सामग्री पर जाएँ

अभिसमयालङ्कारवृत्तिः

विकिस्रोतः तः
अभिसमयालङ्कारवृत्तिः
[[लेखकः :|]]

प्रज्ञापारमितोपदेशशास्त्रे आचर्यहरिभद्रकृता

अभिसमयालङ्कारवृत्तिः स्फुटार्था

सर्वाकारज्ञताधिकारः प्रथमः

[सम्पाद्यताम्]

नमः सर्वबुद्धबोधिसत्त्वेभ्यः
मंगलाचरणम्

प्रज्ञापारमितायै यस्यास्तदलङ्कारकारिकाणाम् ।
सर्वालङ्करणार्थं क्रियते व्याख्या नमस्तस्यै ॥ ०.१ ॥
जगदासङ्गसङ्गेन त्वार्यासङ्गेन तायिना ।
आकर्ण्याजितनाथात्तन्महाशास्त्रं व्यभज्यत ॥ ०.२ ॥
जगद्धितपरो बन्धुः वसुबन्धुः स्वकाशयम् ।
चान्तर्ज्ञेयं समाश्रित्य तद्व्याख्यामकरोत्ततः ॥ ०.३ ॥
आर्यान्तर्गणितः ख्यातो विमुक्तिरिति तत्कृताम् ।
अकृतामिव तां द्रष्ट्वा चक्रेऽन्यां मध्यया धिया ॥ ०.४ ॥
ततो विमुक्तिसेनेन शास्त्राण्यप्राप्य सर्वशः ।
श्रद्धाभूमिस्थितेनापि व्याख्याता स्वमनीषया ॥ ०.५ ॥
एवं विद्वद्वरैः प्रोक्ते किञ्चन्नैयून्यमीक्ष्यते ।
अस्मिन् सर्वं सुसम्पन्नं महदाश्चर्यकारकम् ॥ ०.६ ॥
अयं सुदुर्लभः पन्थाः गम्भीरश्च यथार्थकः ।
सुविमृश्यश्च विद्वद्भिः प्राप्तो बुद्धानुकम्पया ॥ ०.७ ॥
सर्वथा मम नास्त्येव गोचरोऽप्यहमुत्सहे ।
पुण्यविध्यनुकूलत्वात्स्वपरोपचिकीर्षया ॥ ०.८ ॥

आर्यमैत्रेयः सदाचारानुवृत्तिमात्मनः प्रख्यापयन् स्वप्रतिसंविज्ज्ञानेन प्रज्ञापारमिताविषयकः प्रसाद एव सर्वश्रेयः प्राप्तिप्रधानहेतुरित्यवधृत्य परं निरतिशयानन्तगुणरत्नाकरभगवत्यां प्रवर्तयितुं प्रसादोत्पादनाय तावदादौ यथागुणाभिधानपुरःसुरं जननीं नमस्कुर्वन्नाह -

या सर्वज्ञतया नयत्युपशमं शान्तैषिणः श्रावकान्
या मार्गज्ञतया जगद्धितकृतां लोकार्थसम्पादिका ।
सर्वाकारमिदं वदन्ति मुनयो विश्वं यया संगतास्
तस्यै श्रावकबोधिसत्त्वगणिनो बुद्धस्य मात्रे नमः ॥ १.१॥

अनया कारिकया अस्याः अतिशयमाहात्म्यवत्त्वममिहितम् । तच्छ्रुत्वा तावच्छ्रद्धानुसारिणः अस्यां निःसंशयमचिरेण श्रद्धामुत्पादयन्ति । धर्मानुसारिणोऽपि एकानेकस्वभाववियुक्तत्वादित्यादिप्रमाणेन अनुत्पन्नवस्तुमार्गाकारपरिज्ञानकारिकार्थलक्षणजनन्यां बाधामदृष्ट्वा त्रिसर्वज्ञतास्वरूपत्रयात्मिका बुद्धादिनिर्मात्री प्रज्ञापारमितावश्यमेव सम्भविनीत्यवधृत्य तस्यां प्रसादमुत्पादयन्ति । तस्यां प्रसादेन तद्गुणाभिलाषिणः उभयविधा अपि पुद्गलाः तत्तदाश्रितप्रवचनधारणाद्यर्थं सर्वथा अत्यन्तमाद्रियन्ते । ततः श्रुतमयादिज्ञानोत्पादक्रमेण सुश्रेयोऽधिगताःभवन्ति । अत एव भगवत्यां प्रदास एव सर्वश्रेयोऽधिगमहेतुः ।

तत्र तिसृभिः सर्वज्ञताभिरष्टावर्थाः सङ्गृहीता भवन्ति । ताभिश्च वक्षमाणविधिना सर्वार्थाः सम्पत्स्यन्त इति मनसि निधाय त्रिसर्वज्ञताभिः प्रज्ञापारमितां स्तौति । श्रावकः, तत्पक्षनिक्षिप्तः किञ्चिद्विमोक्षाधिकः एकक्रम निर्दिष्टः प्रत्येकबुद्धश्च निर्वाणभिलाषिणौ, तयो अनुत्पन्नसर्ववस्तुज्ञतया सोपधिनिरुपधिलक्षणद्विविधनिर्वाणप्रापिका या, यावत्संसारं जगद्धितकृतां बोधिसत्त्वानामनुत्पन्नसर्वमार्गज्ञतया सर्वलोकार्थसम्पादिका या, अनुत्पन्नसर्वाकारज्ञतया यया सङ्गताः संयतकायाः प्रधानयोगीश्वरा बुद्धाः सर्वथा चरितप्रतिपक्षसर्वधर्मचक्रान् प्रवर्तयन्ति । तस्यै श्रावकादिपरिवृतबुद्धानामुत्पायित्र्यै मात्रे नमः । एवं नमस्कारस्तुतिपूवकेणाभिसमयालङ्कारशास्त्रेण वस्तुप्रतिपक्षाकारेषु कस्मिंश्चिदेकस्मिन् (पक्षे) संगृहीते, प्रथमपक्षे तावत्तदर्थपरिश्रमवैयर्थ्यम् । तथा हि न हि तदस्ति इह प्रज्ञापारमितायां वस्तुजातं यन्न लक्षणशास्त्रेषु उक्तपूर्वम् । द्वितीये व्यवदानवस्तु (मात्र) सङ्ग्रहात्सांक्लेशिकवस्त्वसंग्रहाच्च न ज्ञायते कस्यायं प्रतिपक्ष इति । तृतीते निर्वस्तुकाकारमात्रसंग्रहादर्थाधिगमशून्यादिह किञ्चिदपि नोक्तमिति व्यर्थ एव (शास्त्ररचनायासः) इति नापरे शङ्किष्यन्ते किमिति चेत्? तन्नः, यतो हि यथाक्रमं श्रावकप्रत्येकबुद्धबोधिसत्त्वानुत्तरबुद्धानां त्रिसर्वज्ञतायां समस्ताभिसमयानां संग्रहणेन पक्षत्रयस्यापि संगृहीतत्वात् ।

यथा मध्यमजिनजनन्यां - "सुभूते श्रावकप्रत्येकबुद्धयोः सर्वज्ञता, बोधिसत्त्वानां मार्गज्ञता, तथागतार्हत्सम्यक्सम्बुद्धानां सर्वाकारज्ञता । भगवन् किमर्थं सर्वज्ञता श्रावकप्रत्येकबुद्धयोः? सुभूते सर्वे हि यावन्तो बाह्याभ्यन्तरधर्माः, तावत एव श्रावकप्रत्येकबुद्धा जानन्ति, न तु मार्गेण, नापि सर्वाकारेण, अतः सर्वज्ञता श्रावकप्रत्येकबुद्धयोरिति । भगवन्, किमर्थं मार्गज्ञता बोधिसत्त्वानाम्? सुभूते बोधिसत्त्वैः, यं श्रावकस्य मार्गः, याः प्रत्येकबुद्धस्य मार्गः, यो बुद्धस्य मार्गः सर्वे मार्गा उत्पाद्यन्ते ज्ञायन्ते च । तेऽपि परिपूर्यन्ते, तेषां मार्गाणां क्रियापि क्रियते । न यावत्प्रणिधानपरिसमाप्तिः, सत्त्वपरिपाकः, बुद्धक्षेत्रपरिशुद्धिर्वा क्रियते, न तावत्तेषां सम्यग्भूतान्तसाक्षात्कारः, अतः मार्गज्ञता बोधिसत्त्वानाम् । भगवन्, किमर्थं सर्वाकारज्ञता तथागतस्यार्हतः सम्यक्सम्बुद्धस्य? सुभूते, येन आकारेण, येन लिङ्गेन, येन निमित्तेन प्रख्याता धर्माः, तमाकारं तल्लिङ्गं तन्निमित्तं तथागता अवगच्छन्ति, अतः तथागतस्य अर्हतः सम्यक्सम्बुद्धस्य सर्वाकारज्ञतेति । "एवं संक्षिप्तायामपि (जिनजनन्यां) - "श्रावकभूमावपि शिक्षितुकामेनापि" इत्यादिकमाह । विस्तृतायामपि विस्तरेणाभिहितम् ।

तत्र सर्वज्ञता हि रूपादिधर्मानित्यताद्यधिष्ठाना आत्ममोहप्रहाणफला; मार्गज्ञता सर्वयाननिर्याणा तत्त्वासाक्षात्काराधिष्ठाना असंगृहीतसत्त्वसंग्रहादिफलाः; सर्वाकारज्ञता सर्वधर्मानुत्पादाधिष्ठाना आकाशधातुपर्यन्ताविच्छिन्नसत्त्वार्थफला भूतान्ताधिगमवासनाप्रतिसन्धिप्रहाणात्मिका ।

इत्थमभिसमयालङ्कारे सर्ववस्तुप्रतिपक्षाकारसंग्रहणेनाशेषाभिसमयनिर्देशः कृत इतीदमुपपद्यते ।

ग्रन्थारम्भप्रयोजनम्

मन्दधीजनानां तु विस्तृतमध्मसंक्षिप्तासु भगवतीषु (संक्षिप्तमध्यविस्तृत) रुचिसम्पन्नसत्त्वहितेच्छया करुणामयेन तत्तज्जिनजनन्यां सकलप्रज्ञापारमितार्थाष्टाभिसमयक्रमो देशित एव, भगवत आर्याजितजिनस्य तन्निदर्शने किं प्रयोजनमितिशङ्कानिराकरणार्थसन्देहोत्पादनेन प्रवृत्त्यङ्गं स्वीयशास्त्राभिधेयप्रयोजनप्रयोजनप्रयोजनान्तर्भूतसम्बन्धांश्च प्रदर्शयन्नाह -

सर्वाकारज्ञतामार्गंः शासित्रा योऽत्र देशितः ।
धीमन्तो वीक्षिषीरंस्तमनालीढं परैरिति ॥ १.२ ॥
स्मृतौ चाधाय सूत्रार्थं धर्मचर्यां दशात्मिकाम् ।
सुखेन प्रतिपत्सीरन्नित्यारम्भप्रयोजनम् ॥ १.३ ॥

इति । सर्वाकारज्ञतैव हि बुद्धत्वमार्ग इति सर्वेषामभिसमयानामुपलक्षणत्वात्तस्यामेव तात्पर्यम् । त्रिप्रातिहार्यैः सकलजनानुशासकेन भगवता जिनजननीत्रये योऽभिधेयो देशितः, स अभिधानाभिधेयोपायोपेयप्रतिपत्तिरूपेण सम्बद्धः, बाह्येतरवीतरागादिभिः सर्वधर्मनैरात्म्यानभ्यस्तैः श्रुतमयादिप्रज्ञाक्रमेणानालीढ इति सुव्यवस्थापिते वासनासम्भूतस्मृतिज्ञाने बोधिचित्तदानप्रतिपत्त्याचारमष्टाभिसमयात्मकमशेषप्रज्ञापारमितासूत्रार्थं सम्यगाधाय सर्वत्रगधर्मधात्वधिगमलक्षणप्रमुदितभूम्याद्यधिगमक्रमेण सर्वाकारं साक्षात्कुर्यादिति प्रयोजनप्रयोजनाय विनेया अभिलषितप्रज्ञापारमितार्थबोधिचित्तप्रतिपत्त्यादिलक्षणानि सुखेन प्रतिपत्सीरन्निति शास्त्रारम्भप्रयोजनम् ॥

प्रज्ञापारमितायाः कायिकव्यवस्थापनम्

एवं सम्बन्धादीन् व्याहृत्य विनेयानां सुखेन प्रतिपत्तये सुप्रविभक्तस्यापि शास्त्रार्थस्य असंलुलितत्वेन व्याख्यानसौकर्यमवलोक्य पञ्चदशभिः कारिकाभिः समासव्यासनिर्देशेन प्रज्ञापारमितायाः कायिकव्यवस्थापनमाह -

प्रज्ञापारमिताष्टाभिः पदार्थैः समुदीरिता ।
सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता ततः ॥ १.४ ॥
सर्वाकाराभिसम्बोधो मूर्धप्राप्तोऽनुपूर्विकः ।
एकक्षणाभिसम्बोधो धर्मकायश्च तेऽष्टधा ॥ १.५ ॥
चित्तोत्पादोऽववादश्च निर्वेधाङ्गं चतुर्विधम् ।
आधारः प्रतिपत्तेश्च धर्मधातुस्वभावकः ॥ १.६ ॥
आलम्बनं समुद्देशः सन्नाहप्रस्थितिक्रिये ।
सम्भाराश्च सनिर्याणाः सर्वाकारज्ञता मुनेः ॥ १.७ ॥
श्यामीकरणतादीनि शिष्यखड्गपथौ च यौ ।
महानुशंसो दृङ्मार्ग ऐहिकामुत्रिकैर्गुणैः ॥ १.८ ॥
कारित्रमधिमुक्तिश्च स्तुतस्तोभितशंसिताः ।
परिणामेऽनुमोदे च मनस्कारावनुत्तमौ ॥ १.९ ॥
निर्हारः शुद्धिरत्यन्तमित्ययं भावनापथः ।
विज्ञानां बोधिसत्त्वानामिति मार्गज्ञतोदिता ॥ १.१० ॥
प्रज्ञया न भवे स्थानं कृपया न शमे स्थितिः ।
अनुपायेन दूरत्वपायेनाविदूरता ॥ १.११ ॥
विपक्षप्रतिपक्षौ च प्रयोगः समतास्य च ।
दृङ्मार्गः श्रावकादीनामिति सर्वज्ञतेष्यते ॥ १.१२ ॥
आकाराः सप्रयोगाश्च गुणा दोषाः सलक्षणाः ।
मोक्षनिर्वेधभागीये शैक्षोऽवैवर्तिको गणः ॥ १.१३ ॥
समताभवशान्त्योश्च क्षेत्रशुद्धिरनुत्तरा ।
सर्वाकाराभिसम्बोध एष सोपायकौशलः ॥ १.१४ ॥
लिङ्गं तस्य विवृद्धिश्च निरूढिश्चित्तसंस्थितिः ।
चतुर्धा च विकल्पस्य प्रतिपक्षश्चतुर्विधः ॥ १.१५ ॥
प्रत्येकं दर्शनाख्ये च भावनाख्ये च वर्त्मनि ।
आनन्तर्यसमाधिश्च सह विप्रतिपत्तिभिः ॥ १.१६ ॥
मूर्धाभिसमयस्त्रेधा दशधा चानुपूर्विकः ।
एकक्षणाभिसम्बोधो लक्षणेन चतुर्विधः ॥ १.१७ ॥
स्वाभाविकः ससांभोगो नैर्याणिकोऽपरस्तथा ।
धर्मकायः सकारित्रश्चतुर्धा समुदीरितः ॥ १.१८ ॥

इति । तत्र प्रथमकारिकाद्वयेन अष्टवस्तूनां संग्रहात्समासनिर्देशः, ततः त्रयोदशकारिकाभिः तस्यैवार्थं संगृह्य विस्तरेण व्याख्यानं भवति । इत्थं संक्षेपविस्तराभ्यां भाषितत्वेन सुभाषितम् । पिण्डार्थकारिकाणामेव शास्त्रप्रणेत्राऽचित्तोत्पादः परार्थायऽ - इत्यादिवक्ष्यमाणसकलशास्त्रेण व्याख्यास्यमानत्वात्तद्व्याख्यानेनैव व्याख्यानं सञ्चिन्त्य वीप्साभयेन नात्रैता व्याख्याताः ।

सर्वाकारज्ञता
१ चित्तोत्पादः

इत्थं सकलपिण्डार्थ निर्दिश्य बोधिं प्राप्तुकामैर्बोधिसत्त्वैः फलभूतत्वात्सर्वाकारज्ञताधिगन्तव्येत्यादौ सर्वाकारज्ञतासंग्रहकारिकां व्याख्यातुकामः सालम्बनं चित्तोत्पादस्वरूपमाह -

चित्तोत्पादः परार्थाय सम्यक्सम्बोधिकामता ।

बुद्धो भूत्वा यथाभव्यतया परार्थं प्रति यत्नं कुर्यामिति परार्थाय सम्यक्सम्बोध्यधिकामतालक्षणः प्रणिधिप्रस्थानस्वभावो द्विविधश्चित्तोत्पादः । सम्यक्सम्बोधिकामता च तत्प्रार्थना कुशलो धर्मच्छन्दश्चैतसिकः । विशिष्टविषयप्रतिभासमुत्पद्यमानं चित्तं "चित्तोत्पादः" इति कथं स (चैतसिकः) चित्तोत्पादो भवेत्? सत्यमेतत् । किन्तु कुशलधर्मच्छन्दलक्षणायां प्रार्थनायां सत्यां बोधिचित्तमुत्पद्यत इति कारणेनात्र कार्यं निर्दिष्टमेवं प्रार्थयितुः बोधिसत्त्वस्य सर्वे कुशला धर्मा वृद्धिं यान्तीति ज्ञापनाय चोपचारः समाश्रित इत्यदोषः । अन्यप्रकारेण प्रणिधानं प्रार्थना वा सम्यक्सम्बोधिकामता तत्सहचरितचित्तोत्पादः प्रार्थनयातिदिश्यते । एवञ्च प्रणिधानसहगतं तच्चित्तमुत्पद्यत इति ज्ञापनाय वा ॥

केयं सम्यक्संबोधिः? कश्च परार्थो यत्कामतात्मको यदर्थश्चित्तोत्पाद इति चेत्? उच्यते -

समासव्यासतः सा च यथासूत्रं स चोच्यते ॥ १.१९ ॥

तिसृष्वपि जिनजननीषु प्रज्ञापारमितायां दानादौ च देयदायकप्रतिग्राहकाद्यनुपलब्धिः प्रतिपत्तव्येति ज्ञापनार्थकेन; यथाभव्यसर्वसत्त्वान्निर्वाणे, मत्सरिणश्च दानादौ प्रतिष्ठापयितुकामेनास्यां प्रज्ञापारमितायां प्रतिपत्तव्यमितिप्रदर्शनपरेण वचनेन (वाक्येन) सूत्रार्थाविरुद्धेन समासव्यासतः परार्था सम्यक्सम्बोधिः निर्दिष्टा । इत्थंऽचित्तोत्पादः परार्थाय सम्यक्सम्बोधिकामताऽ ज्ञातव्या । सर्वाकरग्रन्थतात्पर्यार्थनिर्देशावसरे सर्वं कथितं तथापि बहुवक्तव्यमाशङ्क्य न (अत्र प्रधानतः) समुल्लिखितम् ।

एवं सालम्बनं चित्तोत्पादस्वरूपमभिधायेदानीं तस्य द्वाविंशतिप्रभेदान् द्वाभ्यामन्तरश्लोकाभ्यामाह -

भूहेमचन्द्रज्वलनैर्निधिरत्नाकरार्णवैः ।
वज्राचलौषधीमित्रैश्चिन्तामण्यर्कगीतिभिः ॥ १.२० ॥
नृपगञ्जमहामार्गयानप्रस्रवणोदकैः ।
आनन्दोक्तिनदीमैघैर्द्वाविंशतिविधः स च ॥ १.२१ ॥

छन्दाशयाध्याशय-प्रयोग-दान-शील-क्षान्ति-वीर्य-ध्यान-प्रज्ञोपाय-कौशल-प्रणिधान-बल-ज्ञानाभिज्ञा-पुण्यज्ञान-बोधिपक्षानुकूलधर्म-करुणाविपश्यना-धारणीप्रतिभान-धर्मोत्सवैकयान-धर्मकायैः सहगतः (चित्तोत्पादः) यथाक्रमं पृथिवी-कल्याणसुवर्ण-शुक्लपक्षवनचन्द्र-ज्वलन-महानिधान-रत्नाकर-महार्णव-वज्रपर्वतराज-भैषज्य-कल्याणमित्र-चिन्तामण्यादित्य-धर्ममधुरसंगीति-महाराज-कोष्ठागार-महामार्ग-यान प्रस्रवणोदकानन्दोक्ति-नदीधारा-मेघैः-सदृशः; सर्वशुक्लधर्मप्रतिष्ठाभूतत्वात्, बोधिपर्यान्ताविकारित्वात्, सकलशुक्लधर्मविवृद्धिगमनात्, त्रिसर्वज्ञतावरणेन्धनदाहकत्वात्, सर्वसत्त्वसंतर्पणात्, गुणरत्नानामाश्रयभावात्, सर्वानिष्टोपनिपातैरक्षोभ्यत्वात्, संप्रत्ययदार्ढ्येनाभेद्यत्वात्, आलम्बनविक्षेपेणानिष्कम्प्यत्वात्, क्लेशज्ञेयावरणव्याधिप्रशमनात्, सर्वावस्थासु सत्त्वार्थापरित्यागात्, यथाप्रणिधानं फलसमृद्धेः, विनेयजनस्य परिपाचनात्, विनेयावर्जन करधर्मदेशकत्वात्, अव्याहतप्रभावत्वेन परार्थानुष्ठानात्, बहुपुण्यज्ञानसंभारकोशस्थानत्वात्, सर्वार्ययातानुयातत्वात्, संसारनिर्वाणान्यतरापातेन सुखसंवाहनात्, श्रुताश्रुतधर्मधारणादक्षयत्वात्, मोक्षकामानां विनेयानां प्रियश्रावणात्, असंभिन्न-ः परकार्यक्रियात्वात्, तुषितभवनवासादिसन्दर्शनयोग्यत्वात्यथासंख्यं भवति । इत्येवंऽभूहेमचन्द्रज्वलनैतिरऽ त्यादिभिः द्वाविंशतिश्चित्तोत्पादा व्याख्याताः ।

तत्र प्रथमास्त्रयो मृदुमध्याधिमात्रतयादिकर्मिकभूमिसङ्गृहीताः । ततः एकः प्रथमभूमिप्रवेशमार्गसङ्गृहीतः । तदन्तरं दश प्रमुदितादिदशभूमिसङ्गृहीता दर्शनभावनामार्गगोचराः । ततः पञ्च विशेषमार्गसङ्गृहीताः । तदन्तरं त्रयं चित्तोत्पादाः प्रयोगमौलपृष्ठद्वारेण बुद्धभूमिसङ्गृहीताः । इति चित्तोत्पादभेदः आदिकर्मिकभूमिमारभ्य यावद्बुद्धभूमि सङ्गृहीतः ।

२ - अववादः

प्रसङ्गागत (चित्तोत्पाद)-भेदमभिधाय उत्पादितप्रथमादिबोधिचित्ताय यथाकालं बोधिसत्त्वाय प्रार्थितार्थबोधिचित्तोत्पादाय तदाक्षिप्तधर्मसिद्धये प्राप्तगुणपरिरक्षणेनाभिवृद्धये चोपदेशोऽववाद इत्यत आह -

प्रतिपत्तौ च सत्येषु बुद्धरत्नादिषु त्रिषु ।
असक्तावपरिश्रान्तौ प्रतिपत्सम्परिग्रहे ॥ १.२२ ॥
चक्षुःषु पञ्चसु ज्ञेयः षड्स्वभिज्ञागुणेषु च ।
दृङ्मार्गे भावनाख्ये चेत्यववादो दशात्मकः ॥ १.२३ ॥

यथोक्तप्रभेदबोधिचित्तप्रतिपत्तौ संवृतिपरमार्थसत्यानतिक्रमेण श्रावकाद्यसाधारणतयाऽनुपलम्भयोगेन वर्तनमिति शिक्षणं प्रतिपत्त्यववादः ।

दुःखे फलभूतरूपादिशून्यताप्रज्ञापारमितयोस्तथतारूपत्वादैकात्म्यमिति । समुदये शून्यताहेतुभूतरूपाद्योरव्यतिरिक्तत्वेन रूपादिर्न समुदयनिरोधसंक्लेशव्यवदानधर्मी इति । निरोधे शून्यतायामुत्पादनिरोधसंक्लेशव्यवदानहानिवृद्ध्यादिरहितायान्न रूपं यावन्नाविद्योत्पादो नाविद्यानिरोधो न बुद्धो बोधिरिति । मार्गे दानादिपारमिताभिरात्मनोऽध्यात्मशून्यतादीनां बहिर्धाशून्यतादिभिः पूर्वान्तापरान्तयोश्च परस्परं न युक्तायुक्तत्वेन प्रतिपत्तिरित्युपदेशः सत्याववादः ।

बुद्धे बुद्धबोध्योरेकत्वलक्षणत्वेन बुद्धकरधर्मलक्षणसर्वाकारज्ञताया अनुपलम्भे रूपाद्ययोजनेनालम्ब्यालम्बकसमताज्ञानमिति । धर्मे त्रिसर्वज्ञतासंगृहीतसमस्तवस्तुप्रतिपक्षाकारसङ्ग्रहैः सर्वधर्माणां सङ्गृहीतानां निःस्वभावतेति । संघे बुद्धरत्नान्तर्गतत्वेनार्हद्वर्ज्येषु फलस्थप्रतिपन्नकभेदेन सप्तसु महापुरुषेषु प्रत्येकबुद्धेन सहाष्टासु मृद्विन्द्रियादिभेदेन विंशतिसंख्यावच्छिन्नेष्यार्यावैवर्त्तिकबोधिसत्त्वशैक्षेष्वनुत्पादतया प्रवृत्तिरित्युपदेशो रत्नत्रयाववादः ।

आरब्धवीर्यतया यथोक्तार्थानुष्ठानं प्रति कायादिसुखल्लिकत्वेन कस्यचिदभिनिवेशः स्यादित्यसक्तौ कायादीनामस्वभावतया देशनाववादः ।

चिरतरकालाभ्यासेनापि समीहितार्थानिष्पत्तावुत्त्रसनजातीयस्य परिखेदः स्यादित्यपरिश्रान्तौ रूपादेर्यावत्सम्यक्सम्बोधेरमननतया देशनाववादः ।

दशदिगवस्थितबुद्धादिभ्यः प्रत्यर्थं मार्गोपदेशे गृह्यमाणे चित्तावलीनता स्यादिति प्रतिपत्सम्परिग्रहे धर्माणां प्रकृत्यजातत्वेन शिक्षणमववादः । मांसवैपाकिकदिव्यप्रज्ञाधर्मबुद्धचक्षुषां यथासंख्यं प्रतिनियतवस्तुसर्वसत्त्वच्युत्युपपत्तिसर्वधर्माविकल्पानां सर्वार्यपुद्गलाधिगमसर्वाकारसर्वधर्माभिसम्बोधविषयाणां तथतयैकत्वेन प्रतिपत्तिरिति शिक्षणं पञ्चचक्षुरववादः ।

ऋद्धिदिव्यश्रोत्रपरचित्तज्ञानपूर्वनिवासानुस्मृत्यभिसंस्कारिकदिव्यचक्षुरास्रवक्षयज्ञानाभिज्ञानां पृथिवीकम्पनादिसर्वलोकधातुस्थसूक्ष्मतरशब्दश्रवणसरागादिपरचित्तपरिज्ञानस्वपर-पूर्वानेकजात्यनुस्मरणसर्वरूपदर्शनक्लेशज्ञेयावरणप्रहाणकारित्राणामादिशान्तत्वेनावबोध इति देशना षडभिज्ञाववादः । चतुःसत्यसङ्गृहीतषोडशक्षणस्वभावं दर्शनमार्गं धर्मान्वयज्ञानक्षान्तिज्ञानात्मकं सर्वधर्मनिःस्वभावबोधेन मायाकार इव सर्वत्रानभिनिविष्टमूर्तिस्तत्प्रहातव्यवस्तुप्रतिपक्षत्वेन योगी विभावयतीति देशना दर्शनमार्गाववादः ।

संस्कृतासंस्कृतयोरेकरूपत्वेन परस्परमशक्यव्यतिरेकप्रज्ञप्तिवद्यथोक्तदर्शनमार्गसंमुखीकृतवस्त्वव्यतिरेकालम्बनाद्दर्शनभावनयोरपृथग्भाव इति न लाक्षणिकं भावनामार्गव्यवस्थानम्, अथ च स तत्प्रहातव्यवस्तुप्रतिपक्षत्वेन विभाव्यते प्रतीत्यसमुत्पादधर्मतयेति देशना भावनामार्गाववाद इत्येवं बोधिचित्ततदाक्षित्पधर्मस्वभावप्रज्ञापारमितायां या प्रतिपत्तिरनुपलम्भाकारा, तस्या यदालम्बनं चत्वार्यसत्यानि, य आश्रयस्त्रीणि शरणानि, यो विशेषगमनहेतुरसक्तिः, योऽव्यावृत्तिगमनहेतुपरिश्रान्तिः, योऽनन्ययानगमनहेतुः प्रतिपत्संपरिग्रहः, योऽपरप्रत्यगामित्वहेतुः पञ्च चक्षूंषिः, यः सर्वाकारज्ञतापरिपूरिहेतुः षडभिज्ञाः, यौ निष्ठाहेतू दर्शनभावनामार्गौ, तत्सर्वमववादप्रकरणे निर्दिष्टमेतावतैव सर्वोऽर्थः सम्पन्न इति दशविधोऽववादः ।

संघरत्नाधिकारे तत्सुबोधाय द्वौ अन्तरश्लोकौ इत्याह -

मृदुतीक्ष्णेन्द्रियै श्रद्धादृष्टिप्राप्तौ कुलङ्कुलौ ।
एकवीच्यन्तरोत्पद्य काराकाराकनिष्ठगाः ॥ १.२४ ॥
प्लुतास्त्रयो भवस्याग्रपरमो रूपरागहा ।
दृष्टधर्मशमः कायसाक्षी खड्गश्च विंशतिः ॥ १.२५ ॥

वक्ष्यमाणमार्गज्ञतासङ्गृहीतषोडशक्षणदर्शनमार्गमाश्रित्य श्रद्धाधर्मानुसारिभेदेन प्रथमफलप्रतिपन्नको द्विविधः । ततः स्रोत आपन्नः । ततो देवमनुष्यकुलंकुलत्वेन स एवान्यो द्विविधः । ततो द्वितीयफलप्रतिपन्नको मृदुतीक्ष्णेन्द्रिय एवैकः श्रद्धादृष्टिप्राप्तः । ततः सकृदागामी । ततः स एकवीचिकोऽपरः । ततं तृतीयफलप्रतिपन्नकः पूर्ववच्छद्धादृष्टिप्राप्तः । ततः अनागामी अन्तराभवे उपपद्य, अभिसंस्कारे अनभिसंस्कारे च परिनिर्वायीति चतुर्धा । ततमेवाकनिष्ठगः प्लुतार्धप्लुतसर्वस्थानच्युतत्वेनोर्ध्वावक्रान्तापरस्त्रिविधः । ततः स एव भवाग्रगस्तु रूपवीतरागो दृष्टधर्मशमः कायसाक्षीति अपरो द्विविधः । ततोऽर्हत्त्वफलप्रतिपन्नकः । ततः प्रत्येकबुद्ध इति विंशतिः ।

३ - निर्वेधाङ्गम्

लब्धाववादस्यैवमादिकर्मिकस्य निर्वेधाङ्गभवनमिति निर्वेधाङ्गमाह -

आलम्बनत आकाराद्धेतुत्वात्सम्परिग्रहात् ।
चतुर्विकल्पसंयोगं यथास्वं भजतां सताम् ॥ १.२६ ॥
श्रावकेभ्यः सखड्गेभ्यो बोधिसत्त्वस्य तायिनः ।
मृदुमध्याधिमात्राणामूष्मादीनां विशिष्टता ॥ १.२७ ॥

