एतस्मिन्समुपागतो गजपतिजींवत्तदा निर्भरं
धाराभिर्धरणीतलं. यदि मनान्धाराधरः सिञ्चति ॥ ८ ॥
यावत्पङ्कजकोरकान्विकसयश्रीमानसौ भानुमा-
न्नोदेति प्रसभं तमांसि विदलन्सानन्दमुच्चैस्तराम्
ताबद्धोरधनान्धकारमिलितो झिल्लीरवाह्लादितो
विधुत्पुञ्जविजृम्भितोऽम्बरतले खद्योत विद्योतय ॥ ९ ॥
फुल्लकैरवकोषनिर्गतसुधासंसक्तभृङ्गाना-
मञ्जुध्यानधुरीणशीतकिरणे जागर्ति मुग्धाम्बरे ।
मन्येऽहं निबिडान्धकारपटलीसंलीनसर्वाकृतेः।
खद्योतस्य हतप्रमस्य कियती शक्तिः समुन्मीलति ॥१०॥
स्वच्छन्दं नवमालिकासु विहर प्रेम्णारविन्दे पुनः
कुन्दे चापि तथा द्विरेक कुमुदेऽथानन्दमडगीकुरु ।
किं त्वेतस्य कदापि केतकतरोर्मा गाः समक्षं यतो,
धूलीभिर्धनकण्टकैश्च नितरां संदर्धितो वर्तते ॥ ११ ॥
नासौ पश्यति मालतीं नहि मनाक्प्रेमाणमालम्बते
चञ्चञ्चम्पककोरकेषु कुरुते मोदं न मल्लीकुले.
स्मारं स्मारमुदारकेसरलतां नालोकते. पद्मिनीं
"क्षामः किं तु मधुनतोऽयमधुना गुञ्ज मुहुर्भ्राम्यति ॥१२॥
नैवालोकि सरोजिनी नहि मनाग्गुञ्जारवैस्तोषिता
जातिः किं च गलरमरन्दमधुना नालिङ्गिता मालती
चित्रं किं तु मधुव्रतेन सहसा संपादिता सांप्रतं
भिन्ना रीतिरियं लवङ्गमुकुलान्यालोक्य मन्यामहे ॥१३॥
कोपं मा कुरु कुन्दवल्लि सहसा मा दैन्यमङ्गीकुरु
स्थाता कत्यपि वासराणि विदितानन्दो मिलिन्दस्त्वयि ।
|
कि वातः परमस्य पश्य विदलन्माध्वीसमृद्धिस्फुर-
न्मन्दस्यन्दसुगन्धितुन्दिलदलां जाता लवङ्गीलता ॥१४॥
सत्यं भृङ्ग वदामि किं तत इतो गन्तुं विधत्से मनः
केयं निर्भरदीनता क्व मधुरव्याहारतारध्वन्निः
एकं सेवय सौरभं परिमलगोंद्भिन्नमन्दानिलं
यस्मिन्मूलफलप्रसूननिकरे साधारणः सौरभः ॥ १५ ॥
लावण्यं वचनातिगं पुनरहो सौरभ्यमुच्चैस्तरां
शैत्यं शीतलभानुविद्रवकरं किं वापरं पश्य रे ।
उन्मीलन्मकरन्दतुन्दिलदलं कस्मादकस्मादहो
भ्रातर्मुञ्चसि चञ्चरीक चतुर त्वं चम्पकानां वनम् ॥ १६॥
त्वं चेच्चम्पककोरके न कुरुषे प्रेमाणमैतावता
का हानिर्नहि तस्य कृत्यमपि रे किंचित्पुनर्हीयते ।
तेनैवास्य तु वैभवं मधुप हे. यद्भूषयन्ति स्फुटं
केलीमन्दिरदेहली परिसरे कर्णेषु वामभ्रुवः ॥ १७ ॥
स्यादुद्दण्डदुरूहचण्डकिरणज्वालावलीशोषकः
पाटीरोऽयमुदारसुन्दरतनुः सौरभ्यभव्योदयः ।
किं कुर्मः कथमत्र हन्त भविता चित्रं गतिर्मादृशा-
मा मूलं यदसौ भुजंगनिचयैरावेष्टितो वर्तते ॥ १८ ॥
सौरभ्यं वचनातिगं किमपरं दाक्षिण्यमुच्चैस्तरां,
