अन्तर्व्याप्तिसमर्थनम्

विकिस्रोतः तः
अन्तर्व्याप्तिसमर्थनम्
[[लेखकः :|]]


अन्तर्व्याप्तिसमर्थनम् ।

ओं नमो बुद्धाय ।

इह सत्त्वमर्थक्रियाकारित्वं तदितरसत्त्वलक्षणायोगात् । तच्च क्रमयौगपद्याभ्यां व्याप्तं परस्परव्यवच्छेदलक्षणत्वादनयोः । प्रकारान्तरेण करणासम्भवात् । क्रमयौगपद्ये चाक्षणिकत्वे न स्तः । पूर्व्वापरकालयोअरविचलितैकस्वभावस्य कर्त्तृत्वाकर्त्तृत्वे विरुद्वधर्म्मद्वयायोगात् ।

तत्र न तावत्क्रमः क्रमाणामेकैकं प्रति पूर्वापरकालयोः कर्त्तृत्वाकर्त्तृत्वापत्तेः । एवं सर्व्वक्रमाभावात्केवलं सकलकार्य्ययौगपद्यमवशिष्यते । तत्र च स्फुट तरः पूर्व्वापरकालयोः कर्त्तृत्वाकर्तृत्वप्रसङ्गः । विरुद्वे च कर्त्तृत्वाकर्त्तृत्वे एकधर्म्मिणि न सम्भवतः । एकस्वभावश्च तावत्कालमक्षणिक इति सिद्व एतस्मिन् क्रमयौगपद्ययोरयोगः । तदेवमक्षणिके व्यापकानुपलब्ध्या निषिद्वं सत्त्वं क्षणिक एवा[व] तिष्ठते इति क्षणिकत्वेन व्याप्तम् । तत्तेन व्याप्तं यत्यत्र धर्म्मिणि सिध्यति तत्र क्षणिकत्वं प्रसाधयति । इदमेवेदानीं विचार्य्यते । केयं (क्वेयं) व्याप्तिग्रहीतव्या दृष्टान्तधर्म्मिणि साध्यधर्म्मिणि वा । केचिदाहुः । दृष्टान्तधर्म्मिण्येव धूमवत् । अन्यथा साधनवैफल्यं स्यात् । उभयधर्म्मसिद्वि(द्वे)रनान्तरीयकत्वात्व्याप्तिसिद्वेः । नहि महानससिद्वायामग्निधूमयोर्व्याप्तौ पुनरग्निसिद्वये धूमलिङ्गमन्विष्यत इति । तथाहि ।

दृष्टान्ते गृह्यते व्याप्तिर्धर्म्मयोस्तत्र दृष्टयोः ।
हेतुमात्रस्य दृष्टस्य व्याप्तिः पक्षे तु गम्यते ॥
सा च सर्व्वोपसंहारात्सामान्यमवलम्बते ।
तस्य धर्म्मिणि वृत्तिस्तु प्रतीयेतानुमानतः ॥

