अपरोक्षानुभूतिः (समूलम्)

विकिस्रोतः तः
अपरोक्षानुभूतिः (समूलम्)
शङ्कराचार्यः
१९१०

श्रीशंकराचार्यविरचितप्रकरणग्रंथसंग्रहः ।

॥ अपरोक्षानुभूतिः ॥

श्रीहरिं परमानदमुपदेष्टारमीश्वरम् ।
व्यापक सर्वलोकाना कारण त नमाम्यहम् ।। १ ||
अपरोक्षानुभूतिर्वै प्रोच्यते मोक्षसिद्धये ।
सद्भिरेषा प्रयत्नेन वीक्षणीया मुहुर्मुहुः ॥ २ ॥
स्ववर्णाश्रमधर्मेण तपसा हरितोपणात् ।
साधनं प्रभवेत्पुसा वैराग्यादिचतुष्टयम् || ३ ||
ब्रह्मादिस्थावरान्तेषु वैराग्य विषयेष्वनु ।
यथैव काकविष्टाया वैराग्य तद्धि निर्मलम् || ४ ||
नित्यमात्मस्वरूप हि दृश्य तद्विपरीतगम् ।
एव यो निश्चय सम्यग्विवेको वस्तुनः स वै ।। ५ ।।
सदैव वासनात्यागः शमोऽयमिति शब्दितः ।
निग्रहो बाह्यवृत्तीना दम इत्यभिधीयते ।। ६ ।।
विषयेभ्यः परावृत्ति परमोपरतिहिं सा ।
सहन सर्वदुःखाना तितिक्षा सा शुभा मता ॥ ७ ॥
निगमाचार्यवाक्येषु भक्ति' श्रद्धेति विश्नुता ।
चित्तैकाग्र्य तु सल्लक्ष्ये समाधानमिति स्मृतम् ॥ ८ ॥
ससारबधनिर्मुक्तिः कथ मे स्यात्कदा विभो ।

इति या सुदृढा बुद्धिर्वक्तव्या.सा मुमुक्षुता ॥ ९ ॥
उक्तसाधनयुक्तेन विचारः पुरुपेण 'हि।
कर्तव्यो ज्ञानसिद्धयर्थमात्मनः शुभमिन्छता ॥ १० ॥
नोत्पद्यते विना ज्ञानं विचारेणान्यसाधनैः ।।
यथा पदार्थभान हि प्रकाशेन विना क्वचित् ॥ ११ ॥
कोऽहं कथमिद जात को वा कर्ताऽस्य विद्यते ।
उपादान किमस्तीह विचारः सोऽयमीदृशः ॥ १२ ॥
नाहं भूतगणो देहो नाहं चाक्षगणस्तथा ।
एतद्विलक्षणः कश्चिद्विचारः सोऽयमीदृशः ॥ १३ ॥
अज्ञानप्रभव सर्वं ज्ञानेन प्रविलीयते ।
संकल्पो विविधः कर्ता विचारः सोऽयमीदृशः ॥ १४
एतयोर्यदुपादानमेक सूक्ष्म सदव्ययम् |
यथैव मृद्धटादीनां विचारः सोऽयमीदृशः ॥ १५ ॥
अहमेकोऽपि सूक्ष्मश्च ज्ञाता साक्षी सदव्ययः ।।
तदह नात्र सदेहो विचार: सोऽयमीदृशः ॥ १६ ॥ .
आत्मा विनिष्कलो ह्येको देहो बहुभिरावृतः ।
तयोरैक्य प्रपश्यन्ति किमज्ञानमतः परम् ॥ १७ ॥
आत्मा नियामकश्चान्तर्ढेहो बाह्यो नियामकः ।
तयोरैक्य प्रपश्यन्ति किमज्ञानमतः परम् ॥ १८ ॥
आत्मा ज्ञानमयः पुण्यो देहो मासमयोऽशुचिः ।
तयोरैक्य प्रपश्यन्ति किमज्ञानमतः परम् ।। १९ ।।
आत्मा प्रकाशकः स्वन्छो देहस्तामस उच्यते ।
तयोरैक्य प्रपश्यन्ति किमज्ञानमतः परम् ॥ २० ॥
आत्मा नित्यो हि सद्रूपो देहोऽनित्यो ह्यसन्मयः । '
तयोरैक्य प्रपश्यन्ति किमज्ञानमतः परम् ॥ २१ ॥