बोधिसत्त्वानां श्रुतादिप्रकर्षप्राप्तमोक्षभागीयश्रद्धादिलक्षणकुशलमूलादूर्ध्वं चतुःसत्यप्रतिवेधानुकूलानि च चतुर्निर्वेधभागीयानि लौकिकभावनामयानि ऊष्मप्राप्त इति कुशलमूलम्, ततो मूर्धप्राप्तः, ततः क्षान्तिप्राप्तः, ततोऽग्रधर्म इति मृद्वादिक्रमेण उत्पादोऽथवा बोधिसत्त्वसम्बद्धमृद्विन्द्रियादिपुद्गलभेदेन वक्ष्यमाणमृदुमध्याधिमात्रालम्बनविशिष्टवस्त्वात्मकचतुःसत्यालम्बनधर्मदर्शन-प्रतिपक्षत्वेनानभिनिवेशाद्याकारविशेषात्यानत्रयाधिगमहेतुत्वविशेषादुपायकौशलकल्याणमित्रलक्षणसम्परिग्रहाद्दर्शनभावनामार्गाभ्यां प्रहातव्या ग्राह्यग्राहकचतुर्विकल्पाः वक्षमाणनयसम्बन्धेनोत्पन्नाः श्रावकादीनामूष्मादिभ्यो विशिष्टाः । तेषामूष्मादिकुशलमूलं न्याये रूपणादिलक्षणवस्त्वात्मकचतुःसत्यालम्बनमात्मदर्शनप्रतिपक्षत्वेनानित्याद्याकारप्रतिपन्नं स्वयानाधिगमहेतुभूतं सम्परिग्रहरहितं, चतुर्विधो विकल्पोऽसंसृष्टो भवतीति व्यवस्थापनात् । बोधिसत्त्वानां निर्वेधभागीयानि उपायकौशलबलेन क्वचिथेतुना, क्वचित्फलेन, क्वचित्स्वरूपतया, क्वचिद्धर्मताकारेण यथाभव्यतया चतुःसत्यवस्त्वालम्बनमिति वेदितव्यम् । संक्षिप्तव्याख्यामात्रं वक्तुकामेन न प्रपञ्चितम् । यत इदमेव व्यवस्थापनं ह्यतोऽन्ययानमाश्रित्य कुत्रापि दूषणं नाभिधातव्यम् ।

आलम्बनाकारयोः का विशेषता इत्यत आलम्बनाकारौ सप्तमिः अन्तरश्लोकैराह -

आलम्बनमनित्यादि सत्याधारं तदाकृतिः ।
निषेधोऽभिनिवेशादेर्हेतुर्यानत्रयाप्तये ॥ १.२८ ॥

रूपाद्यायव्ययौ विष्ठास्थिती प्रज्ञप्त्यवाच्यते ।

तत्र मृदुन अनित्यादिषोडशाकारं दुःखादिचतुःसत्याधारमालम्बनम् । दुःखादिसत्याभिनिवेशालम्बनादीनां निषेधः तदाकृतिः । यानत्रयाधिगमप्राप्तये हेतुभावः सर्वेषामेवोष्मादीनां वेदितव्यः ।

अधिमुक्तिना तत्त्वमनस्कारेण च यथासंख्यं रूपादीनां प्रतिपत्तेः निषेधस्य चानुपलम्भनं न समनुदर्शनमिति मध्यस्यालम्बनम् ।

सर्वनामधेयाभावेन प्रबन्धविसदृशप्रबन्धसदृशप्रवृत्तिलक्षणयोरभाव इत्याकृतिः ।

रूपमारभ्य यावद्बुद्ध इति सर्वधर्मसाङ्केतिको व्यावहारिकधर्म इत्यधिमात्रस्यालम्बनम् । कुशलादिधर्मता न केनचिद्वचनीया इत्याकृतिः । इत्यालम्बनाकारवन्निर्विकल्पज्ञानाग्नेः पूर्वरूपत्वादूष्मगतं त्रिविधम् ।

रूपादावस्थितिस्तेषां तद्भावेनास्वभावता ॥ १.२९ ॥
तयोर्मिथःस्वभावत्वं तदनित्याद्यसंस्थितिः ।
तासां तद्भावशून्यत्वं मिथः स्वाभाव्यमेतयोः ॥ १.३० ॥
अनुद्ग्रहो यो धर्माणां तन्निमित्तासमीक्षणम् ।
परीक्षणञ्च प्रज्ञायाः सर्वंस्यानुपलम्भतः ॥ १.३१ ॥

इति । अत्र स्वभावशून्यतया रूपादीनां रूपादिस्वभावेनापगतस्वभावता, ततः रूपाद्यस्थानमिति मृदुन आलम्बनम् । परमार्थेन रूपादिसर्वधर्मशून्यतयोः परस्परमेकं रूपमिति शून्यतायामनित्यत्वादीनामभावेन रूपादौ न नित्यानित्यादिभिः स्थानमित्याकारः ।

धर्मधातुरूपतयानित्यादिशून्यतानां स्वनिःस्वभावत्वादनित्यादिशून्यतानां परस्परमैकात्म्यमिति मध्यस्यालम्बनम् । यं स्वभावप्रतिषेधेनास्वीकारो रूपादीनां स आकार इति ।

स्वभावाभावतयैव नीलादिनिमित्तादर्शनं रूपादीनामिति अधिमात्रस्यालम्बनम् । सम्यग्धर्मप्रविचयत्वेन प्रज्ञायाः सर्ववस्तुनोऽनुपलम्भतया निरूपणमित्याकारः । इत्यालम्बनाकारवच्चलकुशलमूलमूर्धत्वान्मूर्धगतं त्रिविधम् ।

रूपादेरस्वभावत्वं तदभावस्वभावता ।
तदजातिरनिर्याणं शुद्धिस्तदनिमित्तता ॥ १.३२ ॥

तन्निमित्तानधिष्ठानानधिमुक्तिरसंज्ञताम् ।

इति । अत्र शून्यता रूपलक्ष्यलक्षणयोरेकत्वेनास्वभावो रूपादीनामिति मृदुन आलम्बनम् । आलम्बकजनं प्रति अभावस्वभावता रूपादीनामित्याकारः ।

प्रकृत्यस्वभावत्वेन रूपादीनामनुत्पादानिरोधाविति(मध्यस्य) आलम्बनम् । सर्वधर्मस्वरूपावबोधेन कायादीनां सर्वाकारविशुद्धिरित्याकारः ।

स्वसामान्यलक्षणानुपपत्त्या सर्वधर्माणामनिमित्तत्वमिति अधिमात्रस्यालम्बनम् । प्रकृत्यैव रूपादिनिमित्तानामाश्रयरहितत्वेनाधिमोक्षमनस्कारानधिमोक्षतत्त्वमनस्कारापरिज्ञानमिति आकारः । इत्यालम्बनाकारवदपायाभावेनाधिमात्रधर्मक्षमणात्क्षान्तिगतं त्रिविधम् ।

समाधिस्तस्य कारित्रं व्याकृतिर्मननाक्षयः ॥ १.३३ ॥
मिथस्त्रिकस्य स्वाभाव्यं समाधेरविकल्पना ।
इति निर्वेधभागीयं मृदुमध्याधिमात्रतः ॥ १.३४ ॥

इति । अत्र सर्वधर्माणामनुत्पादस्य वीरंगमादीनाञ्च समाधिर्भावनीय इति मृदुन आलम्बनम् । स्वप्रणिधानपुण्यज्ञानधर्मधातुबलेनानाभोगात्सर्वलोकधातुषु यथाभव्यतया समाधेर्व्यापारः प्रवर्तत इत्याकारः ।

धर्मतैषा सम्यक्प्रतिपन्नसमाधेर्योगिनो बुद्धैर्व्याकरणं क्रियत इति मध्यस्यालम्बनम् । सर्वविकल्पानुपपत्त्या विदितसमाधिस्वरूपस्य बोधिसत्त्वस्याहं समाहितमित्यादिज्ञानं न सम्भवतीत्याकारः ।

धर्मतया समाधिबोधिसत्त्वप्रज्ञापारमितार्थत्रयस्य परस्परमेकं रूपमित्यधिमात्रस्यालम्बनम् । सर्वधर्माविद्यमानत्वेन समाधेरविकल्पनं परमोपाय इत्याकारः । इत्यालम्बनाकारवल्लौकिकसर्वधर्माग्रत्वादग्रधर्माख्यं त्रिविधम् ।

आलम्बनमनित्यादि सत्याधारमतिरिच्य आलम्बनविशिष्टाकारयोः धर्मधर्म्यभिधाने सत्यपि आलम्बनविशिष्टाकारयोः धर्माभिधानेन सर्वत्र उच्यमाने ऋते विशिष्टान्तरपरिहारापरिहारौ नानयोः कश्चित्प्रतिविशेष इति न्यायात् । अथवा कारिकाच्छन्दानुरोधेन भिन्नाभिधानेऽपि अभिनिवेशादिनिषेधयुक्तयोः तत्त्वतः विधानप्रतिषेधरहितत्वाद्दुःखादिसत्यान्तर्गतमेवालम्बनमाकारश्च क्रियेते । तथैवापरत्रापि बोद्धव्यम् ।

चतुर्विकल्पसंयोगस्य स्फुटार्थावबोधाय द्वौ अन्तरश्लोकौ आह -

द्वैविध्यं ग्राह्यकल्पस्य वस्तुतत्प्रतिपक्षतः ।
मोहराश्यादिभेदेन प्रत्येकं नवधा तु सः ॥ १.३५ ॥

इति । सांक्लेशिकवस्त्वधिष्ठानत्वेन प्रतिपक्षाधिष्ठानत्वेन च प्रकारद्वयेऽविद्याव्यवदानस्कन्धादिप्रभेदा नवधा ।

द्रव्यप्रज्ञप्त्यधिष्ठानो द्विविधो ग्राहको मतः ।
स्वतन्त्रात्मादिरूपेण स्कन्धाद्याश्रयतस्तथा ॥ १.३६ ॥

इति । अत्र पुद्गलद्रव्यसत्पुरुषप्रज्ञप्तिसदुपलम्भत्वेन द्विविधो ग्राहकविकल्पोऽपि । स्वतन्त्रात्मस्कन्धाद्युपलम्भेन प्रत्येकं नवप्रकारो भवति ।

तत्रायमेव संक्षेपार्थः-संक्लेशवस्त्वधिष्ठानाः (यथा)-अविद्या-रूपादि-स्कन्ध-नामरूपाभिनिवेशान्तद्वयसक्ति-संक्लेशव्यवदानाज्ञानार्यमार्गाप्रतिष्ठानोपलम्भात्मादि-विशुद्ध्युत्पादादिग्राह्यविकल्पाः ।

प्रतिपक्षाधिष्ठाना-राश्यायद्वार-गोत्रोत्पाद-शून्यता-पारमितार्थ-दर्शन-भावनाशैक्षमार्गाश्चेति ग्राह्यविकल्पाः ।

पुद्गलद्रव्यसदधिष्ठानाः-स्वतन्त्रात्मैक-कारण-द्रष्टाद्यात्म-संक्लेश-वैराग्य-दर्शन-भावना-कृतार्थाधाराश्चेति ग्राहकविकल्पाः ।

प्रज्ञप्तिसत्पुरुषाधिष्ठानाः-स्कन्धायतन-धातु-प्रतीत्यसमुत्पाद-व्यवदान-दर्शन-भावना-विशेषाशैक्षमार्गाश्चेति ग्राहकविकल्पाः ।

इत्येवं चतुर्विकल्पाश्चतुर्निवेधभागीयैर्यथाक्रमं संयुक्ता भवन्ति ।

सम्बद्धकारिकानुसारमुक्तपूर्वेऽपि सम्परिग्रहे तद्बलेन यथोक्तविशेषो भवतीति दर्शनाय तदनन्तरमन्तरश्लोकः -

चित्तानवलीनत्वादि नैःस्वाभाव्यादिदेशकः ।
तद्विपक्षपरित्यागः सर्वथा सम्परिग्रहः ॥ १.३७ ॥
चित्तानबलीनत्वानुत्त्रासादिनोपायकौशल्येन यथाशयं मात्सर्यादिविपक्षधर्मवियुक्तः समस्तवस्तुनैरात्म्यादिदेशकः कल्याणमित्रमिति सम्परिग्रहः ।

४ - प्रतिपत्तेराधारः

प्रतिपत्तिमतो यथोक्तनिर्वेधभागीयमन्यदपि दर्शनमार्गादिकमिति प्रतिपत्तेराधारमाह -

षोढाधिगमधर्मस्य प्रतिपक्षप्रहाणयोः ।
तयोः पर्युपयोगस्य प्रज्ञायाः कृपया सह ॥ १.३८ ॥
शिष्यासाधारणत्वस्य परार्थानुक्रमस्य च ।
ज्ञानस्यायत्नवृत्तेश्च प्रतिष्ठा गोत्रमुच्यते ॥ १.३९ ॥

तत्रादौ तावच्चतुर्विधलौकिकनिर्वेधभागीयानामुत्पादाधारः । ततो लोकोत्तरदर्शनभावनामार्गयोः । ततस्तदुत्पत्तिबलेन चौरनिष्कासनकपाटपिधानवत्समकालं समस्तप्रतिपक्षोत्पादविपक्षनिरोधयोः । ततस्तदनुपलब्ध्या तदुत्पादनिरोधयुक्तविकल्पापगमस्य । ततं पूर्वप्रणिधानदानाद्युपायकौशल्यबलेन संसारनिर्वाणाप्रतिष्ठानयोः प्रज्ञाकरुणयोः । ततस्तदुत्पत्त्या श्रावकाद्यसाधारणधर्मस्य । ततो यथाशयमवतारणाद्यभिसन्धिद्वारेण यानत्रयप्रतिष्ठापनलक्षणपरार्थानुक्रमस्य । ततो यावदासंसारं निर्निमित्तानाभोगपरार्थज्ञानस्य चाधारः । अयमेवानुक्रमः । अनेनैव सर्व पुरुषार्थाः सम्पद्यन्ते ।

प्रतिपत्तिधर्मावस्थान्तरभेदेन त्रयोदशविधो बोधिसत्त्वो यथोक्तधर्माधारो धर्मधातुस्वभाव एव गोत्रमिति निर्दिष्टम् ।

यदि धर्मधातोरेवार्यधर्माधिगमाय हेतुत्वात्तदात्मको बोधिसत्त्वः प्रकृतिस्थमनुत्तरबुद्धधर्माणां गोत्रम्, तदा तत्सामान्यवर्तित्वाद्ऽन बोधिसत्त्व एवेतिऽ मन्दबुद्धि पुरुषं प्रत्याशंक्य अन्तरश्लोकमाह -

धर्मधातोरसम्भेदाद्गोत्रभेदो न युज्यते ।

यथा श्रावकयानाद्यधिगमक्रमेणालम्बेत तथार्यधर्माधिगमाय धर्मधातोर्हेतुभावेन व्यवस्थापनाद्गोत्रत्वेन व्यपदेश इत्यपि समाधिः दृश्यते, तथापि सौकर्यात्लौकिकदृष्टान्तेनापि समाध्यन्तरमाह -

आधेयधर्मभेदात्तु तद्भेदः परिगीयते ॥ १.४० ॥

यथैकमृद्द्रव्याभिनिर्वृत्तैकतेजःपरिपक्वाधारघटादेराधेयक्षौद्रशर्करादिभाजनत्वेन भेदस्तद्बद्यानत्रयसङ्गृहीताधिगन्तव्याधेयधर्मनानात्वेनाधारनानात्वं निर्दिष्टमिति ।

५ - आलम्बनम्

यथोक्तप्रतिपत्त्याधारस्य किमालम्बनमित्याह -

आलम्बनं सर्वधर्मास्ते पुनः कुशलादयः ।
लौकिकाधिगमाख्याश्च ये च लोकोत्तरा मताः ॥ १.४१ ॥
सास्रवानस्रवा धर्माः संस्कृतासंस्कृताश्च ये ।
शिष्यसाधारणा धर्मा ये चासाधारणा मुनेः ॥ १.४२ ॥

तत्रादौ तावत्सामान्येन (सर्वधर्माः) कुशलाकुशलाव्याकृताः यथाक्रमं श्रामण्यताप्राणातिपाताद्यव्याकृतकायकर्मादयः । ततस्तेषामेव लौकिकादिद्विविधस्यावशिष्टाश्चत्त्वारो भेदाः, यथासंख्यं बालपृथग्जनसम्बद्धाः पञ्च स्कन्धाः, सर्वार्यजनसंगृहीतानि चत्वारि ध्यानानि, आत्मदर्शनाप्रतिपक्षत्वेन पञ्चोपादानस्कन्धाः । तद्दर्शनप्रतिपक्षत्वेन चत्वारि स्मृत्युपस्थानानि । हेतुप्रत्ययाधीनाः कामादिधातवः । कारणानपेक्षाः तथता । सर्वार्यजनसन्तानप्रभवानि चतुर्ध्यानानि । सम्यक्सम्बुद्धसन्तानोदयधर्मीणि दशबलानि इत्येवमधिगमानुक्रमेण सर्वधर्मा यथावदालम्ब्यन्त इत्यालम्बनमेकादशविधम् ।


६ - समुद्देशः

तादृशालम्बनप्रतिपत्तेः कः समुद्देश इति समुद्देशमाह -

सर्वसत्त्वाग्रता चित्तप्रहाणाधिगमत्रये ।
त्रिभिर्महत्त्वैरुद्देशो विज्ञेयोऽयं स्वयम्भुवाम् ॥ १.४३ ॥

सर्वथा सर्वाकारज्ञतापरिज्ञानेन भविष्यद्बुद्धबोधिसत्त्वानां सर्वसत्त्व (राशि)-अखिलसत्त्व (निकाय)-अग्रताचित्तमहत्त्वं प्रहाणमहत्त्वमधिगममहत्त्वञ्चाधिकृत्य प्रतिपत्तौ प्रवृत्तत्वान्महत्त्वान्महत्त्वत्रययुक्तत्वाच्च त्रिविधः समुद्देशो ज्ञातव्यः ।

७ - सन्नाहप्रतिपत्तिः

इत्येवं प्रतिपत्त्याधारादीनभिधाय किञ्च तत्स्वरूपमिति चेत्? सा त्रिसर्वज्ञताविषये सामान्येन शुक्लधर्माधिष्ठाना, सर्वाकाराभिसम्बोधादौ चतुर्विधेऽभिसमये प्रत्यभिसमयं षट्पारमिताधिष्ठाना च क्रिया परिपत्तिः । एवं यथावत्प्रयोगदर्शनभावनाविशेषमार्गस्वभावानां प्रतिपत्तिलक्षणानां सन्नाहप्रस्थानसम्भारनिर्याणानां मध्ये

वीर्यरूपतया सन्नाहप्रतिपत्तिं प्रथमामाह -

दानादौ षड्विधे तेषां प्रत्येकं संग्रहेण या ।
सन्नाहप्रतिपत्तिः षा षड्भिः षट्कैर्यथोदिता ॥ १.४४ ॥

इति । धर्मदानादिदाने श्रावकादिमनस्कारपरिवर्जनम्, सर्वजनाप्रियवादित्वक्षान्तिः, छन्दजननम्, यानान्तराव्यवकीर्णैकाग्रतानुत्तरसम्यक्सम्बोधिपरिणामना यथाक्रमं देयाद्यनुपलम्भसन्नाहत्वेन क्रियन्ते । तथैव शीलस्य रक्षणम्, क्षान्तेः सम्पादनम्, वीर्यस्य प्रारम्भः, ध्यानस्य आराधनम्, प्रज्ञाया भावना इत्येवं दानादिषट्पारमितासु प्रत्येकं दानादौ संगृहीतासु षड्भिः षट्कैः षट्त्रिंशद्विद्या भवन्ति दानादिसाधर्म्याच्च षट्सन्नाहप्रतिपत्तयो भवन्ति ।

८ - प्रस्थानप्रतिपत्तिः

कृतसन्नाहस्यैवं प्रस्थानमिति प्रस्थानप्रतिपत्तिं द्वितीयामाह -

ध्यानारूप्येषु दानादौ मार्गै मैत्र्यादिकेषु च ।
गतोपलम्भयोगे च त्रिमण्डलविशुद्धिषु ॥ १.४५ ॥
उद्देशे षट्स्वभिज्ञासु सर्वाकारज्ञतानये ।
प्रस्थानप्रतिपज्ज्ञेया महायानाधिरोहिणो ॥ १.४६ ॥

ध्यानारूप्यसमापत्ति-दानादिषट्पारमिता-दर्शनभावनाशैक्षविशेषमार्ग-चतुरप्रमाणानुपलम्भयोग-सर्ववस्तुत्रिमण्डलविशुद्ध्युद्देश-षडभिज्ञा-सर्वाकारज्ञतासु सम्यग्व्यवस्थितिलक्षणा हि समस्तमहायानधर्माक्रमणस्वभावा प्रस्थानप्रतिपत्तिः नवधा ।

९ - सम्भारप्रतिपत्तिः

कृतप्रस्थानस्यैवं सम्भार इति सम्भारप्रतिपत्तिं तृतीयामाह -

दया दानाधिकं षट्कं शमथः सविदर्शनम् ।
युगनद्धश्च यो मार्गमुपाये यच्च कौशलम् ॥ १.४७ ॥
ज्ञानं पुण्यं मार्गश्च धारणी भूमयो दश ।
प्रतिपक्षश्च विज्ञेयः सम्भारप्रतिपत्क्रमः ॥ १.४८ ॥

महाकरुण-दान-शील-वीर्य-ध्यान-प्रज्ञा-शमथ-विदर्शना-युगनद्धमार्गोपायकौशल-ज्ञान-पुण्य-दर्शनादिमार्ग-वचनादिधारणी-भूमि-प्रतिपक्षाणामनुपलम्भेन संवृतिसत्यानतिक्रमेण समस्तमहायानार्थप्रतिपत्तेरेभिः करुणादिभिः सम्यक्-प्रतिपत्स्वाभाव्यात्महाबोधिग्रहणात्महाकरुणादिसम्भारा इति सप्तदश सम्भारप्रतिपत्तयः । तत्र ज्ञानसम्भारः आध्यात्मिक-बाह्य-तदुभय-शून्यता-महत्-परमार्थ-संस्कृतासंस्कृतातीतानन्तानवराग्रानवकार-प्रकृति-सर्वधर्म-लक्षणानुपलम्भाभावस्वभाव-भावाभाव-स्वभाव-परभावशून्यतानां भेदेन विंशतिधा ।

आध्यात्मिकत्वबाह्यत्वोभयशून्यत्वतस्तथा ।
दिङ्निर्वाणार्थतश्चैव संस्कृतासंस्कृतत्वतः ॥ १ ॥
अत्यन्तानवराग्रत्वानवकाराकृतात्वतः ।
सर्वधर्मत्वलक्ष्मत्वाभ्यतीतादित्वतः पुनः ॥ २ ॥
सांयोगिकत्वभावत्वाकाशशून्यस्वभावतः ।
स्वस्वभाववियुक्तत्वाद्विंशतिः शून्यता मताः ॥ ३ ॥

भूमिसम्भारेण दशभूभय इति परिष्क्रियमाणानां धर्माणां संदर्शनाय त्रयोविंशतिरन्तरश्लोका कथ्यन्ते -

१. प्रमुदिता भूमिः

लभ्यते प्रथमा भूमिर्दशधा परिकर्मणा ।
आशयो हितवस्तुत्वं सत्त्वेषु समचित्तता ॥ १.४९ ॥
त्यागः सेवा च मित्राणां सद्धर्मालम्बनैषणा ।
सदा नैष्क्रम्यचित्तत्वं बुद्धकायगता स्पृहा ॥ १.५० ॥
धर्मस्य देशना सत्यं दशमं वाक्यमिष्यते ।
ज्ञेयञ्च परिकर्मैषां स्वभावानुपलम्भतः ॥ १.५१ ॥

इति । यथावत्सर्ववस्तुषु अकौटिल्याशयः, स्व-परप्रयोजने हितत्वम्, सर्वसत्त्वेषु समचित्तता, सर्वस्वपरित्यागः, कल्याणमित्रारागणम्, यानत्रयसङ्गृहीत सद्धर्मालम्बनपर्येष्टिः, गृहवासानभिरतिः, अनुत्तरबुद्धकायगता स्पृहा, सद्धर्मप्रकाशनम्, सत्यवादितेत्येवमेभिर्दशभिर्लक्षणधर्मैः सर्वथोत्पद्यमानत्त्वात्परिकर्मभिः कारणविशेषैः स्वभावानुपलम्भतया कृतविशेषलक्षणपरिकर्मभिरेव प्रथमा प्रमुदिता भूमिः प्राप्यते ।

२ - विमला भूमिः

शीलं कृतज्ञता क्षान्ति प्रमोद्यं महती कृपा ।
गौरवं गुरुशुश्रूषा वीर्यं दानादिकेऽष्टमम् ॥ १.५२ ॥

इति कुशलधर्म-सत्त्वार्थक्रिया-संवरशीलानि, परकृतोपकारस्य अविस्मरणम् (अविप्रणाशनम्), परकृतापकारादौ क्षान्तिः, कुशलधर्मस्याराधनेऽविप्रतिसारः, सर्वजनेषु मैत्री, उपाध्यायादिषु प्रणमनम्, कल्याणमित्रनिर्दिष्टधर्मसाधना, दानादिषट्पारमितासु पर्येष्टिरित्येवं कृतपरिकर्मविशेषेणाष्टप्रकारधर्मेण द्वितीया विमला भूमिरधिगम्यते ।

३. प्रभाकरी भूमिः

अतृप्तता श्रुते दानं धर्मस्य च निरामिषम् ।
बुद्धक्षेत्रस्य संशुद्धिः संसारापरिखेदिता ॥ १.५३ ॥

ह्रीरपत्राप्यमित्येतत्पञ्चधा मननात्मकम् ।

इति । सद्धर्मश्रवणे तृप्तेरज्ञानम्, लाभादिनिरपेक्षचित्तेन सद्धर्मप्रकाशनम्, स्वबुद्धक्षेत्राश्रयाश्रितसंशोधनम्, उपकृतसत्त्ववैपरीत्यादिदर्शनेन न परिखेदापत्तिः, स्वपरापेक्षया अकुशलधर्माकरणमित्येवं पञ्चधा परिकर्मणा पूर्ववत्कृतानवबुध्यमानस्वभावपरिकर्मणा तृतीया प्रभाकरी भूमिरवबुध्यते ।

४. अर्चिष्मती भूमिः

वनाशाऽल्पेच्छता तुष्टिर्धूतसंलेखसेवनम् ॥ १.५४ ॥
शिक्षाया अपरित्यागः कामानां विजुगुप्सनम् ।
निर्वित्सर्वास्तिसन्त्यागोऽनवलीनानपेक्षते ॥ १.५५ ॥

इति । अरण्यावासः, अप्राप्तलाभेषु अनभिलाषः, प्राप्तलाभेष्वनधिकाभ्यर्थना, भिक्षादिधौतगुणसंवरणम्, गृहीतशिक्षाणां प्राणादिभ्योऽपि अपरित्यजनम्, कामगुणेषु दोषोपलम्भदर्शनेन निन्दनम्, विनेयानुसारेण निर्वाणे प्रवणत्वम्, सर्वस्वपरित्यागः, कुशलसाधने चित्तासंकोचः, सर्ववस्त्वनपेक्षणमित्येवं पूर्ववद्दशप्रकारेण चतुर्थी अर्चिष्मती भूमिरभिरूह्यते ।

५. सुदुर्जया भूमिः

संस्तवं कुलमात्सर्यं स्थानं सङ्गणिकावहम् ।
आत्मोत्कर्षपरावज्ञे कर्ममार्गान् दशाशुभान् ॥ १.५६ ॥
मानं स्तम्भं विपर्यासं विमतिं क्लेशमर्षणम् ।
विवर्जयन् समाप्नोति दशैतान् पञ्चमीं भुवम् ॥ १.५७ ॥

इति । लाभाद्यर्थं गृहिप्रव्रजितादिभिः संवासः, श्राद्धकुलानुपदर्शनम्, जनाकीर्णनगरादि, स्वप्रशंसनपरनिन्दने, दशाकुशलकर्मपथाः, श्रुताद्यभिमानः, पराप्रणमनम्, कुशलाकुशलविपरीताभीनिवेशः, मिथ्यादृष्ट्यादिकुमतिः, सर्वरागादिसर्वक्लेशाभिमुखीकरणं चेत्येवंलक्षणान् दशधर्मान् विवर्जयनर्थादाक्षिप्तविपर्ययधर्मेण दशप्रकारपरिकर्मणा पूर्ववत्पञ्चमी सुदुर्जया भूमिराक्रम्यते ।

६. अभिमुखी भूमिः

दानशीलक्षमावीर्यध्यानप्रज्ञाप्रपूरणात् ।
शिष्यखड्गस्पृहात्रासचेतसां परिवर्जकः ॥ १.५८ ॥
याचितोऽनवलीनश्च सर्वत्यागेऽप्यदुर्मनाः ।
कृशोऽपि नार्थिनां क्षेप्ता षष्ठीं भूमिं समश्नुते ॥ १.५९ ॥

दानादिषट्पारमितापरिपूरणेन श्रावकप्रत्येकबुद्धाभिलाषस्य स्वभावानुपलम्भोत्त्त्रासस्य च याचकजनप्रार्थनासंकोचस्य स्वरसप्रवृत्तसर्वार्थत्यागदौर्मनस्यस्य दारिद्र्यादर्थिजनप्रतिक्षेपचित्तस्य च वर्जनेनेत्येवं द्वादशभिः परिकर्मभिः पूर्ववत्षष्ठी अभिमुखी भूमिराज्ञायते ।

७. दूरङ्गमा भूमिः

आत्मसत्त्वग्रहो जीवपुद्गलोच्छेदशाश्वतः ।
निमित्तहेत्वोः स्कन्धेषु धातुष्वायतनेषु च ॥ १.६० ॥
त्रैधातुके प्रतिष्ठानं सक्तिरालीनचित्तता ।
रत्नत्रितयशीलेषु तद्दृष्ट्यभिनिवेशिता ॥ १.६१ ॥
शून्यतायां विवादश्च तद्विरोधश्च विंशतिः ।
कलङ्का यस्य विच्छिन्नाः सप्तमीमेत्यसौ भुवम् ॥ १.६२ ॥

इति । आत्मसत्त्वजीवपुद्गलोच्छेदशाश्वतनिमित्तहेतुस्कन्धधात्वायतनत्रैधातुकाधिष्ठान-सक्त्यालीनचित्तबुद्धधर्मसंघशीलदृष्ट्यभिनिवेशशून्यताविवादविरोधोद्भावनाग्रहोत्सृष्टयश्चेत्येवं विंशतिप्रकारकलङ्कापगमादाक्षिप्तविपर्ययधर्मेण विंशतिप्रकारेण परिकर्मधर्मेण पूर्ववत्सप्तमी दूरङ्गमा भूमिः समीयते ।

अर्थाक्षिप्तधर्मतानिर्देशायाह -

त्रिविमोक्षमुखज्ञानं त्रिमण्डलविशुद्धता ।
करुणामनना धर्मसमतैकनयज्ञता ॥ १.६३ ॥
अनुत्पादक्षमाज्ञानं धर्माणामेकधेरणा ।
कल्पनायाः समुद्धातः संज्ञादृक्क्लेशवर्जनम् ॥ १.६४ ॥
शमथस्य च निध्यप्तिः कौशलञ्च विदर्शने ।
चित्तस्य दान्तता ज्ञानं सर्वत्राप्रतिघाति च ॥ १.६५ ॥
सक्तेरभूमिर्यत्रेच्छं क्षेत्रान्तरगतिः समम् ।
सर्वत्र स्वात्मभावस्य दर्शनञ्चेति विंशतिः ॥ १.६६ ॥

