एवमन्यदापि
एषो एतस्य आचारगोचरेण तुष्टो न्यदापि भगवनन्यदापि (३४ १)
भिक्षवो भूतपूर्व्वं भिक्षवो अतीतमध्वानमेतहिं च नगरं
(इइ.प्.१८) वाराणसी काशिजनपदो । तत्र दानि अग्रकुलिको आढ्यो महाधनो
महाभोगो प्रभूतधनधान्यकोशकोष्ठागारो
प्रभूतजातरूपरजतवित्तोपकरणो प्रभूतहस्त्यश्वाजगवेडको
प्रभूतदासीदास(ज्.१५६)कर्म्मकरपौरुषेयो । तस्य दानि एको पुत्रो
अचिरजातो सो (३४ २) दानि मातापितृभिरुन्नीयति वर्द्धीयति । यं कालं
सप्तवर्षो ष्टवर्षो वा सो दानि मातापितॄणां पूर्व्वोत्थायी
पश्चान्निपाती प्रियवादी मनापवादी । किंकरपरिश्रावको तस्य दानि
श्रेष्ठिकस्य कुलपुत्रका गृहमोचरन्ति । तस्य गृह(ं) गुप्तञ्च
सुरक्षितञ्च न पारेन्ति ओतारं विन्दनाय । कदाचि दानि सो श्रेष्ठि
अपरेहिं ज्ञातिसाले निमन्त्रितको गतो व(३४ ३)र्षारात्रिकं तं दार(क)ं
रक्षपालं थपियाणं पुत्र द्वारं घट्टियाणं रक्षमाणो आसेसि । सो
दानि दारको श्रेष्ठिना सपरिवारेण गतेन गृहस्य द्वारं घट्टियाणं
रक्षमाणो आसति तेहि दानि कुलपुत्रकेहि ओतारो लब्धो । ते दानि तं गृहं
ओक्खन्दियाणं प्रविष्टा ते दानि उल्कायो च दीपिकायो च प्रज्वालियाणं
मार्ग्गन्ति । सो एको दा(३४ ४)रको दृष्टो ते दानि पृच्छन्ति । दारक कहिं
तुम्हाणं हिरण्यं वा सुवर्ण्णं वा । सो दानाह । अहं पि न जानामि ।
एतं गृहं शून्यकं मार्ग्गिय मार्ग्गिय यं लभथ तं गृह्नथ तेहि
दानि मार्ग्गिय मार्ग्गिय प्रभूतं हिरण्यसुवर्ण्णं गृहस्य
मध्यमागारे महान्तं कूटं कृतं यो तेषां चोरसेनापतिः । सो
गृहस्य (ज्.१५७) मध्यागारे उपविष्टः । सो दान(नि) चो(३४ ५)रसेनापतिः
पिपासितः । तस्य दारकस्याह । हंघो दारक पिपासितो स्मि । इच्छामि
पानीयं पातुं सो दानि दारको चौक्षसमुदाचारो भाजनं गृह्निय
परिमार्जिय हस्तां सुधा(धो)तां कृत्वा भाजनं सुधोतं कृत्वा
उदकस्य पूरिय (इइ.प्.१९) यत्र दीपा दीप्यन्ति तत्र अल्लीनो सो दानि
सुप्रत्यवेक्षितं करिय चोरसेनापतिस्य अल्लीनो सेना(३४ ६)पति पिबाहि त्ति
तेनापि दानि चोरसेनापतिना तस्य दारकस्य पानीयं देन्तस्य सर्व्वम्
उपलक्षितम् । सो दानि पृच्छति हंघो दारक कस्य कृतेन त्वमत्र
दीपमूलमल्लीनोसि सो दानि आह । सेनापति पानीयं प्रत्यवेक्षितुं, । मा
अत्र पानीयस्मिं तृणो वा भवे प्राणको वा तेन सेनापतिस्य अफासु
भवेय । सो दानि सेनापति तस्य आचारगोचरेण तुष्टो (३४ ७) तस्य भवति
सेनापतिस्य मा ताव मा ताव अस्माकं ताव एषो वधकानां
प्रत्यर्थिकानां प्रत्यमित्राणामर्थकामो हितकामो को पुनर्व्वादो यो
एतस्य मातापिता वा ज्ञातिका वा तेहि एषो कथममैत्रचित्तो भविष्यति यदि
वयमिमस्य दारकस्य एवं धर्म्मिष्ठस्य इमं हिरण्यसुवर्ण्णं
हराम प्रतिचोरेहि पि मुष्येम ग्रहणं पि गच्छेम । राजकुले पि
वध्येम । सो दानि (३५ १) चोरसेनापति पानीयं पिबिय तां सर्व्वां चोरां
शब्दापिय पृच्छति । को भणे को अहं युष्माकं ते दानि आहंसु ।
सेनापति आह । भवन्तो अहमिमस्य दारकस्य एवं च एवं च
आचारगोचरेण तुष्टो यदि वयमेतस्य धर्म्मिष्टस्य एतं हिरण्यं (ज्.१५८)
सुवर्ण्णं हरेम प्रतिचोरेहि वा वयं मुष्येम ग्रहणं पि गच्छेम ।
राजकुले पि वध्येम । यदि युष्माकमनुकूलं (३५ २) भवे मुञ्चेम
वयमेतमेतस्य हिरण्यसुवर्ण्णमन्यं वयं चोरयिष्यामः । ते दानि
आहंसुः । यथा सेनापतिकस्य रुच्यति । सो दानि दारकस्याह । हंघो
दारका इमं वयं तव सर्व्वं हिरण्यं सुवर्ण्णं देमि ते दानि चोरा
निर्द्धापिताः । तेन दारकेन द्वाराणि सर्व्वाणि घटितानि देवता गाथां
भाषते ।
(इइ.प्.२०) आचारगुणसम्पन्नाः । ये भवन्ति तु मानवाः ।
(३५ ३) लभन्ति विपुलामर्थां यथा पानीयदायकः ।
आचारं शिक्षितं श्रेयो अनाचारं न शिक्षितम् ।
चोरेहि गृहीतो संतो मुक्तो आचारकारणात् ॥
घात्या भवन्त्यघात्याचारं शिक्षियाणं विनयं च
स्थानेषु च ऐश्वर्यं लभन्ति आचारगुणयुक्ताः ॥
वध्या भवन्त्यवध्या आचारं शिक्षियाणं विनयं च ।
तस्मान्नरेण सततमाचारगुणेन भवि(३५ ४)तव्यम् ।
रौद्रा लोहितपाणी चौरा तुष्यन्ति ताडृशा सन्ता ।
आचारेण अनार्या आर्या जातावक्रान्ताः ॥
(ज्.१५९) भगवानेतस्मिन् वस्तुनि धर्म्मपदं भाषते ।
न ब्राह्मणस्य प्रहरेय नास्य मुंचेय ब्राह्मणो ।
धिग्ब्राह्मणस्य हन्तारं तं पि धिक्यो स्य मुंचति ॥
भगवानाह । स्याद्वो भिक्षवो एवमस्यादन्यो सौ तेन कालेन तेन
समयेन ++(३५ ५) भवति अग्रकुलिकस्य पुत्रो नैतदेवं द्रष्टव्यम् ।
एषो शारिपुत्रो स्थविरो अन्यो सो चोरसेनापति एषो ब्राह्मणो तदापि एतस्य
एषो आचारगोचरेण तुष्टो एतर्हि पि एषो स्थविरस्य आचारगोचरेण तुष्टो ।
एषो दानि भिक्षु यदा ग्रामातो निर्ग्गतो भवति । ततो ग्रामप्रवेशिकं
चीवरं प्रस्फोटित्वा अत्यन्तपरि(३५ ६)कर्म्मं साहरित्वा स्थपेतव्यम् ।
आरामचरणकं प्रावरित्वा आसनं प्रज्ञपेतव्यं पादोपवा(धा)नकं
उदकदानं पि च उष्ठपयित्वा चेलखण्डेन रजो प्रस्फोटितव्यो
दकानकं कलाचीयम(आ)वर्जेत्वा चोलकं धोवित्वा निष्पिडित्वा उपानहा
(इइ.प्.२१) निर्म्मादयितव्या ॥ पे ॥ याव चोलकं निष्पिडित्वा थपेतव्यो । मा
प्राणका जायेंसु (ज्.१६०) नीलिकाय वा भवेंसु । भिक्षुणापि ताव (३५ ७)
पादां धोवन्तेन दक्षिण(णेन) हस्तेन उदकमासिंचितव्यम् । वामेन
हस्तेन पादां धोवितव्या वामा ताव जंघा धोवितव्या दक्षिणा ताव
जंघा धोवितव्या । वामो पादो धोवयितव्यो दक्षिणो पादो धोवयितव्यो ।
उपानहायो प्रस्फोटित्वा संपुटीकृत्वा एकस्योपानहाये वद्ध्रो
पोच्छितव्यो अपरस्य वद्ध्रो पोच्छितव्यो । एकस्य उपानहाये तलं (३५ १)
पोच्छितव्यम् । द्वितीयस्य उपानहाये तलं पोच्छितव्यं कुण्डिकातो वा
करकतो वा कलाचीये उदकमावर्जिय उपानहापोच्छनकं धोवितव्यम् ।
पीडिय आतपे शोषयितव्यम् । कलाचीये उदकमावर्जिय हस्ता धोवितव्या न
क्षमति उपानहाहि आर्द्रपादेन प्रवेशयितुमथ खलु यं कालं
अध्वाता भवन्ति । ततो प्रवेशयितव्यो । अथ खलु दानि (३५ २)
सर्व्वसंघस्य पादधोवनिका भवति । न क्षमति भिक्षुणा
झल्लझल्लाये पादां धोवितुमुदकं च्छोरयि(रिय) ओमुद्धिकां
पादधोवनिकां कर्त्तुम् । अथ खलु अच्छटिकां करेन्तेन
पादधोवनिकायां प्रविशितव्यम् । यदि ताव कोचि भिक्षुः पूर्व्वप्रविष्टो
भवति । आगमितव्यम् । याव तेहि । धोविता पादा न्ति(त्ति) अथ दानि
खणुइ(खाणु)कापादधोवनिका भवति । त्रीणि वाचायो
जल्पयित(३५ ३)व्यो(व्या)।यो को वृद्धतरको वृद्धो(द्धे) न्ति(त्ति) । यदि ताव
कोचि वृद्धतरको भवति । अन्तरं दातव्यम् । यं कालं तेन पादा
धोविता भवति । उपविशितव्यम् । अथ दानि कोचि वृद्धतरको न भवति ।
एवं पि उपविशितव्यम् । ततो यदि ताव दक्षिणान्ते पादधोवनिका (ज्.१६१)
भवंति । दक्षिणेन (इइ.प्.२२) अन्ते(हस्ते)न उदकमासिञ्चितव्यम् । वामेन
हस्तेन पादा धोवितव्या । (३५ ४) वामा ताव जंघा धोवितव्या ।
दक्षिणेन(णा) जंघा धोवितव्या । वामो पादो धोवितव्यो । दक्षिणो पादो
धोवितव्यो । अथ दानि वामान्ते पादधोवनिका भवति । वामेन हस्तेन
उदकमासिञ्चितव्यम् । दक्षिणेन हस्तेन पादा धोवितव्या । नापि दानि
क्षमति तेनैव हस्तेन उदकमासिञ्चितुम् । अथ दानि द्वे जना भवन्ति ।
एकेन आ(३५ ५)सिञ्चितव्यम् । एकेन धोवितव्यम् । दक्षिणा ताव जंघा
धोवितव्या । वामा जंघा धोवितव्या । दक्षिणो पादो धोवितव्यो । वामो
पादो धोवितव्यो उपानहायो संघा(पु)टीकरिय एकस्य उपानहाये वध्रो
पोच्छितव्यो । द्वितीयस्य वध्रको पोच्छितव्यो । एकस्य उपानहाये तलं
पोच्छितव्यम् । द्वितीयस्य उपानहाये तलं पोच्छित(३५ ६)व्यम् । यदि तहिं
कोचि भिक्षु भवति नवतरको सो वक्तव्यो उदकमासिञ्चिहि न्ति(त्ति) ।
उपानहापोच्छन्नो धोविय पीडिय तत्रैव स्थपितव्यम् । हस्तान्
निर्म्मादियाणमथा(ध्वा)तायामुपानहायां प्रक्षिपितव्यम् । नापि
क्षमति । पादधोवनिकायामोगुण्ठितशीर्षेण ओहितहस्तेन वा ।
पादधोवनिकाया उपविशितुम् । अथ खलु एकांसी(ज्.१६२)कृतेन
उपविशितव्यम् । नापि दानि (३५ ७) क्षमति पादधोवनिकायां
उद्देशप्रयुक्तेन वा मनसिकारप्रयुक्तेन वा मिद्धान्तरगतेन वा
निरोधसमापत्तिं चिन्तन्तेन आसितुम् । अथ खलु पादेहि धोवितेहि उत्थिय
गन्तव्यम् । धूली परिवर्जन्तेन गन्तव्यम् । नापि दानि क्षमति पादेहि
धोवितेहि दीर्घचंक्रमं चंक्रमितुम् । अथ दानि भिक्षुः स्वाध्यायं
करोति । पादेहि धोवितेहि चंक्रमन्ति भूयो धो(३६ १)वितव्या । अथ दानि
हेमन्तकालो भवति भिक्षुः पश्यति को भूयो धोविष्यतीति । अन्तमसतो
लेङ्कटखण्डेन (इइ.प्.२३) वामहस्तेन वा आमर्जिय प्रविशितव्यम् । एवं
पादा धोवितव्या । एवं धोवितपादेहि प्रतिपद्यितव्यम् । न प्रतिपद्यति ।
आभिसमाचारिकान् धर्म्मानतिक्रामति ॥ * ॥

