अभङ्गपद्यम् २३

विकिस्रोतः तः
मराठी(मूलम्) संस्कृतम्
२३

सात पांच तीन दशकांचा मेळा।
एकतत्वी कळा दावी हरि॥१

तैसे नव्हे नाम सर्व मार्गी वरिष्ठ।
येथे काही कष्ट न लगती॥२

अजपा जपणे उलट प्राणाचा।
तेथेही नामाचा निर्धार असे॥३
ज्ञानदेवा जिणे नामेविण व्यर्थ।

रामकृष्णी पंथ क्रमियेला॥४

२३

सप्त पञ्च तथा त्रीणि दश चैकत्र मेलितम्।
मेलोऽयं भासते सर्व एकतत्वात्मके हरौ॥१

नैवं नाम, वरिष्ठं तन्मार्गेषु सकलेषु च।
न नामस्मरणे कष्टं मनागप्यनुभूयते॥२

सोऽहं हंस इति प्राणे सोऽजपाजपसंज्ञित:।
तस्मिन्नपि जपे नामस्मरणं विद्यते ध्रुवम्॥३

वक्ति ज्ञानेश्वरो व्यर्थं जीवितं नामवर्जितम्।
रामकृष्णाख्यमार्गोऽयमत आक्रम्यते मया॥४

हरिपाठ: ज्ञानेश्वरकृत: मराठी-संस्कृतभाषाभ्याम्

"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_२३&oldid=37603" इत्यस्माद् प्रतिप्राप्तम्