प्रत्यक्षदृष्टयोर्वन्हिधूमयोः कार्य्यकारणभावसिद्वौ तयोर्व्याप्तिसिद्विरिति प्रत्यक्षसिद्वे वन्हौ युक्तमनुमानवैफल्यम् । नैवं व्याप्तिसिद्वेः प्राक्प्रमाणान्तरसिद्वं धर्म्मिणि क्षणिकत्वम् । साधनधर्म्ममेव तु केवलमनुपश्यन्तो विपर्य्यये बाधकप्रमाणवलात्तस्य क्षणिकत्वेन व्याप्तिं प्रतीमः । तत्ततः साधनवैफल्यम् । वैफल्यमेव, क्षणिकत्वव्याप्तस्य सत्त्वस्य तथात्वेन धर्म्मिणि प्रतीतौ क्षणिकत्वस्यापि प्रतीतेरिति चेत् । न । सर्व्वोपसंहारवती हि व्याप्तिः साध्यसिद्वेरङ्गम् । तदियमनपेक्षितधर्म्मिविशेषं साधनधर्म्ममात्रमवलम्बते । तद्यथा । यत्र धूमस्तत्राग्निरिति । न पुनर्यत्र महानसे धूमस्तत्राग्निरिति । एवमिहापि यत्सत्तत्क्षणिकमिति व्याप्तिप्रतीतौ साधनधर्म्मस्यापि धर्म्मिणि सत्त्वं नान्तर्भवति । किं पुनः साध्यधर्म्मस्य । तस्मात्सत्त्वसामान्यस्य साधनधर्म्मस्य पक्षधर्म्मत्वं व्याप्तिश्चैकशः प्रतिपाद्य तदुभयसामर्थ्यात्साध्यधर्म्मस्य धर्म्मिणि वृत्तिः प्रतीयत इति कुतोऽनुमानवैफल्यम् । यद्येवं व्याप्तिप्रतीतावसति धर्म्मिणि परामर्शे साध्यधर्म्मिणि व्याप्तिग्रहणमिति । कुतः । तत्र दृष्टस्य सत्त्वस्य व्याप्तिप्रतीतेः । यथा महानसदृष्टाग्निधूमयोर्व्याप्तिग्रहे दृष्टान्तधर्म्मिणि व्याप्तिग्रहणमुच्यते । न हि व्याप्तिग्रहणे महानसपरामर्शोऽस्तीत्युक्तम् । ननु व्याप्तिपक्षधर्म्मत्वयोरेकशः प्रतीतावपि यस्यैव पक्षधर्म्मत्वमवगतन्तस्यैव साध्येन व्याप्तिरवसितेति सामर्थ्यात्साध्यसत्ताकथनमवैयर्थ्यं साधनस्य ।

ननु न पक्षधर्म्मत्वगतिः साध्यगतिः साध्यधर्म्मसंस्पर्शात् । नापि व्याप्तिप्रतीतिरेव साध्यसिद्विः । सामान्यालम्बनतया धर्म्मिविशेषेण धर्म्मयोरनवच्छेदात् । अन्यथा विशेषयोर्व्याप्तिप्रसङ्गात्तदयं व्यस्तविषयः सामर्थ्यादिति हेतुनिर्द्देशः । अथ हेतोस्त्रैरूप्यपरिच्छेदसामर्थ्यात्साध्यप्रतीतिरुत्पद्यत इत्युच्यते । न तर्हीदानीं व्यर्थोहेतुः । स्वरूपनिश्चयेन साध्यनिश्चयोपजननात् । न हि क्वचिदियत्ताधिकं लिङ्गस्य कर्त्तव्यमस्तीति ।