व्. ७-८ म्स्. ३६ १ (ज्.१६२.११); छ्. ५०८ २४
भगवान् राजगृहे विहरति । विस्तरेण निदानं कृत्वा जीवको
कौमारभृत्यो भ(३६ २)गवन्तं याचति । अनुजानातु भगवान्
श्रावकानां जेन्ताकं वातपित्तश्लेष्मकानां पय(फा)सु भविष्यति ।
भगवानाह । तेन हि अनुजानामि । एषा एवार्थोत्पत्तिः ॥ * ॥
भगवान् श्रावस्त्यां विहरति । संघस्य दानि जेन्ताको ते दानि
आयुष्मन्तो षड्वर्ग्गिकाः । प्रतिकृत्येव गच्छिय जेन्ताकं प्रज्वालीय
द्वारं घट्टिय स्वेदत्ता आसन्ति । आगता भिक्षू द्वारं याव(च)न्ति (३६ ३)
आयुष्मन्तो देथ द्वारम् । ते दानि आहंसु । आगमेतुं(ंतु) । आयुष्मन्तो न
ताव (ज्.१६३) जेन्ताको तत्तो भवति । यं कालं भिक्षु सन्निपतिताः । तं
कालं सर्व्वं तैलमुपयोजिय सर्व्वं चूर्ण्णमुपयोजिय सर्व्वमुदकं
च्छोरिय सर्व्वं, काष्ठमग्नौ प्रक्षिपिय जेन्ताकमपदुरिय
निर्द्धाविताः । आहंसुः । प्रविशन्तु आयष्मन्तो जेन्ताको तप्तो (३६ ४) ते
दानि भिक्षु शीतप्रष्टव्येन स्पृष्टाः । त्वरितत्वरितं प्रविष्टा ते दानि
यं कालं तेहि आयुष्मन्तेहि षड्वर्ग्गिकेहि द्वारमाघट्टिय
बाहिरवितण्डितं कृतम् । ते दानि तैलं मार्ग्गन्ति न लभन्ति चूर्ण्णं
मार्ग्गन्ति न लभन्ति । उष्णेन च धूमेन च संतापिताः । उदकं न
लभन्ति । ते दानि द्वारमागच्छन्ति । याव बाहिरवितण्डितं कृतम् । ते
दानि आहंसुः । (३६ ५) आयुष्मन् षड्वर्ग्गिकाः । ओसरथ द्वारं (इइ.प्.२४)
धूमेन च उष्णेन च मराम । ते दानि हसन्ति च विलेक्षन्ति च । ते दानि
आहंसुः । स्वेदन्तु आयुष्मन्तो उत्पातगण्डपिटकानां
वातपित्तश्लेष्मिकानां फासु भविष्यति । ते दानि यं कालं धूमेन च
उष्णेन च सुष्ठु संतापिताः । तं वेलं जेन्ताकस्य द्वारं मुक्तं ते
दानि उष्णेन च सन्तापिताः । बाह्यतो पि (३६ ६) उदकं मार्ग्गन्ति न
लभन्ति ते दानि आहंसु स्तोकस्तोकमायुष्मन मात्राये उपनेथ उदके पि
मात्रज्ञता उक्ता भगवता एतं प्रकरणं भिक्षू भगवतो
आरोचयेंसुः । भगवानाह । शब्दापयथ षड्वर्ग्गिकाम् । ते दानि
शब्दापिताः । भगवानाह । सत्यं भिक्षवो षड्वर्ग्गिकाः । एवन्नाम
संघस्य जेन्ताको त्त(त्ति) । तदेव सर्व्वं भगवान् वि(ज्.१६४)स्तरेण
प्रत्यारो(३६ ७)चयति । याव एते दानि भिक्षू उष्णेन च धूमेन च
सन्तापिता निर्द्धाविता बाह्यतो पि उदकं मार्ग्गयन्ति । न लभन्ति ।
यूयं दानि आहंसु स्तोकंस्तोकमायुष्मन्मात्राये उपनेथ उदके पि
मात्रज्ञता उक्ता भगवता । आहंसु । आम भगवन् भगवानाह ।
दुष्कृतं वो भिक्षवो षड्वर्ग्गिकाः । ना(अ)हं भिक्षवो षड्वर्ग्गिकाः ।
अनेकपर्यायेण मेत्रं कायकर्म्म वदामि (३६ १) सब्रह्मचारिषु
ध्रुवं प्रत्युपस्थापयितव्यम् । आवि चैव रहो च मैत्रं वाचाकर्म्मं
मैत्रं मनोकर्म्मं सब्रह्मचारिषु ध्रुवं प्रत्युपस्थापयितव्यम् ।
आवि चैव रहो च तत्र नाम यूयमिदमेवंरूपं पापकर्म्मम्
अकुशलन् धर्म्ममध्याचरिष्यथ । तेन हि एवं स्नाने
प्रतिपद्यितव्यम् । एवं जेन्ताके प्रतिपद्यितव्यं किन् ति दानि एवं स्नाने
प्रतिपद्यितव्यम् । एवं (३६ २) जेन्ताके प्रतिपद्यितव्यम् । जेन्ताकं करेन्तेन
वट्टितो वा कर्त्तव्यो चतुरस्रो वा विदिशं द्वारं कर्त्तव्यम् ।
वातपानीयं वीथी कर्त्तव्या । अत्य(भ्य)न्तरे विशाला बाहिरतो (इइ.प्.२५)
संद्यि(क्षि)प्ता । एकाये वातधा(पा)नीये वीथीये द्वौविका भवति द्वितीया
कर्त्तव्या भूमि अस्तरितव्या उपलेहि वा पक्षिट्टिकाय वा
सुधामृत्तिकालेपो वा कर्त्तव्यो । उद्विद्धवीथी कर्त्तव्या । भ्(र्)अष्टिका
(३६ ३; ज्.१६५) कर्त्तव्या । येन द्वाराहेष्ठतो विशालाहि उपरि संक्षिप्ता
उद्वेधो निर्घु(मु)ष्टिका त्रयो हस्ता कर्त्तव्या विस्तारेण नि(र्)मुष्टिका वा
भूमितो अर्धहस्तोपस्थ(स्थू)लतरिका कर्त्तव्या । उल्कभ्रमो
कर्त्तव्यो । येन भ्रष्टिका समन्तेन कर्त्तव्यं कपाटं कर्त्तव्यम् । यदि
ताव भ्रष्टिका दक्षिणतो भवति । वामतो कपाटं कर्त्तव्यम् । अथ वा
न(वा)मतो भ्रष्टि(३६ ४)का भवति । दक्षिणतो कपाटं कर्त्तव्यम् । न
दानि क्षमति । सूचिकबन्धिमं कर्त्तुं, । घटिका बन्धिमं कर्त्तव्यम् ।
नापि दानि क्षमति तदा कर्त्तव्यम् । यथा सुखेन तप्यति । अथ खलु
तथा कर्त्तव्यम् । यथा य(ये)व फलमात्रेण लग्ग बाहिरतो चीवरकुटी
कर्त्तव्या । नागदन्तकवीथी कर्त्तव्या यतायेतार्थायैव भवति
जेन्ताकवारिका वा आरामिका वा (३६ ५) तेहि जेन्ताके सन्तानिका
शाटयितव्या । सिञ्चित्वा सम्मार्जयितव्यो । काष्ठं से(स)ज्जेतव्यम् । भण्डा
सज्जयितव्या । घटा वा सज्जेतव्या । कुण्डा जेन्ताके पीठिका वा शुक्तिकायो
वा धोवितव्या । काष्ठं भ्रष्टिकायामाजुहि(ज्.१६६)तव्यं गण्डी
आकोटेतव्या । अग्निर्दातव्यो उदकमाहर्त्तव्यम् । ते दानि अग्नि दत्वा
पश्चाद्गण्डी आकोटेतव्यो अग्निर्दातव्यो । (३६ ६) उदकमाहर्त्तव्यम् । न
दानि अग्निं दत्वा पश्चाद्गण्डी आकोटेतव्या । अथ खलु गण्डि आकोटेत्वा
अग्निर्दातव्यो । मा एवमेव काष्ठं दह्येय जेन्ताकस्य गण्डी (इइ.प्.२६)
आकोटिताजे जानितव्या । किमेषो जेन्ताको सर्व्वसांघिको पारिवेणिको
यथायो(पर्षाये ।) यदि ताव पर्या(र्षा)ये भवति । ये तहिं पर्या(र्षा)ये
तहिं गन्तव्यम् । अथ दानि परिवेणिको भवति । ये तस्मिं परिवेणिका संति
तेहि ग(३६ ७)न्तव्यम् । अथ दानि सर्व्वसांघिको भवति तथा एवं
स्नायन्तेन चीवरकं साहरित्वा एकस्थाने स्थवितव्यं लोढिकेन वा
पटिकाय वा चीवरंच(वं)शे वा थपेतव्यो जेन्ताकपीठे वा प्रविशतेन
न दानि क्षमति । [ब्]आहा भ्रामयन्तेन प्रविशितुम् । अथ खलु एकेन
हस्तेन अग्रतो प्रतिच्छादित्वा प्रवेष्टव्यम् । एको निष्क्रामति । एको
प्रविशति । यो प्रविशति । तेनान्तरं दात(३७ १)व्यम् । न दानि आस(ज्.१६७)नानि
वा भाजनानि वा वृद्धतरकं वा भिक्षुं लंघयन्तेन गन्तव्यम् ।
संप्रजाननेन गन्तव्यम् । यदि दानि उपाध्यायो वा आचार्यो वा
प्रविष्टको भवति । न दानि बाहिरतो विक्रोशितव्यम् । स्नायामि आचार्य
स्नायामि उपाध्याय न्ति(त्ति) अथ खलु चीवरकानि स्थापित्वा प्रविशित्वा
तस्य ताव परिकर्म्म कर्त्तव्यम् । अथ दानि अन्यस्यापि कर्त्तुकामो
भवति । आपृच्छित्वा कर्त्त(३७ २)व्यम् । अथ दानि सो प्रकृत्येव भणितो
भवति । असुकस्य वा असुकस्य वा परिकर्म्म कुर्येसि त्ति । किञ्चापि
अनापृच्छित्वा करेति । अनापत्तिः । यदि ताव अग्नि बहलको भवति । नवकेहि
अग्रतो स्थातव्यम् । अग्नि प्रतिवाहेन्तेहि । अथ दानि अग्निर्म्मन्दो भवति ।
वृद्धेहि अग्रतो स्थातव्यम् । परिकर्म्म करेन्तेहि न दानि स्वेदेन वा
मलेन वा उस्फोषेतव्यो । उषान्तके(३७ ३)न स्नानेन वा प्रतिपन्नेन वा
(इइ.प्.२७) परिकर्म्म कर्त्तव्यम् । अन्तेवासिकेहि वा सार्व्वे(र्द्धे)विहारिकेहि
वा परिकर्म्म करेन्तेन न दानि अपूर्व्वचरिममुभयबाहा
प्रसारेतव्या । अथ खलु हस्तेन अग्रतो प्रतिच्छादयितव्यम् । अपरेण
परिकर्म्म कारयितव्यम् । अथ दानि भिक्षुः प्रहाणिको भवति । न दानि
क्षमति । तेहि अग्नि(ं) प्रजुहित्वा उदकं प्रविशिषित्वा (३७ ४) उदकतमं
बन्धित्वा द्वारं पिहित्वा शालं बन्धित्वा प्रहाणमासितुं, ।
प्रस्वेदंतेहि न दानि क्षमति तैलेन शोषयितुम् । अथ खलु मिनीय
दातव्यम् । चषकेन वा करण्डिकाय वा हस्तसंज्ञाय वा भाजनकेन वा
(ज्.१६८) दातव्यम् । नापि दानि क्षमति । चूर्ण्णं राशीय उपनेतुम् । मिनीय
दातव्यम् । मानभण्डे वा भाजनेन वा हस्तसंज्ञाय वा पिण्डि(३७ ५)कम्
वा पट्टिय दातव्यम् । अथ दानि दानपति आहंसुः । यावदर्थं
भदन्ता उपनेतुं(ंतु) । एवं पि कृत्वा मात्राये । उपनेतव्यम् । जेन्ताकं
प्रविशन्तेन उदकस्य प्रत्ययो जानितव्यो । कथं दीयति । यदि ताव
मितकं दीयति । उष्णोदकं घटेन वा कुण्डेन वा तेन तथा येव
ग्रहेतव्यम् । अथ दानि प्रकृत्येव आहंसुः । या(यो) प्रतिबलो (३७ ६) भवति
उदकमुपस्थापेतुम् । सो प्रविशतु । यो प्रतिबलो भवति । उदकं
उपस्थापेतुं तेन प्रवेष्टव्यम् । अथ दानि अन्तेवासिको (वा)
सार्व्व(र्द्धे)विहारिको वा आहंसु । उपाध्यायाचार्या प्रविशथ वयम्
उदकमुपस्थापयिष्यामि त्ति ॥ प्रवेष्टव्यमेवं पि कृत्वा मात्राये
उपनेतव्यम् । उपासका वा कर्म्मकरा (वा) आरामिका वा आहंसु ।
प्रविशन्तु आर्यमि(३७ ७)श्राः वयमुदकं दास्यामः । प्रवेष्टव्यं
मात्राये उपनेतव्यम् । अथ दानि ओघो वा पुष्किरिणी वा तडागो वा भवति
किञ्चापि यावदर्थमुपनेन्ति । अनापत्तिः । न क्षमति । अभ्यवकाशे
नग्नस्य नग्नेन परिकर्म्म (इइ.प्.२८) कर्त्तुम् । अथ दानि उदकस्य
प्रतिच्छन्नं भवति नाभिमात्रं वा उदकमनापत्तिः । अथ दानि
जानुमात्रमुदकं भवति । उपविष्टेन (३७ १) कर्त्तव्यम् । यथा
नाभिप्रतिच्छन्ना भवेय न क्षमति आत्मनो (ज्.१६९) चीवराणि गृह्नित्वा
परस्य चीवरेहि समाकुलीकृत्वा स्थापेतुम् । अथ खलु यथास्थाने
स्थापयित्वा गन्तव्यम् । एतं दानि जेन्ताकस्य आरोचितं भवति । जानितव्यम् ।
किमयं जेन्ताको एकतो सांघिको पर्षायं परिवेणिको निमन्त्रितकानां ति
यथा भवति तथा गन्तव्यम् । यदि ताव एकतो सांघिको भवति । (३७ २)
सर्व्वंसंघेन गन्तव्यम् । अथ दानि पर्षाये भवति । तेहि गन्तव्यम् ।
परिवेणिको भवति । परिवेणिकेन गन्तव्यम् । निमन्त्रितकानां भवति ।
निमन्त्(र्)इतकेहि गन्तव्यम् । अथ दानि आरोचीयति । भन्ते यस्यास्ति तैलं च
चूर्ण्णं च ततो आगच्छन्तु न्ति(त्ति) । ततो यस्यास्ति तैलं च चूर्ण्णं च तेहि
गन्तव्यम् । अथ दानि भिक्षु जरादुर्ब्बला वा व्याधिदुर्ब्बला वा
भवन्ति । तस्य (३७ ३) सर्व्वे(सार्द्धे)विहारिका भवन्ति अन्तेवासिका वा तेहि
वक्तव्यम् । उपाध्यायाचार्या आगच्छाहि स्नाहि वयं तैलं वास्याम । यदि
स्नायितुकामो भवति गन्तव्यम् । अथ दानि न स्नायितुकामो भवति ।
वक्तव्यं सु(स)गोत्रीमाता गच्छथ यूयं नाहं स्नापयिष्यामि । अथ
दानि जेन्ताको सांघिको भवति दायकदानपती वा देन्ति गण्डी
आहनि(३७ ४)तव्या । आरोचयितव्यमायुष्मन् तैलं भविष्यति । चूर्ण्णं
भविष्यति । उदकं भविष्यति । (स्)नायंतु आयुष्मन्तो (ज्.१७०)
येन्ताकवारिका अध्येषितव्याः । तेहि जेन्ताको प्रज्वलितव्यो
जेन्ताकपीठकानि प्रवेशयितव्यानि । तैलं प्रवेशयितव्यम् । चूर्ण्णं
प्रवेशयितव्यं,। शुक्तियो प्रवेश(इइ.प्.२९)यितव्यो । उदकं तापयितव्यम् ।
यदि ताव अल्पं (३७ ५) तैलं चूर्ण्णं भवति । मितकं दातव्यम् । तैलं
म(स)ंचयितव्यम् । उदकं भावयितव्यम् । अथ दानि बहुं भवति ।
संघसंव्यवहारको वादा(ं) नयति वा जल्पति विस्वस्ता भदन्ता
स्नायन्तु न्ति(त्ति) । एवं पि करिय तैलमात्रा जानितव्या नवकेहि भिक्षूहि
स्थविराणां भिक्षूणां कायपरिचर्या कर्त्तव्या । नापि दानि क्षमति ।
नवकेहि भिक्षूहि उच्चहन्तेहि स्ना(३७ ६)यितुम् । अथ खलु अन्योन्यस्य
सगौरवेहि स्नायितव्यम् । सप्रतिशेहि स्नायितव्यम् । नापि क्षमति ।
उच्चशब्दमहाशब्देहि स्नायितुम् । अथ खलु अल्पशब्देहि अल्पनिर्घोषेहि
जेन्ताके स्नायितव्यम् । अथ दानि प्रश्नो स्थापीयति । किञ्चापि प्रघुष्टेन
स्वरेण प्रश्ना विसर्जेन्ति । अनापत्तिः । यं कालं भिक्षू स्नाता भवन्ति
जेन्ताकवारिकेन तैलं शेषं भवति । प्रवेशयित(३७ ७)व्यः । चूर्ण्णं
शेषं भवति प्रवेशयितव्यम् । जेन्ताकपीठिकानि धोविय
प्रवेशयितव्यानि । शुक्तियो धोविय प्रवेशयितव्यायो यं काष्ठं शेषं
भवति यथास्थाने स्थापेतव्यम् । अथ दानि कोचि पश्चात्प्रविशति ।
आगच्छन्तु आयुष्मन्तो वयमेतं प्रवेशयिश्याम न्ति(त्ति) । गन्तव्यं तेहि
प्रवेशयितव्यम् । मा आदीनवमुत्पादये जेन्ताकं सिञ्चिय सन्मार्जिय
ना(अ)ंगारा(३८ १)नि चापिय जेन्ताकं बाहिरघटितं करिय गन्तव्यम् । एवं
जेन्ताके प्रतिपद्यितव्यम् । एवं (ज्.१७१) स्नाने प्रतिपद्यितव्यं न
प्रतिपद्यति ॥ आभिसमाचारिकान् धर्म्मानतिक्रामति ॥ * ॥

व्. ९ म्स्. ३८ १ (ज्.१७१.३); छ्. ५०९ १४
भगवान् श्रावस्त्यां विहरति । पञ्चार्थवशां विस्तरेण निदानं कृत्वा
याव अद्राक्षीद्भगवां पञ्चाहिकां (इइ.प्.३०) विहारचारिकांम्
अनुचंक्रमन्तो अनुविचरन्तो विहारकेहि भण्डमुज्झितावकीर्ण्णे (३८ २)
तिष्ठति स्थालीयो पीठरिका अधोतका अनुपलिप्ता नकूलमूषिकेहि
आलुप्यमाना ओदनमानिकायो हस्ता काकशकुन्तेहि निक्खोडियन्ता द्रोणीयो
उद्वायो परियो भक्तपीठिका माणिकं चंगेरियो शुष्यायो पटलकाम् ।
भगवां जानन्तो येव पृच्छति । किमियं भिक्षवो भाण्डं
उज्झितप्रकीर्ण्णं तिष्ठति ।
तेन हि एवं भण्डे प्रतिपद्यितव्यम् । (३८ ३) किन् ति दानि एवं भण्डे
प्रतिपद्यितव्यम् । एतं दानि संघस्य अनुग्रहो भवति नित्यपवना वा
उद्दिशितव्या । मासवारिको वा दशाहवारिको वा तत्र उद्दिशितव्यो ।
पंचाहवारिको वा तेन संघस्य अनुग्रहो साधयितव्यो भिक्षुसंघो
परिवेशापयितव्यो । यं कालं भिक्षुसंघेन भुक्तं भवति यं तत्र
भण्डं भवति लो(३८ ४)हिका (ज्.१७२) वा कटाहका वा स्थाली वा पिठरिका
वा मासवारिकेहि वा पक्षवारिकेहि वा कल्पियकारं शब्दाविय
लिप्तोपलिप्तं करिय ओमुद्धिका स्थपितव्या । सूर्यादि(भि)मुखं यं
कालं शुष्का भवन्ति । कल्पियकुटिं प्रवेशिय स्थापयितव्यानि ।
यथास्थानं यं तत्र भवति । दुग्धघटा वा दधिघटा वा
व्यञ्जनगोलका वा ते सुधोतां (३८ ५) सुप्रक्षालितां कारापयिय आतपे
स्थापयितव्याः । यं कालं शुष्का भवति ततो कल्पियकुटिं प्रवेशिय
स्थापयितव्याः । यं तत्र भवति शतपोतनको वा ताम्रपात्रा वा
लोहपात्रा (इइ.प्.३१) वा कटच्छुका वा तद्दुका वा चषका वा पलीनका वा
पलीनका वा निर्म्मादिता कारापिय कल्पियकुटिं प्रवेशिय यथास्थाने
प्रवेशयितव्यानि । एता भवन्ति (३८ ६) माणिका वा खाणुका वा दुर्व्वा वा
कण्डहस्ता वा कर्क्कटका वा प्रस्फोटिय सुधोतां सुप्रक्षालितां करिय
आतपे शोषयितव्या । यं कालं शुष्का भवन्ति । ततो कीलकेहि ओल्लयित्वा
स्थपितव्या यथा न खज्जेय । उक्कसिय स्थपेतव्या एते खज्जकचंगेरीयो
वनफलचङ्गेरीयो हरीतकीचङ्गेरीयो वा प्रस्फोडिय सुप्रक्षालितां
करिय एकमन्ते स्थपेतव्याः । एते भवन्ति । (३८ ७) वस्त्राभरणका वा
परिश्रावणा वा चतुरस्रका वा साहरित्वा कीण(ल)केहि ओल्लयित्वा
स्थपयितव्या । यथा (ज्.१७३) न (ख)द्येंसु । एता भैषज्यपिषणिका शिला न
दानि कार्य(ं) कृत्वा यथा येव प्रतिलिप्तिका स्थपेतव्या । अथ खलु
सुधोवित्वा यथास्थाने स्थापयितव्या । नापि दानि कल्पिककुटी
अध्युपेक्षितव्या । ओद्द्रिण्णका वा प्रल(लु)ग्गिका वा अचौक्षा वा ।
अप्रतिसंस्कृता वा । अथ ख(३८ १)लु कालेन कालं यदि ताव तृणच्छन्ना
भवति तृणपुलको दातव्यो । गोमयकार्षी दातव्या । अभीक्ष्णं
सन्मार्जयितव्यम् । अथ दानि तृणप्रवेशिका भवन्ति । एकान्ते
स्थषे(पे)तव्यम् । एवं यत्किञ्चित्संघस्य भाण्डं यो यत्र अभियुक्तो
भवति । तेन तं प्रतिसामेतव्यम् । एते भवन्ति रङ्गगोलका वा
रङ्गघटका वा रङ्गकुण्डका वा रङ्गकट(टा)हका वा
माषवारिकस्य वा । (३८ २) पक्ष(वारिक)स्य वा आधीनं भवति । एषो
भिक्षु धोवनिका वा कर्त्तुकामो भवति । मासवारिको वा पक्षवारिको
वा याचितव्यो । अथ दानि द्वे जना (इइ.प्.३२) यांच(चं)रतीति तेन
वृद्धतरकस्य ज्ञातव्यमथ दानिं वृद्धतरकस्य चिरकालो भवति
नवतरकस्य इत्वरकालिकं भवति । नवतरकस्य दातव्यम् । अथ दानि
उभयेषामित्वरकालिकं वृद्धतरकस्य दातव्यमुभये(३८ ३)षां
चिरकालिकं भवति । वृद्ध(ज्.१७४)तरकस्य दातव्यम् । तेन धोवनिका वा
रजनिका वा करिय न क्षमति तथा य्येव उपमक्षितं वा रंगरक्षितं
वा अधोतकं वा अनुपलिप्तकं वा दयितुं न क्षमति । अथ खलु
सुधोतं सुप्रक्षालितं सुलिप्तं सुशुष्कं करियाणं चीवररजूं न दानि
चीवरं रंजेत्वा न तथा येव वितनिका उज्झित्वा गन्तव्यम् । अथ
ख(३८ ४)लु साहरित्वा यथास्थाने स्थापयितव्यम् । वड्ढकिभण्डं
भवति । नासिते वा दानि या वा विशालिका वा सूत्राथ ओलम्बिको धोवित्वा
एकान्ते स्थापेतव्या । तक्षाणं भाण्डं भवति । कुठारो वा वासीयो वा
विहरणको वा निखादनको वा अट्टिला वा एकान्ते स्थपेतव्या । एता
भवन्ति वासीयो वा कुद्दालका वा निश्रेणियो वा (३८ ५) न दानि तथा
येच(व) मृत्तिका प्रलिप्तिका स्थपेतव्या । अथ खलु बोधि(धोवि)सत्वा
यथास्थाने स्थापयितव्यो । तच्चेवं चातुर्द्दिशं सांघिकं
म(भा)ण्डकं रिक्त परिभोगं न दानि कार्यं कृत्वा विहारे गोपित्वा
स्थापेतव्यम् । पुरोकृत्यं सुखं भविष्यति । अथ खलु यस्यैवं (ज्.१७५)
कार्यं भवति । तस्यैवन् दातव्यम् । एवं भाण्डे प्रतिपद्यितव्यम् ।
(३८ ६) न प्रतिपद्यति ॥ आभिसमाचारिकान् धर्म्मानतिक्रामति ॥ * ॥

