अपोहसिद्धिः

विकिस्रोतः तः
अपोहसिद्धिः
[[लेखकः :|]]


अपोहसिद्धिः ।

नमः श्रीलोकनाथाय ॥

अपोहः शब्दार्थो निरुच्यते ।

ननु कोऽयमपोहो नाम? किमिदमन्यस्मादपोह्यते; अस्माद्वा अन्यदपोह्यते; अस्मिन् वान्यदपोह्यत इति व्युत्पत्त्या विजातिव्यावृत्तं वाह्य मेव विवक्षितं; बुद्ध्याकारो वा; यदि वा अपोहनमपोह इत्यन्य व्यावृत्तिमात्रमिति त्रयः पक्षाः । न तावदादिमौ पक्षौ, अपोहनाम्ना विधेरेव विवक्षितत्वात्; अन्तिमोऽप्यसङ्गतः प्रति तिवाधितत्वात्; तथाहि पर्व्वतोद्देशे वन्हिरस्तीति शाब्दौ प्रतीतिर्व्विधिरूपमेवोल्लिखन्ती लक्ष्यते; नानग्निर्नभवतीति निवृत्तिमात्रमामुखयन्ती । यच्च प्रत्यक्षवाधितं न तत्र साधनान्तरावकाश इत्यतिप्रसिद्धम् ।

अथ यद्यपि निवृत्तिमहं प्रत्येमीति न विकल्पः । तथापि निवृत्तपदार्थोल्लेख एव निवृत्त्युल्लेखः । न ह्यनन्तर्भावितविशेषणप्रतीति व्विशिष्टप्रतीतिः । ततो यथा सामान्यमहं प्रत्येमीति विकल्पाभावेऽपि साधारणाकारपरिस्फुरणात्विकल्पबुद्धिः सामान्यबुद्धिः परेषाम्; तथा निवृत्तप्रत्यया क्षिप्ता निवृत्तिबुद्धिरपोहप्रतीतिव्यवहारमातनोतीति चेत्? ननु साधारणाकारपरिस्फुरणे विधिरूपतया यदि सामान्यबोधव्यवस्था; तत्किमायातमस्फु रदभावाकारे चेतसि निवृत्तिप्रतीतिव्यवस्थायाः । ततो निवृत्तिमहं प्रत्येमीत्येवमाकाराभावेऽपि निवृत्त्याकारस्फुरणं यदि स्यात्, को नाम निवृत्तिप्रतीतिस्थितिमपलपेत् । अन्यथासति प्रतिभासे तत्प्रतीतिव्यवहृतिरिति गवाकारेपि चेतसि तुरगबोध इत्यस्तु ।

अथ विशेषणतया अन्तर्भूता निवृत्तिप्रतीतिरित्युक्तं, तथापि यद्यगवापोढ इतीदृशा कारोविकल्पस्तदा विशेषणतया तदनुप्रवेशो भवतु, किन्तु गौरिति प्रतीतिः । तदा च सतोपि निवृत्तिलक्षणस्य विशेषणस्य तत्रानुत्कलनात्; कथं तत्प्रतीतिव्यवस्था । अथैवं मतिः । यद्विधिरूपं स्फुरितं तस्य परापोहोऽप्यस्तीति तत्प्रतीतिरुच्यते । तथापि सम्बन्धमात्रमपोहस्य विधिरेव साक्षान्निर्भासी । अपि चैवमध्यक्षस्या प्यपोहविषयत्वमनिवार्यम् । विशेषतो विकल्पादेकव्यावृत्तोल्लेखिनोऽखिलान्यव्यावृत्तमीक्षमाणस्य । तस्माद्विध्याकारावग्रहादध्यक्षवद्विकल्पस्यापि विधिविषयत्वमेव नान्यापोहविषयत्वमिति कथमपोहः शब्दार्थो घुष्यते ॥ अत्राभिधीयते ॥