यद्यप्यस्ति नवीनशैत्यसुषमासंपत्तिरन्यादृशी ।
सर्व तत्सुखदं परं तु नितरामेतेन दूयामहे
फूत्काराकुलमोगिभोगनिचयैः श्रीखण्ड यत्क्रीडसि ॥१९॥
एकस्मिन्मलयाचले निवसता क्रूराशयेनामुना
भिल्लेन त्वमिहादृतो यदि न चेत्का हानिरेतावता ।
|
भ्रातः श्रीहरिचन्दन प्रविदलत्सौरभ्यभव्योदयं
ज्ञातुं ते कुशलीभवन्तु नितरां स्निग्धा विदग्धा जनाः ॥२०॥
मा संतापमुरीकुरुष्व कठिनों लोकप्रकारोऽधुना
मग्ना हन्त रसज्ञता रसकलाप्यन्तं गता सांप्रतम्
मालाकारकुरङ्गलोलनयनां हित्वा नवीनां पुनः
स्निग्धां मुग्धतरां लवङ्गलतिके कस्ते गुणान्वक्ष्यति ॥२१॥
शेफालीरुचिरप्रफुल्लकालिकामाध्वीं पिब त्वं मुदा
बारंवारमुदारकुन्दविदलपीयूषमास्वादयः ।
सानन्दं विहारविन्दविपिने किं तु प्रभूतोदयो
भ्रातर्भृङ्ग लवङ्गसङ्गाजनितः स्नेहो न हेयोऽधुना ॥ २२ ॥
नो पत्राणि चलानि हन्त कुरुषे गुञ्जारवं नो मना-
ग्धत्से नैव पुनः स्वयं चलसि रे किं तु स्फुट सर्वतः
सानन्दं मकरन्दमेव निभृतं गृह्णासि यत्केवलं
तत्किं कौशलमस्ति शंस भवतो ही किंचिदिन्दिन्दिर ॥ २३ ॥
हित्वा सौरभसारसुन्दरदलां माध्वीकमुग्धप्रभां
मल्लीं सालतिकां मदालसतया भ्रान्त्या मुहुः संभ्रमन् ।
गुञ्जन्गन्तुमुरीकरोषि मधुप त्वं पङ्कजानां वने
नो जानासि विमुद्रिते कमलिनीबन्धौ पुनर्बन्धनम् ॥२४॥
मन्दं मन्दमहो मधुव्रतचोविन्यासमञ्जूक्तिभिः
सान्द्रानन्दमयं कथं कथमहो निद्रायितोऽभूत्करी ।
सोऽयं कर्णविकारकर्मकुशलैः कारण्डवानां रवै-
रुन्निद्रः सहसा. करैः कमलिनीमुन्मूलितुं वाञ्छति ॥२५॥
मुक्तानामसि नायकस्त्रिजगतामानन्दकन्दस्थली
ज्योत्स्नानाथजर्निर्जनैशरणं मन्दाकिनीवल्लभः ।
|
कि वातः परमस्ति जीवननिधे जल्पन्ति लोका मुहुः
क्षारं यत्तव जीवनं प्रतिदिनं तेनैव दूयामहे ॥ २६ ॥
सूते हन्त हलाहले जलनिधिर्दजल्पन्ति ये मानवा-
स्ते जल्पन्तु परं तु नैव कृतिनामेतेन कापि क्षतिः
सत्येवं गुणसंनिधौ क्वचिदहो तेनैव ते गौरवं
यत्त्वां बन्यकुरङ्गसुन्दरदृशो जल्पन्ति रत्नाकरम् ॥ २७ ॥
स्फारोत्तुङ्गतरङ्गपीवरकरैराकृष्य रत्नोत्तमं
यत्त्वं जीवनमध्यतः क्षिपसि रे दूरे धरित्रीतलें ।
युक्तं तज्जलनाथ नाथ कलय प्रोच्चैः प्रसादात्त्वया
लब्धं हन्त जगत्रयेऽपि सकले रत्नाकरत्वं पदम् ॥२८॥
उत्पत्तिर्जलधौ सुधासहचरी ज्योत्स्नाभिरामा तनुः
स्थानं व्योम कुमुद्वतीपरिवृढश्चन्द्रेति नाम स्फुटम् ।
सर्वं चारु तथापि हन्त कठिना यत्त्वां कलङ्काङ्कितं.
