अभिषेकनाटकम्/द्वितीयोऽङ्कः

विकिस्रोतः तः
Jump to navigation Jump to search

<poem> अथ द्वितीयोऽङ्क:

(तत: प्रविशति ककुभ:।) ककुभ: - निष्ठितप्रायत्वात् कार्यस्याहारव्यापृता: सर्वे वानरयूथपा:। तस्मादहमपि किञ्चिदाहारजातं सम्भावयामि। (तथा करोति।) (प्रविश्य) बिलमुख: - पेसिओ म्हि महाळाएण सुग्गीवेण - अय्यरामस्स किदोवआरप्पच्चुवआरणिमित्तं सव्वासु दिसासु सीदाविअअणे पेसिआ सव्वे वाणरा आअदा। तेसं दक्खिणापहमुहस्स कुमारस्स अङ्गदस्स पवुतिं्त जाणिअ सिग्घं आअच्छत्ति। ता कहिं णु हु गओ कुमारो। (परिक्रम्याग्रतो विलोक्य) एसो अय्यकउहो। जाव णं पुच्छामि। (उपसृत्य) सुहं अय्यस्स। (प्रेषितोऽस्मि महाराजेन सुग्रीवेण---आर्यरामस्य कृतोपकारप्रत्युपकारनिमित्तं सर्वासु दिशासु सीताविचयने प्रेषिता: सर्वे वानरा आगता:। तेषां दक्षिणापथमुखस्य कुमारस्याङ्गदस्य प्रवृतिं्त ज्ञात्वा शीघ्रमागच्छेति। तत् क्व नु खलु गत: कुमार:। एष आर्यककुभ:। यावदेनं पृच्छामि। सुखमार्यस्य) ककुभ: - अये बिलमुख:। कुतो भवान्। बिलमुख: - अय्य! महाळाअस्स सासणेण कुमारं अङ्गदं पेक्खिदुं आअदोम्हि। (आर्य! महाराजस्य शासनेन कुमारमङ्गदं प्रेक्षितुमागतोऽस्मि।) ककुभ: - अपि कुशली आर्यरामो महाराजश्च बिलमुख: - आम्। ककुभ: - कोऽभिप्रायो महाराजस्य। (बिलमुख: पेसिओ म्हि इति पूर्ववत् पठति) ककुभ: - किं न जानीषे निष्ठितमर्धं कार्यस्य। बिलमुख: - किं किम्। ककुभ: - श्रूयतां, लब्ध्वा वृत्तान्तं रामपत्न्या: खगेन्द्राद् आरुह्यागेन्द्रं सद्विपेन्द्रं महेन्द्रम् । लङ्कामभ्येतुं वायुपुत्रेण शीघ्रं वीर्यप्राबल्याल्लङ्धित: सागरोऽद्य ।। 1 ।। तस्मादागच्छ, कुमारपादमूलमेव संश्रयाव:। (निष्क्रान्तौ।)13 विष्कम्भक:। (तत: प्रविशति राक्षसीगणपरिवृता सीता।) सीता - हद्धि अदिधीरा खु म्हि मन्दभाआ। जा अय्यउत्तविरहिदा रक्खसराअभवणं आणीदा अणिट्ठाणि अणरिहाणि जहमणोरहप्पवुत्ताणि वअणाणि साविअमाणा जीवामि मन्दभाआ। आदु अय्यउत्तसाअअप्पच्चएण कहं वि अत्ताणं पय्यवत्थावेमि। किं णु खु अज्ज पज्जाळिअमाणे कम्भआरग्गिमण्डळे उदअप्पसेओ वि अ किञ्चि हिअअधसादो समुण्ण्णो। किं णु मं अन्तरेण पसण्णहिअओ अय्यउत्तो भवे। (हा धिग् अतिधीरा खल्वस्मि मन्दभागा। आर्यपुत्रविरहिता राक्षसराजभवनमानीतानिष्टान्यनर्हाणि यथामनोरथप्रवृत्तानि श्राव्यमाणा जीवामि मन्दभागा। अथवा आर्यपुत्रसायकप्रत्ययेन कथमप्यात्मानं पर्यवस्थापयामि। किन्नु खल्वद्य प्रज्वाल्यमाने कर्मकाराग्निमण्डले उदकप्रसेक इव किञ्चिद् हृदयप्रसाद: समुत्पन्न:। किन्नु खलु मामन्तरेण प्रसन्नहृदय आर्यपुत्रो भवेत्।) हनूमान् - (लङ्कां प्रविश्य) अहो रावणभवनस्य विन्यास:। कनकरचितचित्रतोरणाढ्या मणिवरविद्रुमशोभितप्रदेशा । विमलविकृतसञ्चितैर्विमानै- र्वियति महेन्द्रपुरीव भाति लङ्का ।। 