नास्माभिरपोहशब्देन विधिरेव केवलोऽभिप्रेतः । नाप्यन्यव्यावृत्तिमात्रं, किन्त्वन्यापोहविशिष्टो विधिः शब्दानामर्थः । ततश्च न प्रत्येकपक्षोपनिपातिदोषावकाशः । यत्तु गोः प्रतीतौ न तदात्मापरात्मेति सामर्थ्यादपोहः पश्चान्निश्चीयत इति विधिवादिनां मतम्; अन्यापोहप्रतीतौ वा सामर्थ्यातन्यापोढोवधार्य्यते इति प्रतिषेधवादिनां मतम् । तदसुन्दरम् । प्राथमिकस्यापि प्रतिपत्तिक्रमादर्शनात् । न हि विधिं प्रतीपद्य कश्चिदर्थापत्तितः पश्चादपोहमवगच्छति; अपोहं वा प्रतिपद्यान्यापोदम्; तस्माद्गोः प्रतिपत्तिरिति अन्यापोढप्रतिपत्तिरुच्यते । यद्यपि चान्यापोढशब्दानुल्लेख उक्तः । तथापि नाप्रतिपत्तिरेव, विशेषणभूतस्यान्यापोहस्य अगवापोढ एव गोशब्दस्य निवेशितत्वात् । यथा नीलोत्पले निवेशितादिन्दीवरशब्दान्नीलोत्पल प्रतीतौ तत्काल एव नीलिमस्फुरणमनिवार्य्यम्; तथा गोशब्दादप्यगवापोढे निवेशितात्गोप्रतीतौ तुल्यकालमेव विशेषणत्वातगो[ऽ]पोहस्फुरणमनिवार्य्यम् । यथा प्रत्यक्षस्य प्रसह्य रूपाभावग्रहणमभावविकल्पोत्पादन शक्तिरेव । तथा विधिविकल्पानामपि तदनुरूपानुष्ठानदानशक्तिरेवाभावग्रहणमभिधीयते । पर्य्युदासरूपाभावग्रहणन्तु नियत स्वरूपसम्बेदनमुभयोरविशिष्टं; अन्यथा यदि शब्दादर्थप्रतिपत्तिकाले कलितो न परापोहः; कथमन्यपरिहारेण प्रवृत्तिः । ततो गां वधानेति चोदितोऽश्वादीनपि वध्नीयात् ।

यदप्यवोचद्वाचस्पतिः; जातिमत्यो व्यक्तव्यः; विकल्पानां शब्दानाञ्च गोचरः; तासाञ्च तद्वतीनां रूपमतज्जातीयपरावृत्तमित्यर्थतस्तदवगतेर्न गाम्बधानेति चो दितोऽश्वादीन् बध्नाति । तदप्यनेनैव निरस्तं यतो जातेरधिकायाः प्रक्षेपेऽपि व्यक्तीनां रूपमतज्जातीयव्यावृत्तमेव चेत्, तदा तेनैव रूपेण शब्दविकल्पयोर्विषयीभवन्तीनां कथमतद्यावृत्तिपरिहारः?

अथ न विजातीयव्यावृत्तं व्यक्तिरूपं, तथाप्रतीतं, वा तदा जातिप्रसाद एष इति कथमर्थतोपि तदवगतिरित्युक्तप्रायम् ।