जल्पन्ति प्रतिवासरं सुरगणास्तेनातिदूयामहे ॥ २९ ॥
ज्योत्साविभ्रमभारसाररुचिरे पद्मालयाबान्धवे
लोकानां नयनोत्सवे दिविषदामानन्दकन्दालये
मुग्धा कोमलमुग्धवक्रकमलस्पर्धाकरे पद्मिनि
त्वं चेच्छीतकरे न रज्यसि गुणष्लाघ्या तदस्तं गता ॥३० ॥
फुल्लत्कैरविणीपरागरुचिरा दिङ्मण्डली श्रूयते
कोकानामपि मानसं कलुषितं किंचिद्विजानीमहे
मन्दं पश्चिमपर्वताञ्चलपुटे श्रीमान्यतो भानुमां
स्तत्सत्यं रजनीपतेः समुदयो जातः परं मन्महे ॥ ३१ ॥
होते रङ्कुरयं सुखेन निभृतं पीयूषमश्नन्मुदा
मत्वैवं सहसा चकोर शिशुना संसेवितं सादरम् ।
|
को जानातु कुमुद्वतीपतिरसौ पीत्वा भृशं वारुणीं
हा हा हन्त घनान्धकारनिकरैरावेष्टितो वर्तते ॥ ३२ ॥
ज्योत्स्नाभिर्भुवनं तनोषि विमलं पीयूषगर्भैः करै-
रामोद कुमुदे दधासि बहुशः संजीवयस्यौषधीः
सर्वं तत्सुखदं परं तु नितरामेतेन दूयामहे
नीहारैः कवलीकरोषि लवलीवृन्दानि शीतद्युते ॥ ३३ ॥
सानन्दं धनगह्वराणि सहसा संगाहसे निर्भरं
भूयः सौरभजातमध्यनुदिनं गृह्णासि यत्तद्वरम् ।
किं तु श्रीयुतगन्धवाह भवतो नो युक्तमेतन्मना-
ग्यत्त्वं तत्र करोषि नैव सदसद्वयत्तेर्वेिवेकक्रियाम् ॥ ३४॥
शुष्काः संप्रति निम्नगास्तत इतो नालोक्यते जीवनं
भूयः कापि न वापिकापि नितरां जाताविलं पल्वलम्
ग्रीष्मोऽयं समुपागतोऽस्ति बहुशो वाचालतां मुञ्च रे
मन्द संचल मेकशवि समभूःकालः करालो महान् ॥३५॥
एषा सीदति सुन्दराम्बुजवनी गुञ्जद्विरेफाङ्किता
चच्चत्केसरनिर्यंदुग्रबहलव्यामोदमेदस्विनी ।
स्फारोतुङ्गकरीन्द्रदुर्वहकरप्रौढाभिधातैः परं
विध्वस्ता परितो विभाति पुरतो विभ्रष्टपत्राम्बरा ॥ ३६॥
प्रोन्मीलत्सुरनिम्नगापरिपतद्विचीचयव्याह्रत्त-
ध्याधूतानिलसंचलजलमिलद्वात्रोऽप्यसौ षट्पदः
स्मृत्वा हन्त दुरन्तकेतकशिखासंपातसंपादित-
प्रोत्तुङ्गाङ्गविकारभारमधुना नो रन्तुमुत्कण्ठते ॥ ३७ ॥
हन्तासीत्परितो नवीनजलदप्रोत्तुङ्गधाराजलैः
पूर्णानेकसहस्रपङ्कजदलैः कीर्णा नदीयं पुरा ।
|
सेयं संप्रति चण्डभानुविलसचण्डातपप्रोच्छल-
ज्ज्वालाजालविलुप्तजीवनभरा हा हन्त-संताम्यति ॥ ३८ ॥
नोचैर्जल्प मनान्यतस्व सहसा कुञ्जे निलीय क्षणं
गन्तुं कीर वदामि सास्तु मधुरव्याहारतारध्वनिः ।
काकोलादपि दारुगैरनुचितारम्भाग्रणीभिः पर
रुद्धा संप्रति किं किरातनिकरैर्नालोक्यते मेदिनी ॥ ३९॥
प्रोद्यत्प्रौढमहीमहेन्द्रमवने प्रोतुङ्गसौधाङ्गणे
गत्वा काक बराक किं कल्यसे साम्यं मरालैः समम् ।
छिद्रान्वेषणभूरिकर्मकुशलाः किंचिल्लभन्ते खलाः
सम्यक् पण्डितपुण्डरीकतुलनामारोप्य कण्ठे गुणम् ॥ ४०॥
लोके दृष्टमिदं मया बहुतरं हंहो न सन्त्येव ते
ये विन्दन्ति सखायमुत्तमगुणं मित्रैकचिते रतम् ।
शम्बूकैः कलयन्ति केलिकुतुकं वापीषु कारण्डवा
नो वा मानसमुग्धपङ्कजदलं विस्मृत्य जिघ्रन्त्यपि ॥४१॥
क्षीराम्भोनिधिकन्यका मधुरिपोर्वक्षःस्थलस्थायिनी
शीतांशोर्भगिनी जगत्रयजनिः किं चाधिका ते स्तुतिः ।
एकैकं वचनातिगं जलधिजे सर्व विजानीमहे
चाञ्चल्यं यदि नाम चेन्नहि भवेदेकं कलङ्कास्पदम् ॥४२॥
दर्प मा वह बालवत्सनिकरानालोक्य पुच्छच्छटा-
पातैरेव महोक्ष गर्जसि मुधा कि गर्जितेनामुना.
तावत्संचर यावदाशु न मनागादाय सीरं हठा
त्कर्षत्येष कृषीवलस्तत इतो भूयोऽपि भूमीतले ॥ ४३ ॥
त्वामालोक्य समागतः कथमसौ केलिक्रियाकोविदो
हित्वा कत्वपि कानुनानि दिवसप्रान्ते द्विरेको युवा ।
|
त्वं त्वेनं समुदीक्ष्य पत्रनिकरानाकुच्य यद्गोपनं.