2 ।। अहो नु खलु, एतां प्राप्य दशग्रीवो राजलक्ष्मीमनुत्तमाम् । विमार्गप्रतिपन्नत्वाद् व्यापादयितुमुद्यत: ।। 3 ।। (सर्वतो गत्वा) विचरितप्राया मया लङ्का। गर्भगारविनिष्कुटेषु बहुश: शालाविमानादिषु स्नानागारनिशाचरेन्द्रभवनप्रासादहम्र्येषु च । पानागारनिशान्तदेशविवरेष्वाक्रान्तवानस्म्यहं सर्वं भो! विचितं न चैव नृपते: पत्नी मया दृश्यते ।। 4 ।। अहो व्यर्थो मे परिश्रम:। भवतु एतद्धम्र्याग्रमारुह्यावलोकयामि। (तथा कृत्वा) अये अयं प्रमदवनराशि:। इमं प्रविश्य परीक्षिष्ये। (प्रविश्यावलोक्य) अहो प्रमदवनसमृद्धि:। इह हि, कनकरचितविद्रुमेन्द्रनीलै- र्विकृतमहाद्रुमपड्क्तिचित्रदेशा । रुचिरतरनगा विभाति शुभ्रा नभसि सुरेन्द्रविहारभूमिकल्पा ।। 5 ।। अपि च, चित्रप्रस्रुतहेमधातुरुचिरा: शैलाश्च दृष्टा मया नानावारिचराण्डजैर्विरचिता दृष्टा मया दीर्धिका: । नित्यं पुष्पफलाढ्यपादपयुता देशाश्च दृष्टा मया सर्वं दृष्टमिदं हि रावणगृहे सीता न दृष्टा मया ।। 6 ।। को नु खल्वेतस्मिन् प्रदेशे सप्रभ इव दृश्यते। तत्र तावदवलोकयामि । (तथा कृत्वा) अये का ननु खलिल्वयम् । राक्षसीभि: परिवृता विकृताभि: सुमध्यमा । नीलजीमूतमध्यस्था विद्युल्लेखेव शोभते ।। 7 ।।14 यैषा, असितभुजगकल्पां धारयन्त्येकवेणीं करपरिमितमध्या कान्तसंसक्तचित्ता । अनशनकृशदेहा बाष्पसंसिक्तवक्त्रा सरसिजवनमालेवातपे विप्रविद्धा ।। 8 ।। अये कथं दीपिकावलोक:। (विलोक्य) अये रावण:। मणि विरचितमौलिश्चारुताम्रायताक्षो मदसललितगामी मत्तमातङ्गलील: । युवतिजननिकाये भात्यसौ राक्षसेशो हरिरिव हरिणीनामन्तरे चेष्टमान:।।9।। किमिदानीं करिष्ये। भवतु, दृष्टम्, एनमशोकपादपमारुह्य कोटरान्तरितो भूत्वा दृढं वृत्तान्तं ज्ञास्यामि। (तथा करोति।) (तत: प्रविशति रावण:सपरिवार:।) रावण: - दिव्यास्त्रै: सुरदैत्यदानवचमूविद्रावणं रावणं युद्धे क्रुद्धसुरे भदन्तकुलिशव्यालीढवक्षस्थलम् । सीता मामविवेकिनी न रमते सक्ता च मुग्धेक्षणा क्षुद्रे क्षत्रियतापसे ध्रुवमहो दैवस्य विघ्नक्रिया ।। 90 ।। (ऊध्र्वमवलोक्य) एष एष चन्द्रमा:, रजतरचितदर्पणप्रकाश: करनिकरैर्हृदयं ममाभिपीङ्य । उदयति गगने विजृम्भमाण: कुमुदवनप्रियबान्धव: शशाङ्क: ।। 11 ।। (परिक्रम्य) एषा सीता पादपमूलमाश्रित्य ध्यानसंवीतहृदयानशनक्षामवदना स्वदेहमिव प्रवेष्टुकामा सङ्गूढस्तनोदरी दुर्दिनान्तर्गता चन्द्रलेखेव राक्षसीगणपरिवृतोपविष्टा। यैषा, अपास्य भोगान् मां चैव श्रियं च महतीमिमाम् । मानुषे न्यस्तहृद्या नैव वश्यत्वमागता ।। 