अथ जातिवलादेवान्यतो व्यावृत्तम् । भवतु जातिवलात्स्वहेतुपरम्परावलाद्वान्यव्यावृत्तम् । उभयथापि व्यावृत्तप्रतिपत्तौ व्यावृत्तिप्रतिपत्तिरस्त्येव । नचागो[ऽ]पोढे गोशब्दसङ्केतविधावन्योन्याश्रयदोषः । सामान्ये तद्वति वा सङ्केतेऽपि तद्दोषावकाशात् । न हि सामान्यं नाम सामान्यमात्रमभिप्रेतं तुरगेपि गोशब्दसङ्केतप्रसङ्गात् । किन्तु गोत्वम् । तावता च स एव दोषः । गवापरिज्ञाने गोत्वसामान्यापरिज्ञानात् । गोत्वसामान्यापरिज्ञने गोशब्दवाच्यापरिज्ञानात् । तस्मातेकपिण्डदर्शनपूर्व्वको यः सर्व्वव्यक्तिसाधारण इव बहिरध्य स्तो विकल्पबुध्याकारः, तत्रायं गौरिति सङ्केतकरणे नेतरेतराश्रयदोषः । अभिमते च गोशब्दप्रवृत्तावगोशब्देन शेषस्याप्यभिधान मुचितम् । न चान्यापोढा न्यापोहयोर्व्विरोधोविशेष्यविशेषणक्षतिर्व्वा; परस्परव्यवच्छेदाभावात्, सामानाधिकरण्यसद्भावात्, भूतलघटाभाववत् । स्वाभावेन हि विरोधो न पराभावेनेत्याबालप्रसिद्धम् । एष पन्थाः श्रुघ्नमुपतिष्ठत इत्यत्राप्यपोहो गम्यत एव; अप्रकृत पथान्तरापेक्षया एष एव । श्रुघ्नप्रत्यनीकानिष्टस्थानापेक्षया श्रुघ्नमेव । अरण्यमार्गवद्विच्छेदाभावादुपतिष्ठत एव । सार्थदूतादिव्यवच्छेदेन पन्थाएवेति प्रतिपदं व्यवच्छेदस्य सुलभत्वात्तस्मादपोहधर्म्मणो विधिरूपस्य शब्दादवगतिः; पुण्डरीकशब्दादिव श्वेतिमविशिष्टस्य पद्मस्य । यद्येवं विधिरेव शब्दार्थोवक्तुमुचितः । कथमपोहो गीयत इति चेत्? उक्तमत्रापोहशब्देनान्यापोहविशिष्टो विधिरुच्यते; तत्र विधौ प्रतीयमाने विशेषणतया तुल्यकालमन्यापोहप्रतीतिरिति । न चैवं प्रत्यक्षस्याप्यपोहविषयत्वव्यवस्था कर्त्तुमुचिता; तस्य शाब्दप्रत्ययस्येव वस्तुविषयत्वे विवादाभावात् । विधिशब्देन च यथाध्यवसायमतद्रूप परावृत्तो बाह्योर्थोभिमतः । यथाप्रतिभासं बुड्ध्याकारश्च; तत्र वाह्योर्थोध्यवसायादेव शब्दवाच्यो व्यवस्थाप्यते । न स्वलक्षणपरिस्फूर्त्त्या प्रत्यक्षवद्देशकालावस्थानियतप्रव्यक्त स्वलक्षणास्फुरणात् । यच्छास्त्रं


शब्देनाव्यापृताख्यस्य बुद्ध्वावप्रतिभासनात् ।

अर्थस्य दृष्टाविवेति, इन्द्रियशब्दस्वभावोपायभेदातेकस्यैव प्रतिभास भेद इति चेत्? अत्राप्युक्तम् ।

जातो नामाश्रयोन्यान्यः चेतसान्तस्य वस्तुनः ।
एकस्यैव कुतो रूपं भिन्नाकारावभासि तत् ॥

न हि स्पष्टास्पष्टे द्वे रूपे परस्परविरुड्धे एकस्य वस्तुनः स्तः; यत एकेनेन्द्रियबुड्धौ प्रतिभासेतान्येन विकल्पे, तथा सति वस्तुन एव भेदप्राप्तेः; न हि स्वरूपभेदादपरो वस्तुभेदः । न च प्रतिभासभेदादपर स्वरूपभेदः; अन्यथा त्रैलोक्यमेकमेव वस्तु स्यात् । दूरासन्नदेशवर्त्तिनोः पुरुषयोः एकत्र शाखिनि स्पष्टास्पष्टप्रतिभासभेदेपि न शाखिभेद इति चेत्? न ब्रूमः प्रतिभासभेदोभिन्नवस्तु नियतः । किन्तु , एकविषयत्वाभावनियत इति । ततो यत्रार्थक्रियाभेदादिसचिवः प्रतिभासभेदः तत्र वस्तुभेदः, घटवत् । अन्यत्र पुनर्न्नियमे नैकविषयतां परिहरतीत्येकप्रतिभासो भ्रान्तः ।

एतेन यदाह वाचस्पतिः; न च शब्दप्रत्यक्षयोव्वस्तुगोचरत्वे प्रत्ययाभेदः कारणभेदेन पारोक्ष्यापारोक्ष्यभेदोपपत्तेरिति । तन्नोपयोगि । परोक्षप्रत्ययस्य वस्तुगोचरत्वासमर्थनात् । परोक्षताश्रयस्तु कारणभेद इन्द्रियगोचरग्रहणविरहेणैव कृतार्थः । तन्न शाब्दे प्रत्यये स्वलक्षणं परिस्फुरति किञ्च स्वलक्षणात्मनि वस्तुनि वाच्ये सर्व्वात्मना प्रतिपत्तेः, विधिनिषेधयोरयोगः । तस्य हि सद्भावेस्तीति व्यर्थ, नास्तीत्यसमर्थम्; असद्भावे नास्तीति व्यर्थमस्ती त्यसमर्थम् । अस्ति चास्त्यादिपदप्रयोगः । तस्मात्शब्दप्रतिभासस्य वाह्यार्थभावाभावसाधारण्यं न तद्विषयतां क्षमते ।

