सामग्री पर जाएँ

अभिषेकनाटकम्/पञ्चमोऽङ्कः

विकिस्रोतः तः

<poem> अथ पञ्चमोऽङ्क:। (तत: प्रविशति राक्षसकाञ्चुकीय:) राक्षसकाञ्चुकीय:- क इह भो:! प्रवालतोरणद्वारमशून्यं कुरुते। (प्रविश्यान्यो राक्षसः) राक्षस: - आर्य! अयमस्मि। किं क्रियताम्। काञ्चुकीय: - गच्छ, महाराजस्य शासनाद् विद्युज्जिह्वस्तावदाहूयताम्। राक्षस: - आर्य! तथा। (निष्क्रान्त:।) काञ्चुकीय: - अहो नु खलु विपद्यमानाभ्युदये राक्षसकुले विपन्नसर्वसाधनस्य निहतवीरपुरुषस्य स्वयं च प्राणसंशयं प्राप्तस्येदानीमपि प्रसन्नत्वं नोपगच्छति महाराजस्य बुद्धि:। को हि नाम, चलत्तरङ्गाहतभीमवेल- मुदीर्णनक्राकुलनीरम् । समुद्रमाक्रान्तमवेक्ष्य तस्मै दारप्रदानान्न करोति शान्तिम् ।। 1 ।। अपि च, प्रहस्तप्रमुखा वीरा: कुम्भकर्णपुरस्सरा:। निहता राघवेणाद्य शक्रजिच्चापि निर्गत:।।2।। एवमपि गते, मदनवशगतो महानयार्थं सचिववचोऽप्यनवेक्ष्य वीरमानी । रघुकुलवृषभस्य तस्य देवीं जनकसुतां न ददाति योद्धुकाम: ।। 3 ।। (प्रविश्य) विद्युज्जिह्व: - अपि सुखमार्यस्य। काञ्चुकीय: - विद्युज्जिह्व! गच्छ, महाराजवचनाद् रामलक्ष्मणयो: शिर:प्रतिकृतिरानीयताम्। विद्युज्जिह्व: - यदाज्ञापयति महाराज:। (निष्क्रान्त:।) काञ्चुकीय: - यावदहमपि महाराजस्य प्रत्यन्तरीभविष्यामि। (निष्क्रान्त:।) विष्कम्भक:। (तत: प्रविशति राक्षसीगणपरिवृता सीता) सीता - किण्णु हु अय्यउत्तस्स आगमणेण पहळादिअस्स हिअअस्स अज्ज आवेओ विअ संवुत्तो। अणिट्ठाणि णिमित्ताणि अ दिस्सन्ति। एवं वि29 दाणि (अच्चाहिअं ?) हिअअस्स महन्तो अब्भुदओ अब्भुदओ वङ्ढइ। सव्वहा इस्सरा सन्ति करन्तु। (किन्नु खल्वार्यपुत्रस्यागमनेन प्रह्लादितस्य हृदयस्याद्यावेग इव संवृत्त:। अनिष्टानि निमित्तानि च दृश्यन्ते। एवमपीदानीं हृदयस्य महानभ्युदयो वर्धते। सर्वथेश्वरा: शाÏन्त कुर्वन्तु।) (तत: प्रविशति रावण:।) रावण: - मा तावद्, एषा विहाय भवनं मम सम्प्रयाता नारी नवामलजलोद्भवलग्नहस्ता । लङ्का यदा हि समरे वशमागता मे पौलस्त्यमाशु परिजित्य तदा गृहीता ।। 4 ।। भवति! तिष्ठ तिष्ठ। न खलु न खलु गन्तव्यम्। किं ब्रवीषि - उत्सृज्य त्वां राममुपगच्छामीति। आ: अपध्वंस। बलादेव गृहीतासि तदा वैश्रवणालये । बलादेव ग्रहीष्ये त्वां हत्वा राघवमाहवे ।। 5 ।। किमनया। यावदहमपि सीतां विलोभयिष्ये। (मदनावेशं निरूप्य) अहो तु खल्वतुलबलता कुसुमधन्वन:। कुत:, निद्रां मे निशि विस्मरन्ति नयनान्यालोक्य सीताननं तत्संश्लेषसुखार्थिनी तनुतरा याता तनु: पाण्डुताम् । सन्तापं रमणीयवस्तुविषये बध्नाति पुष्पेषुणा कष्टं निर्जितविष्टपत्रयभुजो निर्जीयते रावण: ।। 