वक्रत्याशुः करोषि पद्मिनि न तद्युक्तं प्रतीमो वयम् ॥४४॥
दूरे तिष्ठति काननं नहि मनाङ्ग्तीर समालोक्यते
ऋरः संप्रति वालुकापरिकरश्चण्डांशुस्त्युन्नतः ।
भूरेषा मरूरेव संप्रति कथं गन्तव्यमेकाकिना
मन्दं यूथपतिर्मुहुर्मुहुरिति ध्यायन्धुनीते शिरः ॥ ४५ ॥
दिक्चक्रं करिशाव दावदहनैर्दग्ध पुरो दृश्यते
छाया क्षीणतरा क्षमापि समभूद्दूरे न नीर कंचित् ।
चित्रं चण्डचलत्प्रचण्डकिरणज्वालाकुलाङ्गो मुधा
मध्याह्ने कथमेकदैव सहसा गन्तुं समुत्कण्ठसे ॥ ४६ ॥
शार्दूलाः प्रतिपेदिरे प्रथमतो गर्भान्तर भूरुहां
कुञ्जं किं च समाश्रयन्ति हरिणा लीना वराहाः क्वचित् ।
उद्दण्डप्रकटप्रचण्डकिरणज्वालाकुले दिक्कुले
हा हा हन्त करी करोति कतमां जीवातवे जीविकाम् ॥४७ ॥
उच्चैश्चण्डमरीचिमण्डलकरज्वालाकुला दिक्तटी
पश्चाद्धोरदवाग्निगर्वगरिमोद्रिता धरित्री पुरः
कर्तव्यं कथमत्र हन्त करुणारङ्गी कुरङ्गीपति-
र्मत्वैवं हरिणीविलोकनघनीभूतोऽभवत्कुण्ठितः ॥ ४८ ॥
कृत्वा पर्वतकंदरापरिसरे केलीभरं लीलया
मुक्त्वा पङ्कज़कोरकांश्च परितो भृङ्गैः समावेष्टितः
यावद्याति करेणुकाकटतटीकण्डूयने केवलं
तावत्तीव्रहरीन्द्रदर्वहकरैः क्षुण्णोऽभवत्कुञ्जरः ॥ ४९ ॥
यः पूर्वं नवदानदर्पिततनुर्दन्तेन दन्तावलां-
श्चूर्णीकृत्य महाभिमानभरितो नो मन्यते कानपि ।
|
कीडत्रैव समागतो विधिहतो हा हन्त नीराशये
पङ्के मग्नकलेवरः करिवरः सोऽयं शनैस्ताम्यति ॥ ५० ॥
अन्यं काननमाशु गच्छ तरसा वन्यं फलं भुङ्क्ष्य रे
धन्यं धाम विभाति ते नहि तथा पुण्यं जघन्यं कुरु
एतसिन्करिशाव मा ब्रज बने जल्पासि तथ्यं बचो
जानास्येव करीन्द्रदर्पदलनो निद्राति पञ्चाननः ॥ ५१ ॥
निद्रामुद्रितलोचनः प्रतिपदं छायांतले मूरुहां
प्रोद्दण्डद्विपगण्डभित्तिदलनप्रोद्रिक्तरक्तारुणः ।
सिंहीजानुनि दत्तमस्तकलसत्सर्वाङ्गकः केसरी
निद्राति प्रतिवासरं सुखमिति ध्यायन्करी कम्पते ॥ ५२ ॥
शून्यं काननमा निरीक्ष्यं तरसा चीत्कृत्य गाढं हठा-
न्मातङ्गाधिप मानसे बत वृथा गर्वोद्गमं मा कृथाः ।
जानीमो वयमद्य कुञ्जरघटाविक्षोभकारी पुनः
पारीन्द्रो न जगाम लोचनपथं तेनास्ति नो वै भयम् ॥५३॥
कामं कोपकोपयिताक्षियुगलं कृत्वा करोत्फालनैः
क्षुद्रान्वन्यमृगान्करीन्द्र सहसा विद्रावय त्वं मुदा ।
हेलाखण्डितकुम्मिकुम्भविगलद्रतारुणाङ्गे हरौ
जाते. लोचनगोचरे 'यदि भवानस्थाता तदा मन्महे ॥ ५४॥
दैन्यं मा त्वमुरीकुरु प्रतिपदं प्रेक्ष्यातुरां पद्मिनीं
राकाशारदशीतरश्मिकिरणैराबद्धमुग्धाननाम् ।
कि तु त्वं भमसि द्विरेफ विदलन्माध्वीकधाराधरे
सानन्दं नवमल्लिवल्लिनिकरे गत्वाद्य तृप्तिं भज ॥ ५५ ॥
मन्दं पश्चिमशैलमौलिमुकुदालंकारभूतो रविः
संध्याकर्बुरितं नमः कुलषिता ध्वान्तैः परं दिक्तटी ।
|
एका पङ्कजिनी सुधाकरैर्भिता परं मुद्रिता
तत्किं संप्रति चञ्चरीक चरसि व्यर्थः प्रयासोऽधुना ॥ ५६॥