शून्यताऽनिमित्ताप्रणिहितविमोक्षमुखसम्यग्ज्ञानम्, दशकुशलकर्मपथेषु वधवध्यघातकानुपलम्भादि, सर्वसत्त्वालम्बनकरुणा, वस्त्वनुपलम्भः, सर्वधर्मसमतावबोधः, महायानैकयानावबोधः, अनुत्पादपरिज्ञानम्, गम्भीरधर्मनिध्यानक्षान्त्यवगमः, सर्वज्ञेयानां महायानोपायमुखेन प्रकाशनम्, सर्वकल्पनोच्छेदः, निमित्तोद्ग्रहणविकल्पाभावसत्कायादिपञ्चदृष्टिसन्त्यागः, रागादिक्लेशवर्जनानि, शमथभावना, प्रज्ञाकौशल्यम्, चित्तोपशमः, रूपाद्यप्रतिघातज्ञानम्, अभिनिवेशास्थानम्, यथेष्टसमकालबुद्धक्षेत्रगमनम्, विनेयानुरूपं सर्वत्र स्वकायप्रकाशनमिति विंशतिप्रकारेणानेन परिकर्मधर्मेणापि पूर्ववत्सप्तमी भूमिः समीयते ।

८. अचला भूमिः

सर्वसत्त्वमनोज्ञानमभिज्ञाक्रीडनं शुभा ।
बुद्धक्षेत्रस्य निष्पत्तिर्बुद्धसेवापरीक्षणे ॥ १.६७ ॥
अक्षज्ञानं जिनक्षेत्रशुद्धिर्मायोपमा स्थितिः ।
सञ्चिन्त्य च भवादानमिदं कर्माष्टघोदितम् ॥ १.६८ ॥

इति । यथावत्सर्वसत्त्वचित्तचरितज्ञानम्, लोकधातौ ऋद्ध्यभिज्ञाभिः क्रीडनम्, आधारबुद्धक्षेत्रसुवर्णादिभावपरिणामः, सर्वाकारधर्मपरीक्षणेन बुद्धरागणम्, दिव्यचक्षुषो निष्पत्तिः, आधेयबुद्धक्षेत्रसत्त्वपरिशोधनम्, सर्वत्र मायोपमतावस्थानम्, सर्वसत्त्वार्थदर्शनाद बुद्धिपूर्वकजन्मग्रहणञ्चेत्येवमष्टप्रकारधर्मेण परिकर्मणा पूर्ववदष्टमी अचला भूमिरनुभूयते ।

९. साधुमती भूमिः

प्रणिधानान्यनन्तानि देवादीनां रूतज्ञता ।
नदीव प्रतिभानानां गर्भावक्रान्तिरुत्तमा ॥ १.६९ ॥
कुलजात्योश्च गोत्रस्य परिवारस्य जन्मनः ।
नैष्क्रम्यबोधिवृक्षाणां गुणपूरे स्वसम्पदः ॥ १.७० ॥

इति । अनन्तप्रणिधानम्, देवादिसर्वसत्त्वरुतज्ञानम्, नद्युपमिताक्षयप्रतिभानम्, सर्वजनप्रशस्तगर्भावक्रमणम्, राजादिस्थानम्, आदित्याद्यन्वयः, मात्रादिसुसम्बन्धज्ञातिः, स्वविधेयपरिवारः, शक्राद्यभिनन्दितोत्पादः, बुद्धादिसञ्चोदननिष्क्रमणम्, चिन्तामणिसदृशाश्वत्थवृक्षादिः, बुद्धबुद्धधर्मस्वभावगुणपरिपूरणञ्चेत्येवं सम्पत्तिलक्षणैर्द्वादशभिः परिकर्मभिः पूर्ववत्कृतपरिकर्मविशेषैर्नवमी साधुमती भूमिः साक्षात्क्रियते ।

१०. धर्ममेघा भूमिः

हेतुभूमित्वेन तत्परिकर्माण्येवं निर्दिश्य फलभूमित्वेन पृथक्तान्यनभिधाय सङ्ग्रहणेन दशमभूमिलक्षणमाह -

नवभूमीरतिक्रम्य बुद्धभूमौ प्रतिष्ठते ।
येन ज्ञानेन सा ज्ञेया दशमी बोधिसत्त्वभूः ॥ १.७१ ॥

इति । श्रावकादिगोत्र-प्रथमफलप्रतिपन्नक-स्रोतापन्न-सकृदागाम्यनागाम्यर्हतामिति षण्णां नयत्रयव्यवस्थापनाभिप्रायेण शेषसङ्गृहीतापन्नकत्रयस्य प्रत्येकबुद्धस्य च यथाक्रमं गोत्राष्टमक-दर्शन-तनु-वीतराग-कृतविकल्प-श्रावक-प्रत्येकबुद्धभूमयः, बोधिसत्त्वानां यथोक्ता नवविधेत्येवं नवभूमीरतिक्रम्य दशम्यां पुनः भूमौ बोधिसत्त्वो बुद्ध एव वक्तव्यो न तु सम्यक्सम्बुद्ध इति वचनात्बुद्धभूमौ येन प्रणिधानज्ञानेनावतिष्ठते सा एव दशमी बोधिसत्त्वभूमिः ज्ञेया ।

(प्रतिपक्षसम्भारः)

प्रतिपक्षसम्भारार्थमन्तरश्लोकमाह -

प्रतिपक्षोऽष्टधा ज्ञेयो दर्शनाभ्यासमार्गयोः ।
ग्राह्यग्राहकविकल्पानामष्टानामुपशान्तये ॥ १.७२ ॥

इति । सांक्लेशिकवस्तुमात्रप्रतिपक्षाधिष्ठानग्राह्यविकल्पद्वयस्य द्रव्यपुद्गलप्रज्ञप्तिपुरुषाधिष्ठानग्राहकविकल्पद्वयस्य च दर्शनमार्गभावनामार्गयोः प्रहाणाद्ग्राह्यग्राहकाष्टविकल्पोपशान्तये सत्यद्वयमाश्रित्य साक्षात्करणीया विपक्षभेदेन मार्गद्वयावस्थायामेव अष्टविधाः प्रतिपक्षाः ।

१०. निर्याणप्रतिपतिः

सम्भृतसम्भारस्यैवं निर्याणमिति निर्याणप्रतिपत्तिं चतुर्थींमाह -

उद्देशे समतायाञ्च सत्त्वार्थे यत्नवर्जने ।
अत्यन्ताय च निर्याणं निर्याणं प्राप्तिलक्षणम् ॥ १.७३ ॥
सर्वाकारज्ञतायाञ्च निर्याणं मार्गगोचरम् ।
निर्याणप्रतिपज्ज्ञेया सेयमष्टविधात्मिका ॥ १.७४ ॥

इति । यथोक्त उद्देशः , सर्वधर्मसमता, सत्त्वार्थकरणम्, अनिमित्तसर्वक्रियाकारित्वेनानाभोगः, शाश्वतोच्छेदरहितावस्थाविशेषः, त्रियानसर्वार्थप्राप्तिः, यथोक्तसर्वाकारज्ञता तद्विशिष्टमार्ग इत्येवं निर्यातव्यवस्तुषु प्रतिविशिष्टान्यधर्माभावेन सर्वानुपलम्भतया एभिरष्टाभिर्निर्याणप्रतिपत्तिः अष्टधा भवति ।

इति अभिसमयालङ्कारे नाम प्रज्ञापारमिताशास्त्रे प्रथमाधिकारवृत्तिः ।

________________________________________________________________

मार्गज्ञताधिकारः द्वितीयः

[सम्पाद्यताम्]

१ - ध्यामीकरणतादीनि

सर्वाकारज्ञताधिगमो न विना मार्गज्ञतापरिज्ञानेनेति मार्गज्ञतामाह -

ध्यामीकरणता भाभिर्देवानां योग्यतां प्रति ।
विषयो नियतो व्याप्तिः स्वभावस्तस्य कर्म च ॥ २.१ ॥

मार्गज्ञतोत्पत्तिं प्रति योग्यतापादनाय देवादीनां स्वकर्मजप्रभायास्तथागतप्रकृतिप्रभाभिर्मलिनीकरणता निहतमानसन्तानेऽधिगम उत्पद्यत इति ज्ञापनाय कृता, अतो वक्रोक्त्याधारः कथितः । स चोत्पादितबोधिचित्त एवेति विषयप्रतिनियतो भवति । त्रियानव्यवस्थानमाभिप्रायिकम्, न लाक्षणिकमिति न्यायादनुत्तरसम्यक्सम्बोधिपर्यवसान एव सर्वो जन इत्यतो वीतरागेतरयोगिनापि बुद्धत्वप्राप्तये मार्गज्ञता भावनीयेति व्याप्तिर्भवति । सत्त्वार्थकरणप्रवृत्तत्वेनोत्पादितबोधिचित्तस्य सर्वथा क्लेशाप्रहाणमिति स्वभावो भवति । तादृशस्वभावस्य भूतकोटेरसाक्षात्करणेन प्रयोपायकौशलेन चापरिगृहीतसत्त्वस्य परिग्रहणादिनेति कारित्रम् ।

२ - श्रावकमार्गः

आधारादिकमेवममिधाय मार्गज्ञताधिकारे सर्वे मार्गाः परिपूरयितव्या इति श्रावकमार्गमाह -

चतुर्णामायसत्यानामाकारानुपलम्भतः ।
श्रावकाणामयं मार्गो ज्ञेयो मार्गज्ञतानये ॥ २.२ ॥

इति । तत्र दुःखसत्यस्यानुक्रमेण अनित्यं दुःखं शून्यमनात्मेत्येतानि चत्वारि शान्ताकारलक्षणानि ।

समुदयसत्यस्य हेतु-समुदय-प्रभव-प्रत्ययरूपत्वेन रोग-गण्ड-शल्याघाकाराः ।

निर्विदे विरागाय निरोधाय च प्रतिपन्नो भवतीत्यतस्तयोः दुःखसमुदययोः प्रत्येकः पर-प्रलोपधर्मस्वरूपौ निर्विदाकारौ, चल-प्रभङ्गुरस्वरूपौ विरागाकारौ; भयोपसर्गोपद्रवस्वरूपा निरोधाकाराः । निरोधसत्यस्य निरोधरूप-निरात्म-शान्त-प्रणीतरूपविविक्त-निर्याणरूपशून्यानिमित्ताप्रणिहितानभिसंस्कारा निरोधसत्याकाराः ।

मार्गसत्यस्य मार्ग-न्याय-प्रतिपत्ति-नैर्याणिका इति मार्गसत्याकाराः । ततश्चैषां स्वभावानुपलम्भभावनया मार्गज्ञताधिकारे श्रावकाणां मार्गो बोधिसत्वेनैवं परिज्ञेयः ।

निर्वेधभागीयाधिगमपूर्वकं चतुःसत्वपरिज्ञानमिति मार्गममिधाय निर्वेधभागीयमाह-

रूपादिस्कन्धशून्यत्वाच्छून्यतानामभेदतः ।
ऊष्माणोऽनुपलम्भेन तेषां मूर्धगतं मतम् ॥ २.३ ॥
क्षान्तयस्तेषु नित्यादिगोस्थाननिषेधतः ।
दश भूमीः समारभ्य विस्तरास्थानदेशनात् ॥ २.४ ॥
अग्रधर्मगतं प्रोक्तमार्यश्रावकवर्त्मनि ।
तत्कस्य हेतोर्बुद्धेन बुद्ध्वा धर्मासमीक्षणात् ॥ २.५ ॥

रूपादिस्कन्धानां स्वस्वरूपशून्यत्वाच्छून्यतानामभेदेन, रूपादीनां पूर्ववदनुपम्भेन, एवं रूपादीनांऽन नित्यं नानित्यम्ऽ इत्युपलम्भयोगतः स्थाननिषेधेन, यस्मात्तथागतेन बोधिमभिसम्बुध्य धर्मा न समीक्षिता इति प्रमाणपुरुषादर्शनकारणोपपत्त्या प्रमुदितभूम्यादौ विस्तरास्थानदेशनया चेति एभिराकारैर्यथाक्रमं सत्यानामुपलब्धौ निर्वेधभागीया उत्पद्यन्ते ।

३ - प्रत्येकबुद्धमार्गः

श्रावकमार्गानन्तरं प्रत्येकबुद्धानां मार्गाभिधाने न्यायप्राप्तेऽपि श्रावकेभ्यः कथं प्रतिविशिष्टास्ते येन तेषां मार्गभेद इत्याशङ्क्य वैशिष्ट्यप्रतिपादनार्थं तावदाह -

परोपदेशवैयर्थ्यं स्वयम्बोधात्स्वयम्भुवाम् ।
गम्भीरता च ज्ञानस्य खड्गानामभिधीयते ॥ २.६ ॥

इति । श्रावकाः परोपदेशसापेक्षाः स्वबोधिं बुध्यन्ते; सालापधर्मदेशनया च परानपि कुशले प्रवर्तयन्तीत्यागमः । प्रत्येकबुद्धाः पुनः स्वयं पूर्वश्रुताद्यभिसंस्कारेण परोपदेशं प्रत्यनपेक्षाः स्वबोधिसमधिगच्छन्त्यतस्तेषां बुद्धाद्युपदेशनैरर्थक्यमित्येकं वैशिष्ट्यम् । शब्दोच्चारणधर्मदेशनया श्रोतृभिः क्रियते वक्तृज्ञानसामर्थ्यावबोधः । ते (प्रत्येकबुद्धाः) पुनः अशब्दोच्चारणधर्मदेशनया स्वाधिगतज्ञानादिसामर्थ्येन परान् दशकुशलादौ प्रवर्तयन्त्यतस्तेषां ज्ञानस्यानवबोधतया द्वितीयं वैशिष्ट्यमिति ।

कथमशब्दोच्चारणधर्मदेशनेत्याशंक्याह -

शुश्रूषा यस्य यस्यार्थे यत्र यत्र यथा यथा ।
स सोऽर्थः ख्यात्यशब्दोऽपि तस्य तस्य तथा तथा ॥ २.७ ॥

इति । नावितर्क्य नाविचार्य वाचं भाषत इत्यालापो विक्षेपः । स च सन्तानक्षोभमादधातीति यथा यथा बोधिसत्त्वेनऽबुद्धो भूत्वा आलापमन्तरेण धर्मदेशनां कुर्याम्ऽ इति प्रणिधानं प्रवर्तितम्, तथा बुद्धत्वसाम्यात्प्रत्येकबुद्धावस्थायाञ्च प्रणिधानादिसामर्थ्येन यस्मिन्नर्थे येन प्रकारेण यस्य श्रवणेच्छा, तस्य विज्ञाने तेनैव प्रकारेण अशब्दोऽपि सोऽर्थः प्रतिभातीत्यशब्दधर्मदेशनोच्यते । इत्येवं वक्ष्यमाणधर्मस्य श्रोतृविज्ञाने सुनिर्माणमुत्पादश्चेत्ययं भवति धर्मदेशना शब्दार्थः ।

वैशिष्ट्यमेवमभिधाय विशिष्टानां विशिष्ट एव मार्ग इति प्रकृतप्रत्येकबुद्धमार्गमाह -

ग्राह्यार्थकल्पनाहानाद्ग्राहकस्याप्रहाणतः ।
आधारतश्च विज्ञेयः खड्गमार्गस्य सङ्ग्रहः ॥ २.८ ॥

इत्युक्तम् । प्रत्येकबुद्धस्य मार्गः यथोक्तसत्यभावनया एव, यथाअवस्तु प्रतीत्यसमुत्पादभावनया च । ग्राह्यग्राहकार्थविकल्पयोर्यथाक्रमं प्रहाणाप्रहाणे प्रत्येकबुद्धयानसङ्गृहीताधारधर्मवस्तुनो विशेषविशिष्टधर्माधिगमश्च बोधिसत्त्वेन परिज्ञेयो न सर्वाकारज्ञानेनेति प्रत्येकबुद्धमार्गः ।

निर्वेधभागीयाधिगमे सति यथोक्तमार्ग उत्पद्यत इति निर्वेधभागीयमाह -

प्रज्ञप्तेरविरोधेन धर्मतासूचनाकृतिः ।
ऊष्मगं मूर्धंगं रूपाद्यहानादिप्रभावितम् ॥ २.९ ॥
अध्यात्मशून्यताद्याभी रूपादेरपरिग्रहात् ।
क्षान्ती रूपाद्यनुत्पादाद्याकारैरग्रधर्मता ॥ २.१० ॥

इति । रूपादिसाङ्केतिकधर्मप्रज्ञप्तेरविरोधेन धर्मतायाः प्रतिपादनेनः, रूपादेः परमार्थतो न हानिवृद्ध्याद्यर्थं शिक्षणेन, स्वभावशून्यत्वात्रूपादेरध्यात्मबहिर्धादिशून्यतया अपरिग्रहणेन, रूपादेरनुत्पादानिरोधाद्याकारैश्च यथाक्रमं चतुःसत्यालम्बने निर्वेधभागीयो भवति ।

४ - बोधिसत्त्वमार्गः

प्रत्येकबुद्धमार्गानन्तरं बोधिसत्त्वमार्गमाह -

क्षान्तिज्ञानक्षणैः सत्यं सत्यं प्रति चतुर्विधैः ।
मार्गज्ञतायां दृङ्मार्गः सानुशंसोऽयमुच्यते ॥ २.११ ॥

इति । मार्गज्ञताधिकारे बोधिसत्त्वेन धर्मज्ञानक्षान्तिर्धर्मज्ञानमन्वयज्ञानक्षान्तिरन्वयज्ञानं चेति चत्वारः क्षान्तिज्ञानक्षणाः प्रत्येकं दुःखादिसत्यसम्बन्धयुक्ता ऐहिकामुत्रिकैर्गुणैर्युक्ता विमावनीया इति दर्शनमार्गो महानुशंस इत्युच्यते ।

कथमाकारो भावनीय इत्याह -

आधाराधेयताभावात्तथताबुद्धयोर्मिथः ।
पर्यायेणाननुज्ञानं महत्ता साऽप्रमाणता ॥ २.१२ ॥
परिमाणान्तताभावो रूपादेरवधारणम् ।
तस्यां स्थितस्य बुद्धत्वेऽनुद्ग्रहात्यागतादयः ॥ २.१३ ॥
मैत्र्यादि शून्यताप्राप्तिर्बुद्धत्वस्य परिग्रहः ।
सर्वस्य व्यवदानस्य सर्वाधिव्याधिशातनम् ॥ २.१४ ॥
निर्वाणग्राहशान्तत्वं बुद्धेभ्यो रक्षणादिकम् ।
अप्राणिवधमारभ्य सर्वाकारज्ञतानये ॥ २.१५ ॥
स्वयं स्थितस्य सत्त्वानां स्थापनं परिणामनम् ।
दानादीनाञ्च सम्बोधाविति मार्गज्ञताक्षणाः ॥ २.१६ ॥

परमार्थतः तथताबुद्धयोराधाराधेयभावो न विद्यत इत्यतस्तयोः पर्यायेणावस्थितेरननुज्ञानम् । रूपादीनां धर्मधातुस्वभावतया महत्ता तथैव तेषामप्रमाणता । पूर्ववदाकाशापरिमाणतया तेषामपरिमाणतेत्येवं दुःखसत्याकारा भवन्ति ।

रूपादीनां निःस्वभावत्वेन शाश्वतोच्छेदाद्यन्ताभावः । प्रज्ञापारमितायां स्थितस्य धर्मधातुस्वभावतया रूपादीनां तथागतत्वावधारणम् । तथैव तस्यां स्थितस्य सर्वधर्माणां नोद्ग्रहत्यागभावनादिकम् । निःस्वभावाधिमोक्षपूर्वकं चतुरप्रमाणं विभावनीयमित्येवं समुदयसत्याकारा भवन्ति ।

रूपादेर्निजरूपा प्रकृत्यैव शून्यता । धर्मधातुपरिणामितकुशलमूलानां फलं तथागतत्वस्य प्रापणम् । प्रज्ञापारमितया सर्वाकारप्रतिपक्षाणां संग्रहः । तयैव बाह्याभ्यन्तरोपद्रवप्रशमनमित्येवं निरोधसत्याकारा भवन्ति ।

निःस्वभावताभावनयैव रूपादिनिर्वाणाभिनिवेशस्य शान्तिः । प्रज्ञोपायकौशलप्रवृत्तस्य बुद्धेभ्यो रक्षावरणगुप्तयो भवन्ति । बुद्धत्वाभिलाषिणा स्वयं प्राणातिपातविरत्यादिपूर्वकं सर्वाकारज्ञतायां स्थित्वा तत्रैव परेषां स्थापनम् । दानादीनामक्षयं कर्तुमिच्छता सम्यक्सम्बोधौ परिणामनमित्येवं मार्गसत्यस्याकारा भवन्ति । इत्येवमेव मार्गज्ञतायाः क्षणा भवन्ति ।

केचिदिह कारिकार्थोपलक्षणपरेण ग्रन्थेन आकारार्थमनुक्त्वा दर्शनमार्गषोडशक्षणोपलक्षणमेव केवलमनुकृतमिति वर्णयन्ति, एवमुक्तानुक्तनिर्वेधभागीयाद्यर्थकारिकास्वपि द्रष्टव्यमिति । तैर्भावनानुक्रमाद्यनिर्देशात्काचिदभिसमयानुपूर्वी न प्रतिपादिता ।ऽआलम्बनमनित्यादि सत्याधारं तदाकृतिःऽ इत्यादिकारिकार्थश्च कथं व्याख्येय इत्यपरे ।

५ - भावनामार्गकारित्रम्

दर्शनमार्गानन्तरं भावनामार्गाभिधाने सति स्वल्पवक्तत्वेन फलनिम्नत्वेन च विनेयप्रवृत्तेः तत्कारित्रं तावत्-

सर्वतो दमनं नाअ सर्वतः क्लेशनिर्जयः ।
उपक्रमाविषह्यत्वं बोधिराधारपूज्यता ॥ २.१७ ॥

इत्युक्तम् । सर्वप्रकारचित्तस्वविधेयीकरणम्, कल्याणमित्रादिसर्वजननमनम्, रागाद्यभिभवः, परकृताघाताननुप्रतिपत्तेः अविषह्यत्वम्, सम्यक्सम्बोधिप्रतिपत्तिः, आधारविषयपूज्यताकारित्रञ्चेति षड्विधमेव कारित्रम् ।

सास्रवो भावनामार्गः

६ - भावनामार्गाधिमुक्तिः

कारित्रानन्तरं भावनामार्गः । स च सास्रवानास्रवभेदेन द्विविधः । अतः सास्रवभावनामार्गाधिमुक्तिपरिणामनानुमोदनामनस्कारेषु प्रथमं भावनामार्गाधिमुक्तिमनस्कारमाह -

अधिमुक्तिस्त्रिधा ज्ञेया स्वार्था च स्वपरार्थिका ।
परार्थिकैवेत्येषा च प्रत्येकं त्रिविधेष्यते ॥ २.१८ ॥
मृद्वी मध्याधिमात्रा च मृदुमृद्वादिभेदतः ।
सा पुनस्त्रिविधेत्येवं सप्तविंशतिधा मता ॥ २.१९ ॥

इति । स्वोभयपरार्थोपलम्भतया यथाधिमोक्षं दृष्टकुशलधर्मधिष्ठाना भावनामार्गाधिकारादादौ असाक्षात्क्रियारूपाधिमुक्तिः त्रिविधा सती प्रत्येकं मृद्वादिभेदेन त्रिविधा । एवमेषापि प्रत्येकं मृदुमृद्वादिभेदेन त्रिविधा । एवं नवभिस्त्रिभिरधिमुक्तिः सप्तविंशतिप्रकारा भवति ।

७ - भावनामार्गाधिमुक्तस्य स्तुतिः स्तोभः प्रशंसा च

तद्भावकबोधिसत्त्वस्योत्साहवर्धनाय तदधिमोक्षस्य स्त्युत्यादयो बुद्धादिभिः क्रियन्त इति स्तुतिं, स्तोभं प्रशंसाञ्चाह -

स्तुतिः स्तोभः प्रशंसा च प्रज्ञापारमितां प्रति ।
अधिमोक्षस्य मात्राणां नवकैस्त्रिभिरिष्यते ॥ २.२० ॥

इति । यथाधिमोक्षदृष्टधर्मलक्षणां प्रज्ञापारमितां प्रति प्रवृत्तस्याधिमोक्षमनस्कारस्य प्रथमद्वित्रिनवावस्थानां प्रत्येकं नवभिः प्रकारैरुत्तरोत्तराभिनन्दनं स्तुतिः स्तोभः प्रशंसा च इष्यते । अतस्ते स्तुत्यादयो यथाभूतार्थाधिगममात्रलक्षणा नार्थवादरूपाः ।

८ - परिणामना

एवमधिमोक्षस्य परिणामनासम्भवाद्द्वितीयं परिणामनामनस्कारमाह -

विशेषः परिणामस्तु तस्य कारित्रमुत्तमम् ।
नोपलम्भाकृतिश्चासावविपर्यासलक्षणः ॥ २.२१ ॥
विविक्तो बुद्धपुण्यौघस्वभावस्मृतिगोचरः ।
सोपायश्चानिमित्तश्च बुद्धैरभ्यनुमोदितः ॥ २.२२ ॥
त्रैधारुकाप्रपन्नश्च परिणामोऽपरस्त्रिधा ।
मृदुर्मध्योऽधिमात्रश्च महापुण्योदयात्मकः ॥ २.२३ ॥

इति । यथोक्तो विशेषाधिमोक्षः, अनुपलम्भः, अविपर्यासः, विविक्तः, तथागतकुशलमूलौधस्वभावस्मृतिः, सोपायकौशलः, अनिमित्तः, बुद्धानुज्ञातः, त्रैधातुकाप्रपन्नः, मृदुमध्याधिमात्रश्च महापुण्योदय इत्येवमध्यारोपितमनस्कारा यथाक्रममनुत्तरसम्यक्सम्बोधिः शीलादिस्कन्ध-परिणामनाचित्तात्मादियुक्तवस्तु-त्रिकालबुद्धकुशल-दानादि-निमित्त-सर्वमार्ग-कामादिधातु-दशकुशलकर्मपथ-स्रोतापन्नाद्यनुत्तरसम्बोधिप्रस्थितानामनुपलब्धानामुपलम्भा इति त्रियानविनेयसत्त्वानां मार्गोपदेशहेतुभावव्यापारयुक्तैः सर्वसत्त्वार्थमक्षयाय चानुत्तरसम्यक्सम्बोधौ द्वादश परिणामनाः क्रियन्ते ।

९ - अनुमोदना

एवं परिणामयितवस्तु अभिवर्धयितव्यमिति तृतीयमनुमोदनामनस्कारमाह -

उपायानुपलम्भाभ्यां शुभमूलानुमोदना ।
अनुमोदे मनस्कारभावनेह विधीयते ॥ २.२४ ॥

इति । संवृत्युपायेन कुशलमूलान्युपलभ्य प्रमुदितचित्तेन परमार्थतोऽनुपलम्भतयानुमोदनीयानीति ।

तत्रायं समासार्थः-आकरान्निष्कृष्टः स्वर्णपिण्ड इवाधिमोक्षमनस्कारः, स्वर्णकारेण ततोऽलङ्कारकरणमिव सम्यक्सम्बोधेरङ्गकरणं परिणामनामनस्कारः, स्वपरपुण्यसमताप्राप्ति अनुमोदनामनस्कार इति ।

अनास्रवो भावनामार्गः

१० - अभिनिर्हारः

सास्रवानन्तरमनास्रवो भावनामार्गः । स च द्विविध इति प्रथममभिनिर्हारलक्षणं भावनामार्गमाह -

स्वभावः श्रेष्ठता तस्य सर्वस्यानभिसंस्कृतिः ।
नोपलम्भेन धर्माणामर्पणा च महार्थता ॥ २.२५ ॥

इति । रूपाद्यविपरीतदर्शनं स्वभावः । नान्यथा बुद्धत्वसंप्राप्तिरिति श्रेष्ठता । सर्वधर्मविशेषानुत्पादनेन अधिगमप्रयोगोऽनभिसंस्कारः । तादृशस्वभावादियुक्तमार्गधर्माणामनुपलम्भतया योगिसन्ताने समुत्पादनमर्पणा । बुद्धत्वमहार्थसाधनान्महार्थता ।

११ - अत्यन्तविशुद्धिः तदनन्तरं यः परिग्रहत्यागेन प्राप्स्यमानः कस्तस्योत्पादानुत्पादहेतुरिति आकांक्षानिरासद्वारेण द्वितीयमत्यन्तविशुद्धिलक्षणमाह -

बुद्धसेवा च दानादिरुपाये यच्च कौशलम् ।
हेतवोऽत्राधिमोक्षस्य धर्मव्यसनहेतवः ॥ २.२६ ॥
माराधिष्ठानगम्भीरधर्मतानधिमुक्तते ।
स्कन्धाद्यभिनिवेशश्च पापमित्रपरिग्रहः ॥ २.२७ ॥

इति । बुद्धसमाराधनम्, दानादिपारमितापरिपूरणम्, शमथकौशलञ्चेति उत्पादहेतवः ।

मारबाधितम्, गम्भीरधर्मानधिमोक्षः, भावग्रहः, पापमित्रसंगतिरिति अनुत्पादहेतवः ।

अधिगमानधिगमहेतूनेवमुक्त्वा प्रकृतस्य सामान्येन विशुद्धिमाह -

फलशुद्धिश्च रूपादिशुद्धिरेव तयोर्द्वयोः ।
अभिन्नाच्छिन्नता यस्मादिति शुद्धिरूदीरिता ॥ २.२८ ॥

इति । आर्यपुद्गलस्य यत्श्रामण्यताफलं तस्य सर्वविपक्षरहितत्वेन या विशुद्धिः सैव रूपादिविशुद्धिः, फलरूपादिविशुद्धिः रूपादेरात्माभिनिवेशादिविगमात् । प्रभेदत्वेन यस्मात्तद्विशुद्धिः अभिन्ना अच्छिन्ना तस्मात्स्वसामान्यलक्षणनानात्वविरहादेवं विशुद्धिरभिधीयते ।

सामान्येन विशुद्धिमेवमभिधाय विशेषेणाह -

क्लेशज्ञेयत्रिमार्गस्य शिष्यखड्गजिनौरसाम् ।
हानाद्विशुद्धिरात्यन्तिकी तु बुद्धस्य सर्वथा ॥ २.२९ ॥

इति । रागादिक्लेशप्रहाणात्, एतस्य ज्ञेयावरणैकदेशग्राह्यविकल्पस्य च प्रहाणात्, यानत्रयमार्गावरणप्रहाणाद्यथाक्रमं श्रावक-प्रत्येकबुद्ध-बोधिसत्त्वानां शुद्धिर्भवति । सर्वथा सवासनक्लेशज्ञेयावरणप्रहाणात्धर्मधातूद्भवानुत्तरबुद्धानां विशुद्धिरिष्यते ।

मार्गज्ञताधिकारे विशुद्दिकथनप्रसङ्गादात्यन्तिकी चेतरा च बुद्धानां श्रावकादीनां च यथाक्रमं विशुद्धिः । सः कथमित्याह -

मृदुमृद्वादिको मार्गः शुद्धिर्नवसु भूमिषु ।
अधिमात्राधिमात्रादेर्मलस्य प्रतिपक्षतः ॥ २.३० ॥

इति । कारधातुध्यानारूप्यसमापत्तय इति नवभूमिष्वधिमात्रादिनवप्रकारविपक्षस्य प्रतिपक्षभावेन मृदुमृद्वादिमार्गो यथाक्रमं नवप्रकारः । सर्वथान्यथा च विशुद्धिहेतुत्वादात्यन्तिकी चेतरा च विशुद्धिरिति ।

कथमात्यन्तिकीत्याह -

त्रिधातुप्रतिपक्षत्वं समता मानमेययोः ।
मार्गस्य चेष्यते तस्य चोद्यस्य परिहारतः ॥ २.३१ ॥

इति । तत्राधिमात्राधिमात्रादिः प्रतिपक्षो मृदुमृद्वादिर्विपक्ष इति भवितव्यमितिचोद्यस्य वस्त्रलिप्तसूक्ष्ममलापकषर्णे रजकमहायत्नोदाहरणेन परिहारतः यथानिर्दिष्टभावनामार्गस्यात्यन्तिकी । त्रैधातुकाकारज्ञानज्ञेयानुपलम्भाद्या समता सैव समस्तप्रतिपक्षत्वादात्यन्तिकी विशुद्धिर्बुद्धस्य व्यवस्थाप्यत इति ॥

अभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे द्वितीयाधिकारवृत्तिः


________________________________________________________________

सर्वज्ञताधिकारः तृतीयः

[सम्पाद्यताम्]

१ - प्रज्ञया न भवे स्थानम्
२ - कृपया न शमे स्थितिः

सर्ववस्तुपरिज्ञानं विना न मार्गज्ञतापरिज्ञानं सम्यगिति सर्वज्ञतामाह -

नापरे न परे तीरे नान्तराले तयोः स्थिता ।
अध्वनां समताज्ञानात्प्रज्ञापारमिता मता ॥ ३.१ ॥