अपि च गृहीते पक्षधर्म्मत्वे सम्बन्धे च स्मृते अनुमानं भवद्भिरिष्यते । तद्वदन्तर्व्याप्तावपीष्यताम् । न हि बहिर्व्याप्तिवादिनामपि विस्मृतायां व्याप्तौ अनुमानप्रवृत्तिरस्ति । तत्र यस्यैव पक्षधर्म्मत्वमवगतं तस्यैव साध्यधर्म्मेण व्याप्तिस्मृतेः किन्न सर्व्वानुमानवैयर्थ्यम् । साध्यधर्म्मिणोऽपरामर्शेण व्याप्तेः स्मरणादिति चेत् । साध्यधर्म्मिणि दृष्टस्यैव व्याप्तिस्मरणे कथं साध्यधर्म्मिणोऽपरामर्शः । सामान्यालम्बनत्वाद्व्याप्तेः । साध्यधर्म्मिनोऽनवच्छेदादिति चेत् । ननु तत्र दृष्टस्य कथं तेनानवच्छेदः । तेनावच्छिन्नस्य वा असाधारणत्वात्कथं व्याप्तिः । अयोगव्यवच्छेदेन विशेषणान्नासाधारणतेति चेत्तथापि किन्न साध्यधर्म्मी परामृश्यते । यत्र यत्र पर्व्वते धूमस्तत्र तत्राग्निर्यथा महानस इति सामान्यालम्बनायां व्याप्तौ धर्म्मिविशेषपरामर्शस्यानङ्गत्वादिति चेत्युक्तमेतत्साध्यधर्म्मिणा ह्ययोगव्यवच्छेदः साधनधर्म्मस्य रूपान्तरमेव पक्षधम्मत्वाख्यम् । न त्वयं व्याप्तेरङ्गम् । तमन्तरेणापि व्याप्तेः सामान्यालम्बनायाः परिच्छेदपरिसमाप्तेः कथमन्यथा दृष्टान्तधर्म्मिणि व्याप्तिग्रहणवार्त्तापि तदेदानीं पक्षधर्म्मत्वायोगात्पक्षधर्म्मत्वाग्रहणात्; पक्षधर्म्मत्वग्रहणे वा तदैव साध्यमपि सामर्थ्यादसिद्वं सिद्वमिति सर्व्वानुमानवैयर्थ्यप्रसङ्गः । पश्चात्कालभाविलिङ्गज्ञानमपि च स्मृतिरेव स्यात्न प्रमाणम् । तस्मात्व्याप्तेरनङ्गत्वात्पक्षधर्म्मत्वं व्याप्तिग्रहणे सदपि नान्तर्भवतीति पृथग्गृहीतस्मृतयोः पक्षधर्म्मत्वव्याप्त्योः सामर्थ्यादनुमेयगतिरुत्पद्यते इति । एवमवैयर्थ्यं साधनानामेषितव्यमिति मानफलत्वात् । तद्वत्पृथग्मूतयोः पक्षधर्म्मत्वव्याप्त्योः सामर्थ्यादनुमानोत्पत्तिरन्तर्व्याप्तावपि किन्नेष्यते । तदिष्टौ वा कथं
साधनवैयर्थ्यम् । त्रैरूप्यगतिसामर्थ्यादनुमेयगतिरिति हि तदुपादानशक्तिरेव सामर्थ्यमुच्यते, न तु त्रैरुप्यप्रतीतेरन्तर्भाव इति सर्व्वं समानम् । न सर्व्वं समानम् । अन्तर्व्याप्तौ हि व्याप्तिं प्रति गत्यैव पक्षधर्म्मत्वमवगतमनवगते पक्षधर्म्मत्वे व्याप्तेरप्यनवगतेः । ततो व्याप्तिपूर्व्वके साधनवाह्ये पक्षधर्म्मवचनमनर्थकमनन्तव्याप्तौ । नैवं बहिर्व्याप्तौ बहिरेव व्याप्तिग्रहणात् । अत्राह,-

"येन तेन क्रमेणात्र प्रयुक्ते साधने सति ।
अवेत्यं पक्षधर्म्मत्वं पश्चाद्व्याप्तिः प्रतीयते ॥
प्रत्यक्ष इव दृष्टान्ते तत्र सेत्यन्यथा कथम् ।
द्वौ दृष्ट्वा विद्म इति चेद्व्याप्तेः प्राक्द्वयदृक्कथम् ॥"

व्याप्तिपक्षधर्म्मत्वे हि स्ववाक्याभ्यां येन तेन प्रयुक्ताभ्यां सूच्येते न तु साक्षात्प्रतीयेते । वाचः स्वयमप्रमाणत्वात् । यदाह,-

