अभिषेकनाटकम्/प्रथमोऽङ्कः

विकिस्रोतः तः

'अभिषेकनाटकम् भासकृतम्'


पात्राणि

सूत्रधार:

नटी

विजया --- प्रतिहारी ।

पारिपार्श्विक:।

राम: --- दशरथस्य ज्येष्ठ: पुत्र:।

लक्ष्मण: --- रामानुज:

सुग्रीव: --- कपीश्वर:।

हनूमान् --- वानरमुख्य:।

वाली --- किष्किन्धाधिपति:।

तारा --- बालिपत्नी।

अङ्गद: --- बालिपुत्र:

ककुभ: --- कपीश्वरस्य भृत्य: ।

विलमुख: --- सुग्रीवस्य वार्ताहर:।

सीता --- रामपत्नी।

रावण: --- लङ्केश्वर:

विभीषण: --- लङ्केश्वरस्य भ्राता।

वानर काञ्चुकीय: ---

बलाध्यक्ष: ---

वरुण: ---

नील: --- वानरसेनाध्यक्ष:।

शुकसारणौ --- मायारुपधारिणौ राक्षसौ।

राक्षसकाञ्चुकीय:

राक्षस:

विद्विज्विह्व: --- मायावी राक्षस:।

विद्याधरास्त्रय:

अग्नि:



प्रथमोङ्क:

(नान्द्यन्ते तत: प्रविशति सूत्रधार:।)

सूत्रधार: - यो गाधिपुत्रमखविघ्नकराभिहन्ता

युद्धे विराधखरदूषणवीर्यहन्ता ।
दर्पोद्यतोल्बणकबन्धकपीन्द्रहन्ता
पायात् स वो निशिचरेन्द्रकुलाभिहन्ता ।। 1 ।।
एवमार्यमिश्रान् विज्ञापयामि। (परिक्रम्यावलोक्य) अये किन्नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते! अङ्ग! पश्यामि।
(नेपथ्ये)
सुग्रीव! इत इत:।
(प्रविश्य)

परिपार्श्विक: - भाव!

कुतो नु खल्वेष समुत्थितो ध्वनि:
प्रवर्तते श्रोत्रविदारणो महान् ।
प्रचण्डवातोद्धृतभीमगामिनां
बलाहकानामिव खेऽभिगर्जताम् ।। 2 ।।

सूत्रधार: - मार्ष! किं नावगच्छसि। एष खलु सीतापहरणजनितसन्तापस्य रघुकुलप्रदीपस्य सर्वलोकनयनाभिरामस्य रामस्य च, दाराभिमर्शननिर्विषयीकृतस्य

सर्वहर्यृक्षराजस्य सुविपुलमहाग्रीवस्य सुग्रीवस्य च परस्परोपकारकृतप्रतिज्ञयो: सर्ववानराधिपतिं हेममालिनं वालिनं हन्तुं समुद्योग: प्रवर्तते।

तत एतो हि,

इदानीं राज्यविभ्रष्टं सुग्रीवं रामलक्ष्मणौ ।
पुन: स्थापयितुं प्राप्ताविन्द्रं हरिहराविव ।। 3 ।।

(निष्क्रान्तौ)

स्थापना ।

(तत: प्रविशति रामो, लक्ष्मणसुग्रीवौ, हनुमांश्च।)

राम: - सुग्रीव! इत इत:।

मत्सायकान्निहतभिन्नविकीर्णदेहं

शत्रु तवाद्य सहसा भुवि पातयामि ।

राजन्! भयं त्यज ममापि समीपवर्ती

दृष्टस्त्वया च समरे निहत: स वाली ।। 4 ।।

सुग्रीव: - देव! अहं खल्वार्यस्य प्रसादाद् देवानामपि राज्यमाशङ्के किं पुनर्वानराणाम्। कुत:,

मुक्तो देव! तवाद्य वालिहृदयं भेत्तुं न मे संशय:

