अभङ्गपद्यम् १०

विकिस्रोतः तः
मराठी(मूलम्) संस्कृतम्
१०

त्रिवेणी संगमी नाना तीर्थे भ्रमी।
चित्त नाही नामी तरी ते व्यर्थ॥१

नामासी विन्मुख तो नर पापिया।
हरिवीण धावया न पवे कोणी॥२

पुराणप्रसिद्ध बोलले वाल्मीक
नामे तिन्ही लोक उद्धरती॥३

ज्ञानदेव म्हणे नाम जपे हरिचे।
परंपरा त्याचे कुळ शुद्ध॥४

१०

त्रिवेणीसङ्गमे नानातीर्थेष्वटनमेव वा।
चित्तं न चेन्नामजपे, सर्वं तद्भ्रमणं वृथा॥१

नामतो यस्तु विमुखो, मूर्तिमत्पापमेव स:।
उद्धर्तुं तादृशं पापं नालं कोऽपि विना हरिम्॥२

पुराणेषु प्रसिद्ध: स वाल्मीकिरिदमुक्तवान्।
हरिनामस्मरणतो भुवनत्रयमुद्धरेत्॥३

वदतीदं ज्ञानदेव: श्रीहरेर्नाम यो जपेत्।
विशुद्धा जायते तस्य सर्वा कुलपरम्परा॥

हरिपाठ: ज्ञानेश्वरकृत: मराठी-संस्कृतभाषाभ्याम्

"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_१०&oldid=37590" इत्यस्माद् प्रतिप्राप्तम्