सामग्री पर जाएँ

अभिषेकनाटकम्/तृतीयोऽङ्कः

विकिस्रोतः तः

<poem> अथ तृतीयोऽङ्क: (तत: प्रविशति शङ्कुकर्ण:) शङ्कुकर्ण: - क इह भो:! काञ्चनतोरणद्वारमशून्यं कुरुते। प्रतीहारी - अय्य! अहं विजया। किं करीअदु। (आर्य! अहं विजया। किं क्रियताम्।) शङ्कुकर्ण: - विजये! निवेद्यतां निवेद्यतां महाराजाय लङ्केश्वराय भग्नप्रायाऽशोकवनिकेति! कुत:, यस्यां न प्रियमण्डनापि महिषी देवस्य मण्डोदरी स्नेहाल्लुम्पति पल्लवान्न च पुनर्वीजन्ति यस्यां भयात् । वीजन्तो मलयानिला अपि करैरस्पृष्टबालद्रुमा सेयं शक्ररिपोरशोकवनिका भग्नेति विज्ञाप्यताम् ।। 1 ।। प्रतीहारी - अय्य! णिच्चं भट्टिपादमूले वत्तमाणस्स जणस्स अदिट्ठपुरुवो अअं सम्भमो। किं एदं । (आर्य! नित्यं भर्तृपादमूले वर्तमानस्य जनस्यादृष्टपूर्वोऽयं सभ्रम: । किमेतद्।) शङ्कुकर्ण: - भवति! अतिपाति कार्यमिदम्। शीघ्रं निवेद्यतां निवेद्यताम्। प्रतीहारी - अय्य! इयं णिवेदेमि। (निष्क्रान्ता) (आर्य! इयं निवेदयामि।) शङ्कुकर्ण: - (पुरतो विलोक्य) अये अयं महाराजो लङ्केश्वर इत एवाभिवर्तते। य एष:, अमलकमलसन्निभोग्रनेत्र: कनकमयोज्ज्वलदीपिकापुरोग: । त्वरितमभिपतत्यसौ सरोषो युगपरिणामसमुद्यतो यथार्क: ।। 2 ।। (तत: प्रविशति यथानिर्दिष्टो रावण:।) रावण: - कथं कथं भो नववाक्यवादि - ञ्छृणोमि शीघ्रं वद केन चाद्य । मुमूर्षुणा मुक्तभयेन धृष्टं वनाभिमर्दात् परिधर्षितोऽहम् ।। 3 ।। शङ्कुकर्ण: - (उपसृत्य) जयतु महाराज:। अविदितागमनेन केनचिद् वानरेण ससंरम्भमभिमृदिताशोकवनिका। रावण: - (सावज्ञम्) कथं वानरेणेति। गच्छ, शीघ्रं निगृह्यानय। शङ्कुकर्ण: - यदाज्ञापयति महाराज:। (निष्क्रान्त:।) रावण: - भवतु भवतु। युधि जगत्त्रयभीतिकृतोऽपि मे यदि कृतं त्रिदशौरिदमप्रियम् । अनुभवन्त्वचिरादमृताशिन: फलमतो निजशाठ्यसमुद्भवम्।।4।। शङ्कुकर्ण: - जयतु महाराज:। महाराज! महाबल: खलु स वानर:। तेन खलु मृणालवदुत्पाटिता: सालवृक्षा:, मुष्टिना भग्नो दारुपर्वतक:, पाणितलाभ्यामभिमृदितानि लतागृहाणि, नादेनैव विसंज्ञीकृता: प्रमदवनपाला:। तस्य ग्रहणसमर्थं बलमाज्ञापयितुमर्हति महाराज:। रावणः - तेन हि किङ्कराणां सहस्रं बलमाज्ञापय वानरग्रहणाय।18 शङ्कुकर्णः - यदाज्ञापयति महाराजः । (निष्क्पम्य प्रविश्य) जयतु महाराजः। अस्मदीयैर्महावृक्षैरस्मदीया महाबलाः । क्षिप्रमेव हतास्तेन किङ्करा द्रुमयोधिना ।। 