यच्च वाचस्पतिना जातिमब्द्यक्तिवाच्यतां स्ववाचैव प्रस्तु त्याननन्तरमेव न च शब्दार्थस्य जातेर्भावाभावसाधारण्यं नोपपद्यते; सा हि स्वरूपतो नित्यापि देशकालविप्रकीर्णानेकव्यक्त्याश्रयतया भावाभावसाधारणीभवन्नस्तिना स्तिसम्बन्धयोग्या; वर्त्तमानव्यक्तिसम्बन्धिता हि जातेरस्तिता; अतीतानागतव्यक्तिसम्बन्धिता च नास्तितेति सन्दिग्धव्यतिरेकित्वादनैकान्तिकम्भावाभावसाधारण्यमन्यथासिड्वं वेति विलपितम् । तावन्न प्रकृतक्षतिः । जातौ भरं न्यस्यता स्वलक्षणावाच्यत्वस्य स्वयं स्वीकारात् । किञ्च सर्व्वत्र पदार्थस्य स्वलक्षणस्वरूपेणैवास्तित्वादिकं चिन्त्यते । जातेस्तु वर्त्तमानादिव्यक्तिसम्बन्धो स्तित्वादिकमिति तु बालप्रतारणम् । एवं जातिमव्ध्यक्तिवचनेऽपि दोषः; व्यक्तेश्चेत्प्रतीतिसिद्धिः, जातिरधिका प्रतीयताम्, मा वा, न तु व्यक्तिप्रतीतिदोषन्मुक्तिः । एते न यदुच्यते कौमारिलैः । सभागत्वादेव वस्तुनो न साधारण्यदोषः । वृक्षत्वं ह्यनिर्द्वारितभावाभावं शब्दादवगम्यते । तयोरन्यतरेण शब्दान्तरावगतेन सम्बध्यत इति । तदप्यसङ्गतम्; सामान्यस्य नित्यस्य प्रतिपत्तावनिर्द्वारितभावाभावत्वायोगात् । यच्चेढं न च प्रत्यक्षस्येव शब्दानामर्थप्रत्यायनप्रकारो येन तद्दृष्ट इवास्त्यादिशब्दापेक्षा न स्यात्; विचित्रशक्तित्वात्प्रमाणानामिति तदप्यैन्द्रियकशाब्दप्रतिभासयोरेकस्वरूपग्राहित्वे भिन्नावभासदूषणेन दूषितं विचित्रशक्तित्वञ्च प्रमाणानां साक्षात्काराध्यवसायाभ्यामपि चरितार्थम् ।

ततो यदि प्रत्यक्षार्थप्रतिपादनं शाब्देन तद्वदेवावभासः स्यात्; अभवंश्च न तद्विषयख्यापनं क्षमते । ननु वृक्षशब्देन वृक्षत्वांशे चोदिते सत्त्वाद्यंशनिश्चयनार्थमस्त्यादिपदप्रयोग इति चेत्? निरंशत्वेन प्रत्यक्षसमधिगतस्य स्वलक्षणस्य कोऽवकाशः पदान्तरेण; धर्म्मान्तरविधिनिषेधयोः प्रमाणान्तरेण वा । प्रत्यक्षेऽपि प्रमाणान्तरापेक्षा दृष्टे ति चेत्? भवतु तस्यानिश्चयात्मत्वातनभ्यस्तस्वरूपविषये; विकल्पस्तु स्वयन्निश्चयात्मको यत्र ग्राही तत्र किमपरेण? अस्ति च शब्दलिङ्गान्तरापेक्षा ततो न वस्तु स्वरूपग्रहः । ननु भिन्ना जात्यादयो धर्म्माः परस्परं धर्म्मिणश्चेति जातिलक्षणैकधर्म्मद्वारेण प्रतीतेपि शाखिनि धर्म्मान्तरवत्तया न प्रतीतिरिति किन्न भिन्ना भिधानाधी नो धर्मान्तरस्य नीलचलोच्चैस्तरत्वादेरववोधः । तदेतदसङ्गतम्; अखण्डात्मनः स्वलक्षणस्य प्रत्यक्षे प्रतिभासात् । दृश्यस्य धर्म्मधर्म्मिभेदस्य प्रत्यक्षप्रतिक्षिप्तत्वा दन्यथा सर्व्वं सर्व्वत्र स्यादित्यतिप्रसङ्गः । काल्पनिकभेदाश्रयस्तु धर्म्मधर्म्मिव्यवहार इति प्रसाधितं शास्त्रे; भवतु वा परमार्थिको धर्म्मधर्म्मिभेदः । तथाप्यनयोः समवायादे र्दूषितत्वादुपकारलक्षणैव प्रत्यासत्तिरेषितव्या । एवञ्च यथेन्द्रियप्रत्यासत्त्या प्रत्यक्षेण धर्म्मिप्रतिपत्तौ सकलतद्द्वर्म्मप्रतिपत्तिः । तथा शब्दलिङ्गाभ्यामपि वाच्यवाचकादि सम्बन्धप्रतिबद्धाभ्यां धर्म्मिप्रतिपत्तौ निरवशेषतड्वर्म्मप्रतिपत्ति र्भवेत्; प्रत्यासत्तिमात्रस्याविशेषात् ।