व्.१० म्स्. ३८ ६ (ज्.१७५.३); छ्. ५०९ ९
भगवान् श्रावस्त्यां विहरति विस्तरेण निदानं कृत्वा (इइ.प्.३३) अपरेहिं
विहारके संबहुला भिक्षू प्रतिसंक्रमति । सो दानि विहारको उप्पेडनको
अपरो च भिक्षुः । विरात्रे उश्वास(च्चार)कारको वा प्रश्वास(स्राव)कारको
वा निर्द्धावितो भवति । स चीवरं चीवरंवंशातो हू(कू)षियाणं पतितो ।
ए(३८ ७)वं भूमीये पतितो तं दानि एकेन आक्रान्तं द्वितीयेन आक्रान्तं
तृतीयेनाक्रान्तं सर्व्वं कर्द्दमेहि अनुप्रविष्टं चीवरकोणको अवशिष्टो
सो दानि अपरेज्जुकातो कल्यत एव निवासिय प्रावरिय चीवरकं मार्ग्गति न
लभति । तेन दानि मार्ग्गन्तेन सो चीवरकोणको दृष्टो तं दानि तहिं
चीवरकर्ण्णके गृह्निय अच्छियं चटन्ति संच(र्व्वं) फाटितम् । ए(३९ १)तं
प्रकरणं भिक्षू भगवतो आरोचयेंसुः । भगवानाह । शब्दापयथ
तं भिक्षुम् । सो दानि शब्दापितो । भगवानाह । एवं च त्वं भिक्षुः
चीवरकं चीवरकोणके गृह्निय अच्छोसि च चटन्ति सर्व्वं फाटितं तेन
हि एवं चीवरे प्रतिपद्यितव्यम् । किन् ति दानि एवं चीवरे प्रतिपद्यितव्यम् ।
एते दानि संबहुला संबहुला भिक्षूः । एकहि विहारके प्रतिक्रमन्ति ।
यदि । (३९ २) ताव सो उप्पेडनको विहारको (ज्.१७६) भवति । नापि क्षमति
भिक्षूहि मुक्तकं चीवरं स्थपयितुम् । अथ खलु चीवरकानि
ससाहरितानि कारिय अन्तरमुख दुगुणान्तरं करिय चीवरवंशे
स्थपेतव्यानि ततो पट्टिकाये वा लोढकेन वा रेज्जुकाये वा
बन्धितव्यानि । उपाध्यायस्य (वा) आचार्यस्य वा चीवरं साहरित्वा
अभ्यन्तर परिकर्म्म द्विगुणन्ते । (३९ ३) अग्रतो कर्त्तव्यो । अन्तरपीडितो
न दानि उपाध्यायस्य वा आचार्यस्य (वा) चीवरेहि आत्मनो चीवरं (इइ.प्.३४)
वेढयितव्यम् । अथ खलु आत्मनो चीवरेहि उपाध्यायाचार्याणां चीवरा
वेढयितव्याः । एवं सर्व्वेहि बन्धिय थपेतव्यानि । अथ दानि भिक्षु
विरात्रकाले उश्वास(च्चार)कारो वा प्रश्वास(स्राव)कारो वा निर्द्धावति ।
चीवरवंशकातो । (३९ ४) चीवराणि मुंचिय एकं द्वितीयं वा तृतीयं वा
ल्क(कू)षियाणां भूमीयं पतितम् । एकेन (आ)क्रान्तं द्वितीयेन आक्रान्तं
तत्रैव सर्व्वं भूमीये अनुप्रविष्टो भवति । अपरेज्जुकातो भिक्षू
कल्यतो येव निवासिय प्रावरिय चीवरकाणि मार्ग्गति सो मार्ग्गन्तो न
पश्यति । तस्य चीवरकस्य कोणकं नापि क्षमति । तहिं
चीवरकोण(३९ ५)के गृह्निय द्रन्ति अच्छितुम् । मा चीवरकोणको भवतु ।
मा चीवरको ति । अथ खलु ततो कोणकातो प्रभृति सुखाकं
मोचयितव्यम् । चीवरकं धोविय विहारकोणको (थ)पयितव्यो तं
चीवरकं यं कालं शुष्कं भवति ततो परिभुञ्जयितव्यम् । अथ दानि
भिक्षुः । उपाध्यायस्य वा आचार्यस्य वा चीवराणि उपरि स्थापयित(३९ ६;
ज्.१७७)व्यानि । अथ दानि सो उप्पंसुलको विहारको भवति । नापि क्षमति
उपाध्यायस्य वा आचार्यस्य वा चीवरकानि उपरि स्थापयितुं, । आत्मनो
चीवरकानि हेष्ठे स्थपयितु(ं) । अथ खलु उपाध्यायस्य वा आचार्यस्य
वा हेष्ठे स्थपयितव्यानि । आत्मनो चीवराणि उपरि स्थापयितव्यानि । नापि
क्षमति ग्रीष्मका भवति रजो वातरजो वा उक्कनि(३९ ७)का चीवरं
विनाशेति नेदानि उपाध्यायाचार्याणां चीवरकेहि आत्मनो चीवरा
वेढयितव्या । अथ खलु आत्मनो चीवरेहि उपाध्यायाचार्याणां चीवरा
वेढितव्या । न दानि क्षमति । विहारो अध्युपेक्षितुम् । (इइ.प्.३५) उप्पंसुलो
वा अचौक्षो वा । अथ खलु कालेन कालं सिञ्चित्वा सन्मार्जितव्यम् ।
गोमयकार्षी दातव्या । वंघोरिका दातव्या । न क्ष(३९ १)मति ।
चीवरेणाप्रसन्नं गृह्नितुम् । खेटकटाहं वा उच्चारकटाहकं वा
प्रस्रावकुम्भकं वा संकारं वा उज्झितुम् । उपानहा गृह्नितुम् ।
गोमयानि वा उच्चिनितुम् । न क्षमति । चीवरमध्युपेक्षितुम् । चिक्कनं वा
अप्रतिसंस्कृतं वा ओमयिलमयिलं वा पाटितविपाटितं वा । अथ खलु
कालेन कालं धोवितव्यम् । रंजितव्यम् । सीवितव्यम् । यथा च्छवि एवं
चीवरे प्रतिपद्यि(३९ २)तव्यम् । न प्रतिपद्यति ॥ आभिसमाचारिकान्
धर्म्मानतिक्रामति ॥ * ॥

(ज्.१७८) उद्दानम् ॥
एवमरण्ये प्रतिपद्यितव्यम् ।
एवं ग्रामान्तिके प्रतिपद्यितव्यम् ।
एवं जा(पा)नीये प्रतिपद्यितव्यम् ।
एवं परिधोवनिये प्रतिपद्यितव्यम् ।
एवं पादा धोवितव्या ।
एवं पादधोवनिके प्रतिपद्यितव्यम् ।
एवं स्नाने प्रतिपद्यितव्यम् ।
एवं जेन्ताके प्रतिपद्यितव्यम् ।
एवं भण्डे प्रतिपद्यितव्यम् ।
एवं चीव(३९ ३)रे प्रतिपद्यितव्यम् ॥ * ॥
॥ पञ्चमो वर्ग्गः ॥ * ॥

(योस्हियसु योणेशाwआ । ःिदेतोस्हि योश्ःीशाwआ)


(इइ.प्.३६)
वि. १ म्स्.३९ ३ (ज्.१७९.१); छ्.५११ १६
भगवान् श्रावस्त्यां विहरति । ते दानि आयुष्मन्तो षड्वर्ग्गिका कल्यत
एव विहारचरणकानि निवासनानि निक्षिपियाणं नग्नप्रावृता
ग्रामप्रवेशनिकानि निवसनानि मार्ग्गन्ति । गोचरातो निर्द्धाविता
ग्रामप्रवेशनिकानि निवासनानि निक्षिपियाणं नग्नप्रावृता
विहारचरणकानि निवास(३९ ४)का(ना)नि मार्ग्गन्ति । एते(तं) प्रकरणं
भिक्षूहि श्रुतं भिक्षू भगवतो आरोचयेंसु । भगवानाह ।
शब्दापयथ षड्वर्ग्गिकां ते दानि शब्दापिताः । भगवानाह । सत्यं
भिक्षवो षड्वर्ग्गिकाः । एवं नाम यूयं कल्यत एव उत्थिय
विहारचरणकानि चीवरकानि निक्षिपित्वा नग्नप्रावृताः ।
ग्रामप्रवेशनिका(नि) निवसनानि मार्ग्गथ गोचरातो (३९ ५)
निर्द्धाविताः । ग्रामप्रवेशनिकानि निवासनानि निक्षिपित्वा
नग्नप्रावृताः । विहारचर(ण)कानि निर्वासनानि मार्ग्गथ । आहंसु
आम । भगवन्
भगवानाह । तेन हि एवं निवासितव्यम् । किन् ति दानि एवं
निवासयितव्यम् । भिक्षुणा ताव कल्यत एवोत्थित्वा गोचरं (ज्.१८०)
प्रविशंतेन न क्षमति । ग्रामप्रवेशनिकं निवासनमनुपहस्तं
कृ(३९ ६)त्वा विहारचरणकं निवसनं निक्षिपितुम् । अथ खलु प्रकृत्येव
ताव ग्रामप्रवेशनकमुपहस्तं कर्त्तव्यम् । ततो ग्रामप्रवेशनं च
निवासनमावेल्लयितव्यं विहारचरणकं निवासनमुच्चेतलयितव्यम् ।
कायबन्धनं बन्धयित्वा चीवरवाणि प्रवारित्वा गोचरं प्रविशितव्यम् ।
गोचरातो निर्द्धावितेन नापि क्षमति (इइ.प्.३७) विहारचरणं निवासनम् ।
अनुपह(३९ ७)स्तं करियाणं ग्रामप्रवेशनकं निवासनं निक्षिपितुम् ।
अथ खलु प्रकृत्येव ताव विहारचरणकं निवसनमुपहस्तं
कर्त्तव्यम् । ततो विहारचरणकं निवासनमावेल्लयितव्यम् ।
ग्रामप्रवेशनकं च निवासनमुच्चेलयितव्यम् । ते भिक्षू उद्धारकं
कर्त्तुकामा भवन्ति । उपलेपनं वा संमार्जनं वा भवति ।
स्नानशाटकं वा लेङ्कटखण्डकं वा निवासि(४० १)य स्नातुकामो
भवति । नापि क्षमति निवासनं निक्षिपित्वा स्नानशाटकं वा
लेङ्कटखण्डकं निवासयितुम् । अथ खलु निवासनमुच्चेल्लयितु(तव्य)म् ।
स्नानशाटिका वा लेङ्कटखण्डकमावेढयितव्यं निवासनं
उच्चेल्लयितव्यं नापि क्षमति स्नानेन समानेन निवासनं निवासयित्वा
कामभोगिना यथा उपरिमेण निवासनस्य स्नानशाटिकामुत्क्षिपितुं
नापि क्षमति । हे(४० २)ष्ठेन स्नानशाटिकां वा लेङ्कटखण्डकं वा
ओसारयितुम् । चलनकं यथा । अथ खलु निवासनं (ज्.१८१) ओच्चेल्लयितव्यम् ।
स्नानशाटकं वा लेङ्कटखण्डकं वा उच्चेल्लयितव्यम् । एषो भिक्षु
विकाले प्रतिक्रमति । नापि क्षमति निवासनं निक्षिपित्वा नग्नप्रावृतेन
रात्रीप्रावरण निवासिनं मार्ग्गितुम् । अथ खलु प्रतिकृत्येव ताव
रात्रीप्रावरणकं निवासनमुप(४० ३)हस्तीकर्त्तव्यम् । ततो निवासनं
उच्चेल्लयितव्यम् । रात्रिप्रावरणं निवासनं च आवेल्लयितव्यम् । एवं
निवासने प्रतिपद्यितव्यम् । न प्रतिपद्यति ॥ आभिसमाचारिकान् धर्म्मान्
अतिक्रामति ॥ * ॥

वि. २ म्स्.४० ३ (ज्.१८१.७); छ्. ५११ २७
भगवान् श्रावस्त्यां विहरति । ते दानि आयुष्मन्तो षड्वर्ग्गिका गोचराये
प्रस्थिता विहारचरणकानि चीवरका(नि) (इइ.प्.३८) निक्षिपिय
एक(४० ४)निवसना ग्रामप्रवेशनिकानि चीवरकानि मार्ग्गन्ति । गोचरातो
निर्द्धाविता ग्रामप्रवेशनकानि चीवराणि निक्षिपित्वा एकनिवासनका
विहारचरणकानि चीवरकानि मार्ग्गन्ति । एतं प्रकरणं भिक्षूहि
श्रुतम् । भिक्षू भगवतो आरोचयेंसु । भगवानाह । शब्दापयथ
षड्वर्ग्गिकान् । ते दानि शब्दापिताः (४० ५) भगवानाह । सत्यं भिक्षवो
षड्वर्ग्गिकाः । एवन्नाम यूयं कल्यतो येव गोचराय प्रस्थिता ।
विहारचरणकानि चीवराणि निक्षिपिय एकनिवसना ग्रामप्रवेशनकानि
चीवराणि मार्ग्गथ । गोचरातो निर्द्धाविता । ग्रामप्रवेशनिकानि
चीवराणि निक्षिपित्वा एकनिवसनका विहारचीवरकानि मार्ग्गथ । आहंसु
आ(४० ६)म भगवन्
(ज्.१८२) भगवानाह । तेन हि एवं प्रावरितव्यम् । किन् ति दानि एवं
प्रावरितव्यम् । एषो दानि भिक्षुः । कल्यतो येव गोचराये प्रस्थितो भवति ।
नापि क्षमति विहारचरणकानि चीवरकाणि निक्षिपिय एकनिवसनकेन
ग्रामप्रवेशनिकानि चीवराणि मार्ग्गितुम् । अथ खलु प्रतिकृत्येव ताव
ग्रामप्रवेशनकं चीवरमुपहस्तं कर्त्तव्यं प्रावरन्तेन
ग्रामं(४० ७)प्रवेशनकं चीवरमाच्चेल्लयितव्यं विहारचरणकं
चीवरमुच्चेल्लयितव्यम् । गोचरातो निर्ग्गतेन नापि क्षमति ।
ग्रामप्रवेशनकं चीवरं निक्षिपित्वा एकनिवसनकेन विहारचरणकं
चीवरं मार्ग्गित(तु)म् । अथ खलु प्रकृते(त्ये)व ताव विहारचरणकं
चीवरमुपहस्तीकर्त्तव्यम् । प्रावरमाणेन विहारचरणकं चीवरकं
आच्चेल्लयितव्यम् । ग्रामप्रवे(४० १)शनकं चीवरमुच्चेल्लयितव्यम् । एवं
आरामचरणकं वा आच्चेल्लयितव्यम् । विहारचरणकं वा (इइ.प्.३९)
उच्चेल्लयितव्यम् । प्रस्फोटयित्वा साहरित्वा एकान्ते स्थपयितव्यम् । एतन्
दानि संघस्य उट्ठानकानि भवन्ति । च्छादनिका वा लेपनिका वा
सम्मार्जनको वा भिक्षु चीवरकाणां दयार्थम् । अन्यं
लेङ्कटखण्डं प्रावरितुकामो भवति नापि क्षमति । चीवरकं
निक्षिपियाणमेकनिवसन(४० २)केन लेङ्कटखण्डं मार्ग्गितुम् । अथ
खलु प्रकृत्येव ताव उपहस्तीकर्त्तव्यमेकं च आवेल्लयितव्यं द्वितीयं
उच्चेल्लयितव्यम् । एवं प्रावरितव्यम् । न प्रतिपद्यति । आभिसमाचारिकान्
धर्म्मानतिक्रामति ॥ * ॥