6 ।। (उपेत्य) सीते! त्यज त्वमरविन्दपलाशनेत्रे! चित्तं हि मानुषगतं मम चित्तनाथे! । ं शस्त्रेण मेऽद्य समरे विनिपात्यमानं प्रेक्षस्व लक्ष्मणयुतं तव चित्तकान्तम् ।। 7 ।। सीता - हं मूढो खु सि रावणओ, जो मन्दरं हत्थेण तुळयिदुकामो। (हं मूढ: खल्वसि रावणक:, यो मन्दरं हस्तेन तुलयितुकाम:।) (प्रविश्य) राक्षस: - जयतु महाराज:। एते तयोर्मानुषयो: शिरसी राजपुत्रयो: । युधि हत्वा कुमारेण गृहीते त्वत्प्रियार्थिना ।। 8 ।। रावण: - सीते! पश्य पश्य तयोर्मानुषयो: शिरसी। सीता - हा अय्यउत्त!। (इति मूर्छिता पतति) (हा आर्यपुत्र!।) रावण: - सीते! भावं परित्यज्य मानुषेऽस्मिन् गतायुषि । अद्यैव त्वं विशालाक्षि! महतीं श्रियमाप्नुहि ।। 9 ।। सीता - (प्रत्यभिज्ञाय) हा अय्यउत्त! परिमळणवकमळसण्णिहे वदणे परिवुत्तणअणे पेक्खन्ती अदिधीरा खु म्हि मन्दभाआ। हा अय्यउत्त! एदÏस्स दु:खसाअरे मं णिक्खिविअ कहिं गदो सि। जाव ण मरांमि। किं णु खु अळिअं एदं भवे। भद्द! जेण असिणा अय्यउत्तस्स असदिसं किदं, तेण मं वि मारेहि। (हा आर्यपुत्र! परिमलनवकमलसन्निभे वदने परिवृत्तनयने पश्यन्ती अतिधीरा खल्वस्मि मन्दभागा। हा आर्यपुत्र! एतस्मिन् दुख:सागरे मां निक्षिप्य कुत्र गतोऽसि। यावन्न म्रिये। किन्नु खल्वलीकमेतद् भवेत्। भद्र! येनासिनार्यपुत्रस्यासदृशं कृतं तेन मामपि मारय।)30 रावण: - व्यक्तमिन्द्रिजिता युद्धे हते तस्मिन् नराधमे । लक्ष्मणेन सह भ्रात्रा केन त्वं मोक्षयिष्यसे ।। 10 ।। (नेपथ्ये) रामेण रामेण। सीता - चिरं जीव। (प्रविश्य) राक्षस: - (ससम्भ्रमम्) रामेण रामेण। रावण: - कथं कथं रामेणेति। राक्षस: - प्रसीदतु प्रसीदतु महाराज:। अतिपातिवृत्तान्तनिवेदनत्वरयावस्थान्तरं नावेक्षितम्। रावण: - ब्रूहि ब्रूहि। किं कृतं मनुजतापसेन। राक्षस: - श्रोतुमर्हति महाराज:। तेन खलु, उदीर्णसत्त्वेन महाबलेन लङ्केश्वरं त्वामभिभूय शीघ्रम् । सलक्ष्मणेनाद्य हि राघवेण प्रसह्य युद्धे निहत: सुतस्ते ।। 11 ।। रावण: - आ: दुरात्मन्! समरभीरो! देवा: सेन्द्रा जिता येन दैत्याश्चापि पराङ्मुखा: । इन्द्रजित् सोऽपि समरे मानुषेण निहन्यते ।। 12 ।। राक्षस: - प्रसीदतु प्रसीदतु महाराज:। महाराजपादमूले कुमारमन्तरेणानृतं नाभिधीयते। रावण: - हा वत्स! मेघनाद!। (इति मूर्छित: पतति।) राक्षस: - महाराज! समाश्वसिहि समाश्वसिहि। रावण: - (प्रत्यभिज्ञाय) हा वत्स! सर्वजगतां ज्वरकृत् ! कृतास्त्र ! हा वत्स! वासवजिदानतवैरिचक्र! । हा वत्स ! वीर ! गुरुवत्सल ! युद्धशौण्ड ! हा वत्स! मामिह विहाय गतोऽसि कस्मात् ।। 