मृङ्गाणां नवनीरजाति विदलत्सौरभ्यलोभ्यान्यलं
मल्लीकेसरचम्पकांनि नितरां तिष्ठन्ति पुष्पाकरे
एक कोकिलशावकस्य शरणं मुग्धप्रसूनाकर-
प्रस्यन्द मकरन्दतुन्दिलदलो माकन्दभूमीरूहः ॥ ५७ ॥
धैर्यं वायस धार्यतां समुचितो नोद्वेगभारस्त्वयि
प्राणान्मुञ्चति किं वृथा पिकसुतैः पुत्रत्वमायाति रे
जानास्येव कलेः प्रपञ्चमखिलं किंचाधिकं वा परं
हित्वा नीरनिधिं लसन्ति निधयों वापीषु काचित्स्वपि ॥ ५८ ॥
शैत्य शारदशीतरश्मिकिरणादप्युत्तमं तादृशं
सौरभ्यं वचनातिगं जगति ते श्रीखण्ड सर्वं वरम् ।
किं तु त्वां सहसा किरातगृहिणी दीप्ताग्निकुण्डे जवा-
दुन्मूल्याशु करैः करोति तरसा शुष्केन्धनं लीलया ॥ ५९ ॥
आस्ते नो सुषमा न चापि कुसुमामोदो हि नो वा मना-
वचातुर्यं मकरन्ददानविषये किं चातुरीयं पुनः
यत्त्वं चित्रगतं कुशेशयदलं पुष्णासि गुञ्जारवै-
र्माहात्म्य क इव ब्रवीमि तदहो हे चञ्चरीकाधुना ॥ ६० ॥
क्षिप्तं मुञ्च कुरङ्ग काननमिदं रे ताण्डवं मा कृथाः
किं ते वैभवविभ्रमेण तरसा गात्राणि संरक्षय
आस्तां कीर्तिभरः किरातविशिखैः क्षुण्णः क्षणानन्तरं
क्षीणाङ्गः क्षितिमण्डलोपरि पुनर्नो चेत्क्षयं यास्यसि ॥ ६१ ॥
स्वामाधाय निजोदरे कमलिनी चक्रे न माध्वीरसै-
र्नित्यं कोमलकेसरैस्तव पुनः किं किं मनोवाञ्छितम् ।
|
त्वं त्वेतां कलकूजितैरपि मनाङ् नो भावयस्यातुरां
तत्कि साहजिकं मधुव्रतं मनाक्त्यक्तुं रसं वाञ्छसि ॥६२॥
जाता नैव तृषा कृशा न समभूत्तापापकर्षक्रिया
नो वा लोचनपङ्कजैरपि मनागालोकि किं चाधिकम् ।
क्षुभ्यद्धोरतरारवैः प्रतिदिशं झञ्झानिलार्द्राविता
सेयं नारदमण्डलीति कलयञ्चञ्चत्यलं चातकः ॥ ६३ ॥
दैन्यं मां त्वमुरीकुरु प्रतिपदं हित्वा मनास्यूथिकां
स्थेयं कत्यपि वासराणि कथमप्यालम्ब्य धैर्यं हृदि ।
आयाते खलु माधवे प्रविदलसौरभ्यलोभास्पदे
नूनं ते शरणं स एव भविता माकन्दभूमीरुहः ॥ ६४ ॥
साफल्यं कलये चकोर भवतो धन्योऽसि मन्यामहे
कां कीर्ति कथयामि ते त्रिभुवने जागर्ति ते संस्तवः ।
किं वा पुष्यमितस्तवास्ति विमलं पीयूषधाराभरं
चन्द्रे पासि निरन्तरं कमलिनीमोचरेऽपि स्फुटम् ॥६५॥
अध्माताः प्रतिदिनसं सरमसं गर्जत्यमी वारिदाः
प्रौढध्वानधुरंधराः प्रतिपदं चञ्चन्ति विधुच्छटाः
भूयो मत्तमहामयूरनिकराः कूजन्ति केकारवै-
स्तन्मन्ये समुपागतोऽस्ति सहसा वर्षायुतो वासरः॥६६॥
भूयो निर्भरसर्वगर्वगरिमा मुग्धानानां मुदा
चञ्चचम्पककोषचुम्बितमना चात्यद्य मन्दानिलः ।
नो युक्तं सहसान्यतः प्रचलितुं हे पान्थ चित्तव्यथां
मा कार्षीः किमु पञ्चबाणनृपतौ जागर्ति चिन्ता तव ॥६७॥
शैत्यं तापहरं तवास्ति न मुघा मन्ये सुधानायक
प्रोदच्चत्सुषमासमृद्धिापि ते जागर्ति लोकत्रये ।
|
{{bold|सर्वं चारु मनाक्तथापि यदि चेत्प्राप्त्तोऽसि मुग्धाङ्गना-
वक्रेन्दोस्तुलनां तदा क इव ते भाग्योदयं मन्महे ॥६८॥