वि. ३ म्स्.४० २ (ज्.१८३.१); छ्. ५११ ७
(ज्.१८३) भगवान् श्रावस्त्यां विहरति । ते दानि आयुष्मन्तो
नन्दनोपनन्दना गोचरं प्रविशन्ता चीवरं कंढंता प्रविशन्ति ।
कण्टकशाखाहि लग्नं भवति । द्रन्ति अच्छन्ति । झाडे वा
वृ(४० ३)क्षशाखायां वा लग्नं द्रन्ति कढन्ति । नैव धूलिं
परिहरन्ति । न कर्दमं परिहरन्ति । संबाधरथ्याहि
सुधापाण्डुलेपना भिन्ति(त्ति)यो घसन्ता गच्छन्ति तानपि दानि
चीवरकानि । ओम‹लम‹लाणि पाटितविपाटितानि क्रियन्ति तेषान् दानि
सार्द्धेविहारिका च अन्तेवासिका च ओध्यायन्ति । वयं येच(व) ताव
चीवरकानि धोवेन्ता सिवेन्ता रंजेन्ता तलविलयं गच्छामः (४० ४) इमे पि
न जानन्ति । कथमन्तरघरे प्रविशन्तेहि चीवरेहि प्रतिपद्यितव्यम् ।
एतं प्रकरणं भिक्षूहि श्रुतं, । भिक्षू भगवतो आरोचयेंसु ।
भगवानाह । शब्दापयथ नन्दनोपनन्दनाः(ं,) । ते दानि
शब्दापिताः । भगवानाह । सत्यं भिक्षवो नन्दनोपनन्दना (इइ.प्.४०)
एवं नाम यूयमन्तरं घरं प्रविशन्ता चीवरकानि कड्ढन्ता ।
गच्छथ त(४० ५)देव सर्व्वं भगवान् विस्तरेण प्रत्यारोचयति ।
युष्माकं सर्व्वे(सार्द्धे)विहारिका अन्तेवासिका ओध्यायन्ति ॥ वयं येव
ताव चीवरकानि धोवंता सीवन्ता रञ्जेन्ता तलविलयं (ज्.१८४) गच्छामः ।
इमे पि न जानन्ति । कथमन्तरघरं प्रविशन्तेहि चीवरके
प्रतिपद्यितव्यम् । आहंसु । आम भगवन्
भगवानाह । तेन हि एवमन्तरघरं प्रविश(४० ६)न्तेन चीवरे
प्रतिपद्यितव्यम् । किन् ति दानि एवमन्तरघरं प्रविशन्तेन चीवरे
प्रतिपद्यितव्यम् । नायं ताव क्षमति भिक्षुणा अन्तरघरं प्रविशन्तेन
चीवरं कड्ढन्तेन प्रविशितुं यहिं लग्नं तहि लग्नं यहिं पाटितं
तहिं पाटितम् । अथ खलु यदि ताव ग्रीष्मकालो भवति । दूरे च ग्रामो
भवति । सीर्षे वा स्कन्धे वा चीवरं कृत्वा गन्तव्यम् । यदा
ग्राममूलग(४० ७)तो भवति । यदि तहिमोघो वा तडागं वा भवति
पुष्किरिणी वा तहिं पादां प्रक्षालित्वा चीवरं प्रावरित्वा गण्ठिपार्श्वं
आबन्धित्वा प्रविशितव्यम् । अथ दानि उदकं न भवति । पत्रशाखाय वा
तृणकेहि वा पादा जंघा प्रस्फोटित्वा प्रावरित्वा प्रवेष्टव्यम् । अथ
दानि हेमन्तो भवति । प्रावरित्वा गन्तव्यम् । परिमण्डलं चीवरं
प्रावरित्वा अन्तरघरं प्रविशित(४१ १)व्यम् । परिवर्जित्वा । भ्रान्तो वा
अश्वो भ्रान्तो वा हस्ति भ्रान्तो वा रथो-अश्व वटवा चा(वा) ओहर
पार(परा)युक्तं कण्टकशाखा परिवर्जन्तेन सुधापाण्डुल(ले)पनायो
परिवर्जन्तेन प्रविशितव्यम् । अथ दानि भिक्षुस्य (इइ.प्.४१) यत्नं
करेन्तस्य चीवरं धूलीये पूरितं भवति । प्रस्फोटयितव्यम् ।
कर्द्दमेन वा विनाशितव्यं भवति । धोवितव्यम् । कण्टकशाखायां वा
लग्नं भवति । (ज्.१८५) न दानि मा चीव(४१ २)रं मा कण्टकशाखा
न्ति(त्ति) । उद्रन्ति अच्छितव्यम् । अथ खलु स्तोकस्तोकं मोचयितव्यम् ।
सुवा(धा)पाण्डुलेपना भित्ती भवति वर्जयितव्या । अथ दानि
शम्बाव(ध)रथ्या भवति । सुसंवृतेन पश्यिल्लकेन अतिक्रामितव्यम् ।
एवमन्तरघरं प्रविशन्तेन चीवरे प्रतिपद्यितव्यम् । न प्रतिपद्यति ॥
आभिसमाचारिकान् धर्म्मानतिक्रामति ॥* ॥
वि. ४ म्स्.४१ २ (ज्.१८५.६); छ्. ५१२ १
भगवान् श्रावस्त्यां विहरति विस्तरेण नि(४१ ३)दानं कृत्वा ते दानि
आयुष्मन्तो नन्दनोपनन्दना अन्तरघरं प्रविष्टा समाना मञ्चा
चर्याणं च मा(सा)पाश्रया च दारकदारिकेहि पादेहि
मर्द्दितपरिमर्द्दिता । धूलीय कर्द्दमेन मक्षितपरिमक्षिता तेहि
प्रज्ञप्तेहि उपविंश(शं)ति । चीवराणि विनाशयन्ति । सुधापाण्डुलेपनायो
भित्तीयो घसंता उपविंश(शं)ति तेषां सर्व्वे(सार्द्धे)विहारि(४१ ४)का
अन्तेवासिका ओध्यायन्ति । (ज्.१८६) वयं येव ताव चीवराणि धोवेन्ता सीवेन्ता
रञ्जेन्ता तलविलयं गच्छामः । इमे पि न जानन्ति कथमन्तरघरं
प्रविष्टेहि चीवरेहि प्रतिपद्यितव्यम् । एव(त)ं प्रकरणं भिक्षूहि श्रुतं
भिक्षू भगवतो आरोचयेंसु । भगवानाह । शब्दापयथ
नन्दनोपनन्दनाम् । ते दानि शब्दापिता । भगवानाह । स(४१ ५)त्यं
भिक्षवो नन्दनोपनन्दना एवं नाम यूयमन्तरघरं प्रविष्टा
समाना दारकदारिकाहि मञ्चञ्च । पीठञ्च त्रेपश्यका च पादेहि
मर्दितविमर्दिता । धूलीये कर्दमेहि विनाशितकेहि प्रज्ञप्तेहि (इइ.प्.४२)
निषीदथ सुधापाण्डुलेपनाहि भित्तीहि घसंता प्रविशथ चीवराणि
विनाशयन्ति युष्माकं सार्द्धेविहारिका अन्तेवासिका ओध्याय(४१ ६)न्ति ।
पश्यथ भणे वयं येव चीवरकानि धोवन्ता सीवन्ता रञ्जेन्ता
तलविलयं गच्छामः । इमे न जानन्ति । कथमन्तरघरं प्रविष्टेहि
चीवरेहि प्रतिपद्यितव्यम् । आहंसु । आम भगवन्
भगवानाह । तेन हि-य्-एवमन्तरघरं प्रविष्टेहि चीवरे
प्रतिपद्यितव्यम् । किन् ति दानि एवमन्तरघरं प्रविष्टेहि चीवरे
प्रतिपद्यितव्यम् । एषो दानि भिक्षुः । अन्तरघ(४१ ७)रं प्रविष्टो आसनेन
निमन्त्रीयति । आसनं जानितव्यम् । यदि ताव आसनं भवति धूलीये वा
म्रक्षितं कर्द्दमेन वा विनासितकम् । ओम‹लम‹लं वा प्रज्ञप्तकं
भवति । न क्षमति तहिमुपविशितुम् । यदि ताव भिक्षुस्य
विस्रम्भ(ज्.१८७)कुलं भवति । वक्तव्यम् । भगिनीयो आसनं प्रज्ञपेथ
मा चीवरकानि विनशिष्यन् ति । यं कालं तहिं प्रज्ञप्तं भवति । आमिला
वा अस्तरि(४१ १)का वा कोचको वा कलन्तरको पट वा ततो निषीदितव्या ।
अथ दानि अश्राद्धकुलं भवति । भिक्षुस्य वा अविस्रम्भकुलं भवति
ततो च स्तूपिकं वा सांघिकं वा कार्यमधीनं भवति । नापि क्षमति ।
तथा येव निषीदितुम् । अथ खलु लेङ्कटखण्डेन रजोहरणकेन वा ।
प्रस्फोटिय कसं(ंस)कलिकां प्रज्ञपिय उपविशितव्यम् । अथ दानि एवं पि
न भवति । अन्त(४१ २)मसतो हस्तेनापि प्रस्फोटिय आमर्जिय
उपविशितव्यम् । नापि क्षमति । अन्तरघरे प्रविष्टेन सुधापाण्डुंलेपना
भित्तीय (घ)स(ं)तेन अतिक्रमितुम् । न क्षमति । सापाश्रयं वा
ओपाश्रयं वा ओमयिलोमयिलं वा (इइ.प्.४३) पण्डरं विपाण्डरं
अपाश्रयितुम् । अथ दानि भिक्षुः । जरादुर्ब्बलो वा व्याधिदुर्ब्बलो वा
भवति । वक्तव्यं भगिनी प्रज्ञपेहि कुड्डस्मिं यहिं
अपाश्र(४१ ३)यितव्यम् । यं कालं तहिं बिंबोहनं वा अमिला वा अस्तरिका
वा कोचको वा शाटको वा प्रज्ञप्तो भवति । ततो अपाश्रयितव्यम् । अथ
दानि अश्राद्धकुलं भवति । न वा भिक्षुस्य विश्रम्भकुलं भवति ।
अन्तमसतो संकच्छिका पि स्कन्धे दत्वा अपाश्रयितव्यम् । न क्षमति ।
(ज्.१८८) अन्तरघरं प्रविष्टेन चीवरकेन प्रतीच्छितुम् । सर्प्पिखज्जकं
(४१ ४) वा तैलखज्जकं वा उक्खिनका वा तण्डुला प्रतिच्छितुम् ।
क्लिन्नकानि वा पुष्पाणि प्रतिच्छितुम् । क्षुद्रपाकानि वा फलानि
प्रतिच्छितुम् । विक्षुण्णं वा पात्रं गृह्नितुम् । चिक्कन्ना वा हस्तान्
निर्मादितुम् । माल्यं वा क्लिन्नकं चिक्कना वा ओष्ठानि निर्मादयितुम् ।
लभ्या दानि चीवरान्तरिकाय खक्खटानि फलानि गृह्नितुम् । बदराणि वा
कोलकानि वा आमलका(४१ ५)नि वा हारीतकी वा तण्डुलानि वा अनोक्षीणका
वा माल्यं वा आक्लिन्नकं शिम्बटीयो वा अथ दानि भिक्षुस्य यत्नं
करेन्तस्य चीवरक कर्द्दमेन वा नासितं भवति धोवितव्यम् । धूलीये
वा ओतरितं भवति । प्रस्फोटयितव्यम् । पाटितं वा विपाटितं भवति
सीवितव्यम् । एवमन्तरघरे प्रविष्टेन चीवरे प्रतिपद्यितव्यम् । न
प्रतिपद्यति ॥ आभि(४१ ६)समाचारिकान् धर्म्मानतिक्रामति ॥*॥

वि. ५-६ म्स्.४१ ६ (ज्.१८८.१३); छ्. ५१२ २
भगवान् श्रावस्त्यां विहरति । आयुष्मतो नन्दनस्य उपनन्दनो नाम
भ्राता सो दानि तस्य सार्व्वे(र्द्धे)विहारिकस्याह (इइ.प्.४४) । एहि आयुष्मं
ग्रामं प्रविश्यामः । अहं च तत्र किञ्चिदेव अकल्पीयं
अध्याचरिष्यामि । (ज्.१८९) मा कस्यचि आचिक्षेसि । अहं खलु ते पितॄयको
भवामि । सो दानि आह । पि(तॄ)यको भवाहि । मातुलको भवाहि । (४१ ७)
यदि त्वं तत्र किंचि अकल्पियम् । अध्याचरिष्यसि । आचक्षिष्यामि । अहं सो
दानाह । आचिक्षिष्यसि आह । आचिक्षिष्यम् । सो दानि आह । आगच्छाहं तव
शेषयिष्यम् । ते दानि महान्तानि कुलान्युपसंक्रमन्ति निमन्त्रीयन्ति ।
आर्य भक्तकृत्यं करेथ पुरेभक्तिकं करेथ खज्जकं खादथ
वनफलं भक्षथ । यथा प्रतिभानकं करेथ सो दानि न कहिंचि
अधिवासयति । (४२ १) पश्यति मा इमस्य दातव्यं भविष्यतीति यं कालं
पश्यति नैव एषो प्रतिबलो पिण्डाय अण्ठितुम् । न च प्रतिबलो जेतवनं
संभावयितुं ति । ततो आह । आयुष्मन गच्छ त्वं न मे त्वया
सार्व्व(र्द्ध)ं फासु भवति कथाय वा निषद्याय वा एकस्यैव मम
फासु भवति । सो दानि शुष्केन मुखेन (ज्.१९०) पाण्डरेहि ओष्ठेहि
त्वरितत्वरितं निर्द्धावति । कालं निध्यायमानो सो (४२ २) दानि ततो येव
अनुपरिवर्त्तिय महात्मेहि कुलेहि इप्सितान्नाति(नि) भुक्ता तस्यैव अनुपदम्
एव निर्द्धावितो ये दानि भिक्षू जेतवनस्यारामद्वारकोष्ठकसमीपे
स्थान चंक्रमस्थाननिषद्यायोगमनुयुक्ता विहरन्ति । ते दानि तं
पश्यन्ति । उपशुष्केन मुखेन पाण्डरेहि ओष्ठेहि त्वरितत्वरितं
निर्द्धावितं कालं निध्यायन्तं तेषां भवति । यथा अयम् ।
उ(४२ ३)पशुष्केन मुखेन पाण्डरेहि ओष्ठेहि त्वरितत्वरितं निर्द्धावति ।
कालं निध्यायमानो भवितव्यमयं विप्रलब्धो । ते दानि तं
उच्चग्घन्ति आयुष्मन् स्निग्धो खलु ते सु(मु)खवर्ण्णो पिलिपिलायन्ति ।
ओष्ठा सुष्ठु खलु (इइ.प्.४५) निर्द्धापीयति । यथापि दानि
नगरकुलोपकेन पितॄयकेन सार्द्धं प्रविष्टस्य इप्सितान्नानि भोजनानि
भु(४२ ४)क्ताविस्या सो दानि आह । आयुष्मन् कुतो मे इप्सितान्नानि भोजनानि
भुक्तानि एवं च एवं चास्मि विप्रलब्धो एतं प्रकरणं भिक्षू
भगवतो आरोचयेंसु । भगवानाह । शब्दापयथ उपनन्दनं सो दानि
शब्दापितो भगवानाह । सत्यमुपनन्दन एवं नाम त्वं नन्दनस्य
सार्व्वे(र्द्धे)विहारिं जल्पसि । एहि आयुष्मन् (४२ ५) ग्रामं प्रविशिष्यामः ।
अहं च तत्र किञ्चि अकल्पियमध्याचरिष्यामि ॥ मा खलु कस्यचि
अ(आ)चिक्षिष्यसि । अहं खलु ते पितृयको भवामि । तदेव (ज्.१९१) सर्व्वं
भगवान् विस्तरेण प्रत्यारोचयति । याव सो दानि आह । आयुष्मन् कुतो मे
इप्सितान्नानि भोजनानि भुक्तानि एवं च एवं चास्मि विप्रलब्धो आह । आम
भगवन् ।
भग(४२ ६)वानाह । दुष्कृतं ते उपनन्दन तेन हि एवं पुरेश्रमणेन
प्रतिपद्यितव्यम् । एवं पश्चाच्छ्रमणेन प्रतिपद्यितव्यम् । किन् ति दानि
एवं पुरेश्रमणेन प्रतिपद्यितव्यम् । एवं पश्चाच्छ्रमणेन
प्रतिपद्यितव्यम् । नायं ताव क्षमति । भिक्षुणा पश्चाच्छ्रमणो
प्रवेशितुं यो न प्रतिबलो तस्य च आत्मनो च वृत्तिं संविभजितुम् । अथ
खलु यो प्रतिबलो तस्य च (४२ ७) आत्मनो च वृत्तिं संविभजितुम् । तेन
पश्चाच्छ्रमणो प्रवेशयितव्यो । एषो दानि भिक्षु उपाध्यायस्य वा
आचार्यस्य वा पश्चाच्छ्रमणो गच्छति । नापि क्षमति तेन दूरं
पृष्ठतो गन्तुम् । नापि क्षमति । खुरेण खुरं हनन्तेन । अथ खलु
नात्यातिदूरं नात्यासन्नं गन्तव्यम् । तेनापि दानि पुरेश्रमणेन नापि
क्षमति । घाडेन यथा ओड्डिताये ग्री(४२ १)वाये गन्तुम् । अथ खलु
युगमात्रं निध्यायन्तेन गन्तव्यम् । अनेकाये भ्रान्तो वा हस्ति
आगच्छेय भ्रान्तो वा अश्वो भ्रान्तो वा रथो चण्डो वा श्वानो चण्डो वा
गोणो (इइ.प्.४६) आगच्छेय न्ति(त्ति) । यदि ताव दक्षिणेनान्तेनागच्छति ।
वामेनान्तेन उच्चन्ति(त्ति)तव्यम् । वामेनान्तेनागच्छति । दक्षिणेनान्तेन
उच्चत्तितव्यम् । अथ दानि दुश्चक्षुको भवति । जरादुर्ब्बलो वा
व्याधिदुर्ब्बलो वा । (४२ २) पश्चाच्छ्रमणेन वक्तव्यम् । उपाध्यायो वा
आचार्यो वा वामहस्तिकं वा दक्षिणहस्तिकं वा उच्चत्त न्ति(त्ति) । अथ दानि
न पश्यति हस्तेन गृह्नियाणमेकतो वा एकतो वा उच्चत्तयितव्यो । एषो च
दानि भिक्षुस्य सार्द्धेविहारी वा अन्ते(ज्.१९२)वासी वा पश्चाच्छ्रव(म)णं
प्रवेशेन्ति । यदि ताव प्रतिबलो भवति तस्य आत्मनो च वृत्तिं
संविभजयितुम् । प्रवेशयितव्यो । अथ दा(४२ ३)नि न प्रतिबलो भवति ।
प्रवेशितो च तेन भवति । पश्चाच्छ्रमणो कालेन कालं विसर्जयितव्यो ।
तथा कर्त्तव्यं यथा प्रतिबलो भवति पिण्डपातं वा अण्ठितुम् ।
विहारकं वा गन्तुम् ।
अथ दानि भिक्षुः शिरां विन्दा(द्धा)पयितुकामो भवति । बाहुशिरां
वाङ्गुल्यशिरां वा निलाटिं वा यदि ताव प्रतिबलो भवति ।
पश्चाच्छ्रमणस्य (४२ ४) आत्मनो चि(वि)त्तं संविभजितु(ं) वक्तव्यम् । आस
त्वं सहितकां भुंजिय निर्द्धाविष्यामः । यं कालं शिराविद्धा
भवति । उभयेहि भुञ्जिय निर्द्धावितव्यम् । अथ दानि न प्रतिबलो
भवति । कालेन कालं विसर्जयितव्यो । वक्तव्यं सुविहित गन्तव्यम् ।
आगमिष्यमहं, । येन वा तेन सार्द्धं तेनापि दानि पिण्डचारिकं वा
अण्ठियाण विहारं (४२ ५) वा गच्छिय आहारं कृत्वा । नापि दानि क्षमति ।
दिन्ना मम आनन्तिका ति । अदर्शनेन प्रियं कर्त्तुं, । अथ खलु भुक्तं
न भुक्तन् ति । अन्यस्य हस्ते पात्रं दत्वा तहिं गन्तव्यम् । यदि ताव न
विद्धा शिरा (इइ.प्.४७) भवति ग्लानस्य अनु(ज्.१९३)काल्यमाहारं दत्वा
सहितकेहि निर्द्धावितव्या । अथ दानि दूरगोचरो संघारामो भवति
भिक्षुस्य आत्मनो (४२ ६) आहारपर्येष्टिं पर्येथ(ष)माणस्य विकालो
भवति । एवं पि करिय गन्तव्यम् । यदि ताव सो शिराविद्धो एव
निर्द्धावति । अयं प्रविष्टो भवति । रथ्यान्तरं वा पश्यति । ततो य्येव
निवर्त्तयितव्यम् । नगरद्वारे पश्यति नगरद्वारतो निवर्त्तितव्यम् । पन्थे
पश्यति । पन्थातो निवर्त्तितव्यम् । यतो एव पश्यति । ततो एव निवर्त्तितव्यम् ।
अथ दानि कोचि वन्दति वक्तव्यम् । (४२ ७) अमुको वन्दति । अथ दानि
निमन्त्रेति उपलक्षितव्यम् । पश्चाच्छ्रमणेन यतो निर्ग्गतो भवति । ततो
आरोचयितव्यम् । अमुकेन उपाध्यायो निमन्त्रितो अमुकेन वा अन्तरघरे
भुंजति । पुरेश्रमणो न प्रतिबलो भवति दक्षिणामादिशितुं, । आहंसु ।
आदिश दक्षिणां न दानि पश्चाच्छ्रमणेन वक्तव्यम् । यथा येव
अग्रासनमग्रोदकमग्रपिण्ड(४३ १)पातं परिभुञ्जसि तथा येव
दक्षिणामादिशाहि । अथ खलु आदिशितव्यं पश्चाच्छ्रमणेन । एवं
पुरेश्रमणेन प्रतिपद्यितव्यम् । एवं पश्चाच्छ्रमणेन
प्रतिपद्यितव्यम् । न प्रतिपद्यति ॥ आभिसमाचारिकान् धर्म्मान्
अतिक्रामति ॥ * ॥

