अन्यापदेशशतकम् (मधुसूदनप्रणीतम्)

विकिस्रोतः तः
अन्यापदेशशतकम्
मधुसूदनः

काव्यमाला।

श्रीमधुसुदनकविप्रणीतम् । अन्यापदेशशतकम्।

कालीयाहिफणाली ऋमणकरालीभवन्नघक्षाली । गोपालीकरतालीनर्तनशाली पुनातु वनमाली ॥१॥

पद्मालयासारद्दहक्चकोरीपेपीयमानाननचन्द्रबिम्बः । विघ्नौषविध्वंसविधिं विधत्तां राधामयूरीमुदिरो मुकुन्दः ॥ २॥

विद्वन्मनोविनोदाय संद्युक्तिपरिशीलितम् । अन्यापदेशशतकं करोति मधुसूदनः ॥ ३ ॥

मर्यादानुपमैव शीलभमृतोत्पत्त्यैव निर्वर्णितं नैर्मल्यं निजधर्म एव वचसा पारे तु गम्भीरता | किं वाच्यो महिमा तवार्णद रमाप्रेयानपि प्रार्थने तादृक्कौस्तुभभाजनेन भवता वैदग्ध्यमध्यापितः ॥ ४ ॥

हे पीयूषमयूख भूषणमणिः शंभोस्त्वमम्मोनिधेरुत्पन्नोऽसि तवैव दैवतकुलं प्रीणाति साध्वी सुधा । विश्वेषामुपरि स्थितिर्ननु तनुस्ततत्कलाभाजनं किं वाच्या विभुता घराध्वरभुजां राजा त्वमाजानिकः ॥ ५ ॥

उन्मीलन्ति कियन्ति न क्षितितले पुष्पाणि नानाविधान्युन्मीलन्तु परंतु निर्भरमिदं किंचिद्वदामो वयम् | धन्यं जन्म तवैव चम्पकतरो यत्कोरकाणां पुरो हेन्नः श्रीरपि जायतेऽतिमलिना गण्या किमन्या रुचिः ॥ ६ ॥

मामिर्भासितमम्बरं वितिमिरं क्षोणीतलं निर्मितं चक्रे चक्रकुलव्यथाहतिरथादिष्टाः ऋतूनां क्रिया: | अम्भोजानि विकासितानि भवता सद्यो ननु द्योमणे निर्बीजं बत कैरवोपरि परिक्षितं किमन्धं तमः ॥ ७ ॥


१. अस्य श्रीमधुसूदनकवेर्देशो मिथिला, जनकः पद्मनाभः, माता शुभदा, इत्युपान्यलोकात दुजती(उचिती ) कुलम्' इत्यन्तिमश्लोकात्प्रतीयते. कालख तु न निधयः

२. अस्य काव्यस्य पुस्तकमेकमेव १८२२ संवत्सरलिखितं श्रीमता डॉक्टर पीटर्सनेन मथुरात आनीय काव्यमालार्थ दत्तमिति तदाघारेणैवास्थ शोधनमकारीति ज्ञेयम् अन्यापदेशशतकम् ।

लक्ष्मीं लेभे मुरारिः समलभत सुधा स्वर्गिवर्गः समग्रां तत्तद्वस्तूनि वास्तोष्पतिरपि सहसैरावतादीन्यवाप । पाथोधे त्वत्त एव प्रमथपतिस्थ प्रपदापत्करं य- त्क्ष्वेडं तद्युक्तमेवाजनि जनिदिवसादेष यद्वामदेवः ॥ ८ ॥

पाण्डित्यं त्वयि ताण्डवानि तनुते शेते स नारायण- स्त्वामध्यास्य कृतस्त्वदेककलया शीर्णः प्रलम्बासुरः । धन्योऽसि त्वमनन्त संततमसौ यत्रातिसौख्योदया- द्विश्रामं लभते चराचरभराक्रान्तान्तरा मेदिनी ॥ ९ ॥

माकन्दा मकरन्दबिन्दुविधुरा व्यग्रो गजग्रामणी- रप्यन्तर्मदशोषदोषकलितं चक्रे हरेर्हुकृतैः । त्वं हे कल्पतरो करोषि नहि चेदन्तः कृपाकोमलं कुत्रायं भ्रमरो मनागपि मनो विश्राममालम्बताम् ॥ १० ॥

त्वं तावन्निरुपाधिरम्बुद सुधासारानुकाराः पयो- धारा मुञ्चसि विश्वमोदजननीः सर्वत्र साधारणीः । द्वित्रा एव पतन्ति यत्पुनरमुष्यान्तर्मुखे बिन्दव- स्तद्गाढं जयतीह चातकशिशोर्दुर्दैवदुश्चेष्टितम् ॥ ११ ॥

चापल्यं परिमुञ्च चातकशिशो नैवार्तनादं वृथा कुर्याश्चिन्तय निश्चलेन मनसा धाराधरानन्वहम् । एषां जीवनमुन्नतिं च सहजामन्यार्थमेवासृज- द्धाता त्वं पुनरेतदेकशरणस्तद्धैर्यमालम्ब्यताम् ॥ १२ ॥