सालान् सप्त महावने हिमगिरे: श्रृङ्गोपमाच्छ्रीधर ! ।

भित्त्वा वेगवशात् प्रविश्य धरणीं गत्वा च नागालयं

मज्जन् वीर! पयोनिधौ पुनरयं सम्प्राप्तवान् सायक: ।। 5 ।।8

हनुमान् - तव नृप! मुखनि:सृतैर्वचोभि -

र्विगतभया हि वयं विनष्टशोका: ।

रघुवर! हरये जयं प्रदातुं

गिरिमभिगच्छ सनीरनीरदाभम् ।। 6 ।।

लक्ष्मण: - आर्य! सोपस्नेहतया वनान्तरस्याभित: खलु किष्किन्धया भवितव्यम्।

सुग्रीव: - सम्यगाह कुमार:।

सम्प्राप्ता हरिवरबाहुसम्प्रगुप्ता

किष्किन्धा तव नृप! बाहुसम्प्रगुप्ता ।

तिष्ठ त्वं नृवर! करोम्यहं विसंज्ञं

नादेन प्रचलमहीधरं नृलोकम् ।। 7 ।।

राम: - भवतु गच्छ।

सुग्रीव: - यदाज्ञापयति देव:। (परिक्रम्य) भो:।

अपराधमनुद्दिश्य परित्यक्तस्त्वया विभो !।

युद्धे त्वत्पादशुश्रूषां सुग्रीव: कर्तुमिच्छति ।। 8 ।।

(नेपथ्ये)

कथं कथं सुग्रीव इति।

(तत: प्रविशति बाली गृहीतवस्त्रया तारया सह।)

बाली - कथं कथं सुग्रीव इति।

तारे! विमुञ्च मम वस्त्रमनिन्दिताङ्गि !

प्रस्त्रस्तवक्त्रनयने! किमसि प्रवृत्ता ।

सुग्रीवमद्य समरे विनिपात्यमानं

तं पश्य शोणितपरिप्लुतसर्वगात्रम् ।। 9 ।।

तारा - पसीअउ पसीअउ महाराओ। अप्पेण कारणेण ण आगस्मिस्सइ सुग्गीओ । ता अमच्चवग्गेण सह सम्मन्तिअ गन्तव्वं। (प्रसीदतु प्रसिदतु

महाराज:। अल्पेन कारणेन नागमिष्यति सुग्रीव:। तदमात्यवर्गेण सह संमन्त्र्य गन्तव्यम्।)

बाली - आ:,

शक्रो वा भवतु गति: शशाङ्कवक्त्रे !

शत्रोर्मे निशितपरश्वध: शिवो वा ।

नालं मामभिमुखमेत्य सम्प्रहर्तुं

विष्णुर्वा विकसितपुण्डरीकनेत्र: ।। 10 ।।

तारा - पसीअउ पसीअउ महारओ। इमस्स जणस्स अणुग्गाहं दाव करेउं अरिहदि महाराओ। (प्रसीदतु प्रसीदतु महाराज:। अस्य जनस्यानुग्रहं तावत् कर्तुमर्हति महाराज:।)

बाली - श्रूयतां मत्पराक्रम:।

तारे! मया खलु पुरामृतमन्थनेऽपि

गत्वा प्रहस्य सुरदानवदैत्यसङ्घान् ।

उत्फुल्लनेत्रमुरगेन्द्रमुदग्ररूप-

माकृष्यमाणमवलोक्य सुविस्मितास्ते ।। 11 ।।9

तारा - पसीअउ पसीअउ महाराओ। (प्रसीदतु प्रसीदतु महाराज:।)

बाली - आ: मम वशानुवर्तिनी भव । प्रविश त्वमभ्यन्तरम् ।

तारा - एसा गच्छामि मन्दभाआ (निष्क्रान्ता) एषा गच्छामि मन्दभागा ।

बाली - हन्त प्रविष्टा तारा। यावदहं सुग्रीवं भग्नग्रीवं करोमि । (द्रुतमुपगम्य) सुग्रीव! तिष्ठ तिष्ठ ।