वि. ७-८ म्स्.४३ १ (ज्.१९३.१६); छ्. ५१२ १९
भगवान् श्रावस्त्यां विहरति । अपरेण दानि भिक्षुणा भिक्षु अध्येष्टा
आयुष्मनिच्छामि पिण्डपातं निक्कालियमा(४३ २)नं सो दानि आह । आनेहि
पात्रं सो दानि भिक्षु पिण्डपातस्य कृतेन प्रविष्टो अयं पि देशकालं
दन्तकाष्ठं गृहीत्वा आरामचारिकां चंचूर्यति । (ज्.१९४) सो दानि भिक्षु
पिण्डपातं गृह्निथ । आगतो । याव पश्यति सो विहारकं घट्टितकं, सो
दानि मुहूर्त्तकमागमियाणं यदा नागच्छति (इइ.प्.४८) विहारकस्य
द्वारमूले पिण्डपातकं थपिय गतो तं दानि आ(४३ ३)ह अपरेण
आगच्छियाणमुत्क्षिप्तं सो दानि भिक्षुः । विहारमागत्वा आगमेति ।
इदानीं पि एष्यति मुहूर्त्तं पि एष्यति याव अकालीभूतं ते दानि
क(ग)त्याह(य)ं कालस्य उभये समागता सो दानि तस्य जल्पति ।
अ(आ)युष्मन् साधु तं पात्रकं पि लभेम । सो दानि आह । आयुष्मन् कस्य
पात्रं कुतो पात्रं सो दानि आ(४३ ४)ह । आयुष्मन्न त्वं माया अध्येष्टो
इच्छामि पिण्डपातं निक्कालियमानम् । सो दानि आह । आयुष्मन् यदा सो
मया पिण्डपातको विहारस्य पुरतो निक्षिप्तो । सो दानि आह । आयुष्मन्
एवं च त्वं शून्यके विहारके पात्रं निक्षिपिय गच्छसि । सो दानि आह ।
आयुष्मनेतं च त्वं मम पिण्डपातनीहार(४३ ५)कमध्येषित्वा
अदर्शनेन प्रियं करेसि । ते दानि विवदिता । भगवतो मूलं गताः ।
भगवानाह । नायं ताव क्षमति नीहारिकपिण्डपातेन
पिण्डपातनीहारकमध्येषित्वा अदर्शनेन प्रियं कर्त्तुं, । नापि
क्षमति । पिण्डपातनीहारकेन पिण्डपातमानयित्वा शून्यके विहारके
ओसरिय गन्तुम् । तेन हि एवं (४३ ६) पिण्डपाते(त)नीहारकेन
प्रतिपद्यितव्यम् । एवं नीहारपिण्डपातकेन प्रतिपद्यितव्यम् । (ज्.१९५) एतं
दानि सर्व्वसंघस्य अन्तरघरे निमन्त्रणं भवति । भिक्षु
जरादुर्ब्बलो वा व्याधिदुर्ब्बलो वा भवति । न प्रतिबलो गन्तुम् ।
पिण्डपातनीहारको अध्येषितव्यो । वक्तव्यमायुष्मनिच्छामि
पिण्डपातं निक्कालियन्तं ति वक्तव्यम् । आयुष्मन्मा ख(४३ ७)लु
अदर्शनं गमिष्यसि । तेन अध्येष्टेन समानेन दुवे पात्राण्यादाय
प्रविशितव्यम् । यदि ताव हेमन्तकालो भवति । लघुकालो अतिक्रमति ।
दायकदानपती वक्तव्याः । देथ ग्लानस्य पिण्डपातम् । यदि ताव
दायकदानपति जल्पन्ति । भन्ते पटिपाटिकाय गृह्नथ वक्तव्यम् ।
दीर्घायु भगवता । (इइ.प्.४९) अनेकपर्यायेण ग्लानो परि(४३ १)दि(न्दि)तो
लहुं च कालो अतिक्रामति । यदि ताव देन्ति द्वे पिण्डपातका गृह्नितव्या
आत्मनो च तस्य च शिक्तड्डितकं कृत्वा विहारकमागन्तव्यम् ॥ अथ दानि
ग्रीष्मो वा वर्षारात्रो वा कालो भवति चिरेण कालो अतिक्रमति ।
पटिपाटिकाय गृह्नितव्यम् । शिक्तड्डितकं कृत्वा विहारकं गन्तव्यम् ।
यदि तावद्यावदर्थं भक्तं दीयति । प्रकृत्येव आत्मनो भक्ततो तस्य
पात्रं पूरेतव्यम् । (४३ २) अनुभागो आत्मनो गृह्नितव्यो । अथ दानि सो
दानि पतितित्तिणो भवति । यत्तकं दीयति तत्तकं गृह्नितव्यम् । न दानि
अप्रत्यग्रं गृह्नितव्यम् । एकान्ते यूय(ष)ं साकव्यञ्जनं वा गृह्नितव्यम् ।
नापि दानि अधोतकेहि हस्तेहि अप्रयतेहि गृह्नितव्यम् । अथ खलु (ज्.१९६)
प्रक्षालित्वा निर्म्मादयित्वा गृह्नितव्यम् । अथ खलु प्रक्षालित्वा
निर्म्मादयित्वा गृह्नितव्यम् । यदि उप्पक्कटो कालो भव(४३ ३)ति । न दानि
तेन भुञ्जन्तेन आसितव्यम् । अथ खलु उभये पिण्डपाता निहर्त्तव्या ।
तेन गच्छन्तेन कालो निध्यापयितव्यो यदि जानन्ति । शक्यं सकालेन
संभावयितुम् । गन्तव्यं गच्छित्वा तस्य उपनामेतव्यम् । अथ पश्यति
उपक्खटो कालो अन्तान्तिको न शक्यं सकाले संभावयितुम् । मा दानि
उभये च्छिन्नभक्ता भविष्याम तेन (४३ ४) परिभुञ्जितव्यम् । नापि
क्षमति नीहारपिण्डपातेनापि अध्येष्टो मया पिण्डपातनीहारको ति
अदर्शनेन प्रियं, कर्त्तुम् । अथ खलु प्रकृत्येव ताव दन्तकाष्ठं
खादयितव्यम् । हस्ता निर्म्मादयितव्या । पानीयं परिस्रावयितव्यम् ।
कुण्डिकां परिपूरियाणं विहारस्य प्रहाणके द्वे आसनानि प्रज्ञपिय
(इइ.प्.५०) अधिष्ठानां प्रतिग्राहापिय आसितव्यम् । यं कालं (४३ ५) आगतो
भवति उपविशियाणं सहितकेहि भुंजितव्यम् । अथ दानि सो जल्पति ।
आयुष्मन् भुंज त्वं भुक्तं मयेति च्छन्दयितव्यो वक्तव्यो ऊनकं
पूरेहि यं ते रुच्यति तं खादेहि यदि ताव आकांक्षति । उपविशियाणं यं
रुच्यति तं खादितव्यम् । अथ दानि न कांक्षितव्यम् । आयुष्मन् भुंज
त्वं नाहं भुंजिष्यम् ।
अथ दानि दूरगोचरो संघारामो (४३ ६) भवति । पिण्डपातनीहारको च
चिरेण आगच्छति कालो च स्तोकावशेषो भवति (ज्.१९७) नीहारकपिण्डपातेन
हस्ता निर्म्मादियाणं पानीयस्य कुण्डिकां पूरियाणं पन्थे
प्रत्युद्गच्छितव्यम् । यत्र येव तं पश्यति । तत्र येव पन्थातो
उच्चत्तियाणं सहितकेहि भुञ्जितव्यम् । अथ दानि नीहारकपिण्डपातो न
प्रत्युद्गच्छति कालो च अतिक्रमति पिण्डपातनीहारकेन
त्वरितत्वरित(४३ ७)मागन्तव्यम् । अथ दानि दूरे संघारामो भवति
पिण्डपातनीहारकेन यत्रैव पानीयं पश्यति । तत्रैव भुंजितव्यम् ।
मा दानि वयमुभयेव भक्तच्छेदं करिष्याम एवं
पिण्डपातहारकेन प्रतिपद्यितव्यम् । एवं नीहारपिण्डपातेन
प्रतिपद्यितव्यम् । न प्रतिपद्यति ॥ आभिसमाचारिकान् धर्म्मान्
अतिक्रामति ॥ * ॥

वि.९ म्स्.४३ ७ (ज्.१९७.९); छ्. ५१२ १
भगवान् श्रावस्त्यां विहरति । ते दानि भिक्षू पिण्डाय च(४४ १)रमाणो
अन्तरघरे याव उट्ठाणातो निर्घोटेन्ति । जनो दानि ओध्यायन्ति ।
पश्यथ भणे श्रमणकाः । याव उट्ठाणातो निर्घोटेन्ति । नष्टं
भ्रष्टं कुतो इमेषां श्रामण्यमेतं प्रकरणं भिक्षू भगवतो
आरोचयेंसु ।
(इइ.प्.५१) भगवानाह । सम्यग्भिक्षवो जनो ओध्यायति । तेन हि एवं
पिण्डाये चरितव्यम् । किन् ति दानि एवं पिण्डाये चरितव्यम् । नायं ताव
क्षमति पिण्डचारिकेन या(४४ २)व उट्ठानातो निर्घोटयितुम् । नापि
अदर्शनपथे स्थातुं, । अथ खलु उदेशे स्थातव्यम् ।
दर्शनश्रवणपथे नेदानि वक्तव्यम् । पिण्डपातं महापुण्ये देहि ।
अथ खलु तूष्णीकेन उद्देशे स्थातव्यम् । न दानि इतो वा इतो वा
निध्यायन्तेन आसितव्यम् । मा पश्येंसु । चोरा वा ओचोरका (ज्.१९८)
भवन्ति । अथ खलु षडायतनं मनसिकरेन्तेन स्थात(४४ ३)व्यम् ।
चक्षुरनित्या याव मनो अनित्यन् ति स्थातव्यम् । एष स्त्री धान्यमोहनन्ति
यदि ताव कण्डिकापूरकमुक्कड्ढिय ओच्चरकं प्रविशति जानितव्यम् ।
दास्यति एषा ति । अथ दानि परिवर्त्तियाणं भूयो निध्यायति जानितव्यम् । न
एषा दास्यति गन्तव्यम् । एषा स्त्री धारां वा पीषयति । तिलं वा । मुद्गम्
वा कलायां वा दलेन्ति यदि (४४ ४) ताव शिलापूरकां पिषियाणमोच्चरकं
प्रविशति जानितव्यम् । एषा दास्यति । अथ दानि परिवर्त्तिय निध्यायति ।
जानितव्यम् । एषा न दास्यतीति । एषा स्त्री कर्पासं कर्त्तेति यदि तावन्तुक
निक्षिपियाणमुत्थेति । जानितव्यम् । दाहिति एषा न्ति(त्ति) । अथ दानि भूयो
प्रसारयति जानितव्यम् । न दाहिति एषा न्ति(त्ति) । एषा स्त्री उपविष्टिका
आ(४४ ५)सति । भिक्षून पश्यियाणमुत्थेति जानितव्यम् । दास्यति एषा न्ति(त्ति) ।
अथ दानि उत्थियाणं भूयो उपविशति जानितव्यम् । न एषा दास्यति । एषा
स्त्री भिक्षुं पश्यियाणमोच्चरकं प्रविशति जानितव्यम् । दास्यति एषा
न्ति(त्ति) । अथ दानि रिक्ता निर्द्धावति । जानितव्यम् । एषा न दास्यति
गन्तव्यम् । एषा स्त्री कांसभाजनं मार्जति भिक्षु पश्यि(४४ ६)याणं
(इइ.प्.५२) हस्तां धोवति । जानितव्यं दास्यति एषा त्ति । अथ दानि आभरणानि
वा उच्छारेति जानितव्यम् । न एषा दास्यतीति । महात्मनां मनुष्याणां
गृहा भवन्ति । तहिं कुण्डा उज्झितप्रकीर्ण्णा भवन्ति । शाटका वा
पटका वा हारा वा अर्द्धहारा वा हिरण्यं वा सुवर्ण्णं वा न दानि
तहिमशब्दकर्ण्णिकाये निर्ग्गन्तव्यम् । अथ खलु प्रति(ज्.१९९)संविदितेन
निर्ग्गन्तव्यम् । (४४ ७) एवं यं यं कार्म्मं च्छिन्दियाणमोच्चरकं
प्रविशति दातुकामा भवति । न तेन गन्तव्यम् । एवं पिण्डाय चरितव्यम् ।
न प्रतिपद्यति ॥ आभिसमाचारिकान् धर्म्मानतिक्रामति ॥ * ॥

वि.१० म्स्.४४ ७ (ज्.१९९.४); छ्. ५१२ २६
भगवान् श्रावस्त्यां विहरति विस्तरेण निदानं कृत्वा ते दानि
निश्रयकरणीया पिण्डाय चरन्ति । तेषामुपाध्यायाचार्या स्नेहं
स्थपेन्ति । खज्जखण्डकानि थपेन्ति । पश्यन्ति यं कालमा(४४ १)गता
भवन्ति । ततो तेषां संविभजिष्यामः । ते पि दानि बाह्येन बाह्यं
प्रतिक्रमन्ति । ते दानि तेषामुपाध्यायाचार्या ओध्यायन्ति वयं य्येव
ताव इमेषां कृतेन स्नेहं थपेमः । खज्जकखण्डकानि स्थपेमः ।
जानाम वयं यं कालमागता भविष्यन्ति । ततो संविभजिष्यामः । इमे
पि बाह्येन बाह्यं प्रतिक्रमन्ति । एतं प्रकरणं भिक्षूहि श्रुतं
भिक्षू भगवतो आरोचयेंसु ।
भग(४४ २)वानाह । तेन हि एवं पिण्डचारिकेन प्रतिपद्यितव्यम् । किन् ति
दानि एवं पिण्डचारिकेन प्रतिपद्यितव्यम् । एषो दानि भिक्षु
निश्रयकरणीयो भवति । नापि दानि क्षमति पिण्डाय चरियाणं बाह्येन
बाह्यं प्रतिक्रमितुं, । नापि उपाध्यायाचार्याणां वा भुंजन्तानां
नेदानि उष्ठिहित्वा आसितव्यम् । इमेहि शक्नोम । पिण्डचारिकेहि मुखे
कवलं प्रक्षिपितुम् । अथ खलु दर्श(४४ ३)नोपविचारे आसितव्यम् । अथ
(इइ.प्.५३) खलु पिण्डचारमण्ठियाणमुपाध्यायस्य वा आचार्यस्य वा
अल्लीपयि(ज्.२००)तव्यम् । यदि ताव लब्धं भवति उपाध्यायेन वा आचार्येण
वा संग्रहो कर्त्तव्यो । शक्तुका स्तोका भवन्ति । शक्तुका दातव्या । स्नेहो
दातव्यो । खज्जखण्डकानि संविभागो कर्त्तव्यो । अथ दानि
उपाध्यायस्य वा आचार्यस्य वा पि(४४ ४)ण्डपातको भवति । अयं च
पिण्डाय चरित्वा आगतो भवति । सहितकेहि परिभुञ्जितव्यम् । लूहं च
प्रणीतं च एकञ्च अपरं च । अथ दानि सो प्रणीतभोजनस्य महार्हस्य
पूरं पात्रं गृह्नियाणमागच्छति । आह । उपाध्यायाचार्य परिभुंजाहि
न्ति(त्ति) । सुविहित कुतो इमं ति पृच्छितव्यो । यदि ताव आह ।
उपाध्यायाचार्य असुका(४४ ५)ये चेटिकाये दिन्नम् । असुकाये चण्डविधवाये
दिन्नम् । असुकेन पण्डकेन दिन्नं, । असुकाये स्थूलकुमारीये दिन्नम् ।
असुकाये पापभिक्षुणीये दिन्नम् । असुकायो पापश्रामणेरीये दिन्नम् ।
वक्तव्यं सुविहित अप्रतिग्राह्यो एषो जनो मा भूयो एतेषां तेन
प्रतिगृह्नीहसि । अथ दानि आह । उपाध्यायाचार्य । असु(४४ ६)कस्य(काये)
मे वाणिजस्य सार्थवाहस्य परिकथा कृता । बुद्धवचनं जल्पितम् । तेन
मे एषो प्रसन्नेन आहारको दिन्नो वक्तव्यं सुविहित करोहि धूमं मा
च पुनः । आमिषचक्षुः । अथ दानि आह । (ज्.२०१) उपाध्यायाचार्य
भुञ्जाहि । यदि ताव परिभुञ्जितव्यम् । अथ दानि न कांक्षति वक्तव्यं
सुविहित परिभु(ं)जाहि त्वं नाहं परिभुञ्जिष्यन् ति । यं कालं
उपाध्यायेन वा आ(४४ ७)चार्येण वा अनुज्ञा दिन्ना भवति । ततो
परिभुञ्जितव्यम् । यदि कोचि निमन्त्रेति । यदि अर्थिको भवति
प्रतिच्छितव्यम् । अथ दानि पिण्डचारमण्ठित्वा ततो एव नदीकुले वा
उदुपानकुले वा पुष्किरिणीकुले वा आहारं कृत्वा पात्रं निर्म्मादयित्वा
आगच्छति । अनापत्तिः । एवं पिण्डचारिकेन प्रतिपद्यितव्यम् । न
प्रतिपद्यति (इइ.प्.५४) । आभिसमाचारिकान् धर्म्मानतिक्राम(४५ १)ति ॥ * ॥