नोच्चैर्जल्पति वारिदो यदधुना कासार तन्मा मनो- मालिन्यं समुपैहि हन्त महतां नैसर्गिकोऽयं क्रमः । काले वर्षितुमुद्यतो यदि भवेदेकक्षणार्धं तदा युष्माकं कियती तृषा त्रिजगती पूर्णा भविष्यत्यसौ ॥ १३ ॥

श्रीखण्डाचलगण्डशैलशिखरप्रान्ताटवीसंस्थिताः पाटीरा निभवन्ति शाल्मलिमुखा निःसारभूमीरुहाः । काव्यमाला।

मालत्याः स्रजि गुम्पितानि कुटजान्यप्यामुवन्ति स्फुटं विद्वद्वृन्दशिरोधिरोहणकृतामुच्चैस्तरामुन्नतिम् ॥ १४ ॥

अङ्के किं न कलङ्कतामपि गतं धत्ते मृगं चन्द्रमाः किं वा शल्यमिवान्तरा वहति नो मैनाकमम्भोनिधिः । जायन्ते तरवो दहन्तमनलं वृष्टेः स्थितं कोटरे किं किं नाश्रितपालनाय सहते कष्टं शरण्यो जनः ॥ १५ ॥

स्फीता शीतांशुकान्तिर्मुदमथ कुमुदान्यापुराशा विकाशा- नाजग्मुर्वारिमुग्भिः प्रखरमुखरता दूरतो द्रागपास्ता । नैर्मल्यं पारि भेजे शरदुदयदिनारम्भ युष्मत्प्रसादा- त्स्रोतः स्रोतस्वतीनां कथय कथमहो क्षैण्यमभ्येति भूयः ॥ १६ ॥

विश्वोपकारकरणाय गुरुप्रयत्ना- त्सृष्टः सरोरुहभुवा स्फुटमम्बुवाहः । धाराः स्वयं पुनरयं परितो विमुञ्च- न्किं नाभिषिञ्चति लतां विपिने विषस्य ।। १७ ।।

चञ्चू चारुतरे चिराय विहिते मञ्जिष्ठरागारुणे पक्षौ चापि कृतौ हरिन्मणिनिभौ दूर्वाद्रवालेपनैः । काकैवं भवता शुकस्य समता निर्बन्धतो निर्मिता सा संसारमनोविनोदजननी वाणी क्व लभ्या पुनः ॥ १८ ॥

यस्मिन्नम्बुरुहाणि जातसुदृढप्रेमाणि यस्मिन्घना- नन्दं विन्दति चक्रवाकपटली यस्मिन्प्रसन्ना दिशः । तस्मिन्विश्वविकाशितेजसि रवौ रज्यत्युलूको न चे- द्धानिः कैव तदा रवेः परमसौ हास्यास्पदं जायते ॥ १९ ॥

म्लानान्भूमिरुहोऽभिषिञ्च परितः शुष्काः स्रवन्तीः पुन- र्धाराभिः परिपूरय प्रतिदिशं संप्लावयोर्वीमिमाम् । अम्भोवाह परं त्वकीर्तिदमिदं पानीयपानाशया

स्तोकोऽसौ भवदेकवृत्तिरनिशं यद्रारटीत्याकुलः ॥ २०॥ अन्यापदेशशतकम् ।

उच्चैरुत्पथगा नदी: प्रकुरुषेऽनच्छं च नीराशयं पन्थानं मलिनीकरोषि परुषं मौखर्यमालम्बसे । प्रावृष्येव कियन्त्यहान्यधिकृतस्त्वं वारिदैवं क्रिया नो जाने चिरमेषि चेदधिपतां स्यात्कस्तदोपद्रवः ॥ २१ ॥

कान्तिः काञ्चनरूपदर्पदमनी सौरभ्यमभ्याहतं मध्यं चापि न धूलिधूसरतरं रोचिष्णुरुच्चैः स्थितिः । सर्वे विश्वविलक्षणास्तव गुणाः किं चम्पकैतावता नो चेत्त्वय्यनुरज्यते क्षणमपि क्षीणोऽपि पुष्पंधयः ।। २२ ।।

का संबन्धो यदभिरमते वीक्ष्य मेधं मयूरी कैवासत्तिर्यदमृतरुचौ सानुबन्धा चकोरी। को वा हेतुः पतति परितो यत्कृशानौ पतङ्गः प्रायेणैवं विधिपरवशा प्राणिनां चित्तवृत्तिः ॥ २३ ॥

मन्दारो विविदे व्यलोकि बकुलं संशीलितश्चम्पकः पर्यालोचनयावधारितमिदं वन्द्यस्तु चाम्पेयक: येनैकेन विधीयते मधुभराकृष्टयालिमालागरु- द्वातोद्भुतपरागसौरभभरैरामोदिता मेदिनी ॥ २४ ॥