12 ।। हनूमान् - हन्त सुविज्ञातम्। इयं सा राजतनया पत्नी रामस्य मैथिली । सिंहदर्शनवित्रस्ता मृगीव परितप्यते ।। 13 ।। रावण: - (उपेत्य) सीते! त्यज त्वं व्रतमुग्रचर्यं भजस्व मां भामिनि! सर्वगात्रै: । अपास्य तं मानुषमद्य भद्रे! गतायुषं कामपथान्निवृत्तम् ।। 14 ।। सीता - हस्सो खु रावओ, जो वअणगदसिदिं्ध वि ण जाणादि।(हास्य: खलु रावणक:, यो वचनगतसिद्धि-मपि न जानाति।) हनूमान् - (सक्रोधम्) अहो रावणस्यावलेप:।15 तौ च बाहू न विज्ञाय तच्चापि सुमहद् धनु: । सायकं चापि रामस्य गतायुरिति भाषते ।। 15 ।। न शक्नोमि रोषं धारयितुम्। भवतु, अहमेवार्यरामस्य कार्यं साधयामि। अथवा, यद्यहं रावणं हन्मि कार्यसिद्धिर्भविष्यति । यदि मां प्रहरेद् रक्षो महत् कार्यं विपद्यते ।। 16 ।। रावण: - वरतनु! तनुगात्रि! कान्तनेत्रे ! कुवलयदामनिभां विमुच्य वेणीम् । बहुविधमणिरत्नभूषिताङ्गं दशशिरसं मनसा भजस्व देवि ! ।। 17 ।। सीता - हं विपरीओ खु धम्मो, जं जीवदि खु अअं पापरक्खसो। (हं, विपरीत: खलु धर्म:, यद् जीवति खल्वयं पापराक्षस:।) रावण: - ननु देवि। सीता - सत्तो सि। (शप्तोऽसि।) रावण: - हहह, अहो पतिव्रतायास्तेज: । देवा: सेन्द्रादयो भग्ना दानवाश्च मया रणे । सोऽहं मोहं गतोऽस्म्यद्य सीतायास्त्रिभिरक्षरै:।। 18 ।। (नेपथ्ये) जयतु देव:। जयतु लङ्केश्वर:। जयतु स्वामी। जयतु महाराज: । दश नाडिका: पूर्णा:। अतिक्रामति स्नानवेला। इतो महाराज: । (निष्क्रान्त: सपरिवारो रावण:।) हनूमान् - हन्त निर्गतो रावण:, सुप्ताश्च राक्षसस्त्रिय:। अयं कालो देवीमुपसर्पितुम्। (कोटरादवरुह्य) जयत्वविधवा। प्रोषितोऽहं नरेन्द्रेण विदितात्मना । त्वद्गतस्नेहसन्तापविक्लवीकृतचेतसा ।। 19 ।। सीता - (आत्मगतम्) को णु खु अअं, पापरक्खसो अय्यउत्तकेरओ त्ति अत्ताणं बवदिसिअ बाणररूवेण मं वञ्चिदुकामो भवे। भोदु, तुह्णिआ भविस्सं। (को नु खल्वयं, पापराक्षस आर्यपुत्रसंबन्धीत्यात्मानं व्यपदिश्य वानरूपेण मां वञ्चयितुकामो भवेत्। भवतु, तूष्णीका भविष्यामि।) हनूमान् - कथं न प्रत्येति भवती। अलमन्यशङ्कया। श्रोतुमर्हति भवती। इक्ष्वाकुकुलदीपेन सन्धाय हरिणा त्वहम् । प्रेषितस्त्वद्विचित्यर्थं हनूमान् नाम वानर: ।। 20 ।। सीता - (आत्मगतम्) जो वा के वा भोदु। अय्यउत्तणामसङ्कित्तणेण अहं एदेण अभिभासिस्सं। (प्रकाशम्) भद्द! को वुत्तन्तो अय्यउत्तस्स। (यो वा को वा भवतु। आर्यपुत्रनामसंकीर्तनेनाहमेतेनाभिभाषिष्ये। भद्र! को वृत्तान्त आर्यपुत्रस्य।) हनूमान् - भवति! श्रूयताम्, अनशनपरितप्तं पाण्डु स क्षामवक्त्रं तव वरगुणचिन्तावीतलावण्यलीलम् । वहति विगतधैर्यं हीयमानं शरीरं मनसिजशरदग्धं बाष्पपर्याकुलाक्षम् ।। 