उद्दानं
एवं निवासितव्यम् ।
एवं प्रावरितव्यम् ।
(एवमन्तरगरं प्रविशन्तेन चीवरे प्रतिपद्यितव्यं)
एवमन्तरघरे प्रविष्टेन चीवरे प्रतिपद्यितव्यम् ।
एवं पुरेश्रमणेन प्रतिपद्यितव्यम् ।
एवं पश्चाच्छ्रमणेन प्रतिपद्यितव्यम् ।(ज्.२०२)
एवं पिण्डपातहारकेन प्रतिपद्यितव्यम् ।
एवं नीहारपिण्डपातेन प्रतिपद्यितव्यम् ।
एवं पिण्डाय चरितव्यम् ।
एवं पिण्डचारिकेन प्रतिपद्यितव्यम् ॥

षष्ठो वर्ग्गः ॥ * ॥

(यसुओ ंाट्शूणांी)


विइ. १ म्स्.४५ १ (ज्.२०३.१); छ्.५१२ ११
(इइ.प्.५५) भगवान् श्रावत्यां वि(४५ २)हरति विस्तरेन निदानं कृत्वा ते
दानि भिक्षू अन्धकारे प्रहाणे उपविंश(शं)ति । उक्खलन्ता
प्रक्खलन्ता एतं प्रकरणम् । याव भगवानाह । तेन हि दीपो नाम
कर्त्तव्यो । आयुष्मन्तो नन्दनोपनन्दना दीपवारिका ते दानि प्रहाणातो
उत्थिता चपेटिकाये दीपं निर्व्वापेन्ति । चीवरकोणेनापि निर्व्वापेन्ति ।
योगाचारा भिक्षू गन्धेन व्यावहन्ति । एव(त)ंप्रकरणं भिक्षू
भगवतो (४५ ३) आरोचयेंषु ।
भगवानाह । तेन हि एवं दीपे प्रतिपद्यितव्यम् । किन् ति दानि एवं
प्रदीपे प्रतिपद्यितव्यम् । एषो दानि संघारामो पुरिमं पश्चिमं
प्रहाणं प्रतिजाग्रीयति । दीपचा(वा)रिका उद्दिशितव्या । एको वा द्वयो वा
यत्तकावा अभिसंभुणन्ति नवकान्तेन वा पटिपाटिकाये वा यस्य वा
प्रापुणति । तेहि प्रकृत्येव ताव दीप(४५ ४)वर्त्तिकायो वर्त्तितव्यायो
दीपकोटिकानि सज्जयितव्यानि तैलं सज्जयितव्यम् । अग्नि प्रतिजागृतव्यो ।
तुषेण वा कर्षेण वा गोमयपिण्डिका वा पटिपटिकाये स्थपेतव्या ।
यथानुपूर्व्वेण गच्छेय भक्तशालायां वा पटिपाटिकाये स्थपेतव्या
(ज्.२०४) दीपवारिकेन दीपमादीपेन्तेन प्रथमानमेव भगवतो
शरीरकु(४५ ५)टिकायां दीपो आदीपितव्यो यदा चेतियं वन्दितं भवति ।
ततो निष्कासिय स्थपेतव्यो मा आदीनवमुत्पादयेष्या यं कालं
प्रहाणस्य जर्जरो आहतो भवति । यदि ताव सो द्विभूमिका संघारामो
भवति । प्रथमं ताव सोपानमग्गुलीयेदीपको जालयितव्यो । चतुहि
प्रासादस्य कोणे कोणे दीपको प्र(४५ ६)ज्वालयितव्यः । वर्च्चकुटीयं
दीपको प्रज्वालयितव्यो । पश्चात्प्रहाणशालायां (इइ.प्.५६) दीपको
प्रज्वालयितव्यो । यं कालं भिक्षुसंघो प्रहाणे उपविष्टो भवति । ततो
दीपवारिकेन दीपको वारयितव्यो । मा तर्हि कोचि प्रचलायतीति । यदि ताव
कोचि प्रचलायति अच्छटिकं करिय उत्थापयितव्यो वक्तव्यमायुष्मन तव
दीपो प्रापुणतीति । तेन (४५ ७)स चारयितव्योइमिना उपविशितव्यम् । अथ
दानि भिक्षुस्य उपाध्यायो वा आचार्यो प्रचलायति । न क्षमति । सो
ऽध्युपेक्षितुम् । अथ खलु सो पि अच्छटिकाये उपस्थपेतव्यो वक्तव्यम् ।
उपाध्यायाचार्य तत्र दीपो प्रापुणतीति । आस त्वमा(अ)हं चारयिष्यन् ति ।
तेन चारयितव्यो । (ज्.२०५) अथ दानि भिक्षु श्राद्धको भवति । आह ।
सुविदितआस त्वम् । अहं,(४५ १) चारयिष्यन् ति । दातव्यो । नापि क्षमति । तेन
उपारम्भणाभिप्रायेण दीपो चारयितुम् । तेहिदीपचा(वा)रिको(के)हिन
क्षमति । अघातो वा प्रवेदयितुम् । अथ खलु चित्तमुत्पादयितव्यं
विनीवरणं नौ करेन्ति त्ति यं कालं प्रहाणस्य यथासुखं कृतं
भवति । ततो प्रहाणशालातो दीपको उक्कढितव्यो । नापि क्षमति ।
चपेटिकाथ(ये) वा मुखवातेन वा चीवरको(४५ २)णेन वा दीपं
निर्व्वापयन्त(तु)म् । अथ खलु तुलिकाये निस्नेहिय दीपवर्त्ति ओकड्ढिय
कुलिकातैले निर्व्वापयितव्यम् । अथ दानि नवका भिक्षू प्रहाणशालायां
प्रतिक्रमन्ति । न क्षमति प्रहाणशालायां दीपं निर्व्वापयितव्यम् । अथ
खलु बहि प्रासादकोणेहि दीपका निर्व्वापयितव्या । सोपानमग्गुलीयं
प्रासादकुटीयं दीपको निर्व्वापयितव्यो विभवो (४५ ३) भवति । (इइ.प्.५७)
सर्व्वरात्रिं वर्च्चकुटीयञ्च प्रस्रावकुटीयं दीपको प्रज्वालयितव्यो ।
अथ दानि विभवो न भवति । यदा भिक्षू प्रतिक्रान्ता भवंति । ततो
वर्च्चकुटीयं दीपो निर्व्वापयितव्यो । वर्च्चकुटीयं निर्व्वापयित्वा
रच्छादीपो (ज्.२०६) निर्व्वापयितव्यो रच्छायां निर्व्वापयित्वा सोपानशीर्षे
निर्व्वापयितव्याः । सोपानशीर्षे निर्व्वा(४५ ४)पयित्वा प्रहाणरो(शा)लायां
दीपो निर्व्वापयितव्यो । न दानि सहसाकारस्य अप्रतिसंविदित्वा
निर्व्वापेतव्या । अथ खलु आयुष्मन्तो प्रज्ञपेथ शय्यायो दीपं
गोपयिष्यन् ति । ततो हस्तेन ताव ओवारयितव्यो । ततो वक्तव्यम् । मा
आयुष्मनेषो निर्व्वापयिष्य ति । न दानि क्षमति । मुखवातेन वा
चीवरकोणेन वा चपेटि(४५ ५)काय वा निर्व्वापयितुम् । यदि दीपवर्त्ति ।
दग्धिका भवति । पलिखाटिर्व्वा ओकड्ढितव्यो निर्व्वापितो भवति । अग्नि
गोपयितव्यो । तुषेहि वा कर्षेहि वा बुषेन वा बुषिकायवा । यं कालं
पश्चिमे यामे प्रहाणस्य झर्ज्झरो आहतो भवति । ततो दीपवारिकेहि
सोपानमग्गुलीयं ताव दीपो प्रज्वालयितव्यो । नापि क्षमति
प्रहा(४५ ६)णशालायां सहसा दीपकं प्रवेशयितुम् । मा नवका भिक्षु
सहसा विप्रकट(म्) उत्थिहंस्न(सु) न्ति(त्ति) । अथ खलु वक्तव्यम् ।
आयुष्मन्तं दीपो प्रवेशीयतीति । दीपो प्रवेशयति न्ति(त्ति) । यं कालं
प्रहाणस्य यथासुखं कृतं भवति । प्रहाणशालायान् ताव प्रथमं
दीपको निर्व्वापयितव्यो । अथ दानि नताव निर्भाति न क्षमति
निर्व्वापयितुम् । यं कालं विभातं भवति (ज्.२०७) । आका(४५ ७)शं कृतं
भवति । ततो वर्च्चकुटीये प्रस्रावकुटीये च दीपको (इइ.प्.५८)
निर्व्वापयितव्यो । तैलं शेषं भवति । साहरियाणं घटिकायां ना(वा)
भाजने वा स्थापयितव्यम् । दीपकोटिकायो एकस्थाने स्थापयितव्या ।
दीपवर्त्तीयो निष्पेडियाणमेकं हि कोणके स्थापेतव्या । यो एवं
देवशिकं दीपो ज्वालयितव्यो । एवं दीपे प्रतिपद्यितव्यम् । न
प्रतिपद्यति ॥ (४६ १) आभिसमाचारिकान् धर्म्मानतिक्रामति ॥ * ॥

विइ.२ म्स्.४६ १ (ज्.२०७.७); छ्.५१३ ५
भगवान् श्रावस्त्यां विहरति । ते दानि भिक्षुः प्रहाणे प्रचलायंति ।
एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु । भगवानाह । तेन हि
यष्टी नाम चारयितव्या । यष्टीयं ताव भिक्षुणा कारापयमाणेन
अष्टहस्तायामेन कर्त्तव्या । मुष्टिमात्री स्थूलत्वेन उभयेहिमन्तेहि
लोहकेन बन्धितव्या । नवकान्तेन वा पटिपाटिका(४६ २)य वा यस्य वा
पुनः प्रापुणति एषा एवार्थोत्पत्तिः ॥ * ॥
भगवान् श्रावस्त्यां विहरति । ते दानि आयुष्मन्तो षड्वर्ग्गिकाः । यष्टी
चारेन्तायो येच(व) भिक्षु प्रचलायति । तं येव क्षिप्राये यष्टीये उरे वा
आहनति पादे वा अ(आ)हनति ते दानि भिक्षु विहठियन्ता आरावं मुञ्चति।
आयुष्मं हतो स्मि हतो स्मीति । एतं प्रकरणं भिक्षू भगवतो
आरोचयेंसु । (ज्.२०८) भगवानाह (४६ ३) तेन हि एवं यष्टीये
प्रतिपद्यितव्यम् । किन् ति दानि एवं यष्टीये प्रतिपद्यितव्यम् । यष्टी
कारयन्तेन कर्त्तव्यम् । वंशस्य वा नलस्य वा नंग्लस्य वा रोहिषस्य वा
दशाष्टहस्तां दीर्घत्वेन उभयतो अग्रे योत्तखण्डेहि वेढयितव्या ।
नवकान्ततो चारेतव्या यष्टि दानि चारेन्तेन न दानि ओगुण्ठितशीर्षेण वा
चारेतव्या (इइ.प्.५९) ओहित(४६ ४)हस्तेन वा उपानहारूढेन वा यष्टि
चारेतव्या । अथ खलु एकांसीकृतेन चारयितव्या नायं ताव क्षमति
भिक्षुणा यष्टिं चारेन्तेन क्षिप्राये यष्टीये आहनितुम् । नापि क्षमति
विहेठनाभिप्रायेण यष्टी चारयितुम् । अथ खलु मैत्रचित्तेन
यष्टा(ष्टी) चारयितव्या । वृद्धान्ततो नवकान्तम् । एते दानि भिक्षुः
प्रचलायन्ति नापि क्षमति अ(४६ ५)ध्युपेक्षितुं, । नापि क्षमति क्षिप्राये
यष्टीये आहनितुम् । रजग्[व्]अस्म विय । अथ खलु पार्श्वे स्थित्वा त्रिक्खत्तो
पुरतो यष्टि कारयितव्या । यदि न बुध्यति । अच्छटिका कर्त्तव्या । यदि
वामेन स्थितको भवति । दक्षिणेन जानुकेहि संघट्टेतव्यो । यदि
दक्षिणतो स्थितो भवति । वामजानुकेन तेन च्छन्ति(त्ति) ।
प्रत्युपस्थितव्यम् । घटि(४६ ६)तव्या उत्थापियाणं वक्तव्यमायुष्मन्
तव यष्टि प्रापुणति । चारेहि तेन चारेतव्यम् । इमिना उपविशितव्यम् । न
दानि क्शमति । ओगुण्ठितशीर्षेण वा ॥ पे ॥ याव अथ खलु (ज्.२०९)
एकांसीकृतेन चीवरं कृत्वा गृह्नितव्यम् । तेन चारेतव्यम् । अथ दानि बहु
प्रचालयन्ति । न दानि ते सर्व्वे वलीवन्दा विय उत्थपेतव्या । यो तत्र
नवकतरो भवति । तस्य यष्टी दातव्या । (४६ ७) अथ दानि भिक्षु
उपाध्यायाचार्या प्रचलायन्ति न क्षमति अध्युपेक्षितुं, । अथ खलु
अच्छटिकाये उत्थापियाणं वक्तव्यमुपाध्यायाचार्य तव यष्टी
प्रापुणति तेन धर्म्मगौरवेण प्रत्युत्थाय गृहीतव्यं न क्षमति
यष्टी तस्य दातुम् । अथ खलु वक्तव्यम् । आस त्वम् । अहं चारयिष्य
ते(ति) । न येव यष्टी चारेतव्यम् । न दानि तेन ओतारप्रेक्षिणा चारेतव्या ।
अथ ख(४६ १)लु षडाय(त)न मनसिकरेन्तेन (इइ.प्.६०) चारेतव्या यदि कोचि
प्रचालयति तस्य दातव्या । ते पि दानि तहिं न आघातो बन्धितव्यो । अथ
खलु चिन्तेतव्यम् । बहुकरो एषो अस्माकं चि(वि)नीवरणं करोति । तेन
ताव चारेतव्या । अथ दानि श्रद्धको भिक्षुर्भवति । आह । सगोत्रीमाता
आस त्वम् । अहं चारयिष्यामि । दातव्या एवं ताव चारेतव्यम् । याव
प्रहाणस्य यथासुखं कृ(४६ २)तं भवति नापि क्षमति तेहि भिक्षूहि
यष्टी चारे(ज्.२१०)न्तेहि चित्तं प्रदूषित(तु)म् । अथ खलु चित्तम्
उत्पादयितव्यम् । विनिवरणं मे करेन्तीति । एवं यष्टीयं
प्रतिपद्यितव्यम् । न प्रतिपद्यति ॥ आभिसमाचारिकान् धर्म्मान्
अतिक्रामति ॥ * ॥

विइ.३ म्स्.४६ २. (ज्.२१०.४); छ्.५१३ २४
भगवान् श्रावस्त्यां विहरति । विस्तरेण निदानं कृत्वा ते दानि
भिक्षुं(क्षू)प्रहाणस्मिं यष्टिं चारयन्ताशीतेन किलम्मति । एतं
प्रकरणं भिक्षू भगव(४६ ३)तो आरोचयेंसु । भगवानाह । तेन हि
गेण्डुकं नाम कर्त्तव्यो । गेण्डुकं दानि भिक्षुणा कारापयमाणेन
कारापयितव्यो । तृणानां वा पलालानां वा लेङ्क(ट)कखण्डकानां वा
सूत्रस्य वा उलाय वा बाह्येनपणेन नत्तकेन वेष्टयित्वा सूत्रकेन
वेष्टयितव्यो । नापि क्षमति । खक्खटं कर्त्तुं नापि क्षमति ।
अति[शिथिलम् ।] अथ खलु (४६ ४) तादृशो कर्त्तव्यो । यो भूमीयमापिटितो
युगमात्रमुप्पटतिसो चारयितव्यो । नवकान्तेन वा पटिपाटिकाय वा
यस्य वा पुन प्रापुणति । एषा एवार्थोत्पत्तिः ॥ * ॥
(ज्.२११) भगवान् श्रावस्त्यां विहरति । ते दानि आयुष्मन्तो षड्वर्ग्गिकाः ।
गेण्डुकं चारयंता इष्टखण्डं लेङ्क(इइ.प्.६१)टकखण्डेन वेष्टयित्वा
चारेन्ति । यो येव प्रचालयति । तं, (४६ ५) येवक्षिप्रेण गेण्डुकेन उरसि वा
ताण्डेति । पार्श्वस्मि वा आहनन्ति । ते दानि भिक्षू विहेठयमाना आरावं
मुञ्चन्ति । आयुष्मन हतो स्मि हतो स्मि । एतं प्रकरणं भिक्षू
भगवतो आरोचयेंसु । नापि क्षमति । आघातचित्तेन वा दुष्टचित्तेन वा
गेण्डुकां चारयितुं, । अथ खलु मैत्रचित्तेन हितचित्तेन गेण्डुको
चरितव्यो । नापि (४६ ६) क्षमति । गेण्डुकं चारयन्तस्य चित्तं
प्रदूषयितुम् । अथ खलु चित्तं प्रगोपयितव्यम् । विनीवरणं सो करेन्ति
त्ति । एषो दानि भिक्षुः प्रचालयति । न क्षमति क्षिप्रेण गेण्डुकेन
आहनितुम् । अथ खलु भूयो गेण्डुकमास्थपयित्वा अच्छटिकाये
उत्थापयितव्यो । वक्तव्यमायुष्मान् तव गेण्डुकोप्रापुणति । उत्थेहि
चारेहि न्ति(त्ति) । इमेन चारयितव्यो इमेन (ज्.२१२) उप(४६ ७)विशितव्यम् । अथ
दानि भिक्षुस्य । उपाध्यायो वा आचार्यो वा प्रचालयति । न क्षमति । सो पि
अध्युपेक्षितुम् । अथ खलु त्रयो वा वारा गेण्डुकां पुरतो
अभामयित्वाच्छटिकाये उत्थापयितव्यो । वक्तव्यमुपाध्यायाचार्य तव
गेण्डुको प्रापुणति । तेनापि दानि धर्म्मगौरवेण प्रत्युत्थाय पुणोति ।
निषीदितव्यम् । न दानि तेन ओतारप्रेक्षिणा आसितव्यम् । अथ ख(४७ १)लु
षडायतनं मनसिकरेन्तेन आसितव्यम् । अथ दानि आह । आश तुममहं
चारयिष्यन् ति । तेन येच(व) चारयितव्यो । अथ दानि श्राद्धको भिक्षुर्
भवति । आह सगोत्रीमाता आस त्वमहं चारयिष्यन् ति । दातव्यम् । एवं
ताव चारयितव्यो । याव (इइ.प्.६२) प्रहाणस्य यथासुखं कृतं भवति । न
क्षमति सो गेण्डुको अध्युपेक्षितुम् । पाटितविपाटिता । अथ खलु कालेन
कालं सिञ्चयितव्यो । का(४७ २)लेन [कालं प्रक्षालितव्यो । एवं गेण्डुके]
[प्रतिप]द्यितव्यम् । न प्रतिपद्यति । आभिसमाचारिकान् धर्म्मान्
अतिक्राम्ति ॥ * ॥