यच्च वाचस्पतिः; नचैकोपाधिना सत्त्वे विशिष्टे तस्मिन् गृहीते; उपाध्यन्त रविशिष्टतब्ग्द्रहः । स्वभावों हि द्रव्यस्य उपाधिभिर्व्विशिष्यते । नतूपाधयो वा विशेष्यत्वं वा तस्य स्वभाव इति । तदपि प्लवत एव । नह्यभेदादुपाध्यन्तरग्रहणञ्चमासञ्जि तम् । भेदं पुरस्कृत्यैवोपकारकग्रहणे उपकार्य्यग्रहणप्रसञ्जनात् । न चाग्निधूमयोः कार्य्यकारणभाव इव स्वभावत एव धर्म्मधर्म्मिणोः प्रतिनियमकल्पनमुचितम् । तयोरपि प्रमाणासिद्ध त्वात् । प्रमाणसिद्धे च स्वभावोपवर्णनमिति न्यायः ॥

यच्चात्र न्यायभूषणेन सूर्य्यादिग्रहणे तदुपकार्य्याशेष वस्तुराशिग्रहणप्रसञ्जनमुक्तम्; तदभिप्रायानवगाहन फलं तथा हि त्वन्मते धर्म्मधर्म्मिणोर्भेदः उपकारलक्षणैव च प्रत्यासत्तिः । तदोपकारकग्रहणे समानदेशस्यैव धर्म्मरूपस्यैव चोपकार्य्यस्य ग्रहणमासञ्जितम् । तत्कथं सूर्य्यो पकार्य्यस्य भिन्नदेशस्य द्रव्यान्तरस्य वा दृष्टव्यभिचारस्य ग्रहणप्रसङ्गः सङ्गतः । तस्मातेकधर्म्मद्वारेणापि वस्तुस्वरूपप्रतिपत्तौ सर्व्वात्मप्रतीतेः; क्व शब्दान्तरेण विधिनिषेधावकाशः । अस्ति च, तस्मान्न स्वलक्षणस्य शब्दविकल्पलिङ्गप्रतिभासित्वमिति स्थितम् ॥

नापि सामान्यं शाब्दप्रत्ययप्रतिभासि । सरितः पारे गावश्चरन्तीति गवादिशब्दात्सास्राशृङ्गलाङ्गूलादयोऽक्षराकारपरिकरिताः सजातीयभेदापरामर्शनात्सम्पिण्डितप्रायाः प्रतिभासन्ते । न च तदेव सामान्यम् ।