कुन्दं वारिभिरुक्ष यच्छ सुमना(नो)मूले मृदं यूथिका- पर्यन्ते रचयावृतिं कुरु मुहुर्मल्लीतले कर्षणम् । मालाकार विशेषतः पुनरसौ सेव्यो रसालस्त्वया सर्वेषामुपयोगिनी फलवती वृद्धिर्यदस्यैव हि ॥ २५ ॥ दत्त्वा स्कन्धतले पदं विनमितां कृत्वा तु शाखाशिखां सर्वेषां कुसुमावलीमबचिनु स्वच्छन्दमुर्वीरुहाम् । किं त्वस्मिन्वनपाल केतकतरौ यत्नैर्निदध्याः करौ स्यातां कण्टककोटिमिः कवलितौ नो तावदेतौ यथा ॥ २६ ॥

आरोहो निशिताङ्कुशेन कतिधा कुम्भं भिनत्ति क्रुधा पश्चाद्वंशचयैरयोमयमुखैर्निघ्नन्ति चान्ये जनाः । काव्यमाला।

क्वापि स्थैर्यमुपागतस्य सहजेनाग्रे पदान्यर्पितुं

स्वेच्छाचारपरस्य पेचकिपते रोमापि न स्पन्दते ॥ २७ ॥

फेत्कुर्वन्त्यपि फेरवोऽतिपरुषं चेत्पार्श्वयोराश्रिताः काकाश्चेदुपरि स्थिताः प्रतिदिशं कुर्वन्ति कोलाहलम् । मन्दं मन्दमुपान्तमीलितदृशो मार्गे पदं न्यस्यतः किं भेदं समुपैति कुञ्जरपतेर्मानोन्नता भ्रूलता ॥ २८ ॥

यद्यूथाधिपपालितेन भवतारण्या वने निर्जिता हे दन्तावलडिम्भ किं भवति ते तत्कीर्तये पौरुषम् । यूथेशे समयेन कालवशतां प्राप्तेऽथ कुत्रापि चे- त्किंचित्सेत्स्यति ते बलं तदमलं कर्ता यशोमण्डलम् ॥ २९॥

चन्द्रस्तावदलंकरोतु रजनीं भासां भरैर्मुद्वतीं व्याधत्तां च कुमुद्वतीं विनयतु ध्वान्तोपरोधं दिशास् । किं च क्लान्तचकोरचेतसि मुदं पुष्णातु किं तावता यद्येता मलिनीकरोति पुरतस्ताराः सुदारानपि ।। ३० ॥

माकन्दे कुरु मञ्जरीभिरशनं कर्णे सुधावर्षिणीं वाणीं व्याहर किंतु कोकिल शुकस्पर्धा वृथा मा कृथाः । योऽसौ काञ्चनपञ्जरे परिलसन्नाकर्णितान्युच्चर- न्देवीभिः समुपास्यते सविनयं दुग्धौदनप्राशनैः ॥ ३१ ॥

स्वच्छन्दं कलहंस संचर सुखं निद्राहि पारावत त्वं चोच्चै रट हे शिखावल शिखामारुह्य भूमीरुहाम् । अस्माभिः शुक एवं केवलमिहारण्ये समन्विष्यते यस्मै राजनितम्बिनी स्पृहयत्ति श्रोतुं गिरा पाटवम् ।। ३२ ॥

अङ्गीकृतः प्रसवबन्धनतो वियोगः सोढानि तानि करजक्षतिपीडितानि । उद्यानपाल तदिदं तु मनो दुनोति ग्रथ्नासि यत्कुरुबकैः सह मालतीं माम् ॥ ३३ ।। अन्यापदेशशतकम् ।