आत्मनस्तत्प्रकाशत्वं यत्पदार्थावभासनम् ।
नाग्न्यादिदीप्तिवद्दीप्तिर्भवत्यान्ध्य यतो निशि ॥ २२॥
देहोऽहमित्यय-मूढो मत्वा तिष्ठत्यही जनः ।
ममायमित्यपि ज्ञात्वा घटद्रष्टेव सर्वदा ॥ २३ ॥
ब्रह्मैवाह समः शान्तः सच्चिदानंदलक्षणः ।
नाह देहो ह्यसदूपो ज्ञानमित्युच्यते बुधै ॥ २४ ॥
निर्विकारो निराकारो निरवद्योऽहमव्ययः ।
नाह देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ।। २५ ॥
निरामयो निराभासो निर्विकल्पोऽहमाततः ।
नाह देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ २६ ॥
निर्गुणो निष्क्रियो नित्यो नित्यमुक्तोऽहमग्युतः ।
नाह देहो ह्यसदूपो ज्ञानमित्युच्यते बुधैः ॥ २७ ॥
निर्मलो निश्चलोऽनत शुद्रोऽहमजरोऽमर 1 ।'
नाह देहो ह्यसदूपो ज्ञानमित्युच्यते बुधैः ॥ २८॥
स्वढेहे शोभन सन्त पुरुषाख्य च समतम् ।
किं मूर्ख शून्यमात्मान देहातीत करोपि भो ।। २९ ॥
स्वात्मान शृणु मूर्ख त्व श्रुत्या युक्त्या च पूरुपम् ।
देहातीत सदाकार सदुर्ढर्शं भवादृशै ॥ ३० ॥
अहशब्देन विख्यात एक एव स्थितः परः ।
स्थूलत्वान्नैकता प्राप्त' कथ स्याद्देहकः पुमान् ॥ ३१.
अह द्रष्टतया सिद्वो देहो दृश्यतया स्थितः ।
ममायमिति निर्देशात्कथ स्याद्देहक. पुमान् ।। ३२ ।।
अह विकारहीनरतु देहो नित्य विकारवान् । ।,
इति, प्रतीयते साक्षात्कथ स्याद्देहकः पुमान् ।।.३३
यस्मात्परमिति श्रुत्या तया पुरुपलक्षणम् ।

विनिर्णीतं विमूढेन कथं स्याद्देहकः पुमान् ।। ३४ ॥
सर्वं पुरुष एवेति सूक्ते पुरुषसंज्ञिते ।
अप्युच्यते यतः श्रुत्या कथ स्याद्देहकः पुमान् ॥ ३५ ॥
असंगः पुरुषः प्रोक्तो बृहदारण्यकेऽपि च ।
अनंतमलसंश्लिष्टः कथं स्याद्देहकः पुमान् ॥ ३६ ॥
तत्रैव च समाख्यातः स्वयंब्योतिर्हि पूरुपः ।
जडः परप्रकाश्योऽयं कथं स्याद्देहकः पुमान् ।। ३७ ।।
प्रोक्तोऽपि कर्मकाडेन ह्यात्मा देहाद्विलक्षणः ।
नित्यश्च तत्फल भुक्ते देहपातादनतरम् ।। ३८ ।।
लिंगं चानेकसयुक्तं चल दृश्य विकारि च ! .
अव्यापकमसद्रूप तत्कथ स्यात्पुमानयम् ॥ ३९ ॥
एवं देहद्वयादन्य आत्मा पुरुष ईश्वरः ।
सर्वात्मा सर्वरूपश्च सर्वातीतोऽहमन्यय' ॥ ४० !!
इत्यात्मदेहभावेन प्रपचस्यैव सत्यता ।
यथोक्ता तर्कशास्त्रेण तत किं पुरुषार्थता ।। ४१ ।।
इत्यात्मदेहभेदेन देहात्मत्वं निवारितम् ।
इदानीं देहभेदस्य ह्यसत्त्व स्फुटमुन्यते ॥ ४२ ॥
चैतन्यस्यैकरूपत्वाद्भेढो युक्तो न कर्हिचित् ।
जीवत्वं च मृषा ज्ञेय रज्जौ सर्पग्रहो यथा ॥ ४३ ॥
रज्ज्वज्ञानात्क्षणेनैव यद्वद्रजुर्हि सर्पिणी ।
भाति तद्वच्चिति साक्षाद्विश्वाकारेण केवला || ४४ ॥
उपादानं प्रपचस्य ब्रह्मणोऽन्यन्न विद्यते ।
तस्मात्सर्वप्रपंचोऽयं ब्रहौवास्ति न चेतरत् ॥ ४५ ॥
व्याप्यव्यापकता मिथ्या सर्वमात्मेति शासनात् ।
इति ज्ञाते परे तत्त्वे भेढस्यावसरः कुतः ॥ ४६ ।।