13 ।। (इति मोहमुपगत:।) राक्षस: - हा धिक् त्रैलोक्यविजयी लङ्केश्वर एतामवस्थां प्रापितो हतकेन विधिना। महाराज! समाश्वसिहि समाश्वसिहि। रावण: - (समाश्वस्य) इदानीमनर्थहेतुभूतया सीतया किमनया त्रैलोक्यविजयविफलया चपलया श्रिया च। किं भो: कृतान्तहतक! अद्यापि भयविह्वलोऽसि। इदानीमपि नि:स्नेहो वत्सेनेन्द्रजिता विना । कष्टं कठोरहृदयो जीवत्येष दशानन: ।। 14 ।। (इति सन्तापात् पतति।)31 राक्षस: - हा भो रजनीचरवीरा:! एवं गते राजन्यन्त: कक्ष्यास्थिता रक्षिणश्चाप्रमत्ता भवन्तु भवन्त:। (नपथ्ये) भो भो रजनीचरवीरा:! समरमुखनिरस्तप्रहस्तनिकुम्भकुम्भकर्णेन्द्रजिद्विकलबलजलधिजनित-भयचकितविमुखा:! चपलपलायनमनुचितमविरतममरसमराणि जितवतां भवताम्, अथ च विश्वलोकविजयविख्यातविंशद्वाहुशालिनि भर्तर्यत्र स्थितवति लङ्केश्वरे। रावण: - (श्रुत्वा सामर्षम्) गच्छ, भूयो ज्ञायतां वृत्तान्त:। राक्षस: - यदाज्ञापयति महाराज:। (निष्क्रम्य प्रविश्य) जयतु महाराज:। एष हि राम:, धनुषि निहितबाणस्त्वामतिक्रम्य गर्वा - द्धरिगणपरिवारो हाससम्फुल्लनेत्र: । रणशिरसि सुतं ते पातयित्वा तु राज- न्नभिपतति हि लङ्कां सन्दिधक्षुर्यथैव ।। 15 ।। रावण: - (सहसोत्थाय सरोषम्) क्वासौ क्वासौ। (असिमुद्यम्य) वज्रीभकुम्भतटभेदकठोरधार: क्रोधोपहारमसिरेष विधास्यति त्वाम् । सम्प्रत्यवन्त्वनिमिषा इह मत्करस्थ: क्षुद्र ! क्व यास्यसि कुतापस ! तिष्ठ तिष्ठ ।। 16 ।। राक्षस: - महाराज! अलमतिसाहसेन। सीता - अणिट्ठाणि अणरुहाणि अणिमित्ताणि इदार्णि करअंतस्स रावणस्स अइरेण मरणं भविस्सिदि। (अनिष्टान्यनर्हाण्यनिमित्तानीदानीं कुर्वतो रावणस्याचिरेण मरणं भविष्यति।) रावण: - अस्या: कारणेन बहवो भ्रातर: सुता: सुहृदश्च मे निहता:। तस्मादमित्रविषयमस्या हृदयं भित्त्वा कृष्टान्त्रमालालङ्कृत: खङ्गाशनिपातेन स मनुजयुगलं सकलवानरकुलं ध्वंसयामि। राक्षस: - प्रसीदतु प्रसीदतु महाराज:। अलमलमिदानीमरिबलावलेपमन्तरेणानवरतवृथाप्रयासेन। अवश्यं च स्त्रीवधो न कर्तव्य:। रावण: - तेन हि स्यन्दनमानय। राक्षस: - यदाज्ञापयति महाराज:। (निष्क्रम्य प्रविश्य) जयतु महाराज:। इदं स्यन्दनम्। रावण: - (रथमारुह्य) समावृतं सुरैद्य सीते! द्रक्ष्यसि राघवम् । मम चापच्युतैस्तीक्ष्णैर्बाणैराक्रान्तचेतसम् ।। 17 ।। (निष्क्रान्त: सपरिवारो रावण:।) सीता - इस्सरा! अत्तणे कुळसदिसेण चारित्तेण जदि अहं अणुसरामि अय्यउत्तं, अय्यउत्तस्स विजओ होदु। (ईश्वरा:! आत्मन: कुलसदृशेन चारित्रेण यद्यहमनुसराम्यार्यपुत्रम्, आर्यपुत्रस्य विजयो भवतु।) (निष्क्रान्ता।) पञ्चमोऽङ्क:।