5 ।। रावण: - कथं हता इति। तेन हि कुमारमक्षमाज्ञापय वानरग्रहणाय। शङ्कुकर्ण: - यदाज्ञापयति महाराज:। (निष्क्रान्त:।) रावण: - (विचिन्त्य) कुमारो हि कृतास्त्रश्च शूरश्च बलवानपि । प्रसह्य चापि गृह्णीयाद्धन्याद् वा तं वनौकसम् ।। 6 ।। (प्रविश्य) शङ्कुकर्ण: - अनन्तरीयं बलमाज्ञापयितुमर्हति महाराज:। रावण: - किमर्थम्। शङ्कुकर्ण: - श्रोतुमर्हति महाराज:। कुमारं वानरमभिगच्छन्तं दृष्ट्वा महाराजेनानाज्ञापिता अप्यनुगता: पञ्च सेनापतय:। रावण: - ततस्तत:। शङ्कुकर्ण: - ततस्तानभिद्रुतान् दृष्ट्वा किञ्चिद् भीत इव तोरणमाश्रित्य काञ्चनपरिघमुद्यम्य निपातितास्तेन हरिणा पञ्च सेनापतय:। रावण: - ततस्तत:। शङ्कुकर्ण: - तत: कुमारमक्षं क्रोधात् संरक्तनेत्रं त्वरिततरहयं स्यन्दनं वाहयन्तं प्रावृट्कालाभ्रकल्पं परमलघुतरं बाणजालान् वमन्तम् । तान् बाणान् निर्विधुन्वन् कपिरपि सहसा तद्रथं लङ्खयित्वा कण्ठे सङ्गृह्य धृष्टं मुदिततरमुखो मुष्टिना निर्जघान ।। 7 ।। रावण: - (सरोषम्) आ:, कथं कथं निर्जघानेति। तिष्ठ त्वमहमेवैनमासाद्य कपिजन्तुकम् । एष भस्मीकरोम्यस्मत्क्रोधानलकणैः क्षणात् ।। 8 ।। शङ्कुकर्ण: - प्रसीदतु प्रसीदतु महाराज:। कुमारमक्षं निहतं श्रुत्वा क्रोधाविष्टहृदय: कुमारेन्द्रजिदभिगतवांस्तं वनौकसम्। रावण: - तेन हि गच्छ। भूयो ज्ञायतां वृत्तान्त:। शङ्कुकर्ण: - यदाज्ञापयति महाराज:। (निष्क्रान्त:।) रावण: - कुमारो हि कृतास्त्रश्च, अवश्यं युधि वीराणां वधो वा विजयोऽथवा । तथापि क्षुद्रकर्मेदं मह्यमीषन्मनोज्वर: ।। 9 ।। (प्रविश्य) शङ्कुकर्ण: - जयतु महाराज:। जयतु लङ्केश्वर:। जयतु भद्रमुख:।19 संवृत्तं तुमुलं युद्धं कुमारस्य च तस्य च । तत: स वानर: शीघ्रं बद्ध: पाशेन साम्प्रतम् ।। 10 ।। रावण: - कोऽत्र विस्मय इन्द्रजिता शाखामृगो बद्ध इति। कोऽत्र भो:। (प्रविश्य) राक्षस: - जयतु महाराज:। रावण: - गच्छ विभीषणस्तावदाहूयताम्। राक्षस: - यदाज्ञापयति महाराज: । (निष्क्रान्त:।) रावणः - त्वमपि तावद् वानरमानय । शङ्कुकर्ण: - यदाज्ञापयति महाराज: । (निष्क्रान्त:।) रावणः - (विचिन्त्य) भोः! कष्टम् । अचिन्त्या मनसा लङ्का सहितैः सुरदानवैः । अभिभूय दशग्रीवं प्रविष्टः किल वानरः ।। 11 ।। अपि च, जित्वा त्रैलोक्यमाजौ ससुरदनुसुतं यन्मया गर्वितेन क्रान्त्वा कैलासमीशं स्वगणपरिवृतं साकमाकम्प्य देव्या । लब्ध्वा तस्मात् प्रसादं पुनरगसुतया नन्दिनानादृतत्वाद् दत्तं शप्तं च ताभ्यां यदि कपिविकृतिच्छद्मना तन्मम स्यात् ।। 