शक्तस्य सूचकं हेतुर्वचोऽशक्तमपि स्वयमिति । सूचितयोऽस्तु तयोः सत्त्वे हेतौ प्रथमतरपक्षधर्म्मत्वविषयमेव प्रमाणमभिमुखीभवतु । तेन प्रमाणेन धर्म्मिणि सिद्वस्य सत्त्वस्य पश्चाद्व्याप्तिः प्रमाणान्तरेण गृह्यत इति कस्य वैयर्थ्यमिति । प्रत्यक्षेऽपि दृष्टान्तधर्म्मिणि प्रथमं हेतुर्गृह्यते पश्चाद्व्याप्तिरित्येष एव क्रमः अन्यथा दृष्टान्तधर्म्मिणि व्याप्तिर्गृहीतेत्येतदेव न स्यात् । दृष्टान्तधर्म्मिण्यदृष्टस्यैव हेतोर्व्याप्तिग्रहणात् । यद्येवं साध्यधर्म्मोऽपि व्याप्तिग्रहणाधिकरणे धर्म्मिणि ग्रहीतब्य एव यथा वन्हिधूमयोरिति चेत् । न । तत्र दृष्टस्य हेतोर्विपक्षे बाधकवृत्तिमात्रादेव व्याप्तिसिद्वेः । ज्ञातश्चैवं न खलु व्याप्तिग्रहणात्प्राक्क्षणिकस्य क्वचिदपि सिद्विरस्ति तस्यानुमेयत्वात् । असिद्वायाञ्च व्याप्तावनुमानाप्रवृत्तेः । साधनान्तरस्य च तदर्थमननुसरणात् । अनुसरणेऽप्यनवस्था स्यात् । अवस्थाने तावत्प्रयासस्य वैयर्थ्यात् । विअपर्य्यये व्याप्तिबलादेव व्याप्तिसिद्वेरविघातात् । वन्हिधूमयोस्तु नादृष्टयोः कार्य्यकारणभावसिद्वेः । तत्सिद्वौ न विपक्षे बाधकवृत्तिरिति द्वयदर्शनव्यपेक्षा? वन्हिधूमयोर्व्याप्तिसिद्विः सत्त्वक्षणिकत्वयोस्तु नैवम् । यथोक्तन्यायेन व्याप्तिसिद्वेः । तस्मात्सत्त्वमात्रस्य तत्र धर्म्मिणि सिद्वस्य बाधकवशाद्व्याप्तिः सेत्स्यतीत्येषितव्यम् । तद्वदन्तर्व्याप्तावपि । ते इमे व्याप्तिपक्षधर्म्मत्वे स्वस्वप्रमाणव्यवच्छेद्यसाधनवाक्ये न तु केवलं सूचयितव्ये । न चान्यतरवाक्येन शक्यमुभयं सूचयितुमिति कुतोऽन्यतरवाक्यवैयर्थ्यम् ॥

एकस्यैव हि धर्म्मस्य क्रमात्रैरूप्यनिश्चयः ।
विस्मृतावनुमाभावात्तत्किं व्यर्थानुमाखिलेति ॥

अपि च संग्रहश्लोकः,-

बाधकात्साध्यसिद्विश्चेद्व्यर्थो हेत्वन्तरग्रहः ।
बाधकात्तदसिद्विश्चेद्व्यर्थो धर्म्म्यन्तरग्रहः ॥

यदि हि धर्म्मिणि व्याप्तिः सिध्यन्त्येव साध्यसिद्विमन्तर्भावयति । ननु लाभ एवैषः । ब्याप्तिप्रसाधकादेव प्रमाणात्साध्यसिद्वेः सत्त्वहेत्वपाश्रयणप्रयासस्य निरसनात् । न हि व्यसनमेवैतल्लिङ्गान्तरानुसरणं नाम । अथ न व्याप्तिसाधकात्साध्यसिद्विः । न तर्ह्यन्तर्व्याप्तौ हेतुवैयर्थ्यमिति किमकाण्डकातरतया बहु तरमायासमाविशसि । द्वयं हि भवतः साध्यं दृष्टान्तधर्म्मिणि वृत्तिः साध्यधर्म्मिणि च । यथाक्रमं ब्याप्तिपक्षधर्म्मत्वयोः सिद्व्यर्थम् । ननु यदा प्रतिनियते धर्म्मिणि विवादः, तद्वहिर्भूते च धर्म्मिणि व्याप्तिग्रहणं तदानीं भवेद्वैयर्थ्यम् । यदा तु वस्तुमात्रे विवादः तदा सर्व्ववस्तुषु हेतोर्वृत्तिस्त्वयापि साध्या मयापि चेति कतमस्मिन् धर्म्मिणि हेतोर्वृत्तिसाधनं मम व्यर्थं भविष्यति । कथमिदानीं बहिर्व्याप्तिर्विवादाधिकरणं भूत एवान्यतमस्मिन् व्याप्तिसाधनात् । तावन्मात्रलक्षणत्वाच्च साध्यधर्म्मिणः । बाधकं प्रमाणं प्रवर्त्तमानमन्तर्गतमपि धर्म्मिणं बहिष्करोतीति चेतेतदेव कथं भवतु बाधकेन प्रवर्त्तमानेनैव तस्मिन् साध्यसाधनात् । साध्यसंशयोपगमे साध्यधर्म्मिणि लक्षणोपगमादिति चेतयुक्तमेतत् । बाधकमात्रात्न साध्यसिद्विरित्यस्मिन्पक्षे धर्म्म्यन्तरपरिग्रहवैयर्थ्याभिधानात् । बाधकात्साध्यसिद्विरित्यस्मिंस्तु पक्षे साधनवैयर्थ्यमापादितम् । तस्माद्वाधकमात्रेण साध्यासिद्वौ न क्वचित्सन्देहनिवृत्तिः । सन्देहानिवृत्तौ न वहिष्करणमवहिष्कृतश्च साध्यधर्म्म्येवेति तत्र व्याप्तिरन्तर्व्याप्तिरेव नेदानीं बहिर्व्याप्तेर्वार्त्तापि । तदियंबहिर्व्याप्तिरमुस्मिन् पक्षे कथं भवति यदि प्रतिनियते धर्म्मिणि विवादः । तद्वहिर्भूते च धर्म्मिणि व्याप्तिग्रहणम्भवति । तत्र च दुरुद्वरः धर्म्म्यन्तरपरिग्रहवैयर्थ्यदोषः । बाधकमात्रेण तु साध्यसिद्वौ हेत्यन्तरमेव
व्यर्थम् । अपि च सत्वहेतोर्विशेषेण न वहिर्व्याप्तिसम्भवः ।