विइ.४ म्स्.४७ २ (ज्.२१२.१४); छ्. ५१३ १७
भगवान् श्रावस्त्यां विहरति विस्तरेण निदानं कृत्वा ते दानि
आयुष्मन्तो षड्वर्ग्गिकाः प्रहाण आगता समाना स्कन्धातो निषीदनम् ।
(ज्.२१३) ओतारियाणं कोणे कोणे गृहीत्वा वट-वट न्ति(त्ति) । प्रस्फोटयित्वा
प्रज्ञपयित्वा निषदन्ति । य(ं) कालं प्रहाणस्य यथा(४७ ३)सुखं कृतं
[भवति] । ततो निषीदनं कोणे कोणे गृहीत्वा वड-वडा न्ति(त्ति) प्रस्फोटिय
साहरित्वा स्कन्धे कृत्वा गच्छन्ति । योगाचारां भिक्षुं शब्देन
व्याहर(वह)न्ति । एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु ।
भगवानाह । तेन हि एवं निषीदने प्रतिपद्यितव्यम् । किन् ति दानि एवं
निषीदने प्रतिपद्यितव्यम् । नायं ताव क्षमति । भिक्षुणा प्रहाणं
(४७ ४) ओकस्तेन निषीदनं [कोणे कोणे] गृहीत्वा वड-वडा न्ति(त्ति) ।
प्रस्फोटयितुम् । अथ खलु विहारके वा बाह्यतो वा निषीदन
प्रस्फोटयाणं द्विगुणं कृत्वा प्रहाणमोकसितव्यम् । आत्मनो
प्रतिसन्धिस्मि सुखाकं निषीदनकं पीठके प्रज्ञपयितव्यम् । तथा
कर्त्तव्यं यथा आनन्तरिकं न व्यावहति । नापि क्षमति यथासुखे कृते
उत्थिय निषीदनं (४७ ५) कोणे कोणे गृहीत्वा चट-चट न्ति(त्ति)
प्रफोटयितुम् । अथ खलु सुखाकमुत्थित्वा द्विगुणीकृत्वा (इइ.प्.६३)
स्कन्धे कृत्वा च गन्तव्यम् । अथ दानि भिक्षुः पश्यति द्वितीये प्रहाणे ।
अवीतकं भविष्यतीति । रात्रिञ्च शय्यासनं (ज्.२१४) यथाप्रज्ञप्तकं
आसति नापि क्षमति निषीदनं यथाप्रज्ञप्तकं कृत्वा गन्तुम् । अथ खलु
यथाखलु प्रज्ञप्तकं द्विगुणीकृत्वा ततो गन्तव्यं (४७ ६) द्वितीयस्य
प्रहाणस्य जर्जरे आगते ओतरितव्यम् । नापि क्षमति प्रहाणमोकस्तेन
निषीदनं कोणे कोणे गृहीत्वा वड-वडा न्ति(त्ति) । प्रस्फोटयितुम् । अथ
खलु यथा साहटस्य निषीदनस्य द्वितीयो अन्तो उद्वेलिय प्रज्ञपयितव्यो ।
ततो निषीदितव्यम् । नापि क्षमति । प्रहाणस्य यथासुखे कृते
निषीदनकं कोणे कोणे गृहीत्वा वड-वडा न्ति(त्ति) । प्रस्फोटयितुं, । अथ
(४७ ७) खलु संप्रजानं साहरित्वा स्कन्धं कृत्वा गन्तव्यम् । नापि
क्षमति । निषीदनमध्युपेक्षितुम् । ओमयिलोमयिलं पाटितविपाटितम् ।
अथ खलु कालेन कालं धोवितव्यम् । कालेन कालं सिंचितव्यम् । एवं
निषीदने प्रतिपद्यितव्यम् । न प्रतिपद्यति ॥ आभिसमाचारिकान् धर्म्मान्
अतिक्रामति ॥ * ॥

विइ.५ म्स्.४७ ७ (ज्.२१४.१२); छ्. ५१३ ८
भगवान् श्रावस्त्यां विहरति । ते दानि आयुष्मन्तो षड्वर्ग्गिकाः ।
प्रहाण ओ(क)स्त(४७ १)काः । समाना आसनेहि उपविशियाणमुपानहा
निक्खासिय एक पि एकेन हस्तेन पार्ष्णिकावद्ध्रकस्मि गृहीत्वा द्वितीयं
(ज्.२१५) द्वितीयेन हस्तेन पार्ष्णिकावद्ध्रकं गृहीत्वा चट-चट न्ति(त्ति)
प्रस्फोटन्ति योगाचारां भिक्षूं शब्देन व्यावहन्ति । एतं प्रकरणं
भिक्षू भगवतो आरोचयेंसु ।
भगवानाह । तेन हि एवमुपानहाये प्रतिपद्यितव्यम् । किन् ति दानि
एवमुपानहाये प्र(४७ २)तिपद्यितव्यम् । नायं (इइ.प्.६४) ताव क्षमति
भिक्षुणा प्रहाण उपविष्टेन उपानहा निक्खोसियएकं पि एकेन हस्तेन
पार्ष्णिवद्ध्रके गृह्निय द्वितीयं द्वितीयेन हस्तेन पार्ष्णिवद्ध्रके
गृह्निय चट-चट न्ति(त्ति) प्रस्फोटयितुम् । अथ खलु भिक्षुणा
प्रतिकृत्येव ताव पादधोवनिकाये उपानहायो पोच्छिय प्रहाणस्य जर्जरे
ओतरितव्यम् । यदि ताव प्रहाणशालायां भूम्यस्तारो कृतको भवति ।
(४७ ३) न क्षमति सोपानहेन पादेन प्रहाणमुपविशितुम् । अथ खलु
उपानहिकायो द्वारमूले निक्खासिय प्रविशित्वा वृद्धान्ते अञ्जलिं कृत्वा
यथावृद्धिकाये उपविशितव्यम् । अथ दानि भिक्षु पश्यति । अनेकायो
उपानहिकायो मूषिकेन वा खज्जेंसु । भिक्षू वा जानन्तो वा अजानन्तो वा
गृहीत्वा गच्छेयन्ति किं कर्त्तव्यं संपुटिकरियाणं वामकेन
ह(४७ ४)स्तेन गृह्निय निकुटितकेन ओसारयित्वा संप्रजानं गृह्नियाणं
गन्तव्यम् । प्रतिसन्धिस्मि तथा येव संपुटिकृतिकायो आसनस्य हेष्ठे
स्थपितव्यायो स्थपित्वा प्रहाणमुपविशितव्यम् । यं कालं प्रहाणस्य
यथासुखं कृ(तं) भवति । भिक्षुणा उपस्थपित्वा उपानहायो तथा
येव संपुटीकृतिकायो (ज्.२१६) गृहीत्वा निकुटितकेन वामाबाहामोसारिय
संप्रजानं निर्द्धा(४७ ५)वितव्यम् । अथ दानि अकृतो भूम्यस्तारो भवति
सोपानहेन प्रहाणशालां प्रविशितव्यम् । वृद्धान्ते उपानहायो
पार्ष्णिवद्ध्(र्)अके ओसारिय प्रणामं कर्त्तव्यम् । अभिनिकुटितकेन
प्राञ्जलीकृतेन गन्तव्यम् । यावत्प्रतिसन्धिनिषीदनं प्रज्ञपयित्वा
उपानहायो निक्खासित्वा पर्यंकेन निषीदितव्यम् । प्रहाणस्य यथासुखे
कृते आगमयितव्यम् । भिक्षुणा (४७ ६) याव वृद्धतरका निर्द्धाविता
पश्चादुत्थयित्वा उपानहायो आबन्धिय गन्तव्यम् । अथ दानि (इइ.प्.६५)
वृद्धतरका आसन्ति । भिक्षू च आगन्तुकामो भवति । उपानहायो
आबन्धिय नवकान्ते संप्रजानं गन्तव्यं, । नापि क्षमति संघमध्ये
भक्ताग्रे तपर्पणाग्रे वा समीचीयं वा सोपानहेन निषीदितुम् । नापि
क्षमति । उपाध्यायस्य वा आचार्यस्य वा अग्रतो सोपानहेन निषीदितुम् ।
अथ ख(४७ ७)लु उपानहिकायो निक्खासियाणं प्रणामं कृत्वा
उपविशितव्यम् । अथ दानि भिक्षु ग्लानो भवति किञ्चापि सोपानहो
उपाध्यायस्य वा आचार्यस्य वा मूले उपविशति । अनापत्तिः । नापि क्षमति
भिक्षुणा पादां धोवन्तेन उपानहायो वड-वड न्ति(त्ति) प्रस्फोटयितुम् ।
अथ दानि भिक्षुः । अध्वानमागतो भवति । उपानहायो च पांसुना
ओपूरिता भवन्ति । नदीकूले वा पुष्किरिणीकूले वा (४८ १; ज्.२१७) पादं
धोविय प्रस्फोटेति । अनापत्तिः । त पि दानि न क्षमति । वृद्धतरकस्य
वा अनुवातं प्रस्फोटयितव्यम् । नापि क्षमति उपनहा अध्युपेक्षितुम् ।
ओद्रिण्णका वा पलुग्गका वा । अथ खलु कालेन कालं घटयितव्यम् ।
कालेन कालं प्रत्यग्रलका दातव्याः । एवमुपानहाये प्रतिपद्यितव्यम् ।
न प्रतिपद्यति ॥ आभिसमाचारिकान् धर्म्मानतिक्रमति ॥ * ॥

विइ.६ म्स्.४८ १ (ज्. २१७.६); छ्. ५१३ २५
भगवान् श्रावस्त्यां विह(४८ २)रति । ते दानि आयुष्मन्तो षड्वर्ग्गिकाः
प्रहाणमुपविष्टाः । औद्धत्याभिप्राया मुक्तेहि पार्श्वेहि । खल-खल
न्ति(त्ति) कासन्ति । योगाचारां भिक्षुं शब्देन व्यावहन्ति । एतं प्रकरणं
भिक्षू भगवतो आरोचयेंसुः ।
(इइ.प्.६६) भगवानाह । तेन हि एवं कासितव्यम् । किन् ति दानि एवं
कासितव्यम् । नायं क्षमति भिक्षुणा प्रहाणमुपविष्टेन
औद्धत्याभिप्रायेण मुक्तेहि पार्श्वेहि खुलु-खुलु न्ति(त्ति) कासितुं, । अथ
(४८ ३) दानि भिक्षुस्य कासो आगच्छति । हस्तेन ग्रीवा परिमर्दितव्या । अथ
दानि न पारेति विनोदयितुं संप्रजानकं कासयितव्यम् । अथ दानि भूयो
भूयो काशो (ज्.२१८) आगच्छति । बाहिरतो निर्द्धापिय कासितव्यम् ।
प्रहाणस्य वा आमन्त्रिय गन्तव्यम् । नापि क्षमति भक्ताग्रे वा
तर्पणाग्रे वा सामायिकाये वा औद्धत्याभिप्रायेण मुक्तेहि पार्श्वेहि ।
ख-ख-ख (४८ ४) न्ति(त्ति) कासितुम् । अथ दानि भिक्षुस्य कासिका आगच्छति ।
संप्रजानं कासितव्यम् । अथ दानि भूयो भूयो उक्कासिका आगच्छति ।
अन्तरिको वक्तव्यो । आयुष्मन्मम ताव पिण्डपातमुक्कड्ढेति(सि) ।
तथा(तो) गन्तव्यम् । नापि क्षमति धर्म्मश्रवणिकेन उपविष्टे
औद्धत्याभिप्रायेण मुक्तेहि पार्श्वेहि ख न्ति(त्ति) काशितुम् । अथ दानि
भिक्षुस्य कासो आगतो भवति । (४८ ५) ग्रीवा मर्दितव्या । अथ दानि न
पारेति विनोदयितुं, । संप्रजानं कासितव्यम् । अथ दानि पुनो पुनो
कासावीयति । धर्म्मश्रवणस्य आमन्त्रिय गन्तव्यम् । नापि क्षमति ।
उपाध्यायस्य वा आचार्यस्य वा अग्रतो वृद्धतरकानां वा
औद्धत्याभिप्रायेण मुक्तेहि पार्श्वेहि ख-ख-ख न्ति(त्ति) कासितुम् । अथ
दानि भिक्षुस्य उक्कासिका आगच्छति । संप्रजानं कासितव्यं (४८ ६)
एकतमंते आगच्छिय कासितव्यम् । एवं कासे प्रतिपद्यितव्यम् । न
प्रतिपद्यति ॥ आभिसमाचारिकान् धर्म्मानतिक्रमति ॥ * ॥

विइ.७ म्स्.४८ ६ (ज्. २१८.१६); छ्. ५१३ ३
भगवान् श्रावस्त्यां विहरति । ते दानि आयुष्मन्तो (इइ.प्.६७) षड्वर्ग्गिकाः
प्रहाणमुपविष्टाः । औद्धत्याभिप्रायाः कुलिकाये नक्कं विज्झन्ति ।
सूत्रकं पि वट्टियाणं नक्के प्रक्षिपन्ति । ते दानि सर्व्वेण कण्ठेन
हच्छीयन्ति । ते (ज्.२१९) दानि योगाचारां भिक्षूं शब्देन व्यावहन्ति । एतं
प्रक(४८ ७)रणं भिक्षू भगवतो आरोचयेंसु ।
भगवानाह । तेन हि एवं क्षिपितव्यम् । किन् ति दानि एवं
क्ष(क्षि)पितव्यम् । नायं ताव क्षमति । भिक्षुणा प्रहाणमुपविष्टेन
औद्धत्याभिप्रायेण तुलिकाय वा नक्कं विज्झितुम् । सूत्रं वट्टिय
नक्कस्मिन् प्रक्षिपितुं, । नापि क्षमति । सर्व्वेण कण्ठेन हा न्ति(त्ति)
क्षिपितुम् ॥ अथ दानि भिक्षुस्य अनाभोगेन क्षीविका आगच्छति
विनोदयितव्यम् । निरालं परिमर्दितव्यम् । नक्का वा (४८ १)
परिमर्दितव्या । अथ दानि न पारेति विनोदयितुम् । संप्रजानं
क्षीवयितव्यम् । यथा अनन्तरिकस्य न व्यावहेय्या । खेटेन वा
सिंघाणकेन वा । अथ दानि पुनो पुनो क्षीविका आगच्छति प्रहाणस्य
आमन्त्रिय गन्तव्यम् । नायं ताव क्षमति भिक्षुणा भक्ताग्रे वा
तर्पणाग्रे वा उपविष्टेन औद्धत्या(भि)प्रायेण सर्व्वेण कण्ठे(न)
क्षीवितुम् । अथ दानि भिक्षुस्य क्षीविका आगच्छति । विनोदयितव्या ।
अ(४८ २)थ दानि न पारेति विनोदयितुम् । संप्रजानं क्षीवितव्यम् । यथा
आनन्तरिकस्य न व्यावहेय्या । खेटेना(न वा) सिंहाणकेन वा । अथ
दानि भिक्षुस्य पुनो (ज्.२२०) पुनो क्षीविका आगच्छति । आनन्तरिकस्य
वक्तव्यम् । आयुष्मं मम पिण्डपातमुक्कड्ढेसि ततो गन्तव्यम् । नापि
क्षमति । धर्म्मश्रवणे (इइ.प्.६८) सर्व्वेण कण्ठेन क्षीवितुं, । अथ
दानि भिक्षुस्य क्षीविका आगच्छति विनोदयितव्यम् । अथ दानि (४८ ३) न
पारेति विनोदयितुम् । संप्रजानं क्षीवितव्यम् । अथ दानि भिक्षुस्य पुनो
पुनो क्षिविका आगच्छति । धर्म्मश्रवणस्य आमन्त्रिय गन्तव्यं, । नापि
क्षमति सामायिकायां वा । उपाध्यायाचार्याणां वृद्धतरकानां वा
अग्रतो औद्धत्याभिप्रायेण सर्व्वेण कण्ठेन क्षीवितुम् । अथ दानि
भिक्षुस्य क्षीविका आगच्छति विनोदयितव्यम् । अथ दानि न पारेति
वि(४८ ४)नोदयितुम् । एकमते गच्छिय क्षीवितव्यम् । यदि ताव कोचि क्षीवति ।
न दानि वक्तव्यम् । जीव ति । अथ खलु यदि वृद्धतरको भवति ।
वक्तव्यम् । वन्दामि त्ति । अथ दानि नवको क्षीवति । आरोचेति वक्तव्यम् ।
एवं क्षिवितव्यम् । न प्रतिपद्यति ॥ आभिसमाचारिकान् धर्म्मान्
अतिक्रामति ॥ * ॥