आयाता रजनी भविष्यति महाविश्वपदावानलो
नोद्वेगः सहसा कृशाङ्गि मनसा कार्यों रथाङ्गाद्वयः
इत्थं बाष्पनिरुद्धगद्गदत्तया संभाष्य कोकीं चिरं
चिन्तापूर्णमना विनोदविमुखो हंहो विधिं निन्दति ॥६९॥
सौन्दर्यं दलितं दवानलबलैर्मन्दं मरन्दोऽप्यसौ
स्वच्छन्दं गत एव का पुनरहो पुष्पादिकानां कथा ।
शीर्णा पूर्णपरम्परा विगलिता सेयं लता तत्कथं
हंहो मन्द मिलिन्द कुन्दविपिनं नो हातुमाकाङ्क्षसे ॥७०॥
रम्यं काननमुन्नतास्तरुगणाः स्निग्धं पयः किं पुन-
र्मुग्धान्येव फलानि हन्त परितः सम्यञ्चि पुष्पाण्यपि
सर्वं हन्त विहाय निर्गतवतो दन्तावलस्य स्फुर-
च्चण्डांशुज्वलिते मरौ तदखिलध्यानैर्भनो मुह्यति ॥ ७१॥
यत्संसर्गदशादसाधुचरिता एते पुनः कोटिशो
निम्बाशोककपित्थबिल्वबकुलाः सौगन्ध्यमापुः परम् ।
धन्यस्त्वं हरिचन्दन त्रिजगतां संतापशान्त्यै पुनः
संसारे नियतं स कोऽपि सदृशो युष्मादृशा वर्तते ॥७२॥
सानन्दं सुनिम्नगाप्रविलसत्कूलैऽनुकूले पुन
{{gap}र्मन्द मन्दसहो कलिन्दतनयातीरे विहारं कुरु
अस्मिन्किं तु मरालबाल सरसीकुञ्जे न याहि क्षणं
यस्मादत्र पतत्रिपातरसिका भिल्लयः स्वनं कुर्वते ॥ ७३ ॥
तृष्णाजर्जरिताकृतिः कवलितो धर्माशुधोरैः करें-
र्दीर्घोञ्चितचक्षुरद्य कलयस्त्वतः परं जीवनम् ।}}
|
हंहो चातकशावकोऽयमधुना त्यां वीक्षते केवलं
त्वं चेदम्बु ददासि नाम्बुद भवेदस्याश्रयः कस्तदा ॥ ७४ ॥
आ. प्रातर्वनतृष्णाया कवलितं प्रोद्दण्डचण्डातपै-
र्दग्धं जीवनहानितः कलुषितं चिन्ताभरैः कीलितम्
प्रस्निग्धामृतधारया प्रतिदिनं संप्लावयंश्चातकं
त्वतः कोऽपि न वारिवाह भुवने जागर्ति जानीमहे ॥७५॥॥
चञ्जच्चातकचञ्चकोरकपुटीं नो पूरवस्यन्वहं
दिक्तापं नवनीरसीकरभरैनों वा मनास्लुम्पसि
क्षेत्रं सिञ्चसि नैव किं च बहुशः कान्तारमाप्लावय-
न्यद्गर्वं कुरुषे पयोद भवतस्त्तत्किं नयो दृश्यते ॥ ७६ ॥
चञ्चचण्डमरीचिमण्डलकरज्यालाकलापैरहो
न स्याच्चातकपोतकः कवलितो यावत्ततो विह्वलः ।
भ्रातः श्रीयुत वारिवाह निभृतं जीयाश्चिरं निर्भरं
लावद्धीरतरं घरातलमिदं धाराभिरासिञ्चय ॥ ७७ ॥
नो गत्वा गगनाङ्गणेऽनुसरति प्रोच्चैर्न जल्पत्यहो
नो वा चण्डमरीचिमण्डलभिया संसेवते कानपि ।
चित्रं भूमिगत तथापि निभृतं धाराजलैर्निर्मलैः
सिञ्चत्येव चिरेण चातकशिशुं श्रीमानयं वारिदः ॥ ७८॥
तापं तूर्णमपाकरोषि नितरां पाटीरवाटीं पुनः
प्रेम्णा पल्लवयस्थलं वितनुषे मुक्ताफलं शुक्तिषु
धारामिर्धरणिं धुनोषि परितो धाराधर त्वं यथा
भ्रातश्चातकशावकं बत्त तथा संभावयाम्भोभरैः ॥ ७९ ॥
भूमेस्तापमपाकरोषि नितरां भूमीरुहो वर्धय-
स्यानन्दं विदधासि किं च तनुषे सस्ये प्रशस्यं मुदा
|
किं किं वारिद के गुणोत्करमहं जल्पामि धन्योऽसि रे
धारामिश्विरस्विन्नचातकशीशुं यज्जीवयस्यातुरम् ॥ ८०॥
मोदन्ते करिशावकास्तत इतः क्रीडन्ति कोला: सुखं