इति । त्रैयध्विकधर्माणामनुत्पादाकारेण तुल्यतावबोधात्बुद्धबोधिसत्त्वानां या आसन्नीभूता मता प्रज्ञापारमिता, सा खलु प्रज्ञया पुनर्नापरे तीरे संसारे, न परे तीरे निर्वाणे च यथाक्रमं शाश्वतोच्छेदलक्षणे, न तयोर्मध्येऽपि व्यवस्थितेति न संसारनिर्वाणयोः व्यवस्थिता ।

३ - अनुपायेन दूरत्वम्
४ - उपायेनाविदूरता

सर्वज्ञताधिकाराद्व्यतिरेकनिर्देशेन श्रावकादीनां त्र्यध्वसमताज्ञानाभावात्सम्यक्प्रज्ञापारमिता दूरीभूतेति । स्वाधिगममात्रात्मिका तु प्रज्ञापारमिता कृपाप्रज्ञावैकल्यान्निर्वाणे संसारे चावस्थिता वस्त्वस्तूपलम्भतयेति ज्ञेया ।ऽयः प्रतीत्यसमुत्पादः शून्यता सैव ते मताऽ इति न्यायादध्वत्रयसमताज्ञानं पदार्थावबोध एव, ननु स च सर्वेषामेव समस्तीति कथं श्रावकबोधिसत्त्वादीनां सम्यक्प्रज्ञापारमितादूरीभावः, न चेतरेषां भवतीति चेत्? आह -

अनुपायेन दूरं सा सनिमित्तोपलम्भतः ।
उपायकौशलेनास्याः सम्यगासन्नतोदिता ॥ ३.२ ॥

इति । मायाकारनिर्मितवस्तुनः प्रतिभासे अविदिततत्स्वरूपस्य भावाभिनिवेशिता नैःस्वाभाव्याप्रतिभास इव कल्याणमित्राद्युपायकौशलवैकल्याद्वस्तु निमित्तयोगेन प्रतिपत्तौ तत्समतापरिज्ञानमविज्ञातभावरूपाणां श्रावकादीनां नास्तीत्यतस्तेषां दूरीभावो जिनजनन्या इति । बोधिसत्त्वानां तु समाराधितकल्याणमित्रोपदेशतया अविपरीतसत्यद्वयाश्रितश्रुतादिज्ञानोत्पत्त्युपायकौशलेन च उत्सारितभावाभिनिवेशभ्रान्तिनिमित्तानां रूपादिसर्वधर्मपरिज्ञानमेव तत्समतापरिज्ञानमित्यतस्तेषां सम्यगासन्नीभावोऽस्या मातुरिति अनुपायेन एव दूरता, उपायेन तु अदूरता भवति ।

५ - विपक्षः

श्रावकादीनामेवं मातुर्दूरीभावेनानुष्ठानं विपक्षमाह

रूपादिस्कन्धशून्यत्वे धर्मेषु त्र्यध्वगेषु च ।
दानादौ बोधिपक्षेषु चर्यासंज्ञा विपक्षता ॥ ३.३ ॥

इति । सर्वेषां रूपादीनां त्रैयध्विकानाञ्च धर्माणां सास्रवानास्रवोभयस्थानीयानामनुपलम्भस्वरूपाणां सर्वत्र भावोपलम्भतया ते परपरिकल्पितात्मादिशून्यत्वेन दृष्टाः । अनुष्ठानसंज्ञा तु एतेषां प्रतिपक्षभूतानि विपर्यासप्रवृत्तत्वेन हेयत्वात्विपक्षो भवति ।

६ - प्रतिपक्षः

विपर्ययेण बोधिसत्त्वानां परिपक्ष इत्याह -

दानादिष्वनहङ्कारः परेषां तन्नियोजनम् ।
सङ्गकोटीनिषेधोऽयं सूक्ष्मः सङ्गो जिनादिषु ॥ ३.४ ॥

इति । त्रिमण्डलविशुद्ध्या दानादावनात्मावबोधेन स्वपरयोर्नियोजनं सम्यक्प्रवृत्तत्वात्सर्वसक्तिनिचयस्थानप्रतिषेधेन चोपादेयत्वात्सर्वथा प्रतिपक्षः । तथागतादिषु नमस्कारादिः पुण्यसम्भारहेतुत्वेन प्रतिपक्षोऽपि सन् सूक्ष्मसक्तिरूपतया न सर्वथा प्रतिपक्ष इति विपक्षो भवति ।

कथं पुनः सुक्ष्मसक्तिर्विपक्ष इति चेदाह -

तद्गाम्भीर्यं प्रकृत्यैव विवेकाद्धर्मपद्धतेः ।

इति । यस्मात्स्वभावेनैव धर्मगोत्राणां शून्यत्वात्तेषां गाम्भीर्यम्, तस्मात्तथागतोपलम्भोऽपि विपक्षः ।

कथं तर्हि तस्य वर्जनमित्याह -

एवप्रकृतिकं ज्ञानं धर्माणां सङ्गवर्जनम् ॥ ३.५ ॥

इति । रूपादिसर्वधर्माणामेकैव प्रकृतिः यदुत निःस्वभाव इति ज्ञानज्ञेयसमतैकपरिज्ञाने सक्तिर्वर्जिता भवति ।

कथ पुनः प्रकृत्या धर्मगाम्भीर्यमित्याह -

दृष्टादिप्रतिषेधेन तस्या दुर्बोधतोदिता ।

इति । यस्मात्सर्वविज्ञानोपलव्धार्थनिराकरणेन तस्याः प्रकृतेर्दुर्बोधता कथिता, अतस्तस्या गाम्भीर्यम् । कथं पुनरेवं दुर्बोधतेत्याह -

रूपादिभिरविज्ञानात्तदचिन्त्यत्वमिष्यते ॥ ३.६ ॥

रूपाद्यावेणिकबुद्धधर्माद्याकारैः प्रकृतेस्तथतास्वाभाव्यादनभिसम्बोधेन यस्माच्चिन्तातिक्रान्तत्वमिष्यते, अतोऽस्या दुर्बोधतेति यावत् ।

विपक्षादि एवमभिधाय उपसंहारमाह -

एवं कृत्वा यथोक्तो वै ज्ञेयः सर्वज्ञतानते ।
अयं विभागो निःशेषो विपक्षप्रतिपक्षयोः ॥ ३.७ ॥

इति । सर्वज्ञताधिकारे यथोक्तनयेन यथाक्रमं श्रावकबोधिसत्त्वादीनां विपक्षप्रतिपक्षयोरयं प्रभेदोऽवसातव्यः ।

७ - प्रयोगः

विपक्षादि एवमभिधाय तयोर्विभावनायां कः प्रयोग इति चेत्प्रयोगमाह -

रूपादौ तदनित्यादौ तदपूरिप्रपूरयोः ।
तदसङ्गत्वे चर्यायाः प्रयोगः प्रतिषेधतः ॥ ३.८ ॥
अविकारो न कर्त्ता च प्रयोगो दुष्करस्त्रिधा ।
यथाभव्यं फलप्राप्तेरबन्ध्योऽभिमतश्च सः ॥ ३.९ ॥

अपरप्रत्ययो यश्च सप्तधा ख्यातिवेदकः ।

रूपादिसर्वधर्माः, तेषामेवानित्यताशून्यतादयः, प्रतिपूर्णापूर्णता, असङ्गः, अन्यथाऽविकारः, अकर्तृत्वम्, त्रिसर्वज्ञतात्मकानां यथाक्रममुद्देशप्रयोगकारित्राणां दुष्करता, यथाभव्यफलप्राप्त्या अवन्ध्यता, परप्रत्ययानिर्गामित्वम्, परिणामसमाहार-विरोध-प्रत्ययासङ्क्रान्ति-निराधाराकारकात्मक-सप्तख्यातिसिद्धपरिज्ञानस्य निराकरणम्, तदेवमन्वयमुखेन बोधिसत्त्वानां दशविधः प्रयोगः कथितः, अर्थाद्यथोक्तविपर्ययेण श्रावकादीनां प्रयोगो भवति ।

८ - समता

समताद्वारेण प्रयोगो भावनीय इति प्रयोगानन्तरं समतामाह -

चतुर्धाऽमनना तस्य रूपादौ समता मता ॥ ३.१० ॥

इति । रूपाद्यभिनिवेशनीलादिनिमित्तप्रपञ्चाधिगममननानां सर्वथानुपलब्धिरिति प्रयोगसमतात्वात्समता भवति ।

९ - दर्शनमार्गः

प्रयोगसमतां प्रतिविध्य दर्शनमार्गो भावनीय इति दर्शनमार्गमाह -

धर्मज्ञानान्वयज्ञानक्षान्तिज्ञानक्षणात्मकः ।
दुःखादिसत्ये दृङ्मार्ग एष सर्वज्ञतानये ॥ ३.११ ॥

इति । प्रतिसत्यं धर्मज्ञानक्षान्तिर्धर्मज्ञानमन्वयज्ञानक्षान्तिरन्वयज्ञानमित्येवं षोडशक्षणात्मकः सर्वज्ञताधिकारे दर्शनमार्गो भवति ।

ननु कः सत्यस्याकार इत्याह -

रूपं न नित्यं नानित्यमतीतान्तं विशुद्धकम् ।
अनुत्पन्नानिरुद्धादि व्योमाभं लेपवर्जितम् ॥ ३.१२ ॥
परिग्रहेण निर्मुक्तमव्याहारं स्वभावतः ।
प्रव्याहारेण नास्यार्थः परेषु प्राप्तये यतः ॥ ३.१३ ॥
नोपलम्भकृदत्यन्तविशुद्धिर्व्याध्यसम्भवः ।
अपायोच्छित्त्यकल्पत्वे फलसाक्षात्क्रियां प्रति ॥ ३.१४ ॥
असंसर्गो निमित्तैश्च वस्तुनि व्यञ्जने द्वये ।
ज्ञानस्य या चानुत्पत्तिरिति सर्वज्ञताक्षणाः ॥ ३.१५ ॥

नैःस्वाभाव्येन रूपादि नित्यानित्यवियोगान्न नित्यं नानित्यम्, दुःखादुःखविगमत्वेन अपगतशाश्वतोच्छेदान्तम्, शून्याशून्यरहितत्वाद्विशुद्धम्, आत्मानात्मस्वभावाभावान्नोत्पन्नं न निरुद्धं न संक्लिष्टं न व्यवदातमित्यादयो दुःखसत्याकारा भवन्ति ।

हेत्वहेतुतुच्छत्वादाकाशसदृशम्, समुदयासमुदयविसंयोगात्सर्वक्लेशोपक्लेशनिरुपलिप्तम्, प्रभवाप्रभवासम्बद्धत्वात्परिग्रहेण निर्मुक्तम्, प्रत्ययाप्रत्ययविमुक्तत्वात्स्वरूपतोऽवचनीयमिति समुदयसत्याकारा भवन्ति ।

यस्मान्निरोधानिरोधेनासम्बन्धः, तस्मान्निरोधसत्यार्थो वचनोदाहरणेन सन्तानान्तरेऽप्रापणीयः, शान्ताशान्ताभावान्नोपलम्भकरणम्, प्रणीताप्रणीतविकलत्वादतिक्रान्तोभयान्ता विशुद्धिः, निःसरणानिःसरणविविक्तत्वात्सर्वव्याध्यनुत्पाद इति निरोधसत्याकारा भवन्ति ।

मार्गामार्गरहितत्वादपायोच्छित्तिः, न्यायान्यायासंश्लेअषात्फलसाक्षात्करणं प्रत्युपायोऽविकल्पत्वम्, प्रतिपत्त्यप्रतिपत्तिविनिर्मुक्तत्वेन सर्वधर्माणां निमित्तैरसंसर्गः, नैर्याणिकानैर्याणिकविकल्पत्वेनोभये वाच्यवाचकभावलक्षणे ज्ञेये शब्दे ज्ञानस्यानुत्पत्तिरिति मार्गसत्याकारा भवन्ति ।

एवमेते आकाराः सर्वज्ञताक्षणा इति बोधिसत्त्वानां दर्शमार्गः, तद्विपर्ययेण श्रावकदीनामनित्यादिभिराकारैः सर्वज्ञतायां दर्शनमार्गो विभावनीयः ।
श्रावकमार्गो बोधिसत्त्वेन परिज्ञातव्यो न साक्षात्करणीय इति भावनामार्गो न निर्दिष्टः ।

विस्तरेण एवं निर्दिश्य सकलार्थसङ्ग्राहकत्वेन त्रिसर्वज्ञतामुपसंहरन्नाह -

इति सेयं पुनः सेयं खलु पुनस्त्रिधा ।
अधिकारत्रयस्यैषा समाप्तिः परिदीपिता ॥ ३.१६ ॥

इति । यथोक्तनीत्या इयं सर्वाकारज्ञता, इयं मार्गज्ञता, इयं सर्वज्ञता चेत्येवं परिवर्तत्रयेण प्रकारत्रयं परिसमाप्तम् ।

इति अभिसमयालङ्कारे नाम प्रज्ञापारमिताशास्त्रे तृतीयाधिकारवृत्तिः ।


________________________________________________________________

सर्वाकाराभिसम्बोधाधिकारः चतुर्थः

[सम्पाद्यताम्]

१ - आकाराः

परिज्ञातत्रिसर्वज्ञतावशित्वार्थं पुनः सर्वाकारमार्गवस्तुज्ञानसङ्ग्रहेण त्रिसर्वज्ञतां भावयतीति सर्वाकाराभिसम्बोध इत्याह -

वस्तुज्ञानप्रकाराणामाकारा इति लक्षणम् ।
सर्वज्ञतानां त्रैविध्यात्त्रिविधा एव ते मताः ॥ ४.१ ॥

नित्यादिग्राहविपक्षस्य प्रतिपक्षधर्मतास्वभावानामनित्याद्यालम्बनज्ञानप्रकाराणामाकारत्वेन व्यवस्थानं लक्षणम् । ते चाकारास्त्रिसर्वज्ञताभेदात्त्रिप्रकारा एव मताः ।

सामान्येनाकारान्निर्दिश्य इदानीं विशेषेणाह -

असदाकारमारभ्य यावन्निश्चलताकृतिः ।
चत्वारः प्रतिसत्यं ते मार्गे पञ्चदश स्मृताः ॥ ४.२ ॥

इति । तत्र त्रिसर्वज्ञतामधिकृत्य असद्-अनुत्पाद-विवेकानवमर्दनीयापदाकाशाप्रव्याहारानामागमनासंहार्याक्षयानुत्पत्तय इति द्वादश आकारा हि यथाक्रमं दुःखादिसत्यत्रयस्य अनित्यादिलक्षणा भवन्ति । क्लेशावरणप्रतिपक्षत्वेनैकः अनास्रवमार्गः, सर्वज्ञतया प्रत्येकबुद्धाः सङ्गृहीता इति तेषां ज्ञेयावरणप्रतिपक्षत्वेन द्वौ सास्रवानास्रवभावनामार्गौ चेति मार्गाः त्रिप्रकाराः ।

तत्र प्रथमे अकारकाजानकासंक्रान्त्यविनयाकारा इति चत्वारो यथाक्रमं मार्गादिलक्षणाः (क्लेशावरणप्रतिपक्षे) भवन्ति ।

द्वितीये स्वप्न-प्रतिश्रुत्का-प्रतिभास-मायाकारा इति पञ्च यथाक्रमं निःस्वभावानुत्पन्नानिरुद्धादिशान्त-प्रकृतिपरिनिर्वृतिलक्षणाः सामान्यतो ज्ञेयावरणप्रतिपक्षभूताः सन्ति ।

तृतीये असंक्लेशाव्यवदानानुपलेपाप्रपञ्चामननाचलाकारां षट्यथाक्रमं संक्लेश-व्यवदान-क्लेशवासना-रूपादिप्रपञ्च-स्वाधिगम-परिहाणि-विकल्पानां प्रतिनियतज्ञेयावरणानां प्रतिपक्षभूता भवन्ति ।

इत्येवं मार्गसत्यस्य पञ्चदश आकाराः । समुदायेन सप्तविंशतिरिति सर्वज्ञताकारा भवन्ति ।

तदनन्तरं मार्गज्ञताया आकारा इत्याह -

हेतौ मार्गे च दुःखे च निरोधो च यथाक्रमम् ।
अष्टौ ते सप्त पञ्चेति षोडशेति च कीर्तिताः ॥ ४.३ ॥

तत्र संक्लेशेतरपक्षाश्रयेण समुदयमार्गसत्ये कारणम्, दुःखनिरोधसत्ये च फलमित्यर्थद्वारेण निर्दिष्टे समुदयमार्गदुःखनिरोधसत्येषु यथासंख्यमष्टाद्याकारा बोद्धव्याः ॥

तत्र विरागासमुत्थान-शान्तारागाद्वेषामोह-निःक्लेश-निःसत्त्वाकारा एव यथाक्रमं यो हेतुः छन्दो रागो नन्दी च, यः समुदयः रागो द्वेषो मोहश्च, यः प्रभवः परिकल्पः, यश्च प्रत्ययः सत्त्वाभिनिवेश इति एतेषां प्रतिपक्षभूतत्वेन त्रयस्त्रय एक एक इत्यष्टावाकाराः समुदयसत्ये भवन्ति ।

अप्रमाणान्तद्वयाननुगमासम्भिन्नापरामृष्टाविकल्पाप्रमेयासङ्गाकारा-यथाक्रमं यः सर्वसत्त्वावकाशदो मार्गः यथा व सर्वसत्त्वावकाशदः, यो न्यायो यथा च न्यायः, या प्रतिपत्तिर्यथा च प्रतिपत्तिः, यच्च निर्याणमिति तत्स्वभावा द्वौ द्वौ द्वावेक इति सप्ताकारा मार्गसत्ये भवन्ति ।

अनित्य-दुःख-शून्यानात्माकाराः पञ्चमालक्षणाकारस्वभावा इत्येवं पञ्चाकारा दुःखसत्ये भवन्ति ।

अध्यात्मबहिर्धोभयवस्तूनां निरोधेनाध्यात्मबहिर्धोभयशून्यताकारास्त्रयः निरोधाकारस्वभावाः, शून्यतायां भाजनलोके परमार्थे संस्कृतेऽसंस्कृते शाश्वतोच्छेदान्तेऽनवराग्रसंसारे अधिगतधर्मानवकारे अभिनिवेशस्य प्रज्ञप्त्यात्मकस्य निरोधेन यथाक्रमं शून्यता-महत्-परमार्थ-संस्कृतासंस्कृतात्यन्तानवराग्रानवकारशून्यताकारा अष्टौ शान्ताकारस्वभावाः, प्रणीताकारः परपरिकल्पितकारकनिरोधेन प्रकृतिशून्यताकारः, विषयभ्रान्त्यात्मिकानां प्रज्ञप्तिलक्षणकालभ्रान्तीनां च निरोधेन सर्वधर्मस्वलक्षणानुपलम्भशून्यताकारास्त्रयो निःसरणाकारस्वभावाः, स्वभावनिरोधेन अभावस्वभावशून्यताकार एकः निःसरणाकारात्मक इत्येवं षोडशाकारा निरोधसत्ये भवन्ति । समुदायेन षट्त्रिंशदिति मार्गज्ञताकाराः ।

तदनन्तरं सर्वाकारज्ञताकारा इत्याह-

स्मृत्युपस्थानमारभ्य बुद्धत्वाकारपश्चिमाः ।
शिष्याणां बोधिसत्त्वानां बुद्धानां च यथाक्रमम् ॥ ४.४ ॥
सप्तत्रिंशच्चतुस्त्रिंशत्त्रिंशन्नव च ते मयाः ।
त्रिसर्वज्ञत्वभेदेन मार्गसत्यानुरोधतः ॥ ४.५ ॥

स्मृत्युपस्थानमारभ्य बुद्धाकारपर्यन्तानां हि त्रिसर्वज्ञतासङ्गृहीतमार्गद्वारेण सर्वाकारज्ञतया सर्वेषामार्यपुद्गलानां सङ्ग्रहणेन च यथासंख्यं श्रावकाणां सप्तत्रिंशत्, बोधिसत्त्वानां चतुस्त्रिंशत्, बुद्धानां त्रिंशन्नव चेति मताः । तत्र सर्वज्ञतायामादौ चतुःसत्यावताराय स्वसामान्यलक्षणपरीक्षितकायवेदनाचित्तधर्मस्मृत्युपस्थानाकाराश्चत्वारो वस्तुपरीक्षामार्गः । ततोऽवतीर्णस्य वीर्यमिति उत्पन्नानुत्पन्नस्य अकुशलस्य कुशलस्य च यथाक्रमं सम्यक्प्रहाणानुत्पादनार्थं वर्धन (भूयोभाव)-उत्पादनार्थं च हेतुभूतवीर्यात्मकाः सम्यक्प्रहाणाकाराश्चत्वारो व्यावसायिकमार्गः । वीर्यवतश्चित्तकर्मण्यतापादनमिति छन्दवीर्यचित्तमीमांसासमाधिप्रहाणसंस्कारसमन्वागतर्द्धिपादाकाराश्चत्वारः समाधिपरिकर्ममार्गः । कृतचित्तपरिकर्मणोऽनन्तरमूष्ममूर्धप्रयोगः इति ऊष्ममूर्धस्वभावाः श्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियाकाराः पञ्च सम्यगभिसमयप्रायोगिकमार्गः । अधिगतोष्मादेः क्षान्त्यग्रधर्मप्रयोग इति क्षान्त्यग्रधर्मस्वभावाः श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाबलाकाराः पञ्च अभिसमयसंश्लेषमार्गः । विदितोष्मादिचतुष्कस्य सत्यदर्शनमार्गोत्पाद इति स्मृतिधर्मप्रविचयवीर्यप्रीतिप्रस्रब्धिसमाध्युपेक्षाकाराः सप्त बोध्यङ्गान्यभिसमयमार्गः । परिज्ञातसत्यदर्शनस्य भावनामार्गोत्पाद इति सम्यग्दृष्टिसंकल्पवाक्कर्मान्ताजीवव्यायामस्मृतिसमाध्यार्याष्टाङ्गमार्गाकारा विशुद्धनैर्याणिकमार्ग इति शिष्याणां सर्वज्ञतामार्गाधिष्ठानाः सप्तत्रिंशदाकारा भवन्ति ।

मार्गज्ञतायां दृष्टिकृतप्रतिपक्षः, तन्निमित्तविकल्पप्रतिपक्षः, त्रैधातुकप्रणिधानप्रतिपक्षः इति तत्स्वभावा यथाक्रमं शून्यानात्माकारस्वभावं प्रथमं विमोक्षमुखम्, निरोधमार्गसत्याकारस्वभावं द्वितीयम्, अनित्यदुःखसमुदयसत्याकारस्वभावं तृतीयमित्येवं त्रिविमोक्षमुखाकारास्त्रयः प्रतिपक्षमार्गः ।

अविभावितविभावितरूपसंज्ञत्वाद्यथाक्रममध्यात्मं रूप्यरूपीति बहिर्धा रूपाणि पश्यतीत्येतौ निर्माणावरणप्रतिपक्षेण द्वौ विमोक्षौ । शुभाशुभरूपनिर्माणे च यथाक्रममाभोगः प्रातिकूल्यञ्च संक्लेशः तत्प्रतिपक्षेण शुभं विमोक्षमुखं कायेन साक्षात्कृत्वोपसम्पद्य विहरतीत्येको विमोक्ष इति विमोक्षाकाराः त्रयो निर्याणमार्गः ।

मोक्षानुकूलविहारमार्गस्वभावाश्चतुरारूप्यसमापत्त्याकाराः शान्तविहारस्वभावः संज्ञावेदितनिरोधाकार एक इति पञ्चाकारा दृष्टधर्मसुखविहारमार्गः ।

चतुर्ध्यानारूप्यनिरोधसमापत्याकारा नव लोकोत्तरमार्गः । चतुःसत्यसङ्गृहीताः क्लेशविसंयोगलक्षणानन्तर्यमार्गाकाराश्चत्वारः प्रहाणमार्गः । दानादिपारमिताकारा दश बुद्धत्वमार्गः । तदेवं बोधिसत्त्वानां मार्गज्ञतामार्गाधिष्ठानाश्चतुस्त्रिंशदाकारा भवन्ति ।

सर्वाकारज्ञताकारस्तु निरतिशयत्वादेक एव केवलमसाधारणमार्गः । तत्र स्थानास्थान-कर्मविपाकः-नानाधिमुक्त्यनेकलोकधात्विन्द्रियपरापर-सर्वत्रगामिनी-प्रतिपत्-संक्लेशव्यवदान-पूर्वनिवासानुस्मृति-च्युत्युपपत्त्यास्रवक्षयज्ञानबलाकारा दश । बुद्धोऽहमित्यात्मप्रतिज्ञाने रागादीनामन्तरायत्वाख्याने सर्वज्ञतादिमार्गस्य निर्याणत्वप्रकाशने क्षीणास्रवत्वेनात्मनोऽभ्युपगमे च पर्यनुयोक्तुरभावेन वैशारद्याकाराश्चत्वारः । पर्याये धर्मलक्षणे जनपदभाषायां धर्मप्रभेदे च यथाक्रमं धर्मार्थनिरुक्तिप्रतिभानप्रतिसंविदाकाराश्चत्वारः । नास्ति स्खलितः रवितं मुषितस्मृतिरसमाहितं चित्तं नानात्वसंज्ञा अप्रतिसंख्यायोपेक्षा चेत्येवमाकाराः षट् । नास्तिछन्दतो वीर्यतः स्मृतितः समाधेः प्रज्ञायाः विमुक्तेश्च परिहाणिरित्येवमाकाराः षट् । कायवाङ्मनस्कर्मणां ज्ञानपूर्वङ्गमानुपरिवर्तनाकारास्त्रयः । अतीतानागतप्रत्युत्पन्नेषु असङ्गाप्रतिहतज्ञानाकारास्त्रय इति अष्टादशावेणिकबुद्धधर्माकाराः । सर्वबुद्धभाषिततथता-सत्वधर्मवशवर्तनस्वयम्भू-सर्वाकाराभिसम्बोधिबुद्धत्वाकाराः त्रयश्च । इत्येकोनचत्वारिंशदाकाराः सर्वाकारज्ञतामार्गाधिष्ठाना भवन्ति ।

तत्रानास्रवाः सास्रवाश्च सर्वज्ञताकारा यथाक्रमं श्रावकबोधिसत्त्वभेदेन । मार्गज्ञताकाराः सास्रवा एव, बोधिसत्त्वानामत्यन्तक्लेशाप्रहाणात् । अनास्रवा एव सर्वाकारज्ञताकाराः सर्वथा सवासनसर्वक्लेशज्ञेयावरणप्रहाणेन सम्यक्सम्बुद्धस्य सर्वधर्मवशवर्तित्वाद्, इत्येकत्र गण्यमानं त्रिसप्तत्युत्तरशतमित्याकाराः ।

विशिष्टप्रयोगैराकारा भावयितव्याः, ते च प्रयोक्तारं विना कथयितुमशक्या इति श्रवणादिभाजनं प्रयोक्तारमाह -

कृताधिकारा बुद्धेषु तेषूप्तशुभमूलकाः ।
मित्रैः सनाथाः कल्याणैरस्याः श्रवणभाजनम् ॥ ४.६ ॥

बुद्धोपासनसम्प्रश्नदानशीलादिचर्यया ।
उद्ग्रहधारणादीनां भाजनत्वं सतां मतम् ॥ ४.७ ॥

अतीतप्रत्युत्पन्नबुद्धेषु सामान्येनोप्तशोधितशुभमूलकाः, कायाद्युपस्थानाराधनात्कृततथागतपर्युपासनाः, कृतशंकास्थानपरिप्रश्नाः, कृतदानादिदशपारमिताप्रतिपत्त्यनुष्ठानाः, कल्याणमित्रैरधिष्ठिताश्च यथाक्रममाकारलक्षणाया मातुरस्या ग्रन्थश्रवणधारणामुषितार्थयथानयमनस्काराणां भाजनं बुद्धादिभिः मतमिति ।

२ - प्रयोगाः

प्रयोक्तारं निर्दिश्य प्रयोग इत्याह -

रूपादिष्वनवस्थानात्तेषु योगनिषेधतः ।
तत्तथतागम्भीरत्वात्तेषां दुरवगाहतः ॥ ४.८ ॥
तदप्रामाण्यतः कृच्छ्राच्चिरेण प्रतिबोधतः ।
व्याकृतावविवर्त्यत्वे निर्याणे सनिरन्तरे ॥ ४.९ ॥
आसन्नबोधे क्षिप्रञ्च परार्थेऽवृद्ध्यहानितः ।
धर्माधर्माद्यदृष्टौ च रूपाचिन्त्याद्यदर्शने ॥ ४.१० ॥
रूपादेस्तन्निमित्तस्य तद्भावस्याविकल्पकः ।
फलरत्नप्रदाता च शुद्धकः सावधिश्च सः ॥ ४.११ ॥

रूपादिषु निःस्वभावतयाऽनवस्थानम्, अयोग एव तेषु प्रयोगो भवति, तावेव रूपादितथतास्वरूपत्वेन गम्भीरः, दुरवगाहः, अप्रमाणश्चेत्येवमभिसम्बोधानां यथासंख्यं रूपादिष्वनवस्थानअयोगगम्भीरदुरवगाहअप्रमाणानीति पञ्च प्रयोगाः । प्रज्ञापारमिताया उत्त्रासअनुत्त्राससम्यगुद्ग्रहणआन्तरायिकधर्मवर्जनसततधर्मभावना अभिनवानास्रवधर्माधारत्वधर्मकायफलाभिनिर्वर्तनधर्मचक्रप्रवर्तनवृद्धि परिहाण्यदर्शनकामधात्वनुपलम्भरूपाद्यचिन्त्याकारामननरूपतन्निमित्ततत्स्व भावाविकल्पप्रथमफलदर्शनरूपविशुद्धिसंवत्सराभियोगानुत्सर्गादिप्रतिपत्तिमतां यथाक्रमं महत्कृच्छ्रचिराभिसम्बोधव्याकरणलाभअविनिवर्तनीयनिर्याणनिरन्तरआसन्नाभिसम्बोधक्षिप्राभिसम्बोधपरार्थअवृद्ध्यपरिहाणिधर्माधर्माद्यनुपलम्भरूपाद्यचिन्त्याकारनिरोधरूपादिभावाविकल्पफलरत्नदानविशुद्धिअवधिप्रयोगाः पञ्चदशधा इति विंशतिप्रयोगा भवन्ति ।

३ - गुणाः

प्रयोगानन्तरं गुणदर्शनपूर्वकं सुतरामभ्यस्यन्ते प्रयोगा इति तद्गुणानाह -

माराणां शक्तिहान्यादिश्चतुर्दशविधो गुणः ।

मारशक्तिव्याघातबुद्धसमन्वाहारज्ञातत्वबुद्धप्रत्यक्षीकरणसम्यक्सम्बोध्यासन्नीभावमहार्थतादिदेशनिरूपणसर्वानास्रवधर्मपरिपूरिगुणकथापुरुषताअभेद्यताअसाधारणकुशलमूलोत्पत्तिप्रतिज्ञायाथार्थ्यसम्पादनौदारफलपरिग्रहणसत्त्वार्थप्रतिपत्तिनियतिलाभा - इति गुणा यथासंख्यं बुद्धाधिष्ठानआनुभावज्ञानदर्शनं - आसन्नीभावमहानुशंसकृत्यकरणप्रतिपक्षधर्मपरिपूरणसर्वाकारज्ञताकथाकथनसानाथ्यकरणमहोदारप्रीतिसम्पादनतत्प्रतिज्ञावचनानुमोदनगम्भीरधर्माभिलाषसत्त्वार्थकरणअविकलप्रज्ञापारमिताप्रापका इत्येतदविपरीतप्रयोगानुमोदनात्- सत्त्वार्थकरण - अविकलप्रज्ञापारमिताप्रापका इत्येतदविपरीतप्रयोगानुमोदनात्चतुर्दश गुणा उत्पद्यन्ते प्राप्यन्ते च ।

४ - दोषाः

तदनन्तरं के पुनः प्रयोगान्तरायकरा दोषाः, येषां परिवर्जनेन प्रयोगा भावयितव्या इत्यन्तरायकरान् दोषानाह -

