अभङ्गपद्यम् १२

विकिस्रोतः तः
मराठी(मूलम्) संस्कृतम्
१२

तीर्थ व्रत नेम भावेविण सिद्धि।
वायाचि उपाधि करिसी जना॥१

भावबळे आकळे येरवी नाकळे ।
करतळी अवळे तैसा हरि॥२

पारियाचा रवा घेता भूमीवरि।
यत्न परोपरी साधन तैसे॥३

ज्ञानदेव म्हणे निवृत्ति निर्गुण।
दिधले संपूर्ण माझे हाती॥४

१२

तीर्थैर्व्रतैर्वा नियमैर्न सिद्धिर्भाववर्जितै:।
भावशून्यं वृथोपाधिरूपमेतदहो जना:॥१

विज्ञायते च विस्पष्टं हस्तस्थामलकं यथा।
तथा भावबलेनायं हरिर्ज्ञायेत नान्यथा॥२

भूमिस्थ: पारदकणो यथा यत्नशतैरपि।
न गृह्यते, साधनानां शतैरपि तथा हरि:॥३

ज्ञानेश्वरो वदति यत्, निवृत्तिर्निर्गुणो गुरु:।
स स्वरूपस्थितिं पूर्णामददाद् हस्तयोर्मम॥४

हरिपाठ: ज्ञानेश्वरकृत: मराठी-संस्कृतभाषाभ्याम्

"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_१२&oldid=37592" इत्यस्माद् प्रतिप्राप्तम्