12 ।। (ततः प्रविशति विभीषणः।) विभीषणः - (सविमर्शम्) अहो तु खलु महाराजस्य विपरीता बुद्धिः संवृत्ता। कुतः, मयोक्तो मैथिली तस्मै बहुशो दीयतामिति । न मे श्रृणोति वचनं सुहृदां शोककारणात् ।। 13 ।। (उपेत्य) जयतु महाराजः। रावण: - विभीषण! एह्येहि। उपविश। विभीषण: - एष एष उपपविशामि। (उपविशति) रावण: - विभीषण! निर्विण्णमिवत्वां लक्षये। विभीषण: - निर्वेद एव खल्वनुक्तग्राहिणं स्वामिनमुपाश्रितस्य भृत्यजनस्य। रावण: - छिद्यतामेषा कथा। त्वमपि तावद् वानरमानय। विभीषण: - यदाज्ञापयति महाराज:। (निष्क्रान्त:।) सर्वे - आ: इत इत:। हनूमान् - नैवाहं धर्षितस्तेन नैर्ऋतेन दुरात्मना । स्वयं ग्रहणमापन्नो राक्षसेशदिदृक्षया ।। 14 ।। (उपगम्य)20 भो राजन्! अपि कुशली भवान्। रावण: - (सावज्ञम्) विभीषण! किमस्य तत् कर्म। विभीषण: - महाराज! अतोऽप्यधिकम्। रावण: - कथं त्वमवगच्छसि। विभीषण: - प्रष्टुमर्हति महाराज: कस्त्वमिति। रावण: - भो वानर! कस्त्वम्। केन कारणेन घर्षितोऽस्माकमन्त: पुरं प्रविष्ट:। हनूमान् - भो:! श्रूयताम्, अञ्जनायां समुत्पन्नो मारुतस्यौरस: सुत: । प्रेषितो राघवेणाहं हनूमान् नाम वानर: ।। 15 ।। विभीषण: - महाराज! किं श्रुतम्। रावण: - किं श्रुतेन। विभीषण: - हनूमन्! किमाह तत्रभवान् राघव:।। हनूमान्: - भो:! श्रुयतां रामशासनम्।। रावण: - कथं कथं रामशासनमित्याह। आ: हन्यतामयं वानर:। विभीषण: - प्रसीदतु प्रसीदतु महाराज:। सर्वापराधेष्ववध्या: खलु दूता:। अथवा रामस्य वचनं श्रुत्वा पश्चाद् यथेष्टं कर्तुमर्हति महाराज:। रावण: - भो वानर! किमाह स मानुष:। हनूमान् - भो:! श्रूयतां, वरशरणमुपेहि शङ्करं वा प्रविश च दुर्गतमं रसातलं वा । शरवरपरिभिन्नसर्वगात्रं यमसदनं प्रतियापयाम्यहं त्वाम् ।। 16 ।। रावण: - ह ह ह। दिव्यास्त्रैस्त्रिदशगणा मयाभिभूता दैत्येन्द्रा मम वशवर्तिन: समस्ता: । पौलस्त्योऽप्यपहृतपुष्पकोऽवसन्नो भो! राम: कथमभियाति मानुषो माम् ।। 17 ।। हनूमान् - एवंविधेन भवता किमर्थं प्रच्छन्नं तस्य दारापहरणं कृतम् । विभीषण: - सम्यगाह हनूमान् । अपास्य मायया रामं त्वया राक्षसपुङ्गव !। भिक्षुवेषं समास्थाय च्छलेनापहृता हि सा ।। 18 ।। रावण: - विभीषण! किं विपक्षपक्षमवलम्बसे ।21 विभीषण: - प्रसीद राजन्! वचनं हितं मे प्रदीयतां राघवघर्मपत्नी । इदं कुलं राक्षसपुङ्गवेन त्वया हि नेच्छामि विपद्यमानम् ।। 19 ।। रावण: - विभीषण! अलमलं भयेन। कथं लम्बसट: सिंहो मृगेण विनिपात्यते । गजो वा सुमहान् मत्त: शृगालेन निहन्यते ।। 