अपरोक्षानुभूतिः

श्रुत्या निवारित नून नानात्व स्वमुखेन हि ।
कथ भासो भवेदन्यः स्थिते चाद्वयकारणे ॥ ४७ ॥
दोषोऽपि विहितः श्रुत्या मृत्योर्मृत्यु स गच्छति ।
इह पश्यति नानात्वं मायया वचितो नरः ॥ ४८ ।।
ब्रह्मण सर्वभूतानि जायन्ते परमात्मनः ।
तस्मादेतानि ब्रह्मैव भवन्तीत्यवधारयेत् ॥ ४९ ॥
ब्रह्मैव सर्वनामानि रूपाणि विविधानि च ।
कर्माण्यपि समग्राणि बिभर्तीति श्रुतिर्जगौ ॥ ५० ॥
सुवर्णाज्जायमानस्य सुवर्णत्व च शाश्वतम् ।
ब्रह्मणो जायमानस्य ब्रह्मत्व च तथा भवेत् ॥ ५१ ॥
स्वल्पमप्यतर कृत्वा जीवात्मपरमात्मनो ।
योऽवतिष्ठति सूढात्मा भय तस्यामिभाषितम् ॥ ५२ ॥
यत्राज्ञानाद्भवेद्वैतमितरस्तत्र पश्यति ।
आत्मत्वेन यदा सर्वं नेतरस्तत्र चाण्वपि ॥ ५३॥
यस्मिन्सर्वाणि भूतानि ह्यात्मत्वेन विजानतः ।
न वै तस्य भवेन्मोहो न च शोकोऽद्वितीयतः ।। ५४
अयमात्मा हि ब्रह्मैव सर्वात्मकतया स्थितः ।
इति निर्धारित श्रुत्या बृहदारण्यसस्थया ॥ ५५ ॥
अनुभूतोऽप्यय लोको व्यवहारक्षमोऽपि सन् ।
असद्रूपो यथा स्वप्न उत्तरक्षणबाधतः ॥ ५६ ॥
स्वप्नो जागरणेऽलीकः स्वप्नेऽपि न हि जागरः ।
द्वयमेव लये नास्ति लयोऽपि ह्युभयोर्न च ॥ ५७ ॥
त्रयमेव भवेन्मिथ्या गुणत्रयविनिर्मितम् ।
अस्य द्रष्टा गुणातीतो नित्यो ह्यकिश्चिदात्मकः ।। ५८ ॥
यद्वन्मृदि घटभ्रान्तिं शुक्तौ वा रजतस्थितिम् ।