इन्द्रो वा शरणं तेऽस्तु प्रभुर्वा मधुसूदन: ।

मच्चक्षुष्पथमासाद्य सजीवो नैव यास्यसि ।। 12 ।।

इत इतः।

सुग्रीव: - यदाज्ञापयति महाराज:।

(उभौ नियुद्धं कुरुत:।)

राम: - एष एष बाली,

सन्दष्टोष्ठश्चण्डसंरक्तनेत्रो

मुÏष्ट कृत्वा गाढमुद्वृत्तदंष्ट्र: ।

गर्जन् भीमं वानरो भाति युद्धे

संवर्तग्नि: सन्दिधक्षुर्यथैव ।। 13 ।।

लक्ष्मण: - सुग्रीवमपि पश्यत्वार्य:,

विकसितशतपत्ररक्तनेत्र:

कनकमयाङ्गदनद्धपीनबाहु: ।

हरिवरमुपयाति वानरत्वाद्

गुरुमभिभूय सतां विहाय वृत्तम् ।। 14 ।।

वालिना ताडित: पतित: सुग्रीव:।

हनुमान् - हा! धिक्। (ससम्भ्रमं राममुपगम्य) जयतु देव:। अस्यैषावस्था।

बलवान् वानरेन्द्रस्तु दुर्बलश्च पतिर्मम ।

अवस्था शपथश्चैव सर्वमार्येण चिन्त्यताम् ।। 15 ।।

राम: - हनूमन्! अलमलं सम्भ्रमेण। एतदनुष्ठीयते। (शरं मुक्त्वा) हन्त पतितो बाली।

लक्ष्मण: - एष एष बाली,

रुधिरकलितगात्र: स्त्रस्तसंरक्तनेत्र:

कठिनविपुलबाहु: काललोकं विवक्षु: ।

अभिपतति कथञ्चिद् धीरमाकर्षमाण:

शरवरपरिवीतं शान्तवेगं शरीरम् ।।

बाली - (मोहमुपगम्य पुन: समाश्वस्य शरे नामाक्षराणि वाचयित्वा राममुद्दिश्य)

युक्तं भो! नरपतिधर्ममास्थितेन

युद्धे मां छलयितुमक्रमेण राम !।

वीरेण व्यपगतधर्मसंशयेन

लोकानां छलमपनेतुमुद्यतेन ।। 17 ।।10

हन्त: भो:। भवता सौम्यरूपेण यशसो भाजनेन च ।

छलेन मां प्रहरता प्ररूढमयश: कृतम् ।। 18 ।।

भो राघव। चीरवल्कलधारिणा वेषविपर्यस्तचित्तेन मम भ्रात्रा सह युद्धव्यग्रस्याधम्र्य: खलु प्रच्छन्नो वध:।

राम: - कथमधम्र्य: खलु प्रच्छन्नो वध इति।

बाली - क: संशय: ।

राम: - न खल्वेतत्। पश्य,

वागुराच्छन्नमाश्रित्य मृगाणामिष्यते वध: ।

वध्यत्वाच्च मृगत्वाच्च भवाञ्छन्नेन दण्डित: ।। 19 ।।

बाली - दण्ड्य इति मां भवान् मन्यते।

राम: - क: संशय:।

बाली - केन कारणेन।

राम: - अगम्यागमनेन।

बाली - अगम्यागमनेनेति। एषोऽस्माकं धर्म:।

राम: - ननु युक्तं भो:!