वर्णाकृत्यक्षराकारश्रून्यङ्गोत्वं हि कथ्यते ।

तदेव च सास्राशृङ्गादिमात्रमखिलव्यक्तावत्यन्तविलक्षणमपि स्वलक्षणेनैकीक्रियमाणं सामान्यमित्युच्यते । तादृशस्य वाह्यस्याप्राप्ते र्भ्रान्तिरेवासौ केशप्रतिभासवत् । तस्माद्वासनावशाद्दुड्वेरेव तदात्मना विवर्त्तोयमस्तु, असदेव वा तद्रूपं ख्यातु; व्यक्तय एव वा सजातीयभेदतिरस्कारेणान्यथा भासन्ता मनुभवव्यवधानात्; स्मृतिप्रमोषो वभिधीयताम्; सर्व्वथा निर्व्विषयः खल्वयं सामान्यप्रत्ययः; क्व सामान्यवार्त्ता? यत्पुनः सामान्याभावे सामान्यप्रत्ययस्याकस्मिकत्वमुक्तं तदयुक्तम् । यतः पूर्व्वपिण्डदण्डदर्शनस्मरणसहकारिणातिरिच्यमानाविशेषप्रत्ययजनिका सामग्री निर्व्विषयं सामान्यविकल्पमुत्पादयति । तदेवन्न शाब्दप्रत्यये जातिः प्रतिभाति; नापि प्रत्यक्षे न चानुमानतोऽपि सिद्धिः; अदृश्यत्वे प्रतिबद्धलिङ्गादर्शनात् । नापीन्द्रियवदस्याः सिद्धिः । ज्ञानकार्य्यतः कादाचित्कस्यैव निमित्तान्तरस्य सिद्धेः । यदापि पिण्डान्तरे अन्तराले वा गोबुद्धेरभावं दर्शयेत्; तदा शावलेयादिसकलगोपिण्डानामेवाभावादभावो गो बुद्धेरूपपद्यमानः कथमर्थान्तरमाक्षिपेत्? गोत्वादेव गोपिण्डः, अन्यथा तुरगोपि गोपिण्डः स्यात् । यद्येवं गोपिण्डादेव गोत्वमन्यथा तुरगत्वमपि गोत्वं स्यात् । तस्मात्कारणपरम्परात एव गोपिण्डो गोत्वं तु भवतु मा वा । ननु सामान्यप्रत्ययजननसामर्थ्यं यद्येकस्मात्पिण्डादभिन्नम्; तदा विजातीयव्यावृत्तं पिण्डान्तरमसमर्थम् । अथ भिन्नं तदा तदेव सामान्यं नाम्नि परं विवाद इति चेत्? अभिन्नैव सा शक्तिः प्रति वस्तु; यथात्वेकः शक्तस्वभावो भावः तथ अन्योपि भवन् कीदृशन्दोषमावहति? यथा भवतां जातिरेकापि समानध्वनिप्रसवहेतुरन्यापि स्वरूपेणैव जात्यन्तरनिरपेक्षा । तथास्माकं व्यक्तिरपि जातिनिरपेक्षा स्वरूपेणैव भिन्ना हेतुः ।

यत्तु त्रिलोचनः । अश्वत्वगोत्वा दीनां सामान्य विशेषाणां स्वाश्रये समवायः सामान्यम्; सामान्य मित्यभिधानप्रत्यययोर्निमित्तमिति । यद्येवं व्यक्तिष्वप्ययमेव तथाभिधानप्रत्ययहेतुरस्तु । किं सामान्यस्वीकार प्रमादेन ।

न च समवायः सम्भवी ॥

इहेति बुद्धेः समवायसिद्धिरिहेति धीश्च द्वयदर्शने स्यात् ।
न च क्वचित्तद्विषये त्वपेक्षा स्वकल्पनामात्रमतोभ्युपायः ॥

एतेन येयं प्रत्ययानुवृत्तिरनुवृत्तवस्त्वनुयायिनी कथमत्यन्तभेदिनीसु व्यक्तिषु व्यावृत्तविषयप्रत्ययभावानुपातिनीषु भवितुमर्हतीत्युहाप्रवर्त्तनमस्य प्रत्याख्यातम् । जाटिष्वेव परस्परव्यावृत्ततया व्यक्तीयमानास्वनुवृत्तप्रत्ययेन व्यभिचारात् । यत्पुनरनेन विपर्य्यये वाधकमुक्तम्, अभिधानप्रत्ययानुवृत्तिः कुतश्चिन्निवृत्त्य क्वचिदेव भवन्ती निमित्तवती । न चान्यन्निमित्तमित्यादि ॥ तन्न सम्यक् । अनुवृत्तमन्तरेणापि अभिधानप्रत्ययानुवृत्तेरतद्रूपपरावृत्तस्वरूपविशेषातवश्यं स्वीकारस्य साधितत्वात् । तस्मात्, तुल्य भेदे यया जा तिः प्रत्यासत्त्या प्रसर्पति । क्वचिन्नान्यत्र सैवास्तु शब्दज्ञाननिबन्धनम् ।