तद्वब्रह्मणि जीवत्वं भ्रांत्या पश्यति न स्वतः ॥ ५९
यथा मृदि घटो नाम कनके कुडलाभिधा ।
शुक्तौ हि रजतख्यातिर्जीवशब्दस्तथा परे ।। ६० ॥
यथैव व्योम्नि नीलत्व यथा नीर मरुस्थले ।
पुरुषत्वं यथा स्थाणौ तद्वद्विश्वं चिदात्मनि ॥ ६१ ॥
यथैव शून्ये वेतालो गधर्वाणां पर यथा ।
यथाऽऽकाशे द्विचंद्रत्व तद्वत्सत्ये जगस्थितिः ॥ ६२ ॥
यथा तरंगकल्लोलैर्जलमेव स्फुरत्यलम् ।
पात्ररूपेण ताम्र हि ब्रह्मांडौधैस्तथाऽत्मता ॥ ६३ ॥
घटनाम्ना यथा पृथ्वी पटनाम्ना हि ततवः ।
जगन्नाम्ना चिदाभाति ज्ञेयं तत्तदभावतः ।। ६४ ।।
सर्वोऽपि व्यवहारस्तु ब्रह्मणा क्रियते जनैः ।
अज्ञानान्न विजानन्ति मृदेव हि घटादिकम् ।। ६५ ||
कार्यकारणता नित्यमास्ते घटमृदोर्यथा ।
तथैव श्रुतियुक्तिभ्यां प्रपचब्रह्मणोरिह ।। ६६ ॥
गृह्यमाणे घटे यद्वन्मृत्तिका भाति वै बलात् ।
वीक्ष्यमाणे प्रपचेऽपि ब्रह्मैवाभाति भासुरम् ।। ६७ ।।
सदैवात्मा विशुद्धोऽपि ह्यशुद्धो भाति वै सदा ।
यथैव द्विविधा रज्जुर्ज्ञानिनोऽज्ञानिनोऽनिशम् ।। ६८ ।।
यथैव मृन्मयः कुंभस्तद्वद्देहोऽपि चिन्मयः ।
आत्मानात्मविभागोऽय मुधैव क्रियते बुधैः ।। ६९ ।।
सर्पत्वेन यथा रज्जू रजतत्वेन शुक्तिका |
विनिर्णीता विभूढेन देहत्वेन तथाऽऽत्मता ।। ७० ॥
घटत्वेन यथा:पृथ्वी पटत्वेनेव तंतवः ।
विनिर्णीता विमूढेन देहत्वेन तथाऽऽत्मता ।। ७१ ।।.

कनकं कुडलत्वेन तरगत्वेन वै जलम् ।
विनिर्णीता विमूढेन देहत्वेन तथाऽऽस्मता ।। ७२ ।।
चोरत्वेन यथा स्थाणुर्जलल्वेन मरीचिका ।
विनिर्णीता विमूढेन देहत्वेन तथाऽऽस्मता' ।। ७३ ।।
गृहत्वेनेव काष्ठानि खड्गत्वेनेव लोहता ।
विनिर्णीता विमूढेन देहत्वेन तथाऽऽत्मता ।। ७४ ।।
यथा वृक्षविपर्यासो जलाद्भवति कस्यचित् ।
तद्वदात्मनि देहत्व पश्यत्यज्ञानयोगत' ।। ७५ ।।
पोतेन गच्छत' पुसः सर्वं भातीव चचलम् ।
तद्वदात्मनि देहत्व, पश्यत्यज्ञानयोगतः ।। ७६ ॥
पीतत्व हि यथा शुभ्रे दोषाद्भवति कस्यचित् ।
तद्वदात्मनि देहत्व पश्यत्यज्ञानयोगतः ॥ ७७ ॥
चक्षुर्भ्यो भ्रमशीलाभ्या सर्वं भाति भ्रमात्मकम् ।
तद्वदात्मनि देहत्व पश्यत्यज्ञानयोगत' ।। ७८ ।।
अलात भ्रमणेनैव वर्तुल भाति सूर्यवत् ।
तद्वदात्मनि देहत्व पश्यत्यज्ञानयोगतः ॥ ७९ ॥
महत्त्वे सर्ववस्तूनामणुत्व ह्यतिदूरत' ।
तद्वदात्मनि देहत्व पश्यत्यज्ञानयोगतः ॥ ८॥
सूक्ष्मत्वे सर्ववस्तूना स्थूलत्व चोपनेत्रतः ।
तद्वदात्मनि देहत्व पश्यत्यज्ञानयोगतः ॥ ८१ ॥
काचभूमौ जलत्व वा जलभूमौ हि काचता ।
तद्वदात्मनि देहत्व पश्यत्यज्ञानयोगतः ॥ ८२ ॥
यद्वदग्नौ मणित्वं हि मणौ या वह्निता पुमान् ।
तद्वदात्मनि देहत्व पश्यत्यज्ञानयोगतः ॥ ८३ ।।
अभ्रेषु सत्सु धावत्सु सोमो धावति भाति चै ।

तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८४ ॥
यथैव दिग्विपर्यासो मोहाद्भवति कस्यचित् ।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ।। ८५ ॥
यथा शशी जले भाति चंचलत्वेन कस्यचित् ।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८६ ॥
एवमात्मन्यविद्यातो देहाध्यासो हि जायते ।
स एवात्मा परिज्ञातो लीयते च परात्मनि ॥ ८७ ॥
सर्वमात्मतया ज्ञात जगत्स्थावरजगमम् ।
अभावात्सर्वभावानां देहानां चात्मता कुतः ॥ ८८ ॥
आत्मानं सततं जानन् काल नय महामते ।
प्रारब्धमखिलं भुजन्नोद्वेगं कर्तुमर्हसि || ८९ ॥
उत्पन्नेऽप्यात्मविज्ञाने प्रारब्ध नैव मुंचति ।
इति यच्छ्रूयते शास्त्रे तन्निराक्रियतेऽधुना ॥ ९० ॥
तत्त्वज्ञानोदयादूर्ध्वं प्रारब्ध नैव विद्यते ।
देहादीनामसत्यत्वाद्यथा स्वप्नो विबोधतः ॥ ९१ ॥
कर्म जन्मान्तरकृत प्रारब्धमिति कीर्तितम् ।
तत्तु जन्मान्तराभावात्पुंसो नैवास्ति कर्हिचित् ।। ९२ ॥
स्वप्नदेहो यथाऽध्यस्तस्तथैवाय हि देहकः ।
अध्यस्तस्य कुतो जन्म जन्माभावे हि तत्कुतः ॥ ९३ ॥
उपादान प्रपचस्य मृद्भांडस्यैव कथ्यते ।
अज्ञान चैव वेदान्तैस्तस्मिन्नष्टे क्व विश्वता ॥ ९४ ॥
यथा रज्जुं परित्यत्य सर्पं गृह्णाति वै भ्रमात् ।
तद्वत्सत्यमविज्ञाय जगत्पश्यति मूढधीः ॥ ९५ ॥
रज्जुरूपे परिज्ञाते सर्पभ्रांतिर्न तिष्ठति ।
अधिष्ठाने तथा ज्ञाते प्रपचः शून्यतां व्रजेत् ॥ ९६ ॥