दोषाश्च षड्विबोद्धव्याश्चतुर्भिर्दशकैः सह ॥ ४.१२ ॥

महाकृच्छ्रप्राप्तिः, अत्याशुप्रतिभानता, कायदौष्ठुल्यम्, चित्तदौष्ठुल्यम्, अयोगविहितस्वाध्यायादिकम्, वैमुख्यनिमित्तग्राहिता, हेत्वभिनिवेशभ्रंशः, प्रणीतास्वादभ्रंशः, सर्वथा उत्तमयानसंग्रहभ्रंशः, सर्वदोद्देशभ्रंश इति प्रथमं दशकम् । हेतुफलसम्बन्धभ्रंशः, निरुत्तरभ्रंशः, बहुविधविषयविकल्पप्रतिभानोत्पादः, अक्षरलिखनाभिनिवेशः, अभावाभिनिवेशः, अक्षराभिनिवेशः, अनक्षराभिनिवेशः, जनपदादिमनस्कारः, लाभसत्कारश्लोकास्वादनम्, अमार्गोपायकौशलमार्गणमिति द्वितीयं दशकम् ।

यथासंख्यं श्रोतावक्त्रोः पूर्वापरयोः कस्यचिदभिसम्बन्धेन छन्दकिलासवैधुर्यम्, छन्दविषयभेदवैधुर्यम्, अल्पेच्छतानल्पेच्छतावैधुर्यम्, धूतगुणयोगायोगौ, कल्याणाकल्याणधर्मत्वम्, त्यागमात्सर्यम्, दानाग्रहणम्, उद्धटितज्ञविपञ्चितज्ञत्वम्, सूत्रादिधर्माभिज्ञानभिज्ञत्वम्, षट्पारमितासमन्वागमासमन्वागमाविति तृतीयं दशकम् ।

तथैव उपायानुपायकौशले, धारणीप्रतिलम्भाप्रतिलम्भौ, लिखितुकामताऽलिखितुकामते, विगताविगतकामच्छन्दत्वे चेति चत्वारि; अपायगतिवैमुख्यम्, सुगतिगमनसौमनस्यमिति द्वे; यथासंख्यं श्रोतावक्त्रोः पूर्वापरयोः कस्यचिदभिसम्बन्धेन एकाकिपर्षदभिरतिः, अनुबन्धकामानवकाशदानत्वम्, आमिषकिञ्चित्काभिलाषतददातुकामता, सदसज्जीवितान्तरायदिग्गमनमिति चत्वारि च चतुर्थं दशकम् ।

तथैव दुर्भिक्षदिग्गमनागमनम्, चौराद्याकुलितदिग्गमनागमनम्, कुलावलोकनदौर्मनस्यमिति त्रीणि; मारभेदप्रयोगः, प्रतिवर्णिकोपसंहारः, अयथाविषय-स्पृहोत्पादनमिति अपराणि त्रीणि । इत्येवं षट्चत्वारिंशद्दोषा भवन्ति ।

५ - लक्षणानि

दोषानन्तरं यथासंख्यं गुणदोषादानत्यागेन प्रयोगा भावनीया लक्षणज्ञान पूर्वकमिति तेषां लक्षणमाह -

लक्ष्यते येन तज्ज्ञेयं लक्षणं त्रिविधं च तत् ।
ज्ञानं विशेष कारित्रं स्वभावो यश्च लक्ष्यते ॥ ४.१३ ॥

प्रयोगाणां लक्षणं करणसाधनपरिग्रहेण ज्ञानविशेषकारित्रस्वरूपम्, कर्मसाधनपरिग्रहेण च स्वभावात्मकमिति लक्षणं चतुर्विधं बोद्धव्यम् ।

तत्र तावत्ज्ञानलक्षणं त्रिसर्वज्ञताभेदेन भिद्यमानं सर्वज्ञताद्वारेणाह -

तथागतस्य निर्वृत्तौ लोके चालुज्यनात्मके ।
सत्त्वानां चित्तचर्यासु तत्संक्षेपे बहिर्गतौ ॥ ४.१४ ॥
अक्षयाकारतायां च सरागादौ प्रविस्तृते ।
महद्गतेऽप्रमाणे च विज्ञाने चानिदर्शने ॥ ४.१५ ॥
अदृश्यचित्तज्ञाने च तदुन्मिञ्जादिसंज्ञकम् ।
पुनस्तथताकारेण तेषां ज्ञानमतः परम् ॥ ४.१६ ॥
तथतायां मुनेर्बोधतत्पराख्यानमित्ययम् ।
सर्वज्ञताधिकारेण ज्ञानलक्षणसंग्रह ॥ ४.१७ ॥

तथागतनिर्वृत्तिलोकालुज्यतासत्त्वचित्तचरितचित्तसंक्षेपचित्तविक्षेपचित्ताक्षयाकारसरागादिचित्तआदिशब्दसङ्गृहीतविगतरागचित्तविपुलचित्तमहद्गतचित्तअप्रमाणचित्तअनिदर्शनचित्तःदृशचित्तचित्तोन्मिञ्जितादिउन्मिञ्जितादितथताकारतथागततथतावबोधतत्परसमाख्यानप्रज्ञपनञ्चेत्येभिः षोडशभिः ज्ञानाकारप्रकारैः यथानयं सर्वज्ञताप्रयोगाः सम्यग्लक्ष्यन्त इति ज्ञानलक्षणं सर्वज्ञतया सङ्गृहीतम् ।

तदनन्तरं मार्गज्ञताधिकारेणाह -

शून्यत्वे सानिमित्ते च प्रणिधानविवर्जिते ।
अनुत्पादानिरोधादौ धर्मताया अकोपने ॥ ४.१८ ॥
असंस्कारेऽविकल्पे च प्रभेदालक्षणत्वयोः ।
मार्गज्ञताधिकारेण ज्ञानलक्षणमिष्यते ॥ ४.१९ ॥

शून्यतानिमित्ताप्रणिहितानुत्पादानिरोधात्मकानि । आदिशब्देन असंक्लेशाव्यवदानाभावस्वभावानिश्रिताकाशलक्षणानि एतानि षट्सङ्गृहीतानि । धर्मताऽविकोपनासंस्काराविकल्पप्रभेदालक्षणानि चेत्येभिः षोडशभिः ज्ञानाकारप्रकारैः यथावत्मार्गज्ञताप्रयोगा लक्ष्यन्त इति ज्ञानलक्षणं मार्गज्ञतासङ्गृहीतम् ।

तदनन्तरं सर्वाकारज्ञताद्वारेणाह -

स्वधर्ममुपनिश्रित्य विहारे तस्य सत्कृतौ ।
गुरुत्वे माननायाञ्च तत्पूजाऽकृतकत्वयोः ॥ ४.२० ॥
सर्वत्र वृत्तिमज्ज्ञानमदृष्टस्य च दर्शकम् ।
लोकस्य शून्यताकारसूचकज्ञापकाक्षगम् ॥ ४.२१ ॥
अचिन्त्यशान्ततादर्शि लोकसंज्ञानिरोधि च ।
ज्ञानलक्षणमित्युक्तं सर्वाकारज्ञतानये ॥ ४.२२ ॥

इति । तथागतस्वधर्मोपनिश्रयविहार-सत्कार-गुरुकार-मानना-पूजनाकृत-कत्व-सर्वत्रगादृष्टार्थदर्शक-लोकशून्यताकार-लोकशून्यतासूचकः-लोकशून्यताज्ञापक-लोकशून्यतादर्शकाचिन्त्यतादेशना-शान्ततादेशना-लोकनिरोध-संज्ञानिरोधाख्यैः एभिः षोडशभिर्ज्ञानाकारप्रकारैः यथावत्सर्वाकारज्ञताप्रयोगा लक्ष्यन्त इति ज्ञानलक्षणं सर्वाकारज्ञतासंगृहीतं भवति ।

नवभिरन्तरश्लोकैरेवं ज्ञानलक्षणमभिधाय ज्ञानाकारेण परिच्छिन्नानां विशेषो ज्ञेय इति ज्ञानलक्षणानन्तरमन्तरश्लोकेन विशेषलक्षणमाह -

अचिन्त्यादिविशेषेण विशिष्टैः सत्यगोचरैः ।
विशेषलक्षणं षड्भिर्दशभिश्चोदितं क्षणैः ॥ ४.२३ ॥

इति । अचिन्त्यातुल्यादिविशेषविशिष्टैर्दुःखादिसत्यविषयैः षोडशभिर्धर्मान्वयज्ञानक्षान्तिज्ञानक्षणैर्मार्गज्ञतादिप्रयोगा लक्ष्यन्त इति विशेषलक्षणम् ।

कः पुनरचिन्त्यादिविशेष इत्यन्तरश्लोकत्रयमाह -

अचिन्त्यातुल्यते मेयसंख्ययोः समतिक्रमौ ।
सर्वार्यसंग्रहो विज्ञवेद्यासाधारणज्ञते ॥ ४.२४ ॥
क्षिप्रज्ञान्यूनपूर्णत्वे प्रतिपत्समुदागमौ ।
आलम्बनञ्च साधारं साकल्यं सम्परिग्रहः ॥ ४.२५ ॥
अनास्वादश्च विज्ञेयो विशेषः षोडशात्मकः ।
विशेषमार्गो मार्गेभ्यो येनान्येभ्यो विशिष्यते ॥ ४.२६ ॥

इति । सम्यक्सम्बुद्धादेः सुसंगृहीतप्रज्ञाबलेन अचिन्त्यता, अतुल्यता, प्रमेयसमतिक्रमः, संख्येयसमतिक्रमः, सर्वार्यपुद्गलसंग्रहः, विज्ञपुरुषवेदनीयता, श्रावकाद्यगोचरवस्तुपरिज्ञानम्, स्वमतापेक्षक्षिप्राभिज्ञताज्ञानम्, संवृतिपरमार्थसत्याश्रितसर्वधर्मान्यूनापूर्णता, त्रिमण्डलविशुद्धदानादिषट्पारमिताप्रतिपत्तिः, सम्यक्प्रयोगेनानेककल्पेषु आसादितपुण्यज्ञानसमुदागमौ, अविकल्पेन सर्वधर्मालम्बनम्, धर्मधातुस्वभावबोधिसत्त्वाधारः, प्रणिधानादिषट्पारमितापरिसमाप्तिहेतुसम्भारः, कल्याणमित्रोपायेन संपरिग्रहः, अभिनिवेशानास्वाद इति षोडशात्मकः यथाक्रमं दुःखादिसत्यक्षणानां विशेषः, येन श्रावकादिमार्गेभ्यो बोधिसत्त्वादीनां मार्गज्ञतादिद्वये विशेषमार्गो विशिष्यते । अतस्तेषां यथोक्तविशेषविकलोऽभिनिवेशाद्युत्पादनलक्षणत्वेन सुगमत्वान्नोक्तः ।

विशेषलक्षणेनावच्छिन्नानां किं कारित्रमिति अन्तरश्लोकद्वयेन कारित्रलक्षणमाह -

हितं सुखं च त्राणं च शरणं लयनं नृणाम् ।
परायण च द्वीपं च परिणायकसंज्ञकम् ॥ ४.२७ ॥
अनाभोगं त्रिभिर्यानैः फलासाक्षात्क्रियात्मकम् ।
पश्चिमं गतिकारित्रमिदं कारित्रलक्षणम् ॥ ४.२८ ॥

इति । अनागतहिताइहिकसुखः-दुःखरहिताविपाकधर्मतोपस्थापनार्थेन हितादित्रयं सर्वज्ञताकारित्रम् । आत्यन्तिकहित-दुःखहेतुनिवर्तन-संसारनिर्वाण-समताधिगम-स्वपरार्थाधिगमाधारभाव-परार्थप्रतिपत्यनाभोगप्रवृत्तसत्त्वार्थ-यानत्रयनिर्याणफलासाक्षात्कारा इति यथाकालमुपसंहारार्थेन शरणादीनि सप्त मार्गज्ञताकारित्राणि । सर्वाकारज्ञतया सर्वधर्मदैशिकत्वेन सर्वाकारज्ञताया एकमेव गतिकारित्रम् । कारित्राकारैरेवं यथावद्सर्वज्ञतात्रयस्य प्रयोगा लक्ष्यन्त इति कारित्रलक्षणम् ।

कारित्रलक्षणेनावच्छिन्नानां कः स्वभाव इति अन्तरश्लोकत्रयेण स्वभावलक्षणमाह -

क्लेशलिङ्गनिमित्तानां विपक्षप्रतिपक्षयोः ।
विवेको दुष्करैकान्तावुद्देशोऽनुपलम्भकः ॥ ४.२९ ॥
निषिद्धाभिनिवेशश्च यश्चालम्बनसंज्ञकः ।
विप्रत्ययोऽविघाती च सोऽपदागत्यजातिकः ॥ ४.३० ॥
तथतानुपलम्भश्च स्वभावः षोडशात्मकः ।
लक्षीव लक्ष्यते चेति चतुर्थं लक्षणं मतम् ॥ ४.३१ ॥

इति । रागादिक्लेश-तल्लिङ्गकायदौष्ठुल्य-तन्निमित्तायोनिशोमनसिकारादिरागारागादिविपक्षप्रतिपक्षाणां शून्यत्वेन सर्वज्ञताविवेकस्वभावचतुष्टयम् । परमार्थासत्सत्त्वपरिनिर्वाणदुष्करकारकान्ययानापातलक्षणैकान्तिक-चिरसाध्योत्तमोद्देश-भाव्यभावकधर्मानुपलम्भ-समस्तभावाभिनिवेशनिषेधा इत्येते पञ्च मार्गज्ञतास्वभावाः । सर्वज्ञतामार्गज्ञतासङ्गृहीतवस्तुविशेषालम्बनम्, लोकप्रतिपत्तिग्रहणादिविपरीतनिर्देशात्विप्रत्ययः, रूपाद्यविघातिज्ञानम्, ज्ञानज्ञेयानुपलम्भेन अप्रतिष्ठम्, तथतया अगतिः, रूपादिनिःस्वभावत्वेन अजातिकः, भावाभावादिस्वभावत्रयानुपलम्भ इति एते सर्वाकारज्ञतायाः सप्त स्वभावाः । इत्येवं षोडशभिः स्वभावैर्यथावत्त्रिसर्वज्ञताप्रयोगा लक्षीव लक्ष्यन्ते इति चतुर्थं स्वभावलक्षणं मतम् । इत्येवं सामान्येन एकत्र कृतानि एकनवतिः लक्षणानि भवन्ति ।

६ - मोक्षभागीयम्

यथोक्तप्रयोगपरिज्ञानं मोक्षभागीयकुशलमूलवतः एव भवतीति मोक्षभागीयमाह -

अनिमित्तप्रदानादिसमुदागमकौशलम् ।
सर्वाकारावबोधेऽस्मिन्मोक्षभागीयमिष्यते ॥ ४.३२ ॥

इति । अनिमित्तालम्बनज्ञानाकारेण दानादिपारमिता आरभ्य सर्वाकारज्ञतापर्यन्तं स्वसन्ताने समुदागमे कौशलमेवास्मिन् सर्वाकाराभिसम्बोधे मोक्षभागीयमिष्टम् ।

किञ्च तत्कौशलमिति तद्दर्शनायान्तरश्लोकौ आह -

बुद्धाद्यालम्बना श्रद्धा वीर्यं दानादिगोचरम् ।
स्मृतिराशयसम्पत्तिः समाधिरविकल्पना ॥ ४.३३ ॥
धर्मेषु सर्वैराकारैर्ज्ञानं प्रज्ञेति पञ्चधा ।
तीक्ष्णैः सुबोधा सम्बोधिर्दुर्बोधा मृदुभिर्मता ॥ ४.३४ ॥

इति । अनिन्द्रियस्वभावाः श्रद्धावीर्यस्मृतिसमाधिविशिष्टप्रज्ञाः यथासंख्यं बुद्ध-दानाशयसम्पत्त्यविकल्प-सर्वधर्मसर्वाकारपरिज्ञादिषु पञ्चविधविषयेषु कौशलम् । एवमपि न सर्वैरनुत्तरा सम्यक्सम्बोधिः प्राप्या । धर्मतेयं यतोऽधिमात्रैः श्रद्धादिभिः सम्यक्सम्बोधिः सुबोधा, मृदुभिस्तैरेव दुर्बोधेत्यर्थादिदमाक्षिप्तम् । मध्यैः प्रत्येकबुद्धबोधिर्मृदुभिः श्रावकबोधिश्चाधिगम्यत इति ॥

७ - निर्वेधभागीयम्

उत्पन्नमोक्षभागीयस्योत्साहिनो निर्वेधभागीयमुत्पद्यत इत्याह -

आलम्बनं सर्वसत्त्वा ऊष्मणामिह शस्यते ।
समचित्तादिराकारस्तेष्वेव दशधोदितः ॥ ४.३५ ॥
स्वयं पापान्निवृत्तस्य दानाद्येषु स्थितस्य च ।
तयोर्नियोजनान्येषां वर्णवादानुकूलते ॥ ४.३६ ॥
मूर्धगं स्वपराधारं सत्यज्ञानं तथा क्षमा ।
तथाग्रधर्मा विज्ञेयाः सत्त्वानां पाचनादिभिः ॥ ४.३७ ॥

इति । अस्यां सर्वाकाराभिसम्बोधौ सममैत्रहिताप्रतिघाविहेठनाचित्ताकारैः पञ्चभिर्मातापितृचित्तभ्रातृभगिनीचित्तपुत्रदुहितृचित्तमित्रामात्यचित्तज्ञातिसालोहितचित्ताकारैः आन्यैः पञ्चभिः सत्त्वालम्बने ऊष्मगतिमिष्यते ।

संक्षेपतोऽकुशलकुशलयोर्यथासंख्यं हानोपादानाभ्यां स्वयं निवृत्तस्य प्रवृत्तस्य च, तद्द्वारा अन्येषां पापान्निवर्तनं कुशले च प्रवर्तनमिति द्वावाकारौ । तथैव अन्येषां स्वयम्प्रवृत्तौ वर्णवादोऽनुकूलता चेति धर्मप्रभेदद्वैविध्येन हि अनन्ताकारा इति सत्त्वालम्बने मूर्धगतो भवति ।

यथा मूर्धगते स्वपराधिष्ठानभेदेन आलम्बनाकाराः, तथा नियोजनवर्णवादानुकूलताद्याकारैः स्वपराधिष्ठानदुःखादिसत्येष्वालम्बनमेव क्षान्तिर्भवति ।

पूर्ववत्स्वपराधिष्ठानपाचनमोचनाद्याकारैः सत्त्वालम्बनमेव अग्रधर्मा भवन्तीत्येवं निर्वेधभागीया भवन्ति ।

सर्वाकारमार्गवस्तुविभावनाभेदेन यथाक्रमं सर्वाकारज्ञतादित्रिविधेऽभिसमये लौकिकनिर्वेधभागीयाधिगमपूर्वको लोकोत्तरदर्शनभावनामार्गाधिगमः । सर्वाकाराभिसम्बोधादौ तु त्रिविधेऽभिसमये भावनोत्तरोत्तरावस्थाविशेषेण सर्वाकारविशेषमार्गसंगृहीतं ज्ञानमनास्रवं मृदुमध्याधिमात्रक्रमेणोत्पद्यत इति सकृदुत्पत्तिनिरासाय निर्वेधभागीयादिव्यपदेशोऽभिहित इति वेदितव्यम् ।

८ - अवैवर्तिको गणः

अवैवर्तिकबोधिसत्त्वसंघस्य यथोक्तनिर्वेधभागीयमुत्पद्यत इत्यवैवर्तिकबोधिसत्त्वसंघलक्षणमाह -

निर्वेधाङ्गान्युपादाय दर्शनाभ्यासमार्गयोः ।
ये बोधिसत्त्वा वर्तन्ते सोऽत्रावैवर्तिको गणः ॥ ४.३८ ॥

इति । ये वीराः चतुर्षु निर्वेधभागीयेषु वक्ष्यमाणदर्शनमार्गभावनामार्गयोः तत्तदधिगमनयेन स्थिताः, ते एव अवैवर्तिकशैक्ष्यबोधिसत्त्वसंघा भवन्ति ।

किञ्च तेषामावेणिकलक्षणमिति चेत्तावदेकेन अन्तरश्लोकेन निर्वेधभागीयस्थितानां लक्षणमाह -

रूपादिभ्यो निवृत्त्याद्यैर्लिङ्गैर्विंशतिधेरितैः ।
निर्वेधाङ्गस्थितस्येदमवैवर्त्तिकलक्षणम् ॥ ४.३९ ॥
इति । रूपादिनिवृत्तिनिर्विचिकित्साद्याकारैर्विंशतिप्रकारैर्निर्वेधभागीयस्थानामवैवर्तिकलक्षणं ज्ञेयम् ।

कानि च निवृत्त्यादेर्लक्षणानि इति चेत्षड्भिः अन्तरश्लोकैः प्रतिपादयितुमाह -

रूपादिभ्यो निवृत्तिश्च विचिकित्साक्षणक्षयौ ।
आत्मनः कुशलस्थस्य परेषां तन्नियोजनम् ॥ ४.४० ॥
पराधारञ्च दानादि गम्भीरेऽर्थेप्यकांक्षणम् ।
मैत्रं कायाद्यसंवासः पञ्चधावरणेन च ॥ ४.४१ ॥
सर्वानुशयहानञ्च स्मृतिसंप्रज्ञता शुचि ।
चीवरादि शरीरे च कृमीणामसमुद्भवः ॥ ४.४२ ॥
चित्ताकौटिल्यमादानं धूतस्यामत्सरादिता ।
धर्मतायुक्तगामित्वं लोकार्थं नरकैषणा ॥ ४.४३ ॥
परैरनेयता मारस्यान्यमार्गोपदेशिनः ।
मार इत्येव बोधश्च चर्या बुद्धानुमोदिता ॥ ४.४४ ॥
ऊष्ममूर्द्धसु सक्षान्तिष्वग्रधर्मेष्ववस्थितः ।
लिङ्गैरमीभिर्विंशत्या सम्बोधेर्न निवर्तते ॥ ४.४५ ॥

इति । अस्वभावत्वाद्रूपादिधर्मेभ्यो निवृत्तिः, अवेत्य प्रसादलाभेन विचिकित्साक्षयः, प्रणिधानसमृद्ध्या मिथ्यादृष्टि-नरक-प्रेत-तिर्यगुपपत्ति-बुद्धवचना-श्रवण-प्रत्यन्तजनपदोत्पादेन्द्रियवैकल्यजडमूकभाव-दीर्घायुष्कदेवोपपत्तीत्यष्टा-क्षणक्षयः, कारुणिकतया स्वपरकुशलधर्मनियोजनम्, परात्मपरिवर्त्तकत्वेन परसत्त्वविषयपरिणामितदानादिः, सम्यग्धर्मावबोधेन गम्भीरधर्मार्थाकांक्षणम्, परहितप्रतिपन्नत्वेन मैत्रकायवाङ्मनस्कर्म, प्रयोगसम्पत्त्या कामच्छन्दो व्यापादः स्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सा चेति पञ्चनीवरणैरसंवासः, विभावितप्रतिपक्षत्वेन अविद्यादिसर्वानुशयविध्वंसः, नित्यसमाहितत्वेन स्मृतिसम्प्रज्ञानयोगः, चौक्षसमुदाचारत्वेन शुचिपरिभोग्यचीवरादीति एकादश आकाराः । सर्वलोकाभ्युपगतकुशलमूलत्वेन काये अशीतिकृमिकुलसहस्रासम्भवः, कुशलमूलविशुद्ध्या चित्ताकौटिल्यम्, लाभसत्कारादिनिरपेक्षत्वेन पांशुकूलिकत्वादिधूतगुणसमादानम्, दानादिविशेषप्रतिपतिपत्त्या तद्विपक्षमात्सर्यभ्रष्टशीलादेरभावः, सर्वधर्मसंग्रहाद्धर्मताऽविरुद्धप्रज्ञापारमितायोगगमनम्, स्वात्मीकृतसत्त्वधातुत्वेन परार्थनरकाभिलाष इति षडाकाराः । अधिगतसम्प्रत्ययधर्मत्वेन अपरप्रणयनम्, विदितबुद्धत्वोपायकौशलत्वेन प्रतिरूपमार्गोपदेकमारस्य मारत्वावबोधश्चेति द्वावाकारौ । त्रिमण्डलविशुद्ध्या सर्वासु चर्यासु बुद्धानुमोदितत्वमिति एव आकारः । यथाक्रममूष्ममूर्धक्षान्त्यग्रधर्मेष्ववस्थितो बोधिसत्त्वोऽनुत्तरबोधेर्न निवर्तत इति एभिर्विंशतिलिङ्गैर्विज्ञेयम् ।

निर्वेधभागीयावैवर्तिकलक्षणानन्तरं दर्शनमार्गावैवर्तिकलक्षणमेकेन अन्तरश्लोकेनाह -

क्षान्तिज्ञानक्षणाः षट्च पञ्च पञ्च च दृक्पथे ।
बोधिसत्त्वस्य विज्ञेयमवैवर्तिकलक्षणम् ॥ ४.४६ ॥

इति । दुःखादिसत्यद्वारा धर्मान्वयज्ञानक्षान्त्यादयः षोडश क्षणाः दर्शनमार्गस्थबोधिसत्त्वस्यावैवर्तिकलक्षणं भवति ।

कीदृशक्षणाकारलक्षणमिति चेत्पञ्चभिरन्तरश्लोकैराकारानाह -

रूपादिसंज्ञाव्यावृत्तिर्दार्ढ्यं चित्तस्य हीनयोः ।
यानयोर्विनिवृत्तिश्च ध्यानाद्यङ्गपरिक्षयः ॥ ४.४७ ॥
कायचेतोलघुत्वञ्च कामसेवाभ्युपायिकी ।
सदैव ब्रह्मचारित्वमाजीवस्य विशुद्धता ॥ ४.४८ ॥
स्कन्धादावन्तरायेषु सम्भारे सेन्द्रियादिके ।
समरे मत्सरादौ च नेति योगानुयोगयोः ॥ ४.४९ ॥
विहारप्रतिषेधश्च धर्मस्याणोरलब्धता ।
निश्चितत्वं स्वभूमौ च भूमित्रितयसंस्थितिः ॥ ४.५० ॥
धर्मार्थं जीवितत्याग इत्यमी षोडश क्षणाः ।
अवैवर्तिकलिङ्गानि दृङ्मार्गस्थस्य धीमतः ॥ ४.५१ ॥

इति । स्वलक्षणशून्यतया रूपादिधर्मावबोधव्यावर्तनम्, बुद्धादेरधिष्ठानेन अनुत्तरबोधिचित्तदृढता, महायानविशेषधर्मप्रतिपत्त्या श्रावकप्रत्येकबुद्धयानचित्तविनिवर्तनम्, धर्मप्रविचयसामर्थ्याद्ध्यानारूप्यसमापत्त्याद्युदयाङ्गपरिक्षय इति चत्वार एव दुःखस्याकारा भवन्ति ।

अपगताकुशलत्वेन कायचेतोलाघवम्, सत्त्वदमनोपायकौशलसामर्थ्येन अनभिनिवेशकामोपभोगः, विषयादीनवदर्शनेन सदा ब्रह्मचारित्वम्, सत्पुरुषधर्मतया सम्यगुपकरणाजीवविशुद्धत्वमिति चत्वार एव समुदयाकारा भवन्ति ।

शून्यतावस्थितत्वेन स्कन्धधात्वायतनयोगानुयोगयोरकरणमित्येवं योगानुयोगविहारप्रतिषेधः, निरस्तविपक्षत्वेन अधिगमान्तरायधर्माणां पूर्ववद्योगानुयोगविहारप्रतिषेधः, परिज्ञातविकल्पदोषत्वेन बोधिसम्भारदानादीनां पूर्ववत्कथायोगानुयोगविहारप्रतिषेधः, ग्राह्यग्राहकयोर्हेयत्वेनेन्द्रियाश्रयनगरादियुद्धेषु पूर्ववद्योगानुयोगविहारप्रतिषेध इति चत्वारो निरोधाकारा भवन्ति ।

दानादिविशेषावबोधेन मात्सर्यदौःशील्यादियोगानुयोगविहारप्रतिषेधः, सर्वधर्मत्रिविमोक्षमुखस्वभावत्वेन अणुमात्रज्ञेयधर्मानुपलम्भः, अभिसम्प्रत्ययलाभेन त्रिसर्वज्ञतात्मकस्वभूमित्रययथावन्निश्चितावस्थानम्, एकान्तनिष्ठत्वेन सर्वाकारज्ञतादिधर्मार्थं जीवितत्याग इति चत्वारो मार्गाकारा भवन्ति ।

एवं क्षान्तिज्ञानक्षणाः षोडशभिराकारैः सम्यगधिगताः सन्तोऽनभिनिविष्टग्राह्यग्राहकाकारशुद्धलौकिकपृष्ठचित्तसंगृहीतं स्वानुरूपकार्यं रूपादिसंज्ञाव्यावर्तनादिकं परप्रतिपत्तिविषयं जनयन्तीत्यतो दर्शनमार्गस्थावैवर्तिकबोधिसत्त्वलक्षणानि भवन्ति । अधिगमानुरूप एव सर्वत्र योगिनां व्यवहारः अन्यत्र सत्त्वविनयप्रयोजनवशादिति ज्ञापनायोपचारेणोक्तम्, अन्यथा योगिसन्तानप्रत्यात्मवेद्यक्षणाः कथं परप्रतिपत्तये लक्षणानीति?