20 ।। हनूमान् - भो रावण! विपद्यमानभाग्येन भवता किं युक्तं राघवमेवं वक्तुम्। मा तावद् भो:! नक्तञ्चरापसद! रावण! राघवं तं वीराग्रगण्यमतुलं त्रिदशेन्द्रकल्पम् । प्रक्षीणपुण्य! भवता भुवनैकनाथं वक्तुं किमेवमुचितं गतसार! नीचै: ।। 21 ।। रावण: - कथं कथं नामाभिधते। हन्यतामयं वानर:। अथवा दूतवध: खलु वचनीय:। शङ्कुकर्ण! लाङ्गूलमादीप्य विसृज्यतामयं वानर:। शङ्कुकर्ण: - यदाज्ञापयति महाराज:। इत इत:। रावण: - अथवा एहि तावत्। हनूमान् - अयमस्मि। रावण: - अभिधीयतां मद्वचनात् स मानुष: अभिभूतो मया राम ! दारापहरणादसि । यदि तेऽस्ति धनु:ष्लाघा दीयतां मे रणो महान् ।। 22 ।। हनूमान् - अचिराद् द्रक्ष्यसि, अभिहतवरप्रगोपुराट्टां रघुवरकार्मुकनादनिर्जितस्त्वम् । हरिगणपरिपीडितै: समन्तात् प्रमदवनैरभिसंवृतां स्वलङ्काम् ।। 23 ।। रावण: - आ: निर्वास्यतामयं वानर:। राक्षसा: - इत इत:। (रक्षोभि: सह निष्क्रान्तो हनूमान्।) विभीषण: - प्रसीदतु प्रसीदतु महारज:। अस्ति काचिद् विवक्षा महाराजस्य हितमन्तरेण। रावण: - उच्यतां, तच्छ्रेयो वयमपि श्रोतार:। विभीषण: - सर्वथा राक्षसकुलस्य विनाशोऽभ्यागत इति मन्ये। रावण: - केन कारणेन। विभीषण: - महाराजस्य विप्रतिपत्त्या। रावण: - का मे विप्रतिपत्ति:।22 विभीषण: - ननु सीतापहरणमेव । रावण: - सीतापहरणेन को दोष: स्यात् । विभीषण: - अधर्मश्च । रावण: - चशब्देन सावशेषमिव ते वचनम्। तद् ब्रूहि । विभीषण: - तदेव ननु । रावण: - विभीषण! किं गूहसे। मम खलु प्राणै: शापित: स्या: यदि सत्यं न ब्रूया: । विभीषण: - अभयं दातुमर्हति महाराज: । रावण: - दत्तमभयम्। उच्यताम् । विभीषण: - बलवद्विग्रहश्च । रावण: - (सरोषम्) कथं कथं बलवद्विग्रहो नाम । शत्रुपक्षमुपाश्रित्य मामयं राक्षसाधम: । क्रोधमाहारयंस्तीव्रमभीरुरभिभाषते ।। 24 ।। कोऽत्र । ममानवेक्ष्य सौभ्रात्रं शत्रुपक्षमुपाश्रितम् । नोत्सहे पुरतो द्रष्टुं तस्मादेष निरस्यताम् ।। 25 ।। विभीषण: - प्रसीदतु महाराज:। अहमेव यास्यामि। शासितोऽहं त्वया राजन् ! प्रयामि न च दोषवान् । त्यक्त्वा रोषं च कामं च यथा कार्यं तथा कुरु ।। 26 ।। (परिक्रम्य) अयमिदानीम् --- अद्यैव तं कमललोचनमुग्रचापं रामं हि रावणवधाय कृतप्रतिज्ञम् । संश्रित्य संश्रितहितप्रथितं नृदेवं नष्टं निशाचरकुलं पुनरुद्धरिष्ये ।। 27 ।। (निष्क्रान्त:।) रावण: - हन्त निर्गतो विभीषण:। यावदहमपि नगररक्षां सम्पादयामि। (निष्क्रान्त:।) तृतीयोऽङ्क:।