देहस्यापि प्रपंचत्वात्प्रारब्धावस्थितिः कुतः ।
अज्ञानिजनबोधार्थं प्रारब्ध वक्ति वै श्रुतिः ॥ ९७ ॥
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ।
बहुत्वं तन्निषेधार्थं श्रुत्या गीत च यत्स्फुटम् ।। ९८ ॥
उच्यतेऽज्ञैर्वलाच्चैतत्तदानर्थद्वयागम' ।
वेदान्तमतहान च यतो ज्ञानमिति श्रुति ।। ९९ ॥
त्रिपचागान्यथो वक्ष्ये पूर्वोक्तस्य हि लब्धये ।
तैश्च सर्वैः सदा कार्यं निदिध्यासनमेव तु ॥ १०० ।।
नित्याभ्यासादृते प्राप्तिर्न भवेत्सच्चिदात्मन ।
तस्माद्ब्रह्म निदिध्यासेज्जिज्ञासु' श्रेयसे चिरम् ।। १०१ ।।
यमो हि नियमस्त्यागो मौन देशश्च कालतः ।
आसन मूलबधश्च देहसाम्य च दृक्स्थितिः ॥ १०२ ॥
प्राणसंयमन चैव प्रत्याहारश्च धारणा ।
आत्मध्यान समाधिश्च प्रोक्तान्यगानि वै क्रमात् ।। १०३ ।।
सर्वं ब्रह्मेति विज्ञानादिंद्रियग्रामसयमः ।
यमोऽयमिति सप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ।। १०४ ।।
सजातीयप्रवाहश्च विजातीयतिरस्कृतिः ।
नियमो हि परानदो नियमाक्रियते बुधैः ।। १०५ ।।
त्यागः प्रपचरूपस्य चिदात्मत्वावलोकनात् ।
त्यागो हि महतां पूज्यः सद्यो मोक्षमयो यतः ॥ १०६ ॥
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
यन्मौन योगिभिर्गम्य तद्भजेत्सर्वदा बुधः ॥ १०७ ।।
वाचो यस्मान्निवर्तन्ते तद्वक्तु केन शक्यते !
प्रपचो यदि वक्तव्यः सोऽपि शब्दविवर्जितः ॥ १०८ ॥
इति वा तद्भवेन्मौन सतां सहजसंज्ञितम् ।

गिरा मौनं तु बालानां प्रयुक्तं ब्रह्मवादिभिः ॥ १०९ ॥
आदावंते च मध्ये च जनो यस्मिन्न विद्यते ।
येनेदं सततं व्याप्तं स देशो विजनः स्मृतः ॥ ११० ॥
कलनात्सर्वभूतानां ब्रह्मादीनां निमेषतः ।
कालशब्देन निर्दिष्टो ह्यखडानद अद्वयः ॥ १११ ॥
सुखेनैव भवेद्यस्मिन्नजस्र ब्रह्मचिंतनम् |
आसनं तद्विजानीयान्नेतरत्सुखनाशनम् ॥ ११२ ।। ..
सिद्धं यत्सर्वभूतादि विश्वाधिष्ठानमव्ययम् ।
यस्मिन्सिद्धाः समाविष्टास्तद्वै सिद्धासन विदुः ॥ ११३ ॥
यन्मूलं सर्वभूताना यन्मूलं चित्तबधनम् ।
मूलबधः सदा सेव्यो योगोऽसौ राजयोगिनाम् || ११४ ॥
अगानां समतां विद्यात्समे ब्रह्मणि लीयते ।
नो चैन्नैव समानत्वमृजुत्व शुष्कवृक्षवत् ॥ ११५ ॥
दृष्टिं ज्ञानमयीं कृत्वा पश्येब्रह्ममय जगत् ।
सा दृष्टिः परमोदारा न नासाग्रावलोकिनी ॥ ११६ ॥
द्रष्टृदर्शनदृश्यानां विरामो यत्र वा भवेत् ।
दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलोकिनी ॥ ११७ ॥
चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् ।
विरोधः सर्ववृत्तीनां प्राणायामः स उच्यते ॥ ११८ ॥
निषेधन प्रपंचस्य रेचकाख्य' समीरणः ।
ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरीरितः ॥ ११९ ॥
ततस्तद्वृत्तिनैश्चल्यं कुंभक' प्राणसयमः |
अथ चापि प्रबुद्धानामज्ञाना घ्राणपीडनम् ॥ १२० ॥
विषयेष्वात्मतां दृष्ट्वा मनसाश्चिति मज्जनम् ।
प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः ॥ १२१ ॥

यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् ।
मनसो धारणं चैव धारणा सा परा मता ॥ १२२-।।
ब्रह्मैवास्मीति सद्वृत्त्या निरालवतया स्थितिः ।
ध्यानशब्देन विख्याता परमानंददायिनी ॥ १२३ ॥
निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः ।
वृत्तिविस्मरणं सम्यक् समाधिर्ज्ञानसज्ञकः ॥ १२४ ॥
एव चाकृतिमानद तावत्साधु समभ्यसेत् ।
वश्यो यावत्क्षणात्पुसः प्रयुक्तः सभवेत्स्वयम् ॥ १२५ ।।
ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् ।
तत्स्वरूप न चैकस्य विषयो मनसो गिराम् ।। १२६ ॥
समाधौ क्रियमाणे तु विघ्ना आयान्ति वै बलात् ।
अनुसधानरहित्यमालस्य भोगलालसम् ॥ १२७ ॥
लयस्तमश्च विक्षेपो रसास्वादश्च शून्यता ।
एवं यद्विघ्नबाहुल्यं त्याज्य ब्रह्मविदा शनैः ॥ १२८ ।।.
भाववृत्त्या हि भावत्व शून्यवृत्त्या हि शून्यता ।
पूर्णवृत्त्या हि पूर्णत्व तथा पूर्णत्वमभ्यसेत् ॥ १२९ ।।
ये हि वृत्तिं जहत्येना ब्रह्माख्या पावनीं पराम् ।
वृथैव ते तु जीवन्ति पशुभिश्च समा नराः ॥१३०॥
ये हि वृत्तिं विजानन्ति ये ज्ञात्वा वर्धयन्त्यपि ।
ये वै सत्पुरुषा धन्या वन्द्यास्ते भुवनत्रये ||१३१॥
येषा वृत्तिः समावृद्धा परिपक्वा च सा पुनः ।
ते वै सद्ब्रह्मता प्राप्ता नेतरे शब्दवादिनः ॥१३२||
कुशला ब्रह्मवार्ताया वृत्तिहीना सुरागिणः ।
ते ह्यज्ञानितमा नून पुनरायान्ति यान्ति च ।।१३३।।
निमेषार्धं न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना ।

यथा तिष्ठन्ति ब्रह्माद्या सनकाद्याः शुकादयः ॥१४॥
कार्ये कारणताऽऽयाता कारणे न हि कार्यता।
कारणत्वं ततो गच्छेत्कार्याभावे विचारतः ||१३५।।
अथ शुद्ध भवेद्वस्तु यद्वै वाचामगोचरम् ।
द्रष्टव्य मृद्धटेनैव दृष्टान्तेन पुनः पुनः ।।१३६॥
अनेनैव प्रकारेण वृत्तिर्ब्रह्मात्मिका भवेत् ।
उदेति शुद्धचित्तानां वृत्तिज्ञान ततः परम् ||१३७॥
कारणं व्यतिरेकेण पुमानादौ विलोकयेत् |
अन्वयेन पुनस्ताद्धि कार्ये नित्य प्रपश्यति ॥१३८॥
कार्ये हि कारण पश्येत्पश्चात्कार्य विसर्जयेत् ।
कारणत्वं ततो नश्येदवशिष्ट भवेन्मुनिः ॥१३९।।
भावित तीव्रवेगेन वस्तु यन्निश्चयात्मना ।
पुमांस्तद्धि भवेच्छीघ्र ज्ञेय भ्रमरकीटवत् ।।१४०।।
अदृश्यं भावरूपं च सर्वमेतच्चिदात्मकम् ।
सावधानतया नित्य स्वात्मान भावयेद्बुधः ।।१४१॥
दृश्यं ह्यदृश्यता नीत्वा ब्रह्माकारेण चिंतयेत् ।
विद्वान्नित्यसुखे तिष्ठेद्धिया चिद्रसपूर्णया ।।१४२॥
एभिरगैः समायुक्तो राजयोग उदाहृतः ।
किंचित्पक्वकषायाणां हठयोगेन सयुतः ॥१४३॥
परिपक्व मनो येषां केवलोऽयं च सिद्धिदः |
गुरुदैवतभक्ताना सर्वेषां सुलभो जवात् ||१४४||

इति अपरोक्षानुभूतिः समाप्ता ।।