तदनन्तरं सत्यपि भावनामार्गस्थावैवर्तिकलक्षणेऽनागृहीतविशेषणा विशेष्ये बुद्धिरुत्पद्यतेऽ इति न्यायात्तावद्भावनामार्गं विशेषयन्नाह -

गम्भीरो भावनामार्गो गाम्भीर्यं शून्यतादिकम् ।
समारोपापवादान्तमुक्तता सा गभीरता ॥ ४.५२ ॥

इति । शून्यतादिके न रूपादिकम्, न ततोऽन्यच्छून्यतादिकमिति यथाक्रमं या समारोपापवादान्तमुक्तता, सा शून्यतादेर्गाम्भीर्यं शून्यतादिकमिति गाम्भीर्ययोगाद्गम्भीरोऽभ्यासपथ इति ।

विशेषणं निर्दिश्यैवं विशेष्यं वस्तु आह -

चिन्तातुलननिध्यानान्यभीक्ष्णं भावनापथः ।
निर्वेधाङ्गेषु दृङ्मार्गे भावनामार्ग एव च ॥ ४.५३ ॥

इति । श्रुतचिन्ताभावनामयप्रज्ञया समाधौ वा प्रयोगमौलपृष्ठभाविन्या प्रज्ञया यथाक्रमं त्रिषु निर्वेधाङ्गादिषु निर्दिष्टानामर्थानां पुनः पुनश्चिन्तातुलननिध्यानानि भावनामार्गे प्राबन्धिकानि भवन्ति ।

तस्य कति प्रकारा इति चेदाह -

प्राबन्धिकत्वादिष्टोऽसौ नवधा च प्रकारतः ।
मृदुमध्याधिमात्राणां पुनर्मृद्वादिभेदतः ॥ ४.५४ ॥

इति । विकल्पक्लेशा बोधिसत्त्वा इति कृत्वा यथौदारिकञ्च तमः सूक्ष्मेणालोकेन हन्यते सुक्ष्मञ्चाधिमात्रेणेति मृदुमध्याधिमात्रविकल्पानां प्रत्येकं मृदुमध्याधिमात्रभेदात्तेषां मृदुमध्याधिमात्रप्रतिपक्षाणां प्रत्येकं मृदुमध्याधिमात्रभेदात्तथा परमार्थतः शून्यतालक्षणाकारद्वारा विकल्पप्रतिपक्षयोर्भेदाद्यथासंख्यं कामधात्वादिनवभूमिषु नवप्रकारः प्रबन्धेन वर्तमानः भावनामार्गो भवति ।

तत्तज्जिनजननीनामेकैकं प्रकारमधिकृत्य असंख्येयाप्रमेयाप्रमाणपुण्यप्रसववचनाद्बहुधा भेदात्कथं नवप्रकार इति चेदाह -

असंख्येयादिनिर्देशा परमार्थेन न क्षमाः ।
कृपानिष्यन्दभूतास्ते संवृत्याभिमता मुनेः ॥ ४.५५ ॥

इति । असंख्येयाप्रमेयाप्रमाणनिर्देशा वागभिलापस्वभावा व्यावृत्त्यपेक्षोपजनितनानात्वरूपेण एकस्मिन्नर्थे प्रत्युक्तास्तस्मात्परमार्थेन यथोक्तलक्षणस्य भावनामार्गस्य भेदं कर्तुं न क्षमाः । संवृत्या त्वनालम्बनमहाकरुणास्वभावधर्मधातुनिष्यन्दभूतास्ते देशनाधर्मस्वभावा यथोक्तनिर्देशा बालजनानां महाफलोदयप्रकाशकत्वेनाभिमतास्तथागतस्येति बहुत्वं न प्रसज्यते ।

शून्यतालक्षणतया अतिशयाधानाभावाद्किञ्चिदपि मन्दबुद्धिपुरुषं प्रति न क्रियत एवेति आशङ्क्याह -

हानिवृद्धी न युज्येते निरालापस्य वस्तुनः ।
भावनाख्येन किं हीनं वर्त्मना किमुदागतम् ॥ ४.५६ ॥

धर्मतास्वरूपस्य अभिमतमार्गवस्तुनो निःस्वभावतया तत्त्वान्यत्वोभयानुभयत्वैरवाच्यस्य भावनातिशयाधानाभावात्विपक्षप्रतिपक्षयोर्यथाक्रममपगमोदयौ न युज्येते ।

यद्येवं भावनासंज्ञकेन मार्गेण किं विपक्षस्वरूपं परित्यक्तम्, किञ्च व्यवदान स्वरूपं प्राप्तम्, न किञ्चिदपि क्रियते, अतः अनुपन्यसनीय एवेति चेत्? मैवम् । तथा चोक्तम् -

यथा बोधिस्तथैवासाविष्टस्यार्थस्य साधकः ।
तथतालक्षणा बोधिः सोऽपि तल्लक्षणो मतः ॥ ४.५७ ॥

इति । यथा निरतिशयाधाना तथतास्वरूपा बोधिः निष्प्रपञ्चज्ञानात्मकधर्मकायादिबुद्धस्वभावा आधिपत्यमात्रेण विनेयजनानां पुण्यज्ञानानुरूपतया विशिष्टार्थप्रतिभासिचित्तजननद्वारेणाभिमतार्थस्य साधिका, तद्वदयमप्यागन्तुकमलापगमाद्भावनया साक्षात्कृतो मार्गः तथतालक्षणोऽपि संवृत्याभिमतार्थक्रियाकारी । परमार्थतस्तु हानिवृद्ध्यभाव एवाङ्गीक्रियत इति अप्रयोग एव प्रयोगत्वात्न दोषः ।

एवं सति संवृत्या अर्थक्रियासामर्थ्यं न घटत इत्याशङ्कयन्नाह -

पूर्वेण बोधिर्नो युक्ता मनसा पश्चिमेन वा ।

इति । एकैकस्मिंश्चित्ते पूर्वापरीभूते बुद्धबोधिनिष्पादकसर्वाकारज्ञतादिसमस्तार्थाप्रतिभासनान्नैवैकेन (पूर्वेण पश्चिमेन वा) बोधिर्युज्यते ।ऽएकविज्ञानसन्ततयः सत्त्वाःऽ इति वचनादसम्भवित्वेन युगपदुत्पन्नसमीहितार्थनिष्पादकधर्मप्रतिभासेन अनेकचित्तेनापि न (युज्यते) । अनुत्तरबुद्धबोधिनिष्पादकस्मृत्युपस्थानाद्यष्टादशावेणिकबुद्धधर्मपर्यन्ताधिगन्तृस्वरूप-पूर्वापरीभूतानेकचित्तेन वा न(युज्यते) ; निरन्वयोदयविनाशेन परस्परसम्बन्धात् ।

किं तर्हि विशिष्टार्थप्रतिभासिचित्तजननद्वारेण अर्थक्रियाकारीति? न, तदसम्यक्त्वात् । इत्याह -

दीपदृष्टान्तयोगेन गम्भीरा धर्मताष्टधा ॥ ४.५८ ॥

प्रथमे ज्वालावर्त्योर्मीलनक्षणे द्वितीयक्षणमन्तरेण स्वकारणपरम्पराक्रमायातसमानकालसंहतोत्पत्त्यविशिष्टत्वात्कार्यकारणलक्षणदाह्यदाहकाभावः । तथैव द्वितीयक्षणेऽपि विशिष्टज्वालावर्त्योरूत्पत्तिक्षणे प्रथमक्षणमन्तरेण नित्यसत्त्वादिप्रसङ्गतया संवृत्युत्पादाभावात्कार्यकारणलक्षणदाह्यदाहकाभावः । यद्येवं तथापि यदा इदम्प्रत्ययतात्मकप्रतीत्यसमुत्पादधर्मतया अविचारैकरम्यत्वेन हेतुफलसम्बन्धबलाद्संहतविशिष्टोत्पन्नं प्रथमक्षणं समपेक्ष्य तदाहितसामर्थ्यातिशय एव विशिष्टो द्वितीयक्षणः स्यात्, तदा निर्हेतुकविनाशेऽपि कारणकार्ययोः यथाक्रमं तुल्यकालनिरन्वयविनाशोदयाद्दाह्यदाहकभावः । तस्मात्प्रथमक्षणे द्वितीयार्चिरनपेक्ष्य वर्ती न दह्यते, द्वितीयक्षणेनापि प्रथमार्चिरनपेक्ष्य वर्ती न दह्यत इति दीपदृष्टान्तन्यायेन पूर्वापरीभूतक्षणयोरेकविषयोपयोगज्ञापनपरेण पूर्वक्षणवत्बोधिनिष्पादककतिपयपदार्थप्रतिभासि प्रथमविज्ञानं प्रतीत्य तत्प्रतिभासाभ्यधिक विशिष्टार्थप्रतिभासिपश्चिमविज्ञानोदयाद्बोधिप्राप्तिर्युज्यते ।

यथोक्तेनैव च दृष्टान्तेन अष्टप्रकारा गम्भीरधर्मता प्रतिसर्तव्या इति भावनामार्गस्थबोधिसत्त्वानामवैवर्तिकलक्षणकथनाय यस्मिन् विषये अष्टविधगाम्भीर्यं तत्कथयन्नाह -

उत्पादे च निरोधे च तथतायां गभीरता ।
ज्ञेये ज्ञाने च चर्यायामद्वयोपायकौशले ॥ ४.५९ ॥

इति । न पूर्वापरक्षणाभ्यां न च निःस्वभावतया भावनागम्यविशिष्टार्थोत्पादनमिति प्रतीत्यसमुत्पादः । सर्वभावोदय एव निःस्वभाव इति संवृत्या निरुध्यत इति निरोधः । सर्वावस्थासु तथताभ्यासेऽपि तस्या असाक्षात्करणमिति तथता । तथतास्वभावसर्वधर्मस्य दानाद्यनेकविधानुष्ठानमिति ज्ञेयः । तथतारूपेणादर्शनमेव दर्शनमिति ज्ञानम् । धर्मतया सर्वत्राचरणमेव चरणमिति चर्या । अद्वयस्वभावे सर्वसिद्धिरित्यद्वयः । सर्वसम्भारपरिनिष्पत्तौ तत्फलबुद्धत्वस्याप्राप्तिरित्युपायकौशलम् । अचिन्त्यविमोक्षमुखलाभात्परस्परविरुद्धार्थानुष्ठानेन गाम्भीर्यं भवति । एवमवैवर्तिकशैक्षः सलक्षणोऽभिहितः ।

९ - भवशान्त्योः समता

शैक्षसम्भारधर्मप्राप्तो बुद्धत्वप्राप्तये यतते, अतः बुद्धत्वप्राप्तिनिमित्तसंसारनिर्वाणसमतां कथयन्नाह -

स्वप्नोपमत्वाद्धर्माणां भवशान्त्योरकल्पना ।
कर्माभावादिचोद्यानां परिहारा यथोदिताः ॥ ४.६० ॥

इति । विपक्षप्रतिपक्षसांसारिकवैयदानिकधर्माणां प्रतिभासमात्रस्वभावस्वप्नसदृशत्वेन अवगमात्संसारनिर्वाणयोर्नानात्वेन अविकल्प इति समता । ननु स्वप्नसदृशत्वे सति दशाकुशलदानादीनामभावः स्वप्नावस्थायामिव जाग्रद्दशायामपि स्यादितिचोद्यानां परिहारा बाह्यार्थवादनये क्षणिकतया निर्हेतुकविनाशे

कर्मजं लोकवैचित्र्यम्

इति सिद्धान्तात्परमार्थतो न कश्चिन्न केनचिद्धतो नापि कयचिद्द्रव्यं केनचिद्गृहीतमित्याद्युपगमे पक्षप्रवृत्तसन्तानविरुद्धपदार्थोत्पादनात्मारणाद्यध्यवसायद्वारेण अयोनिशोमनस्कारादिमतोऽकुशलादिवत्प्राणातिपातादयो व्यवस्थाप्यन्ते, तथैव स्वप्नसदृशे वस्तुनि तदनुरूपार्थे भावाद्यभिनिवेशेन अखण्डितसकलविपर्यासबन्धनानामित्येवं तत्पतिहाराः तत्पक्षाश्चान्यत्र अभिहिता इत्यवगन्तव्याः । किञ्चमिद्धेनोपहतं चित्तं स्वप्ने तेनासमं फलम् ।

इति दृष्टान्तासिद्धिः । इत्येव स्वप्नेऽप्युपचित्तकुशलाकुशलस्य प्रबुद्धावस्थायामहो कृतः सुकृत इत्यनुमोदने पृष्ठावस्थाचित्ताभिनिवेशपरिपुष्ट्या परिपोषः । अतश्च दृष्टान्तासिद्धेः संसारनिर्वाणसमता एव ।

१० - अनुत्तरा क्षेत्रशुद्धिः

उभयसमताविभावनया स्वबुद्धक्षेत्रे बुद्धो भविष्यतीति तदनन्तरं बुद्धक्षेत्रपरिशुद्धिरित्याह -

सत्त्वलोकस्य याऽशुद्धिस्तस्याः शुद्ध्युपहारतः ।
तथा भाजनलोकस्य बुद्धक्षेत्रस्य शुद्धता ॥ ४.६१ ॥

सत्त्वभाजनलोकभेदेन द्विविधबुद्धक्षेत्रयोर्यथाक्रमं जिघत्सापिपासास्थाणुकण्टकादिका याऽशुद्धिः, तस्याः प्रतिपक्षेण दिव्योपभोगकनकभूभ्यादिशुद्धिजननद्वारेण विशुद्धिर्बुद्धक्षेत्रविशुद्धिः ।

११ - उपायकौशलम्

निष्पादितस्वबुद्धक्षेत्रविशुद्धिनोपायकौशलेन यथाभव्यतया बुद्धकृत्यं करणीयमित्युपायकौशलमाह -

विषयोऽस्य प्रयोगश्च शात्रवाणामतिक्रमः ।
अप्रतिष्ठो यथावेधमसाधारणलक्षणः ॥ ४.६२ ॥
असक्तोऽनुपलम्भश्च निमित्तप्रणिधिक्षतः ।
तल्लिङ्गं चाप्रमाणं च दशधोपायकौशलम् ॥ ४.६३ ॥

इति । आन्तरायिकधर्मसमतिक्रमणेन देवादिमारातिक्रमः, विभावितसर्वधर्मसमत्वेन अप्रतिष्ठितविहारः, प्रणिधानसमृद्ध्या यथावेधं परार्थकरणम्, स्वभ्यस्तसर्वदुष्करत्वेन असाधारणः, शुक्लधर्मविशुद्ध्या सर्वधर्मस्याग्रहणम्, शुन्यताविमोक्षमुखत्वेन अनुपलम्भः, अनिमित्तविमोक्षमुखत्वेन अनिमित्तः, अप्रणिहितविमोक्षमुखत्वेन अप्रणिधानम्, प्रश्नपूर्वकावैवर्तिकधर्मकथनेन अवैवर्तिकलिङ्गम्, सर्वविषयज्ञानत्वेन अप्रमाणमिति प्रज्ञापारमिताया दशविधविषयाणां साक्षात्क्रियायां कालाकालज्ञानप्रयोग एव उपायकौशलं भवतीति ।
इति अभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे चतुर्थाधिकारवृत्तिः ॥


________________________________________________________________

मूर्धाभिसमयाधिकारः पञ्चमः

[सम्पाद्यताम्]


१ - लिङ्गम् (ऊष्मा मूर्धप्रयोगः)

प्राप्तसर्वाकारभिसम्बोधस्य प्रकर्षपर्यन्तोऽधिगमो भवतीति तत्सुखावबोधाय लिङ्गाद्यभिधानपुरःसरं मूर्धाभिसमयमाह -

स्वप्नान्तरेऽपि स्वप्नाभसर्वधर्मेक्षणादिकम्
मूर्धप्राप्तस्य योगस्य लिङ्गं द्वादशधा मतम् ॥ ५.१ ॥

इति । स्वप्नावस्थायामप्यत्यभ्यासात्स्वप्नसदृशसर्वधर्मेक्षणम्, श्रावकादिभूमिस्पृहाचित्तानुत्पादनम्, तथागतादिदर्शनम्, बुद्धर्द्धिविकुर्वितोपलब्धिः, धर्मदेशनादिचित्तोत्पादः, नैरयिकसत्त्वादीक्षणपुरःसरस्वबुद्धक्षेत्रापायप्रहाणानुस्मरणम्, नगरादिदाहप्रशमनसत्याधिष्ठानसमृद्धिः, यक्षाद्यमनुष्यापगमसत्यवाक्यनिष्पत्तिः, स्वयमभिज्ञापराक्रमकल्याणमित्रसेवनम्, सर्वप्रकारप्रज्ञापारमिताशिक्षणम्, सर्वधर्मानभिनिवेशः, बुद्धबोध्यासन्नीभवनमिति द्वादश प्रकाराणि प्राप्ताभिसमयावस्थाया विशेषलिङ्गानि ।

२ - विवृद्धिः (मूर्धा मूर्धप्रयोगः)

लिङ्गेनैवं लक्षितस्य कतिप्रकारा विवृद्धिरिति विवृद्धिमाह -

जम्बुद्वीपजनेयत्ताबुद्धपूजाशुभादिकाम् ।
उपमां बहुधा कृत्वा विवृद्धिः षोडशात्मिका ॥ ५.२ ॥

इति । जम्बूद्वीपकादित्रिसाहस्रलोकधातवीयसत्त्वेयत्तातथागतपूजाधिकत्वम्, विशिष्टप्रज्ञापारमितामनस्कारः, अनुत्पत्तिधर्मक्षान्तिलाभः, बोध्यबोधकधर्मानुपलम्भः, दशकुशलाद्यारूप्यसमापत्तियोगाद्विशेषोत्कर्षः, सर्वदेवनिकायोपसंक्रमः, सर्वमाराभिभवः, शास्तृसदृशजनसमानावस्था इति अष्टप्रकाराणि पुण्यानि । पुनः सर्वथोपायकौशलपरिशुद्धशिक्षा, बुद्धगोत्रीभवनम्, बुद्धत्वफलप्राप्तिनिमित्तम्, पारमिताविपक्षचित्तानुत्पादः, रूपादियोगाधिगमचित्तानुत्पादः, सर्वपारमितासंग्रहज्ञानम्, सर्वसम्पत्प्रतिलम्भः, सम्यक्सम्बोध्यासन्नीभाव इत्यन्यानि अष्टप्रकाराणि पुण्यानि । पुष्पादिभिः बुद्धपूजायाः शुभादिकां बहुधा उपमां कृत्वा उत्तरोत्तरविशेषोत्कर्षेण षोडशावस्थात्मिका विवृद्धिर्भवति ।

३ - निरूढिः (क्षान्तिः मूर्धप्रयोगः)

विवृद्ध्यैवं वर्धितस्य आत्मीभावगमनपर्यन्तलक्षणां निरूढिं वक्तुमाह -

त्रिसर्वज्ञत्वधर्माणां परिपूरिरनुत्तरा ।
अपरित्यक्तसत्त्वार्था निरूढिरभिधीयते ॥ ५.३ ॥

इति । सम्यगुपायकौशलबलेनैवं निर्विकल्पाधिगमावस्थायां महाकरुणादिसम्मुखीकरणभावेन अपरित्यक्तसत्त्वार्थलक्षणा यथोक्तसर्वाकारज्ञतादित्रिसर्वज्ञताधर्माणां चित्तोत्पादादीनामुपर्युक्तानामनुत्तरा परिपूरिर्निरूढिरिति ।

४ - चित्तसंस्थितिः (अग्रधर्माख्यः मूर्धप्रयोगः)

निरूढ्यैवं विरूढस्य स्थिरीभावलक्षणा चित्तसंस्थितिरिति चित्तसंस्थितिमाह -

चतुर्द्वीपकसाहस्रद्वित्रिसाहस्रकोपमः ।
कृत्वा पुण्यबहुत्वेन समाधिः परिकीर्तितः ॥ ५.४ ॥

इति । सम्भवत्प्रमाणस्य पलप्रमाणेन परिमाणं प्रमातुं शक्यत इति न्यायात्चतुर्द्वीपादित्रिसाहस्रलोकधातूनां सर्वेषां पारमितादीनां समाधिपुण्यज्ञानस्वरूपाणां पृथक्पृथकुपमां कृत्वा तेभ्यो विशिष्टा प्रमाणातिक्रान्तपुण्यबहुत्वेन समाधिलक्षणा चित्तसंस्थितिः कथितेति ।

एतानि च लिङ्गादीनि यथाक्रममूष्मादिचतुर्निर्वेधभागीयस्वरूपाणि वेदितव्यानि ।

५ - दर्शनमार्गः (मूर्धप्रयोगः)

निर्वेधभागीयानन्तरं दर्शमार्गः । तत्र चतुर्विधो विपक्षः सप्रतिपक्षः । विपक्षं तावद्ग्राह्यविकल्पद्वयमाह -

प्रवृतौ च निवृतौ च प्रत्येकं तौ नवात्मकौ ।
ग्राह्यौ विकल्पौ विज्ञेयावयथाविषयात्मकौ ॥ ५.५ ॥

इति । अनुपलम्भोपलम्भस्वभावो प्रवृत्तिनिवृत्तिपक्षौ यथाक्रमं श्रावकबोधिसत्त्वादीनां धर्मस्यादानसन्त्यागाकारेण ग्राह्याविति क्लेशवद्विपक्षौ ग्राह्यविकल्पौ वस्तुन्यप्रतिबद्धवृत्तित्वेन वितथप्रतिभासित्वादयथास्वरूपौ विषयप्रभेदेन प्रत्येकं नवप्रकारौ ज्ञेयाविति ।

ग्राह्यविकल्पपक्षद्वयमेवं निर्दिश्य ग्राहकविकल्पद्वयमाह -

द्रव्यप्रज्ञप्तिसत्सत्त्वविकल्पौ ग्राहकौ मतौ ।
पृथग्जनार्यभेदेन प्रत्येकं तौ नवात्मकौ ॥ ५.६ ॥
ग्राहौ चेन्न तथा स्तोऽर्थौ कस्य तौ ग्राहकौ मतौ ।
इति ग्राहकभावेन शून्यतालक्षणं तयोः ॥ ५.७ ॥

इति । पृथग्जनार्यपुद्गलयोर्यथाक्रमं द्रव्यप्रज्ञप्तिसत्पुरुषाधिष्ठानौ ग्राहकविकल्पौ विबन्धकत्वाद्विपक्षौ विषयभेदेन प्रत्येकं नवप्रकाराविति । यदा विषयभावापन्नग्राह्यावर्थौ न तथा ग्राह्यरूपेण भवतस्तदा न कस्यचित्तौ ग्राहकाविति, ग्राहकरूपेणानयोर्विविक्तं रूपमिति वितथप्रतिभासित्वादयथाविषयस्वरूपौ ज्ञेयाविति ।

कथं प्रवृत्यधिष्ठानः प्रथमो ग्राह्यविकल्पो नवधाः? इत्याह -

एष स्वभावे गोत्रे च प्रतिपत्समुदागमे ।
ज्ञानस्यालम्बनाभ्रान्तौ प्रतिपक्षविपक्षयोः ॥ ५.८ ॥
स्वस्मिन्नधिगमे कर्तृतत्कारित्रक्रियाफले ।
प्रवृत्तिपक्षधिष्ठानो विकल्पो नवधा मतः ॥ ५.९ ॥

इति । विविक्तेन विविक्तानवबोधस्वभावे, अचलादिभूमिप्रवेशेन नियतबुद्धगोत्रे, मायोपमप्रतिपत्त्या दर्शनादिमार्गसमुदागमे, प्रतिभासमात्रेण अभ्रान्तज्ञानालम्बने, गुणदोषपूर्वकोपादेयहेयत्वेन प्रतिपक्षविपक्षे, सर्वमलरहितत्वेन स्वाधिगमे, हीनाप्रणीतत्वेन श्रावकादिभूमिदूरीकरणे, यथाशयानुरूपनिर्माणेन सत्त्वार्थव्यापारे, सम्यगुपायकौशलबलेन सर्वजननिर्वाणप्रतिष्ठापनक्रियाफले च निर्दोषतया उपादेयत्वेन प्रवृत्तिः कार्या, इत्येवं प्रवृत्तिपक्षाधिष्ठानः प्रथमो ग्राह्यविकल्पो नवप्रकारो दर्शनमार्गप्रयोगावस्थायां प्रहेयो मत इति ।

कथं निवृत्तिपक्षधिष्ठानो द्वितीयो ग्राह्यविकल्पो नवधेति? आह -

भवशान्तिप्रपातित्वान्न्युनत्वेऽधिगमस्य च ।
परिग्रहस्याभावे च वैकल्ये प्रतिपद्गते ॥ ५.१० ॥

परप्रत्ययगामित्वे समुद्देशनिवर्तने ।
प्रादेशिकत्वे नानात्वे स्थानप्रस्थानमोहयोः ॥ ५.११ ॥
पृष्ठतो गमने चेति विकल्पोऽयं नवात्मकः ।
निवृत्तिपक्षधिष्ठानः श्रावकादिमनोभवः ॥ ५.१२ ॥

इति । संसारनिर्वाणान्यतरप्रपातित्वेन न्युनताधिगमे, कल्याणमित्रोपायकौशलविकलत्वेन संपरिग्रहाभावे, समस्तज्ञेयावरणाप्रतिपक्षत्वेन प्रतिपद्वैकल्ये, तथागताद्युपदेशसापेक्षत्वेन परप्रत्ययगामित्वे, सर्वसत्त्वाग्रताचित्तमहत्त्वाद्यप्रवृत्तत्वेन उद्देशनिवृतौ, क्लेशावरणप्रतिपक्षत्वेन प्रादेशिकमार्गव्यापारे, सोपलम्भत्वेन प्रथमफलाद्यधिगमनानात्वे, सर्वाविद्यानुशयाप्रहीणत्वेन स्थानगमनाज्ञाने, महायानसर्वसंग्राहकत्वेन सर्वाकारज्ञतासर्वनिर्वाणपश्चादनुगमने च सदोषतया ग्राह्यत्वेन विनिवृत्तिः कार्या । इत्येवं द्वितीयो ग्राह्यविकल्पो निवृत्तिपक्षाधिष्ठानः श्रावकप्रत्येकबुद्धसन्तानोपादेयत्वसमुद्भवो नवधा बोधिसत्त्वानां दर्शनमार्गे चित्तचैत्तप्रवृत्त्यवस्थायां प्रहेयो मत इति ।

कथं द्रव्यसत्पृथग्जनपुरुषाधिष्ठानः प्रथमो ग्राहकविकल्पो नवधा? इत्याह -

ग्राहकः प्रथमो ज्ञेयो ग्रहणप्रतिमोक्षणे ।
मनस्क्रियायां धातूनामुपश्लेषे त्रयस्य च ॥ ५.१३ ॥
स्थाने चाभिनिवेशे च प्रज्ञप्तौ धर्मवस्तुनः ।
सक्तौ च प्रतिपक्षे च यथेच्छं च गतिक्षतौ ॥ ५.१४ ॥

इति । संवृत्या मायावद्ग्रहणमोक्षणे, तत्त्वतोऽमनस्कारेण मनस्करणे, धर्मतया त्रैधातुकोपश्लेषणे, शून्यताऽनवस्थानेन अवस्थाने, वस्त्वनभिनिवेशेन सर्वाभिनिवेशे, द्रव्यसद्भावेन सर्वधर्मप्रज्ञप्तौ, तत्त्वज्ञानासक्त्या अनभिनिवेशपूर्वकसक्तौ, समताभावनाप्रतिपक्षतया प्रतिपक्षे, सम्यगविज्ञातप्रज्ञापारमितत्वेन यथेच्छगमनव्याघाते च पारमार्थिकभावाभिनिवेशेन प्रथमो ग्राहकविकल्पो नवप्रकारो दर्शनमार्गप्रयोगावस्थायां प्रहेयो मत इति ।

कथं प्रज्ञप्तिसत्पुरुषाधिष्ठानो द्वितीयो ग्राहकविकल्पो नवधा? इत्याह -

यथोद्देशमनिर्याणे मार्गामार्गावधारणे ।
सनिरोधे समुत्पादे वस्तुयोगवियोगयोः ॥ ५.१५ ॥
स्थाने गोत्रस्य नाशे च प्रार्थनाहेत्वभावयोः ।
प्रत्यर्थिकोपलम्भे च विकल्पो ग्राहकोऽपरः ॥ ५.१६ ॥

इति । श्रावकादिनिर्याणत्वेन यथोक्तोद्देशानिर्याणे, स्वाभीष्टमार्गाभावेन इतरमार्गामार्गावधारणे, संवृतिकार्यकारणभावेन उत्पादनिरोधे, निरन्तरेतरप्रतिभासत्वेन समस्तवस्तुसंयोगवियोगे, व्योमावस्थितशकुनिसदृशत्वेन रूपादिस्थाने, बोधिचित्तोत्पादादिद्वारेण श्रावकादिगोत्रविनाशे, तथताप्रतिविशिष्टधर्मताभावेन अभिलाषाभावे, परमार्थसत्याश्रयेण हेत्वभावे, अभ्यस्तमात्सर्यधर्मतया प्रत्यर्थिकमारादिवस्तूपलम्भे च प्रज्ञप्तिभावाभिनिवेशेन द्वितीयो ग्राहकविकल्पो नवप्रकारो दर्शनमार्गचित्तचैत्तप्रवृत्त्यवस्थायां प्रहेयो मत इति ।

दर्शनमार्गे विपक्षं सप्रतिपक्षमेवं निर्दिश्य यन्महाबोधिनिष्पत्तये दर्शनमार्गो येन कारणेन सहित इष्यते, तत्कारणप्रदर्शनायान्तरश्लोकमाह -

बोधौ सन्दर्शनान्येषां तद्धेतोश्च परीन्दना ।
तत्प्राप्त्यनन्तरो हेतुः पुण्यबाहुल्यलक्षणः ॥ ५.१७ ॥

इति । वक्ष्यमाणलक्षणबोधौ दर्शनादिमार्गसन्दर्शनेन अन्येषां प्रतिष्ठापनं प्रथमम् (कारणम्) ।

बोधिनिमित्तमेवान्येषां सम्यग्ग्रन्थार्थादिद्वारेण प्रज्ञापारमिताप्रत्यर्पणं द्वितीयम् (कारणम्) ।

बोधिप्राप्तये चाव्यवहितकारणं स्वतः प्रचुरतरप्रज्ञापारमिताभावनादिपुण्यलक्षणं तृतीयम् (कारणम्) ।

का पुनरियं महाबोधिर्यदर्थं यथोक्तकारणसहायो दर्शनमार्गोऽभिप्रेत इत्यन्तरश्लोकेन महाबोधिमाह -

क्षयानुत्पादयोर्ज्ञाने मलानां बोधिरुच्यते ।
क्षयाभावादनुत्पादात्ते हि ज्ञेये यथाक्रमम् ॥ ५.१८ ॥

इति । क्लेशज्ञेयावरणमलानामुत्पन्नानुत्पन्नत्वेन कल्पितानां -

धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते ।

इति धर्मधातुस्वभावानामाकाशस्येव निरोधोत्पादाभावादेकानेस्वभावकार्यकारणप्रमाणाद्युपपन्नभाववैधुर्याद्गगनकमलवद्वा यथाक्रमं मलानां क्षयोत्पादाभावादक्षयानुत्पादज्ञानात्मिका सर्वधर्माविपरीताधिगतिलक्षणा यथावद्धमकायाद्यात्मिका महाबोधिरभिधीयत इति ।

यस्मादेवमतो ये भावविनाशाभिसन्धिना क्षीणे क्षीणमिति ज्ञानं क्षयज्ञानम्, भावानुत्पादाभिसन्धिना च अनुत्पन्नेऽनुत्पन्नमिति ज्ञानमनुत्पादज्ञानं वर्णयन्ति । बोधिञ्च क्षयानुत्पादज्ञानं वर्णयन्ति । तेषां क्षयानुत्पादवैकल्यादेतज्ज्ञानं न घटत इत्यन्तरश्लोकेनाह -

प्रकृतावनिरुद्धायां दर्शनाख्येन वर्त्मना ।
विकल्पजातं कि क्षीणं किं वानुत्पत्तिमागतम् ॥ ५.१९ ॥

इति । उत्पन्नानुत्पन्नयोर्थथाक्रमं क्षयोत्पत्तिविघातलक्षणनिरोधेन अनिरुद्धायां परमार्थतस्तथतारूपायां प्रकृतौ सत्यां कतरद्विकल्पादिरूपमुत्पन्नं क्षीणं, कतरच्चानुत्पन्नमनुत्पत्तिधर्मकं जातं दर्शनमार्गबलेन वितथभावाभिनिवेशिनां भवताम्? यावता नैव किञ्चित् । तस्मादस्माकं मतमेवाङ्गीकर्तव्यमित्यभिप्रायः ।

अन्यथा तात्त्विकधर्मसत्त्वोपगमे भगवतः सर्वथा विकल्पक्लेशज्ञेयावरणप्रहाणं महद्विस्मयस्थानीयं स्यादित्यन्तरश्लोकेनाह -

सत्त्वा च नाम धर्माणां ज्ञेये चावरणक्षयः ।
कथ्यते यत्परैः शास्तुरत्र विस्मीयते मया ॥ ५.२० ॥

इति । तत्र ह्यदयव्ययशून्यत्वान्नास्त्यात्मेति विभावयन्नात्माभिनिवेशं परित्यज्य तद्विविक्तस्कन्धादिकं प्रतीत्यसमुत्पन्नमुदयव्ययधर्मकं समुपलभ्य नीलतद्धियोः सहोपलभ्भनियमाच्चित्तमात्रमेवेदं न बाह्यार्थोऽस्तीति मनसिकुर्वनपरित्यक्तग्राहकाकारचित्ताभिनिवेशो बाह्यार्थाभिनिवेशं तिरस्कृत्य ग्राह्याभावे ग्राहकाभाव इति निध्यायंस्तामपि ग्राहकाकारलक्षणां विज्ञप्तिमात्रतामवधूय अद्वयज्ञानमेव केवलं भावतो भावरूपमिति निश्चित्य तदपि प्रतीत्यसमुत्पन्नत्वान्मायानिःस्वभावं तत्त्वतोऽपगतैकान्तभावाभावादिपरामर्शरूपमिति भावयन् भावनाबलनिष्पत्तौ केषाञ्चिन्मणिरूप्यादिज्ञानवदुत्सारितसकलभ्रान्तिनिमित्ताया मायोपमात्मप्रतिभासधियो निर्विकल्पायाः कथञ्चित्प्रत्यात्मवेद्यायाः समुत्पादे ज्ञेयावरणं सम्यग्योगी प्रजह्यात् । अन्यथा परैः सर्वदा आकाशस्य द्रव्याभावमात्ररूपधारणवदनाधेयानपनेयस्वरूपधारणाद्धर्माणां क्षणिकानां ज्ञानमात्ररूपाणां ज्ञेयलक्षणानाञ्च यदि परमार्थतो विद्यमानता स्यात्तदा प्रतिपक्षभावनया आकाशस्येव तेषां न किञ्चित्क्रियते । अतो भावाभिनिवेशविपर्यासाविनिवृत्या यद्भगवतः सर्वथाः ज्ञेयावरणप्रहाणं धर्माणाञ्च यत्सत्तोपगम्यते परैः तत्परस्परविरुद्धार्थाभ्युपगमे विस्मयस्थानीयं भवेत् ।