विइ.८ म्स्.४८ ४ (ज्. २२०.१३); छ्. ५१३ २०
भगवान् श्रावस्त्यां विहरति । ते दानि आयुष्मन्तो षड्वर्ग्गिकाः
प्रहाणमु(४८ ५)पविष्टाः समाना शर्करायं पि श(क)लिकायं पि अङ्गं
खरकच-खरकच ंति(त्ति) क[ण्डू]यन्ति । योगाचा(रा)न् भिक्षून् शब्देन
व्यावहन्ति । एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु । (ज्. २२१)
भगवानाह । तेन हि एवं स(क)ंदूषितव्यम् । किन् ति दानि एवं
(कं)दूषितव्यम् । न क्षमति भिक्षुणा प्रहाण उपविष्टेन
औद्धत्याभिप्रायेण शर्कराये वा अङ्गं खरकच-(इइ.प्.६९) खरकच
न्ति(त्ति) कण्डूयितुम् । अ(४८ ६)थ च दानि भिक्षु प्रहाणमुपविष्टको
खज्जति । अङ्गुष्ठोदरेण वा हस्ततलेन वा सुखाकम् । उच्चट्टयितव्यम् ।
अथ दानि भूयो भूयो खज्जति खज्जनको भवति प्रहाणस्यामन्त्रिय
गन्तव्यम् । नापि क्षमति । भिक्षुणा भक्ताग्रे वा । तर्पणाग्रे वा
समावापि(यि)कानां वा औद्धत्याभिप्रायेण संकलिकाय वा शर्क्करकाय
वा खरकच-खरकच न्ति(त्ति) कण्डूयितुम् । अथ दानि भिक्षु भक्ताग्रे
वा तर्प(४८ ७)णाग्रे वा उपविष्टको भवति । कोचि [षो] प्रदेशो खज्जति ।
हस्तावसे कल्पिया भवन्ति । किञ्चापि भिक्षुः कुलिकाय वा काष्ठग[ते]न
वा सकलिकाय वा कण्डूयति । अनापत्तिः । तं पि तथा दानि कण्डूयितव्यम् ।
यथा आनन्तर्यकं शब्देन (न) व्यावहति । अथ दानि भिक्षुः
स(ख)ज्जनको भवति । पुनो पुनो कण्डूयति । आनन्तरिकस्य पात्रं
दातव्यम् । आयुष्मन्मम पिण्डपातमुक्कढेसि । त(४९ १)तो गन्तव्यम् ।
न क्षमति । उपाध्यायाचार्याणां वृद्धतरकाणां वा अग्रतो
औद्धत्याभिप्रायेण अङ्गं खरकच-खरकच न्ति(त्ति) (ज्.२२२)
कण्डूयितुम् । नापि क्षमति ओसरिय इन्द्रियाणि वुक्तन्ति कण्डूयितुम् । अथ
दानि भिक्षुस्य कोचि प्रदेशो खज्जति । अङ्गुष्ठोदा(द)रेण वा हस्ततलेन
वा परिमर्द्दितव्यम् । अथ दानि (न) पारेति विनोदयितुम् । पुनः पुनः
खनति । एकतमंते गच्छिय कण्डूयितव्यम् । एवं कण्डूये (४९ २)
प्रतिपद्यितव्यम् । न प्रतिपद्यति ॥ आभिसमाचारिकान् धर्म्मान्
अतिक्रामति ॥ * ॥

(इइ.प्.७०) विइ.९ म्स्.४९ २ (ज्. २२२.६); छ्. ५१३ ११
भगवान् श्रावस्त्यां विहरति । ते दानि आयुष्मन्तो षड्वर्ग्गिकाः
प्रहाणमुपविष्टाः । औद्धत्याभिप्राया जंभयन्ति । अङ्गानि
भञ्जयन्ति । पट-पटाव फोडेन्ति । अमडं मडमडं यथा सीहा वा
व्याघ्रा वा । एवं जंभयन्ति । योगाचारां भिक्षून् शब्देन व्यावहन्ति ।
एतं प्रकरणं भिक्षू भगवतो आ(४९ ३)रोचयेंसु ।
भगवानाह । तेन हि एवं जम्भयितव्यम् । किन् ति दानि एवं
जम्भयितव्यम् । नायं ताव क्षमति भिक्षुणा प्रहाणमुपविष्टेन
औद्धत्याभिप्रायेण ओसरित्वा इन्द्रियाणि मटमट अङ्गा(नि) भञ्जन्तेन
यथा सीहेन वा व्याघ्रेण वा उन्नदन्तेन एवं भञ्जयितव्यम् । अथ
दानि भिक्षुस्य प्रहाणमुपविष्टस्य विजृम्भिका आगच्छति । न दानि
अंगानि टट्ट-टट्ट न्ति(त्ति) (४९ ४) फोटन्तेन (ज्.२२३) मुखं विवरित्वा
जम्भयितव्यम् । विनोदेतव्या निललाटं वा परिमर्दितव्यम् । नासा वा
परिमर्दितव्या अथ दानि न पारेति विनोदयितुम् । संप्रजानं मुखं
पिथित्वा जम्भयितव्यम् । तथा कर्त्तव्यं यथानन्तरिकं शब्देन न
व्यावहति । अथ दानि भिक्षुस्य विजृम्भिका पुनो पुनो आगच्छति
निर्द्धाविय विजृम्भितव्यम् । प्रहाणस्य वा आमन्त्रिय गन्तव्यं, । (४९ ५)
नापि क्षमति प्रहाणमुपविष्टकेन मट-मटाय अङ्गानि भञ्जितुं, ।
अथ दानि भिक्षुस्य अङ्गानि दुःखायन्ति । एका ताव बाहा सुखाकं
प्रसारयितव्या यं कालं विश्रान्तो भवति । (इइ.प्.७१) तां सन्मिञ्जिय
द्वितीया सुखाकं प्रसारयितव्या । एको पादो सुखाकं प्रसारयितव्यो ।
तं सन्मिञ्जिय द्वितीयो सुखाकं प्रसारयितव्यो । न क्षमति भिक्षुणा
भक्ताग्रे वा त(४९ ६)र्पणाग्रे वा सामायिकं वा धर्म्मश्रवणे वा
अङ्गानि भ(ं)जन्तेन विजृम्भयितुम् । अथ दानि भिक्षुस्य विजृम्भिका
आगच्छति । यदि चीवरचीर्ण्ण(कोण)केन मुखं पिधिय सुखाकं
विजृम्भितव्यम् । अथ दानि भिक्षुस्य विजृम्भिका पुनो पुनो आगच्छति ।
यदि ताव भक्ताग्रे वा उपविष्टको भवति । अनन्तरिकस्य पात्रं दत्वा
गन्तव्यम् । धर्म्मश्रवणेन वा उपविष्टको भवति ।
धर्म्मश्रवणस्य आमन्त्रि(४९ ७)य गन्तव्यम् । नापि क्षमति भिक्षुणा
गोचरं वा प्रविशन्तेन अन्तरघरं (ज्.२२४) (वा) प्रविष्टेन
मट-मटाये अङ्गानि भ(ं)जन्तेन विजृम्भितुम् । अथ दानि भिक्षुस्य
भूयो भूयो विजृम्भिका आगच्छति चीवरकोणेन मुखं पिधिय
संप्रजानेन विजृम्[भायि]तव्यम् । अथ दानि भिक्षुस्य अन्तरघरे वा
उपविष्टस्य पुनो पुनो विजृम्भिका आगच्छति । उत्थिय गन्तव्यम् । न
क्षमति । उपाध्यायाचार्याणां वृद्धतरकानां, (४९ १) वा अग्रतो
मट-मटाये अंगानि भंजन्तेन विजृम्भितुम् । अथ दानि भिक्षुस्य
विजृम्भिका आगच्छति । एकमतं गत्वा एवं विजृम्भितव्यम् । न
प्रतिपद्यति ॥ आभिसमाचारिकान् धर्म्मानतिक्रामति ॥ * ॥

विइ.१० म्स्.४९ १ (ज्. २२४.९); छ्. ५१३ २६
भगवान् सम्यक्सम्बुद्धो यदर्थं समुदागतो तदर्थम्
अभिसम्भावयित्वा श्रावस्त्यां विहरति शास्ता देवानाञ्च मनुष्याणाञ्च
सत्कृतो गुरुकृतो मानितः पू(४९ २)जितः । (इइ.प्.७२) अपचायितो
लाभाग्रयशोग्रप्राप्तो लाभी
चीवरपिण्डपातशय्यासनग्लानप्रत्ययभैषज्यपरिष्काराणां तत्[र] च
अनुपलिप्तः पद्ममिव जलेन पुण्यभागियां सत्वां पुण्येहि
निवेशयमानो फलभागियान् सत्वां फलेहि प्रतिष्ठापयमानो
वासनाभागीयान् सत्वान वासनायामवस्थापयमाणो अमृतम्
अनल्पकेन देवमनुष्यां संविभजन्तो प्राणिकोटी (ज्.२२५)
नि(४९ ३)युतशतसहस्राणि अमृतमनुप्रापयन्तो
अनवराग्रजातिजरामरणसंसारकान्तारनरकविदुर्ग्गान्महाप्रपाततो
अभ्युद्धरित्वा क्षेमे समे शिवे स्थले अभये निर्व्वाणे
प्रतिष्ठापयमानो आवर्जयित्वा
अङ्ग-मगध-मल्ली-वर्जि-कासि-कोशल-कुरु-पञ्चल-चेति-वत्स-मत्स-शूरसे
न-शिवि-दशार्ण्णाश्वक्यवन्ति ज्ञाने दृष्टपराक्र(४९ ४)मो स्वयंभू
दिव्येहि विहारेहि ब्राह्मेहि विहारेहि आर्येहि विहारेहि आनिंज्येहि विहारेहि
सातत्येहि विहारेहि बुद्धो बुद्धविहारेहि जिनो जिनविहारेहि । जानको
जानकविहारेहि सर्व्वज्ञो सर्व्वज्ञविहारेहि चेतोवशिपरमपारमिप्राप्ता
पुनर्ब्बुद्धा भगवन्तो येहि येहि विहारेहि आकांक्षन्ति तेहि तेहि
विहारेहि विहरन्ति ।
ते दा(४९ ५)नि आयुष्मन्तो षड्वर्ग्गिकाः । औद्धत्याभिप्रायेण
श्वेतमयेन सक्तुकां कुल्मासां च मर्दियाणमातपे शोषयन्ति । यं
कालं शुष्का भवन्ति । ततो श्वेतमयेन येव खादन्ति । बिल्वानि
खादन्ति । स्वातकोपनतानि फलानि खादन्ति । कलापा(यं वा)
सतिलपल्लवं खादन्ति । यं कालं प्रहाणस्य जर्जरो आहतो भवति । ततो
प्रहाणशालां गच्छिय चतुर्द्दिशं (४९ ६) निषीदन्ति । यं कालं
भिक्षुसंघो उपविष्टो भवति । एको ताव पूतिवातकर्म्मं करोति अपरो
गच्छन्ति । अपरो ढर- (इइ.प्.७३)ढ(र) न्ति(त्ति) । (ज्.२२६) अपरो आह । साध्व्
आयुष्मं किमेतं सम्वत्सरिकं प्रतिकर्म्ममष्टशतेनापि खो वातं न
इच्छेय्या अहो मनोज्ञो शब्दो अनुकूलं करोति । आनन्तरिकानां
पद्दमुष्टिकां जिघ्रापेन्ति । आह । जिघ्रायुष्मनहो मृष्टो गन्धो अहो
सोभनो ग(४९ ७)न्धो योगाचारान् भिक्षून् शब्देन व्यावहन्ति । एतं
प्रकरणं भिक्षू भगवतो आरोचयेंसु । (ज्.२२६.१९) भगवानाह ।
शब्दापयथ षड्वर्ग्गिकान् ॥ * ॥ यावदाम भगवन्
भगवानाह । तेन हि एवं वातकर्म्मे प्रतिपद्यितव्यम् । किन् ति दानि
एवं वातकर्म्मे प्रतिपद्यित(व्य)म् । नायं क्षमति । (ज्.२२६.१९) भिक्षुणा
औद्धत्याभि(ज्.२२७)प्रायेण श्वेतमयेन कुल्माषान् वा शक्तुकान् वा
मर्दियाणमातपे शोषयित्वा श्वेत(५० १)मयेन येव खादितुम् । नापि
क्षमति । बिल्वानि वा मदनफलानि वा तत्कालकानि फलानि खादितुम् ।
कलायं वा सतिलपल्लवं वा ॥ अथ दानि भिक्षु पिण्डचारम्
अण्ठन्तोपरप्रतिबद्धाये जीविकाये श्वेतमयेन कुल्माषान् वा
शक्तुमर्द्दितकान् लभति । वातकोपकानि वा फलानि । किञ्चापि खादेति ।
अनापत्तिः । न क्षमति प्रहाणमुपविष्टेन औद्धत्याभिप्रायेण वा
ढर-ढ(५० २)राये वान(त)कर्म्म कर्त्तुः(ं,) । अथ दानि भिक्षुस्य
प्रहाणशालायामुपविष्टस्य वातकर्म्म आगच्चति । न दानि ओसरित्वा
इन्द्रियानि कर्त्तव्यम् । अथ दानि आर्शव्याधिको भवति । संप्रजान एकं
फिच्चकमुत्क्षिपियाणं हस्तेन विवरित्वा वातकर्म्म (इइ.प्.७४) कर्त्तव्यम् ।
तथा कर्त्तव्यं यथा अनन्त(रि)कं शब्देन न व्यावहति । तं पि दानि न
क्षमति । येन वृद्धतरको तेन पिच्चकमु(५० ३)त्क्षिपितुम् । अथ खलु
येन नवकतरको तेन फिच्चकमुत्क्षिपितव्यम् । अथ दानि वृद्धतरको
च नवकतरको च एकस्थाने ढुक्ककं भवति । नायं क्षमति
संघनवकेन येन संघस्थविरो तेन फिच्चकमुत्क्षिपितुं, । किञ्चापि
येन वृद्धतरको तेन फिच्चकमुत्क्षिपति । अनापत्तिः । (ज्.२२७.१६) अथ
दानि भिक्षु न पारेति संप्रजान वातकर्म्म (५० ४) कर्त्तुं, ।
निर्द्धावियाणं वातकर्म्म कर्त्तव्यम् । अथ दानि भिक्षुस्य पुनो पुनो
वातकर्म्म आगच्छति । प्रहाणस्य आमन्त्(र्)इय गन्तव्यम् । नापि क्षमति
भक्ताग्रे (ज्.२२८) वा तर्पणाग्रे वा औद्धत्याभिप्रायेण वातकर्म्म
कर्त्तुं, । अथ खलु एक पि(फि)च्चकमुत्क्षिपिय वातकर्म्म कर्त्तव्यम् ।
अथ दानि भिक्षुस्य वातकर्म्म पुनो आगच्छति अनन्तरिकस्य पात्रं
(५० ५) दत्वा गन्तव्यम् । नापि क्षमति । धर्म्मश्रवणे वा
सामायिकायां वा औद्धत्याभिप्रायेण वा फर-फरस्य(राय)
वातकर्म्म कर्त्तुं, । अथ खलु एकं फिच्चकमुत्क्षिपित्वा वातकर्म्म
कर्त्तव्यः(ं) । अथ दानि भिक्षुस्य (ज्.२२६.८) पुनो पुनो वातकर्म्म
आगच्छति । (इइ.प्.७५) धर्म्मश्रवणस्य आमन्त्रिय गन्तव्यम् । नापि
क्षमति । उपाध्यायं वा आचार्यं वा आमन्त्रयित्वा गन्तुम् । नापि (५० ६)
क्षमति अन्तरघरं निषण्णेन औद्धत्याभिप्रायेण फर-फराय
वातकर्म्म कर्त्तुं, । अथ खलु एकं फिच्चकमु(त्)क्षिपित्वा संप्रजानन्
वातकर्म्म कर्त्तव्यम् । अथ दानि भिक्षुस्य पुनो पुनो वातकर्म्म
आगच्छति । एकमन्तमागच्छिय कर्त्तव्यम् । नापि क्षमति । उपाध्यायस्य
वा आचार्यस्य वा वृद्धतरकस्य वा अग्रतो औद्धत्याभिप्रायेण
फरफराय वातकर्म्म कर्त्तुं, । अथ (५० ७) दानि भिक्षुस्य
वातकर्म्म आगच्छति । एकमन्तं गच्छिय कर्त्तव्यम् । नापि दानि
क्षमति । अनुवातं कर्त्तुं, । मा गन्धेन व्यावहेय्या । अपवातं
कर्त्तव्यम् । वातपथं मुञ्चित्वा । (ज्.२२६.१८) अथ दानि भिक्षुस्य
सार्द्धे(र्थे)न सार्द्धं गच्छन्तस्य समुदाचारो भवति । न दानि
सार्थेन अग्रतो स्थित्वा वातकर्म्म कर्त्तव्यम् । (ज्.२२८.६) अथ दानि
आर्शव्याधिको भवति । हस्तेन विवरित्वा मार्ग्गतो उद्वर्त्तित्वा संप्रजानं
क(५० १)र्त्तव्यम् । यथा सार्थं गन्धेन न व्यावहेय्या । वातपथं
मोचयित्वा कर्त्तव्यम् । एवं वातकर्म्मे प्रतिपद्यितव्यम् । न
प्रतिपद्यति ॥ * ॥ आभिसमाचारिकान् धर्म्मानतिक्रमति ॥ * ॥

उद्दानं
(एवं) प्रदीपे प्रतिपद्यितव्यम् ।
(एवं यष्टीयं प्रातिपद्यितव्यम् ।)

(इइ.प्.७६) एवं गेण्डुके प्रतिपद्यितव्यम् ।
एवं निषीदने प्रतिपद्यितव्यम् ।
एवमुपाध्या(नहा)ये प्रतिपद्यितव्यम् ।
एवं कासितव्यम् ।
एवं क्षीवितव्यम् । (ज्.२२९)
एवं कण्डूयितव्यम् ।
एवं जंभावयितव्यम् । (५० २)
एवं वातकर्म्म प्रतिपद्यितव्यम् ।

(ज्.२३०) अन्तरोद्दानं
संघस्थविरो च शय्यासन कठिन आगन्तुका च आरण्यका नेवासिका च
प्रदीपो च सप्तवर्ग्गाः प्रकाशिताः ॥ * ॥

आभिसमाचारिकाः समाप्ताः ॥ * ॥

आर्यमहासांघिकानां लोकोत्तरवादिनां मध्युद्देश-पाठकानां
पाठेनेति ॥ * ॥

ये धर्म्मा हेतुप्रभवा
हेतुन् तेषान् तथागतो ह्यवदत् ।
तेषाञ्च (५० ३) यो निरोध
एवम्वादी महाश्रमणः

"https://sa.wikisource.org/w/index.php?title=अभिसमाचारिकधर्मः&oldid=340806" इत्यस्माद् प्रतिप्राप्तम्