असिद्वे धर्म्मिणः सत्त्वे विवादानवतारतः ।
तत्रासिद्वस्य च व्याप्तिग्रहणे साध्यधर्म्मिणि ॥
व्याप्तिग्रहः कथं नस्याद्दृष्टान्तेऽपि न वा भवेत् ॥

यत्र हि धर्म्मिणि दृष्टस्य हेतोर्व्याप्तिः प्रतीयते तत्र तस्य व्याप्तिग्रहणमाख्यायते । दृष्टञ्च साध्यधर्म्मिणि सत्त्वमन्यथा विमत्ययोगादिति कथं नान्तर्व्याप्तिः ।

तथापि साधनवैयर्थ्यनिषेधाय बहिरेव गृह्णीम इति चेत्तत्किमिदानीं त्वदिच्छानुरोधात्धर्म्मिणि हेतोर्द्दर्शनमदर्शनमस्तु । दर्शनविशेषे वा बहिरेव व्याप्तिग्रहणव्यवस्थास्तु । उभयत्र दृष्टस्य व्याप्तिग्रहणेऽप्यस्ति बहिर्व्याप्तिभाग इति चेत् । ननु किमर्थमियान् भागो यत्नेन संरक्ष्यते ।

माभूथेतुवैयर्थ्यमिति चेत् । ननु यदि बाधकवृत्तिमात्रेण व्याप्तिग्रहणाधिकरणे धर्म्मिणि साध्यसिद्वेः साधनवैयर्थ्यमन्तर्व्याप्तौ तदेतद्वहिर्व्याप्तावपि तुल्यम् । तस्माद्व्यसनमात्रं बहिर्व्याप्तिग्रहणे विशेषेण सत्त्वे हेतौ केवलं जडधियामेव नियमेन दृष्टान्तसापेक्षः साधनप्रयोगः परितोषाय जायते । तेषामेवानुग्रहार्थमाचार्य्यो दृष्टान्तमुपादत्ते ।

यत्सत्तत्क्षणिकं यथा घट इति ।
पटुमतयस्तु नैवं दृष्टान्तमपेक्षन्ते ।

"तस्माद्दृष्टान्तरोक्तेभ्यो घटं दृष्टान्तमब्रवीत् ।
तथा मानेष्ववैयर्थ्यादन्तर्व्याप्तावपीष्यताम् ॥

इत्यन्तरश्लोकः ॥

कथमिदानीमनुमेये सत्त्वमेव सत्त्वमेव सपक्ष एव सत्त्वमसपक्षे वासत्त्वमेव निश्चितमिति हेतोस्त्रैरुप्यमवगन्तव्यम् ।