यत्पुनरत्र न्यायभूषणेनोक्तं नह्येवं भवति । यया प्रत्यासत्त्या दण्डसूत्रादिकं प्रसर्पति क्वचिन्नान्यत्र सैव प्रत्यासत्तिः पुरुषस्फटिकादिषु दण्डिसूत्रित्वादिव्यवहारनिबन्धनमस्तु किं दण्डसूत्रादिनेति । तदसङ्गतम् । दण्डसूत्रयोहि पुरुषस्फटिकप्रत्यासन्नयोः दृष्टयोः दण्डिसूत्रिप्रत्ययहेतुत्वं नापलप्यते । सामान्यन्तु स्वप्नेऽपि न दृष्टम् । तद्यदीदं परिकल्पनीयं तदा वरं प्रत्यासत्तिरेव सामान्यप्रत्ययहेतुः परिकल्प्यताम्, किं गुर्व्यापरिकल्पनयेत्यभिप्राया परिज्ञानात् ।

अथेदं जातिप्रसाधकमनुमानमभिधीयते ।

यद्विशिष्टज्ञानं तद्विशेषणग्रहणनान्तरीयकम् । यथा दण्डिज्ञानम् । विशिष्टज्ञानञ्चेदं गौरयमित्यर्थतः कार्य्यहेतुः । विशेषणानुभवकार्य्यं हि दृष्टान्ते विशिष्टबुद्धिः सिड्वेति । अत्रानुयोगः, विशिष्टबुद्धेर्भिन्नविशेषणग्रहणनान्तरीयकत्वं वा साध्यम्; विशेषण मात्रानुभवनान्तरीयकत्वं वा । प्रथमपक्षे पक्षस्य प्रत्यक्षवाधासाधनावधानमनवकाशयति । वस्तुग्राहिणः प्रत्यक्षस्यो भयप्रतिभासाभावात् । विशिष्टबुद्धित्वञ्च सामान्यम् । हेतुर नैकान्तिकः । भिन्नविशेषणग्रहणमन्तरेणापि दर्शनात् । यथा स्वरूपवान् घटः । गोत्वं सामान्यमिति वा । द्वितीयपक्षे तु सिद्धसाधनम् । स्वरूपवान् घट इत्यादिवत्गोत्वजातिमा न् पिण्ड इति परिकल्पितं भेदमुपादाय विशेषणविशेष्यभावस्येष्टत्वाद्गोव्यावृत्तानुभवभावित्वाद्गौरयमिति व्यवहारस्य । तदेव न सामान्यबुद्धिः । वाधकं च सामान्यगुणकर्म्माद्युपा धिचक्रस्य, केवलव्यक्तिग्राहकं पटुप्रत्यक्षम् । दृश्यानुपलम्भो वा प्रसिद्धः ।

तदेवं विधिरेव शब्दार्थः । स च वाह्योर्थो बुध्याकारश्च विवक्षितः, तत्र न बुध्याकारस्य तत्त्वतः सम्बृत्त्या वा विधिनिषेधौ । स्वसम्बेदनप्रत्यक्षगम्यत्वात् । अनध्यवसायाच्च । नापि तत्त्वतो वाह्यस्यापि विधिनिषेधौ तस्य शाब्दे प्रत्ययेऽप्रतिभासनात् । अतएव सर्व्वधर्म्माणान्तत्त्वतोऽनभिलाप्यत्वं प्रतिभासाध्यवसायाभावात्तस्मात्वाह्यस्यैव साम्बृतौ विधिनिषेधौ । अन्यथा सम्व्यवहारहानिप्रसङ्गात् । तदेवम् ।

नाकारस्य न वाह्यस्य तत्त्वतोविधिसाधनम् ।
वहिरेव हि संवृत्त्या संवृत्यापि तु नाकृतेः ॥

एतेन यड्वर्म्मोत्तरः ॥ आरोपितस्य वाह्यत्वस्य विधिनिषेधावित्यलौकिकमनागममतार्किकीयं कथयति । तदपहस्तितम् ।