भवता वानरेन्द्रेण धर्माधर्मौ विजानता ।

आत्मानं मृगमुद्दिश्य भ्रातृदाराभिमर्शनम् ।। 20 ।।

बाली - भ्रातृदाराभिमर्शनेन तुल्यदोषयोरहमेव दण्डितो, न सुग्रीव:।

राम: - दण्डितस्त्वं हि दण्ड्यत्वाद्, अदण्ड्यो नैव दण्ड्यते।

बाली - सुग्रीवेणाभिमृष्टाभूद् धर्मपत्नी गुरोर्मम ।

तस्य दाराभिमर्शेन कथं दण्ड्योऽस्मि राघव ।। 21 ।।

राम: - न त्वेवं हि कदाचिज्ज्येष्ठस्य यवीयसो दाराभिमर्शनम्।

बाली - हन्त अनुत्तरा वयम्। भवता दण्डितत्वाद् विगतपापोऽहं ननु।

राम: - एवमस्तु।

सुग्रीव: - हा धिक्।

करिकरसदृशौ गजेन्द्रगामिं-

स्तव रिपुशस्त्रपरिक्षताङ्गदौ च ।

अवनितलगतौ समीक्ष्य बाहू

हरिवर! हा पततीव मेऽद्य चित्तम् ।। 22 ।।

बाली - सुग्रीव! अलमलं विषादेन। ईदृशो लोकधर्म:।

(नेपथ्ये)

हा हा महाराओ।

बाली - सुग्रीव! संवार्यतां संवार्यतां स्त्रीजन:। एवंगतं नार्हति मां द्रष्टुम्।

सुग्रीव: - यदाज्ञापयति महाराज: । हनूमन्! एवं क्रियताम्।

हनूमान् - यदाज्ञापयति कुमार:।

(निष्क्रान्त:।)

(तत: प्रविशत्यङ्गदो हनूमांश्च)

हनूमान् - अङ्गद! इत इत:।

अङ्गद: - श्रुत्वा कालवशं यान्तं हरिमृक्षगणेश्वरम् ।

समापतितसन्ताप: प्रयामि शिथिलक्रम: ।। 23 ।।

हनूमन्! कुत्र महाराज:।

हनूमान् - एष महाराज:,

शरनिर्भिन्नहृदयो विभाति धरणीतले ।

गुहशक्तिसमाक्रान्तो यथा क्रौञ्चाचलोत्तम: ।। 24 ।।

अङ्गद: - (उपसृत्य) हा महाराज!

अतिबलसुखशायी पूर्वमासीद्धरीन्द्र:

क्षितितलपरिवर्ती क्षीणसर्वाङ्गचेष्ट: ।

शरवरपरिवीतं व्यक्तमुत्सृज्य देहं

किमभिलषसि वीर स्वर्गमद्याभिगन्तुम् ।। 25 ।।

(इति भूमौ पतित:)

बाली - अङ्गद! अलमलं विषादेन। भो: सुग्रीव!

मया कृतं दोषमपास्य बुद्ध्या

त्वया हरीणामधिपेन सम्यक् ।

विमुच्य रोषं परिगृह्य धर्मं

कुलप्रवालं परिगृह्यतां न: ।। 23 ।।

सुग्रीव: - यदाज्ञापयति महाराज: ।

बाली - भो राघव! यस्मिन् वापराधेऽनयोर्वानरचापलं क्षन्तुमर्हसि।

राम: - बाढम्।

बाली - सुग्रीव! प्रतिगृह्यतामस्मत्कुलधनं हेममाला।

राम: - अनुगृहीतोऽस्मि। (प्रतिगृह्णाति।)

बाली - हनूमन्! आपस्तावत्।

हनूमान् - यदाज्ञापयति महाराज:। (निष्क्रम्य प्रविश्य) इमा आप:

बाली - (आचम्य) परित्यजन्तीव मां प्राणा:। इमा गङ्गाप्रभृतयो महानद्य एता उर्वश्यादयोऽप्सरसो मामभिगता:। एष सहस्त्रहंसप्रयुक्तो वीरवाही

विमान: कालेन प्रेषितो मां नेतुमागत:। भवतु। अयमयमागच्छमि। (स्वर्यात:।)12

सर्वे - हा हा महाराज!।

राम: - हन्त स्वर्गं गतो वाली। सुग्रीव! क्रियतामस्य संस्कार:।

सुग्रीव: - यदाज्ञापयति देव:।

राम: - लक्ष्मण! सुग्रीवस्याभिषेक: कल्प्यताम्।

लक्ष्मण: - यदाज्ञापयत्यार्य:।

(निष्क्रान्ता: सर्वे)

प्रथमोऽङ्क: समाप्तः।