21 ।।16 सीता - (आत्मग्तम्) हद्धि वीळिआ खु म्हि मन्दभाआ एवं सोअन्तं अय्यउत्तं सुणिअ। अय्यउत्तस्स विरहपरिस्समो वि मे सफळो संवुत्तो त्ति पेक्खामि, जदि खु अअं वाणरो सच्चं मन्तेदि। अय्यउत्तस्स इमÏस्स जणे अणुक्कोसं परिस्ससं च सुणिअ सुहस्स दुक्खस्स अ अन्तरे डोळाअदि विअ मे हिअअं। (प्रकाशम्) भद्द! कहं तुम्हेहि अय्यउत्तस्स सङ्गमो जादो। (हा धिग् व्रीडिता खल्वस्मि मन्दभागा एवं शोचन्तमार्यपुत्रं श्रुत्वा। आर्यपुत्रस्य विरहपरिश्रमोऽपि, मे सफल: संवृत्त इति पश्यामि, यदि खल्वयं वानर: सत्यं मन्त्रयते। आर्यपुत्रस्यास्मिन् जनेऽनुक्रोशं परिश्रमं च श्रुत्वा सुखस्य दु:खस्य चान्तरे दोलायत इव मे हृदयम्। भद्र! कथं युष्माभिरार्यपुत्रस्य संगमो जात:। हनूमान् - भवति! श्रूयतां। हत्वा वालिनमाहवे कपिवरं त्वत्कारणादग्रजं सुग्रीवस्य कृतं नरेन्द्रतनये! राज्यं हरीणां तत: । राज्ञा त्वद्विचयाय चापि हरय: सर्वा दिश: प्रेषिता- स्तेषामस्म्यहमद्य गृध्रवचनात् त्वां देवि! सम्प्राप्तवान् ।। 22 ।। सीता - अहो अअरूणा क्खु इस्सरा एव्वं सोअन्तं अय्यउत्तं करअन्तो। (अहो अकरुणा: खल्वीश्वरा एवं शोचन्तमार्यपुत्रं कुर्वन्त:।) हनूमान् - भवति! मा विषादेन। रामो हि, प्रगृहीतमहाचापो वृतो वानरसेनया । समुद्धर्तुं दशग्रीवं लङ्कामेवाभियास्यति ।। 23 ।। सीता - किण्णु खु सिविणो मए दिट्ठो। भद्द! अवि सच्चं। ण आणामि। (किन्नु खलु स्वप्नो मया दृष्ट:। भद्र! अपि सत्यम्। न जानामि।) हनूमान् - (स्वगतम्) भो:! कष्टम्। एवं गाढं परिज्ञाय भर्तारं भर्तृवत्सला । न प्रत्यायति शोकार्ता यथा देहान्तरं गता ।। 24 ।। (प्रकाशम्) भवति! अयमिदानी, समुदितवरचापबाणपाणिं पतिमिह राजसुते! तवानयामि । भव हि विगतसंशया मयि त्वं नरवरपाश्र्वगता विनीतशोका ।। 25 ।। सीता - भद्द! एदं मे अवत्थं सुणिअ अय्यउत्तो जह सोअपरवसो ण होइ, तह मे उत्तन्तं भणेहि। (भद्र। एतां मेऽवस्थां श्रुत्वार्यपुत्रो यथा शोकपरवशो न भवति, तथा मे वृत्तान्तं भण।) हनूमान् - यदाज्ञापयति भवती। सीता - गच्छ, कय्यसिद्धी होदु। (गच्छ, कार्यसिद्धिर्भवतु।) हनूमान् - अनुगृहीतोऽस्मि। (परिक्रम्य) कथमिदानीं ममागमनं रावणाय निवेदयामि। भवतु, दृष्टम्। परभृतगणजुष्टं पद्मषण्डाभिरामं सुरुचिरतरुषण्डं तोयदाभं त्रिकूटम् । करचरणविमर्दै: काननं चूर्णयित्वा विगतविषयदर्पं राक्षसेशं करोमि ।। 26 ।। (निष्क्रान्तौ) द्वितीयोऽङ्क:।

प्रथमोऽङ्कः पुटाग्रे अल्लिखितम्। तृतीयोऽङ्कः