नन्वध्यवसाये यद्यध्यवसेयं वस्तु न स्फुरति तदा तदध्यवसितमिति कोऽर्थः? अप्रतिभासेऽपि प्रवृत्तिविषयीकृतमिति योऽर्थः । अप्रतिभासाविशेषे विषयान्तरपरिहारेण कथन्नियतविषया प्रवृत्तिरिति चेत्? उच्यते; यद्यपि विश्वमगृहीतं तथापि विकल्पस्य नियतसामग्रीप्रसूतत्वेन नियताकारतया नियतशक्तित्वात्नियता एव जलादौ प्रवृत्तिः । धूमस्य परोक्षाग्निज्ञानजननवत् ।

नियतविषया हिभावाः प्रमाणपरिनिष्ठितस्वभावा न शक्तिसाङ्कर्य्यपर्य्यनुयोगभाजः । तस्मात्तदध्यवसायित्वमाकारविशेषयोगात्तत्प्रवृत्तिजनकत्वम् । न च सादृश्यादारोपेण प्रवृत्तिं ब्रूमः । येनाकारे वाह्यस्य वाह्ये वा आकारस्यारोपद्वारेण दूषणावकाशः । किन्तर्हि स्ववासनाविपाकवशादुपजायमानैव बुड्विरपश्यन्त्यपि वाह्यं वाह्ये वृत्तिमातनो तीति विप्लुतैव । तदेवमन्याभावविशिष्टो विजातिव्यावृत्तोर्थो विधिः । स एव चापोहशब्दवाच्यः शब्दानामर्थः प्रवृत्तिनिवृत्तिविषयश्चेति स्थितम् ॥

अत्र प्रयोगः । यद्वाचकं तत्सर्व्वमध्यवसितातद्रूपपरावृत्तवस्तुमात्रगोचरम् । यथेह कूपे जलमिति वचनम् । वाचकञ्चेदं गवादिशब्दरूपमिति स्वभावहेतुः । नायमसिड्वः, पूर्वोक्तेन न्यायेन पारमार्थिकवाच्यवाचकभावस्याभावेऽपि; अध्यवसायकृतस्य सर्व्वव्यवहारिभिरवश्यस्वीकर्त्तव्यत्वात् । अन्यथा सर्व्वव्यवहारोच्छेदप्रसङ्गात् । नापि विरुद्धः सपक्षे भावात् । न चानैकान्तिकः; तथाहि शब्दानामध्यवसितविजातिव्यावृत्तव स्तुमात्रविषयत्वमनिच्छद्भिः परैः परमार्थतो

वाच्यं स्वलक्षणमुपाधिरुपाधियोगः

सोपाधिरस्तु यदि वा कृतिरस्तु बुद्धेः, गत्यन्तराभावात् । अविषयत्वे च वाचकत्वायोगात् । तत्र ।

आद्यन्तयोर्न्न समयः फलशक्तिहानेर्मध्येप्युपाधिविरहात्तितयेन युक्तः ॥

तदेवं वाच्यान्तरस्याभावात् । विषयवत्त्वलक्षणस्य व्यापकस्य निवृत्तौ विपक्षतो निवर्त्तमानं वाचकत्वमध्यवसितवाह्यविषयत्वेन व्याप्यत इति व्याप्तिसिद्धिः ।

शब्दैस्तावन्मुख्यमाख्यायतेऽर्थ स्तत्रापोहस्तद्गुणत्वेन गम्यः ।
अर्थश्चैकोऽध्यासतो भासतोऽन्यः स्थाप्यो वाच्यस्तत्त्वतो नैव कश्चित् ॥

अपोहसिद्धिः समाप्ता ॥

कृतिरियम्महापण्डितरत्नकीर्त्तिपादानाम् ॥

भवत्वपोहे कृतिनाम्प्रपञ्चो [व]स्तुस्वरूपास्फुरणन्तु मर्म्म ।
तत्रादृढे सर्व्वमयत्नशीर्णं दृढे तु सौस्थ्यन्ननु तावतैव ॥
सम्पूर्णरात्रिप्रहरद्वयेन कीर्त्तेरपोहो लिखितः सुखेन ।
त्रैलोक्यदत्तेन परात्महेतोः [य]त्नादतोऽयं परिरक्षणीयः ॥

"https://sa.wikisource.org/w/index.php?title=अपोहसिद्धिः&oldid=340813" इत्यस्माद् प्रतिप्राप्तम्