इत्येवं भावपक्षं निराकृत्य निःस्वभावपक्षदृढीकारेण मुमुक्षुभिरिदमेवाङ्गीकर्त्तव्यमित्यन्तरश्लोकेन स्थानपक्षमाह -

नापनेयमतः किञ्चित्पक्षेप्तव्यं न किञ्चन ।
द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते ॥ ५.२१ ॥

इति । यस्मादेवं भावाभिनिवेशेन मुक्तेरनुपपत्तिरतो अपवादसमारोपरूपमपनयनप्रक्षेपं कस्यचिद्धर्मस्याकृत्वा इदमेव प्रतीत्यसमुत्पन्नं संवृत्या तथ्यरूपं रूपादिनिःस्वभावादिरूपतो निरूपणीयम्, एवञ्च मायागजेन अपरमायागजपराजयवद्विपर्यासनिवृत्या तत्वदर्शी विमुच्यत इति ।

इत्येवं प्रासङ्गिकमभिधाय प्रकृतं दर्शनमार्गमाह -

एकैकस्यैव दानादै तेषां यः सङ्ग्रहो मिथः ।
स एकक्षणिकः क्षान्तिसङ्गृहीतोऽत्र दृक्पथः ॥ ५.२२ ॥

इति । दानादिषट्पारमितानां प्रत्येकमेकैकभावे दानादौ यः परस्परं सर्वपारमितासङ्ग्रहः, सोऽत्रैकक्षणिको मूर्धाभिसमये दुःखधर्मज्ञानक्षान्तिसंगृहीतः त्रिमण्डलविशुद्धिप्रभावितः षट्त्रिंशदाकारनिर्जातो दर्शनमार्गः ।

अस्मिंश्च (दर्शनमार्गे) समुत्पन्ने कामरूपारूप्यधातुभेदेन प्रत्येकं चतुर्विकल्पनवप्रकारतया अष्टोत्तरशतग्राह्यग्राहकविकल्पप्रहाणेन तत्संगृहीतविकल्पजनकवासनाक्लेशाष्टोत्तरशतप्रहाणं प्रतीत्यसमुत्पादधर्मतयोपलभ्यते ।

तत्र वशित्वार्थं तामेव पुनः पुनर्भावयतीति अन्तरश्लोकेनाह -

स समाधिं समापद्य ततः सिंहविजृम्भितम् ।
अनुलोमं विलोमञ्च प्रतीत्योत्पादमीक्षते ॥ ५.२३ ॥

इति । स दर्शनमार्गप्राप्तो योगी क्लेशज्ञेयावरणभयाभावात्सिंहविजृम्भितं (नाम) समाधिं समापद्य उत्तरकालमविद्याप्रत्ययाः संस्कारा इत्याद्यनुलोमं जरामरणनिरोधो जातिनिरोधादित्यादिप्रतिलोमं प्रतीत्यसमुत्पादं निरूपयति ।

६ - भावनामार्गः (मूर्धप्रयोगः)

दर्शनमार्गमेवमभिधाय विपक्षप्रहाणादिकमाधारप्रतिपत्तिपूर्वकं सुबोधमिति आधारं भावनामार्गमाह -

कामाप्तमवधीकृत्य विज्ञानमसमाहितम् ।
सनिरोधाः समापत्तीर्गत्वागम्य नव द्विधा ॥ ५.२४ ॥
एकद्वित्रिचतुःपञ्चषट्सप्ताष्टव्यतिक्रमात् ।
अवस्कन्दसमापत्तिरनिरोधमतुल्यता ॥ ५.२५ ॥

इति । बोधिसत्त्वाः प्रथमध्यानमारभ्य यावन्निरोधं गत्वा ततो निरोधमारभ्य यावत्प्रथमध्यानमागम्य एवमनुलोमप्रतिलोम (क्रम)-द्वयेन चतुर्ध्यान चतुरारूप्यनिरोधलक्षणा नव समापत्तीर्गत्वा आगम्य पुनः प्रथमं ध्यानं समापद्य ततो व्युत्थाय निरोधम्, एवं यावन्नैवसंज्ञानासंज्ञायतनान्निरोधं समापद्य, ततो व्युत्थाय अनन्तरसमापत्तिमालम्ब्य कामावचरं विज्ञानं मर्यादारूपेणावस्थाप्य उपायकौशल्यबलेन व्युत्थाय तदेव विज्ञानमसमाहितमामुखीकृत्य, ततो निरोधं ततोऽसमाहितं ततो निरोधमेकं परित्यज्य नैवसंज्ञानासंज्ञायतनं ततोऽसमाहिं ततो द्वयं परित्यज्य आकिञ्चन्यायतनं ततोऽसमाहितम्, एवं यावदष्टौ परित्यज्य प्रथमं ध्यानं ततोऽसमाहितम्, इत्येकादिपरित्यागेनानिरोधसमापत्तिं यावद्विसदृशद्वारेण गच्छतीत्यतुल्यगामवस्कन्दसमापत्तिं वशित्वलक्षणामामुखीकृत्य भावनामार्गो भवति ।

भावनामार्गमेवमभिधाय तत्र प्रहेयः चतुर्विधो विपक्षो वक्तव्यः ।
प्रथमं तावद्ग्राह्यविकल्पमाह -

संक्षेपे विस्तरे बुद्धैः सानाथ्येनापरिग्रहे ।
त्रैकालिके गुणाभावे श्रेयसस्त्रिविधे पथि ॥ ५.२६ ॥

एको ग्राह्यविकल्पोऽयं प्रयोगाकारगोचरः ।

इति संक्षिप्तरूचिसत्त्वानुग्रहेण धर्मसंक्षेपे, विस्तररुचिसत्त्वानुकम्पया धर्मविस्तरे, यथाविहितार्थाननुष्ठानेन बुद्धसानाथ्यापरिग्रहे, समुत्पन्ननिरुद्धत्वेन प्रयोगमार्गगुणाभावे, सम्यगुत्पत्तिहेतुवैधुर्याद्दर्शनमार्गगुणाभावे, अनागतासत्त्वेन भावनामार्गगुणाभावे, विपर्यासशान्तत्वादिना निर्वाणप्रयोगमार्गे, शून्यताभिनिर्हारत्वेन दर्शनमार्गे, नैःस्वाभाव्यभावकत्वेन भावनामार्गे च प्रथमो ग्राह्यविकल्पः अस्यामवस्थायां प्रहेयत्वेन भावनामार्गप्रयोगावस्थायां नवविधो विषयी ।

प्रथममेवं निर्दिश्य द्वितीयं ग्राह्यविकल्पमाह -

द्वितीयश्चित्तचैत्तानां प्रवृत्तिविषयो मतः ॥ ५.२७ ॥
अनुत्पादस्तु चित्तस्य बोधिमण्डामनस्क्रिया ।
हीनयानमनस्कारौ सम्बोधेरमनस्कृतिः ॥ ५.२८ ॥
भावनेऽभावने चैव तद्विपर्यय एव च ।
अयथार्थश्च विज्ञेयो विकल्पो भावनापथे ॥ ५.२९ ॥

इति । कल्याणमित्रादिवैकल्याद्बोधिचित्तानुत्पादे, विशिष्टबुद्धालम्बनपुण्याभावाद्बोधिमण्डामनस्कारे, श्रावकगोत्रत्वात्तद्यानमनस्करणे, प्रत्येकबुद्धगोत्रत्वात्तद्यानामुखीकरणे, प्रज्ञापारमिताप्रतिपत्तिवैधुर्यात्सम्यक्सम्बोध्यमनस्करणे, सोपलम्भत्वेन भावनायां निरुपलम्भवत्त्वेन अभावनायाम्, अनुपलम्भाननुपलम्भत्वात्नभावनानाभावने, विपरीताभिनिवेशादयथार्थत्वे च द्वितीयो ग्राह्यविकल्पः तस्यामवस्थायां प्रहेयत्वेन भावनामार्गे चित्तचैत्तप्रवृत्यवस्थायां नवविधो विषयी ।

द्वितीयमेवं निर्दिश्य प्रथमं ग्राहकविकल्पमाह -

ग्राहकः प्रथमो ज्ञेयः सत्त्वप्रज्ञप्तिगोचरः ।
धर्मप्रज्ञत्यशून्यत्वसक्तिप्रविचयात्मकः ॥ ५.३० ॥
कृते च वस्तुनो यानत्रितये च स कीर्त्तितः ।
दक्षिणाया अशुद्धौ वा चर्यायाश्च विकोपने ॥ ५.३१ ॥

इति । द्रव्यसदनुपपत्त्या सत्त्वप्रज्ञप्तौ, प्रतिभासमात्रत्वात्(सर्व)-धर्मप्रज्ञप्तौ, सर्वत्रगत्वात्सर्वाकारज्ञतादिधर्माशून्यत्वे, सर्वथाभिनिवेशाप्रहाणाद्धर्मसक्तौ, निःस्वभावावबोधेन धर्मप्रविचये, समुद्देशाकरणेन वस्तूद्देशकरणे, रूपाद्युपलम्भत्वाद्यानत्रयनिर्याणे, सम्यगप्रतिपन्नत्वेन दक्षिणाशुद्धौ, दानाद्युपलम्भप्रतिषत्त्या चर्याविकोपने च पूर्ववद्ग्राहकविकल्पो भावनामार्गप्रयोगावस्थायां नवविधो विषयी ।

प्रथममेवं निर्दिश्य द्वितीयं ग्राहकविकल्पमाह -

सत्त्वप्रज्ञप्तितद्धेतुविषयो नवधाऽपरः ।
भावनामार्गसम्बद्धो विपक्षस्तद्विघाततः ॥ ५.३२ ॥

इति । विपक्षो द्वितीयो ग्राहकविकल्पः सत्त्वप्रज्ञप्तितद्व्यवस्थापनप्रतिभासमात्रहेतुविषयो भावनामार्गेण सम्प्रहेयत्वात्तत्सम्बद्धो नवप्रकारः ।

कथं नवप्रकार इति चेद्? द्वाभ्यामन्तरश्लोकाभ्यामाह -

सर्वज्ञतानां तिसृणां यथास्वं त्रिविधावृतौ ।
शान्तिमार्गतथतादिसंप्रयोगवियोगयोः ॥ ५.३३ ॥
असमत्वे च दुःखादौ क्लेशानां प्रकृतावपि ।
द्वयाभावे च संमोहे विकल्पः पश्चिमो मतः ॥ ५.३४ ॥

इति । सर्वाकारापरिज्ञानेन सर्वाकारज्ञतावरणसंमोहे, सर्वमार्गापरिज्ञानेन मार्गज्ञतावरणसंमोहे, सर्ववस्त्वपरिज्ञानेन सर्वज्ञतावरणसंमोहे, प्रज्ञापारमिताऽपरिज्ञानेन सर्वशान्तमार्गसंमोहे, तथताज्ञेयरूपाद्यपरिज्ञानेन तथतादिसंयोगवियोगसंमोहे, मारादिस्वरूपापरिज्ञानेन असमत्वसंमोहे, यथारूतार्थग्राहित्वेन दुःखादिसत्यसंमोहे, रागादिस्वभावापरिज्ञानेन क्लेशप्रकृतिसंमोहे, ग्राह्यग्राहकलक्षणापरिज्ञानेन अद्वयसंमोहे च पूर्ववत्पश्चिमो ग्राहकविकल्पो भावनामार्गचित्तचैत्तप्रवृत्त्यवस्थायां नवप्रकारो विषयी मतः ॥

तेषां भावनामार्गविपक्षाणां प्रहाणे चतुर्विधप्रतिपक्षोऽपि तद्भेदेन भिन्नोऽवगन्तव्यः ।

पूर्ववदष्टोत्तरशतविकल्पप्रहाणसमकालमेव तत्संगृहीताष्टोत्तरशतक्लेशानां प्रहाणेन सर्वगुणसम्पदो भावनामार्गस्थं बोधिसत्त्वमाश्रयन्त इति द्वाभ्यामन्तरश्लोकाभ्यामाह -

आसां क्षये सतीतीनां चिरायोच्छ्वसिता इव ।
सर्वाकारजगत्सौख्यसाधना गुणसम्पदः ॥ ५.३५ ॥
सर्वाः सर्वाभिसारेण निकामफलशालिनम् ।
भजन्ते तं महासत्त्वं महोदधिमिवापगाः ॥ ५.३६ ॥

इति । भावनामार्गाभ्यासादासां चतुर्विकल्पजातीनामुपद्रवत्वेन इतीनां क्षये सति संरोधवैकल्येन संहर्षोच्छ्वासप्राप्ता इव सर्वास्त्रियानसंगृहीता गुणसम्पदः कृपापारतन्त्र्यात्सर्वप्रकारजगत्सौख्योत्पादनदक्षा सर्वथाभिमुख्यागमनप्रकारेण प्रकर्षपर्यन्ताधिगमफलैः प्रातशोभं भावनामार्गस्थं बोधिसत्त्वमाश्रयन्ते महासमुद्रमिव नद्य इति ।

७ - आनन्तर्यसमाधिः (मूर्धप्रयोगः)

भावनामार्गानन्तरमानन्तर्यमार्गमाह -

त्रिसाहस्रजनं शिष्यखड्गाधिगमसंपदि ।
बोधिसत्त्वस्य च न्यामे प्रतिष्ठाप्य शुभोपमाः ॥ ५.३७ ॥
कृत्वा पुण्यबहुत्वेन बुद्धत्वाप्तेरनन्तरः ।
आनन्तर्यसमाधिः स सर्वाकारज्ञता च तत् ॥ ५.३८ ॥

इति । श्रावकप्रत्येकबुद्धबोधिसत्त्वानां न्यामे त्रिसाहस्रमहासाहस्रलोकधातवीयसत्त्वान् प्रतिष्ठाप्य कश्चिद्यत्पुण्यं प्रस्रवति, तदुपमीकृत्य तद्विशिष्टपुण्यबहुत्वेन या सर्वाकारज्ञता तद्बुद्धत्वमिति बुद्धत्वप्राप्तेरव्यवहितो यः समाधिः सोऽत्रानन्तर्यसमाधिः ।

तदालम्बनादयः कीदृशा इति चेद्? अन्तरश्लोकेन आलम्बनादीनाह -

आलम्बनमभावोऽस्य स्मृतिश्चाधिपतिर्मतः ।
आकारः शान्तता चात्र जल्पाजल्पिप्रवादिनाम् ॥ ५.३९ ॥

इति । अस्य चानन्तर्यसमाधेः सर्वधर्माभावोपलब्धिः आलम्बनप्रत्ययः, स्मरणं चाधिपरिप्रत्ययः, प्रकृतिशान्तता चाकारः । अत्र च स्थाने दुरवगाहत्वादविदितोपायकौशलानां प्रवादिनां (नाना)-चोद्यमुखपरम्पराप्रसर्पिणी (विप्रतिपत्तिः) इति उपायकौशलेन सा निराकर्तव्येति । अनेनास्य गभीरता अभिहितेत्यभिप्रायः ।

८ - विप्रतिपत्तिः (मूर्धप्रयोगः)

विपर्यस्तमतीनां कीदृशीः विप्रतिपत्तीः निराकृत्य स समाधिरुत्पादयितव्य इति चेत्? समाधेरनन्तरं विप्रतिपत्तीराह -

आलम्बनोपपत्तौ च तत्स्वभावावधारणे ।
सर्वाकारज्ञताज्ञाने परमार्थे ससंवृतौ ॥ ५.४० ॥
प्रयोगे त्रिषु रत्नेषु सोपाये समये मुनेः ।
विपर्यासे समार्गे च प्रतिपक्षविपक्षयोः ॥ ५.४१ ॥
लक्षणे भावनायाञ्च मता विप्रतिपत्तयः ।
सर्वाकारज्ञताधारा षोढा दश च वादिनाम् ॥ ५.४२ ॥

इति संस्कृतासंस्कृतधात्वोरभावत्वेन आलम्बनोपपत्तौ, सर्वथा नीरूपत्वादालम्बनस्वभावावधारणे, भावाभावानुपलम्भेन सर्वाकारज्ञताज्ञाने, तथतास्वभावत्वेन संवृतिपरमार्थसत्यद्वये, दानाद्यनुपलम्भेन प्रयोगे, बोद्धव्याभावाद्बुद्धरत्ने, नामधेयमात्रत्वाद्धर्मरत्ने, रूपाद्यालम्बनप्रतिषेधात्संघरत्ने, दानाद्यनुपलम्भेन उपायकौशले, भावाभावोभयरूपाधिगमप्रतिषेधात्तथागताभिसमये, प्रपञ्चव्यवस्थापितानित्यादित्वेन नित्यादिविपर्यासे, विभावितमार्गफलासाक्षात्करणेन मार्गे, हानोपादानाभावेन विपक्षे प्रतिपक्षे च, धर्म्यभावाद्धर्मलक्षणे, स्वसामान्यलक्षणानुपपत्त्या भावनायाञ्च परस्परविरुद्धा भाषार्थानुष्ठानेन अयुज्यमानतया संशयरूपाः षोडश विप्रतिपत्तीर्यथानिर्दिष्टविषयत्वेन सर्वाकारज्ञताधिष्ठानाः सर्वेषामेव अविदितबोधिसत्त्वोपायकौशलजनप्रवादिनां यथासम्भवमुभयसत्याश्रितोपायकौशलेन निराकृत्य सम्यक्सर्वथा निश्चयमुत्पाद्य कल्याणकामैर्बोधिसत्त्वैरानन्तर्यसमाधिरधिगम्यत इति ।

इति अभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे पञ्चमाधिकारवृत्तिः ।


________________________________________________________________

आनुपूर्विकाधिकारः षष्ठः

[सम्पाद्यताम्]

प्राप्तमूर्धाऽभिसमयो व्यस्तसमस्तत्वेन अधिगतानर्थाननुपुर्वीकृत्य स्थिरीकरणाय विभावयतीत्यनुपूर्वाभिसमयमाह -

दानेन प्रज्ञया यावद्बुद्धादौ स्मृतिभिश्च सा ।
धर्माभावस्वभावेनेत्यनुपूर्वक्रिया मता ॥ ६.१ ॥

इति । त्रिमण्डलविशुद्धिप्रभावितदानादिषट्पारमितासर्वाकारपरिपूरणेन प्रज्ञापारमितान्तर्गतपारमिताचतुष्टयत्वात्सम्यग्दशभूमिनिष्पादकेन स्मृत्युपस्थानादिना सप्तबोध्यङ्गाकारेण आर्याष्टाङ्गमार्गतया च परमार्थतः अस्मरणलक्षणेन त्रिविधबुद्धानुस्मरणेन यथाक्रमं निर्वेधभागीयदर्शनभावनामार्गद्योतकेन तथैव कुशलाकुशलाव्याकृतधर्मानुस्मरणेन पूर्ववदार्यावैवर्तिकबोधिसत्त्वसंघस्मरणेन तथैव शीलत्यागदेवतानुस्मरणेन रूपादिसर्वधर्माभावे स्वभावावबुद्धेन च योऽधिगमः सानुपूर्वक्रियेष्यत इहेति ।

इति अभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे षष्ठाधिकारवृत्तिः ।


________________________________________________________________

एकक्षणाभिसम्बोधाधिकारः सप्तमः

[सम्पाद्यताम्]

विभावितानुपूर्वाभिसमयस्य स्वभ्यस्तीकरणाय तेषामेव क्षणेनैकेनाधिगम इत्येकक्षणाभिसम्बोधः । सोऽपि लक्षणेन चतुर्विध इति ।

१ - अविपाकलक्षणः

अविपाकानास्रवसर्वधर्मैकक्षणलक्षणेन प्रथम एकक्षणाभिसम्बोधः । इत्याह -

अनास्रवाणां सर्वेषामेकैकेनापि संग्रहात् ।
एकक्षणावबोधोऽयं ज्ञेयो दानादिना मुनेः ॥ ७.१ ॥

धर्मधातुस्वभावरूपे -

एको भावः सर्वभावस्वभावः सर्वे भावा एकभावस्वभावाः ।
एको भावस्तत्त्वतो येन दृष्टः सर्वे भावास्तत्त्वतस्तेन दृष्टाः ॥

इतिन्यायान्न केवलं बहुभिरेकस्य संग्रहः, अपि त्वेकक्षणदानादिज्ञानेन आलम्ब्यमानेन अपगतप्रतिनियतवस्तुग्रहणविपर्ययरूपेण दानाद्यशीत्यनुव्यञ्जनलक्षणानां धर्माणां संग्रहेण मुनेः बोधिसत्त्वस्यावबोधो हि एकक्षणाभिसम्बोध इति ज्ञातव्यः ।

किमेवं पुनरेकानास्रवज्ञानालम्बने सर्वानास्रवसंग्रह इति चेत्? लौकिकदृष्टान्तेनाह -

अरघट्टं यथैकापि पदिका पुरुषेरिता ।
सकृत्सर्वं चलयति ज्ञानमेकक्षणे तथा ॥ ७.२ ॥

इति । यथैकापि पदिका पुरुषेरिता सकृदेकवारं सर्वमरघट्टं सच्छिल्पिपूर्वपरिकर्मसामर्थ्यात्चलयति तथा पूर्वप्रणिधानावेधधर्मधातुसामर्थ्यादेकस्मिन्नेव क्षणे एकमनास्रवमालम्ब्यमानं सर्वं सजातीयमभिमुखीकारयतीति ।

२ - विपाकलक्षणः

एवं प्रथमं निर्दिश्य विपाकधर्मतावस्थानास्रवसर्वधर्मैकक्षणलक्षणो भवत्येकक्षणाभिसम्बोधो द्वितीयः । इत्याह -

विपाकधर्मतावस्था सर्वशुक्लमयी यदा ।
प्रज्ञापारमिता जाता ज्ञानमेकक्षणे तदा ॥ ७.३ ॥

यदा बोधिसत्त्वस्य प्रतिपक्षभावनया सर्वविपक्षापगमनेन सकलव्यवदानपक्षविपाकधर्मतावस्था सर्वकलङ्कापगमेन शरदिन्दुज्योत्स्नावत्शुक्लस्वभावा जाता तदा एकस्मिन्नेवक्षणे विपाकावस्थाप्राप्तानामनास्रवधर्माणां बोधात्ज्ञानं प्रज्ञापारमिता एकक्षणाभिसम्बोध इति ।

३ - अलक्षणलक्षणः

द्वितीयमेवं निर्दिश्य अलक्षणसर्वधर्मैकक्षणलक्षणः एकक्षणाभिसम्बोधस्तृतीयः । इत्याह -

स्वप्नोपमेषु धर्मेषु स्थित्वा दानादिचर्यया ।
अलक्षणत्वं धर्माणां क्षणेनैकेन विन्दति ॥ ७.४ ॥

पूर्वं स्वप्नोपमसर्वधर्माभ्यासेन सम्भारद्वयमनुभूय अधिगमावस्थायां स्वप्नस्वभावेषु सर्वधर्मेषु उपादानस्कन्धादिषु स्थित्वा दानादिषट्पारमिताप्रतिपत्त्या दानादिरूपनिरूपणाकारेण अलक्षणाः सर्वधर्मा इति संक्लेशव्यवदानरूपाणां धर्माणामेकेनैव क्षणेनालक्षणत्वं जानातीत्येवमेकक्षणाभिसम्बोधः ।

४ - अद्वयलक्षणः

तृतीयमेवं निर्दिश्य अद्वयलक्षणसर्वधर्मैकक्षणलक्षणः एकक्षणाभिसम्बोधश्चतुर्थः । इत्याह -

स्वप्नं तद्दर्शिनञ्चैव द्वययोगेन नेक्षते ।
धर्माणामद्वयं तत्त्वं क्षणेनैकेन पश्यति ॥ ७.५ ॥

निरन्तरदीर्घकालद्वयप्रतिभासप्रहाणाभ्याससात्मीभावादुन्मूलितद्वयप्रतिभासवासनो यदा बोधिसत्त्वो ग्राह्यग्राहकयोगेन स्वप्नं ग्राह्यं स्वप्नदशिंनं ग्राहकं नेक्षते, तदा सर्वेऽप्वेवंधर्माणो धर्मा इति धर्माणामद्वयं तत्त्वमेकेनैव क्षणेनाधिगच्छतीत्येकक्षणाभिसम्बोध इति ।

इति अभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे सप्तमाधिकारवृत्तिः ।


________________________________________________________________


धर्मकायाधिकारः अष्टमः

[सम्पाद्यताम्]

१ - स्वभावकायः

विभावितैकक्षणाभिसम्बोधस्य द्वितीये क्षणे धर्मकायाभिसम्बोधः । स च स्वाभाविककायादिभेदेन चतुर्विधः । (तत्र) प्रथमः स्वाभाविककाय इत्याह -

सर्वाकारां विशुद्धिं ये धर्माः प्राप्ता निरास्रवाः ।
स्वाभाविको मुनेः कायस्तेषां प्रकृतिलक्षणः ॥ ८.१ ॥

स्मृत्युपस्थानादयो ज्ञानात्मका लोकोत्तरा धर्मधातुरूपत्वादनास्रवामलानामागन्तुकत्वेन सर्वप्रकारां विशुद्धिं प्रकृतिविविक्तलक्षणां प्राप्तास्तेषां या प्रकृतिः स्वभावोऽनुत्पादरूपः, अयं मुनेर्बुद्धस्य भगवतो लोकोत्तरेण मार्गेण प्राप्यते, न क्रियत इत्यकृत्रिमार्थेन मायोपमविज्ञानसर्वधर्मप्रतिपत्त्याधिगतः स्वाभाविकः कायः ।

परिशिष्टकायत्रयं तथ्यसंवृत्या प्रतिभासमानं परमार्थतो धर्मतारूपं यथाधिमोक्षप्रभावितं बुद्धबोधिसत्त्वश्रावकादिगोचरत्वेन व्यवस्थापितमिति कथनाय -

विविक्ताव्यतिरेकित्वं विवेकस्य यतो मतम् ।

इतिन्यायात्तदव्यतिरेकेऽपि पृथग्व्यवस्थाप्यते ।

२ - ज्ञानधर्मकायः

इत्थं प्रथमं कायं निर्दिश्य द्वितीयो निष्प्रपञ्चज्ञानात्मको धर्मकायः अनास्रवः स्मृत्युपस्थानाद्यात्मक इति तमाह -

बोधिपक्षाप्रमाणानि विमोक्षा अनुपूर्वशः ।
नवात्मिका समापत्तिः कृत्स्नं दशविधात्मकम् ॥ ८.२ ॥
अभिभ्वायतनान्यष्टप्रकाराणि प्रभेदतः ।
अरणा प्रणिधिज्ञानमभिज्ञाः प्रतिसंविदः ॥ ८.३ ॥
सर्वाकाराश्चतस्रोऽथ शुद्धयो वशिता दश ।
बलानि दश चत्वारि वैशारद्यान्यरक्षणम् ॥ ८.४ ॥
त्रिविधं स्मुत्युपस्थानं त्रिधाऽसंमोषधर्मता ।
वासनायाः समुद्धातो महतो करुणा जने ॥ ८.५ ॥
आवेणिका मुनेरेव धर्मा येऽष्टादशेरिताः ।
सर्वाकारज्ञता चेति धर्मकायोऽभिधीयते ॥ ८.६ ॥

इति । स्मृत्युपस्थानाद्यारभ्य आर्याष्टाङ्गमार्गपर्यन्ता बोधिपक्षाः । पूर्ववदप्रमाणानि मैत्र्यादिचतुर्ब्रह्मविहाराः । अध्यात्मं रूप्यरूपी बहिर्धा रूपाणि पश्यतीति द्वौः, शुभं विमोक्षं कायेन साक्षात्कृत्वोपम्पद्य विहरतीत्येकः, आकाशविज्ञानाकिञ्चन्यनैवसंज्ञानासंज्ञायतनानीति चत्वारः, संज्ञावेदितनिरोध इत्येकः इत्यष्टौ विमोक्षाः । रूपधातुचतुर्ध्यानानि चतुरारूप्यसमापत्तयो निरोधसमापत्तिरिति नव समापत्तयः । पृथिव्यप्तेजोवायुनीलपीतलोहितावदातविज्ञानाकाशमिति कृत्स्नं दशविधम् । अध्यात्मरूपारूपसंज्ञिनौ प्रत्येकं परीत्ताधिमात्राकाराभ्यां बहिर्धा रूपाणि पश्यतस्तान्यभिभूय जानीत इति चतुष्टयम्, अध्यात्मारूपसंज्ञी एव नीलपीतलोहितावदातानभिभूय पश्यतीति चतुष्टयमित्यष्टविधमभिभ्वायतनम् । परसन्तानगतक्लेशरणप्रबन्धोन्मूलनात्समाधिरित्यरणा । सम्यगपगतसर्वनिमित्तसङ्गव्याघातं संशयापनयनकारिप्रणिधानसमृद्ध्या आसंसारमसमाहितावस्थायां प्रवर्तत इति प्रणिधिज्ञानम्, षडभिज्ञाश्चतस्रश्च प्रतिसविदः पूर्वोक्ता आश्रयालम्बनचित्तज्ञानपरिशुद्धय इति चतस्रः शुद्धयः । आयुश्चित्तपरिष्कारकर्मोपपत्त्यधिमुक्तिप्रणिधानर्द्धिज्ञानधर्मवशिता इति दश वशिताः । पूर्वोक्तानि दश बलानि, चत्वारि वैशारद्यानि च । परिशुद्धकायवाङ्मनःसमुदाचारस्तथागतः, नास्त्यस्य विपरीतसमुदाचारता, यां परपरिज्ञानभयात्प्रच्छादयितव्यां मन्येत इत्यरक्षणं त्रिविधम् । धर्मदेशनायां श्रोतुकामाश्रोतुकामोभयकामेषु यथाक्रममनुनयप्रतिघोभयविविक्त एवोपक्षेकः स्मृतिमान् विहरतीति स्मृत्युपस्थानं त्रिधा । सत्त्वार्थक्रियाकालानतिक्रमलक्षणेत्यसंमोषधर्मता । क्लेशज्ञेयावरणानुशयरूपबीजप्रहाणाद्वासनायाः समुद्धातः सकलजनहिताशयता,
महती करुणा जनेऽष्टादशावेणिका बुद्धधर्मा सर्वाकारज्ञता ।ऽचऽ इति शब्देन संगृहीताः मार्गज्ञतादयोऽपि प्रागुक्ताः ।

सर्वे चाश्रयपरावृत्त्या परावृत्ता बोधिपक्षादयो निष्प्रपञ्चज्ञानात्मका धर्मकायोऽभिधीयत इति केचित् ।

अन्ये तु -

सर्वाकारां विशुद्धिं ये धर्माः प्राप्ता निरास्रवाः ।
स्वाभाविको मुनेः कायस्तेषां प्रकृतिलक्षणः ॥

इति यथारुतत्त्वेन लोकोत्तरानेवानास्रवान् धर्मानभ्युपगम्य तेषां यां प्रकृतिरनुत्पादता तल्लक्षणः स्वाभाविकः कायः, स एव च धर्मताकायो धर्मकाय इति भावप्रत्ययलोपाद्व्यपदिश्यत इति व्याख्याय, के पुनस्तेऽनास्रवा धर्मा येषां प्रकृतिलक्षणो धर्मकाय इत्याशङ्क्यऽबोधिपक्षाप्रमाणानीऽ त्यादिकारिकामवतारयन्ति । तेषां योगिसंवृत्या विशिष्टार्थप्रतिभासजननद्वारेणाश्रयपरावृत्त्या परावृत्ता धर्मदेशनाद्यर्थक्रियाकारिणोऽवश्यमद्वयाश्चित्तचैताः कथमभ्युपगन्तव्याः? सङ्गृहीता इत्यपरे ।

केचित्(कायचतुष्टयव्याख्याने) -

स्वाभाविकः ससाम्भोगो नैर्माणिकोऽपरस्तथा ।
धर्मकायः सकारित्रश्चतुर्धा समुदीरितः ॥

इतिकारिकायां स्वाभाविकशब्दानन्तरं धर्मकायशब्दस्यापाठात्कायत्रयमेवेति । अन्ये तूपदर्शितप्रयोजनसामर्थ्यात्कारिकाबन्धानुरोधेन ज्ञानस्यैव कारित्रेण सम्बन्धार्थं चैवमुक्तम्, अतोऽविरुद्धं सर्वं प्रदेशान्तराभिहितं कायचतुष्टयं भवतीति ।