"मतौ सपक्षासपक्षौ साध्यधर्म्मयुतायुतौ ।
सत्त्वासत्त्वे तत्र हेतोस्ते ग्राह्ये यत्र तत्र वा ॥"

साध्यधर्म्मयुक्तः सर्व्वः सामान्येन सपक्षः, अतद्युक्तश्चासपक्ष इति । तस्मिन् सपक्ष एव सत्त्वमसपक्षे चासत्त्वमेव यथाक्रममन्वयव्यतिरेकौ तौ पुनर्यत्र तत्र वा धर्म्मिणि ग्रहीतव्यौ यत्र शक्यौ ग्रहीतुम् ।

तदिह सत्त्वस्य सर्व्वतोऽक्षणिकाद्व्यावृत्तौ बाधकबलात्सिद्वायां यत्सत्तत्क्षणिकमेवेति अन्वयः साध्यधर्म्मिण्यवगृह्यते । तत्र दृष्टस्य हेतोर्व्याप्तिग्रहणात्धर्म्म्यन्तरासम्भवात् । सम्भवेऽपि तदनुसरणवैयर्थ्यात् । यद्येवमसाधारणो नाम कथमनैकान्तिक उक्तः ॥

असाधारणतां हेतुदोषम्मूढव्यपेक्षया ।
अब्रवीदग्रहाद्व्याप्ति(प्ते)र्नैवं सर्व्वोपसंहृतौ ॥

उक्तमेतज्जडधियो धर्म्म्यन्तर एव व्याप्तिग्रहणं प्रतिपन्नाः । तदभिमानापेक्षयासाधारणमनैकान्तिकमाह श्रावणत्वं दृष्टान्ताभावात् । साध्यधर्म्मिणि च व्याप्तिरनिष्टेरगृहीतायां व्याप्तौ सन्दिग्धोभयतयानिश्चयकरत्वात् । अथवा असाधारणतैव श्रावणत्वस्य मूढाभिमानोपकल्पिता । दृष्टैव हि शब्दव्यक्तिधर्म्मिणी विवादाधिकरणात् । अन्यथा धर्म्म्यसिद्विप्रसङ्गाच्च । दृष्टादृष्टशब्दव्यक्तिसाधारणञ्च श्रावणत्वं हेतुः । धूमसामान्यवत् । ततः सर्व्वोपसंहारवत्याः व्याप्तेः सम्भवात्सत्त्वादिवददृष्टमेव साधनं श्रावणत्वाख्यम् । क्रमयौगपद्यानुपलम्भ एव चात्र बाधकं प्रमाणम् । श्रोत्रज्ञानजन कत्वमेव हि श्रावणत्वम् । तस्मान्मूढव्यपेक्शयासाधारणत्वात् । असाधारणस्य सर्व्वोपसंहारायोगात् । साध्य धर्म्मिणि व्याप्तिप्रतीतावेव साध्यप्रतीतेः साधनवैफल्यं स्यादेव । तन्माभूव्वैफल्यमिति नैव व्याप्तिर्ग्रहीतव्या । तस्यामगृहीतायां सन्दिग्धोभयतया स्यादनैकान्तिकत्वम् । सर्व्वोपसंहारेण तु व्याप्तिग्रहणे यथोक्तन्यायेन साधनवैफल्याभावात् । अदुष्टं सत्त्वादि साधनमेवेति वेदितव्यम् । तदेवमुभयथा मूढजनापेक्षयासाधारणमनैकान्तिकमुक्तम् ।

समानञ्चैतद्वहिर्व्याप्तिवादिनामपि यदि हि मूढमतापेक्षा न स्यात्स्यादेव श्रावणत्वमदुष्टो हेतुः । सत्वादिवन्नियतशब्देषु हि विवादे शब्दान्तरं स्यात् ।

दृष्टान्तः सर्व्वशब्देषु विगतौ बाधकं प्रमाणं प्रवर्त्तम्मनमदृष्टान्तमपि तत्रैकं दृष्टान्तयतीति कथम साधारणमनैकान्तिकं वेति । ० ।

अन्तर्व्याप्तिसमर्थनं समाप्तमिति ॥ ० ॥
कृतिरियं रत्नाकरशान्तिपादानामिति ॥ ० ॥ �