कृत्याङ्के तनयं कुरङ्गगृहिणी रोमन्थमभ्यस्यति ।
हीनं तेन मृगाधिपेन सहसा मन्यामहे काननं
द्वित्रैरेव दिनैर्भविष्यति पर वन्याभिरन्यादृशम् ॥ ८१ ॥
तूर्णं यात मृगाः पलायत का यूयं पुनः सर्वथा
कोलाः क्वापि निलीयत प्रसृमऱाः कोलाहले मुञ्चत ।
दृप्यद्दानदुरूहदारुणदलद्दन्तावलग्रामणी-
गर्वग्रामविदारणाकुलकरः सोऽयं पुरः केसरी ॥ ८२ ॥
प्रौढोत्क्षिप्तमहामहीध्रशिखर कुत्रापि नीराशये
दृष्टैव प्रतिबिम्बितं सचकितं स्वात्प्लुत्य गाढं हठात्
पातुं वाञ्छति नो जलं. करिवरस्याशङ्कया किं त्वयं
दर्पोद्घृतशिश धुनोति नयने क्रोधोद्धुरः केसरी ॥ ८३ ॥
सक्रोधं करिणां मदैरुपहितामालोक्य विश्वंभरां
भूयः कोपकषायिताक्षियुगलं पद्भ्यां धरां दारयन् ।
बाहुभ्यां सहसा विकृष्य तिमिरं भूमौ मुहुः पालय-
न्भ्रूयुग्मं प्रविधूनयन्विजयते कोऽप्येष कण्ठीरवः ॥ ८४ ॥
यः सावेशमशेषवारणघट्यसंघट्टविद्रावणो
मुक्ताजालमयानि हन्त नितरां चक्रे वनानि स्फुटम् ।
दृष्यद्दारुदुरूहपञ्जरगतो हा हा हतो वेधसा
सोऽयं मानधनो धुनोति नयने क्रोधोद्धुरः कसरी ॥८५॥
यस्य त्रासवशाद्वने करिवराः स्पन्दन्ति नो वामनाः
कोलाः केऽपि न निःसरन्ति महिषा व्यःग्राः पतन्ति क्षितौं।
|
सोऽयं लोहदुरूहनव्यनिगडानद्धाङ्गियुग्मो मुहुः
स्मारं स्मारमुदारवन्यचरितं कण्ठीरवस्ताम्यति ॥ ८६ ॥
मन्द मन्दमहो मन्दनिचयः पेयोऽमुना सादरं
नेयो रात्रिभरः परं तु सहसा गेयः स्तवो मान्मथः ।
इत्यालोच्य समागतं खलु मया सायं नवे कैरवे
को जानाति निशापतिः पुनस्सावस्ताचलं यास्यति ॥ ८७॥
त्वं चेद्गुञ्जसि निर्भरं भ्रमर हे पीत्वापि कौन्दं मधु
स्वच्छन्दं न विलोकयस्यपि मनागेनं किमेतावता
उन्मीलन्मकरन्दतुन्दिलदलत्पुष्पाकरास्वादनं
माकन्दस्य परं स एव सुकृती जानाति किंचित्पिकः ॥८८॥
आ बाल्यं भवता समीर कति वा सार्धं मृणालीदलं
भुक्तं कलिकथामृतैरपि तथा नीतं रहः सादरम् ।
चित्तान्दोलनलालनैर्मृगदृशां वक्षःस्थलास्फालनै
र्भूयः संप्रति मां विना तव मनो रन्तुं कथं मोदते ॥८९॥
गम्यन्तां दशदिक्तटीपरिसरे रे मत्तमातङ्गजा
लीयन्तां गिरिकंदरासु तरसा हित्वाटवीं ते मृगाः ।
युष्मच्चीत्कृतिभीरुतारनिनदप्रध्वस्तनिद्राभर-
व्याघूर्णन्नयनोऽयमेति सहसा क्रोधोद्धुरः केसरी ॥ ९० ॥
कृत्वा हन्त निरन्तरं कमलिनीकोषे सुधावैभवे
हित्वा संप्रति ता हिमैरुपहितां घत्से क्वचिन्मानसम् ।
"तत्किं त्वां कथयामि हे मधुकर व्रीडाकरं भाषितं
विविधप्रेम भवादृशा न करुणालेशोऽपि संदृश्यते॥९१॥
शेते हन्त मृगङ्गिना निजशिशुं कृत्वा निकुञ्जोदरे
यूयः कुण्डलनां विधाय विबरे निद्राति सर्पाङ्गना।
|
शीतातीः निल नैक पद्धजलं जिन्वन्ति मानीलियो
हा इन्त हिमागम नहि मनानीई सदन्ति द्विजाः ॥१२॥
साई मकरन्दतुन्दुिलदहा मुन्धमा पदिनी
थावखुम्बति केसराहणतनुर्मचद्विरेको युवा ।
सावीत्रकरीन्ददुहकरव्याघातसंचूर्णितो.