श्रावकाद्यरणासमाधेः बुद्धस्यारणासमाधेः वैशिष्ट्यदर्शनाय अन्तरश्लोकेनाह -

श्रावकस्यारणादृष्टेर्नृक्लेशपरिहारिता ।
तत्क्लेशस्रोतौच्छित्त्यै ग्रामादिषु जिनारणा ॥ ८.७ ॥

इति । माऽस्मद्दर्शनात्कस्यचित्क्लेशोत्पत्तिः स्यादिति मनुष्यक्लेशोत्पत्तिपरिहारिता श्रावकाद्यरणासमाधिः । तथागतानां तु सकलजनक्लेशप्रबन्धोन्मूलनं स्यादिति ग्रामादिषु अरणासमाधिविशेषः ।

श्रावकादिप्रणिधिज्ञानात्तथागतप्रणिधिज्ञानस्य वैशिष्ट्यप्रदर्शनाय अन्तरश्लोकेनाह -

अनाभोगमनासङ्गमव्याघातं सदा स्थितम् ।
सर्वप्रश्नापनुद्बौद्धं प्रणिधिज्ञानमिष्यते ॥ ८.८ ॥

इति । निर्निमित्तत्वेन स्वरसप्रवृत्तम्, वस्त्वनभिनिवेशाद्रूपादिसङ्गविगतम्, सवासनक्लेशज्ञेयावरणप्रहाणात्सर्वज्ञेयाव्याघातम्, आसंसारमवस्थानात्सदा स्थितम्, सम्यक्प्रतिसंविल्लाभात्प्रश्नविसर्जनकारि ताथागतं प्रणिधिज्ञानमितीष्टम् । श्रावकादीनां विपरीतत्वेन नैवम् ।

स्यादेवं नित्यं महाकरुणामयधर्मकायावस्थाने कथं (सकलप्राणभृतां) सदा नाथेक्रियेति? अन्तरश्लोकेन समाधानमाह -

परिपाकं गते हेतौ यस्य यस्य यदा यदा ।
हितं भवति कर्तव्यं प्रथते तस्य तस्य सः ॥ ८.९ ॥

इति । कल्याणमित्रादिसमवधानाद्बुद्धाद्यालम्बने परिपोषं गते हेतौ पूर्वावरोपितकुशलमूलबीजे सति, यस्य सत्त्वस्य यस्मिन् काले धर्मदेशनादिकं क्रियमाणमायतिपथ्यं भवति, तदा तस्यार्थकरणाय पूर्वप्रणिधानसमृद्ध्या तत्प्रतिभासानुरूपेणार्थक्रियाकारी भगवानिति (महाकरुणास्वभावधर्मकायावस्थानेन) सर्वदा चिन्तामणिरिवोपस्थितोऽपि स्वकर्मापराधजनितहेतुवैधुर्यान्न फलदायकः प्रतिभासत इत्यभिप्रायः ।

तत्कथमिति शंकायामन्तरश्लोकेन दृष्टान्तमाह -

वर्षत्यपि हि पर्जन्ये नैव बीजं प्ररोहति ।
समुत्पादेऽपि बुद्धानां नाभव्यो भद्रमश्नुते ॥ ८.१० ॥

इति । यथा देवराजे वर्षत्यपि सति पूतीभावादिना अबीजीभूतं बीजं तिलादि न प्रादुर्भवति, तद्वद्बुद्धानां सकलमनोरथपरिपूरणदक्षाणां समुत्पादेऽपि अभव्यो न भद्रं सद्धर्मश्रवणादिकं प्राप्नोतीति ।

कथं ज्ञानात्मको धर्मकायः प्रतिनियतयोगिसन्तानाधारवर्ती प्रतिक्षणमुत्पद्यमानो व्यापो नित्य इति कथ्यत इति चेद्? अन्तरश्लोकेनाह -

इति कारित्रवैपुल्याद्बुद्धो व्यापी निरूच्यते ।
अक्षयत्वाच्च तस्यैव नित्य इत्यपि कथ्यते ॥ ८.११ ॥

इति । यथोक्तन्यायेनैवं सर्वत्र प्रतिभासद्वारेणार्थक्रियाकरणवैपुल्यात्प्रबन्धतया आसंसारमवस्थानेन च भगवतः क्षयाभावाद्यथाक्रमं बुद्धो व्यापी नित्य इत्यभिधीयते ।

३ - सम्भोगकायः

कायद्वयमेवं निर्दिश्य लक्षणानुव्यञ्जनविराजितः साम्भोगिकः रूपकायस्वभावस्तृतीयः । तमाह -

द्वात्रिंशल्लक्षणाशीतिव्यञ्जनात्मा मुनेरयम् ।
सांभोगिको मतः कायो महायानोपभोगतः ॥ ८.१२ ॥

इति । द्वात्रिंशल्लक्षणाशीत्यनुव्यञ्जनात्मकोऽयं दशभूमिप्रविष्टमहाबोधिसत्त्वैः परमानवद्यमहायानधर्मसंभोगप्रीतिसुखोपभोगात्बुद्धस्य भगवतः साम्भोगिककायः ।

कानि तानि द्वात्रिंशल्लक्षणानीति चेत्? पञ्चभिरन्तरश्लोकैराह -

चक्राङ्कहस्तः क्रमकूर्मपादो जालावनद्धाङ्गुलिपाणिपादः ।
करौ सपादौ तरुणौ मृदू च समुत्सदैः सप्तभिराश्रयोऽस्य ॥ ८.१३ ॥
दीर्घाङ्गुलिर्व्यायतपार्ष्णिगात्रं प्राज्यं त्वृजूच्छङ्खपदोर्ध्वरोमा ।
एणेयजङ्घश्च पटूरुबाहुः कोशावनद्धोत्तमबस्तिगुह्यः ॥ ८.१४ ॥
सुवर्णवर्णः प्रतनुच्छविश्च प्रदक्षिणैकैकसुजातरोमा ।
ऊर्णाङ्कितास्यो हरिपूर्वकायः स्कन्धौ वृतावस्य चितान्तरांसः ॥ ८.१५ ॥
हीनो रसः ख्याति रसोत्तमोऽस्य न्यग्रोधवन्मण्डलतुल्यमूर्तिः ।
उष्णीषमूर्धा पृथुचारुजिह्वो ब्रह्मस्वरः सिंहहनुःसुशुक्लाः ॥ ८.१६ ॥
तुल्याः प्रमाणेऽविरलाश्च दन्ता अन्यूनसंख्या दशिकाश्चतस्रः ।
नीलेक्षणो गोवृषपक्ष्मनेत्रो द्वात्रिंशदेतानि हि लक्षणानि ॥ ८.१७॥

इति । (१) गुरूणामनुगमनप्रत्युद्गमनादिना चक्राङ्कहस्तपादता ।
(२) दृढसंवरसमादानत्वात्कूर्मवत्सुप्रतिष्ठितपादता ।
(३) चतुःसंग्रहवस्तुसेवनाद्राजहंसवत्जालावनद्धाङ्गुलिपाणिपादता ।
(४) प्रणीतखाद्यभोज्यादिदानाद्मृदुतरुणहस्तपादता ।
(५) प्रणीततरलेह्यादिदानेन समुच्छ्रितहस्तपादस्कन्धग्रीवाप्रदेशत्वात्सप्तोच्छ्रयता ।
(६) वध्यमोक्षणत्वाद्दीर्घाङ्गुलिता ।
(७) जीवितानुग्रहणादायतपार्ष्णिता ।
(८) प्राणातिपातविरत्या बृहदृजुगात्रता ।
(९) कुशलधर्मसमादानादुच्छङ्खपादता ।
(१)) गृहीतकुशलसमादानवर्धनातूर्ध्वगरोमता ।
(११) सत्कृत्य विद्याशिल्पादिदानादेणेयजङ्घता ।
(१२) संविद्यमानार्थयाचनकजनाप्रत्याख्यानात्पटूरूबाहुता ।
(१३) सर्वजनब्रह्मचर्यसमादापनगुह्यमन्त्रारक्षणात्कोशगतबस्तिगुह्यता ।
(१४) प्रणीतोपास्तरणदानात्सुवर्णवर्णता ।
(१५) प्रासादादिवरदानात्श्लक्ष्णच्छविता ।
(१६) सङ्गणिकादिपरिवर्जनात्प्रदक्षिणावर्तैकैकरोमता ।
(१७) सर्वगुरुजनयथास्थाननिवेशनादूर्णाङ्कितमुखता ।
(१८) सर्वथा मुखरवचनानवसादनात्सिंहपूर्वार्द्धकायता ।
(१९) प्रियवादित्वसुभाषितानुलोमत्वात्सुसंवृतस्कन्धता ।
(२०) भैषज्यादिदानात्चितान्तरांसता ।
(२१) ग्लानजनोपस्थानाद्रसरसाग्रता ।
(२२) वनारामादिकरणसमादापनात्न्यग्रोधपरिमण्डलता ।
(२३) विहाराद्यभ्यधिकप्रदानादुष्णीषशिरस्कता ।
(२४) श्लक्ष्णादिवचनात्प्रभूतजिह्वता ।
(२५) सर्वलोकधातुसत्त्वसद्धर्मविज्ञपनाद्ब्रह्मस्वरता ।
(२६) सम्भिन्नप्रलापविरत्या सिंहहनुता ।
(२७) सर्वजनसम्मानादिना शुक्लदन्तता ।
(२८) विशुद्धाजीवत्वात्समदन्तता ।
(२९) सत्यवचनसमुदाचारादविरलदन्तता ।
(३०) पिशुनवचनानभ्यासात्समचत्वारिंशद्दन्तता ।
(३१) सर्वसत्त्वैकपुत्रदर्शनादभिनीलनेत्रता ।
(३२) प्रतिघातादिविवेकदर्शनाद्गोपक्ष्मनेत्रता ।

सिद्धकरणात्लक्षणं सिद्धं भवतीत्यन्तरश्लोकेनाह -

यस्य यस्यात्र यो हेतुर्लक्षणस्य प्रसाधकः ।
तस्य तस्य प्रयूर्यायं समुदागमलक्षणः ॥ ८.१८ ॥

इति । येषां लक्षणानां ये प्रसाधकाः, तान् प्रपूर्य तानि द्वात्रिंशल्लक्षणानि प्रादुर्भवन्ति ।

कानि तेषां कारणानीति चेत्? द्वाभ्यामन्तरश्लोकाभ्यामाह -

गुरूणामनुयानादिर्दृढता संवरं प्रति ।
सङ्ग्रहासेवनं दानं प्रणीतस्य च वस्तुनः ॥ ८.१९ ॥
वध्यमोक्षसमादानं विवृद्धिः कुशलस्य च ।
इत्यादिको यथासूत्रं हेतुर्लक्षणसाधकः ॥ ८.२० ॥

इति । इमे द्वे कारिके उपर्येव लक्षणव्याख्यानावसरे स्फुटिते, अतो न पुनः विस्तीर्येत इति ।

लक्षणान्येवं व्याख्याय द्वादशभिः अन्तरश्लोकैः अशीत्यनुव्यञ्जनान्याह -

ताम्राः स्निग्धाश्च तुङ्गाश्च नखा अंगुलयो मुनेः ।
वृत्ताश्चितानुपूर्वाश्च गूढा निर्ग्रन्थयः शिराः ॥ ८.२१ ॥
गूढौ गुल्फौ समौ पादौ सिंहेभद्विजगोपतेः ।
विक्रान्तं दक्षिणं चारुगमनमृजुवृत्तता ॥ ८.२२ ॥
मृष्टानुपूर्वते मेध्यमृदुत्वे शुद्धगात्रता ।
पूर्वव्यञ्जनता चारूपृथुमण्डलगात्रता ॥ ८.२३ ॥
समक्रमत्वं शुद्धत्वं नेत्रयोः सुकुमारता ।
अदीनोत्सदगात्रत्वे सुसंहतनगात्रता ॥ ८.२४ ॥
सुविभक्ताङ्गता ध्वान्तप्रध्वस्तालोकशुद्धता ।
वृत्तमृष्टाक्षताक्षामकुक्षिताश्च गभीरता ॥ ८.२५ ॥
दक्षिणावर्तता नाभेः समन्ताद्दर्शनीयता ।
समाचारः शुचिः कालतिलकापगता तनुः ॥ ८.२६ ॥
करौ तूलमृदू स्निग्धगम्भीरायतलेखता ।
नात्यायतं वचो बिम्बप्रतिबिम्बौपमौष्ठता ॥ ८.२७ ॥
मृद्वी तन्वी च रक्ता च जिह्वा जीमूतघोषता ।
चारुमञ्जुस्वरो दंष्ट्रा वृत्तास्तीक्ष्णाः सिताः समाः ॥ ८.२८ ॥
अनुपूर्वीं गतास्तुङ्गा नासिका परमं शुचिः ।
विशाले नयने पक्ष्मचितं पद्मदलाक्षिता ॥ ८.२९ ॥
आयतश्लक्ष्णसुस्निग्धसमरोम्नौ भ्रुवौ भुजौ ।
पीनायतौ समौ कर्णावुपघातविवर्जितौ ॥ ८.३० ॥
ललाटमपरिम्लानं पृथुपूर्णोत्तमाङ्गता ।
भ्रभराभाश्चिताः श्लक्ष्णा असंलुलितमूर्तयः ॥ ८.३१ ॥
केशा अपरुषाः पुंसां सौरभ्यादपहारिणः ।
श्रीवत्सः स्वस्तिकञ्चेति बुद्धानुव्यञ्जनं मतम् ॥ ८.३२ ॥

इति । (१) सर्वसंस्कारवीतरागत्वेन ताम्रनखता ।
(२) सर्वसत्त्वहिताध्याशयत्वेन स्निग्धनखता ।
(३) श्रेष्ठवंशप्रभवत्वेन तुङ्गनखता ।
(४) वृत्तानवद्यत्वेन वृत्ताङ्गुलिता ।
(५) समुपचितकुशलमूलत्वेन चिताङ्गुलिता ।
(६) सम्यगनूपूर्वप्रवृतत्वेन अनुपूर्वाङ्गुलिता ।
(७) सुनिगूढकायादिकर्मान्ताजीवत्वेन गूढशिरता ।
(८) क्लेशग्रन्थिभेदकत्वेन निर्ग्रन्थिशिरता ।
(९) सुनिगूढधर्ममतित्वेन गूढगुल्फता ।
(१०) सर्वदुर्गस्थानजनोत्तारकत्वेन अविषमपादता ।
(११) नराभिभवनकुशलतया सिंहविक्रान्तगामिता ।
(१२) नागाभिभवनकुशलतया नागविक्रान्तगामिता ।
(१३) वैहायसङ्गमकुशलतया हंसविक्रान्तगामिता ।
(१४) पुरुषवृषभकुशलतया वृषभविक्रान्तगामिता ।
(१५) प्रदक्षिणमार्गानुयाततया प्रदक्षिणगामिता ।
(१६) प्रासादिककुशलतया चारुगामिता ।
(१७) नित्यमवक्रचित्ततया अवक्रगामिता ।
(१८) विशुद्धगुणाख्यापकतया वृत्तगात्रता ।
(१९) प्रमृष्टपापधर्मतया मृष्टगात्रता ।
(२०) विनेयानुरूपधर्मदेशकतया अनुपूर्वगात्रता ।
(२१) कायादिशुचिसमुदाचारत्वात्शुचिगात्रता ।
(२२) करुणाचित्तत्वात्मृदुगात्रता ।
(२३) विशुद्धचित्तत्वात्विशुद्धगात्रता ।
(२४) परिपूर्णधर्मविनयत्वात्परिपूर्णव्यञ्जनता ।
(२५) पृथुचारुगुणाख्यानात्पृथुचारुमण्डलगात्रता ।
(२६) सर्वत्र समचित्तत्वात्समक्रमता ।
(२७) सुविशुद्धधर्मदेशनाद्विशुद्धनेत्रता ।
(२८) सुगमधर्मदेशनात्सुकुमारगात्रता ।
(२९) नित्यमदीनचित्तत्वाददीनगात्रता ।
(३०) समुद्गतकुशलत्वादुत्सदगात्रता ।
(३१) क्षीणपुनर्भवत्वेन सुसंहतगात्रता ।
(३२) सुविभक्तप्रतीत्यसमुत्पाददेशकत्वेन सुविभक्ताङ्गप्रत्यङ्गता ।
(३३) सुविशुद्धपदार्थदर्शनाद्वितिमिरशुद्धालोकता ।
(३४) वृत्तसम्पन्नशिष्यसंवर्तनीयत्वेन वृत्तकुक्षिता ।
(३५) प्रमृष्टसंसारदोषत्वेन मृष्टकुक्षिता ।
(३६) भग्नमानशृङ्गत्वेन अभग्नकुक्षिता ।
(३७) धर्मक्षयविनिवर्तकत्वेन अक्षामकुक्षिता ।
(३८) प्रतिविद्धधर्मगम्भीरत्वेन गम्भीरनाभिता ।
(३९) प्रदक्षिणग्राहिशिष्यसंवर्तनीयत्वेन प्रदक्षिणावर्तनाभिता ।
(४०) समन्तप्रासादिकपरिवारसंवर्तनीयत्वेन समन्तप्रासादिकता ।
(४१) शुचिचित्तत्वेन शुचिसमुदाचारता ।
(४२) व्यपगताकालधर्मविनयत्वेन व्यपगततिलकालकगात्रता ।
(४३) कायादिलाघवप्रापकधर्मदेशकत्वेन तूलसदृशसुकुमारपाणिता ।
(४४) प्रतिलब्धस्निग्धमहाश्रमणत्वेन स्निग्धपाणिलेखता ।
(४५) गम्भीरधर्मस्थानत्वेन गम्भीरपाणिलेखता ।
(४६) सम्यगायतिपरिशुद्धधर्मदेशकत्वेन आयतपाणिलेखता ।
(४७) प्रचुरतरशिक्षादेशकत्वेन नात्यायतवचनता ।
(४८) प्रतिबिम्बवत्विदितसर्वलोकत्वेन बिम्बप्रतिबिम्बोपमौष्ठता ।
(४९) मृदुवचनविनयत्वेनमृदुजिह्वता ।
(५०) प्रभूतगुणोपपन्नत्वेन तनुजिह्वता ।
(५१) रक्तबालजनदुरवगाहधर्मविनयत्वेन रक्तजिह्वता ।
(५२) सर्वत्रासापगतत्वेन मेघगर्जितघोषता ।
(५३) मधुराद्यालापत्वेन मधुरचारुमञ्जुस्वरता ।
(५४) निवृत्तभवसंयोजनत्वेन वृत्तदंष्ट्रता ।
(५५) दुर्दान्तजनदमकत्वेन तीक्ष्णदंष्ट्रता ।
(५६) परमशुक्लधर्मविनयत्वेन शुक्लदंष्ट्रता ।
(५७) समभूतिप्रतिष्ठितत्वेन समदंष्ट्रता ।
(५८) सम्यगनुपूर्वाभिसमयप्रकाशकत्वेन अनुपूर्वदंष्ट्रता ।
(५९) प्रज्ञाप्रकर्षस्थापकत्वेन तुङ्गनासता ।
(६०) शुचिजनसम्पन्नत्वेन शुचिनासता ।
(६१) परमोदारधर्मत्वेनविशालनयनता ।
(६२) समुपचितसत्त्वराशित्वेन चित्तपक्ष्मता ।
(६३) सर्वयुवतिजनाभिनन्दित्वेन सितासितकमलदलनयनता ।
(६४) नित्यमायतिदर्शित्वेन आयतभ्रूकता ।
(६५) श्लक्ष्णधर्मविनयकुशलत्वेन श्लक्ष्णभ्रकता ।
(६६) कुशलस्निग्धसन्तानत्वेन सुस्निग्धभ्रकता ।
(६७) समन्तदोषदर्शित्वेन समरोमभ्रूकता ।
(६८) परमपीडानिवर्तकत्वेन पीनायतभुजता ।
(६९) विजितरागादिसमरत्वेन समकर्णता ।
(७०) सर्वसत्त्वानुपहतसन्तानस्वेन अनुपहतकर्णेन्द्रियता ।
(७१) सर्वदृष्टिकृतान्यथाविपरिणामत्वेन अपरिम्लानललाटता ।
(७२) सर्ववादिप्रमथनत्वेन पृथुललाटता ।
(७३) परिपूर्णोत्तमप्रणिधानत्वेन पूर्णोत्तमाङ्गता ।
(७४) विषयरतिव्यावर्तकत्वेन भ्रमरसदृशकेशता ।
(७५) प्रहीणदर्शनभावनाप्रहातव्यानुशयत्वेन चितकेशता ।
(७६) श्लक्ष्णबुद्धिपरिज्ञातशासनत्वेन श्लक्ष्णकेशता ।
(७७) रागाद्यसंलुठितचेतनत्वेन असंलुठितकेशता ।
(७८) नित्यमपरुषवचनत्वेन अपरुषकेशता ।
(७९) बोध्यङ्गकुसुमावकीर्णत्वेन सुरभिकेशता ।
(८०) सर्वथा शोभासंवर्तनीयत्वेन श्रीवत्सस्वस्तिकनन्द्यावर्तललितपाणिपादतलता चेति ।

४ - नैर्माणिककायः

इत्थं कायत्रयं निर्दिश्यं चतुर्थः नैर्माणिककायः सर्वबालजनसाधारण इति ।
तमाह -

करोति येन चित्राणि हितानि जगतः समम् ।
आभवात्सोऽनुपच्छिन्नः कायो नैर्माणिको मुने ॥ ८.३३ ॥

इति । येन शाक्यमुनितथागतादिरूपेण आसंसारं सर्वलोकधातुषु सत्त्वानां समीहितमर्थं समं करोति, असौ कायः प्रबन्धतया अनुपरतो नैर्माणिको बुद्धस्य भगवतः सर्वबालजनसाधारणश्चतुर्थोऽवसातव्यः ।

बुद्धकारित्राणि

इत्येवं स्वाभाविककायस्वरूपभावनाप्रभावितबुद्धादिविषयत्वे ज्ञानाद्यपेक्ष्य परिकल्पितकायत्रयं निर्दिश्यं संवृत्या ज्ञानमेव साम्भोगिककायादिप्रतिभासोत्पादद्वारेणार्थक्रियाकारीति कर्म विनेयजनप्रतिभासभाक्तदाधिपत्याश्रयेणायातं धर्मकाय एवेति ।

तथा कर्माप्यनुच्छिन्नमस्यासंसारमिष्यते ।
गतीनां शमनं कर्म सङ्ग्रहे च चतुर्विधे ॥ ८.३४ ॥
निवेशनं ससंक्लेशे व्यवदानावबोधने ।
सत्त्वानामर्थयाथात्म्ये षट्सु पारमितासु च ॥ ८.३५ ॥
बुद्धमार्गे प्रकृत्यैव शून्यतायां द्वयक्षये ।
संकेतेऽनुपलम्भे च परिपाके च देहिनाम् ॥ ८.३६ ॥
बोधिसत्त्वस्य मार्गेऽभिनिवेशस्य निवारणे ।
बोधिप्राप्तौ जिनक्षेत्रविशुद्धौ नियतिं प्रति ॥ ८.३७ ॥
अप्रमेये च सत्त्वार्थे बुद्धसेवादिके गुणे ।
बोधेरङ्गेष्वनाशे च कर्मणां सत्यदर्शने ॥ ८.३८ ॥
विपर्यासप्रहाणे च तदवस्तुकतानये ।
व्यवदाने ससम्भारे संस्कृतासंस्कृते प्रति ॥ ८.३९ ॥
व्यतिभेदापरिज्ञाने निर्वाणे च निवेशनम् ।
धर्मकायस्य कर्मेदं सप्तविंशतिधा मतम् ॥ ८.४० ॥

इति । तत्र प्रथमं प्रशस्ताप्रशस्तगत्यनभिनिवेशावस्थानलक्षणं गतिप्रशमनं कर्म कृत्वा, दानादिचतुःसङ्ग्रहवस्तुनि प्रतिष्ठाप्य, श्रुतमयादिज्ञानेन विपक्षप्रतिपक्षहेयोपादेयद्वारेण बोधयित्वा, मायाकार इवानुनयादिविविक्ततया मैत्र्यादिलक्षणे परार्थे सत्त्वार्थयाथात्म्ये प्रतिष्ठाप्य, तदनु स्वार्थे त्रिमण्डलविशुद्धिप्रभावितषट्पारमिताभ्यासे, तदनन्तरं स्वपरार्थलक्षणे दशकुशलकर्मपथे बुद्धमार्गे, ततः सर्वधर्मप्रकृतिशून्यताभ्यासे, तदनु दानपारमिताधिष्ठानेन प्रथमायां भूमौ सर्वत्रगधर्मधातुप्रतिवेधलक्षणे अद्वयधर्मे, ततो द्वितीयादिभूमौ सम्भारपरिपूरिहेतुभूते शीलादिपारमितासर्वधर्मसाङ्केतिकज्ञाने निवेशयति । एवमनुक्रमेण प्रज्ञापारमिताधिष्ठानेन षष्ठ्यां भूमौ ज्ञानज्ञेयभावानभिनिवेशलक्षणे सर्वधर्मानुपलम्भे, तदनन्तरं सप्तम्यामुपायपारमिताबलेन सत्त्वपरिपाके, ततो बलपारमिताबलेनाष्टम्यां श्रावकाद्यसाधारणे बोधिसत्त्वमार्गे, पुनस्तत्रैव सर्वभावाभिनिवेशप्रहाणे, तदनु नवम्यां प्रणिधानपारमितासामर्थ्याद्बोधिप्राप्तौ, तदनन्तरं ज्ञानपारमिताबलाद्दशम्यां भूमौ विविधबुद्धक्षेत्रविशुद्धौ प्रतिष्ठाप्य, पुनस्तत्रैव एकजातिप्रतिबद्धस्वरूपे सम्यक्सम्बोधिप्रतिनियमे दशदिग्लोकधातवीयसत्त्वार्थे सर्वलोकधातुबुद्धोपसङ्क्रमणादिगुणे च निवेशयति ।

एवमनुक्रमेण पुनस्तत्रैन विशेषमार्गस्वरूपे समस्तबोध्यावाहकधर्मलक्षणे बोध्यङ्गे, कर्मफलसम्बन्धाविप्रणाशे, यथाभूतपदार्थाधिगमे, सर्वविपर्यासप्रहाणे, निर्वस्तुकविपर्यासप्रहाणे ज्ञाने, प्रकृतिपरिशुद्धिलक्षणे बोधिसत्त्वव्यवदाने, सर्वकलङ्कापगतव्यवदानहेतौ सम्भारे, शून्यतास्वभावेन संस्कृतासंस्कृताव्यतिभेदपरिज्ञाने च प्रतिष्ठाप्य ताथागत्यां भूमौ निर्वाणे निवेशयति । एवं धर्मकायवदस्य सप्तविंशतिप्रकारं कर्म आसंसारमिष्यत इति कारित्रम् ।

प्रथमचित्तोत्पादस्य अन्तिमकर्मणाञ्च अनुक्रमनिर्देशेन अवशिष्टानां मध्यपदार्थानामपि क्रमो वेदितव्यः, वक्तव्यबाहुल्यभयान्मया नोल्लिखितः ।

इति अभिसमयालङ्कारे नाम प्रज्ञापारमिताशास्त्रे अष्टमाधिकारवृत्तिः ।


________________________________________________________________

मध्यमरुचिसत्त्वार्थं व्याख्यानम्

[सम्पाद्यताम्]

एवं विस्तररुचिसत्त्वानुग्रहेण अष्टभिः पदार्थैः (प्रज्ञापारमितां) व्याख्याय पुनरन्यप्रकारेण व्याख्यानायाह -

लक्षणं तत्प्रयोगस्तत्प्रकर्षस्तदनुक्रमः ।
तन्निष्ठा तद्विपाकश्चेत्यन्यः षोढार्थसंग्रहः ॥ १ ॥

इति । प्रथमं सर्वाकारज्ञतादित्रिसर्वज्ञताभिलक्ष्यस्थानीयत्वेन लक्षणम् । ततो वशित्वार्थत्रिसर्वज्ञताभावनां प्रति प्रयुज्यतेऽनेनेति त्रिसर्वज्ञताप्रयोगः सर्वाकाराभिसम्बोधः । ततोऽत्यभ्यासात्प्रकर्षगमनमिति त्रिसर्वज्ञतायाः प्रकर्षावस्थोमूर्धाभिसमयः । ततोऽधिगतवस्तुनिश्चयाय व्यस्तसमस्तविभावितार्थप्रगुणीकरणमिति त्रिसर्वज्ञतानुक्रमावस्थोऽनुपूर्वाभिसमयः । ततो विशेषगमनाभावात्त्रिसर्वज्ञतानिष्ठावस्थः सम्यगेकक्षणाभिसम्बोधः । ततस्तस्य फलम्, इति त्रिसर्वज्ञताविपाको धर्मकायः सकारित्रः । एवं षट्प्रकारेणार्थसंग्रहेण पूर्ववदेव जिनजननी व्याख्येया ।

संक्षिप्तरूचिसत्त्वार्थं व्याख्यानम्

मध्यमरुचिसत्त्वानुकम्पया अमुना षट्प्रकारेणार्थसंग्रहेण व्याख्याय पुनः संक्षिप्तरुचिसत्त्वानुरोधेनान्यप्रकारेण व्याख्यानायाह -

विषयस्त्रितयो हेतुः प्रयोगश्चतुरात्मकः ।
धर्मकायः फलं कर्मेत्यन्यस्त्रेधार्थसंग्रहः ॥ २ ॥

इति । आदौ सर्वाकारज्ञतादित्रिसर्वज्ञतास्वभावः प्रवृत्तिविषयहेतुः । स कथं प्रयुज्यत इति तदनन्तरं सर्वाकाराभिसम्बोधादिश्चतुर्विधोऽभिसमयः प्रयोगः । तस्यैवं प्रयोगवतो विषयस्य किं फलमिति तदनु धर्मकायः सकर्मा फलमित्येवं त्रिविधेनार्थसंग्रहेण तथैव जिनजननी व्याख्येया ।

परिणामना

अर्थतः पदतो वापि नामपर्यायतः क्वचित् ।
तावानेव बुधैर्ज्ञेयः पिण्डार्थः सर्वमातृषु ॥ १ ॥
अन्यथा न भवेत्सम्यक्सर्वासां क्रमसंग्रहः ।
तत्र पिण्डादिभेदेन वैशिष्ट्यं जायते ध्रुवम् ॥ २ ॥
आर्यविमुक्तिसेनस्यानुभावेनात्र दर्शितम् ।
अर्थमात्रं सुबोधाय त्यक्त्वा वचनविस्तरम् ॥ ३ ॥
वैरोचनं गुरुं नत्वा सदुपाध्यायज्ञानिनम् ।
कारिकाणां स्फुटा वृत्तिर्हरिभद्रेण रच्यते ॥ ४ ॥
एतद्ग्रन्थविधानेन यत्पुण्यमर्जितं मया ।
निखिलाः प्राणिनस्तेन प्राप्नुयुः सौगतीं धियम् ॥ ५ ॥
सर्वशास्त्रबहिर्भूतः क्वाहं स्वल्पमतिः पुमान् ।
क्व चार्यगतिगम्योऽयं शास्त्रार्थो महिमान्वितः ॥ ६ ॥
तथाप्यगोचरीभूते यत्नमास्थितवानहम् ।
परात्महितबुद्ध्यैव क्षम्यतामेष साधुभिः ॥ ७ ॥
अहो मृशं मया नानामतैः श्रान्तेन वीक्षितम् ।
शमस्थानं चिरेणेदं प्रज्ञापारमितामतम् ॥ ८ ॥

इति प्रज्ञापारमितोपदेशशास्त्रे आचार्यहरिभद्रकृता अभिसमयालङ्कारवृत्तिः समाप्ता ।

भारतीयपण्डितेन विद्याकरप्रभेण महालोकचक्षुषा वन्देश्रीकूटेन चानूद्य निर्णीता ।
श्रीपण्डितामरगोम्यादिभिः भिक्षुधीमत्प्रज्ञेन च पश्चात्सुनिर्णीता ।