लवङ्गि द्वागङ्गीकुरु सुरभितामाहर मन- स्त्वमप्यम्भोजश्रीः कुमुद मुदमाधेहि हृदये। नमस्या सा कापि स्फुरति पुनरन्यैव लतिका.. गतवीडं क्रीडन्पिबति मधु यस्यां मधुकरः ॥ ३४ ॥ कियत्यः श्रीमत्यः कुसुमकुलसौरभ्यसुभगा. दृगानन्दं यूनां जगति जनयन्त्येव हि लताः । परं त्वासां मध्ये सफलजनिरेकैव सुमना विना सङ्गं यस्या दलति हृदयं हा मधुलिहः ।। ३५ ॥ धन्याः स्पृशन्ति मधुपास्तव पल्लवाली- मन्तर्निविक्ष्य मधु किंतु पिबन्ति पुष्पे । एतावतैव सफलं मम जन्म जात- माकस्मिक यदिह मालति वीक्षितासि ॥ ३६ ॥ रा काक कालवशतो यदि सौधपृष्ठ- मारूढवानसि तथापि हि काक एव जम्बालजालपतितोऽपि मरालबालः कैर्नाद्रियेत रमणीगमनोपमायाम् ॥ ३७ ॥ स्पर्धां जातिकृतां भजन्तु भवता सार्धं परे सागराः किंवा दुग्धपयोनिधे तब तुलामभ्येतुमेते क्षमाः । त्ंव तादृढ्यहिमालयो विजयते तत्तादृशं ते यशो देव्या सिन्धुभुवा समं यदुदरे निद्राति दामोदरः ॥ ३८ ॥ केऽमी दिक्करिणो रणोद्धुरतरश्चेदस्मि कस्मिंश्च वा शक्तिस्तादृगिहास्ति यस्य न भयं जागर्ति मद्दर्जिते । एवं केवलमात्सनैव गुरुतामात्मत्यभिद्योतय- न्साहंकारमितस्ततो विहरते कूपोदरे दर्दुरः ॥ ३९ ॥ द्वित्राम्भोधरवारिबिन्दुजटिले गर्ते स्थितः स्वां तनुं वीक्ष्य स्वर्णसमा किमित्यतितमां जल्पन्मुधा मोदसे नव० गुरु काव्यमाला। रे रे बर्बर दर्दुर स्फुटमिदं जानीहि वर्षात्यये यत्नेनापि गवेषितः कुतुकिमिः कुत्रापि न प्राप्यसे ॥ ४० ॥ तुङ्गः साहजिकोऽसि नम्रतरतामभ्येषि भूयः फलैः पुष्पामोदभरेण कस्य न मनोमोदं विधत्तेतराम् । कस्ते हे बकुलान्यजन्मदुरितोद्रेको गरीयानयं येनेयं वनितावितीर्ण मदिरागण्डूषपानस्पृहा ।। ४१ ।। सोढा श्रीविगमव्यथातिविषमा कल्लोलकोलाहलै- रन्तरतापभरा न वाभिलषिता दत्ता मणीनां चयाः उच्चैर्मन्दरमन्थनेन हृदये व्यालोलितेऽतीव भू- मर्यादा न निलङ्घिता तुः भवता वन्द्योऽसि वारांनिधे ॥ ४२ ॥ यः सस्नौ सुरसिन्धुनीरनिकरे नित्यं निदाघार्दितो हेमाम्भोजवनीपरागपटलैश्चके रजःक्रीडनम् । निःशकं समवाप नन्दनवने स्वेच्छाविहारोत्सवं सोऽयं कालविपर्ययात्करियुवा शुष्कं सरः सेवते ॥ ४३ ।। यत्राजायत कौस्तुभो हि ककुभो मासा समुद्दीपय- न्नुत्पन्नो हिमदीधितिस्तरुवरो जज्ञेऽथ कल्पद्रुमः । शम्बूका अपि संभवन्ति शतशस्तत्रैव पायोनिधौ विख्यात स्त्रिजगत्सु तस्य महिमा किं तावता हीयते ॥ ४४ ॥ मा खेदं समुपेहि चेतसि सखे पद्माकरोष्मागमे शुष्कोऽसीति मरीचिमालिजटिलज्वालानिपीतोदकः । भावी कोऽपि स वासरः पुनरपि प्रावृट्पयःपूरितो यत्र त्वं भवितासि वारिजवृतो दृश्यो दृशां कोटिभिः ॥ ४५ ॥ अग्रे कूप इतीव लोकमुखतः श्रुत्वा निदाघार्दितः पास्यामीह यथाभिलाषमुदकं पान्थः समुत्कण्ठितः धावित्वाथ समागतोऽस्य सविधं हा हन्त कूपः पुनः पाताले विनिवेश्य वारिपटलं व्यादाय वक्रं स्थितः ॥ १६ ।। अन्यापदेशशतकम् । काकुं चातकपोत नाकुलतया कुर्वा वृथा शारदे यावद्वारिभरव्ययेन नितरां रिक्तीकृते वारिदे । त्वतृष्णा न विराममेष्यति परं काका पयोविप्रुषो- ऽप्युत्सर्गे हतशक्तिरेष भविता व्रीडां व्रजः केवलम् ॥ ४७ ।। स्थाने स्थाने सुमेरुप्रभृतिगिरिवराः सन्ति नोर्व्यो कियन्तः किं तैरेको... मलय महिमा पूजनीयस्तवैव । चञ्चत्पाटीरवाटीप्रभवनवनवामोदसंपत्समृद्ध्या यस्त्वं शश्वत्समामोदयसि निरुपधिः सर्वतो दिङ्मुखानि ॥ ४८ ॥ सद्वृत्तोऽसि गुणान्वितोऽसि विमलच्छायोऽसि पृथ्वीपति- त्रस्यच्चारुचमूरुशावकदृशामभ्येषि दन्तोपमाम् । मुक्ताहार पर त्वरूंतुदमपि ब्रूमो वयं यद्भवा- नन्तःशून्यतरोऽस्ति तत्प्रतिपलं चेतः समुत्ताम्यति ॥ १९ ॥ भूयांसो जलबिन्दवो जलमुचा स्वातौ विमुक्ताः परं निःपीताः खलु शुक्तिकाभिरिह ये ते बिन्दवः बिन्दवः तद्गर्भे परिणामतः परिणता मुक्ता नृपप्रेयसी- पीनोत्तुङ्गपयोधरोपरि सुखं खेलन्ति हारस्थिताः ॥ ५० ॥ भ्रातः षट्पद यत्र तत्र कुसुमे तृष्णातुरो न भ्रमः स्वल्पाहेन विराममेष्यति सरोजानां विपच्छैशिरी। अन्तारूढबिसप्रसून कुलामोदैरिदं सूच्यते द्वित्रैरेव दिनैः प्रफुल्लकमलाकीर्णं सरः स्यादिदम् ।। ५१ ॥ भ्रमर भ्रमतोऽपि केतकीनां विपिनं नैव कदाचिदप्युपेहि । रसलब्धिरिहास्तु वा न वास्तु नियतः कण्टकसंकटे निपातः ॥५२॥ दूषणान्यपि महान्ति धीमतां संवृणोति समुपार्जितो गुणः । स्रग्विलुम्पति गुणेन केवलं मौक्तिको प्रकटरन्ध्रमात्मनः ।। ५३ ॥ मोहितो मधुप रूपसंपदा कर्णिकारकुसुमं किमीहसे । नेह सौरभसमागमस्तव व्यक्तिमेष्यति परं तु मूढता ।। ५४ ।। ७२ काव्यमाला। सिन्धुबन्धुममुमम्बुलिप्सया सेवसे किमु निदावबाधितः । सेवनस्य परिदेवनं फलं लप्स्यसे न कणमप्यपां पुनः ।। ५५ ॥ यत्र नैव कलहंसकूजितं नाथ पङ्कजसमूहसंभवः । नापि कापि जलखेलनक्रिया तक्किमम्बुजलमुच्यते जलम् ॥ ५६ यद्विशालजधनाङ्गनागणस्नानधौतकुचकुङ्कुमारुणम् । उन्नदजलपतत्रिचित्रितं तत्सरोवरपयः पयः स्मृतम् ॥ ५७ ॥ हंसैमौनमकारि वारिजकुलैरासादित मुद्रणं शोकः कोकमवाप कामपि दिशं भेजे दिनश्रीरपि । अस्ते भास्वति हा दिगम्बरतलं व्याप्तं तमोभिर्दिशो भीमाः फेरवफू(पू)त्कृतिव्यतिकरैर्नृत्यन्त्यमी पेचकाः ॥ ५८ ।। ज्योत्स्नाभिः ककुभो विभूषय तमोमालाजटालाम्बरं द्रागुल्लासय वासयापिं कुमुदामोदैर्मही त्वं विधो। सर्वे सम्यगिदं तथापि किमपि ब्रूमो वयं कुप्य मा यादृक् श्रीर्जगतां रवौ न तु पुनस्तेनैव सा भाविनी ।। ५९ ।। वासन्ती नः विलोकित्ता कमलिनी नालिङ्गिता नेक्षिता यूथी नापि कुमुद्रती परिचिता नापेक्षिता मालती युष्मद्दानसमीहया मधुलिहा हन्त त्वयायं पुन- र्दूरादेव निवार्यते गजप किं कर्णस्य विक्षेपणैः ॥ ६० ॥ यावन्नृत्यं कलयितुमलं सज्जते नीलकण्ठे यावच्चञ्चूमपि च विवृणोत्यम्बुने चातकोऽपि । संनद्धोऽयं वियति जलदस्तावदुत्पातवातै- रागत्योचैरहह सहसा क्वाप्यपाकृष्य नीतः ।। ६१ ॥ एकत्रैव कुलायकोषकुहरे वृद्धि परां प्राप्तयो- रेकाकारजुषो रसालशिखरे साकं समासीनयोः । इत्थं कोकिलकाकयोः कथमहोत्पधेत भेदग्रहो नो चेज्जातिनियन्त्रितेह वचसा व्यक्तिर्भवेद्भेदिका ।। ६२ ।। अन्यापदेशशतकम् । यः प्रासूत सुतं सुधाकरमुमाप्राणेशचूडामणिं लक्ष्मीर्यस्य सुता हरिप्रियतमा यः कालकूटाश्रयः । पातु पाणिपुटे कृतस्य मुनिनागस्त्येन तस्याम्बुधे- र्जाताः केऽपि न रक्षणक्षमतमा दैवं ततो व्वेतु कः ॥ ६३ ॥ यो दिङमण्डलमुद्धरत्युरुतमोप्रासादनायासतो येनानन्दमनिन्दितेन लभते चित्ते कुमुद्वानपि । यं चाश्रित्य जगज्जयत्यतनुरप्येवंगुणोऽसौ विधू राहोरास्यकरम्मतामुपगतः कस्मै किमावेद्यताम् ॥ ६४ ॥ कैरविणीकुलबन्धो हिमकर सिन्धोरवाप्तजन्मासि । इति तव महदयशस्यं मलिनयसि यदम्बुजश्रेणिम् ॥ ६५ ॥ संगम्य दुग्धनिवहेरविशेषबुद्ध्या किं वारिपूर बहुदूरमुपेहि मोदम् । दुग्धाभिलाषिणि विवेकिनि राजहंसे हा हा क. यास्यति पदं भवतोऽभिमानः ।। ६६ ।। यो मन्दारमरन्दबिन्दुनिवहैः संवर्धितः शैशवे तारुण्ये मदमाचचाम बलमिद्वेतण्डगण्डस्थले । सोऽयं जीर्णतर्निनीषति जनुः कार्पासपुष्पेष्वलि- र्दुर्दैवव्यवसायतोऽस्य तदपि प्रायोऽभवदुर्लभम् ॥ ६७ ॥ नादत्तेऽनुचरोपनीतकवलं. सर्पिःसिताप्लावितं यत्नेनापि न पातुमिच्छति मनोहारीणि वारीण्यपि विन्ध्यासन्नवनीवियुक्तकरिणीचिन्तादुरन्ताधिवा- न्मूर्धानं विधुनोति बन्धनगतः स्तम्भेरमः केवलम् ॥ ६८ ।। देशोऽयं मरुरुगतो विधिवशादस्ंमिस्तडागोल्पक- स्तत्रैकाजनि मद्विधालिंनिकरप्राक्पुण्यतः पद्मिनी । तामुन्मूलयितुं समुद्यतकरस्त्वं तावदुत्कण्ठसे हे दन्तावल ते कथं न बलते दृष्टिः कृपाकोमला ।। ६९ ।। काव्यमाला। कस्मै दैन्यमुपैतु काननतले कोऽन्यो गरीयानितो यं वालम्ब्य करेण कर्षति वपुस्तीरे न तादृक्तरुः । गृधैर्योम्नि शिवागणैर्भुवि मुहुर्जिज्ञासितासुव्ययो हा धिक् पङ्कपराभवे निपतितो दन्तावलो हीयते ॥ ७० ॥ पस्पर्धेऽञ्जनपर्वतेन सह यस्तन्वा तदन्वाययौ साधर्म्य श्रुत्तसप्तधामदपयःसारेण धाराभृताम् । दिग्दन्तावलराजिमाजिषु रदाघातैर्जिगायौजसा सोऽयं दैवनिबन्धनं विषहते दन्तावलो बन्धनम् ॥ ७१ ।। अजनि रजनिजानिर्ग्यद्यपि क्षीरसिन्धो- रलभत पदमुच्चैमूर्ध्नि कंदर्पशत्रोः । तदपि यदि जडात्मत्वात्कलङ्कावगुण्ठं वहति हृदयमध्ये कस्तदा किं करोति ।। ७२ ॥ शरद्धने गर्जति वारिवाञ्छा कदापि रे चातक नैव कार्या। इदं तु निर्व्यूढमवेहि तत्त्वं गर्जन्ति ये ते न फलोपलब्ध्यै ।।७३ ॥ रे काक किं रटसि कर्णभिदः कटूक्ती- र्वाचालता नहि विदग्धविनोदभूमिः । पश्येति कोकिलयुवा समये कदाचि- त्सूक्तिं लपन्नभिमतो न जनस्य कस्य ।। ७४.॥ वैदग्ध्यमन्दिर मनोहररूपमात्रा दिन्दिदिर भ्रमणमिच्छ न कर्णिकारे । अस्मिन्नुदेष्यति न कोऽपि रसोपलम्भः सौरभ्यदुर्भगमिदं जगति प्रसिद्धम् ॥ ७५ ॥ अकाले संनद्धो नभसि मुदिरो मेदुरतरः परीतस्तोयाशाविवृतवदनैश्चातकगणैः तथानेनारब्धं किमपि चरितं येन करका- निपातैरेतेषां संपदि शतधाभिद्यत शिरः ॥७६ ॥ । अन्यापदेशशतकम् । यद्यपि सन्ति बहून्यपि. कुसुमानि तथापि वारिजं वन्दे । निशि निशि मधुपयुवाचं यन्मधुने बन्धनं सहते ॥ ७ ॥ तुल्यैव रूपरचना गणनापि धातु- र्मध्ये समैव समता घटते तथापि । हेम्ना समं न दहने प्रविशारकूट व्यक्तीभविष्यति यतो भवतो विशेषः ।।७८॥ दुमानतिकामति पल्लवश्रीः प्रवालशोभां हरति प्रसूनस् । तरोरशोकस्य तथापि नाभूदुर्दैवतः साधुफलोपलब्धिः ॥ ७९ ॥ नैव त्वत्सदृशी परागपडली कुत्रापि पुष्पान्तरे नो वा सौरभमुग्रमीदृशमथो नैतादृशी सुच्छविः । अन्यस्मै स्पृहयन्ति किं मधुलिहो हित्वा भवन्तं तदा भ्रातः केतक कण्टकैः कटुमुखैस्त्वं स्या न चेदावृतः ॥ ८ ॥ स्निग्धं न वीक्षितमसिक्षितिलास्यमास्यं मुग्धे मुधा हालकनारि कुचेष्टितेन । अन्यानि तानि ललितानि विलासिनीनां यैराहतानि हृदयानि हरन्ति यूनाम् ।। ८१ ।। एकः स एव धरणीधरचक्रवर्ती भूभृत्सु वन्द्यमहिमा हिमवान्न चान्यः योऽसौ तपोभिरधिगम्य सुतामपर्णा- मर्थांचकार सुरसारमपीन्दुमौलिम् ।। ८२ ।। इतस्ततः श्रावणवारिवाह किमूषरे वारिभरव्ययेन । त्वमुर्वरां शश्वदिमां निषिञ्च जीवातुभूता जगता युदेषा ८३ ।। उपरि चरणपातं कुर्वती मौक्तिकानां हरिहतकारेकुम्भप्रच्युतानां समन्तात् । वनमदति किराती चिन्वतीं स्रक्षु गुञ्जां हसति किमु महत्त्वं येन मुक्तामणीनाम् ।।. ८४ काव्यमाला उच्चैर्विरौति परितो यदि सारमेय- स्तस्मिन्भवन्ति किमु केऽपि कृतावधानाः । धीरं ध्वनत्यवनिभृत्कुहरे हरीन्द्रो. दिग्दन्तिनां सपदि शुष्यति दानधारा ।। ८५ ।। ध्वनति मधुरमम्भोमुक्शरद्येष भावी झटिति जलनिपातोऽपीत्यनन्दकुमुद्वान् । तदिह पुनरनेनाकारि येनास्य जाता रुचिरपि हिमरश्मेर्दुर्लभा सैव वृष्टिः ॥ ८६ ॥ कतिविधा विलसन्ति मधुप्लुताः कुसुमभारनता न लता बने । कमलिनीविरहव्यथितो रतिं वितनुते किमु तासु मधुव्रतः ।। ८७ ॥ नैवासन्कति सन्ति नैव कति वा के के न वा भाविनो राजानो जनकस्य जातु किममी कर्तुं तुलामीशते । सीताकल्पलताप्रतिग्रहमिह क्षोणीभुजामग्रतः स्वस्तीयुक्तवते त्रिलोकपतये रामाय योऽयं ददौ ॥ ८८ ॥ रे हंस संचर सरोरुहवृन्दमध्ये त्वं चापि चक्र चर चंक्रमणं ततः किम् । योऽन्तर्निगूढमकरन्दरसोऽस्य हृद्यो गृह्णाति तं परमसौ रसिको द्विरेफः ॥ ८९ ॥ बन्ध्ये किमन्ध शुक सीदसि काश्चनारे पुष्पश्रिये पटुरसौ न फलागमाय । उड्डीय गच्छ फलितं तरुमन्यमाशु भ्रातर्न चेत्पुनरुपेष्यति तेऽनुतापः ॥ ९० ।। एधन्तां त्वयि पीनमीननिवहग्रासैर्वका निर्भरं पङ्केरुट्फलमूलशैवलगणानश्नन्तु कारण्डवाः । अन्ये चापि चिरं चरन्तु विहगाः स्वच्छाश्च पद्माकर भ्रातर्या पुनरभ्युदेति सुषमा हंसैस्मीभिर्न सा ॥ ९१ ।। अन्यापदेशशतकम् स्थाने स्थाने विकचकमलश्रेणिगुञ्जद्विरेफा न भ्राजन्ते किमिह सलिलोदीर्णरागास्तडागाः उत्प्लुत्यायं तदपि कुधियां दर्दुराणां समूहः कस्मात्कूपे निपतति वयं तत्र बीजं न विद्मः ॥ ९२ ॥ चेदेकदा न सरसीषु न वा नदीषु वारीण्यवाप दुरवग्रहदूषितासु। तत्किं तृषार्तिविभवाकुलितोऽपि तोय- पानाय कूपमनुधावति वारणेन्द्रः ।। ९३ ॥ नास्मै हस्तिपते प्रसारय कर कूमाय तृष्णातुरो भावी नैव तव प्रसारितकरस्याप्यम्बुलाभोऽप्यतः । द्वित्राणीह दिनानि धेहि हृदये धैर्य भविष्यन्त्यमी द्राग्धारामिरितस्ततो जलमुचां पूर्णास्तु पद्माकराः ॥ ९४ ॥ किं गर्वमुद्वहसि कच्छप गाधतोये पद्माकरे समवहेलितदिव्यकूर्मः स्यादेष चेत्पुनरवग्रहदोषशुष्क- स्तत्रावधारय विधिं निजजीवनस्य ॥ ९५ ॥ निदाधे छायायै तरणिकिरणोत्तापिततनु- र्वटं यावद्विन्ध्येऽनुसरति समृद्धं करियुवा । तथा तुङ्गश्चायं दवदहनकीलैः कवलितो. यथाभूदामूलं दहनमहसा भस्मनिचयः ॥ ९६ ॥ यदृच्छा जाताभूदुपवनतटे काचन शमी समृद्धिं योऽधानाधिकृतपुरुषैः प्रापि कृपया । तथाकस्माद्यस्यां हुतभुगुदियायान्तरगतो यथाभूदासन्नद्रुमनिवहदाहाय कुशला ॥ ९७ ॥ संतोषयाह्नि मकरन्दभरेण भृङ्गा- नम्भोज संपदि वरो हि परोपकारः काव्यमाला। दोषागमोऽयमतिसंनिहितो यदस्मि- न्कान्तिर्न तेन मधुना गमदं त्वमीषाम् ।। ९८ ॥ अन्येऽयीह लसन्ति किं न कुसुमंश्रेणीसमृद्धश्रिय- स्ते ते चम्पककाञ्चनारवकुलाशोकादयो भूरुहः । हे माकन्द तथापि भेदविदुषामिन्दिन्दिराणां मनः सान्द्रानन्दमहर्निशं रसवति त्वय्येव विश्राम्यति ॥ ९९ ।। यजातोऽपि चतुःपथेत्र विषये निःशाखिभूमण्डले शाखाभिर्निविडाभिरुन्नततरच्छायोऽसि यत्त्वं पुनः । तं न्यग्रोधतरो सहस्व बहलच्छायाभिलाषाय त त्पान्थानामुपरोधखेदमधुना नैदाघमध्यंदिने ॥ १० ॥ विश्वेषां त्रिदिवौकसामपहरन्नार्ति हृदामन्वहं यद्यप्याकुल एव तिष्ठति भवाजानाम्यहं तत्त्वहो । हंहो कल्पतरो परोपकृतये सृष्टोऽसि बद्वेधसा तत्त्वत्तोऽहमपीप्सितामुपकृतिं किंचित्समीहेतमाम् ॥ १०१ ।। तिष्ठामों विपिने सरःसु सलिलं स्वैरं पिबामस्तृणा- न्यद्मो यद्यपि सर्वतो भयपराधीनाश्च वर्तामहे । निर्बीजं प्रहरन्ति हन्त तदपि व्याधा इमेऽस्मान्मृगा- नीदृश्येव विधातृनिर्मितिव(र)तः किं कुर्म एते वयम् ।। १०२ ।। वन्या रोहणभूरिय सहजतो यस्यां मणिश्रेणयः पर्यन्तेषु लुठन्त्यकुण्ठितरुचिव्यालिप्तदिग्भित्तयः । किं त्वस्याः पुनरन्य एव महिमा श्लाघ्यः समन्तान्मणी- न्यो गृहाति निजेच्छयैव सरसं गृहातु ना संमतिः ॥ १०३ ॥ मातघ्गाश्चलताप्यतस्त्वमपि हे शार्दूल दूरं ब्रज त्वं चान्यत्र वराह निःसर पुरो यावस्थितं तत्स्थितम् । सोऽयं दीर्घकरीन्द्रकुम्भनखरक्रोडस्थमुक्तावली- भासा दन्तुरवन्दिशो निविशते पञ्चाननः कानने ॥ १०४ ॥ अन्यापदेशशतकम् चेदङ्गीक्रियते न मत्करिणा भृङ्गीयुवा गौरवा- द्भूयादस्य गुणालयस्य तदये चित्तव्यथा किं वृथा । सौरभ्यस्रवनिर्झरभ्रमदलिभ्राजत्प्रसूनप्रभा- स्तास्ताः सन्ति लवङ्गिकाप्रभृतयश्चेतोनुदे चेल्लताः ॥ १०५ ॥ करटिकठिनदन्तोल्लेखसंकर्षिताया- मविरलघनवारासारसेकाप्लतायाम् । अपि सुभगमुहूर्ते यत्नतो बीजमुप्तं. गिरिशिखरशिलायां रोहते किं कदापि ॥ १०६ ।। एतस्यां वनसीम्नि यद्यपि वसत्युग्रोऽपि कण्ठीरवो निःशङ्कं करिशाव संचर तथाप्याकर्ण्य वार्तामिमाम् । अन्ये ते करिणो मदोत्कटकटस्थानभ्रमच्छ्वापद- श्रेणीगुञ्जितरञ्जितेषु हरयो येषु महारप्रदाः ॥ १०७ ॥ रे रे शूकरयूथनाथ महता तारुण्यदर्पोष्मणा दन्ताभ्यामिह पातनाय यतसे शालद्रुमस्यास्य किम् । जग्मुर्यत्र कठोरपर्वतशिलातुल्यत्वचि प्रांशवो दन्ता निष्ठुरवज्रकोटिकठिना दिग्दन्तिनां कुष्ठताम् ।। १.०८ ॥ लेभे यं शुभदा तयोभिरमलैः श्रीपनानाभात्सुतं यद्देशो मिथिलाखिलावनितलालंकारचूडामणिः । तेनेदं मधुसूदनेन कविना विद्यावता निर्मितं श्लोकानां शतकं मुदे सुकृतिनामन्यापदेशाह्वयम् ॥ १०९ ।। निरवद्यमद्य शतमेतदतिप्रकटार्थवर्णपदसंवलितम् । दुज(उचि)तीकुलाम्बुजवनीरविणा मधुसूदनेन कविना रचितम् ॥ ११०॥ इति मैथिलमधुसूदनकृतमन्यापदेशशतकं समातम् । (New Delhi