हा हा हन्त मधुबतोऽयमधुना भूमौ पुनस्ताम्यति ॥ १३ ॥
चम्चा नन्दसमीर धीरसरसीतीरं विलोक्योयुको
धीरे धीरमहो महोन्नतिपरस्तृष्णाहुशाकर्शितः ।
पालु याबदहीं करोति विमलं नारं सरालः कृती
मण्डूकध्वनिवर्जरीकृततनुस्तावच्छनैताम्यति ॥ ९४ ॥
लोकेऽस्मिन्पिशुनाः कथंचिदपि वा नवोपकारव्यथा
विन्दन्ते सहसा परं तु सहसा जल्पन्ति दोष स्कुटम् ।
कलयन्ति केलि कुतुकं वापीधु कारण्डका
नो वा मानसामुग्घराजदलं विस्मृत्य जिवन्त्यपि ॥ ९५॥
आदौ यत्रविचित्रितः पुनरसौ मुखातूनाहित,
पश्चालिग्धफलोदमे धनरसैः सिक्तो मया सर्वतः
दानोन्मत्तदुरन्तबारणकटीसंघटनैः केवळ
सोऽयं चूर्णित एव देववशतो माकन्दभूमीरहः ॥ ९६ ॥
चञ्चत्पन्नविचित्रितां मधुकरस्कूर्जत्फलालम्बिनी
मन्दं मुग्धमरन्दम पुलको कान्तिप्रभूतोदयाम् ।
प्रोन्मीलत्कुसुमा प्रकीर्णसुधमा हा हा चलत्कण्टका
को हेतुः कलधौतकेतकरता त्या समुत्कादसे ॥ ९७॥
भुक्त्वा मीनमहो नवीनमधुना पौतं जलं निर्मलं
नीता लिभरेश दासरगणो किंतु वयाचावधि ।
|
गन्तव्यं खलु कुत्रचिद्धक वने चेचण्डचण्डातपै-
स्तप्ते हन्त जलाशये पुनरहो दैन्यं मुहुर्धास्यसि ॥ ९८॥
अग्रे तिष्ठति दारुणाकृतिरसै क्रोधोद्धतः केसरी
पश्चादुद्भटदावदूषितधरासंक्रान्तचण्डानिलः ।
किं कुर्मः सहसा विहाय कलमानेतान्व्रजामः कथं
हंहो कूणितलोचनेति करिणी चिन्ताकुला ताम्यति ॥९९॥
आदावङ्कुरितं पुनः प्रतिपदं पत्रावृतं त्वां मुदा
सौरभ्यस्फुरितप्रसूनकलितं दृष्ट्वाथ हृष्टोऽस्म्यहम् ।
किं ब्रूमः ललिते त्वयि द्रुततरं हा हन्त किम्पाक हे.
भूयो व्याकुलयन्ति कण्टकभराः सर्वत्र तत्किं ब्रुवे ॥१००॥
त्वतः श्रीरजनि स्फूटं समभवत्कल्पद्रुमः सादरं
जातास्ते निधयः पुनः किमपरं जज्ञे सुधादीधितिः
कि ब्रूमस्तव वैभवं जलनिधे त्वामप्यहोऽहो वृथा
यद्भूयस्तृषिता प्रयाति जनता तत्किं ब्रुवे त्वद्गुणान् ॥ १०१ ॥
भेकाः कूपजलं पिबन्तु नितरां वापीषु कारण्डवाः
साकूतं सरसीधु हन्त नितरां तुङ्गाः कुरङ्गादयः ।
तृष्णाव्याकुलितस्यः चातकशिशोः किं तेन यावद्धरां
धन्यामिः परिपूरयन्ननुदिन नोदेति धाराधरः ॥ १०२॥
तावद्धीष्मगभीरतापनिवहाः संसारमुच्चैस्तरां
यूयं तापयत प्रचण्डकिरणज्वालावलीपूरिताः ।
यावत्सौरभभव्यमव्यविदलन्मल्लीमतल्लीदल-
प्रोन्मीलन्मकरन्दतुन्दिलमना नोदेति मन्दानिलः ॥१०३॥
चन्द्रो हन्त कलङ्कशङ्किततनुः क्षारान्वितः सागरो
हंहो कल्पतरुस्तरुः पुररहों मेरूः स्वयं पर्वतः ।
|
कामं कामगवी पुनः यशुरहो कि वा बहु बूमहे
संसारे भवतस्तुलां कलयिन को बा समयों भवेत् ॥१०४॥
योऽभूद्द्राविडचक्रवर्तिमुकुयलंकारभूतस्य रे
मौद्गस्वस्य हरेः सुतः क्षितितले वीरेश्वरः सत्कविः ।
तस्स प्रोद्गतमूक्तिनिर्मलसुधाशुद्धान्तरस्य क्षणा-
देषा निर्मितिरुत्तमा मतिमतां नित्यं मुदे जामताम् ॥१०५॥।
|
इति श्रीवीरेश्वरभट्टनिर्मितमन्योक्तिशकं सनासन्