अभङ्गपद्यम् १८

विकिस्रोतः तः
मराठी(मूलम्) संस्कृतम्
१८

हरिवंशपुराण हरिनाम कीर्तन।
हरिविण सौजन्य नेणें काही॥१

त्या नरा लाधले वैकुण्ठ जोडले।
सकळहि घडले तीर्थाटन॥२

मनोमार्गी गेला तो येथे मुकला।
हरिपाठी स्थिरावला तोचि धन्य॥३

ज्ञानदेवा गोडी हरिनामाची जोडी।
रामकृष्णी आवडी सर्वकाळ॥४

१८

हरिवंश: पुराणानि हरिनाम च कीर्तनम्।
हरिं विना च विषयो यस्मै कोऽपि न रोचते॥१

नरस्य तस्य लाभोऽयं य़द् वैकुण्ठं समाप्नुयात् ।
तीर्थाटनस्य सर्वस्य फलं चापि लभेत स:॥२

मनोमार्गेण यो यातो नाप्नोति स इदं सुखम्।
हरिपाठे स्थिरो यस्तु स धन्यो जायते नर:॥३

वक्ति ज्ञानेश्वरो नामसङ्गे मे विद्यते रस:।
रामकृष्णविषयिणी वर्तते मे रुचि: सदा॥ ४

हरिपाठ: ज्ञानेश्वरकृत: मराठी-संस्कृतभाषाभ्याम्

"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_१८&oldid=37598" इत्यस्माद् प्रतिप्राप्तम्