अभङ्गपद्यम् २६

विकिस्रोतः तः
मराठी(मूलम्) संस्कृतम्
२६

एक तत्व नाम दृढ धरी मना।
हरीसी करुणा येईल तुझी॥१

ते नाम सोपे रे रामकृष्ण गोविंद।
वाचेसी सद्गद जपा आधी॥२

नामापरते तत्व नाही रे अन्यथा।
वायां आणिक पंथा जासी झणी॥३

ज्ञानदेवा मौन जपमाळ अंतरी।
धरूनि श्रीहरि जपे सदा॥४

२६

नामैकमेव तत्वं तद् दृढं धारय रे मन:।
कारुण्यभावो जायेत तेन त्वद्विषये हरौ॥१

सुवाचं नाम तद् राम कृष्ण गोविन्द वापि च।
वाण्या सगद्गदं नाम तदेव प्रथमं जप॥२

नाम्न: परतरं तत्वं विद्यते नैव चापरम्।
अतश्चान्येन मार्गेण गमनं ते निरर्थकम्॥३

ज्ञानेशो वक्ति मूक: सन्धृत्वा श्रीहरिमन्तरे।
कृत्वा च मनसो मालां हृदि नित्यं जपाम्यहम्॥४

हरिपाठ: ज्ञानेश्वरकृत: मराठी-संस्कृतभाषाभ्याम्

"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_२६&oldid=37605" इत्यस्माद् प्रतिप्राप्तम्